०५

तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती। निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ १ ॥ प्रकाशिका इत्थं प्रासङ्गिकं परिसमाप्याधिकारिकं वृतं स्वावसरेऽवतारयति- तथेति । तथाशब्दो रतिवृत्तान्तविच्छन्नस्य कामदाहप्रकारस्य परामर्शकः । समक्षमिति मनोरथस्यात्यन्तभग्नत्वं द्योतयति । रूपं सौन्दर्यम् । हृदयेन निनिन्देति, प्रागपि रूपाभिमानस्योदात्तनायिकायां गूढत्वात् । ‘स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रत’ इति वचनात् । प्रियेष्विति विषयसप्तमी । सौभाग्यं स्पृहणीयता ॥ १ ॥ विवरणम् इत्थं कामदहनप्रसङ्गागतं रतिप्रलापवृत्तमुपसंहृत्याधिकारिकं वृत्तमेव स्वावसरेऽवतारयितुं पञ्चमः सर्गोऽयमारभ्यते । तत्र कामदहनान्तरं पित्रा गृहं प्रापिता देवी किमकरोदित्याकाङ्क्षायामाह तथेति । मनोभवं तथा समक्षं दहता पिनाकिना भग्नमनोरथा सती पार्वती हृदयेन रूपं निनिन्द। तथाशब्दोऽयं रतिप्रलापवृत्तान्तकथनविच्छिन्नं कामदहनप्रकारं कथानुसन्धानार्थं परामृशति । समक्षमिति दहनक्रियाविशेषणम् । आत्मन प्रत्यक्षं यथा भवति तथा दहतेत्यर्थः । अनेन मनोरथभङ्गस्यात्यन्तिकत्वं सूचितम् । दहता भस्मावशेषतामेव प्रापयता । अनेन दैववशात् पुनरपि जीविष्यतीत्याशाया अप्यभाव उक्तः । भग्नो भङ्गं प्रापितो मनोरथो हरजायात्वप्राप्त्यादिलक्षणः चित्तवृत्तिविशेषो यस्याः तथाभूता। सती भवन्ती पार्वती रूपं सौन्दर्यं हृदयेन निनिन्द मनसा निन्दितवती। अयमभिप्रायः - पूर्वं तावत् ‘प्रेम्णा शरीरार्धहरां हरस्य (१.५०) इति नारदवचनानन्तरं देव्याः पुरारिविषयो यो मनोरथोऽङ्कुरितः, पुनश्च परिचर्यायां तत्स्वरूपदर्शनेन यश्च संवर्धितः, तदनन्तरम् ’ उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि’ (कुमा. ३.६७) इत्यत्र यो वा प्रत्यासन्नफलतया कल्पितः, स सर्वोऽपि कामदहनदर्शनानन्तरं भग्नः, पुनश्च किमनया

, २४७ काननचन्द्रिकाकल्पया मे रूपसम्पदेति निजमेव रूपं मनसा निन्दितवतीति । मनसा निनिन्देत्यस्यायमर्थः –‘स्थिरो निगूढाहङ्कारो धीरोदात्त’ इत्युदात्तनायकलक्षणमुदात्तनायिकायामपि योजनीयम् । अतो देव्या उदात्तनायिकात्वाद् रूपाभिमानस्य स्वतो निगूढतरत्वान्निन्दनमपि मनसैव न तु वचसेति । अनया रूपनिन्दया देवस्यारूपहार्यत्वं प्रतिपादितम्। अत एव वक्ष्यति – ‘अरूपहार्य मदनस्य निग्रहात् ’ (कुमा. ५.५३) इति । निन्दायामुपपत्तिकथनेन निन्दाप्रकार - मेवाह - चारुता प्रियेषु सौभाग्यफला हि इति । प्रियेष्विति विषयसप्तमी । सौभाग्यं स्पृहणीयत्वं फलं यस्याः सा तथा । चारुतायाः प्रियविषयसौभाग्यमेकमेव हि फलं, तदभावे किं रूपसम्पदेति भावः। ‘शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समीक्ष्य ललितं वपुरात्मनश्च’ (कुमा.३.७५ ) इति तृतीयसर्गान्ते प्रकृतो भावोऽनेनोत्थापितः । प्रथमसर्गान्तप्रकृतस्य प्रयोज्योपार्वतनविधेरुपसंहारोऽप्यत्र दर्शितः ॥ १ ॥ इयेष सा कर्तुमवन्ध्यकामतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते तत् कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ २ ॥ प्रकाशिका इत्थं पूर्वप्रस्तुतं प्रयोज्योपावर्तनविधेर्वैफल्यमनुसन्धाय तत्प्रसङ्गेनालौकिकयोर्नायकयोरलौकिकमन्यदेव प्रयोज्यस्योपावर्तनमवतारयति- इयेषेति । समाधिं भग्नस्य मनोरथस्य पुनस्समाधानम् । आस्थाय अवलम्ब्य । तपोभिरिति, तेषामतिदुरापेऽपि साधनत्वात् । यथाह मनुः - यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत् सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥ इति । तथाविधं शरीरार्धप्रदम् । तादृशोऽनन्यनारीकः । उक्तञ्च ‘प्रेम्णा शरीरार्धहरा हरस्य’ (कुमा. १.५० ) इति, ‘अनन्यभाजं पतिमाप्नुहि’ (कुमा. ३.६३) इति च । अनेनोत्साहात्मनो वीरस्य वर्णयिष्यमाणस्योपक्षेपः ॥ २ ॥ विवरणम् अथ लोकोत्तीर्णयोर्नायकयोस्तथाविधमेव प्रयोज्योपावर्तनविधिमवतारयति- इयेषेति । सा समाधिम् आस्थाय तपोभिः आत्मनः अवन्ध्यकामतां कर्तुम् इयेष या भग्नमनोरथा सा पार्वती समाधिं भग्नमनोरथप्रतिसन्धानम् आस्थाय २४८ कुमारसम्भवे अवलम्ब्य । भग्नमनोरथानां प्रवृत्त्यनुपपत्तेरित्थमुक्तम् । तपोभिरिति बहुवचनेन वक्ष्यमाणानां बहुविधानां तपसामुपादानम् । मनोरथप्राप्तिपर्यन्तैरित्यर्थः । अत्यन्तदुरापेऽर्थे तपसामेव साधनत्वमुक्तं मनुना– यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत् सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥ इति । अत्रात्मशब्दस्यार्थप्रकरणाभ्यां सिद्धत्वेऽप्यात्मनो नित्यत्वात् तपोभिः शरीरं परित्यज्य जन्मान्तरेष्वपि स्वमनीषितं साधयिष्याम्येवेति साधयिष्याम्येवेति स्थिरनिश्चयत्वं प्रतिपादयितुमुपादानम्। यथोक्तं भागवते ‘यर्ह्यम्बुजाक्ष ? न लभेय भवत्प्रसादं जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ’ (१०.५२.४३) इति । अवन्ध्यः सफलः कामोऽभिलाषो यस्याः तस्या भावस्तत्ता, ताम् । इयेष इच्छां कृतवती । ‘इषु इच्छायामिति धातुः । लौकिकस्य प्रयोज्योपावर्तनविधेस्तादृशफलजनकत्वाभावादयं प्रयोज्योपावर्तनविधिरेव तस्या युक्ततर इत्याह – अन्यथा तद् द्वयं कथमवाप्यते इति । अन्यथा लौकिकोपावर्तनमात्रेण । तद् वक्ष्यमाणं द्वयं कथमवाप्यते लभ्यते, न कथञ्चिदित्यर्थः । किं तद् द्वयमित्यत्राह – तथाविधं प्रेम तादृशः पतिश्चेति । तथाविधं ‘प्रेम्णा शरीरार्धहराम् ’ [ कुमा. १.५० ] इति नारदवचनात् स्वशरीरार्धप्रदम् । प्रेम स्नेहः । ‘प्रेमा ना प्रियता हार्दं प्रेम स्नेहः’ इति सिंह । तादृशः ‘अनन्यभाजं पतिमाप्नुहि’ इति [कुमा. ३.६३] भगवद्वचनाद् अनन्यनारीरतिः । नारदभगवद्वचनयोः कदाचिदप्यन्यथाभावानुपपत्तेः लौकिकस्योपावर्तनविधेस्तत्साधनत्वाभावाच्च देव्यास्तपश्चरणाभिलाष एव युक्ततर इति भावः । । अनेन श्लोकेनोत्साहात्मकस्य वीरस्य वक्ष्यमाणस्योपक्षेपः कृतः ॥ २ ॥ निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशं प्रति सक्तमानसाम्। उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ ३ ॥ प्रकाशिका अथ त्रिभिः श्लोकैरुदात्तगुणं कार्यसाधनं च व्यवसायस्थैर्यमाह— निशम्येति । निशम्य, सखीभ्य इति शेषः । तपसे कृतोद्यमामिति विषादः । गिरीशं प्रति सक्तमानसामिति अनुरूपाभिनिवेशिनी दिष्ट्या मे वत्सेति हर्षः । तदुभयानुभावश्च गाढालिङ्गनम् । तर्हि विषादानुरूपो निषेधो हर्षानुरूपा वानुज्ञा

२४९ वचनस्य विषय इत्याह — निवारयन्तीति । किं सर्वथा निवारणमित्याह-महत इति । कष्टात् तपस इत्यर्थः । दक्षिणावर्तस्तु – व्रतस्य मेनाया अनीप्सितत्वाद् ‘वारणार्थानामीप्सितः’ (१.४.२७ ) इत्यपादानत्वं न स्यात् । निवारयन्ती अपगमयन्तीति व्याचष्ट ॥ ३ । विवरणम् ननु नेच्छामात्रं फलपर्यन्तस्य तपसो हेतुः, अपि तु स्थिरव्यवसायत्वमपीत्युदात्तगुणभूतं कार्यसाधनक्षमं च देव्याः स्थिरव्यवसायत्वं वर्णयितुमुपक्रमते- निशम्येति । मेना एनां सुतां तपसे कृतोद्यमां गिरीशं प्रति सक्तमानसां च निशम्य वक्षसा परिरभ्य महतः मुनिव्रताद् निवारयन्ती उवाच । तपसे तपश्चरितुम्। कृत उद्यमो यया ताम् । अत्र हेतुमाह - गिरीशं प्रति सक्तमानसामिति । सक्तं मानसं यस्याः ताम् । गिरीशासक्तचित्तामित्यर्थः । पूर्वं सुतायाः तपश्चरणोद्यमः श्रुतः । पुनश्च तद्धेतुजिज्ञासायां गिरीशासक्तचित्तत्वं श्रुतमिति क्रमोऽप्यत्र विवक्षित एव । निशम्य सखीमुखादिति शेषः । वक्षसा परिरभ्य उरसा गाढमालिङ्गय। इदं च गाढालिङ्गनं शरीरक्लेशकरतपश्चरणोद्यमश्रवणजनितस्य शोकस्य, गिरीशासक्तचित्तत्वश्रवणजनितस्य अनुरूपाभिनिवेशिनी दिष्ट्या मे वत्सेति मोदस्य चानुभावः । विषादहर्षयोरनुगुणनिषेधमाह - महत इत्यादिना । अत्यन्तदुश्चरान्मुनीनां व्रतात् तपसः प्रतिषेधं कुर्वती सती उवाच । सुताया गम्यमानया चरणक्रियया मुनिव्रतमीप्सितमिति मुनिव्रतशब्दाद् ‘वारणार्थानामीप्सितः’ इति पञ्चमी । अत्र कैश्चिन्मुनिव्रतस्य मेनाया अनीप्सितत्वादपादानत्वानुपपत्तिराशङ्किता । तन्मन्दम्। भाष्यादौ कर्तुरित्यनुवृत्तेर- प्रदर्शितत्वात्॥३॥ मनीषितायार्च गृहेषु देवता- स्तपः क्व वत्से ! क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥४ ॥ प्रकाशिका मनीषितायेति । अर्चेति ‘आ धृषाद् वेति विकल्पितणिचो रूपम् । देवता इन्द्राण्याद्याः । तर्हि तप एव ननु श्रेयस्करमित्याह - तप इति । चशब्दसहायाभ्यां क्वशब्दाभ्यामैकाधिकरण्यमाक्षिप्यते । तपश्चेदं वपुश्च साध्यत्वेन साधनत्वेन च कर्तृभूतायां त्वयि नान्वयमुपेत इत्यर्थः । आक्षेपमुपपादयति — पदमिति ॥ ४ ॥ O २५० कुमारसम्भवे विवरणम् क्लेशेन विनापि मनीषितसिद्धिप्रदं कर्मान्तरमुपदर्शयति- मनीषितायेति । वत्से ! त्वं मनीषिताय गृहेषु देवताः अर्च। वत्से ! बाले! | अनवा सम्बुध्या मृदुशरीरत्वादत्यन्तदुश्चरे तपस्यनधिकार उक्तः । मनीषिताय इष्टमर्थं लब्धुम् । गृहेषु देवता प्रतिमारूपेण वर्तमानाः सौभाग्यप्रदा इन्द्राण्याद्याः । अर्च पूजय । ‘अर्च पूजायामि’ त्यस्य धातोः ‘आ धृषाद् वे ‘ति णिचो विकल्पितत्वादर्चेति रूपम्। ननु तर्हि श्रेयस्करं तप एव किमर्थमुपेक्ष्यत इत्यत्राह — तपः क्व तावकं वपुश्च क्व इति । कठिनशरीरैर्मुनिभिरेव कर्तुं शक्यं तपः क्व कुत्र वर्तते । तावकं त्वदीयम्। अत्यन्तकोमलं वपुश्च क्व अत्यन्तकठिनशरीरसाध्यस्य तपसः प्रकृत्या कोमलस्य तव शरीरस्य च परस्परान्वयो दुर्घट एवेति भावः । परस्परान्वयाभावमेवोपपादयति — पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत पतत्रिणः पुनः न इति । पेलवं प्रकृत्या मृदु । भ्रमरस्य भ्रमणस्वभावस्य भृङ्गस्य । इदमपि सहने हेतुः । ‘भ्रमु अनवस्थाने’ इति धातुः । ‘अर्तिकमिभ्रमिचमि —’ (उ०३.१३२) इत्यादिना अरच् । चिरावस्थाने तदपि दुःसहमेवेति भावः । पदं पादविन्यासम् । सहेत इति सम्भावनायां लिङ् । पतत्रिणः पक्षिणः । पदमिति अत्रापि योज्यं, सहेतेति च। यथा भ्रमरावस्थानक्षमं शिरीषपुष्पं पिकाद्यवस्थानं न सहते, तथा कोमलतरं तव शरीरं कठिनशरीरसाध्यं तपश्चरितुमक्षममेवेति भावः । अत्र पूर्वार्धे विषमालङ्कारः । ‘क्वचिद् यदतिवैषम्यान्न श्लेषो घटनामियाद्’ [काव्यप्रकाशे ] इति । उत्तरार्धे तु सादृश्यनिमित्तोऽर्थान्तरन्यासः। तयोश्च संसृष्टिः ॥ ४ ॥ इति स्थिरेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥५॥ प्रकाशिका इतीति । इत्यनुशासती हेतौ शता । अनुशासनेन हेतुनेत्यर्थः । तथापि किन्न शशाकेत्याह — स्थिरेच्छामिति । अस्य हेतोः साध्येन व्याप्तिमाह — क इति । प्रतीपयेत् प्रतिलोमं कुर्यात् । अत्रापि दीपकार्थान्तरन्यासयोः सङ्करः ॥ ५ ॥ विवरणम् इत्थं प्रवृत्तस्य जननीवचनस्य स्थिरव्यवसायायां देव्यां वैफल्यमाह—

२५१ इतीति । मेना सुताम् इति अनुशासती उद्यमाद् नियन्तुं न शशाक । सुताम् आत्मनः पुत्रीम् । इदमनुशासने हेतुः । इति पूर्वोक्तप्रकारेण अनुशासतीति हेती शता । अनुशासनेन हेतुनापीत्यर्थः । उद्यमाद् मुनिव्रतोद्योगाद् नियन्तुं निवर्तयितुं न शक्ताभूत् । अत्र हेतुमाह — स्थिरेच्छामिति । स्थिरव्यवसायामित्यर्थः । अस्य हेतोः साध्येन व्याप्तिं दर्शयति — ईप्सितार्थस्थिरनिश्चयं मनः निम्नाभिमुखं पयक्ष कः प्रतीपयेदिति । ईप्सिते अभीष्टे अर्थे वस्तुनि स्थिरः अचञ्चलः निश्चयो यस्य तादृशं मनः, निम्नप्रदेशं प्रत्यभिमुखं कृतप्रवाहं पयः जलं च कः प्रतीपयेत् प्रतिनिवर्तयेत्, न कोऽपीत्यर्थः । अत्र दीपकार्थान्तरन्यासयोः सङ्करः ॥५ ॥ कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी । अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपः समाधये ॥६॥ प्रकाशिका उत्साहस्य द्वितीयामवस्थां वर्णयति— कदाचिदिति । कदाचिद् अवसरे लब्ध इत्यर्थः । आसन्नेत्युभयत्र विस्रम्भ उक्तः । उभयत्र विस्रब्धं हि मित्रमर्थकारि । मनोरथज्ञं मनोरथश्चेद् दुर्वार इति जानानम् । मनस्विनी स्थिरचित्ता | अत एवाह - फलोदयान्ताय । फलोदय एवावसानमस्य तपस इति निश्चित्येत्यर्थः । तपस्समाधये तपस्यैकाग्र्याय । तच्च न गृहवासे सिध्येदिति भावः ॥ ६ ॥ विवरणम् एवम् अङ्कुरितस्योत्साहस्य क्रमेण वृद्धिं वर्णयितुं द्वितीयामवस्थामाह- कदाचिदिति । सा कदाचित् पितरं फलोदयान्ताय तपः समाधये आत्मनः अरण्यनिवासम् आसन्नसखीमुखेन अयाचत । कदाचित् प्रश्नावसरे लब्धे । फलोदये फलप्राप्तावेव अन्तोऽवसानं यस्य तादृशाय । तपसि यः समाधिः चित्तैकाग्र्यं तस्मै । यद्यपि कादाचित्कं मनः समाधानं गृहावस्थानेऽपि सम्भवेत्, तथापि फलोदयपर्यन्ते तपसि मनः समाधानमरण्यनिवास एव सुलभमिति भावः । अरण्ये कानने निवासम् । आसन्नायाः समीपवर्तिन्याः सख्या मुखेन । या पितृनियोगादनवरतम् आत्मनः समीपे वर्तते, सैवात्रासन्नसखीत्युच्यते । तेन तस्याः उभयत्र विस्रम्भ उक्तः । उभयत्र विस्रब्धो हि बन्धुरर्थसाधको भवति । अयाचत याचितवती । पितुरभिलाषसाधकत्वे २५२ कुमारसम्भवे हेतुमाह — मनोरथज्ञमिति । मनोरथं जानातीति तथा । मनोरथस्वरूपस्य सर्वलोकदुर्वारत्वं जानानमित्यर्थः । देव्याः फलोदयान्ते तपसि सामर्थ्यमाह – मनस्विनीति । स्थिरचित्तेत्यर्थः । महाकार्ये कृतोद्योगो विघ्नैराहतमानसः । प्रारब्धं न त्यजति यः स मनस्वीति कथ्यते ॥ इति वचनात् ॥ ६ ॥ तृतीयामाह— अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात् प्रथितं तदाख्यया

जगाम गौरीशिखरं शिखण्डिमत् ॥७॥ प्रकाशिका अथेति । अथशब्दो वनवासोपक्रमद्योतकः । गरीयसा धीरेण । एतच्च तथातोषे हेतुः, तोषश्चानुज्ञायां सा च गमने, कन्यानां पितृपरतन्त्रत्वात् । प्रजासु जनेषु । तदाख्यया गौरीशिखरमित्याख्यया । शिखण्डिमदिति दुष्टसत्त्वाभाव उक्तः । एवमुत्तरोत्तरमुत्साहस्य प्रकर्षावस्था द्रष्टव्या ॥ ७ ॥ विवरणम् पितृनियोगपुरस्सरं तपोनुरूपदेशप्राप्तिमाह- ।

अथ अथेति । अथ सा गुरुणा कृताभ्यनुज्ञा गौरीशिखरं जगाम । याचनानन्तरम्। वनवासोपक्रमद्योतको वायमथशब्दः । गुरुणा पित्रा । कृता विहिता अभ्यनुज्ञा नियोगो यस्याः सा तथा । इदं तु गमने हेतुः, कन्यकानां पितृपरतन्त्रत्वात्। ‘पिता रक्षति कौमार’ इति वचनात् । गौरीशिखरं हिमवच्छृङ्गविशेषं जगाम । जगाम । अनुज्ञायां हेतुमाह — अनुरूपाभिनिवेशतोषिणेति । अनुरूपे आत्मानुरूपे वरे विषये योऽभिनिवेशः अभिलाषोत्कर्षः तेन तोषितुं सन्तोषितुं शीलमस्येति तथा । तथातोषे हेतुमाह – गरीयसेति। धीरेणेत्यर्थः । महान्तो ह्यनुरूपाभिनिवेशेन तुष्यन्ति, नाप्यरण्यनिवासाद् बिभ्यति। गौरीशिखरशब्दस्यान्वर्थतां दर्शयति — पश्चात् तदाख्यया प्रजासु प्रथितमिति । पश्चाद् गौरीनिवासानन्तरं तदाख्यया गौरीशिखरमित्याख्यया नाम्ना प्रजासु जनेषु प्रथितं

२५३ प्रसिद्धम्। गौरीचिरनिवासेनैव हेतुना जनैः गौर्याः शिखरमिति व्युत्पत्त्या गौरीशिखरमिति गीयमानमित्यर्थः । गौरीशिखरस्य विशेषतो रमणीयत्वमाहशिखण्डिमदिति। शिखण्डिनो बर्हिणः । भूम्नि मतुप् । बहुबर्हियुक्तमित्यर्थ । अनेन केकालापमयूरनृत्तादिषु विकारहेतुषु सत्स्वपि देव्या धीरत्वात् तपोलोपशङ्काया अभावः सूचितः । ‘विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।’ (कुमा.१.५९) इतिवत्। तपः सौकर्यार्थं दुष्टसत्त्वानामभावोऽप्यनेनैव ध्वन्यते । नहि शार्दूलाद्यधिष्ठिते देशे शिखण्डिनस्तद्भयान्नि-वसन्ति ॥ ७ ॥ विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम्। बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥८ ॥ प्रकाशिका अथ तपस उपक्रमं षड्भिः श्लोकैर्वर्णयति — विमुच्येति । अहार्यनिश्चयेति तथादुःस्पर्शवल्कलबन्धनकालभाविविशेषणम् । यष्टिशब्देन यष्ट्याकारो हारप्रदेश (विषेष) उच्यते। विलुप्तं हृतम् । बभ्रुत्वेन दुःस्पर्शत्वहेतु-भूतमप्रशान्तकषायत्वं नवत्वं द्योत्यते । पयोधरोत्सेधे तदाभोगपिधानाय विस्तारितत्वाद् विशीर्णा संहतिः समूहो यस्य । दक्षिणावर्तस्तु — संहतिः श्लक्ष्णत्वमित्याह । श्रूयते च तपस्विकन्यानामपि शाकुन्तलादौ स्तनावरणवल्कलम् । बालारुणबभ्रुत्वं हृतस्तनचन्दनत्वेन हारस्यापि समानम् ॥ ८ ॥ विवरणम् अथ षड्भिः श्लोकैः तपस उपक्रमो वर्ण्यते । तत्रादौ तपश्चरणाङ्गभूतं वल्कलबन्धनमाह- विमुच्येति । सा हारं विमुच्य वल्कलं बबन्ध । हारं परित्यज्य स्तनावरणार्थं वल्कलं वक्षसि बद्धवती । इदं तु परिधानवल्कलस्याप्युपलक्षणम् । मनोहरहारपरित्यागे दुःस्पर्शवल्कलबन्धने च हेतुमाह — अहार्यनिश्चयेति । अहार्यः अनिवार्यः निश्चयोऽध्यवसायो यस्याः सा तथा । तथाविधहारपरित्यागस्यान्यदुष्करत्वं द्योतयितुं हारस्य मनोहारित्वमाह-विलोलयष्टिप्रविलुप्तचन्दनमिति । यष्टिशब्देन अत्र यष्ट्याकारो हारप्रदेश (विशेष) उच्यते। विलोलया चञ्चलया यष्ट्या प्रविलुप्तं हतं चन्दनं येन तत् तथा । कुचतटहरिचन्दनाङ्कितमित्यर्थः । कुचाभोगे वल्कल-२५४ कुमारसम्भवे स्यानौचित्यं द्योतयितुं वल्कलस्य दुस्स्पर्शत्वमाह - बालारुणबभ्रु इति । बालारुणो बालार्कः तद्वद् बभ्रु पिङ्गलवर्णम् । ‘बभ्रु स्यात् पिङ्गले त्रिषु’ इत्यमरः । अनेन वल्कलस्य नवत्वं द्योत्यते । तेन चाप्रशान्तकषायत्वादत्यन्तदुःस्पर्शत्वम् । इदं च विशेषणं हारस्यापि समानं, तस्यापि स्तनाङ्गरागारुणितत्वात् । तादृशमपि वल्कलं तादृशे स्तनाभोगे गाढं निबद्धमित्याह – पयोधरोत्सेधविशीर्णसंहतीति । पयोधरयोः स्तनयोरुत्सेधेन वर्धनेन विशीर्णा विश्लेषं प्राप्ता संहतिरवयवसमूहो यस्य तत् तथा । पयोधरयोरतिमहत्त्वेन तदाभोगपिधानार्थं वल्कलस्यात्यन्तविस्तारितत्वात् तदवयवानां परस्परविश्लेषोऽपि तदा जात इति भावः । अथवा यौवनारम्भेण प्रतिक्षणं विजृम्भमाणे पयोधरे सति तत्सङ्घर्षवशात् परस्परविश्लिष्टावयवसमूहमिति । उक्तं च शाकुन्तले पयोधरयोस्तथा वर्धनं ‘पओहरवित्थारइत्तअं अत्तणो जोव्वणं उवाळह’[१.१७.४] इति । अनेन तादृशयौवनेऽत्यन्तमसम्भावितं तपस्येकाग्रचित्तत्वं प्रतिपाद्यते, तेन च प्रस्तुतस्योत्साहस्योत्कर्षः । अत एवोक्तम् — अहार्यनिश्चयेति । अत्र परिवृत्तिरलङ्कारः। ‘परिवृत्तिर्विनिमयो योऽर्थानां स्यात् समासमैः ’ [ काव्यप्रकाशे ] इति ॥ ८ ॥ यथा प्रसिद्धैर्मधुरं शिरोरुहै- र्जटाभिरप्येवमभूत् तदाननम्। न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥ प्रकाशिका यथेति । प्रसिद्धैश्चर्णादिभिर्भूषितैः । ‘प्रसिद्धौ ख्यातभूषिताविति सिंहः । यथा मधुरमित्यन्वयः । तत्र प्रतिवस्तुना ‘किमिव हि मधुराणां मण्डनं नाकृतीनामिति [ शाकु. १.१८ ] न्याय उद्भावितः । अनयोः परिवृत्तिरलङ्कारः ॥ ९ ॥ विवरणम् तपोनुरूपं जटाधारणमपि भङ्गयन्तरेणाह - यथेति । तदाननं प्रसिद्धैः शिरोरुहैः यथा मधुरम् अभूद्, जटाभिरपि एवम् । तस्या आननं मुखं प्रसिद्धैः भूषितैः । ‘प्रसिद्धौ ख्यातभूषितावित्यमरः । चूर्णकुसुमाद्यलङ्कृतैरित्यर्थ । शिरोरुहैः केशैः मधुरं मनोहरम् । ‘स्वादुप्रियो तु मधुरावि’ त्यमरः । एवंशब्दस्तथाशब्दार्थे । यथा तपः समयात् पूर्वं तदाननं भूषितैः केशैः मधुरमभूत्, पुनर्जटाभिरपि तथा मधुरमभूदित्यर्थः । ‘किमिव हि मधुराणां

२५५ मण्डनं नाकृतीनाम् ’ [ शाकु. १.१८] इति न्यायेन । अस्मिन्नर्थे प्रतिवस्तूपमां दर्शयति — पङ्कजं षट्पदश्रेणिभिरेव न सशैवलासङ्गमपि प्रकाशते इति । षट्पदानां श्रेणिभिः समूहैरेव न केवलं प्रकाशते, अपितु सशैवलासङ्गमपि। शैवलैरासङ्गः सम्पर्कः शैवलासङ्गः, तत्सहितं सशैवलासङ्गं, तथाभूतं सदपि प्रकाशते शोभते । ‘काशृ दीप्तौ’ इति धातुः । अत्रापि पूर्वार्धे परिवृत्तिर्द्रष्टव्या ॥ ९ ॥ प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रशनागुणास्पदम्॥१०॥ प्रकाशिका प्रतिक्षणमिति । प्रतिक्षणं रोमाञ्चकरणं मौञ्ज्यास्त्रिगुणत्वेन दुस्सहतरत्वात्। व्रतायेत्यावश्यकत्वमुक्तम्। तत्पूर्वनिबद्धत्वं रागहेतुः । रशनागुणास्पदशब्देन रशनापरिवृत्तिर्द्यात्यते ॥ १० ॥ विवरणम् व्रतायावश्यकर्तव्यं मौञ्जीबन्धनमप्याह– , प्रतिक्षणमिति । सा त्रिगुणां यां मौञ्जीं व्रताय बभार तत्पूर्वनिबद्धया तया अस्याः रशनागुणास्पदं सरागम् अकारि । त्रयो गुणा आवृत्तयो यस्यास्ताम्। यां मौञ्जीं मुञ्जलतया कृतां मेखलां व्रताय बभार । तत्पूर्वमिति बन्धनक्रियाविशेषणम् । तदेव बन्धनं पूर्वं यथा भवति तथा नितरां बद्धया । इदम्पूर्वनिबद्धयेत्यर्थः । इदं सरागत्वविधाने हेतुः। तया मौञ्ज्या अस्याः पार्वत्याः रशनागुणास्पदं काञ्चीगुणस्थानम् । सरागमकारि राग आरुण्यं तद्युक्तं कृतम्। प्रतिक्षणं कृतरोमविक्रियां, त्रिगुणत्वेनात्यन्तदुःसहत्वात् क्षणे क्षणे विहितरोमाञ्चामित्यर्थः । अत्र रशनागुणास्पदशब्देन रशनां परित्यज्य तत्स्थाने मौञ्जीबन्धनं द्योत्यत इति परिवृत्तिर्ध्वन्यते । अत्र सरागादिशब्दशक्त्यार्थान्तरमपि व्यज्यते । यथा कश्चित् कामी कयाचिन्नायिकया पूर्वं चिरसङ्गतः सन् अपूर्वया त्र्यधिकगुणयान्यया सङ्गतः सुतरां रक्तो भवति, तत्संयोगे प्रतिक्षणमुद्भूतरोमाञ्चोऽपि भवति, तथास्याः कटिप्रदेशो रशनया चिरसङ्गतः सन् त्रिगुणया तत्पूर्वनिबद्धया विहितरोमाञ्चया मौञ्ज्या नितरां सरागो विहित इति ॥ १० ॥ २५६ कुमारसम्भवे निसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात्। कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ १२ ॥

प्रकाशिका २५७ महार्हेति । महार्हशब्देन हंसतूलगर्भत्वमुक्तम् । स्वकेशपुष्पैः अर्थादङ्गानि मृद्नद्भिः । बाहुलतामुपधानं कुर्वती । निषेदुषी दिवस उपविष्टा । स्थण्डिले भूमौ । केवले अनास्तृते । अत्र याज्ञवल्क्यः- इति ॥ १२ ॥ स्वप्याद् भूमौ शुची रात्रौ दिवसं प्रपदै(नियमै ) र्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा॥ (३.५१) विवरणम् अथ- स्वप्याद् भूमौ शुची रात्रौ दिवसं नियमैर्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ इति याज्ञवल्क्यवचनसिद्धत्वाद् व्रतिनामवश्यकर्तव्यं भूमिशयनमाह- महार्हेति । या महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैः अपि दूयते स्म, सा केवले स्थण्डिल एव निषेदुषी अशेत । महार्हायाम् अनर्घदुकूलनिर्मितायामतिमृदुलतूलगर्भायां च शय्यायां यत् परिवर्तनं परितो वर्तनं, कादाचित्कं विवलनमित्यर्थः, तेन च्युतैः पतितैः । स्वकेशपुष्पैः, स्वस्य केशे यानि पुष्पाणि प्रसाधिकाजनैः सौरभ्यातिशयोद्भावनार्थं निक्षिप्तानि तैः । शय्यायां पतित्वा शरीरं स्पृशद्भिरित्यर्थात् सिध्यति । किं पुनः पृथिवीगतैः पाषाणप्रमुखैः कठिनद्रव्यैरित्यपिशब्दार्थः । दूयते स्म सुकुमारशरीरत्वात् परितापं प्रापत् । सा केवले अनास्तृते । उत्तरच्छदमात्रेणापि रहित इत्यर्थः । स्थण्डिले भूमौ । न कदाचिच्छय्यायामपीत्येवकारार्थः । निषेदुषी दिवसेष्विति शेषः । दिवसेषु स्थण्डिल एवावस्थिता सती निशायां तत्रैवाशेतेत्यर्थः । भूतलशयने तदुचितमुपधानमप्याह — बाहुलतोपधायिनीति । प्रशस्तो बाहुर्बाहुलता, तामुपदधातीति ‘व्रते’ (३.२.८०) इति णिनिः । ’ आतो युक् चिण्कृतोः’ ( ७.३.३३) इति युक् । अत्र शय्यापरिवृत्तिः ॥ १२ ॥ पुनर्ग्रहीतुं नियमस्थया तया की द्वयीषु निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टिर्हरिणाङ्गनासु च ॥१३॥ २५८ कुमारसम्भवे प्रकाशिका पुनरिति । पुनर्ग्रहीतुम् अर्थात् प्रियसङ्गमसमये । नियमस्थयेति विलासत्यागे हेतुः । द्वयीषु इति पाठः । निक्षेपशब्दोऽत्र द्रव्यपरः । द्वयं निक्षेपत्वेनार्पितमिवेत्यर्थः । अत्र तुल्ययोगिता ॥ १३ ॥ विलासादीनां विराममाह- विवरणम् पुनरिति । नियमस्थया तया पुनः ग्रहीतुं द्वयीषु द्वयं निक्षेपः अर्पितमिव । नियमाः शौचादयः। ‘नियमाः शौचसन्तोषतपोयज्ञहुतादयः’ इति भोजः । तेषु तिष्ठन्त्या । इदं विलासादेरन्यत्र निक्षेपे हेतुः । पुनः अर्थात् प्रियसङ्गमसमये । ग्रहीतुं स्वीकर्तुम् । द्वयीषु वक्ष्यमाणासु वस्तुद्वयीषु । द्वयं वक्ष्यमाणं वस्तुद्वयम् । अभीष्टकाले समादातुं सत्यवादिनि भ्रमादिरहिते विश्वसनीये जने धनस्य न्यासो निक्षेप इत्युच्यते । निक्षिप्यतेऽसाविति व्युत्पत्त्या तद्धनं च निक्षेपशब्दार्थः । अत्र तु निक्षेपशब्दो द्रव्यपरः, निक्षेपक्रियायाः अर्पणक्रियान्वयानुपपत्तेः । अर्पितमिव निक्षेपरूपेण न्यस्तमिवेत्युत्प्रेक्षा । किं तद् द्वयं, कासु वा द्वयीष्वित्याशङ्कायामाह – विलासचेष्टितं तन्वीषु लतासु विलोलदृष्टिः हरिणाङ्गनासु चेति । विलासेन यच्चेष्टितं व्यापारः, तत् तन्वीषु कृशासु लतासु मालत्यादिषु अर्पितम् । विलोला चञ्चला दृष्टिः हरिणाङ्गनासु मृगीषु च अर्पिता । तपस्समये निश्चलशरीरायां नासाग्रदत्तलोचनायां च देव्यां विलासविलोलविलोचनयोरदर्शनं लतासु मृगीषु च तद्दर्शनं चात्रोत्प्रेक्षाहेतुः ॥ १३॥ अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्नविनी व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ १४ ॥ प्रकाशिका अथ द्वाभ्यां मुनिवृत्तिं वर्णयति- अतन्द्रितेति । तन्द्रा आलस्यम्, अनलसेत्यर्थः । वृक्षकान् अल्पार्थे कः । स्वयमेवेति ‘स्वयं दासास्तपस्विन’ इति न्यायाद्, नान्यैः । गुहोऽपीति, विश्वस्यापि पितरौ शिवौ येनैव पुत्रिणौ, सोऽपीत्यर्थः । अत्र हेतुः प्रथमाप्तजन्मत्वम् । प्रथममेव वात्सल्यस्य रूढमूलत्वादित्यर्थः । अत्र विरोधोऽलङ्कारः ॥१४॥

विवरणम् इत्थमुपक्रान्ततपसो देव्याः समाधेरुपरमे तत्कालोचितां मुनिवृत्तिं वर्णयति- २५९ अतन्द्रितेति । सा अतन्द्रिता स्वयमेव वृक्षकान् व्यवर्धयत्। अतन्द्रिता अनलसेत्यर्थः । स्वयमेव, न तु परिजनैः । ‘स्वयं दासास्तपस्विन’ इति न्यायादिति भावः । वृक्षकान्, वृक्षशब्दादल्पार्थे कः । बालवृक्षानित्यर्थः । व्यवर्धयद् विशेषेण अवर्धयत् । स्वयमेव बीजावापपुरःसरमुत्तमवृक्षानुत्पाद्य घटोदकेन सिञ्चती तानतितरामवर्धयदित्यर्थः। बालवर्धनोपायभूतं जलाहरणं भङ्गयन्तरेणाह — घटस्तनप्रस्नविनीति । घट एव स्तनः घटस्तनः, तस्य प्रस्नवः क्षरत् क्षीरं, तद्वती। अत्र स्तनप्रस्नवशब्दौ वक्ष्यमाणपुत्रवात्सल्यस्फुरणार्थौ । एवम्भूतेषु वृक्षेषु देव्या वात्सल्यातिशयं भङ्गयन्तरेणाह – गुहः अपि येषां पुत्रवात्सल्यं न अपाकरिष्यतीति । गुहोऽपि, त्रैलोक्यपितरावपि पार्वतीपरमेश्वरौ येनैव पुत्रवत्त्वाभिमानमुद्वहतः, स सुब्रह्मण्योऽपीत्यर्थः । येषां वृक्षाणाम्। सम्बन्धषष्ठी चेयम् । पुत्रवात्सल्यं पुत्रा ममैत इति देव्या वात्सल्यम् । पुत्रेषूचितं वात्सल्यमित्यर्थः । न अपाकरिष्यति स्वोद्भवानन्तरं न निराकरिष्यति । तत्र हेतुमाह – प्रथमाप्तजन्मनामिति । ‘गुहोद्भवात् पूर्वमेवाप्तं प्राप्तं जन्म यैस्तेषाम् । देव्यास्तद्विषयस्य वात्सल्यस्य नितरां रूढत्वादित्यर्थः । नहि रूढमूलो महद्भिरपि चाल्यत इति भावः । अत्र वात्सल्यापाकरणाभावो गुहं प्रति विरुद्ध इति विरोधोऽलङ्कारः ॥ १४ ॥ अरण्यबीजाञ्जलिदानलालिता- स्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाममिमीत लोचने ॥ १५ ॥ प्रकाशिका अरण्येति । अरण्यबीजं नीवारादि । कुतूहलात् कियदन्तरमिति ज्ञातुमौत्सुक्यात् । लोचने अर्थादात्मीये ॥ १५ ॥ विवरणम् सर्वभूतदयापरायां वनमात्रनिवासिन्यां देव्यां मृगाणामपि विश्वासातिशयमाह- अरण्येति । हरिणाः तस्यां तथा च विशश्वसुः । हरिणाः मृगाः । तथा वक्ष्यमाणप्रकारेण । चशब्दोऽवधारणे, तथैव। विशश्वसुः विश्वासं जग्मुः । तथाशब्दोक्तां विश्वासस्य परमकाष्ठामेव प्रदर्शयति-यथा कतहलात सखीनां पर । २६० कुमारसम्भवे तदीयैः नयनैः लोचने अमिमीतेति । यथा यादृशे विश्वासे सतीर्थः । पार्वतीत्यर्थात् सिध्यति। कुतूहलाद् मद्विलोचनहरिणविलोचनयोः कियदन्तरमिति ज्ञातुं बालस्वभावमात्रजनितादौत्सुक्यात् । सखीनां पुरः, न तु रहसि । अनेन विश्वासाधिक्यमुक्तम् । लोचने आत्मीये इति शेषः । अमिमीत मानं कुर्यात्, तथा विशश्वसुरिति पूर्वेणान्वयः । विश्वासाधिक्ये हेतुमाह – अरण्यबीजाञ्जलिदानलालिता इति । अरण्यभवानां बीजानां नीवारादीनाम् अञ्जलयः अरण्यबीजाञ्जलयः । अञ्जलयः करसम्पुटानि । अञ्जलिपरिमितानामारण्यबीजानां दानेन लालिता इत्यर्थः । अत्राञ्जलिशब्दस्योपादानमौदार्यं प्रतिपादयितुम् । यावता विश्वासेनात्मीयं नयनं मृगनयनस्योपरि निधाय मध्ये मध्ये कियदन्तरमनयोरिति सखीजनं पृष्ट्वा मानं कर्तुं शक्यते, नीवारादिदानलालितानां मृगाणां देव्यां तावान् विश्वासो बभूवेति विश्वासाधिक्यमेवात्र प्रतिपाद्यं, न तु मानमपि । यदि देव्याः कदाचिदेवम्भूतमानापेक्षा भवेत्, तर्हि तदपि कर्तुं शक्यमेवेति भावः । मृगपोषणमपि मुनीनां स्वभावः । यथोक्तं रघुवंशे – ‘तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः । ’ (५.७) इति ॥ १५ ॥ कृताभिषेकां हतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते ॥ १६ ॥ प्रकाशिका मुनिवृत्तेः प्रभावमाह - उत्तरासङ्गः कृतेति । त्वग् वल्कलम्। उत्तरीयम्। अधीतिनीमिति अनयाधीतमित्यर्थे ‘इष्टादिभ्यश्च’ (५.२.८८ ) इतीनिः । कृताध्ययनामित्यर्थः । अत्र विशेषणानि दिदृक्षाभिप्रायाणीति परिकरः । ननु बालैर्वृद्धा उपस्थेया इत्याह-न धर्मवृद्धेष्विति । तद्धि मुख्यं वृद्धत्वमिति भावः ॥ १६ ॥ विवरणम् इत्थमनुष्ठिताया मुनिवृत्ते प्रभावातिशयमाह- कृताभिषेकामिति । मुनयः तां दिदृक्षवः अभ्युपागमन्। मुनयः कृतबहुकालतपसो महर्षयः । तां पार्वतीं दिदृक्षवः द्रष्टुमिच्छवः । इदं च तत्त्वजिज्ञासुत्वादीनामप्युपलक्षणम् । अभ्युपागमन् अभिमुखीकृत्य तत्समीपं प्राप्ताः । तत्त्वजिज्ञासया

२६१ तत्समीपमुपगम्यावसरं प्रतीक्षमाणास्तदभिमुखं स्थिता इत्यर्थः । अनेन गुणानुरागात् सदैव तत्रावस्थानमपि दर्शितम् । दिदृक्षाभिप्रायाणि विशेषणान्याह - कृताभिषेकामित्यादिना। कृतः अभिषेकः त्रिषवणस्नानं यया ताम् । अनेन शरीरशुद्धिरुक्ता । सर्ववैदिकर्मणां स्नानमूलत्वात् स्नानस्य प्रथममुपादानम् । अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन । स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम्॥ इति स्मृतेः । स्नानानन्तरं सायम्प्रातरवश्यकर्तव्यस्य होमस्याप्यनुष्ठानमाह हुतजातवेदसमिति। हुतो जातवेदा अग्निर्यया ताम् । अयं तु तपश्चरणाङ्गभूतो नैमित्तिको होमः, न तु नित्यः, तस्य विवाहानन्तरमेव विहितत्वात् । अनेनान्तःकरणशुद्धिरुक्ता । वनस्थोचितकर्मानुष्ठानमाह – त्वगुत्तरासङ्गवतीमिति । त्वग् वल्कलम्। उत्तरासङ्ग उत्तरीयम् । वल्कलोत्तरीयवतीमित्यर्थः । इदं तु परिधानवल्कस्याप्युपलक्षणम् । अनेन सङ्गनिवृत्तिद्वारेणान्तः करणशुद्धिरेव प्रतिपाद्यते । रागद्वेषौ हि मानसमाविलयतः । ‘मुमुक्षवोऽप्यधीयीरन् दुरितक्षयकाम्यया’ इत्यादिवचनसिद्धं दुरितक्षयप्रयोजनमध्ययनमाह – अधीतिनीमिति । कृताध्ययनामित्यर्थः । अनयाधीतमिति ‘इष्टादिभ्यश्च’ (५.२.८८ ) इतीनिप्रत्ययः । अनेन दुरितक्षयद्वारेणात्मशुद्धिरुक्ता । एतैश्च विशेषणैर्देव्या दर्शनमात्रस्यापि पापक्षयहेतुत्वमुक्तमिति विशेषणानां दिदृक्षाभिप्रायत्वात् परिकरोऽलङ्कारः । ननु बालैर्वृद्धा एव सेव्याः, अत्र तु विपरीतमेव दृश्यत इत्यत्राह – धर्मवृद्धेषु वयः न समीक्ष्यत इति । धर्मवृद्धेषु शीलवृद्धेषु। वेदोक्तार्थानुष्ठानतत्परेष्वित्यर्थः । चतुर्विधं हि वृद्धत्वम् । तत्र वैराग्येणैकं वृद्धत्वम्। यथोक्तं स्कान्दपुराणे - ‘वैराग्येणापि वृद्धस्ते सूनुः पर्वतकन्यके!’ इति । ज्ञानशीलवयोभिस्त्रीणि । यथोक्तं रामायणे – ‘ज्ञानवृद्धैर्वयोवृद्धैः शीलवृद्धैश्च सज्जनैः, कथयन्नास्त वै नित्यम्’ इति । येषु त्रिविधं वृद्धत्वम् एकैकं वा, तेषु वयो न समीक्ष्यते न निरूप्यते । वयोवृद्धत्वस्याप्राधान्यादिति भावः । देव्यां तु शीलवृद्धत्वमेव सर्वैरपि विशेषणैः प्राधान्येनोपात्तम्। त्वगुत्तरासङ्गवतीमित्यनेन वैराग्यवृद्धत्वम्, अधीतिनीमित्यनेन ज्ञानवृद्धत्वमप्यर्थादुपात्तमिति मन्तव्यम् ॥ १६ ॥ विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तत्र बभूव पावनम् ॥१७॥ २६२ कुमारसम्भवे प्रकाशिका विरोधीति । पूर्वशब्देनानादित्वमुच्यते । अभीष्टैः, यद्यदिच्छति तेन तेनेत्यर्थः । प्रसवैः फलपुष्पैः । तत्र गौरीशिखरे | पावनं दर्शनादपीत्यर्थः । एवं गुणानुरागादागच्छत्स्वावसथं मुनिषु न केवलं देव्या आश्रममात्रम्, अपित्वेवंगुणविशिष्टं तपोवनमेव तत्रासीदित्यर्थः॥१७॥ विवरणम् तादृशदेवीनिवासभूतस्य तपोवनस्यापि प्रभावातिशयमाह- विरोधीति । तत्र पावनं तपोवनं बभूव । तत्र गौरीशिखरे | पावनं दर्शनमात्रेणापि शुद्धिकरमित्यर्थः । तपोवनं न देव्या आश्रममात्रम्, अपितु एवम्भूतगुणविशिष्टत्वात् तपोवनमेव बभूवेति भावः । तपोवनोचितानि विशेषणान्याह - विरोधिसत्त्वोज्झितपूर्वमत्सरमित्यादिना । विरोधिभिः जात्या वैरिभिः सत्त्वैः गजसिंहादिजन्तुभिः उज्झितः त्यक्तः पूर्वमत्सरः अनादिवैरं यस्मिंस्तत्तथा । ’ स्पृशति कलभः सैंहीं दंष्ट्रां मृणालधिया मुहुरित्यादितपोवनवृत्तान्तोऽत्र द्रष्टव्यः । गुणानुरागा - दागच्छतां मुनीनामातिथ्यवेलायां यद्यदभीष्टं तत्तत् सर्वं तपोवनपादपेष्वासीदित्याहद्रुमैरभीष्टप्रसवार्चिताऩिथीति । द्रुमैः देवीतपोवनोद्भवैर्वृक्षैः । अत्रार्चने देव्या एव कर्तृत्वेऽपि वृक्षाणां कर्तृत्वेनोपादानं तत्तदवसरे तत्तद्रव्योत्पादनेन वृक्षाणामेव प्राधान्यद्योतनार्थम्। अभीष्टैरिष्टैः कटुतिक्तमधुरादिषु द्रव्यविशेषेषु यादृशान्यतिथीनामत्यन्तमिष्टानि, घर्मादिकालविशेषेषु यादृशान्याकाङ्क्षितानि च तादृशैः प्रसवैः फलपुष्पैः । ‘प्रसवः पुष्पफलयोरिति भोजः । तैरर्चिताः पूजिता अतिथयः आगन्तुका यस्मिंस्तत् तथा। सायम्प्रातरवश्यकर्तव्यस्य होमस्य साधनभूतोऽग्निरपि तपश्चरणातिथिसत्कारादिकार्यान्तरव्याकुलयापि देव्या सावधानतया सम्भृतोऽभूदित्याहनवोटजाभ्यन्तरसम्भृतानलमिति । नवस्याभिनवस्य उटजस्य पर्णशालायाः । ‘पर्णशालोटजोऽस्त्रियामिति सिंहः । अभ्यन्तरे अन्तराले । ‘अभ्यन्तरं त्वन्तरालम्’ इति सिंहः । अन्तर्भाग इत्यर्थः । सम्भृतः सम्यग्रक्षितः अनलः अग्निर्यस्मिंस्तत्तथा । वर्षादिभयनिवृत्त्यर्थं नवत्वमुपात्तम्। सम्भृतानलत्वमपि तपोवनानां साधारणो धर्मः । पावनत्वोपपादने हेतुश्च ‘गावो विप्रास्तथाग्निश्च यस्मिन् देशे प्रतिष्ठिताः, तं देशं पावनं विद्याद्’ इति वचनात् ॥ १७ ॥ यदा फलं सर्वसमा समाधिना न तावता लभ्यममंस्त वाञ्छितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत् सा चरितुं प्रचक्रमे ॥ १८ ॥ ॥

२६३ प्रकाशिका अथोत्साहस्य परां काष्ठां वर्णयितुमुपक्रमते — यदेति। तावता तन्मात्रेण, तपोमात्रेणेत्यर्थः । आनुषङ्गिकस्य फलान्तरस्य प्रभावादेर्लाभाद् वाञ्छितमिति विशेषणम् । स्वशरीरानपेक्षणे हेतुः सर्वसमेति । सर्वत्र प्रियाप्रियेषु समा निर्विशेषचित्ता ॥ १८ ॥ विवरणम् अथेत्थमुपवर्णितस्योत्साहात्मकस्य वीरस्य परां काष्ठां वर्णयितुमुपक्रमते- यदेति । यदा सा तावता समाधिना काङ्क्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवम् अनपेक्ष्य महत् तपः चरितुं प्रचक्रमे। तावता तावन्मात्रेण । पूर्वोक्तपरिमाणेनेत्यर्थः । समाधिना तपसा काङ्क्षितं वाञ्छितं हरवशीकरणरूपं फलम्। आनुषङ्गिकाणां प्रभावादीनां फलान्तराणां तावन्मात्रेणैव तपसा लब्धत्वात् काङ्क्षितमिति विशेषणं प्रयुक्तम् । लभ्यं लब्धुं शक्यं न अमंस्त न कल्पितवती । तदा असाध्यत्वावगमसमनन्तरम् । स्वस्य शरीरस्य यन्मार्दवं शिरीषकुसुमादप्यधिकं सौकुमार्यं, तदपि अनपेक्ष्य अविचार्य महत् कठिनशरीरैरप्यत्यन्तदुश्चरं तपः चरितुं कर्तुं प्रचक्रमे आरेभे । शरीरमार्दवानपेक्षणे हेतुमाह — सर्वसमेति । सर्वत्र शीतोष्णप्रियाप्रियादिषु द्वन्द्वेषु समा तुल्यबुद्धिः । यदि काङ्क्षितं फलं दुर्लभं भवेत्, तर्हि किं ममानेन देहेनेति निश्चित्य क्रूरे तपसि सावधानचित्ता सा बभूवेत्यर्थः ॥ १८ ॥ क्लमं ययौ कन्दुकसेवयापि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मधर्मि य- मृदु प्रकृत्या च ससारमेव च ॥१९॥ प्रकाशिका तथाविधया तया न केवलं तपः प्रक्रान्तम्, अपित्ववगाढं चेति सविस्मयमाह -

क्लममिति। अत्रेदमूह्यमित्याह — ध्रुवमिति । यद् वपुः काञ्चनपद्मधर्मि, तत् प्रकृत्या मृद्वपि ध्रुवं ससारमेवेत्यन्वयः । काञ्चनपद्मधर्मित्वस्य हेतोः ससारत्वेन साध्येन व्याप्तिर्दशिता । अर्थान्तरन्यासप्रकारश्चायम् ॥ १९ ॥ विवरणम् न केवलं देवी दुश्चरे तपसि निश्चलं मनश्चकार, अपितु तपस्समुद्रावगाहनमेव • कृतवतीति सविस्मयमाह-२६४ कुमारसम्भवे क्लममिति । या कन्दुकसेवया अपि क्लमं ययौ तया मुनीनां चरितं व्यगाह्यत। कन्दुकसेवया कौतुकमात्रारब्धया कन्दुकस्य सेवया कन्दुकाघातेनापि क्लमं ययौ शरीरसादमगात्, तया मुनीनां कठिनशरीराणां महर्षीणां चरितम् अत्यन्तदुश्चरतपश्चरणरूपो व्यापारः व्यगाह्यत अवजगाहे । यदत्र देव्या मृदुशरीरयापि स्थिरव्यवसायतया दुश्चरे तपसि प्रवृत्तं, तेनेदमिदानीं व्यवस्थितमित्याह — यद्वपुः काञ्चनपद्मधर्मि तत् प्रकृत्या मृदु अपि ध्रुवं ससारमेवेति । काञ्चनपद्मधर्मोऽस्यास्तीति काञ्चनपद्मधर्मि। काञ्चनमयं पद्मं काञ्चनपद्मम् । तच्च स्वर्गापगादिसमुद्भवम् । तस्य धर्मश्च मनोहरत्वम्। मनोहरं वपुः प्रकृत्या स्वभावतो मृदुत्वेन प्रतीयमानमपि नूनं ससारं शक्तिमदेव । अत्र काञ्चनपद्मधर्मित्वस्य हेतोः ससारत्वेन साध्येन व्याप्तिः प्रदर्शितेत्यर्थान्तरन्यासप्रकारभेद एवायम् ॥ १९ ॥ शुचौ चतुर्णां ज्वलतां शुचिस्मिता हविर्भुजां मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभा- मनन्यदृष्टिः सवितारमैक्षत ॥२०॥ अथ तपः प्रकारानाह- प्रकाशिका शुचाविति । शुचिग्रष्मः। विजित्य न्यग्भाव्य । प्रभाम् अर्थात् सवितुः । अनन्यदृष्टिर्निश्चलदृष्टिः। सवितात्र पञ्चमोऽग्निरिति पञ्चतपस्त्वमुक्तम्॥२०॥ विवरणम् अथ तपः प्रकारा एव कथ्यन्ते । तत्रादौ ग्रीष्मकृतं तपः प्रकारं दर्शयति— ’ शुचाविति । सा शुचौ ज्वलतां चतुर्णां हविर्भुजां मध्यगता नेत्रप्रतिघातिनीं प्रभां विजित्य अनन्यदृष्टिः सवितारम् ऐक्षत । शुचौ शुचिशब्देनात्रावयवावयविनोः सम्बन्धनियमाद् ग्रीष्मो लभ्यते । शुचिमासे लब्धप्रतिष्ठस्य ग्रीष्मस्य तापाधिक्यप्रतीतिश्च फलम्। ज्वलतामिति वर्तमानप्रयोगेण निरन्तरज्वलनमुक्तम् । तेन तापाधिक्यं ध्वन्यते । चतुर्णां पुरतः पृष्ठे पार्श्वयोश्च स्थापितानाम् । हविर्भुजामग्नीनां मध्यगता मध्यभागं गता सती । नेत्रप्रतिघातिनीम् अवेक्षकाणां नेत्राणि प्रतिहन्तुं शीलमस्या इति तथा । तादृशीं प्रभां रश्मिम्, अर्थात् सवितुरिति सिध्यति । विजित्य सतताभ्यासेन न्यग्भाव्य । अनन्यदृष्टिः निश्चलदृष्टिरित्यर्थः । उदयादारभ्यास्तमयपर्यन्तमन्यत् किमप्यनवलोकयन्ती सती। सवितारं सूर्यम् एैक्षत विलो -

२६५ कितवती। अनेन पञ्चतपस्त्वमुक्तम्। ‘ग्रीष्मे पञ्चाग्निमध्यस्थ’ इति तल्लक्षणम् । तत्र चत्वारोऽग्नयः । पञ्चमस्त्वग्निः सूर्य एव । यथोक्तं माघेन- तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥ (२.५१ ) इति । स्थिरव्यवसायत्वात् तदवस्थायास्तस्याः पीडाभावमाह — शुचिस्मितेति । शुचि निर्मलं स्मितं मन्दस्मितं यस्याः सा तथा । स्वाभाविकं शुचिस्मितत्वं तदानीमपि तथैवावस्थितमित्यर्थः। पीडायाः सम्भावनां दर्शयति — सुमध्यमेति । कृशाव लग्नेत्यर्थः । सा कथमेतादृशीं पीडां सहेत, अहो स्थिरव्यवसायत्वमस्या इति भावः । अनेन कारणसामग्र्ये सत्यपि कार्यानुत्पत्तिर्ध्वन्यते ॥ २० ॥ तथाभितप्तं सवितुर्गभस्तिभि- र्मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ २१ ॥ तत्र विषादाद्यभावमाह-

प्रकाशिका तथेति । तथा तेन निश्चलनिरीक्षणप्रकारेण । कमलश्रियं दधौ उज्ज्वलमेवाभवत्। अपाङ्गेति ससारत्वादाननेऽवकाशमलभमाना श्यामिका मृदुतरमपाङ्गमेवाश्रितवतीत्यर्थः। तच्च शोभावहमेवेति भावः ॥ २१ ॥ विवरणम् तादृशे तपसि वर्तमानाया देव्या न केवलं पीडाभावो जातः, अपितु प्रसादहेतुकमौज्ज्वल्यमेवाभूदित्याह- तथेति । सवितुः गभस्तिभिः तथा अभितप्तं तदीयं मुखं कमलश्रियं दधौ । सवितुः सूर्यस्य गभस्तिभिः रश्मिभिः तथा पूर्वोक्तप्रकारेण अभितप्तं नितरां तप्तं तदीयं मुखं देव्या वदनं कमलस्य पद्मस्य श्रियं शोभाम् । ‘श्रीरिन्दिरायां शोभायाम् इत्यजयः । दधौ दधार । यथा कमलं सूर्यरश्मिसंयोगे नितरां शोभते, तथास्या वदनमपीति भावः । न केवलं मनोहरत्वात् तद्वदनस्य कमलसाम्यम्, अपितु सूर्यरश्मिसंयोगे नितरामौज्ज्वल्याच्चेत्यर्थः । वदने निरवकाशा श्यामिका पुनस्तदीयमपाङ्गमेवाससादेत्याह-श्यामिकया केवलम् अस्य अपाङ्गयोः शनैरशनैः पदं कृतम् इति । श्यामिकया कालिम्ना । केवलशब्देन ससारे वदने निरवकाशत्व- । २६६ कुमारसम्भवे मुक्तम् । अस्य वदनस्य अपाङ्गयोः कटाक्षयोः । तयोरतिमृदुत्वादिति भावः । अपाङ्गयोर्मुखसम्बन्धित्ववचनेन यथा कश्चित् प्रबले निजशत्रौ अवकाशमलभमानस्तदीयं कञ्चन पीडयितुमारभते, तथा श्यामिकापि वदनेऽवकाशमलभमाना तदीयत्वादपाङ्गयोर्निजशक्तिं प्रकटयामासेति प्रत्यनीकालङ्कारो व्यज्यते । ‘प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकमिति [अलंकारसर्वस्वसूत्रम् ] सूत्रम् । तयोरपि न झटिति पदं कृतमित्याह - शनैश्शनैरिति । द्विर्वचनेनातिमान्द्यमुक्तम् । तेन च मृदुतरयोरनयोरपि ससारत्वं ध्वन्यते । पदम् अवस्थानं कृतम् । अपाङ्गयोस्तु सापि श्यामिका शोभावहैव । श्यामिकायास्तदपाङ्गयोर्विशेषेण शोभावहत्वमाहदीर्घयोरिति । अनेन ‘गुणिनां गुणहानिरहिता या रिपुणा सैव गुणान्तरं प्रसूते’ इति न्यायो व्यज्यते ॥ २१ ॥ अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः खलु पारणाविधि- र्न वृक्षवृत्तिव्यतिरिक्तसाधनम्॥२२॥ तत्र शरीरयात्रामाह - प्रकाशिका अयाचितेति। अयाचितोपस्थितमम्बु मेघजलम् । रसोऽमृतम्। पारणाविधिः ‘पार समाप्तावित्यस्मात् ‘ण्यासश्रन्थो युच्’ (३.३.१०७) स्त्रियाम् । व्रतसमाप्तिविधिरित्यर्थः। तथा चोपोषितभोजनं लक्ष्यते । वृक्षाणां वृत्तिर्जीविका तादृशी वृत्तिः । तपोविशेषोऽत्र वृक्षवृत्तिशब्देनोच्यते ॥ २२ ॥ विवरणम् तदवस्थाया देव्याः शरीरयात्राप्रकारमाह- अयाचितेति । तस्याः खलु केवलम् अयाचितोपस्थितम् अम्बु रसात्मकस्य उडुपतेः रश्मयः च पारणाविधिः बभूव। खलुशब्दो वाक्यालङ्कारे । केवलशब्दः साधनान्तरव्यवच्छेदार्थः । अयाचितमेवोपस्थितं प्राप्तम् अयाचितोपस्थितं, तादृशमम्बु मेघजलम्। रसात्मकस्य अमृतस्वरूपस्य । अनेन तद्रश्मीनां पारणाविधिसाधकत्वमुक्तम्। उडुपतेश्चन्द्रस्य रश्मयः किरणाः । चशब्दस्तदुभयसमुच्चयार्थः । पारणाविधिः ‘पार समाप्तावित्यस्माद् धातोः ‘ण्यासश्रन्थो युच्’ इति युचि कृते स्त्रियां पारणारूपसिद्धिः । सैव विधिः व्रतसमाप्तिरित्यर्थः । तेन चोपोषितभोजनं

२६७ देव्यास्तदवसानसुलभानि मेघजलानि, लक्ष्यते । धर्मकालपर्यन्तमुपोषिताया दिवसावसानपर्यन्तमुपोषितायास्तु निशायां निशाकररश्मयश्च पारणाविधिर्बभूवेत्यर्थः । किं बहुनेत्याहवृक्षवृत्तिव्यतिरिक्तसाधनं न इति । वृक्षाणां वृत्तिर्जीविका, ततो व्यतिरिक्तम् अधिकं यत् साधनं फलमूलादि, तन्न पारणाविधिर्बभूवेत्यर्थः । अनेनातिदुश्चरो वृक्षवृत्तिरूपस्तपोविशेषो दर्शित। अनेन श्लोकेन सर्वर्तुषु देव्याः शरीरयात्राविधिरुक्त इति नात्र मेघजलवर्णने काचिदनुपपत्तिः ॥ २२ ॥ [ साधन इति मल्लिनाथः] निकामतप्ता द्विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा । तपात्यये वारिभिरुक्षिता नवै- र्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥२३॥ प्रकाशिका निकामेति । नभश्चरो वह्निरादित्यः । नवैर्वर्षारम्भभाविभिः । तस्मात् प्रागुक्तं मेघाम्बु वार्षिकमनुसन्धेयम् । ऊष्माणं वाष्पम् । ‘ग्रीष्मोष्णवाष्पा ऊष्माणः’ इति सिंहः । ऊर्ध्वगमूर्ध्वदेशलक्ष्यमित्यर्थः ॥ २३ ॥ विवरणम् इत्थमुपवर्णितं ग्रीष्मकालकृतं तपो वर्षारम्भवृत्तान्तकथनेनोपसंहरति- निकामेति । नभश्चरेण इन्धनसम्भृतेन च द्विविधेन वह्निना निकामतप्ता तपात्यये नवैः वारिभिः उक्षिता सा भुवा सह ऊर्ध्वगम् ऊष्माणम् अमुञ्चत्। नभसि आकाशे चरतीति नभश्चरो वह्निरादित्यः । पञ्चतपसि पञ्चमाग्नित्वेन प्रसिद्धत्वादादित्यस्य वह्नित्वनिर्देशः । तापाधिक्यप्रतीतिश्च फलम् । इन्धनैः सम्भृतो वर्धितो वह्निरिन्धनसंभृतः । इत्थं द्विविधेन वह्निना भृशं तप्ता सती पुनश्च तपात्यये ग्रीष्मावसाने नवैर्वर्षारम्भसम्भूतैः वारिभिः जलैः उक्षिता सिक्ता च सती सा भुवा सर्वंसहया सह । ऊर्ध्वगम् ऊर्ध्वं गच्छतीत्यूर्ध्वगः, तम्। ऊर्ध्वदेशे धूमाकारेण लक्ष्यमित्यर्थः । ऊष्माणं वाष्पम् । ‘ग्रीष्मोष्णवाष्पा ऊष्माण’ इत्यमरः । अमुञ्चद् मुक्तवती । ग्रीष्मकाले तप्ता वर्षारम्भे जलैरुक्षिता च सती पृथिवी यथा वाष्पं मुञ्चति, तथेयमपीत्यर्थः । तत्र निकामतप्तत्वं हेतुः । तेन च शरीरे ममत्वबुद्धिविरहो द्योत्यते, तेन च तपस्येकाग्रत्वम् । अत्र सहोक्तिरलङ्कारः । ‘सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्’ इति [ काव्यप्रकाशे ] ॥ २३ ॥ २६८ कुमारसम्भवे स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सङ्गनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥२४॥ प्रकाशिका इयत्पर्यन्तं ग्रैष्मं तप उक्त्वा वार्षिकं तदाह- स्थिता इति । अत्र पक्ष्मसु स्थिता इति तेषां घनत्वात्, ताडिताधरा इति पल्लवसाम्यात्, पयोधरोत्सङ्गनिपातचूर्णिता इति तत्काठिन्याद्, वलीषु स्खलिता इति तद्वैषम्यादित्यनुसन्धेयम् । व्यवधानबाहुल्याच्च चिरेण प्राप्तिः । नाभेः प्राप्तत्वं निम्नत्वात्। प्रथमानामेवैवंभावात् प्रथमशब्दः ॥ २४ ॥ विवरणम् इत्थं ग्रीष्मकालकृतं तप उपवर्ण्य वार्षिकं तपो वर्णयितुमुपक्रमते- स्थिता इति । प्रथमोदबिन्दवः चिरेण तस्याः नाभिं प्रपेदिरे । प्रथमाः वर्षारम्भसमयभाविनः। उदबिन्दवः ‘मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ’ (६.३.६०) इत्युदकशब्दस्योदादेशः । उदकविन्दव इत्यर्थः । चिरेण महता कालेन । तस्याः नाभि प्रपेदिरे प्राप्ताः । अत्र नाभेः प्राप्यभूमित्वनिर्देशात् तस्याः नितान्तगम्भीरत्वं द्योत्यते, तेन च नाभेः सौष्ठवम् । एवमेव सर्वावयवानामपि सौष्ठव - प्रतिपादनमुखेन जलबिन्दूनां नाभेश्चिरकालप्राप्ती हेतुमाह चतुर्भिर्विशेषणैः। तत्र शिरसि पतितानां जलबिन्दूनां नयनप्राप्त्यनन्तरं तत्र क्षणावस्थानमाह - पक्ष्मसु क्षणं स्थिता इति । अक्षिरोमसु क्षणकालमवस्थिताः । अनेन पक्ष्मणां निबिडत्वमुक्तम् । तच्च सौष्ठवद्योतकम् । पुनश्च क्रमेणाधरप्राप्तिमाह — ताडिताधरा इति । पयोधरयोः कुचयोः उत्सङ्गे उपरिभागे यो निपातः पतनं, तेन चूर्णिताः चूर्णतां प्राप्ताः । पयोधरोत्सेध-निपातेति पाठे पयोधरोत्सेधः पयोधराभोगः । अत्युच्चस्थानादतिकठिनस्तनतटनिपातेन परमाणुतां प्राप्ता इत्यर्थः । पुनश्च सम्भूय अधोगमनारम्भे वलीषु स्खलिताः । वलीषु वलित्रये स्खलिताः स्खलनं प्राप्ताः । अनेन वलीनां सोपानवद् विषमत्व-मुक्तम् । अनेन क्रमप्राप्तिवर्णनेन अक्ष्यादितत्तदवयवस्थितानां जलबिन्दूनां क्लेशकरत्वाद् अवश्यंभाविनः करपरिमार्जनस्याभावो द्योत्यते, तेन चित्तैकाग्र्यम् । आतपादिशोषिते शरीरे प्रथमबिन्दूनामेव तथाप्राप्त्युपपत्तेः प्रथमशब्दप्रयोगः ॥ २४ ॥ तु

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयै- महातपः साक्ष्य इव स्थिताः क्षपाः ॥ २५ ॥ प्रकाशिका २६९ शिलाशयामिति । निरन्तरासु निविडधारासु । अन्तरे वाता यासां ला अन्तरवाता वृष्टयः। उन्मिषितैरक्षिपक्ष्मोद्घाटनैः । साक्ष्ये साक्षित्वे । समक्षदर्शी साक्षी । साक्ष्यं च ‘आदित्यचन्द्रावनलोऽनिलश्च’ इत्यागमसिद्धम् । व्यलोकयन्निवेत्यन्वयः । एवंविधे महातपसि यत् क्षपाणां साक्ष्यं, तत् तडिदुन्मेषैः स्फुटमिवासीदित्यर्थः ॥ २५ ॥ अथ वार्षिकं तपःप्रकारमेवाह— विवरणम् शिलाशयामिति । महातपस्साक्ष्ये स्थिता क्षपाः अन्तरवातवृष्टिषु निरन्तरासु शिलाशयाम् अनिकेतवासिनीं तं तडिन्मयैः उन्मिषितैः व्यालोकयन्निव । महत् तपो महातपः । ’ आन्महतः(६.३.४६) इत्यादिनात्वम् । तत्र साक्ष्यं साक्षित्वम् । ‘समक्षदर्शी साक्षी स्यादिति भोजः । तस्मिन् स्थिताः क्षपाः रात्रयः । रात्र्यादीनां कर्मसाक्षित्वमुक्तं महाभारते— आदित्यचन्द्रावनलोऽनिलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ इति। अन्तरवातवृष्टिषु अन्तरे सकलजलधारापतनानामन्तराले वाता यासां तादृशीषु वृष्टिषु। अनवरतप्रवृत्तमारुतास्वित्यर्थः । अनेन अत्यन्तासह्यत्वमुक्तम्। निरन्तरासु अन्तररहितासु । धाराणां निबिडत्वादनुपलक्ष्यपरस्परविभागास्वित्यर्थ । सन्ततप्रवृत्तास्विति वा । शिलायां शेते इति शिलाशया, ताम् । अनिकेतवासिनीं निकेते गृहे वस्तुं शीलमस्या इति निकेतवासिनी, तथाभूता न भवतीति अनिकेतवासिनी, ताम्। पर्णशालामात्रेणापि रहिते शिलाप्रदेश एव स्थित्वा देव्याः प्रावृषि तपश्चरणम्। निशासु यादृच्छिकं शयनमपि तत्रैवेत्यर्थः । अनेन विलोकनसौकर्यं ध्वन्यते । तथाभूतां तां तडिन्मयैः विद्युद्रूपैः उन्मिषितैः अक्षिपक्ष्मोद्घाटनैः व्यलोकयन् अवलोकयामासुरिव । एवंभूते महातपसि यदागमप्रसिद्धं साक्षित्वं क्षपाणां, तत् तत्कालसुलभैस्तडिदुन्मेषमयैरवलोकनव्यापारैः स्फुटतामगमदिवेत्यर्थः ॥ २५ ॥ २७० कुमारसम्भवे निनाय चात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥२६॥ अथ शैशिरं तप आह- प्रकाशिका । निनायेति। सहस्यरात्रीश्चेत्यन्वयः । हिममुत्किरतीति हिमोत्किरः । ‘इगुपध - (३.१.१३५) इत्यादिना कः । सहस्यमासेन शिशिरर्तुरुपलक्ष्यते । उदवास उदकवासः। उदकस्य ‘पेषंवासवाहनधिषु च’ (६.३.५८) इत्युदादेशः । अत्र मनुः - ‘आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः (६.२३) इति । चक्रवाकविषयया कृपया स्वायासापरिगणनं द्योत्यते । कृपा च तपसोऽङ्गम् ॥ २६ ॥ विवरणम् अथ शरदः शीतोष्णसमकालत्वाद् हेमन्तस्य शैत्याधिक्याभावाच्च तत्कालकृतस्य तपसो विस्मयकरत्वाभावात् तदुपेक्ष्य शिशिरकालकृतं तपःप्रकारमाह— निनायेति । सा उदवासतत्परा सहस्यरात्रीः च निनाय । उदवासे उदकवासे । ‘पेषंवासवाहनधिषु च’ इत्युदकशब्दस्योदादेशः । तत्परा तात्पर्यवती सती सहस्यरात्रीः । सहस्यो हेमन्तान्त्यमासः । तेन शिशिरर्तुरुपलक्ष्यते । हेमन्ते जलाधिवासविधानाभावात् । यथाह मनुः - ‘आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ’ इति । शिशिरकालरात्रीरित्यर्थः । रात्रौ शैत्याधिक्याद् अत्यन्तदुस्सहत्वप्रतिपादनाय रात्रिपदोपादानम्। चकारः पूर्वोक्तसकलकालसमुच्चयार्थः । निनाय अत्यवाहयत् । ननु कोऽत्र विस्मय इत्यत्राह - अत्यन्तहिमोत्किरानिला इति । अत्यन्तं हिमम् उत्किरन्ति विक्षिपन्तीति अत्यन्तहिमोत्किराः । ’ इगुपधज्ञाप्रीकिरः कः’ इति कः । तादृशा अनिला वायवो यासु तास्तथा । अथ देव्याः तपसोऽङ्गभूतं कृपालुत्वं वर्णयति— पुरः वियुक्ते चक्रवाकयोः मिथुने कृपावतीति । पुरः जले वर्तमानाया आत्मनः पुरोभाग एव। अनेन कृपोद्बोधहेतुभूते दर्शने सौकर्यमुक्तम्। वियुक्ते परस्परवियोगं प्राप्ते चक्रवाकयोः मिथुने द्वन्द्वे । ‘स्त्रीपुंसौ मिथुनं द्वन्द्वमित्यमरः । लोकप्रसिद्धश्च रात्रौ चक्रवाकयोर्वियोगः । कृपावती दयावती। अत्र चक्रवाकविषयायाः कृपायाः प्रतिपादनेन निजायासापरिगणनं द्योत्यते । दयापरत्वं च तपस्विनां प्रसिद्धम् । दयाया उद्बोधकं हेतुमाहपरस्पराक्रन्दिनीति । परस्परं चक्रवाकी चक्रवाकं चक्रवाकस्तु

२७१ चक्रवाकीम् इत्यन्योन्यम् आक्रन्दितुम् आभीक्ष्ण्येन क्रन्दितुं शीलमस्येति तथा ॥ २६ ॥ मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्तानमिवाकरोदपाम्॥२७॥ प्रकाशिका मुखेनेति । अधरस्य पत्ररूपणान्मुखस्य पद्मरूपणमार्थमित्येकदेशविवर्तीदं रूपकम्। सरोजसन्तानं सरोजाविच्छेदम् । अत्र शिशिरकृतं पत्राकृतेरधरस्य प्रवेपनम् । मुखस्य सुगन्धित्वं प्रसिद्धम् । कान्तिमत्त्वं च सरोजसन्तानकरणोत्प्रेक्षाहेतुः ॥ २७ ॥ विवरणम् इत्थमुग्रे तपसि वर्तमानाया अपि देव्या वदनं उज्ज्वलमेवाभूदितीममर्थं भङ्गयन्तरेणाह— मुखेनेति । सा निशि पद्मसुगन्धिना मुखेन तुषारवृष्टिक्षतपद्मसम्पदाम् अपां सरोजसन्तानम् अकरोद् इव । सा उदवासतत्परत्वाद् उदके मुखमात्रदृश्या पार्वती । निशि शिशिररात्रौ । अनेन सरोजसन्तानकरणयोग्यता दर्शिता । पद्मसुगन्धिना पद्मवत् सुगन्धिना । शोभनो गन्धो यस्य तत् सुगन्धि । ‘गन्धस्येदुत्पूतिसुसुरभिभ्यः ’ ( ५.४.१३५) इतीत् । मुखस्य सुगन्धित्वं प्रसिद्धं ‘पद्मिनी पद्मगन्धा स्यादि त्यादिषु । उक्तञ्च रामायणे – ‘निश्वास इव सीताया वाति वायुर्मनोरमः ।’ इति । तुषारवृष्ट्या हिमजलवर्षेण क्षता नष्टा पद्मसम्पत् पङ्कजसमृद्धिः यासां तादृशीनाम् । अपां जलानाम् । सरोजसन्तानं सरोजानां सन्तानम् अविच्छेदम् अकरोत् कृतवतीव । तुषारवर्षादितरेषु सरोजेषु विनष्टेषु देव्या वदनसरोजमेव तदा शिशिररात्रौ जले दृष्टमासीत् । तेन च देवी कृपावशादपां सरोजसन्ततिविच्छेदाभावार्थमेकं सरोजं निजमुखेनैव कृतवतीवेति जनानामुत्प्रेक्षा जातेति भावः । मुखस्य सरोजसाम्यमेव स्फुटयति — प्रवेपमानाधरपत्रशोभिनेति । प्रवेपमानेन शीतवशात् प्रकर्षेण वेपमानेन अधरेणैव पत्रेण दलेन शोभितुं शीलमस्येति तथा । सरोजपत्रं हि वातवशात् कम्प्रं भवति । अत एव ‘अत्यन्तहिमोत्किरानिला’ इत्युक्तम्। अत्र कम्प्रदलत्वं कम्रस्वरूपत्वं सुगन्धित्वं च सरोजसन्तानोत्प्रेक्षानिमित्तम्। अधरस्य पत्ररूपणान्मुखस्य पद्मरूपणमर्थादायातमित्येकदेशविवर्ति रूपकमिदम् ॥ २७ ॥ २७२ तपोन्तरमाह- कुमारसम्भवे स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदा वदन्त्यपर्णेति च तां पुराविदः ॥ २८ ॥ प्रकाशिका स्वयमिति । काष्ठा उत्कर्षः । अत्र मनुः - ‘कालपक्वैः स्वयंशीर्णैर्वैखानसमते स्थितः” (६.२१) इति । तदपि तादृशं पर्णमपि अपाकीर्णं त्यक्तम् । प्रियंवदा इति पाठः । अपर्णा अपास्तपर्णा । चशब्दः पार्वत्याद्यवेक्षः ॥ २८ ॥ अथात्यन्तदुश्चरं तपोन्तरमाह- विवरणम् स्वयमिति । स्वयंविशीर्णद्रुमपर्णवृत्तिता हि तपसः परा काष्ठा । तया पुनः तद् अपि अपाकीर्णम् । अत पुराविदः ताम् अपर्णा इति च वदन्ति । कालपाकवशात् स्वयमेव विशीर्णैः पतितैः द्रुमाणां वृक्षाणां पर्णैः पत्रैः वृत्तिर्जीविका यत्र तपसि, तस्य भावस्तत्ता । सा हि तपसः परा काष्ठा । हिशब्दः प्रसिद्धौ । प्रसिद्धिश्च ‘कालपक्वैः स्वयंशीर्णैः वैखानसमते स्थितः’ इत्यादिषु मन्वादिवचनेषु च द्रष्टव्या । परा उत्कृष्टा, उत्कर्षान्तररहितेत्यर्थः । काष्ठा उत्कर्षः । ‘काष्ठोत्कर्षे स्थितौ दिशी’त्यमरः । तया पुनः । पुनश्शब्दो विशेषमाह । तत् स्वयंविशीर्णद्रुमपर्णमपि अपाकीर्णं त्यक्तम्। अतः पर्णत्यागादेव हेतोः । पुराविदः पूर्ववृत्तान्तवेदिनः । पर्णमस्या नास्तीत्यनया व्युत्पत्त्या तामपर्णेति च वदन्तीत्यर्थः । आभिजात्यादिश्लाघिबन्धुजनोदीरितपार्वत्यादिनामसमुच्चयार्थश्च शब्दः । अपर्णेति वादिनां पुराविदां पार्वतीत्यादिवादिभ्यो बन्धुजनेभ्यो विशेषमाह – प्रियंवदा इति । प्रियम् इष्टं वदन्तीति तथा। आत्मनैव कृतस्यात्यन्तदुश्चरस्य तपसः स्तुतेस्तेषां विशेषतः प्रियंवदत्वमिति भावः । प्रियंवदामिति वा पाठः । ‘प्रियवशे वदः खच्’ (३.२.३८) ‘अरुर्द्विषद- (जन्तस्य मुम्’ (६.३.६७)॥२८॥

मृणालिकापेलवमेवमादिभि- व्रतैस्तदङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ २९ ॥

२७३ अथ तपोनिष्पत्तिमाह- प्रकाशिका मृणालिकेति । एवमादिभिरेवंप्रकारैः । 1 कठिनैः शरीरैरुपार्जितं तप इत्यन्वयः ॥ २९॥ विवरणम् अथैवं क्रियमाणस्य तपसः सिद्धिमाह - मृणालिकेति । मृणालिकापेलवं तद् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा तपस्विनां कठिनैः शरीरैः उपार्जितं तपः दूरम् अधश्चकार । मृणालिका बालमृणाली । अल्पार्थे कः । तद्वत् पेलवं मृदु । अनेन हिमजलसम्पर्काद्यसहनत्वमुक्तम्। तद् लोकोत्तरम् । अनेन प्रथमसर्गप्रपञ्चितं सकलमपि सौकुमार्यमनुस्मारितम् । अङ्गं शरीरम् । एवमादिभिः पूर्वोक्तप्रकारैः व्रतैर्नियमैः । अहश्च निशा च अहर्निशम् । समित्कुशमितिवदेकवद्भावो नपुंसकत्वं च । अत्यन्तसंयोगे द्वितीया । सर्वदैवेत्यर्थः । ग्लपयन्ती शोषयन्ती । तपस्विनां महर्षीणाम्। कठिनैः जन्मतः प्रभृति परिचयवशादातपादिसंसर्गसहैः शरीरैः । उपार्जितं सञ्चितम्। तपः दूरमधश्चकार ईषत्साधर्म्येणापि रहितं यथा भवति तथात्यन्तमधः कृतवती । अनेन तपस्सिद्धिकथनेन तपोवर्णनमुपसंहतमित्यवसेयम् ॥ २९ ॥ अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन वर्चसा । विवेश कचिज्जटिलस्तपोवनं शरीरबन्धः प्रथमाश्रमो यथा ॥ ३० ॥ प्रकाशिका अथैवंविधतपःसमुद्बोधितदयाशक्तिसन्धुक्षितनैसर्गिकानुरागस्य तदुभयपरायत्तस्य सतो भवस्य परमैन्द्रजालिकस्य छद्मना स्वयमभियोगवृत्तान्तप्रकारं प्रपञ्चयति— अथेति । आषाढो व्रतिनां दण्डः । अनेन ब्रह्मचर्यं सूच्यते । प्रगल्भवाक् कः कोऽत्र भोः ! क्व वर्तते सा तथातपोनिष्ठा पर्वतराजपुत्रीत्यादि प्रगल्भं भाषमाण इत्यर्थः । दक्षिणावर्तस्तु — संस्कृतवागिति व्याख्यायात्र श्रुति च प्रमाणमाह । ब्रह्म वेदः । ब्रह्ममयेन अध्ययनप्रकर्षजनितेनेत्यर्थः । कश्चिदिति लेशतोऽपि प्रत्यभिज्ञासम्भावनां निराकरोति । जटिलो जटावान् । ब्रह्मचारिणोऽपि जटाधारणमस्ति । अत्र मनुः - ‘मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः ’ (२.२१९) इति । शरीरं२७४ कुमारसम्भवे बध्नातीति शरीरबन्धः । ‘कर्मण्यण्’ (३.२.१) । मूर्तिमानित्यर्थः । प्रथमाश्रमो ब्रह्मचर्यम्। अस्योपक्रमस्य व्याजोपहितत्वं स्वयमेवाग्रे प्रकटीकरिष्यति । व्याजश्च देव्या भावपरीक्षार्थम् ॥ ३० ॥ विवरणम् अथैवं कृतबहुविधतपःप्रकर्षसन्धुक्षितप्राक्तननैसर्गिकानुरागस्य, आयासितानामशरीरबाणैर्नितम्बिनीनां परिदेवितानि । आत्मार्थमाकर्णयतां हि यूनां समागमो नाम सुखान्तरायः ॥ इति न्यायेन ‘न कामवृत्तिर्वचनीयमीक्षते’ [कुमा. ५.८२] इत्यादिवचनानि श्रोतुकामस्य भगवतः परमेश्वरस्य व्याजेनाभियोगप्रकारं वर्णयितुमुपक्रमते- , अथेति । अथ कश्चित् तपोवनं विवेश । अथ तपस्सिद्ध्यनन्तरम् । अनेन फलप्राप्तेरासन्नत्वमुक्तम्। कश्चित् कदाचिदप्यदृष्टचरत्वात् प्रत्यभिज्ञागन्धेनापि रहित इत्यर्थः । अनेन अपरिचितत्वकथनेन देवीवृत्तान्तानामज्ञातत्वात् करिष्यमाणानां प्रश्नानां सावकाशत्वमुक्तम्। तपोवनं, देव्या इत्यर्थात् सिध्यति। तपसे वनं तपोवनम्। विवेश प्रविष्टोऽभूत् । अदृष्टचरत्वेन नामगोत्राषाढधर इति । धरतीति धरः । ‘धृञ् धारण’ इत्यस्माद् धातोः पचाद्यच् । अजिनाषाढयोर्धर इति विग्रहः । अजिनं कृष्णाजिनम्। आषाढः पलाशदण्डः । ’ पालाशो दण्ड आषाढ’ इत्यमरः । अनेन ब्राह्मणत्वमपि विज्ञातं ब्राह्मणानामेव पलाशदण्डविधानात् । अभ्यागमनवेलायामात्मनिवेदनप्रकारमाह — प्रगल्भवागिति । प्रगल्भा प्रागल्भ्ययुक्ता वाग् वाणी यस्य स तथा । कः कोऽत्र भोः ! क्व वर्तते सा तपसि निष्णाता शैलाधिराजतनयेत्यादि प्रगल्भं भाषमाण इत्यर्थः । प्रगल्भशब्देनात्र वचसो लोकोत्तरत्वमुक्तम् । रूपस्यापि लोकोत्तरत्वमाह — ब्रह्ममयेन वर्चसा ज्वलन्निवेति । ब्रह्ममयेन, ब्रह्म वेदः । तेन अध्ययनं लक्ष्यते । अध्ययनमयेन वेदाध्ययनप्रकर्षजनितेनेत्यर्थः । वर्चसा तेजसा ज्वलन्निव दीप्यमान इव । परितः प्रसर्पन्त्या शरीरसुषमया जाज्वल्यमान इवेति भावः । शोभाधिक्यमुत्प्रेक्षाहेतुः । भगवतो ब्रह्मचारित्वावलम्बनेऽपि प्राक्तनं जटाधरत्वं तथैवावस्थितमित्याह — जटिल इति । जटावानित्यर्थः । ब्रह्मचारिणामपि जटाधरत्वमुक्तं मनुना - ‘मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाधरः’ इति । तद्गुणानां पृथक् पृथग् वर्णनस्य दुष्करत्वात् समासतो वर्णयति – प्रथमाश्रमः शरीरबन्धः यथा इति । प्रथमाश्रमो ब्रह्मचर्याश्रमः । ’ ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ’ (मनुस्मृति. ६.८७) इत्यादिषु स्मृतिषु ब्रह्मचर्याश्रमस्यैव प्राथम्याद् अवलम्बनक्रमे प्राथम्याच्च । शरीरं बध्नातीति शरीरबन्धः । ‘कर्मण्यण्’ । यथाशब्दोऽयमुत्प्रेक्षाद्योतकः । ब्रह्मचर्याश्रमः स्वयमेव मूर्तिमानिव लक्ष्यमाण इत्यर्थः । लोकोत्तर-

२७५ प्रभावमुत्प्रेक्षाहेतुः । अत्र भगवतो देवीहृदयगतस्य निगूढस्याप्यभिप्रायस्य श्रोतुकामत्वाद् ब्रह्मचारित्वावलम्बनम् । युवजनदर्शने हि लज्जया सर्वं न भाषते । अवज्ञया वचनाभावं परिहर्तुं तेजस्वित्वावलम्बनमित्यवसेयम् ॥ ३० ॥ तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽभिनिविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ३१ ॥ प्रकाशिका तद्विषये देव्याः प्रतिपत्तिमाह- तमिति । आतिथेयी अतिथिषु साध्वी । ‘पथ्यतिथिवसतिस्वपतेर्ढञ् ’ (४.४.१०४) इति ढञ् । बहुमानः श्रद्धा । अतिगौरवाः ‘स्वती पूजायामि’ ति समासः ॥ ३१ । विवरणम् अथ देव्यास्तद्विषयां प्रतिपत्तिमाह- तमिति । पार्वती बहुमानपूर्वया सपर्यया तं प्रत्युदियाय । अत्र पार्वतीत्यनेन महाकुलोद्भूतत्वादस्यास्तथाविधातिथिसत्कारप्रावीण्यं ध्वन्यते । बहुमानः श्रद्धा पूर्वं यस्याः तादृश्या । सपर्यया पूजया । ‘पूजार्हणा सपर्या च’ इति भोजः । तं ब्रह्मचारिणम्। प्रत्युदियाय प्रत्युज्जगाम । सपर्यया प्रत्युद्गमनानन्तरमेव पूजाविधानम्। युक्तं चैतदस्या इत्याहआतिथेयीति । अतिथिषु साध्वी । ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’। ‘टिड्ढाणञ्–’ (४.१.१५) इत्यादिना ङीप् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते— साम्ये अभिनिविष्टचेतसां वपुर्विशेषेषु अतिगौरवाः क्रिया भवन्तीति। साम्ये समत्वे अभिनिविष्टं स्थिरं चेतो येषां तेषाम् । रागद्वेषराहित्यात् समबुद्धीनामित्यर्थः । अनेन विशेषावगमे हेतुरुक्तः । रागाञ्जनमिदमक्ष्णोर्व्यञ्जयति प्रायशो गुणान् विषये । द्वेषाञ्जनं तु दोषाननुभयसक्तिर्व्यनक्ति भूतार्थम् ॥ इत्युक्तत्वात् । वपुर्विशेषेषु शरीरविशेषेषु । तेजोविशेषयुक्तेषु शरीरेष्वित्यर्थः । अतिगौरवाः अत्यन्तगौरवोपेताः । ‘स्वती पूजायाम्’ इति समासः । क्रियाः पूजाविधयः । भवन्ति उपपद्यन्त इत्यर्थः । २७६ कुमारसम्भवे यद्यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्॥ इति [गीतासु] भगवद्वचनाद् महाजनानां महाजनेषु भगवबुध्या पूजाविधावत्यन्तगौरवोपेताः क्रियाः सम्भवन्त्येवेत्यर्थः ॥ ३१ ॥ विधिप्रयुक्तां प्रतिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥३२॥ प्रकाशिका विधीति । विधितः शास्त्रतः । नामापरमार्थे । अनेनास्य सर्वस्यैव वर्णिवृत्तान्तस्य व्याजोपगूहितत्वं सूचितम् । ऋजुना विलासशून्यत्वादवक्रेण । एतदाकारगुप्तिरवहित्थं भावः । क्रमोऽर्थाद् वचनविषयः । स च प्रकटीभविष्यति ॥ ३२ ॥ विवरणम् अथ देवीसत्कृतस्य ब्रह्मचारिणो वृत्तमाह- विधीति । सः विधिप्रयुक्तां सत्क्रियां प्रतिगृह्य क्षणं परिश्रमं विनीय च नाम ऋजुना एव चक्षुषा उमां पश्यन् वक्तुं प्रचक्रमे । सः ब्रह्मचारी विधितः शास्त्रतः प्रयुक्तां विहितां सत्क्रियां पूजां प्रतिगृह्य परिगृह्य क्षणं कञ्चित्कालं परिश्रमम् अध्वपरिश्रमं विनीय अपनीय । चकारः पूर्वोक्तसत्क्रियापरिग्रहसमुच्चये । नामशब्दः किलशब्दवदपरमार्थार्थवाची । अविद्यमानाध्वपरिश्रमापनयं कञ्चित्कालम् अभिनीयेत्यर्थः । ऋजुना विलासशून्यत्वादवक्रेण । एवशब्दो विलासस्यात्यन्ताभावमाह । चक्षुषा नेत्राभ्याम् । जातावेकवचनम् । उमां पार्वतीं पश्यन् । विलासशून्येन चक्षुषा दर्शनमतिप्रवृद्धरागगोपनार्थम् । रागस्वभावानभिज्ञानां बालानां स्वभावोऽनेन प्रकटीकृतः । उक्तं च श्रीकृष्णविलासे- परमास्त पुरेव मुग्धभावं प्रथयन्नेव स सन्निधौ जनानाम्। विजनेषु विलासिनीषु तस्य व्यसृजन्नार्जवमीक्षणोक्तिहासाः ॥ इति । तथाभूतः सन् वक्तुं प्रचक्रमे आरब्धवान् । नापि रागाधिक्यादात्मनः समीहितमेवार्थवादौ पृष्टवानित्याह — अनुज्झितक्रम इति । अनुज्झितः अपरित्यक्तः क्रमो वचनक्रमो येन स तथा । कुशलप्रश्नमारभ्य तपश्चरणकारणप्रश्नपर्यन्तो वक्ष्यमाणो वचनविन्यासक्रमोऽत्र क्रमशब्देन विवक्षितः ॥ ३२ ॥

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते। अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्॥३३॥ तत्र तावत् कुशलं पृच्छति - प्रकाशिका २७७ अपीति । समित्कुशमिति ‘सर्वो द्वन्द्वो विभाषैकवद् भवतीत्येकवद्भावः । क्षमाणि योग्यानि । स्वशक्त्या तपसि प्रवर्तनस्यापि प्रष्टव्यतां तपसि तस्य समिदादिवदङ्गत्वेनोपपादयति — शरीरमिति ॥ ३३॥ विवरणम् तत्र तावन्मुनिजनेषूचितं कुशलं पृच्छति त्रिभिः श्लोकैः । तत्रादौ तपस्साधनसम्पत्तिं पृच्छति — तपसः अपीति । क्रियार्थं समित्कुशं सुलभम् अपि । होमादिक्रियैवार्थः प्रयोजनं यस्य यत् । समिधः कुशाश्च समित्कुशम् । कुशाः दर्भाः । ‘सर्वो द्वन्द्वो विभाषैकवद् भवती’त्येकवद्भावः। ‘स नपुंसकम् ’ (२.४.१७) इति नपुंसकत्वम् । सुखेन लभ्यत इति सुलभम्। ‘ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ (३.३.१२६) इति खल् । अपिशब्दः प्रश्ने । ‘अपिः समुच्चये प्रश्ने’ इति भोजः । तव तपोवन इति शेषः । तव तपोवने होमाद्यङ्गभूतानि समित्कुशादीनि सुलभानि कच्चिदित्यर्थः । समिदादीनि सन्निपत्योपकारकाण्यङ्गानि । अथारादुपकारकाणामङ्गानामपि सम्पत्तिं पृच्छति – जलानि ते स्नानविधिक्षमाणि अपि । जलानि तव आश्रमे वर्तमानानीति शेषः । ते अत्यन्तनिर्मलशरीरायाः तव । स्नानमेव विधिः स्नानविधिः, तस्मिन् क्षमाणि योग्यानि कच्चित् । तव आश्रमे वर्तमानानि जलानि बहूनि निर्मलानि च कच्चिदित्यर्थः । ‘शक्ते योग्येऽपि च क्षमः’ इति वररुचिः । अथ सर्वस्यापि कर्मणः प्रधानभूतस्य शरीररूपस्याङ्गस्य अक्लेशकरे तपसि प्रवृत्तिं पृच्छति – स्वशक्त्या तपसि प्रवर्तसे अपि इति । आत्मशक्त्यनुसारेण तपसि प्रवर्तसे कच्चित् । तपसि शरीरस्यापि समिदादिवदङ्गत्वप्रतिपादनमुखेन स्वशक्त्या तपसि प्रवृत्तेरपि प्रष्टव्यतामुपपादयति — शरीरं खलु आद्यं धर्मसाधनमिति । खलुशब्दः प्रसिद्धौ । आद्यमित्यनेन समिदादिव्यतिरेकं दर्शयति । धर्मस्य साधनं धर्मसाधनम् । यथा समिदादीनामङ्गत्वं श्रुतिस्मृतिप्रसिद्धं, तथा शरीरस्य प्रधानाङ्गत्वमपि लोके भित्तिचित्रन्यायेन प्रसिद्धमेवेति भावः । शीर्यत इति हि शरीरमुच्यते । तस्माद् २७८ कुमारसम्भवे रक्षणाभावे तत् सद्य एव शीर्येत । न च तदभावे तपश्चरितुं शक्यमिति तपसि तच्छक्त्यनुसरणमपि प्रष्टव्यमेवेत्यभिप्रायः ॥ ३३ ॥ अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा॥३४॥ प्रकाशिका अपीति । अनुबन्धि अविच्छिन्नम् । दन्तान् वस्ते छादयतीति दन्तवासः । तुलाशब्दयोगेऽपि तृतीया रघुवंशप्रकाशिकायां समर्थिता ’ नभसा निभृतेन्दुना तुला - मुदितार्केण समारुरोह तद्’ (८.१५ ) इत्यत्र । उत्तरार्धे चाटुः । एवमुत्तरत्रापि ॥ ३४ ॥ विवरणम् अथ देवीसंवर्धितानामाश्रमलतानामपि कुशलं पृच्छति - अपीति । आसां वीरुधां प्रवालम् अनुबन्धि अपि । आसाम् आश्रमपर्यन्ते दृश्यमानानां वीरुधां लतानाम् । ‘लता प्रताननी वीरुदि त्यमरः । प्रवालं किसलयम् अनुबन्धि अविच्छिन्नं कच्चित् । ‘सम्बन्धे सन्ततासक्तावनुबन्धः प्रकीर्तितः’ इति भोजः । एतासु लतासु दृश्यमानमिदं किसलयमविच्छेदेन सर्वदा जायते कच्चिदित्यर्थः। प्रवालानामनुबन्धित्वे हेतुमाह – त्वदावर्जितवारिसम्भृतम् इति । लतासु अत्यन्तस्निग्धया त्वया आवर्जितैः आहृतैः वारिभिः सम्भृतं सम्पादितम् । अथ लताप्रवालानां रमणीयत्वप्रतिपादनव्याजेन देवीचित्तावर्जनार्थं यथार्थत्वादतिमनोहरं प्रियवचनं प्रस्तौति – यत् ते दन्तवाससा तुलाम् आरोहति इति । यत् प्रवालं ते तव दन्तवाससा ओष्ठेन । ‘ओष्ठाधरौ तु रदनच्छदौ दशनवाससी’ इत्यमरः । दन्तान् वस्ते आच्छादयतीति कर्मण्यण् । तुलां सादृश्यम् आरोहति प्राप्नोति । ननु ‘तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्’ (२.३.७२ ) इति सूत्रेण तुलाशब्दयोगे तृतीयाप्रतिषेधात् कथं दन्तवाससा तुलामित्युच्यते । अत्र भोजः – सदृशपदार्थवाची सादृश्यमात्रवाची चेति द्वौ तुलाशब्दौ । तयोः सदृशपदार्थवाचकतुलाशब्दयोग एव तृतीयाप्रतिषेधः । अत एव कृष्णस्य तुला नास्तीत्युदाहृतम् । कृष्णेन सदृशः कोऽपि नास्तीत्यर्थः। सादृश्यमात्रवाचकतुलाशब्दयोगे तु तृतीयापीष्यत एव। अतोऽत्रत्यस्य तुलाशब्दस्य सादृश्यमात्रवाचकत्वाद् नोक्तदोषानुषङ्गः । अत्रोपमानभूतस्य प्रवालस्य उपमेयभूतेनाधरेण सादृश्यप्रतिपादनाद् अधरस्य रागाधिक्यं सूचितम् । न

२७९ चैतद्रागाधिक्यमलक्तकयोगजमित्याह — चिरोज्झितालक्तकपाटलेनेति । चिरोज्झितं चिरकालत्यक्तं तपःप्रारम्भसमय एव परित्यक्तम् अलक्तकं लाक्षारसो येन तथाभूतेन सतापि पाटलेन रक्तवर्णेन । अलक्तकलेशस्याप्यभावं द्योतयितुं चिरशब्दः प्रयुक्तः । त्वत्परिवर्विता लताः त्वदधरसदृशानि पल्लवानि किं निरन्तरेण प्रसुवत इति भावः ॥ ३४ ॥ अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापराधिषु । य उत्पलाक्षेपचलैर्विलोचनै- स्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ ३५ ॥ प्रकाशिका अपीति । करस्थदर्भप्रणयापराधिष्वपीत्यर्थः । क्रियार्थं करस्थानां दर्भाणां प्रार्थनमनिष्टं भवेदिति भावः । उत्पलेति वाताक्षिप्यमाणोत्पलवच्चलैरित्यर्थः । अक्षिसादृश्यमक्ष्यनुकारम् । अक्षिणी अनुकुर्वत इवेत्यर्थः ॥ ३५ ॥ विवरणम् अथ तपस्विजनानाम् अवश्यकर्तव्यम् अत्यन्तासाध्यं च कोपजयं पृच्छति— अपीति । ते मनः हरिणेषु प्रसन्नम् अपि । ते तव मनः चित्तं हरिणेषु मृगेषु । विषयसप्तमी चेयम् । हरिणविषये प्रसन्नं कश्चिदित्यर्थः । स्वतो मनोहरेषु निरपराधेषु देव्या प्रसादाभावे हेतुमाशङ्कते - करस्थदर्भप्रणयापराधिषु इति । करस्थानां होमादिकार्यनिर्वर्तनार्थं देवीकरस्थितानां दर्भाणां प्रणयात् प्रार्थनाद्धेतोः अपराधिषु अपराधवत्सु। न ह्यवश्यकर्तव्यकर्मनिर्वर्तनार्थम् । आत्मना प्रयत्नानीतानां दर्भाणां प्रार्थनया जात कोपः शक्यपरिहारो भवति । तथापि किं ते मनो हरिणेषु प्रसन्नं भवति । अयमेव हि महामुनीनां स्वभावः, यत् सापराधेऽपि जने दयावत्त्वमिति भावः । अथ मृगाणां मनोहरत्वप्रतिपादनव्याजेन पूर्ववद् देवीचित्तावर्जनार्थं याथार्थ्यमनोहरं प्रियवचनमाह-ये उत्पलाक्षेपचलैः विलोचनैः तव अक्षिसादृश्यं प्रयुञ्जते इव इति । ये मृगाः । आक्षेपशब्दोऽत्र द्रव्यपरः । आक्षिप्यमाणम् उत्पलम् उत्पलाक्षेपः, तद्वच्चलैः चञ्चलैः विलोचनैः अक्षिसादृश्यम् अक्ष्यनुकरणं प्रयुञ्जत इव । प्रयुञ्जाना इव दृश्यन्त इत्यर्थः । यथा हीनगुणाः केचन महाजनैः सादृश्यमात्रमपि लब्धुं प्रयत्नेन तान् व्यापारवेषादिभिरनुकुर्वन्ति, तथेति भावः ॥ ३५ ॥ २८० कुमारसम्भवे यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद् वचः । तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् ॥ ३६ ॥ प्रकाशिका एव सर्वत्र मुनिजनोचितं कुशलं पृष्ट्वा परमधूर्तस्तदनुप्रवेशार्थमर्थ्यानि प्रियवचनानि प्रयुङ्क्ते – यदिति । पार्वतीत्याभिजनं सम्बोधनम् । पापवृत्तये पापाचरणाय । रूपं नाम शीलानुसारीति यदुच्यते, तत् सत्यमित्यर्थः । त्वय्येव तावदेतत् पश्येत्याहतथाहीति । शीलं सद्वृत्तम् । ‘शीलं स्वभावे सद्वृत्ते’ इति सिंहः । अत्र श्रुत्योपपादकत्वं प्रकृतगतमर्थादप्रकृते पर्यवस्यतीत्यर्थान्तरन्यासप्रकार एवायम् ॥ ३६ ॥ विवरणम् इत्थं तपस्विजनोचितं कुशलं पृष्ट्वा पुनरपि तदनुप्रवेशार्थमर्थ्यानि प्रियवचनानि तत्कृततपः प्रशंसामुखेन प्रयुङ्क्ते त्रिभिः श्लोकैः । तत्रादावेकदेशवर्णनद्वारेण प्रकृतमङ्गवर्णनमेव समस्ताङ्गवर्णनेन प्रपञ्चयति — यदुच्यत इति । पार्वति ! रूपं पापवृत्तये न इति यद् उच्यते, तद् वचः अव्यभिचारि । अत्र पार्वतीति देवीचित्तावर्जनार्थमाभिजात्यप्रतिपादनपरं सम्बोधनम् । रूपं सौन्दर्यम्। ‘अथ रूपं नपुंसकम्, स्वभावाकृतिसौन्दर्यवपुष्षु श्लोकशब्दयोरि’ ति केशवः । पापवृत्तये पापाचाराय न भवतीति यदुच्यते । सामुद्रिकसारदर्शिभिरिति शेषः। तद् वचः अव्यभिचारि। व्यभिचारोऽन्यथाभावः । व्यभिचरितुं शीलमस्येति व्यभिचारि । ततोऽन्यदव्यभिचारि । रूपं शीलानुसारीति सामुद्रिकवचनं सत्यमेवेत्यर्थः । ननु कुत एतदवगतमितीमामाशङ्कां देवीदृष्टान्तेनैव परिहरतिउदारदर्शने ! तथाहि ते शीलं तपस्विनाम् अपि उपदेशतां गतम् इति । उदारम् उत्कृष्टं दर्शनं यस्याः । हे रूपवतीत्यर्थः । तथाभावादेव हि हेतोः तव शीलं सद्वृत्तम्। ‘शीलं स्वभावे सद्वृत्ते’ इति सिंहः । तपस्विनां मुनीनामपि । केवलमितरजनानामित्यपिशब्दार्थः । उपदेशताम् उपदेशत्वं गतं प्राप्तम् । ‘वेदो धर्ममूलं तद्विदां च स्मृतिशीले’ इत्यादिषु स्मृतिषु सदाचारस्यापि वेदवदेव प्रामाण्यस्य प्रतिपादितत्वादिति भावः । रूपवत्यास्तव शीलं महर्षीणामप्येवं कर्तव्यमित्युपदेशरूपत्वं प्राप्तमिति यत्, तस्माद् रूपं शीलानुसारीति वचनं सत्यमेवेत्यर्थः । उक्तं च नैषधकाव्ये रूपस्य शीलानुसारित्वं- न

न तुलाविषये तवाकृतिर्न वचोवर्त्मनि ते सुशीलता । त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा ॥ (२.५१) २८१ इति । अत्र श्रुत्या प्रकृतगतमप्युपपादनमर्थादप्रकृते पर्यवस्यतीत्यर्थान्तरन्यासस्यैवायं प्रकारभेदः ॥ ३६ ॥ विकीर्णसप्तर्षिबलिप्रभासिभि- स्तथा न गाङ्गैः सलिलैर्दिवच्युतैः । यथा त्वदीयैश्चरितैरनाविलै- र्महीधरः पावित एष सान्वयः ॥ ३७॥ प्रकाशिका विकीर्णेति। बलिः परमेश्वरार्चनम्। तेन तदुपयुक्तं कुसुमादिकं लक्ष्यते । दिवश्च्युतैर्दिव्यैरित्यर्थः । सलिलस्य विशेषणाभ्यामुत्कर्षः प्रत्याय्यते । अनाविलैरसङ्कीर्णैः॥ ३७॥ विवरणम् अथ देवीकृतस्य तपसः कुलशुद्धिपर्यन्तत्वमाह- विकीर्णेति । एषः महीधरः त्वदीयैः चरितैः यथा सान्वयः पावितः, दिवः च्युतैः गाङ्गैः सलिलैः तथा न । एष इति पुरोवर्तिनं महीधरं सगौरवं सहस्ताभिनयं निर्दिशति । महीधरः हिमवान् त्वदीयैः त्वत्सम्बन्धिभिः चरितैः आचारैः सान्वयः पितृपितामहमातृमातामहादिवंशपरम्परासहितः सन् पावितः शुद्धि प्रापितः । दिवः स्वर्गात् च्युतैः पतितैः। दिव्यैरित्यर्थः । अनेन पावनत्वापादनसामर्थ्यातिशय उक्तः । गाङ्गैः गङ्गासम्बन्धिभिः सलिलैः तथा न तादृशप्रकारेण न पावितोऽभूत् । ‘गङ्गा गङ्गेति यन्नाम योजनानां शतेष्वपि । कीर्तितं हन्ति पापानि इत्यादिषु स्मृतिषु कीर्तनमात्रस्यापि पावनत्वेन प्रसिद्धाया गङ्गाया जलसम्बन्धजनितं पावनत्वमपि हिमवतः एतादृशाचारविशिष्टत्वत्पितृभावजनितात् पावनत्वादत्यन्तपरिहीणमिति भावः। स्वतः पावनानामपि गङ्गाजलानां पावनान्तरसम्बन्धात् पावनत्वाधिक्यमाहविकीर्णसप्तर्षिबलिप्रभासिभिरिति । विकीर्णैः विक्षिप्तैः सप्तर्षीणां बलिभिः । बलिशब्देनात्र तदुपयुक्तानि कुसुमादीनि लक्ष्यन्ते । तेषां पावनत्वाधिक्यप्रतीतिश्च फलम्। साध्यसाधनभावः सम्बन्धः । परमेश्वरार्चनोपयुक्तैः कुसुमादिभिरित्यर्थः । तैः प्रभासितुं शोभितुं शीलमेषामिति तथा। चरितानां पावनत्वाधिक्ये हेतुमाहअनाविलैरिति । असङ्कीर्णैः, दुराचारलेशेनापि रहितैरित्यर्थः । गङ्गाजलानां तु कदाचिदाविलत्वमपि सम्भाव्यत इति व्यतिरेकध्वनिः ॥ ३७ ॥ । २८२ कुमारसम्भवे अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भामिनि । त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥ प्रकाशिका अनेनेति । सविशेषं पूर्वस्मात् । सारः श्रेष्ठः । भामिनि ! दैवसम्पन्न ! | मनसो निर्विषयौ अविषयौ अर्थकामौ यस्याः । प्रतिगृह्य आदृत्य । दक्षिणावर्तस्तु — भामिनि ! कोपने! तपसा यं कञ्चित् कामयमानेव लक्ष्यसे । ततः कामाद् धर्मबलप्रशंसया मा स्म कुप्येत्युपालम्भगर्भं सम्बोधनमिति व्याचष्ट । तदभिप्रायत्वे मनोनिर्विषयार्थकामत्वं त्वपरमार्थं स्यादिति वाक्यमेवेदमुपालम्भपर्यवसायि स्यात् । तथाशङ्कनीयत्वं न विस्रम्भणीयत्वम्। ततश्चोत्तरवाक्येषु च प्रत्ययो न भवेत् ॥ ३८ ॥ विवरणम् अथ धर्मस्यैव त्रिवर्गसारत्वं श्रुतिस्मृतिप्रसिद्धमपि त्वत्सेवितत्वादद्य मादृशानामपि प्रतीतिगोचरत्वमापन्नं ’ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः’ इति न्यायादित्याह - अनेनेति । भामिनि ! अनेन मे अद्य धर्मः त्रिवर्गसारः सविशेषं प्रतिभाति । भामिनि ! हे दैवसम्पन्ने ! । ’ भाम दैवानुकूल्यं च सौभाग्यं चापि कथ्यते’ इति पुराणकविः । अनेन एतस्माद् वक्ष्यमाणात् कारणाद् मे मम त्रिवर्गसारः । धर्मार्थकामानां त्रयाणां वर्गस्त्रिवर्गः । ‘त्रिवर्गो धर्मकामार्थैः’ इत्यमरः । तत्र सारः श्रेष्ठः । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः । इतिशब्दोऽत्रार्थात् सिध्यति । त्रिवर्गसार इति प्रतिभातीत्यर्थः । सविशेषमिति प्रतिभानक्रियाविशेषणम् । पूर्वस्मात् कालाद् विशेषसहितं यथा भवति तथा। प्रतिभाति मनसि स्फुरति । धर्मस्त्रिवर्गसार इत्यद्य मया सम्यङ् निश्चितमित्यर्थः। अनेनेत्युक्तमर्थमेव प्रदर्शयति - त्वया एक एव प्रतिगृह्य सेव्यते यद् इति । त्वया सारज्ञया एकः धर्म एव प्रतिगृह्य आदृत्य। सेव्यते, कर्तव्यत्वबुध्या सेव्यत इत्यर्थः । कामलोभादिहेत्वन्तरसहितस्य सदाचारस्याप्रामाण्यात् प्रतिगृह्येत्युक्तम् । अत्र सेव्यत इति वर्तमाननिर्देशेन यौवनारम्भसमयेऽद्याप्यस्खलितासीति द्योत्यते । अर्थकामयोरनादरमप्याह — मनोनिर्विषयार्थकामया इति । मनसो निर्विषयौ अविषयौ अर्थकामौ अर्थश्च कामश्च यस्याः तया । अर्थकामपराङ्मुखचित्तयेत्यर्थः । यस्मात् त्वया यौवनोचितान् कामान् पितृगृहगतान्यतिसुलभानि धनान्यप्यनादृत्य धर्म एव साभिप्रायं सेव्यते,

२८३. तस्माद् धर्मार्थकामानां मध्ये धर्मस्यैव प्राधान्यमिति सम्प्रति मे निश्चयो जात इति भावः ॥ ३८ ॥ प्रयुक्तसत्कारविशेषमात्मना न मां परं सा प्रतिपत्तुमर्हसि । यदा सतां सन्नतगात्रि ! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ ३९॥ प्रकाशिका किञ्चित् प्रष्टुकाम आत्मनो योग्यतां तत्र समर्थयति— प्रयुक्तेति । आत्मना त्वयेत्यर्थः । परमनात्मीयम् । सा प्रतिपत्तुमर्हसीति पाठः । सा त्वमित्यर्थः । परत्वेन न प्रतिपत्तव्योऽहमित्यर्थः । अत्र हेतुः - यदेति । यदा यस्मात् साप्तपदीनं सप्तपदोच्चारणजन्यम्। ‘साप्तपदीनं सख्यम्’ (५.२.२२) इति निपातनात् साधुत्वम्। सतां सङ्गतमेव सख्यमित्युच्यत इत्यर्थः ॥ ३९ ॥ विवरणम् यथार्थस्तुतिभिरेवमादिभिः देव्याश्चित्तमावर्ज्यान्यदत्यन्तनिगूढं किमपि प्रष्टुकामस्तत्रात्मनो योग्यतामुपपादयति- प्रयुक्तेति । सा त्वम् आत्मना प्रयुक्तसत्कारविशेषं मां परं प्रतिपत्तुं न अर्हसि । सा या पूर्वोक्तसकलगुणविशिष्टा । आत्मना त्वयैवेत्यर्थः । प्रयुक्तः कृतः सत्कारविशेषः सम्मानविशेषो यस्मिंस्तथाविधम् । मा मां परम् अनात्मीयं प्रतिपत्तुं कल्पयितुं नार्हसि। यतस्त्वत्कृतैः सत्कारविशेषैरेवाहं त्वदीयो जातः, तस्मान्न परत्वेन कल्पनीयः, अपितु त्वत्परिवारजनत्वेनैव कल्पनीय इति भावः । ननु कथमतिथिसत्कारमात्रादेवात्मीयत्वप्राप्तिरत आह— सन्नतगात्रि ! मनीषिभिः सतां सङ्गतं साप्तपदीनम् उच्यते यदा इति । सन्नतं सुन्दरं गात्रं यस्याः । ‘नतं चारु सन्नतमि’ति भोजः। मनीषिभिः विद्वद्भिः । अनेन तद्वाक्यस्य श्रद्धेयत्वमुक्तम् । सतां सज्जनानां सङ्गतं सङ्गमनम्। परस्परसङ्गममात्रमित्यर्थ। भावे निष्ठा । सप्तपदोच्चारणजन्यमिति व्युत्पत्त्या साप्तपदीनमिति सख्यमुच्यते । ‘साप्तपदीनं सख्यम्’ (५.२.२२) इति निपातनात् साधुत्वम् । यदेति यस्मादर्थे । यतः सज्जनानां परस्परं सङ्गमात्रादेव सख्यं भवतीति मनीषिभिरुच्यते, ततः त्वत्कृतसत्कारविशेषोऽहं त्वदीय एवेति भावः । त्वत्कृतैः सेवाविशेषैरहं त्वदीय एव जात इति निगूढोऽर्थः ॥ ३९ ॥२८४ कुमारसम्भवे अतोऽत्र किञ्चिद् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने ! न चेद् रहस्यं प्रतिबोधयिष्यसि ॥४०॥ किमिदमद्योपन्यस्तमित्याह- प्रकाशिका अत इति । प्रष्टुमनाः, किंविषयः प्रश्न इत्याहअत्रेति । अत्र तपसि । एवं प्रथमदर्शनक्षण एव कार्यप्रश्नश्चापल्यपर्यवसायी स्यादित्याशङ्कयाभ्युपगमेनोत्तरमाह— द्विजातीति । ब्राह्मणस्य स्वभावोऽयमिति भावः । स चात्र न बाधक इत्याहबहुक्षमामिति । न चात्र मे निर्बन्धः, यत् क्षमाशीलामपि कोपयेदित्याह — न चेदिति । प्रतिबोधयिष्यसि, स्वयमेवेति शेषः । अनेनाप्यनिर्बन्धः । निर्बन्धे तु प्रतिबोधयेति स्यात् ॥४०॥ विवरणम् कुशलप्रश्नादावसङ्गतस्यास्य सख्यप्रतिपादनस्य फलमाह-

अत इति । अतः अयं जनः अत्र भवतीं किञ्चित् प्रष्टुमनाः । अतः एतस्मात् सख्याद्धेतोः । अयं जन इति पदद्वयमहमित्येतस्मिन्नर्थे । यदाह भोज ः - ‘सेदंशब्द जनपदमस्मदर्थे प्रयुञ्जते’ इति । प्रश्नस्य विषयं दर्शयति – अत्रेति । अत्र तपसि विषये । किञ्चिद्, न तु बहु । अनेन विनयं दर्शयति । प्रष्टुमनाः प्रष्टुं मनो यस्य स तथा । ‘तुं काममनसोरपि’ इति तुमो मकारलोपः । भवतीति शेषः । सख्यात् सञ्जातविस्रम्भोऽहं तपोविषये किमपि भवतीं प्रष्टुकामोऽस्मीत्यर्थः । न चायमनवसरे प्रश्नस्त्वां कोपयिष्यतीत्याह — बहुक्षमामिति ! बह्वी क्षमा यस्याः ताम् । क्षमाभावे कथमेतादृशतपःप्रवृत्त्युपपत्तिरिति भावः । नन्वस्तु बहुक्षमावत्त्वं, तथापि कथं प्रथमदर्शन एव कार्यप्रश्नः क्रियते, कृतो वा प्रश्नः कथं चापलपर्यसायी न स्यादितीमामाशङ्कां चापलाभ्युपगमेन परिहरति – द्विजातिभावादुपपन्नचापल इति । द्विजातिभावाद् ब्राह्मणत्वाद् उपपन्नं युक्तं चापलं चपलकर्म यस्य स तथा । नन्वतिप्ररूढेऽपि सख्ये रहस्यप्रकाशनं बहुदोषावहं, ‘मन्त्रं सुरक्षितमपिच्छिन्द्यादाप्तपरम्परा’ इति न्यायाद्, अत आह— तपोधने! त्वं रहस्यं न चेत् प्रतिबोधयिष्यसि इति । तपोधने! तप एव धनं यस्याः । रहस्यम् अप्रकाश्यम् । मया प्रष्टुमिष्टमिदं कार्यमिति शेषः । प्रतिबोधयिष्यसि ज्ञापयिष्यसि । स्वयमेवेति शेषः । नात्र में निर्बन्ध इति भावः । सति हि निर्बन्धे प्रतिबोधयेति लोट्प्रयोग एव भवेत्। निर्बन्धो हि

२८५ भवतीं क्षमावन्तमपि कोपयति । यथोक्तं रघुवंशे— ‘निर्बन्धसञ्जातरुषा’ (५.२१) इति । सख्ये महत्यपि अत्यन्तगोपनीयस्यार्थस्य वक्तुमशक्यत्वादहं तु न निर्बध्नामि । अतिरहस्यं न चेत् त्वमेवं प्रतिबोधयिष्यसीत्यर्थः ॥ ४० ॥ कुले प्रसूतिः प्रथमस्य वेधस- स्त्रिलोकसौन्दर्यमिवार्जितं वपुः । अमृग्यमैश्वर्यसुखं नवं वय- स्तपः फलं स्यात् किमतः परं वद ॥ ४१ ॥ प्रकाशिका किमत्र प्रश्नेन प्रतिवचनेन वा । त्वयैव तावदूहितुं शक्यमित्याशङ्क्य जिज्ञासितस्योहागोचरत्वं दर्शयति- कुल इति । प्रथमस्य हिरण्यगर्भस्य । ‘यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वर’ इति ब्रह्मवचनात्। आर्जितमेकत्र सञ्चितम् । किं क्षेपे । तपः फलं तपसा लभ्यं वाञ्छितम्। एभ्योऽन्यत् तपसोऽस्य फलं न संभाव्यते, अस्ति चेद् वदेत्यर्थः॥ ४१ ॥ विवरणम् ननु किं प्रश्नप्रतिवचनाभ्यां भवतैव तावदूह्यतामितीमामाशङ्कां स्वजिज्ञासितस्यार्थस्योहागोचरत्वं दर्शयन्नपाकरोति त्रिभिः श्लोकैः । तत्रादौ देव्या ऐहिकफलाकाङ्क्षानिराकरणद्वारेण स्वजिज्ञासितस्यार्थस्योहागोचरत्वमाह– कुल इति । तत्र तावत् स्वत एवाभिजात्ययुक्तायास्तवेदं तपश्चरणं न विश्वामित्रादिवदाभिजात्यकामनयेत्याह - प्रथमस्य वेधसः कुले प्रसूतिः इति । प्रथमस्य वेधसः ब्रह्मणः । मरीच्यादीनां सर्गशेषविधायित्वान्न प्राथम्यमिति भावः । कुले वंशे प्रसूतिः उद्भवः । तवेति शेषः । ‘यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः ’ इति ब्रह्मवचनादचलेश्वरस्य ब्रह्मपुत्रत्वम् । ततश्च तत्पुत्रास्तत्कुलजातत्वम्। नापि सर्वस्त्रीजनसाधारण्या सौन्दर्याकाङ्क्षया, सौन्दर्यस्य भवत्यां लोकोत्तरतया विद्यमानत्वादित्याह — वपुः त्रिलोकसौन्दर्यम् आर्जितम् इवेति । त्रिलोकसौन्दर्यं लोकत्रये विद्यमानं सौन्दर्यम् अर्जितम् एकत्र सञ्चितमिव । पञ्चभूतरूपमुपादानमपहाय लोकत्रये विद्यमानं सौन्दर्यसारमात्रमुपादाय तेनैव निर्मितमिति प्रतीयमानमित्यर्थः । अतः परं का सौन्दर्याकाङ्क्षेति भावः । नापि सकलजनप्रार्थनीयधनाकाङ्क्षया, धनस्यापि त्वयि निरवधिकत्वादित्याह - ऐश्वर्यसुखम् अमृग्यम् इति । २८६ कुमारसम्भवे ऐश्वर्येण धनेन यत् सुखं दानोपभोगादिलक्षणं, तदपि अमृग्यमचिन्त्यम् । जनानां मनसोऽप्यगोचरमित्यर्थः । तथाच वक्ष्यति — अलकामतिबाह्येव वसतिं वसुसम्पदाम् । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्॥ (कुमा.६.३७) इति। नन्वकामनया तपश्चरणमेव परो धर्मः, तस्यैव मुक्तिसाधनत्वात् । किं कामनान्तरविचारणयेतीमामाशङ्कां ‘वार्द्धके मुनिवृत्तीनाम्’ (रघु. १.८) इत्यादिवचनविरोधाद् यौवने तस्यानाशङ्कनीयत्वेन परिहरति — वयः नवम् इति । वयः यौवनम् । नवं प्रारब्धमात्रमित्यर्थः । अथवा यौवनापेक्षया तपश्चरणमेवानेन वाक्येन निराक्रियते । तस्माद् युक्तमूहागोचरत्वमित्याह — अतः परं किं तपः फलं स्याद् वद इति । अतः परम् अस्मदुपन्यस्तादाभिजात्यादेरन्यत् । किं क्षेपे, न किमपीत्यर्थः । वद, अस्य तपसः फलभूतमन्यत् किमपि न मे विचारमार्गमारोहति, अस्ति चेद् वदेत्यर्थः ॥ ४१ ॥ भवत्यनिष्टादपि नाम दुःसहा- न्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च तलोदरि ! त्वयि ॥४२॥ प्रकाशिका अथ स्वयमेवान्यत् सम्भाव्य निराकरोति— , भवतीति । ‘अनिष्टाद् भर्तृकृतादित्यर्थ इति दक्षिणावर्तः । तन्न साधुः । कन्यकात्वावगमपुरस्सरत्वादुक्तेः । अन्यथा ‘अथोपयन्तारमलं समाधिना’ ( ५.४५) इति निरवकाशं स्यात् । तस्मादनिष्टादिति सामान्यम्। अनिष्टादपि न केवलं शङ्कितादिष्टाभावात्। भवनस्य सम्भावनायां नामशब्दः । प्रतिपत्तिः प्रवृत्तिः । तलोदरि ! निम्नोदरीत्यर्थः । दक्षिणावर्तस्तु - एतदपि सौन्दर्यवाचि भर्त्रपराधनिवारणपरमित्यर्थ इति व्याचष्ट । वयं तु स्तुतिमात्रपरमिति । तच्चानिष्टं विचार्यमाणम् अनुपपन्नमेव भवतीत्यर्थः ॥ ४२ ॥ विवरणम् नन्वनिष्टावाप्त्या बाल्येऽपि तपश्चरणं सम्भवत्येव यथा ध्रुवादीनामित्याशङ्क्य परिहरति- भवतीति । दुःसहाद् अनिष्टाद् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः भवति

२८७ नाम । दुःसहात् सोढुमशक्याद् अनिष्टाद् अप्रियाद्धेतोः । अनभिभवनीयेन केनचित् कृतादिति शेषः । न पूर्वोक्तादिष्टानवाप्तेः, अपितु अनिष्टावाप्तेरपीत्यपिशब्दार्थः । मनस्विनीनां स्थिरचित्तानामित्यर्थः । ईदृशी त्वयीदानीं दृश्यमानप्रकारा। प्रतिपत्तिः प्रवृत्तिः । ‘प्रतिपत्तिस्तु गौरवे, प्राप्तौ प्रवृत्तौ’ इति केशवः । नामशब्दः सम्भावनायाम्। परैः सम्पादितादनिष्टादपि मानिनीनामत्यन्तदुश्चरणसम्भावनास्त्येवेत्यर्थः । तथापि त्वयि तदनुपपन्नमित्याह - तलोदरि ! तच्च विचारमार्गप्रहितेन चेतसा त्वयि न दृश्यते इति । तलोदरि ! निम्नोदरि ! । करतलं हि किञ्चन निम्नं भवति । कृशोदरीत्यर्थः । अनेनापि तदनुप्रवेशार्थं स्तुतिः सामुद्रिकोक्तो वक्ष्यमाणो गुणश्च सूच्यते । तद् अनिष्टम् । चकारः पूर्वप्रतिपादितेष्टानवाप्तिसमुच्चयार्थः । न केवलम् इष्टानवाप्तिस्त्वय्यनुपपन्ना, अपितु अनिष्टप्राप्तिश्चेत्यर्थः । विचारस्य मार्गो विचारमार्गः, तदनुसारेण प्रहितेन प्रेरितेन । चेतसा मनसा । त्वयि अनन्तरश्लोकवक्ष्यमाणगुणविशिष्टायां भवत्याम् । न दृश्यते न प्रतीयते । यद्यपि स्त्रीसामान्ये तदुपपत्तिरस्त्येव, तथापि त्वयि नानिष्टस्य लेशोऽप्युपपद्यत इति भावः ॥ ४२ ॥ अलभ्यशोकाभिभवेयमाकृति- र्विमानना सुभ्रु ! कृतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूतये ॥४३॥ अनुपपत्तौ हेतुत्रयमाह- प्रकाशिका अलभ्येति । इयमिति । ईदृशसमग्रसामुद्रगुणा । अत्र कथं शोकाभिभवो लभ्यते, न सम्भाव्यत इत्यर्थः । अयं तावदेको हेतुः । अन्यमप्याह – विमाननेति । पितृगृहे, न तु भर्तृगृहे । पित्रादिबन्धुमध्यवर्तिन्या इत्यर्थः । कुतः कस्माद् जनात् । परेणाभिमर्शो बलात्कारेण स्पर्शः । नास्ति न तु स्यात् । एतत् प्रतिवस्तुनोपपादयति—कः करमिति। पन्नगरत्नसूतये पन्नगशिरोरत्नचालनाय । ‘षू प्रेरण’ इति धातुः । अनेन हिमवत्प्रतापस्यालङ्घयत्वमुक्तम्। स्वमहाभाग्याद् बन्धुमध्यगत्वात् परानभिभवनीयत्वाच्च तवानिष्टमनुपपन्नमेवेति समर्थितम् । दक्षिणावर्तस्तु — अलभ्यौ शोकाभिभवौ यस्या इति विग्रहमुक्त्वा विमाननेत्यादिना शोकस्य, पराभिमर्शेत्यादिना अभिभवस्य चालभ्यत्वमुक्तमित्याह । तत् तु निपुणैर्विवेचनीयम्। यत् तु तेन ‘सुभ्रुशब्दस्य उवस्थानत्वाद् ‘नेयङुवङ्स्थानावस्त्री’ (१.४.४) इति नदीसंज्ञाप्रतिषेधे सम्बुद्धौ ‘अम्बार्थनद्योर्ह्रस्वः’ (७.३.१०७) इति ह्रस्वो न २८८ कुमारसम्भवे स्यादित्यनुपपत्तिं शङ्कित्वा पाठान्तरं दर्शितं तत्र वामनः परिहारं दत्तवान् ‘ऊकारान्तादप्यूङ् प्रवृत्तेः’ (५.२.४८) इति । सूत्रस्य चास्य वृत्तिः – उत ऊङ् विहित ऊकारान्तादपि क्वचिद् भवति, आचार्यप्रवृत्तेः । कासौ प्रवृत्तिः, ‘अप्राणिजातेश्चारज्ज्वादीनाम्’ (वा. ४.१.६६) इति । अलावूः कर्कन्धूरित्युदाहरणम् । तेन ‘सुभ्रु ! किं सम्भ्रमेण’ इत्यत्र सुभ्रूशब्दादूङ् सिद्धो भवति । ऊङि त्वसति सभ्रूरिति स्यादिति । एवं चोङोऽस्य भ्रूशब्दसम्बन्ध्युवर्णत्वाभावाद् ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६.४.७७) इत्युवङादेशस्याभावाद् न तत्स्थानत्वम् । ततश्च न नदीसंज्ञाप्रतिषेध इत्यवसेयम् ॥ ४३ ॥ विवरणम् अनिष्टप्राप्त्यनुपपत्तिमेव विचारमार्गानुसारिणा हेतुत्रयेण प्रतिपादयति- अलभ्येति। तव इयम् आकृतिः अलभ्यशोकाभिभवा । इयं सामुद्रिकोक्तसकलगुणपरिपूर्णतया दृश्यमाना । आकृतिः आकारः । शरीरसंस्थानविशेष इत्यर्थः । लब्धुं ज्ञातुं न शक्यत इत्यलभ्यः । असम्भावनीय इत्यर्थः । अलभ्यः शोकेन दुःखेन अभिभवः परिभवो यस्याः सा तथा । नहि सामुद्रिकोक्तसकललक्षणपरिपूर्णे जने अनिष्टप्राप्तिः सम्भाव्यत इति भावः । ननु तपश्चरणनिमित्तभावमनुभवता येनकेनचिदवमानविशेषेण ध्रुवस्येव गुणवतामपि तपश्चरणं भवेत्, भवति च तेनैवोत्कर्षातिशयप्राप्तिरित्यत्र द्वितीयं हेतुमवतारयति - सुभ्रु ! पितृगृहे विमानना कुतः इति । शोभना भ्रूः यस्याः, तस्याः सम्बुद्धिरियम् । ननु सुभ्रूशब्दस्य सम्बुद्धौ कथं ह्रस्वान्तत्वं, सुभ्रूशब्दस्य उवस्थानत्वात् । ‘नेयङुवङ्स्थानावस्त्री’ इति हि नदीसंज्ञा प्रतिषिद्धा । तस्माद् ‘अम्बार्थनद्योर्हस्वः’ इति ह्रस्वो न स्यादिति । उच्यते । ‘ऊकारान्तादप्यूङ् प्रवृत्तेः’ इति वामनसूत्रम् । अस्यार्थः । ‘ऊडुतः’ ( ४.१.६६ ) इति विहित ऊङ्प्रत्ययः क्वचिदूकारान्तादपि भवति । कुत इत्यत्राह — प्रवृत्तेरिति । आचार्यप्रवृत्तेरित्यर्थः । ‘अप्राणिजातेश्चारज्ज्वादीनाम्’ इति वार्त्तिककारवचनादिति भावः । तत्र पुनः अलावूः कर्कन्धूः इत्याद्युदाहरणम् । अत्र सुभ्रूशब्दाद् अप्राणिजातेरित्यदिना ऊङि सति ‘अचि श्नुधातुभ्रुवाम् —’ इत्यादिनोवङादेशस्याभावान्नदीसंज्ञापि न स्यात् । अस्य भ्रूशब्दसम्बन्ध्युवर्णत्वाभावात्। ततश्च ‘अम्बार्थनद्योर्हस्वः’ इति ह्रस्वे सति एङहस्वात् सम्बुद्धेः’ (६.१.६९) इति सुलोपः । ततश्च हे सुभ्रु ! इति पदं सिध्यति । ऊङि त्वसति सुभूरित्येव । हे सुभ्रु ! हे सुन्दरि ! । अनया सम्बुध्या देव्याः सर्वजनेषु कारुण्यार्द्रहृदयत्वं ध्वन्यते । हृदयगतं ह्यक्षिभ्रुवादावभिव्यक्तं भवति । तदुक्तं नैषधकाव्ये— ‘इतीयमक्षिभुवविभ्रमेङ्गितस्फुटामनिच्छां विवरीतुमुत्सुका’ (९.१) इति । कारुण्यार्द्रहृदयत्वेन च देवीं प्रति जनानामनुरागातिशयः प्रतिपादितो भवति । यथोक्तं रघुवंशे-

अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ( ८.८ ) २८९ इति । तस्माद् देवीस्वरूपणावस्थायामेव विमाननाहेतोरभाव इति भावः । पुनरपि विशेषमाह — पितुर्गृह इति । त्वयि अत्यन्तस्निग्धस्य हिमवतो भवने विमानना अवमानः कुतः कस्माद् भवति । भर्तृगृहवर्तिनीनां सपत्न्यादिसकाशादनिष्टं सम्भाव्येतापि, न तु सकलबन्धुजनपरिपूर्णपितृगृहवर्तिनीनाम् । पितुस्त्वयि अत्यन्त - स्निग्धत्वं च प्रसिद्धम् । नन्वत्र पराभिभवो हेतुरस्तु इत्याशङ्क्य तृतीयं हेतुमाहतव पराभिमर्शो नास्तीति । तव तथाविधप्रतापयुक्तस्य पर्वतचक्रवर्तिनः पुत्र्यास्ते । परेणाभिमर्शः बलात्कारेण स्पर्शः नास्ति न सम्भाव्यते । पराभिमर्शाभावमेव प्रतिवस्तूपमयोपपादयति - कः पन्नगरत्नसूतये करं प्रसारयेदिति । कः, न कोऽपीत्यर्थः । पन्नगरत्नसूतये पन्नगस्य रत्नं फणामणिः, तस्य सूतये चालनाय । ’ षूङ् प्रेरण’ इति धातोः क्तिन्प्रत्ययान्तमिदं पदम् । करं हस्तं प्रसारयेत् प्रसृतं कुर्यात् । यथा जिजीविषुः पुमान् पन्नगफणामणिसमाहरणाय करं न प्रसारयति, तथैव त्वां बलात्कारेण स्प्रष्टुमपीति भावः । करप्रसारणमात्रमपि न कुर्यात्, किं पुनः स्पर्शनमिति भावः । अनेन हिमवत्प्रतापस्यात्यन्तदुर्लङ्घयत्वमुक्तम्। अभिलाषे सत्यपि प्रतापादस्पृश्यत्वं प्रतिवस्तुना ध्वन्यते । अत्र देव्या महाभाग्ययोगित्वं बन्धुजनमध्यवर्तित्वं पितृगौरवात् परानभिभवनीयत्वं चेति त्रयो हेतवोऽनिष्टप्राप्त्यभावे प्रतिपादिताः । तस्मान्न तवेदं तपश्चरणमनिष्टप्राप्तिहेतुकमिति भावः ॥ ४३ ॥

किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् । वद प्रदोषे विनिकीर्णतारका विभावरी यद्यरुणाय कल्पते ॥४४॥ प्रकाशिका तदेवमिष्टानवाप्तेरनिष्टावाप्तेश्चासम्भवेन वयोननुरूपं तपः किंहेतुकमित्याह- किमिति । किं प्रश्ने । इतिर्हेतौ । किं मया कृतमित्याह — वल्कलं धृतमिति । ननु निरभिसन्धिकं तप एव पुरुषार्थः पर इत्याह-यौवन इति । अस्य वयसो नोचितं तप इति भावः । तद्योग्यं च त्वया त्यक्तमित्याह — आभरणान्यपास्येति । अन्यच्च तपोयोग्यं वय इति दर्शयतिवार्धकशोभीति । एवमनुचितपरिग्रहस्त्वया न कर्तव्य इत्यर्थः । अत्र प्रतिवस्तु-वदेति । विनिकीर्णतारका, भूत्वेति शेषः । विनिकीर्णमपास्तम्। अरुणाय अरुणं गन्तुम् । ‘क्रियार्थ - ’ (२.३.१४) इत्यादिना २९० महामहोपाध्यायशङ्करमिश्रविरचितं कुमारसम्भवे कल एका द्रष्टा इत्यर्थस्य भवता ध्व

नजर्थत्वं, तथा चान्योन्याभावः इत्यर्थः। भेदप्रतिपत्त्यर्थमेव हि वैधर्म्याभिधानम्, चतुर्थी । कल्पते अर्हतीत्यर्थः । यद्येवं भवति, ततो वदेत्यर्थः । तथा न कल्पते, तेन च न वदिष्यसीति शेषः ॥ ४४ ॥ कश्चन तदश्नोति न वा कञ्चिदात्मा तद्ब्रह्म व्याप्नोति केनाप्यात्मना क्षेत्रज्ञेन नै विवरणम्, विभुनोः संयोगकारणान्यतरकर्मोभयक्यस्मादिदं तपश्चरणमिष्टावाप्त्यर्थं न भवति, नाप्यनिष्टपरिहारार्थं, तस्माद् निरभिसन्धिकतपश्चरणमात्रमेवात्रावशिष्यते। तत्तु पूर्वमेव किञ्चिदाशङ्क्य परिहृतमपीदानीमुपदे पत्तिकथनद्वारेण स्वावसरे दूरतो निराकरोतिसंसारमाप्नोति पुनः पुनः संसरतीति- य इकिमिति । त्वया यौवने आभरणानि अपास्य किम् इति वल्कलं संधृतम् । त्वया लोकवृत्तज्ञया पूर्वोक्तसकलगुणविशिष्टया च । अनेन प्राप्तव्यान्तरनिरपेक्षत्वमुक्तम् । नापि निरभिसन्धिकं वल्कलधारणं च तव युक्तमित्याह – यौवन इति । भेद अन्य त द्रष्टारः अस्य वयसो नोचितं वल्कलधारणमिति भावः । यौवनोचितान्याभरणानि च त्वया परित्यक्ता-नीत्याह आभरणानि अपास्येति । मुक्ताकलापादीनि परित्यज्य । किंशब्द प्रश्ने । इतिशब्दों हेतौ । कस्माद्धेतोरित्यर्थः । न केवलमस्य वयसो योग्यान्याभरणानि परित्यक्तानि, अनुचितपरिग्रहश्च कृत इत्याह-वल्कलं धृतमिति । वल्कलधारणयोग्यं कालान्तरमपि दर्शयति – वार्द्धकशोभीति । वार्द्धके वृद्धत्वे शोभितुं शीलमस्येति तथा । एवमनुचितपरिग्रहः किमर्थं त्वया कृत इति प्रश्नस्य प्रश्नस्य नैवं त्वया कर्तव्यमित्येवार्थः । अत एवाकर्तव्यत्वमेव प्रतिवस्तुनोपपादयति-विभावरी प्रदोषे विनिकीर्णतारका अरुणाय कल्पते यदि वद । विभावरी रात्रिः प्रदोषे सन्ध्यायाम्। ‘प्रदोषो रजनीमुखमि’ति सिंहः । विनिकीर्णतारका, भूत्वेति शेषः । विनिकीर्णा अपास्ताः तारका नक्षत्राणि यया सा तथा । अत्र आभरणप्रतिवस्तुतया तारकाणां निर्देशः । अरुणाय अरुणं गन्तुम् । ‘क्रियार्थे’ त्यादिना ने चतुर्थीत वल्कलप्रति न वस्तुत्वेनारुणस्योपादानम् उभयोरप्यारुण्यात् । प्रतिकल्पते, अर्हतीत्यर्थः । तम्यदि विभावरी प्रदोषसमय एव परित्यक्ततारका भूत्वा अरुणं गन्तुमर्हति, तर्हि वदेत्यर्थः । यस्मात् तथा नार्हति, तस्माद् न वदिष्यसीत्यर्थः ॥४४॥ रुस व्यतः’ ‘एकधा बहुधा चैव दृश्यते जलचन्द्र दिवं यदि प्रार्थयसे वृथा श्रमःमेन बाल्यकौमारभेदेन वा १. संयोगं प्रति अन्यतर पितुः प्रदेशास्तव देवभूमयः । पितुः प्रदेशास्तव देवभूमयः। ) कारणानि, तदभावात् विभुनोर्न संयो अथोपयन्तारमलं समाधिना २. आनुपूर्वी तु सलिल एका द्रष्टा इत्यादि न तु स किलेति मधुसूदनसरस्वतीपादाः। न रत्नमन्विच्छति मृग्यते हि तत् ॥४५ ॥ रत्नरक्षणे ३. बृह, ४।४।१९, कठ, ४।११। प्रकाशिका ४. छान्दोग्य., बाटा अथ पुनरपि नायिकाया हृदिस्थं वास्तवं कारणमुद्घाटयितुकामः शङ्कावकाशपीडनाय मध्येऽन्यत् कारणमाशङ्क्य परिहरति-

विभिन्न शरीरावच्छ एक श्रात्मद २९१ भिन्नेषु दिवमिति। श्रमस्तपः। तद्वृथात्वे हेतुमाह— पितुरिति । दुरवापत्वेन व्याप्ता प्राथनति भावः । अथ वास्तवमुद्घाटयति अथेति । अथशब्दः प्रश्ने। ‘मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथेति सिंहः । अलं समाधिना, तथापि तपो न कर्तव्यमित्यर्थः। कुत इत्याह—– न रत्नमिति । अत्र हेतुः – मृग्यते हि तदिति। सर्वेणापीति शेषः । अत्र रत्नशब्दस्य स्वजातिश्रेष्ठवाचित्वेऽर्थान्तरन्यासोऽयं, तथा हि त्वापि जन्मनि राजाह पाषाणविशेषवाचित्वे तु न तावत् प्रतिवस्तु, तत्रासम्भवलेशस्याप्यसहनात्। अत्र च रत्नकर्तृकत्वमन्वेषणस्यासम्भवीति तन्निषेधोऽपि तादृगेव । तस्मात् सादृश्यादियमप्रस्तुतप्रशंसा। तस्यां त्वसम्भवेऽपि प्रतीयमानार्थाध्यारोपेण वाक्ययोजना घटते । अप्रस्तुतेन चार्थेन प्रस्तुतगतं सर्वप्रार्थनीयत्वहेतुकमप्रार्थयितृत्वं द्योत्यते । तच्च स्वविरुद्धं प्रार्थनं बाधमानं सत् तद्धेतुकस्य तपसो निषेधमुक्तमुपपादयति ॥ ४५ ॥ सखा समान वृक्ष परिवर तयोरेकः पिप्पलं स्वाद्वत्त विवरणम् भिचाकशीति । अथ देव्या हृदयगतमेवार्थं प्रष्टुकामोऽपि शङ्कालेशमपि परिजिहीर्षुरन्यत् किमपि मध्ये इति श्रातः साक्षाद याथा वा द्विबहुत्वादिः, तपःकारणमाशङ्क्य परिहरतितत्र भेदाविनाभूतध भेदप्रतिपत्तिरावश्यकी। यथा सहस्रशीर्षा पुरुषः’ इत्यत्र ______दिवमिति । त्वं दिवं प्रार्थयसे यदि श्रमः वृथा । दिवं स्वर्गं प्रार्थयसे अपेक्षसे प्रकृत्यथा भदावना भूत प्रतायत यथ कार्यकारणभाव यथ यदि, तर्हि श्रमः तपः। ‘श्रमु तपसि स्वेदे च’ इत्यस्माद् धातोर्भावे घञ् । मान्तत्वाद् वृद्ध्यभावः । ‘अभ्यासे शस्त्रविद्यादौ वेदे तपसि च श्रमः’ इति भोजः । वृथा हर धम निरर्थकः। ‘वृथा निरर्थकाविध्योरित्यमरः । ननु प्रतिज्ञामात्रेण नार्थसिद्धिरितीमामाआग्नहा जह स्वर्गकामः इत्यादा सर्व विधिवाक्यानाम्। शङ्कां हेतूपन्यासेन परिहरतितव पितुः प्रदेशाः देवभूमयः इति । तव पितुः हिमवतः प्रदेशाः देवभूमयः स्वर्गाः । नहि स्वर्गस्थितानां स्वर्गप्राप्त्यपेक्षा सम्भवतीति भावः । इत्थं तपसः फलान्तरशून्यत्वं प्रतिपाद्य नायिकाया हृदयनिगूढं वास्तवमेव तपः कारणं किञ्चिदुद्घाटयति अथ उपयन्तारम् इति । प्रार्थयस इति शेषः । अथशब्दः प्रश्ने । मङ्गलानन्तरारम्भप्रश्नकात्स्र्येष्वथो अथ’ इति सिंहः । उपयन्तारं भर्तारम्। त्वं भर्तारं किं प्रार्थयस इत्यर्थः । यद्यपि भर्तृकामनया तपश्चरणं सर्वकन्याजनसाधारणं, तथापि त्वयि तु तन्त्रोपपद्यत इत्याहसमाधिना अलम् इति । समाधिना तपसा । अलंशब्दो वारणार्थे। ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकमिति सिंहः। तपो न कर्तव्यमित्यर्थः । कुतो न कर्तव्यमित्यत्राह — रत्नं न अन्विच्छति इति । नान्विच्छति अन्वेषणं न करोति । नहि रत्नमात्मधारणयोग्यं तिव्यः इत्यव जनमन्विष्य पर्यटतीत्यर्थः। तत्र हेतुमाह — तद् मृग्यते हि इति । तद् रत्नं मृग्यते अन्विष्यते । यते । च हिशब्दोऽवधारणे। हिशब्दोऽवधारणे। मृग्यत एवेत्यर्थः । शब्दतालादर्थबेल । न यथार यथा सर्वप्रार्थनीयं रत्नमात्मधारणयोग्यपुरुषमन्विष्य पर्यटतीत्यसम्भाव्यं, तथा कान्तप्रार्थनया तवेदं तपश्चरणमपीति भावः । अत्राय सर्वप्रार्थनीयरत्नकर्तृकान्वेषणप्रतिषेधेन त्वतत्सदृशो ‘आत्ता बा तथा प्रातव्या माना २९२ कुमारसम्भवे देवीकर्तृकवरप्रार्थनाप्रतिषेधः प्रतीयत इति सादृश्यादप्रस्तुतप्रशंसेयम्। रत्नशब्दस्य स्वजातिश्रेष्ठवाचित्वे पुनरर्थान्तरन्यासः ॥ ४५ ॥ निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥४६ ॥ प्रकाशिका अथेत्थं परमार्थप्रसङ्गेन जातविक्रियामुपलभ्य तमेव परमार्थं किञ्चिद् विशदयतिनिवेदितमिति । सोष्मणा इष्टानवाप्तिसन्तापोष्णेन । यन्मया वरप्रार्थनमत्र प्रतिक्षिप्तं, तदेव तपः कारणमिति सोष्मणा निःश्वसितेन निवेदितमित्यर्थः । अथ तत्त्वतस्तन्मुखेन श्रोतुकामः कामुकः पुनरपि संशये प्रतिक्षिपति – मनस्त्विति । तुशब्दो मनस उपपत्त्यनुसन्धानविशेषं द्योतयति । संशयमेव गाहते, उपपत्त्यनुसरणेनेति शेषः । अत्र संशयशब्दो वितर्कमाह, यो निश्चयासन्नः । उपपत्तिमाह — प्रार्थितदुर्लभ इति । यत् सर्वप्रार्थ्यं वस्तु, तेनापि यत् प्रार्थ्यते, तत् तस्य दुर्लभं नैव भवेदित्यर्थः ॥ ४६ ॥ विवरणम् इत्थं निजहृदयवर्तिनः परमार्थसतो वस्तुनः प्रसङ्गेन सञ्जातदीर्घनिःश्वासादिविक्रियां नायिकामुपलभ्य तमेव परमार्थं किमपि प्रकाशयति- निवेदितमिति । सोष्मणा निःश्वसितेन निवेदितम् । ऊष्मणा सहितः सोष्मा । इष्टानवाप्तिसन्तापोष्णेनेत्यर्थः । निःश्वसितेन दीर्घनिःश्वासेन । निवेदितं ज्ञापितम् । वरप्रार्थनमिति शेषः । आशङ्क्य मया परिहृतं वरप्रार्थनमेव तपः कारणमिति तवान्तस्तापोष्णेन दीर्घनिःश्वासेन निवेदितमासीदित्यर्थः । अथात्मविषयमभिलाषं तन्मुखेनैव श्रोतुकामः परिनिश्चितमेवार्थं संशयविषयतामेव नयति — मे मनस्तु संशयमेव गाहते इति । मे उपपन्नानुपपन्नार्थविवेचनकुशलस्य मम । मनः चित्तम् । तुशब्दोऽन्यचित्तेभ्यो व्यतिरेकं द्योतयति । नहि विवेककुशला दृष्टमप्यनुपपन्नमर्थं तथैवेति निश्चिन्वन्ति। संशयमनुपपत्तिम् । एवशब्द उपपत्तिलेशस्याप्यभावमाह । गाहते प्राप्नोति । सन्तापोष्णदीर्घश्वासानुमानेन वरप्रार्थनमेव तपः कारणमिति सम्यगवगतमपि तत्रोपपत्तिलेशस्याप्यभावाद् मनो मे निश्चयं नोपलभत इत्यर्थः । तामेवानुपपत्तिमाह-ते प्रार्थयितव्य एव न दृश्यते, कथं प्रार्थितदुर्लभः भविष्यति

२९३ इति । ते सर्वप्रार्थनीयायास्तव । प्रार्थयितव्यः प्रार्थयितुं योग्यः कश्चित्, पुरुष इति शेषः । त्वदपेक्षयाधिकगुणो हि पुरुषस्त्वया प्रार्थयितव्यः । तादृशस्य लोकत्रयेऽप्यभावादियमुक्तिः । प्रार्थयितव्य एव नास्ति, किं पुनः प्रार्थितदुर्लभ इत्येवशब्दार्थः । न दृश्यते, लोकत्रय इति शेषः । प्रार्थितश्चासौ दुर्लभश्चेति प्रार्थितदुर्लभः । प्रार्थितत्वे सति दुर्लभ इत्यर्थः । सर्वप्रार्थनीयया त्वया प्रार्थयितव्यः कश्चित् पुरुषो लोकत्रये नोपलभ्यते । अपि च यदि कदाचित् कश्चित् त्वया प्रार्थितो भवेत्, तर्हि तस्य भाग्यातिशय एव तत्र हेतुरिति कुतस्तस्य प्रार्थितदुर्लभत्वम् । ततो न तदर्थं तव तपश्चरणोपपत्तिरिति भावः ॥ ४६ ॥ अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथबन्धिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥४७॥

… विवरणम् इत्थमुपपत्त्यभावेन परिहृतमपि वरप्रार्थनया तपश्चरणं प्रत्यक्षप्रमाणासिस्य दीर्घनिःश्वासस्यैव प्रावल्याद् यथार्थमेवावधार्य तथा प्रार्थ्यमानं वरमुपालभते - अहो इत्यादिभिस्त्रिभिः श्लोकैः । अहो इति । तव ईप्सितः युवा कः अपि स्थिरः अहो । तव त्वया । ‘क्तस्य च वर्तमाने’ (२.३.७) इति षष्ठी। ईप्सितः इष्यमाणः । वर्तमाने क्तः । युवा युवत्वाभिमानवञ्चित इत्यर्थः । कः अपि यः कश्चनापि, साक्षादीश्वरो वा भवत्वित्यर्थः । स्थिरः जड इत्यर्थः । यद्यपि स्थिरशब्दोऽयं स्थैर्यगुणशालिनि द्रव्यविशेषे प्रसिद्धः, तथापि वक्ष्यमाणवाक्यप्रागल्भ्यात् पाषाणप्रख्ये जडत्वे पर्यवस्यति । अनेनायमुपालम्भयोग्योऽपीति ध्वन्यते । ‘अहो हीति च विस्मये'२९४ । महामहो कुमारसम्भवे भश्रविरचितं । जटा इत्यमरः । जडत्वे हेतुमाह–यः कपोलदेशे इमाःर जटाः उपेक्षते इति । स्यः युवा कपोलदेशे गण्डप्रदेशे । लम्बमाना इति शेषः । इमाः प्रत्यक्षेणैव लक्ष्यमाणाः । उपेक्षते सरभसमागत्य स्वकराभ्यामेव न बध्नाति । कपोललम्बने हेतुमाह प्रति घटत्वद पल श्लथबन्धिनीरिति। श्लथो विश्लथो बन्धो बन्धनमासामस्तीति श्लथबन्धिन्यः, ताः । अत्र विरहपीडया केशेष्वनादरः श्लथबन्धत्वे हेतुः, श्लथबन्धत्वं तु कपोललम्बने, कपोललम्बनाच्च प्रियवियोगेष्वलकानां स्वकालान कपोललम्बनत्वमुक्तं त्यव्याकोधकतावच्छेद वा रघुवंशे—“शच्याश्चिरं पाण्डुकपोललम्बनान्मन्दारशून्यानलकांश्चकार।’ (६.२३) इति। न केवलं तदुपेक्षया कपोलयोरनुचितपरिग्रहो जातः, नीति अपितु रोध उचितपरित्य कर्णोत्पलशून्यतां गते इति । चिराय चिरकालम् । शेष चिराय चिररात्राय गमगते चिरस्याद्याश्चरार्थका’ इति सिंहः । कर्णयोराभरणत्वेन कल्पितमुत्पलं कर्णोत्पलं, ते तिन शून्यतां शून्यत्वम् । गते प्राप्ते । तपः प्रारम्भसमय एव कर्णोत्पलपरित्यागादेवमुक्तम्। कर्णालङ्काराणां कपोलमात्रशोभावहत्वात् कपोलयोरेव कर्णोत्पलशून्यत्वमपि । अ कपोलविशेषणेनापि विरहवेदनासमाधिः । त्वयि तु तदुपेक्षिता अपि जटाः किमिव । मधुराणां मण्डनं नाकृतीनामिति [ अ.शा. १. १८ ] न्यायेन चे मण्डनान्तरत्वेनैव पर्यवसिता इत्याहकलमाग्रपिङ्गला इति । कलमायं शालिशूकं, तद्वत् । पिङ्गलाः क रक्तवर्णाः । मिति अनेन व सुकुमारकेसरशिरीषकुसुमादिरूपकर्णाभरणत्वप्राप्तिर्जटानां दर्शिता ॥४७॥ तिनियतत्वात्स्वानाव्यस्य न द्युत्पत्स्थते घटो विनष्टो घट इति त्वया एम प्रतीयते। मुनिव्रतैस्त्वामतिमात्रकशितां मवायः पूर्वमासीदेव [ तथा] अनुत्पन्नस्यापि समवायः सम्बन्धिभिन्नः, दिवाकरप्लुष्टविभूषणास्पदाम् । अयन्त सम्बन्धात्मको ज्ञानविशेषात्मको वन किञ्चिदनुपपन्नम्। समवायेऽपि शशाङ्करेखामिव पश्यतो दिवा यतिष्याहमे । एवञ्च सति समविप्रतिपत्तिरिि रूपवर्ति रूपं रसवति सचेतसः कस्य मनो न दीर्यते ॥ ४८ ॥ यामुपपाद्यम्। एक यद्वा अभिन्ने भेदो वर्तत प्रकाशिका प्रश्नस्य। न हि स्वस्मादपि घटो नाभि एतदेवोपपादयति को भेदः पटाभिने घटे वर्तते पटभिन्ने वेति विशिष्य प्रश्ने कृत मुनिव्रतैरिति । पूर्वमेव कृशत्वादतिमात्रशब्दः । दिवाकरेति । दिवाकरप्लुष्टत्वं विभूषणस्थानानामेव यदुक्तं, तत्र तेषां विभूषणधारणकाले वातातपसंसर्गाभावान्मार्दवातिशयो हेतुः । शशाङ्करेखापक्षे विभूषणास्पदं त्रैलोक्यालङ्करणकृत्यम्। ‘प्रतिष्ठा कृत्यमास्पदमिति सिंहवचनादुभयार्थ आस्पदशब्दः । सचेतस इति । तन्त्र युक्त भाति, अनुपद वक्ष्यमाणाया सचेताश्चेद् दीर्येत, न चासौ दीर्यते, तस्मात् पाषाणप्रख्य एवासाविति प्रतिनिवाहाता इति प्रतीतः सत्य स्थितम् ॥ ४८ ॥ न्यत्र निपुणं प्रसाधितत्वादिति भावः। भेदरत्नम् २९५ ब्राह्मणोऽयं चैत्रः शूद्रो न वेति । अन्यथा विज्ञानात्मकं ब्रह्म जड़ें न वा, सुखात्मकं ब्रह्म दुःखात्मकं वेति विवरणम् करातेनापि त्वया साध्यमाने विज्ञान पाषाणादिवदेचेतन एवायं त्वदीप्सितो वर इति यदुक्तं तदेवोपपादयति हृदयस्य कदाचिदेवंविधपपनसम्भवस्तदं म्भवस्तदेत्तरं इत्तमेवापत्यम्। मुनिव्रतैरिति । मुनिव्रतैः अतिमात्रकशितां त्वां पश्यतः सचेतसः कस्य मनः न दीर्यते । मुनीनां व्रतैर्नियमैः तपोभिरित्यर्थः । अतिमात्रकर्शिताम् अतिमात्रम् अत्यर्थं कशितां कृशत्वं वै प्रापिताम् तिक पूर्वमेव कृशत्वादतिमात्रकर्शितत्वम्। त्वाम् एवम्भूतगुणविशिष्टाम्। पश्यतः अवलोकयतः सचेतसः च चेतसा सहितस्य । सचेतनस्येत्यर्थः । कस्य मनो न दीर्यते स्वयमेव विदीर्णं न भवति । दीर्यत इति । न | प्रश कर्मकर्तरि प्रयोगः । एवम्भूतां त्वां पश्यतां सर्वेषामपि मनो दीर्यत एवेत्यर्थः । सचेताश्चेत् तस्य मनो दीर्येत, नास्य मनो दीर्यते, मदा इ तस्मात् पाषाणसदृश इति । दिवा अहनि । अत्यन्तकार्यं द्योतयितुं रेखाशब्दः । मुनिव्रतप्रतिवस्तुतया दिवाशब्दः । पश्यतो मन इति अत्रापि योज्यम् । दिवा शशाङ्करेखां पश्यतो मन इवेत्यर्थः । निशायामतिमनोरमां शशाङ्करेखाम् अहनि • एवायमित्यर्थः । अत्र उपमामाह - दिवा शशाङ्करेखामिव शशाङ्कस्य चन्द्रस्य रेखां कलाम्। अस्त वा प्रतिप्रश्नः। तथा हि अ अभेदान्तरण ‘पश्चादाभ अशतः त्माश्रयत्वम द्विताय परिधूसरां पश्यन् को वा हन्तेदानीमेतादृशी जातेयमिति न दूयत इत्यर्थः । उपमानोपमेययोः साधारणं धर्ममाह – दिवाकराप्लुष्टविभूषणास्पदामिति । दिवाकरेण अनव अथ यद्येकदेव सर्व अभा ब्रह्म प स्तं तदा वतत च. भ भदपर्यवसान- तृषामन्यान्यकलह कः समादध्यात आदित्येन आप्लुष्टानि दग्धप्रायाणि विभूषणास्पदानि विभूषणानां कटकाङ्गदाद्यामित्यधिक दुषणा भरणानामास्पदानि स्थानानि यस्याः ताम् । तपसा सर्वेषामवयवानां कार्श्यमात्रं जातं, विभूषणस्थानानां पुनः आभरणधारणकाले वातातपादिसंसर्गाभावेनात्यन्तमार्दवात् पुनः तत्संसर्गे जाते दग्धप्रायत्वमेवापन्नमिति भावः । शशाङ्करेखापक्षे तु दिवाकरेण आप्लुष्टं परित्यक्तं विभूषणास्पदं त्रैलोक्यालङ्कारकृत्यं यस्याः इति योज्यम् । ‘प्रतिष्ठा कृत्यमास्पदम्’ इत्यमरसिंहवचनादास्पदशब्दस्योभयार्थत्वं द्रष्टव्यम्। दिवाकराप्लुष्टशशाङ्करेखां पश्यन् पुरुषः तत्समीचीनताविधानस्याशंक्यत्वात् तत्रोपेक्षां करोतीति युक्तम्। स्वाधीनानुग्रहः त्वदीप्सितः पुरुषः पुनः अखिलजगत्प्रार्थनीयां त्वामात्मप्रार्थनमात्रेणैतादृशीं पश्यन्नप्युपेक्षत इति यत्, तदचेतनत्वप्रयुक्तमेवेति युक्तमेवास्य कपाषाणादिप्रख्यत्वमिति भावः ॥४८॥ इति चेत् तर्हि [भेदोऽपि] घटत्वेन निरूप्यमाणोऽन्यसाव अवैमि सौभाग्यमदेन वञ्चितं न्यासाकाङ्क्षोऽस्तु, को विरोधः, प्रकारभेदमा तव प्रियं यश्चतुरावलोकिनः । केवलं मम घटत्वभेदप्रकारयोर्भेदोऽस्ति तव सोऽपि इति विशेषः । अभिन्नं ब्रह्म अभेदो करोति लक्षं रविमस्य चक्षुषो दो वा घट इत्यपि वा ब्रह्मेति कथमन्य न वक्त्रमात्मीयमरालपक्ष्मणः ॥४९॥ २९६ कुमारसम्भवे प्रकाशिका तमेव प्रकारान्तरेणोपालभते- अवैमीति । मत्सौभाग्यस्य दुर्लङ्घत्वात् सर्वथा मामेवासावभ्युपयास्यतीति सौभाग्यमदः, तेन वञ्चितम् । वञ्चनं च यद्वृत्तेन दर्शितम् । अरालं कुटिलम् ॥४९ ॥ विवरणम् अथ तमेव वरं प्रकारान्तरेणोपालभते— अवैमीति । अहं तव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि । तव प्रियं त्वया प्रियत्वेन सङ्कल्पितं पुरुषमित्यर्थः । सौभाग्यमदेन, सुभगत्वेन यो मदः तेन । मदीयस्य सौभाग्यस्य लोकोत्तरत्वादियं सर्वथापि मामेवाभिसरिष्यतीत्यभिमानेनेत्यर्थः। वञ्चितं कृतवञ्चनम् अवैमि कल्पयामि । ननु कुतो वञ्चितत्वमित्यत्राह— यः अस्य चक्षुषः रविं लक्षं करोति आत्मीयं वक्त्रं न इति । यः प्रियः अस्य लोकोत्तरत्वेन दृश्यमानस्य चक्षुषः नेत्रस्य रविम् आदित्यं लक्षं प्राप्यभूमिं करोति विदधाति । आत्मीयं निजं वक्त्रं वदनं न । लक्षं करोतीति शेषः । यद्यसौ सौभाग्यमदगर्वितो नाभविष्यत्, तर्हि लोकोत्तरगुणमेतद् भवदीयं नेत्रमनवरतं तन्मुखावलोकनपरमेवाभविष्यत् । इदानीं तु तपः सिध्यर्थं रविमात्रावलोकनपरमासीदित्यर्थः । क्रियाचातुर्यप्रतिपादने चक्षुषो विशेषं दर्शयति – चतुरावलोकिन इति । चतुरं सुन्दरं यथा भवति तथा अवलोकितुं शीलमस्येति तथा । स्वरूपचातुर्यतोऽपि विशेषमाह – अरालपक्ष्मण इति । अरालानि कुटिलानि पक्ष्माणि अक्षिरोमाणि यस्य तस्य ॥ ४९ ॥ । कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसञ्चितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ ५० ॥ प्रकाशिका प्रसङ्गाद् वरमुपालभ्य कर्तव्यमवधारयन् वरं पृच्छति — कियदिति । कियत् किपरिमाणम् । चिरं चिरकालम् । ‘कालाध्वनोः( २.३.५) इत्यादिना द्वितीया । पूर्वाश्रमो ब्रह्मचर्यम् । अर्धभागेन समप्रविभागरूपांशेन । साधु सम्यक् । अत्र प्रकरणे त्रिभिः श्लोकैस्तपस उचितः कुशलप्रश्नः,

२९७ ततस्त्रिभिः जिज्ञासासमर्थनं, तत एकेन स्वजिज्ञासितकथनं, तत एकेन वास्तवोद्घाटनं, तत एकेन तत्स्थिरीकरणं, ततः प्रसङ्गागतस्त्रिभिर्वरोपालम्भः, तत एकेन कार्योपसंहारपुरस्सरः प्रश्न इत्यनुज्झितक्रमत्वमनुसन्धेयम् ॥ ५० ॥ विवरणम् इत्थं चादुशतैरावर्जितचित्तां देवीं प्रति प्रष्टव्यमेवार्थं पृष्ट्वा वचनमुपसंहरति- कियदिति । गौरि ! त्वं कियच्चिरं श्राम्यसि । गौरि ! हे पार्वति । कियत् किंपरिमाणं चिरं चिरकालम् । ‘कालाध्वनोरिति द्वितीया । श्राम्यसि तपः करोषि । ‘श्रमु तपसि खेदे च’ इति धातुः । अलमनेन श्रमेणेति भावः । ननु श्रमाभावे कथमभिमतसिद्धिः, अत आह— ममापि पूर्वाश्रमसञ्चितं तपः विद्यते इति । ममापि, न केवलं तवैवेत्यर्थ । पूर्वाश्रमसञ्चितं पूर्वाश्रमे ब्रह्मचार्याश्रमे सञ्चितम् आर्जितं तपः । विद्यते भवतीत्यर्थः । नन्वस्तु नाम, प्रकृते तु किमायातमित्यत्राह —तदर्धभागेन काङ्क्षितं लभस्व इति । तदर्धभागेन तस्य तपसः अर्धभागेन समप्रविभागरूपेणांशेन । काङ्क्षितमीप्सितम् । वरमिति शेषः । लभस्व प्राप्नुहि अलं तव परिश्रमेण । अस्मदर्जितस्य तपसोऽर्धभागेनापि त्वदीप्सितं वरं प्राप्नुहीत्यर्थः । ननु तर्हि को विलम्बः, अत आह— अहं तं वरं साधु वेदितुम् इच्छामि च इति । तं त्वया मनसा सञ्चिन्त्यमानम् । वरं भर्तारं साधु सम्यग् वेदितुं ज्ञातुम् इच्छामि अभिलषामि च । चकार समुच्चये । पूर्वं दीर्घनिःश्वासानुमानेन सामान्यतो विदितं वरं विशेषतः प्रतिपत्तुमिच्छामीत्यर्थः । अत्र निगूढोऽर्थः - तपश्शब्देनात्र तपस्साधनभूतं शरीरं लक्ष्यते । साध्यसाधनभावश्च सम्बन्धः । ’ शरीरमाद्यं खलु धर्मसाधनम्’[कुमा.५.३३] इत्युक्तत्वात् । शरीरस्य दिव्यत्वप्रतीतिः तपश्शब्देनोपादानस्य फलम् । पूर्वाश्रम - सञ्चितं पूर्वं जगत्सर्गादौ अश्रमेण अनायासेन, मायामात्रेणेत्यर्थः । सञ्चितं सम्पादितं यत् तपः शरीरं तस्यार्धभागेन काङ्क्षितं लभस्व । हे गौरि ! अलं तवानेन परिश्रमेण । मम तपः शरीरार्धभागमेव ते दास्यामि । तं वरं शरीरार्धप्रदं भर्तारं वक्ष्यमाणपूर्वपक्षयुक्तिपरिहारक्रमेण ज्ञातुमिच्छामि च। पूर्वपक्षसिद्धान्तक्रमेण व्याख्यायमानमेव हि सर्वं मनोहरं भवतीति साधुशब्दप्रयोगः ॥ ५० ॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनीं निवर्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥ २९८ कुमारसम्भवे प्रकाशिका एवं प्रतारणाकुशलेन परममायिना प्रतारिताया देव्या वृत्तान्तमाह- LAN इतीति । प्रविश्यानुप्रविश्य । इदमकथनस्याशक्यत्वे हेतुः । न शशाक, लज्जयेति शेषः । अथो इति शंसनस्याशक्यत्वावधारणानन्तरमित्यर्थः । निवर्तितानञ्जननेत्रं, पूर्वं द्विजाभिमुखस्थितत्वान्निवर्तितेन लोचनेन सखीं स्वमनोरथशंसनाय चोदितवतीत्यर्थः ॥ ५१ ॥ विवरणम् इत्थं कपटवटुना वञ्चिताया देव्यास्तदनुगुणां प्रवृत्तिमाह- इतीति । द्विजन्मना प्रविश्य इति अभिहिता सा मनोगतं शंसितुं न शशाक । द्विजन्मना ब्राह्मणेन । ‘मातुरग्रेऽभिजायन्ते द्वितीयं मौञ्जिबन्धनात्’ (याज्ञ. १.३९) इति स्मृत्यनुसारेण द्वे जन्मनी यस्य विद्येते स द्विजन्मा । अनेन ब्राह्मणप्रार्थितस्यार्थस्यानतिक्रमणीयत्वाद् वचनस्यावश्यकत्वमुक्तम्। न केवलमदृष्टवशादेव वचनस्यावश्यकत्वं, दृष्टवशादपीत्याह — प्रविश्येति । अनुप्रविश्य, पूर्वोक्तेन वचनविन्यासक्रमेणान्तः प्रविश्येत्यर्थः । यस्य यस्य हि यो भावस्तेन तेन च तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं क्षिप्रमात्मवशं नयेत् ॥ इति न्यायेन कपटवटुना वशीकृतत्वमनेन दर्शितम् । अभिहिता उक्ता । ब्राह्मणत्वेन बन्धुत्वेन चाकथनस्याशक्यत्वेन वचनस्यावश्यकत्वे सत्यपि सा पार्वतीं मनोगतमर्थं शंसितुं कथयितुं न शशाक । लज्जयेति । शेषः । देव्यास्तात्कालिकमुपायान्तरं दर्शयति — अथो सा परिपार्श्ववर्तिनीं वयस्यां विवर्तितानञ्जननेत्रम् ऐक्षत इति । अथो शंसनस्याशक्यत्वावश्यकत्वयोरवधारणानन्तरम्। ‘मङ्गलानन्तरारम्भप्रश्न- कात्स्न्र्येष्वथो अथ’ इत्यमरः । परिपार्श्ववर्तिनीं समीपचारिणीम् । अत्र ताच्छील्यार्थेन प्रत्ययेन सर्वदा समीपवर्तनमुक्तम्। तेन च वयस्याया देवीहृदयगतसर्वाभिप्रायविज्ञानं देव्यास्तदीयवचनकौशलावधारणं च दर्शितम् । वयस्यां सखीम् । विवर्तितानञ्जननेत्रम्, ईक्षणक्रियाविशेषणञ्चेदम् । पूर्वमभिमुखस्थितब्रह्मचारिमुखवर्तित्वात् तस्माद् विवर्तिते परावर्जिते अनञ्जने आदौ विरहपीडया पश्चात् तपश्चरणेन चाञ्जनरहिते नेत्रे यथा भवतस्तथा । ऐक्षत ईक्षितवती । अनञ्जनशब्देनात्र पीडाधिक्यप्रतिपादनद्वारेण सर्वा अपि मत्पीडा वक्तव्या इत्यर्थो ध्वन्यते । ब्रह्मचारिमुखाद् नेत्रमाकृष्य सखीमुखावलोकनमात्रेण तां निजमनोरथशंसनाय चोदितवतीत्यर्थः ॥ ५१ ॥

सखी तदीया तमुवाच वाञ्छितं निबोध साधो ! तव चेत् कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥ प्रकाशिका २९९ सखीति । साधो ! इति साधुष्वकथनीयं नास्तीति द्योत्यते । कुतूहलं चेदिति कथितेऽपि कुतूहलनिवृत्तिरेव फलमिति द्योतयति । वाञ्छितस्य दुरधिगमत्वं दर्शयता यच्छब्दवाक्यार्थेन कुतूहलस्योपपद्यमानतापि द्योत्यते । अस्मिन्नर्थे कुतूहलं च तवोपपन्नं, साधुभावादवञ्चनीयश्चासि, तस्माद् वाञ्छितं वक्ष्यमाणं विदित्वास्मन्मतज्ञो निष्कुतूहलश्च भवेत्यर्थः । एतद्वाक्यं नैकृतिके तस्मिन्नार्जवसुलभं विस्रम्भं द्योतयद् विस्रम्भभाषितानां घटकतया कविनोपात्तम् ॥ ५२ ॥ विवरणम् अथ देव्या वचनाय चोदिताया वयस्यायाः प्रवृत्तिं दर्शयति दशभिः श्लोकैः । तत्रादौ कपटवटोर्वञ्चनाचुञ्चतामजानती वक्ष्यमाणानां विस्रम्भभाषितानामुपपत्तिं दर्शयति- सखीति । तदीया सखी तम् उवाच। तदीया पार्वतीसम्बन्धिनी सखी वयस्या । ‘आलिः सखी वयस्या चे ‘त्यमरः । तमपरमार्थब्रह्मचारिणम् उवाच उक्तवती । उक्तिप्रकारमेवाह — साधो ! तव कुतूहलं चेद् वाञ्छितं निबोध इति । हे साधो ! समचित्त ! नहि साधुषु किञ्चिदप्यकथनीयमस्तीति भावः । नापि साधुर्वञ्चनीय इति च द्योत्यते । तव साधुत्वादवञ्चनीयस्य ते । कुतूहलं कौतुकम् । ‘कौतूहलं कौतुकं च कुतुकं च कुतूहलमित्यमरः । कौतुकमस्ति चेन्निबोध नितरामवगच्छ, सर्वमपि कथयामीत्यर्थः । अत्र कुतूहलमस्ति चेद् निबोधेत्यनेन कुतूहलनिवृत्तिमात्रमेवावधारणस्य फलमिति दर्शयति । सर्वमवधार्य वयमिव त्वमपि दुःखभाजनमात्रं भवेत्यर्थ । बोद्धव्यमेवार्थं संक्षिप्य दर्शयति – यदर्थम् एतया वपुः तपस्साधनं कृतमिति । यदर्थं यादृशवाञ्छितसिद्ध्यर्थम् । एतया अत्यन्तपेलवगात्र्या अनया । वपुः मृदुतरमात्मशरीरम् । अत्यन्तकठिनशरीरसाध्यस्य तपसः साधनत्वेन कृतं विहितम् । तं वाञ्छितं निबोधेति पूर्वेण योजना । अनेन वाक्येन वाञ्छितस्यार्थस्यात्यन्तदुस्साधनत्वमुक्तम् । श्रवणकुतूहलस्योपपत्तिश्च द्योत्यते । एतादृशे तपस्येतादृशस्य शरीरस्यायोग्यतामुपमया समर्थयते — अम्भोजम् उष्णवारणम् इव। अम्भोजं तामरसम्। उष्णवारणम् आतपत्रम् इव । यथा दर्शनावघ्राणादिभिरुपभोक्तव्यमत्यन्त-

३०० कुमारसम्भवे पेलवमम्भोरुहमातपत्रत्वेन विधीयते, तथैवेदमपीत्यर्थः । पीडाया अत्यन्तदुस्सहत्व- मेवात्र हेतुरिति भावः ॥ ५२ ॥ तान्याह- इयं महेन्द्रप्रभृतीनाधिश्रिय- श्चतुर्दिगीशानवमत्य भामिनी । अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥५३॥ प्रकाशिका इयमिति । अवमत्येत्यनेन तेषामतिसुलभत्वं द्योत्यते । भामिनी कोपना । इन्द्रादीनां वरत्वकथने कुप्यतीति भावः । अरूपहार्यमित्यनेन तपस एव तत्र साधनत्वं द्योतयति । पिनाकपाणिमिति वीराभिलाषिण्यो हि कन्यका इति भावः ॥ ५३ ॥ अथ तान्येव विवरणम् विस्रम्भकथनान्याहावशिष्टैः श्लोकैः । तत्रादौ हृदयगतं वरमेवोद्दिशति- इयमिति । इयं महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य पिनाकपाणि पतिम् आप्तुम् इच्छति। इयम् अतिसुकुमारतया दृश्यमाना, अनेन सहस्राक्षाद्युपयोगयोग्यता निरस्ता । महेन्द्रप्रभृतीन् इन्द्रयमवरुणकुबेरान् किं पुनरन्यानिति भावः । तेषाम् आधिपत्यतोऽपि त्रिलोकनाथात् पिनाकपाणेः अत्यन्तहीनतां दर्शयतिचतुर्दिगीशानिति । पूर्वादीनां चतुर्णां दिशां क्रमादीशान् स्वामिनः । अवमत्य धिक्कृत्य, अत्यन्तसुलभांस्तान् परित्यज्येत्यर्थः । पिनाक इति हरधनुषो नाम । ‘पिनाकोऽजगवं धनुरित्यमरः । पिनाकः पाणौ यस्य तम् । वीरकामिन्यो हि नितम्बिन्य इति भावः । अनेनास्यास्तत्प्रार्थनैव युक्ततरेति द्योत्यते । वीराग्रेसर एवायं न पाषाणादिवद् जड इति चानेनैव द्योत्यते । पतिं भर्तारं पिनाकपाणि पतित्वेन प्राप्तुमिच्छतीत्यर्थः । महेन्द्रप्रभृतीनां सर्वलोकप्रार्थनीयत्वमाह – अधिश्रिय इति । अधिगता प्राप्ता श्री ऐश्वर्यं यैः तान् । देवीं विशिनष्टि - भामिनीति । ‘कोपना सैव भामिनी’ त्यमरः । कोपशीलेत्यर्थः । अनेन महेन्द्रादीनां वरत्वकथनमात्रेऽपि कोपशीलत्वमुक्तम् । ननु किं पिनाकपाणिप्राप्त्यर्थं तपश्चरणक्लेशेन, रूपसम्पदा सर्वलोकप्रार्थनीया खल्वेषा । उक्तं च’न रत्नमन्विच्छति मृग्यते हि तत्’ (५.४५) 2

३०१ इति । तत्र परिहारमाह — मदनस्य निग्रहाद् अरूपहार्यम् इति । मदनस्य कामदेवस्य । निग्रहाद् हननात् । रूपेण सौन्दर्येण हार्यः हर्तुं वशीकर्तुं शक्यो रूपहार्यः, रूपहार्यो न भवतीत्यरूपहार्यः, तम् । कामदहनदर्शनानन्तरं भगवतो रूपहार्यत्वाभावमवधार्य तत्प्राप्तावुपायान्तरमपश्यन्ती तपश्चरणमेव तत्रोपायत्वेन निश्चितवतीत्यर्थ ॥ ५३ ॥ असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षिणोद् विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥ प्रकाशिका विवरणम् …॰।

कुमारसम्भवे तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥५५ ॥ प्रकाशिका अथ चतुर्भिः श्लोकैः पूर्वानुरागचेष्टां वर्णयति— तदा प्रभृतीति । ‘प्रभृतिशब्दयोगे पञ्चमी दृष्टा । सप्तमीप्रयोगस्तु मृग्य’ इति दक्षिणावर्तः । उन्मदना उद्भूतमदना । ललाटिका ललाटाभरणम् । ‘कर्णललाटात् कन्नलङ्कारे’ (४.३.६५) इति कन् । दक्षिणावर्तस्तु — अनेनानूढत्वमुक्तम् । ऊढानां तु तिलकमलङ्कारः । वक्ष्यति च ‘विवाहदीक्षातिलकं चकार’ (७.२४) इतीत्याह । तदसत्। ऊढाया अपि विरहतापप्रशमाय चन्दनेन ललाटिकैवालङ्कारः, न तु तिलकः, तस्य ललाटव्यापित्वाभावात् । निर्वृतिं ज्वरप्रशमम् । सङ्घातः स्त्यानभावः ॥ ५५॥ विवरणम् अथ चतुर्भिः श्लोकैः पूर्वानुरागचेष्टाः प्रतिपाद्यन्ते । तत्रादौ शरपातानन्तरभवं मदनव्याधिमेवाह— तदेति । बाला तदा प्रभृति पितुः गृहे तुषारसङ्घातशिलातलेषु अपि जातु निर्वृतिं न लभते स्म । बाला ततः पूर्वं कदाचिदपि अननुभूतमदनवेदना स्वतो दुर्बला चेत्यर्थः । तदाप्रभृति शरपातानन्तरकालादारभ्य । पितुः गृहे हिमवत्प्रदेशे । अनेनानवरतप्रवृत्तहिमजलवर्षशीतलस्वभावत्वं सर्वप्रदेशानामुक्तम् । तेन च तत्रापि निर्वृतिलाभाभावाद् मदनवेदनायाः प्रभूतत्वं सूचितम् । स्वतः शीतलेष्वपि हिमवत्प्रदेशेषु शीतलिम्नः परमकाष्ठाधिष्ठितान् प्रदेशविशेषानाह — तुषारेति । तुषाराणां सङ्घातः तुषारसङ्घातः । तुषारो हिमम् । सङ्घातः समूहः । तुषारसङ्घाताश्च ताः शिलाश्चेति तुषारसङ्घातशिलाः, तासां तलेषु प्रदेशेषु । अपिशब्दः तत् निर्वृतिलाभाभावस्यानुपपत्तिमाह। अत्र बहुवचनेन यदा तदङ्गसङ्गादेका शिला शीतलतां जहाति, तदा शिलान्तरे शेत इति क्रमेण सकलशिलातलशयनं द्योत्यते । जातु क्षणकालमपि । निर्वृतिं ज्वरप्रशमम् । न लभते स्म नोपगतवती । निर्वृतिलाभाभावे हेतुमाह — उन्मदनेति । उद्भूतमदना, अत्र मदनशब्दो मदनवेदनां लक्षयति । शीतोपचाराणामपि निरर्थकत्वमाह - ललाटिकेति । ललाटिकाचन्दनधूसरालका । ललाटिका ललाटालङ्कारः ‘कर्णललाटात् कन्नलङ्कारे’ (४.३.६५) इति कन् । टाप् । ।

३०३ ‘प्रत्ययस्थादि—’(७.३.४४ ) त्यादिना अकारस्येकारादेशः । ललाटालङ्कारभूतं चन्दनं ललाटिकाचन्दनं, मदनज्वरशान्तये ललाटे शीतोपचारार्थं निक्षिप्तं चन्दनमित्यर्थः । तेन धूसराणि ललाटतटघटनमात्रेणैव झटिति भस्मभावमुपगतेन चन्दनेन धूसरवर्णान्यलकानि यस्याः सा तथा ॥ ५५ ॥ . उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसङ्गीतसखीररोदयत्॥५६॥ प्रकाशिका उपात्तवर्ण इति । वर्णो गीतिक्रमः, शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे तथा । गीतिक्रमे स्थितौ वेषे वर्णशब्द उदीरितः ॥ इति हलायुधः । चरिते त्रिपुरदाहादौ । वनान्तेति वनान्तेषु संगीताभ्यासार्थं कृतसख्या वनान्तगमनम्। अरोदयत् इत्यर्थः । एकान्ते स्वदुःखानुवेधवशात्॥ ५६ ॥ विलापमाह- पिनाकिचरितश्रवणतृष्णया विवरणम् उपात्तेति । इयं पिनाकिनः चरिते उपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैः वनान्तसङ्गीतसखीः किन्नरराजकन्यकाः अनेकशः अरोदयत् । इयं तव पुरतो वर्तमाना । पिनाकिनः हरस्य, अत्र पिनाकिपदोपादानेन हरस्य वीराग्रेसरत्वं ध्वन्यते । तेन च त्रिपुरदहनगजासुरावमर्दनादिचरितानामानन्त्याद् गीतिक्रमसौकर्यं ध्वन्यते । चरिते त्रिपुरदहनादौ । उपात्तवर्णे उपात्तो वर्णो गीतिक्रमो यस्मिंस्तथाभूते सति । शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते । गीतिक्रमे स्तुतौ वेषे वर्णशब्दः स्मृतो बुधैः ॥ इति हलायुधः । सबाष्पकण्ठस्खलितैः ‘बाष्पः कण्ठाद्याश्रयो दुःखवेगः’ इति भोजः । तत्सहिते कण्ठे स्खलितैः स्खलनं प्राप्तैः गद्गदप्रतिहतैरित्यर्थः । पदैः पदमात्रमपि न प्रसरति, किं पुनः गीतिक्रम इति भावः । वनान्तसङ्गीतसखीः वनान्ते यत् सङ्गीतं तत्र सखी, वनान्ते सङ्गीताभ्यासार्थं कृतसख्या इत्यर्थः । किन्नरराजकन्यकाः३०४ कुमारसम्भवे किन्नराणां किम्पुरुषाणां राजानः किन्नरराजाः, तेषां कन्यकाः किन्नराणां स्वरमाधुर्याधिक्यात् किन्नरपदोपादानम् । यथा रघुवंशे- वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किन्नरस्वरौ । किं तद् येन मनो हर्तुमलं स्यातां न शृण्वताम्॥ (१५.६४) इति । राजपुत्र्या देव्या राजपुत्रीभिरेव सख्यस्यौचित्याद्राजपदोपादानम् । अनेकशः मुहुर्मुहुः । अरोदयत् रोदनं कारितवती । आत्मशोकानुवेधवशादिति शेषः । अयमभिप्रायः– यदा तावदियमेकान्ते पिनाकिचरितश्रवणतृष्णया वनान्तमुपगम्य सङ्गीताभ्यासव्याजेन काश्चन मनोहरस्वराः किन्नरराजकन्यकाः समानीय प्रसङ्गार्थमादौ स्वयमेव त्रिपुरदहनादिरूपं हरचरितं किमपि गातुमारभते, तदैव तत्स्वरूपस्मरणोदबुद्धया द्विगुणया विरहवेदनया वाष्पगद्गदं रुदती निजशोकदर्शनसञ्जातशोकातिरेकास्ताः सर्वा एव मुहुर्मुहुररोदयत् । पिनाकिचरितं तु न किञ्चिदपि श्रुतवती । अहो विपरीतस्तत्राप्यस्या विधिरिति ॥ ५६ ॥ त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ ! व्रजसीत्यलक्षवा- गसत्यकण्ठार्पितबाहुबन्धना ॥५७॥ प्रकाशिका त्रिभागशेषास्विति । त्रिभागस्तृतीयो भागः । त्रिभागशेषास्विति निद्राया दुर्लभत्वं द्योत्यते । क्षणं निमील्येति स्वप्नावसर उक्तः । अलक्षत्वादिना स्वप्ने प्रत्यक्षभ्रमो द्योत्यते । क्व व्रजसीत्यनेन उपगूढस्य पलायनोद्यमस्त्रासहेतुः प्रतीयते । त्रासाच्च सहसा विबोधः ॥ ५७ ॥ विवरणम् निद्रापरिक्षयमीषन्निद्रासमये स्वप्नसमागमं चाह- त्रिभागेति । इयमिति पूर्वश्लोकादत्रापि कर्तृत्वेनानुषज्यते । इयं निशासु त्रिभागशेषासु क्षणं नेत्रे निमील्य नीलकण्ठ ! त्वं क्व व्रजसि इति सहसा व्यबुध्यत । निशासु रात्रिषु । त्रिभागशेषासु तृतीयो भागस्त्रिभागः, अंशवाचिना शब्देन सह समस्यमानः सङ्ख्याशब्दः पूरणप्रत्ययेन विनापि पूरणप्रत्ययोपेतपदवाच्यमर्थमेव ब्रवीतीत्यवगन्तव्यम्। शतांशः सहस्रांशः इत्यादिप्रयोगदर्शनात् । यथा च ‘तस्मिन्नात्मचतुर्भागे’(१६.९६ ) इति रघुवंशे । तृतीयो भागः शेषोऽवशिष्टो यासु

३०५ तादृशीषु सतीषु, अनेन तत्पर्यन्तं निद्रालेशस्याप्यभावः सूचितः । क्षणं क्षणकालम्, अनेन तत्काले निद्रावसर उक्तः । नेत्रे लोचने । निमील्य स्वप्नावस्थयेति शेषः । नीलकण्ठेति सम्बुध्या कालकूटकवलनादिलोकोपकारनिरतस्य तव अनागसमनाथां च मां परित्यज्य गमनमनुचितमिति ध्वन्यते । क्व व्रजसि क्व गच्छसि, इत्यनेन क्षणमुपगूढमात्रस्य पलायनोद्युक्ततया स्वप्नदर्शनं ध्वन्यते। अतिपराधीनत्वभावनाजनितः संस्कारस्तथा स्वप्नदर्शने हेतुरित्यस्माकमूहः । पलायनोद्यमाच्च त्रासः, त्रासाच्च सहसाबोध इत्यादयश्च सूच्यन्ते । इतिशब्दादूर्ध्वमुक्त्वेति शब्दश्च द्रष्टव्यः, क्व नीलकण्ठेत्यादिशब्दमुक्त्वेत्यर्थः । अत्र निद्राया अतिमान्द्यात् स्वघ्नजागरावस्थयोः परस्परसङ्करात् स्वप्ने प्रत्यक्षत्वभ्रमः । तेन च परमार्थसत एव वचसः प्रवृत्तिरिति द्रष्टव्यम् । सहसा व्यबुध्यत शीघ्रमेव प्रबुद्धाभूत् । स्वप्नावस्थाया विरतौ वाङ्मात्रमेवावशिष्टं प्रियस्तु न तत्र दृष्टोऽभूदित्याह - अलक्षवागिति । लक्षशब्दश्चात्र यमुद्दिश्य वचसः प्रवृत्तिः, तं लक्षयति । अलक्षा लक्षण रहिता वाग् यस्याः सा तथोक्ता । आलिङ्ग्यस्याप्य-भावमाह -असत्यकण्ठार्पितबाहुबन्धनेति । असत्ये अपरमार्थे सदसद्विलक्षणे कण्ठे इत्यर्थः । शुक्तिकारजतादिषु मिथ्याज्ञानेषु सदसद्विलक्षणं रजतादिकं विषयः इत्यद्वैतवादिनां मतं, तदनुसारेणेयमुक्तिः । अन्यथा पुनरलक्षवागितिवदकण्ठार्पितबाहुबन्धनेत्येव प्रयोगः स्यात् । अर्पितं न्यस्तं बाहुबन्धनम् आलिङ्गनं यया सा तथा । स्वप्नसमागमावस्थायामपि पराधीन एवास्या प्रियः । कष्टमस्याः विधिवैपरीत्यमिति भावः ॥ ५७ ॥ , सदा बुधैः सर्वगतस्त्वमुच्यसे । न वेत्सि भावस्थमिमं कथं जनम् । इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥५८॥ प्रकाशिका एवं स्वप्ने सन्दर्शनमुक्त्वा चित्रेऽप्याह- স सदेति । सदा सर्वगत इति कालतो देशतश्चानवच्छेदकथनेनापह्नवावकाशं निराकरोति । भावोऽभिलाषः । स्वहस्तेनोल्लिखितश्चित्रे निवेशितः । रहसीति अस्मास्वदृश्यमानासु पश्यन्तीष्वित्यर्थः । अत्रापि प्रत्यक्षभ्रमः । अत्र चतुर्ष्वपि श्लोकेषु व्याधिविलापजागरोन्मादाः क्रमाद् दर्शिताः प्राधान्येन, भावाश्चान्येऽपि गुणत्वेन ॥ ५८ ॥ (….) ३०६ कुमारसम्भवे विवरणम् अथ चित्रदर्शनमुन्मादावस्थां चाह- सदेति । त्वं बुधैः सदा सर्वगतः उच्यसे । चित्रनिवेशिते भगवत्युन्मादावस्थया प्रत्यक्षभ्रमेणात्र त्वंपदप्रयोगपूर्वको व्यवहारः । बुधैः विद्वद्भिर्मन्वादिभिः । अनेन तद्वचनस्य वेदमूलत्वादन्यथात्वशङ्कां निवर्तयति । सदा सर्वदा सर्वेषु कालेषु । अनेन कालतः परिच्छिन्नत्वं निरस्तम् । सर्वगतः सर्वत्र गतः । अनेन देशतः परिच्छिन्नत्वं निरस्तम् । उच्यसे कथ्यसे । त्वं देशकालानवच्छिन्न इति मन्वादिभिः स्मर्यसे इत्यर्थः । नन्वस्तु नाम मे देशकालानवच्छिन्नत्वं, प्रकृते तु को विरोधः, अत आह— त्वं भावस्थम् इमं जनं कथं न वेत्सि इति । भावस्थम् । भावोऽभिलाषः, तत्र तिष्ठतीति भावस्थ । ‘सुपि स्थः’ ( ३.२.४) इति कः । अभिलाषस्य समुद्राकारेण वर्धमानत्वात् तस्मिन्नेव स्थितमित्यर्थः । इमं जनं मां कथं न वेत्सि न जानासि । जानास्येवेत्यर्थः । देशकालाभ्यामनवच्छिन्नस्य तव मदभिलाषाज्ञानादुपेक्षणमिति वक्तुं न युक्तम् । तस्माद् निर्दयत्वादेवोपेक्षणमिति भावः । चित्रार्पिते भगवति प्रत्यक्षत्वभ्रमादयमुपालम्भ इति वदन्ती देव्या देवविषयस्य भावस्य परमकाष्ठाधिष्ठितत्वमाह — मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरः रहसि इति उपालभ्यत च इति । मुग्धया मोहमुपगतया । मोहो विपरीतग्रहः । चित्रस्थितेऽपि चन्द्रशेखरे सञ्जातपरमार्थचन्द्रशेखरबुद्ध्येत्यर्थः । स्वहस्तोल्लिखितः आदरातिशयात् स्वहस्तेनैव चित्रे निवेशितः । स्वरूपदर्शनाभिलाषातिशयादिति शेषः । चन्द्रः शेखरः शिरोलङ्कारो यस्य स तथा । अनेन भगवत्स्वरूपस्य दर्शनीयत्वमुक्तम् । तेन च दर्शनौत्सुक्याधिक्यं सूच्यते । रहसि विजने । अस्माभिरपीयमवस्था निगूढतरमेव दृष्टेत्यर्थः । इतिशब्दः ‘सदा बुधैरित्यादिपूर्वोक्तक्रमविवक्षया प्रयुक्तः । उपालभ्यत निन्दितोऽभूत्। अनेनोन्मादावस्था दर्शिता । मूर्छावस्था तु बहुशः सञ्जातापि स्नेहाधिक्येन वक्तुमप्यशक्यत्वात् प्रियवयस्ययोपेक्षितेत्यवगन्तव्यम्॥५८॥ यदा हि तस्याधिगमे जगत्पते- रपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरो- रियं प्रपन्ना तपसे तपोवनम्॥५९॥ प्रकाशिका अथैवंविधनिष्प्रतीकारमदनोन्मादितायास्तपसि प्रवृत्तिमाह- यदेति । अधिगमे ‘निमित्तात् कर्मयोगे’ (वा. २.३.३६) इति सप्तमी ।

३०७ विचिन्वती चेतसा । विचयनम् अस्माभिः सह । गुरोरनुज्ञयेति विमृश्यकारित्वं द्योत्यते ॥ ५९ ॥ विवरणम् अथैवंविधया निष्प्रतीकारया मदनवेदनया समुन्मथिताया अपि देव्या धैर्यावलम्बपुरस्सरीं तपसि प्रवृत्तिमाह- यदेति । इयं यदा हि जगत्पतेः तस्य अधिगमे विचिन्वती अन्यं विधिं न अपश्यत्, तदा गुरोः अनुज्ञया अस्माभिः सह तपसे तपोवनं प्रपन्ना । इयं पार्वती यदा यस्मिन् काले । हिशब्दो वाक्यालङ्कारे । जगत्पतिः त्रैलोक्यनाथश्च । अनेन तपोव्यतिरिक्तस्योपायान्तरस्याभावो द्योत्यते । तस्य चन्द्रशेखरस्य अधिगमे पतित्वेन प्राप्तौ । ‘निमित्तात् कर्मसंयोग’ इति सप्तमी । विचिन्वती सकलशास्त्रावगमपरिशुद्धेन निजेनैव चेतसा विचयनमन्वेषणं कुर्वती । अन्यं विधिं तपोव्यतिरिक्तं विधानान्तरम् । न अपश्यद् न दृष्टवती । तदा विधानान्तरादर्शनकाले गुरोः पितुः अनुज्ञया अनुवादेन । हेतौ तृतीया । गुरुनियोगपुरस्सरमित्यर्थः । अस्माभिः प्रियसखीभिः सहैव गन्तव्यम्, इत्थं च तपः कर्तव्यमित्यादिर्गुरोरनुज्ञा अनेन दर्शिता । अनेन विमृश्यकारित्वं ध्वनितम्। तपसे तपश्चरितुम्। तपोवनं तदुचितं प्रदेशम् । प्रपन्ना प्राप्ता ॥ ५९ ॥ द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु बद्धमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥६०॥ प्रकाशिका अथ तपसश्चिरप्रवृत्तत्वं फलादर्शनं च सनिर्वेदमाह– द्रुमेष्विति । सख्या स्वयं कृतजन्मसु रोषितेषु । अत एव तुल्यकालत्वात् तपः साक्षिषु । बन्धो निष्पत्तिः एवं प्रकृतव्यतिरेकविवक्षया प्रतियोगिनमुक्तत्वा प्रकृतमाह — न चेति । चस्त्वर्थे । मनोरथस्त्वित्यर्थः । मनोरथः समागमलक्षणं कार्यम् । प्ररोहशब्दः प्रक्रान्तद्रुमसमाधिना । प्ररोहाभिमुखोऽपि तिष्ठतु तावद् द्विपत्राद्यवस्था । प्ररोहाभिमुख्यं च बीजस्य किञ्चिदुच्छूनता। अद्यापि मनोरथोऽस्या बीजावस्थ एवेत्यर्थः ॥ ६० ॥ ३०८ कुमारसम्भवे विवरणम् इत्थं चोद्यस्योत्तरं सहेतुकं प्रतिपाद्यातिदुश्चरेऽपि तपसि चिरकालप्रवृत्तत्वं तत्फलादर्शनं च स्वयमेव विस्रम्भातिशयात् सनिर्वेदमाह - द्रुमेष्विति । सख्या स्वयं कृतजन्मसु तपस्साक्षिषु एषु द्रुमेषु फलं बद्धम् अपि । सख्या अस्माकं प्रियवयस्यया । अनेन सौहार्दातिशय सूचितः । कृतं विहितं जन्म उत्पत्तिर्येषां तेषु। स्वयमेव बीजावापजलाहरणादिपुरस्सरं वनवासारम्भसमकालमेव रोपितेष्वित्यर्थः । अत एव तपस्समकालीनत्वात् तपसः साक्षिभूतेषु । एतावन्तं कालमियमेवमेव तपश्चचारेति जनान् बोधयत्स्वित्यर्थः । एषु उटजाङ्कणे परितो दृश्यमानेषु । अनेन तवापि प्रत्यक्षेयमतिमहती कालान्तरप्राप्तिरिति दर्शयति । द्रुमेषु वृक्षेषु फलं बद्धं सञ्जातम् । न केवलं पुष्पनिष्पत्तिः, अपितु फलनिष्पत्तिरपि जातेत्यपिशब्दार्थः । तपस्समारम्भकाले सख्या समुत्पादितेषु वृक्षेषु फलोत्पत्तिरपि जाता । अहो महानतीत काल इति भावः । इत्थं वृक्षाणां प्रकृतान्मनोरथाद् व्यतिरेकविवक्षया फलनिष्पत्तिमुक्त्वा प्रकृतस्य मनोरथस्य तु प्राचीनावस्थैवेत्याहअस्या शशिमौलिसंश्रयः मनोरथश्च प्ररोहाभिमुखः अपि न दृश्यते इति । अस्याः अतिमहता तपसा कृशशरीरतया दृश्यमानायाः । अनेन तवापि प्रत्यक्षेयमस्याः समवस्थेति दर्शितम्। शशिमौलिः चन्द्रशेखरः संश्रयः आश्रयो यस्य तादृशो मनोरथः । मनोरथशब्देनात्र हरसमागमलक्षणं तत्कार्यं लक्ष्यते । चकारस्तुशब्दार्थे । मनोरथस्त्वित्यर्थः। प्ररोहशब्दो लोके वृक्षाद्यङ्करोत्पत्तौ प्रसिद्धः । अत्र तु प्रक्रान्तद्रुमसमाधिसिद्ध्यर्थं प्रयुक्तः । प्ररोहं प्रत्यभिमुखः प्ररोहाभिमुखः । उद्भवोन्मुख इत्यर्थः । प्ररोहाभिमुखत्वं च बीजस्य किञ्चिदुच्छूनतयावस्थानम् । तदपि न दृश्यते । तिष्ठतु तावदङ्कुरावस्था द्विपत्राद्यवस्थादयश्चेत्यपिशब्दार्थः । अनेन सम्भोगरूपस्य फलस्यात्यन्तविप्रकृष्टत्वमुक्तम् ॥ ६० ॥ न वेद्मिस प्रार्थितदुर्लभः सदा सखीभिरस्त्रान्तरवीक्षितामिमाम् । तपःकृशामभ्यवपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥ ६१ ॥

… कुमारसम्भवे अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकमुन्दरस्तया । अपीदमेवं परिहास इत्युमा- मपृच्छदव्यञ्जितहर्षलक्षणः ॥६२॥ प्रकाशिका एवमत्यार्जवादतिविवृतरहस्यम् अतिकातरं च सखीवचनमाकर्णितवतः प्रभोर्वृत्तमाह-

अगूढेति । सद्भावः परमार्थः । दक्षिणावर्तस्तु — तद्भावमिति पाठमादृत्य तच्छब्देन गौरीपरामर्श इत्याह । अगूहने हेतुमाह – इङ्गितज्ञयेति । तच्चेङ्गितं निवर्तितानञ्जननेत्रेक्षणम्। नैष्ठिकश्चासौ सुन्दरश्चेति समासः । नैष्ठिक उपकुर्वाणश्चेति द्विविधो ब्रह्मचारी । तयोर्यावज्जीवब्रह्मचारी नैष्ठिकः । सुन्दरशब्देन कामुकत्वं लक्ष्यते । परस्परविरुद्धमिदं नैष्ठिकत्वं सुन्दरत्वं चेति चित्रमिदं देव एव सम्भाव्यमिति भावः । अपि प्रश्ने । इदं सखीवचनम् । एवमित्थम् । परिहासः केलिः । ‘द्रवकेलिपरीहासा’ इति सिंहः । अव्यञ्जतं गूहितं हर्षलक्षणं रोमाञ्चादि येन । अयं च प्रश्नो देवीमुखेन श्रोतुमौत्सुक्यात् ॥ ६२ ॥ विवरणम् इत्थमत्यार्जवादतिविवृतरहस्यवृत्तान्तमतिकरुणं च सखीवचनमाकर्णितवतोऽपि तमेव वृत्तान्तं तन्मुखेनैव श्रोतुकामस्य कामुकस्य भगवतो वृत्तमाह- अगूढेति । इङ्गितज्ञया तथा अगूढसद्भावम् इति । निवेदितः नैष्ठिकसुन्दरः इदम् एवम् अपि परिहासः इति उमाम् अपृच्छत् । इङ्गितमभिप्रायं जानातीतीङ्गितज्ञा, तया । ‘निवर्तितानञ्जननेत्रमैक्षत’ (कु. ५.५१ ) इत्यत्र देव्या हृदयगतमभिप्रायमवगच्छन्त्येत्यर्थः। इदं परमार्थस्यागूहने हेतुः । तया सख्या । अगूढसद्भावमिति निवेदनक्रियाविशेषणम् । अगूढो विवृतः सद्भावः परमार्थो यथा भवति तथा निवेदित इत्यर्थः । इति पूर्वोक्तप्रकारेण निवेदितः ज्ञापितः नैष्ठिकसुन्दरः । नैष्ठिको नैष्ठिकब्रह्मचारी । उपकुर्वाणो नैष्ठिकश्चेति द्विविधो ब्रह्मचारी । तत्र गृहस्थाद्याश्रमेष्वपि य उपकरोति स उपकुर्वाणः । यस्तु ब्रह्मचार्याश्रममात्रेण निष्ठां प्राप्नोति स नैष्ठिकः । नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ (याज्ञव. स्मृ. १.४९ ) इत्यादिस्मृत्यनुसारेण यावज्जीवं ब्रह्मचर्याश्रम एव स्थित इत्यर्थः । नैष्ठिकश्चासौ

३११ सुन्दरश्चेति नैष्ठिकसुन्दरः । सुन्दरशब्देनात्र कामुकत्वं लक्ष्यते। परस्परविरुद्धं नैष्ठिकत्वं सुन्दरत्वं च परमेश्वर एवोपपद्यते । को वासाविति तासां विचारोऽनेन ध्वन्यते । इदं सखीवचनम् एवम्। अपिशब्दः प्रश्ने । परिहासः । ‘द्रवकेलिपरीहासा’ इति सिंहः । अपिशब्दोऽत्रापि द्रष्टव्यः । इति उक्तप्रकारेण उमां पृष्टवान् । तया एवं निवेदितो ब्रह्मचारी किमिदं सखीवचनम् एवं भूतार्थमेव आहोस्वित् परिहास इत्युमां पृष्टवानित्यर्थः । भवत्या रूपसम्पदं श्मशाननिलयस्य हरस्य स्वरूपं च विचारयतो मम परिहासमात्रपरमिदं वचनमिति प्रतिभातीति प्रश्नाभिप्रायः । इदं च वक्ष्यमाणानां हरनिन्दानामुपोद्घातत्वेन कृतम् । ननु कथमात्मविषयमभिलाषमतिविस्तरेण श्रुतवतः कामुकस्य हर्षानुत्पत्तिः । हर्षोत्पत्तौ वा कथं न रोमाञ्चाद्यनुदयः, तदुदये वा कथं न तासां शङ्काङ्कुराविर्भाव इतीमामाशङ्कां परिहरतिअव्यञ्जितहर्षलक्षण इति । अव्यञ्जितानि गूहिताति हर्षस्य लक्षणानि रोमाञ्चादिचिह्नानि येन स तथा । हर्षस्तूत्पन्नः । तत्कार्याणि रोमाञ्चादीन्यप्युत्पन्नानि । परममायिनः कपटवटोः तद्गोपने कः प्रयास इति भावः ॥ ६२ ॥ अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथञ्चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥६३॥ प्रकाशिका अथावश्यवक्तव्यत्वेन कथश्चित् तत्रोद्यममाह - अथेति । अग्रहस्तेऽक्षमालार्पणं जपविरामद्योतकम् । तस्य मुकुलीकृताङ्गुलित्वमर्षणसौकर्याय । चिरव्यवस्थापितवाग् व्रतार्थं चिरसंयतवाक् । ततश्च कथश्चिद् वचनम् । मितभाषित्वं तूत्तमनायिकाधर्मः ॥ ६३ ॥ अथ विवरणम् शापभयादवश्यकर्तव्ये वचने सति लज्जापरतन्त्राया अपि देव्याः परिहासशङ्कानिरासार्थं कथश्चिद् वचनोद्योगमाह- अथेति । अथ अद्रेः तनया मिताक्षरं कथश्चिद् अभाषत । अथ प्रश्नानन्तरम् अद्रेस्तनया पार्वती। मिताक्षरमिति भाषणक्रियाविशेषणम्। अक्षरशब्दः शब्दवाची । मितानि परिमितानि अक्षराणि शब्दा यथा भवन्ति तथाभाषत। शब्दानामेवात्र परिमितत्वं नार्थस्थेति भावः । मितभाषितत्वम् उत्तमनायिकाधर्मः । कथञ्चित् ३१२ कुमारसम्भवे कथमपि । मौनव्रतपरित्यागभीत्या लज्जापारतन्त्र्याच्चेति भावः । अभाषत उक्तवती । जपमध्ये वचनस्य विशेषतोऽप्ययुक्तत्वाद् वाग्विसर्गार्थं जपविरामोद्योगमाहअग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्ती इति । अग्रहस्ते हस्ताग्रे । स्फटिकाक्षमालिकां

स्फटिकमयीमक्षमालिकां जपमालाम् । समर्पयन्ती सम्यगर्षयन्ती । अर्पणप्रकारमेवाह – मुकुलीकृताङ्गुलाविति । मुकुलीकृताः मुकुलाकारतां प्रापिताः अङ्गुलयो यस्मिंस्तस्मिन् । अत्र स्वभावोक्तिः । अनेनाग्रहस्तविशेषणेन अक्षमालार्पणसौकर्यं द्योत्यते, तात्कालिकं हरमनोहरणं च । व्रतारम्भसमयादारभ्य तत्कालपर्यन्तं देव्या वाग्विसर्गाभावमाह — चिरव्यवस्थापितवागिति । चिरं चिरकालं व्यवस्थापिता संयता वाग् यया सा तथा ॥ ६३ ॥ यथा श्रुतं वेदविदां वर ! त्वया जनोऽयमुच्चैः पदलङ्गनोत्सुकः /नोन्मुखः । तपः किलेदं तदवाप्तिसाधनं तत्प्रकारमाह- मनोरथानामगतिर्न प्रकाशिका विद्यते ॥ ६४ ॥ यथेति । श्रुतमिति यदा हि तस्याधिगमे’ (कु. ५.५९) इत्यादिवाक्यम् । वेदविदां वरेति अस्यार्थस्य परमस्पृहणीयत्वं तपसश्चदुरवापसाधनत्वं च जानासीति द्योतयति । उच्चैः पदशब्देन परमेश्वरो विवक्षितः । लङ्घनं प्राप्तिः । किल अपरमार्थे, परप्रतीत्यपेक्षः। यथा त्वया सखीमुखाच्छुतं तथायं जनः सर्वोत्तरवस्तुप्राप्त्युत्सुकः, तपश्चेदं तत्साधनमित्यर्थः । कथमयमलोकगोचरस्ते संरम्भ इत्याह – मनोरथानामिति । अगतिरगोचरः ॥ ६४ ॥ वचनप्रकारमेवाह- विवरणम् यथेति । वेदविदां वर! त्वया यथा श्रुतं, तथा अयं जनः उच्चैः पदलङ्घनोन्मुखः । वेदं वेदार्थं विदन्तीति वेदविदः तेषां वर! श्रेष्ठ ! । अनया सम्बुध्या मदभिलषितस्यार्थस्य परमस्पृहणीयत्वं तपसो दुष्प्रापार्थसाधनसामर्थ्यं च त्वमेव जानासीति द्योत्यते । तस्मात् किञ्चिदेवात्र वक्तव्यमित्यर्थः । त्वया यथा श्रुतं, सखीमुखादिति शेषः । तथायं जनः उच्चैः पदलङ्घनोन्मुखः । उच्चैः पदम् उन्नतं पदम्। तच्चात्र परमेश्वरवधूपदं विवक्षितम् । तस्य लङ्घनं प्राप्तिः । तत्र उन्मुखः उद्युक्तः । भवतीति शेषः । ननु अत्यन्तदुर्लभमेव मन्दभाग्यया त्वया तादृशं

३१३ स्थानमित्यत्राह -इदं तपः तदवाप्तिसाधनं किल इति । इदं मया क्रियमाणम्। तपः तदवाप्तिसाधनं तस्य परमेश्वरवधूपदस्य प्राप्तौ साधनम्। किलशब्दोऽपरमार्थे । अनेनैव तपसा साधयिष्यामीति मे मनोरथः । नानेन तपसास्यास्तादृशार्थप्राप्तिर्भविष्यतीतीदानीं सर्वे जना मन्यन्त इति परप्रतीत्यनुसारेणायं किलशब्दः । ननु कथमत्यन्तदुःसाधेऽर्थे तव तादृशो मनोरथ इतीमामाशङ्कामर्थान्तरन्यासेन परिहरति - मनोरथनाम् अगतिः न विद्यते इति । मनोरथानां मनोराज्यानाम् अगतिः अविषयः न विद्यते न लभ्यते । नहि लोके मनोरथानामविषयः कश्चिदप्यर्थो विद्यत इत्यर्थः। अत्यन्तमन्दभाग्यायास्तव कथं तादृशपदप्राप्त्युपपत्तिः । नाप्यत्यन्तदुःसाधत्वेन निश्चितमर्थमुद्दिश्य कश्चिदपि लोके प्रवर्तते । तस्मात् परिहासपरमेवेदं सखीवचनमिति खलु भवता विवक्षितम् । तदनुपपन्नमेव, मनोरथस्य सर्वविषयत्वोपपत्तेरित्यर्थान्तरन्यासस्याभिप्रायः ॥ ६४ ॥ अथाह वर्णी विदितो महेश्वर- स्तदर्थिनी त्वं पुर एव वर्तसे । अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न तु कर्तुमुत्सहे ॥६५॥ प्रकाशिका । अथैव देवीमुखेन उपलब्धवृत्तान्तस्य देवस्य पुनरपि ‘क्रुद्धसुप्तमत्तानां भावज्ञानमि’ ति वचनादेनां कोपयित्वा भावं परीक्षिष्ये । कोपकषायितायाश्च मुखविकारानतिमधुरान् द्रक्ष्यामीति मन्यमानस्य विटवर्गचूडामणेर्वृत्तमाह- अथेति । अथशब्दस्य तदादित्वादाहेति लट् । ‘तदादौ चे ‘ति भोजसूत्रम् । वर्णी ब्रह्मचारी | महेश्वरो विदितः ज्ञायमानः । तमहं जानामीत्यर्थः । पुर एव मद्दर्शनात् प्रागेवारभ्य। ‘आदिरग्रं पुरः पूर्वं प्रथमं प्राक् पुरा स्मृतमिति हलायुधः । यदि मम त्वद्दर्शनं प्रागेवाभविष्यत् तर्हि तदर्थिनी त्वं नाभविष्य इति भावः । अमङ्गलानि चिताभस्मादीनि तेषामभ्यासे रतिः प्रीतिर्यस्य । अहं तु तच्छीलं विचिन्त्यामङ्गलोत्सुकायास्तवानुवृत्तिं न चिकीर्षामीत्यर्थः ॥ ६५ ॥ विवरणम् इत्थं निजविषयमभिलाषं देवीमुखादेव सम्यगवगतवतोऽपि ‘क्रुद्धसुप्तमत्तानां भावज्ञानमिति वचनाद् भावपरीक्षायाः कोपे सत्येवात्र सुकरत्वात् कोपेन विवृतभावामेनां पुनरपि परीक्षिष्ये । कोपकषायितायाश्चास्या मुखविकारानतिमनोहरानवलोकयिष्यामीति मन्वानस्य विटवर्गचूडामणेः कपटबटोः प्रवृत्तिमाह-३१४ कुमारसम्भवे अथेति । अथ वर्णी आह । अथ देवीवचनादेव परमार्थज्ञानानन्तरम् । वर्णी ब्रह्मचारी आह । अथशब्दस्य तदादित्वात् ‘तदादौ चे ‘ति भोजसूत्रानुसारेणाथशब्दयोगाद् भूतार्थे लट् । उक्तवानित्यर्थः । उक्तिप्रकारमेवाह - विदित इत्यादिना । महेश्वरः विदितः । विदित इति वर्तमाने कर्मणि क्तः । महेश्वरमहं जानामीत्यर्थः। त्वं पुरः एव तदर्थिनी वर्तसे । पुर एव अस्मद्दर्शनात् प्रागेवारभ्य। ‘आदिरग्रं पुरः पूर्वं प्रथमं प्राक् पुरा स्मृतमिति हलायुधः । यदि तव मद्दर्शनं प्रागेवाभविष्यत्, तर्हि त्वं तदर्थिनी च नाभविष्य इति भावः । तदर्थिनी, तच्छब्देनात्र महेश्वरः परामृश्यते । तमर्थयितुं प्रार्थयितुं शीलमस्या इति तथा । अहो ते मन्दभाग्यत्वमिति भावः । यद्यपि मया पूर्वं ‘तदर्धभागेन लभस्व काङ्क्षितम्’ (कु. ५.५०) इत्युक्तं, तथाप्यहमस्मिन्नर्थे तव चित्रवृत्तिमनुसर्तुं न शक्नोमीत्याह – अहम् अमङ्गलाभ्यासरतिं तं विचिन्त्य तव अनुवृत्तिं कर्तुं न तु उत्सहे । अमङ्गलानां चिताभस्मादीनाम् अभ्यासे निरन्तरानुलेपनादौ रतिः श्रद्धा यस्य । तं विचिन्त्य पुनः पुनर्निरूप्य । तवानुवृत्तिम् अनुसरणं कर्तुम् । तुशब्दोऽवधारणे । नैवोत्सहे नैव शक्नोमि । यद्यपि इष्टानुसरणमेव सख्यानुरूपं, तथाप्यमङ्गलाभ्यासरतेस्तस्य सर्वमङ्गलायास्तव च परस्परसङ्घटनयोग्यताविरहात् तत्स्वरूपपरमार्थवेदी नाहमस्मिन् विषये तवानुसरणं वाङ्मात्रेणापि कर्तुं शक्नोमीत्यर्थः । महति सङ्कटे पतिष्यतां बन्धूनां ततो निवारणमेव हि सख्यस्य महत् फलमिति भावः ॥ ६५ ॥ अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥६६॥ अननुवृत्तिं प्रपञ्चयति — प्रकाशिका अवस्त्विति । अवस्तुनिर्बन्धोऽसाराभिनिवेशः । करविशेषणाभ्यां परस्पराननुरूपत्वमुक्तम्। तत्प्रथमशब्देन दुस्सहत्वमुपपादितम् । पाणिग्रहणमेव तावदतिदुस्सहमित्यर्थः॥ ६६ ॥ विवरणम् परस्परसङ्घटनयोग्यताविरहादनुवृत्तेरयोग्यत्वमेव प्रपञ्चयति सप्तभिः श्लोकैः । तत्रादौ विवाहसमय एव तावदग्निसाक्षिकं पाणिग्रहणमेवातिदुःसहम् । तिष्ठतु तावदन्यत् सर्वमित्याह-

३१५ अवस्त्विति । अवस्तुनिर्बन्धपरे! ते अयं करः शम्भोः करेण तत्प्रथमावलम्बनं कथं सहिष्यते । अवस्तुनिर्बन्धपरे! अवस्तुनि असारे यो निर्बन्धोऽभिनिवेशः तस्मिन् तत्परे । अनया सम्बुद्ध्यास्य निर्बन्धस्यात्यन्तमनुचितत्वमुक्तम्। त्वदपेक्षयात्यन्तमसार एवायं महेश्वर इति भावः । ते तव अयम् अतिसुकुमारतया दृश्यमानः करः । अनेन करस्य स्वरूपतो रमणीयत्वमुक्तम् । शम्भोः करेण तत्प्रथमावलम्बनं तदेव प्रथममादिमं यस्य तादृशमवलम्बनं ग्रहणम् । समन्त्रमाद्यं पाणिग्रहणमित्यर्थः । कालातिपाते सति परिचयवशात् कथञ्चिदपि सह्यं भवतु नाम, न पुनः प्रथमग्रहणमिति भावः । कथं सहिष्यते न कथञ्चिदित्यर्थः । अत्रासहने करस्यैव कर्तृत्वप्रतिपादनेन त्वत्करस्तत्करदर्शनमात्रेण स्वयमेव भीत्या सहसा निवर्तिष्यत इति प्रतिपादितम्। तेन चात्यन्तभयानकत्वं सूचितम् । तस्मादलं तव तत्प्राप्तिप्रयासेनेति भावः । देवीकरस्य विवाहसमये विशेषतो रमणीयत्वमाहआमुक्तविवाहकौतुक इति । आमुक्तम् अर्पितं विवाहकौतुकं विवाहार्थं कौतुकं यस्मिन्। कौतुकबन्धनं गृह्यप्रसिद्धम् । तस्य मनोहरत्वमुक्तं रघुवंशे - ‘अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः’ (८.१) इति । शम्भोः करस्य भयानकत्वमाह—बलयीकृताहिना इति । बलयीकृताः बलयतां प्रापिताः अहयः सर्पा यस्मिंस्तेन । अनेन वेषतो भीषणत्वमुक्तम् । इदमसहनत्वे हेतः । तस्मात् तत्प्राप्तिप्रयासस्त्वया न कर्तव्य इत्यर्थः ॥ ६६ ॥ त्वमेव तावत् परिचिन्तय स्वतः कदाचिदेते यदि योगमर्हतः । बधूदुकूलं क्व च हंसलक्षणं क्व चाजिनं शोणितबिन्दुवर्षि तत् ॥६७॥ अथान्यदप्येवमेवेत्याह- प्रकाशिका U4108 त्वमिति । त्वमेव तावत् परिचिन्तय । तिष्ठत्वितरदृष्टिरिति शेषः । तावत् सम्भ्रमे । ’ यावत्तावन्ननु पुरा अङ्ग ही हन्त सीमिति, सम्भ्रामार्था’ इति भोजः । स्वतः कदाचिदिति पाठः । स्वतो निसर्गतः कदाचिदापत्कालेऽपि । एते इति बुद्धिस्थे । ‘यदि पक्षान्तरेऽपि चे ‘ति सिंहः । अयोगितां च दर्शयति — वधूदुकूलमिति । हंसलक्षणं रोचनादिलिखितहंसमिथुनसनाथपर्यन्तम् । ‘क्व चाजिनं शोणितबिन्दुवर्षि तदिति पाठः । अत्र स्वरूपतो विशेषणतश्च सम्पादितेन वैषम्येण दुकूलाजिनयोः प्रस्तुतमिथुनविषये श्लेषो न घटत इति ‘क्वचिद् यदतिवैषम्यान्न श्लेषो ३१६ कुमारसम्भवे घटनामियादि’ति [काव्यप्रकाशे] विषमालङ्कारः । वधूशब्देन विवाहकाल एव भाविनीयमयोग्यतेति सूचितम् ॥ ६७ ॥ विवरणम् इत्थम् अतिदुःसहत्वात् प्रथमं करग्रहणस्याशक्यत्वमुक्तम्। अथ विवाहारम्भ एव यन्मङ्गलार्थं विहितं वसनपरिधानं, तत्र वसनयोः परस्परविरुद्धतामाह- त्वमेवेति । एते कदाचित् स्वतः योगम् अर्हतः यदि, त्वमेव तावत् परिचिन्तय । एते बुद्धिस्थे वक्ष्यमाणे वस्तुनी । कदाचित् आपत्कालेऽपि । लोकत्रये त्वदुचितपुरुषान्तररहितेऽपीत्यर्थः । स्वतः निसर्गतः । अनेन रागतः प्रवृत्तिरुक्ता । योगं परस्परघटनम् । अर्हतः तत्र योग्यतां प्राप्नुतः । यदिशब्दः पक्षान्तरे । तावच्छब्दः सम्भ्रमार्थः । ‘यावत्तावन्ननु पुरा अङ्ग ही हन्त सीमिति, सम्भ्रमार्थे’ इति भोजः । परिचिन्तय समन्ताद् विचारय । वक्ष्यमाणे दुकूलाजिने परस्परघटनयोग्ये इति यदि ते पक्षस्तर्हि तिष्ठतु तावदस्मादृशां बन्धुजनानां दृष्टिः, त्वमेव ससम्भ्रमं विचारयेत्यर्थः। कार्यातिपाते विचारस्य निष्फत्वात् तावदित्युक्तम्। प्रकृतं वैषम्यमेव स्वरूपतो विशेषणतश्च प्रतिपादयति - हंसलक्षणं बधूदुकूलं च क्व शोणितबिन्दुवर्षि तद् अजिनं च क्व इति । हंसलक्षणं हंसा राजहंसा लक्षणं चिह्नं यस्य तादृशम् । गोरोचनादिलिखितहंसमिथुनसनाथपर्यन्तभागमित्यर्थ । वध्वा दुकूलं वधूदुकूलम् । वधूर्नवोढा । ‘वधूः स्त्रीमात्रभार्ययोः, नवोढयोषास्नुषयोरिति केशवः । अत्र वधूशब्दप्रयोगेण विवाहसमयभाविनीयमयोग्यतेति सूचितम् । शोणितस्य बिन्दून् कणान् वर्षितुं शीलमस्येति तथा । विवाहकाले नवीनवसनपरिग्रहस्यावश्यकत्वात् । तत्कालविशेषणं चेदं, कालान्तरे पुनरजिनस्य शुष्कतया शोणितबिन्दुवर्षशीलाभावात् । अजिनं चर्म च क्व । अतिमहदनयोरन्तरमिति भावः । अत्र दुकूलाजिनयोः परस्परसङ्घटनयोग्यताविरहाद् विषमालङ्कारः ॥ ६७ ॥ चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाङ्कानि पदानि पादयो- विकीर्णकेशासु परतभूमिषु ॥ ६८ ॥ प्रकाशिका अथ परिणीतायास्तद्गृहगमनेऽप्यनौचित्यं दर्शयति- । च—’ चतुष्केति । चतुष्कं मण्डपविशेष । वक्ष्यति च - ‘नार्यश्चतुष्काभिमुखीमनैषुः '’

३१७ (७.९) इति । चतुष्कगतपुष्पप्रकरन्यस्तयोरित्यर्थः । परोऽपि तिष्ठतु मादृशो जन इत्यर्थः। पदान्यवस्थानानि । ‘पदं व्यवसितिस्थानत्राणलक्ष्माङ्घ्रिवस्तुषु’ इति सिंहः । परेतभूमिषु श्मशानेषु । ता हि तस्य गृहा इति भावः ॥ ६८ ॥ विवरणम् विवाहानन्तरं भर्तृगृहप्राप्तावप्यनौचित्यमाह- चतुष्केति । परः अपि कः नाम तव पादयोः पदानि परेतभूमिषु अनुमन्यते । परोऽपि शत्रुरपि । तिष्ठतु तावदस्मादृशो बन्धुजन इति भावः । को नाम, न कोऽपीत्यर्थः । तव पादयोः स्वत एव सुकुमारयोश्चरणयोः । पदानि स्थानानि । ‘पैदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वित्यमरः । परेतभूमिषु श्मशानेषु । कर्तुमिति शेषः । अनुमन्यते अनुमननं करोति, अनुवदतीत्यर्थः । श्मशाननिलयो हि हरः । ततस्तव सुकुमारयोरेतयोः पादयोरवस्थानं श्मशानभूमिषु भविष्यति । तत् तु शत्रुजनोऽपि नानुमन्यते । किं पुनरत्यन्तबन्धुभूतोऽहम् । तस्मादहं न तवानुवृत्तिं कर्तुमुत्सहे इति भावः । देवीपादयोः पूर्वावस्थानप्रदेशस्य भविष्यदवस्थानप्रदेशानां श्मशानभूमीनां च परस्परमत्यन्तविलक्षणस्वरूपत्वं प्रतिपादयति — चतुष्केत्यादिना । तत्र तावद् देवीपादविशेषणद्वारेण पूर्वावस्थानप्रदेशस्य मनोहरत्वमाह-चतुष्कपुष्पप्रकरावकीर्णयोरिति । चतुष्कं मण्डलविशेषः । ‘चतुष्कं सचतुस्तम्भं विवाहे स्नानमण्डपमिति भोजः । तद्गते पुष्पप्रकरे कुसुमसमूहे अवकीर्णयोः न्यस्तयोः । स्वत एवात्यन्तनिर्मलेषु स्थलेषु मृदुतराणि कुसुमानि विकीर्य तत्र न्यस्तयोरित्यर्थः । अङ्घ्रिविन्यासप्रतिबिम्बानामपि रमणीयत्वमाह — अलक्तकाङ्कानीति । लाक्षारसोऽङ्को येषु । अनेन तेषां श्मशानभूमिष्वयोग्यत्वमुक्तम् । श्मशानविशेषणेनैव भविष्यदवस्थानप्रदेशस्यात्यन्तनिन्द्यत्वमाह - विकीर्णकेशास्विति । अलक्तको विकीर्णा विक्षिप्ताः केशाः प्रेतकेशा यासु । अत्र पूर्वोत्तरावस्थानप्रदेशयोः स्वरूपतो विशेषणतश्चातिवैषम्यं प्रतिपादितम् ॥ ६८ ॥ अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन् हरिचन्दनाङ्किते पदं चिताभस्मरजः करिष्यति ॥ ६९ ॥ प्रकाशिका तथा तव तदङ्गसङ्गोऽप्यतिबीभत्स इत्याह- अयुक्तेति । प्रशंसायां रूपम् । अयुक्तेषु प्रशस्तमित्यर्थः । त्रिनेत्रवक्षस्सुलभम्, ३१८ कुमारसम्भवे एतदेव हि तत्र सुलभमिति भावः । तवापि एवं भुवनलोभनीयाया अपीत्यर्थः । पदं स्थानम्॥६९॥ विवरणम् भर्तृगृहप्रवेशानन्तरभावी तदङ्गसङ्गोऽपि तवातिवीभत्स इत्याह- अयुक्तेति । त्रिनेत्रवक्षः सुलभं चिताभस्मरजः तव अपि अस्मिन् स्तनद्वये पदं करिष्यति यद्, अतः परं किम् अयुक्तरूपं वद । त्रिनेत्रस्य हरस्य वक्षसि सुलभं सुखेन लभ्यम् । नहि तस्य वक्षस्यन्यत्किमपि लभ्यमस्तीत्यर्थः । चितायां यद् भस्म तस्य रजः चूर्णम्। तवापि लोकत्रयलोभनीयाया अपीत्यर्थः । अस्मिन् अत्यन्तकोमले स्तनयोर्द्वये । पदं स्थानं करिष्यतीति यद्, अतः परम् अस्माद् अन्यत् किम् अयुक्तरूपम्। प्रशंसायां रूपप्। अत्यन्तमयुक्तमित्यर्थः । स्तनतटाधिष्ठायोग्यमेवार्थमाह — हरिचनन्दनाङ्कित इति । हरिचन्दनं रक्तचन्दनम् । अथवा कल्पवृक्ष एव। ‘सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनमित्यमरः । तेन अङ्किते मुद्रिते । कल्पवृक्षपङ्कानामपि वक्षसि धारणमुक्तं शाकुन्तले— ‘आमृष्टवक्षोहरिचन्दनाङ्के ‘ति[७.१]। अनेनेन्द्रादीनामेव त्वत्पतित्वमुचितमिति ध्वन्यते । हरिचन्दनपङ्कसङ्गमयोग्ये तव स्तनद्वये हरालिङ्गनसङ्क्रान्तं चिताभस्म पदं करिष्यतीति यत् तस्मादन्यत्किमयुक्तम् । न किमपीत्यर्थः ॥ ६९ ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजभार्यया । विलोक्य वृद्ध क्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥ प्रकाशिका एवं दाम्पत्यनिर्वाहदशायामनौचित्यं दिङ्मात्रेण प्रदर्श्य स्मरणं नाटयन् प्रागेव कथनीयं किञ्चिन्मया विस्मृतमित्याह- इयमिति । इदंशब्देन बुद्धिस्थं विडम्बनास्वरूपं परामृश्यते । अन्या प्रागुक्तेभ्यो विलक्षणा। ‘अन्यस्त्वसदृशे भिन्न’ इति सिंहः । पुरतो भर्तृगृहगमनारम्भ एवेत्यर्थः । अनेन सम्भ्रमादात्मनो वचने क्रमव्युत्क्रमं सूचयति । विडम्बना हासकारणमित्यर्थः । अत्र कार्यरूपं हेतुमाह — यदित्यादिना वाक्येन । यस्मादेवं भविष्यति, तस्माद् विडम्बनया भवितव्यमित्यर्थः । विडम्बनास्वरूपं तु ऊढयेत्यादिनानुवादभागेनार्थतो दर्शितम् । ऊढ्या बाल्यात् प्रभृति पितृगृह इत्यर्थः । वारणराजभार्यया करिणीम-

३१९ तल्लिकया । वृद्धोक्षमिति । सोऽपि कियच्चिरकालजीवीति केनापि न ज्ञायत इति भावः । निपातनाच्च साधुत्वम् । अधिष्ठितमारूढम् । महाजन ओषधिप्रस्थवास्तव्यः । दक्षिणावर्तस्तु — ‘ऊढया परिणीतया वारणराजहार्ययेति पाठः । विवाहानन्तरं गजराजवाह्ययेत्यर्थ’ इत्याह ॥ ७० ॥

विवरणम् इत्थं विवाहसम्भोगाद्यारम्भसम्भाविनीमनौचितीं दिङ्मात्रेण दर्शयित्वा प्रागेव वक्तव्यं किमपि वस्तु मया विस्मृतमिति स्मरणमभिनीयाह- 1 इयं चेति । ते पुरतः इयं च अन्या विडम्बना । पुरतः पूर्वम् । पतिगृहप्रस्थानवेलायामेवेत्यर्थः। अनेन पूर्वमेव वक्तव्यमिदं मया विस्मृतमिति व्यज्यते । अतिकष्टानामनिष्टानां वचनस्यावश्यकत्वात् तेषामहमहमिकया परिस्फुरणमस्य परिहासमात्रफलस्य विस्मरणे हेतुरिति च विडम्बनापदेन ध्वन्यते । इयमित्यनेन बुद्ध्यारूढं वक्ष्यमाणं विडम्बनास्वरूपं परामृष्टम् । चशब्दः पूर्वोक्तसमुच्चयार्थः । अन्या पूर्वोक्तेभ्यो विलक्षणा । ‘अन्यस्त्वसदृशे भिन्ने’ इत्यमरः । विडम्बना हासकारणम्। अस्य हासकारणस्य हासरूपेण कार्येण हेतुना हासकारणोत्पत्तिमेव द्रढयति — वारणराजभार्यया ऊढया त्वया वृद्धाक्षमधिष्ठितं विलोक्य महाजनः स्मेरमुखः भविष्यति । वारणानां राजा वारणराजः । न तु सामान्यवारणः । तस्य भार्या करिणीमतल्लिका । न सामान्यकरिणी तया । पितृगृहावस्थाने बाल्यात् प्रभृति विवाहावसानपर्यन्तमूढया। त्वया तादृशवाहनयोग्यया । वृद्धोक्षं वृद्धश्चासावुक्षा चेति वृद्धोक्षः । स तु कियच्चिरकालजीवीति केनापि न ज्ञायत इत्यर्थः । अत्र वृद्धोक्षपदस्य ‘अचतुरा’ दिसूत्रेण निपातनात् साधुत्वम् । स्वत एव उक्षा, तत्रापि वृद्धः । पूर्वं तु करिणीश्रेष्ठेति पूर्वोत्तरवाहनयोरत्यन्तवैलक्षण्यमनेन ध्वन्यते । अधिष्ठितम् आरूढं विलोक्य दृष्ट्वा महाजनः ओषधिप्रस्थवास्तव्यो लोकः । तेषामन्यथैव पूर्वं परिचयात् सद्य एव तदन्यथात्वदर्शने परिहासस्यावश्यम्भावात् स्मेरमुखः स्मेरं मुखं यस्य स तथा भविष्यति । यद् यस्माद् ओषधिप्रस्थवास्तव्यो जनः स्मेरमुखो भविष्यति, तस्मात् करिणीवाहनोचितायास्तव वृद्धोक्षाधिरूढत्वरूपं हासकारणं भविष्यत्येवेत्यर्थः ॥७० ॥ द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कला च सा कान्तिमती कलात्मन- स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ७१ ॥ ३२० कुमारसम्भवे प्रकाशिका किं बहुना, त्वमीदृग्गुणापि सम्प्रति शोचनीया संवृत्तेत्याह- द्वयमिति । द्वयमित्यादिवाक्येन सामान्येनोपक्रम्य किं च किं चेत्याकाङ्क्षायां कला चेत्यादिना विशेषेणोपसंहारः । सम्प्रतीति पूर्वं त्वेकमेव शोचनीयतां गतमिति वक्तुं शक्यम्, इदानीं तु द्वयमपीत्यर्थः । समागमप्रार्थनया कृतया क्रियमाणया च । तत्र कृतया कला क्रियमाणया च त्वमित्यर्थः । सेति तच्छब्देन प्रसिद्धतमार्थः परामृश्यते । सा कला या प्रसिद्धेति स्फुटत्वेन प्रतीतेः । दक्षिणावर्तस्तु – ‘सेत्यनेन पूर्वकालशोचनीयत्वं सूचितमित्याह । सा कला चेति त्वं चेति चान्वयः । विशेषणाभ्यां तुल्यकक्ष्यत्वमुक्तम् । तुल्यकक्ष्यतया च बुद्धिस्थाया द्वयमित्युप- क्रमः ॥ ७१ ॥ विवरणम् एवम्भूतानि बहूनि वक्तव्यान्यतः परमपि सन्त्येव । किमनेन दुरुपन्यासक्लेशेन । सर्वथापि त्वं शोचनीया संवृत्तेत्याह- द्वयमिति । पिनाकिनः समागमप्रार्थनया सम्प्रति द्वयं शोचनीयतां गतम् । पिनाकिनः पिनाकिशब्दश्रवणमात्रेण तवायं वीराग्रेसरत्वभ्रम इति भावः । यच्चात्र कैश्चित् पिनाकिपदप्रयोगो न दोषप्रकरणोपयोगी, तस्मात् कपालिन इत्येव वक्तव्यमित्युक्तं, तदप्यनेन परिहृतम् । ‘अत्रिमुनिलोचनदूषिकायां पीयूषदीधितिरिति ग्रथितोऽनुराग’ इत्यत्र पीयूषदीधितिपदप्रयोगवदत्रापि पिनाकिपदप्रयोगोपपत्तेरुक्तत्वात्। समागमः सङ्गमः । समागमाय प्रार्थना समागमप्रार्थना, तया । सम्प्रति इदानीं द्वयं वक्ष्यमाणं वस्तुद्वयं शोचनीयतां शोच्यत्वं गतं प्राप्तम्। किं तर्हि तद् द्वयमित्यत्राह — कलात्मनः कान्तिमती सा कला च अस्य लोकस्य नेत्रकौमुदी त्वं च इति । कलात्मनः कला एव आत्मा स्वरूपं यस्य तस्य चन्द्रस्य । लळयोरविशेषात् कलात्मन इति च प्रतिभाति । अनेन स्वरूपतो मनोहरत्वम् उक्तम्। कान्तिमतीति प्रशंसायां भूम्नि च मतुप् । मनोहरबहुतरकान्तियुक्तेत्यर्थः । अनेन विशेषतो मनोहरत्वं प्रतिपादितम् । सा लोकप्रसिद्धा । कला षोडशो भागः । ‘कला तु षोडशो भाग’ इत्यमरः । अस्य लोकस्य लोकत्रयवासिनो जनस्य । नेत्राणां कौमुदी चन्द्रिका | ‘चन्द्रिका कौमुदी’ त्यमरः । कौमुदीव दर्शनमात्रेण नेत्रानन्दकारिणीत्यर्थः। अत्रापि त्वमित्यनेन स्वरूपतो रमणीयत्वं, नेत्रकौमुदीत्यनेन विशेषतो रमणीयत्वं च प्रतिपादितम् । अनेनोभयोरपि गुणसाम्यप्रतिपादनेन पूर्वमेव द्वयमिति तुल्यतयोपक्रमस्य बुद्धिस्थेन गुणसाम्येन युक्तत्वमुपपादितम् । इतः पूर्वं चिताभस्मकपालादिमध्यवर्ति शशिकलात्मकं वस्त्वेकमेव शोचनीयतां गतमिति

३२१ सम्प्रतीत्यनेनोक्तम्। पिनाकिनः समागमप्रार्थनैव द्वयोरपि शोचनीयत्वप्राप्तौ हेतुः । पूर्वकृतया प्रार्थनयैकम्, अन्यत्पुनरिदानीं क्रियमाणयेत्येव भेदः ॥ ७१ ॥ वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद् बालमृगाक्षि ! मुग्यते एतदेवोपपादयति- तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥ प्रकाशिका वपुरिति । अलक्ष्यं देशकालजात्यादिभिर्जन्म यस्य तस्य भावस्तत्ता । अस्तीति शेषः । वरेषु जातामृषु । यदिति गुणजातं परामृश्यते । बालमृगाक्षीति विरूपाक्षानर्हत्वं द्योत्यते । मृग्यते अर्थात् कन्याबन्धुभिः । तदिति रूपाभिजनसमृद्धिलक्षणसम्पन्नत्वम् । व्यस्तमेकैकमित्यर्थः। त्रिलोचनशब्देन लक्षणशून्यत्वमुक्तम् । ‘हानिवदाधिक्यमप्यङ्गानां विकार’ इति वचनात् ॥ ७२ ॥ विवरणम् शोचनीयत्वमेव हेतुभिरुपपपादयति- वपुरिति । बालमृगाक्षि ! वरेषु यद् मृग्यते, त्रिलोचने तद् व्यस्तमपि किमस्ति । बालो मृगो बालमृगः । बालमृगस्य अक्षिणी इव अक्षिणी यस्याः सा तथा । अक्ष्णोः शोभाधिक्यप्रतिपादनार्थं बालपदोपादानम् । अनेन विरूपाक्षानर्हत्वं द्योत्यते । वरेषु भर्तृषु । यत् सौन्दर्यादिकं गुणजातम् । मृग्यते अन्विष्यते । वधूभिः तद्बन्धुभिश्चेति शेषः । त्रिलोचने हरे तद् गुणजातं व्यस्तं विभक्तम् एकैकमपि अस्ति किम् । कन्या कामयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मृष्टान्नमितरे जनाः ॥ इत्यादिवचनानुसारेण सौन्दर्याभिजात्यमहालक्षणलक्षितत्वादीनि यानि गुणजातानि बधूभिस्तद्बन्धुभिश्च विवाहसमयात् प्रागेवान्विष्यन्ते तेष्वेकमपि किं त्रिलोचने विद्यते । एकस्यैकदेशोऽपि नास्तीत्यर्थः । नास्तित्वमेवोपपादयति – वपुरित्यादिना । वपुः विरूपाक्षं, शरीरं ललाटे लोचनसद्भावाद् विकृतलोचनम् । भवतीति शेषः । अलक्ष्यजन्मता, अस्तीति शेषः । देशकालजात्यादिभिरलक्ष्यं लक्षयितुं ज्ञातुमशक्यं जन्म यस्य तस्य भावस्तत्ता । अयं कस्मिन् देशे जातः, कस्मिन् वा काले, कस्यां वा जातौ को वास्य पिता का वा मातेति केनापि न ज्ञायत इत्यर्थः । प्रसिद्ध- , ३२२ कुमारसम्भवे तरब्राह्मणादिदेशजातानामेव हि सम्बन्धयोग्यता । तथा कस्मिन् काले जन्मास्येति वृद्धैरपि न ज्ञायते । अनेन वृद्धेभ्योऽपि वृद्धतरत्वमुक्तम् । तेन च तरुणीरमणीयत्वं निरस्तम् । यथाहुः – ‘डिण्डीरपिण्डपरिपाण्डरगण्डमुण्डं चण्डालवत् परिहरन्ति नरं तरुण्यः’ इति । ‘ऊनषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता, उत्तमं जनयेत् पुत्रम्’ इत्यादिवचनविरोधजनिता बहुविधा दोषाश्चानेनैव सूचिताः । तथा कीदृशोऽयमिति निर्णयाभावेऽपि न कैश्चिदपि कन्या दीयते । न च मातापितृगतया जात्यास्यापि जातिः परिच्छेत्तव्या । अस्य मातापित्रोरप्यलक्षितत्वात् । ननु वृद्धत्वादयः सर्वेऽपि दोषा वसुमत्तया परिह्रियन्ते । यथोक्तं- स कुलीनः स विद्वांश्च स युवा स विचक्षणः । स एव सुभगो यस्तु धनधान्यसमृद्धिमान् ॥ जात्या इति । तस्माद् वसुमत्तायां सत्यां किमन्यैर्गुणैरितीमामाशङ्कां वसुमत्त्वनिरासेन परिहरति-दिगम्बरत्वेन वसु निवेदितमिति । दिगेवाम्बरं यस्य स दिगम्बरः । तस्य भावस्तत्त्वं, तेन। वसु धनम् । ‘देवभेदेऽनले रश्मौ वसू रत्ने धने वसु’ इत्यमरः । निवेदितं ज्ञापितम्। अनर्घवसना हि धनिनः । निर्धनास्तु जीर्णवसनाः । अस्य तु जीर्णवसनस्याप्यभावेन वसुमत्ता दूरं निरस्ता । तस्मादस्येदृशी धनसम्पत्तिरिति तद्गतं दिगम्बरत्वमेव निवेदयतीति किमस्माकमस्य वसुमत्तानिरासप्रयासेनेति भावः । त्रिलोचनशब्देनात्र लक्षणशून्यत्वमुक्तम् । न्यूनाङ्गत्वस्येवाधिकाङ्गत्वस्यापि सामुद्रिकवेदिभिरङ्गदोषपक्षे निक्षिप्तत्वात् । यथोक्तं – ‘हानिवदाधिक्यमप्यङ्गानां विकारः ’ इति ॥ ७२ ॥

निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ ७३ ॥ अथ कर्तव्यमवधारयति- प्रकाशिका निवर्तयेति । तद्विधस्तादृशः । अपेक्ष्यते इष्यते । वैदिकीति सत्क्रियाया अलौकिकत्वद्योतकेन विशेषणेन देव्या अपि विशिष्टोपयोगयोग्यत्वं द्योत्यते । श्मशानशूलस्य वध्यारोपणशूलस्य ॥ ७३ ॥

विवरणम् ३२३ यद्यसावेवंविधस्तर्हि किं मया कर्तव्यमित्याकाङ्क्षायां कर्तव्यमुपदिश्य वचनमुपसंहरनि- निवर्तयेति । त्वम् अस्माद् असदीप्सिताद् मनः निवर्तय इति । अस्माद् इदानीं क्रियमाणात् । असदीप्सिताद् असतः अकुशलोदर्कादीप्सितादभिलाषात्। मनः चित्तं निवर्तय व्यावृत्तं कुरु । विरूपाक्षविषयमभिलाषं तव चिरकालपरिवर्धितमपि मदुक्तयुक्तिपुरस्सरमस्याकुशलोदर्कत्वं परिनिश्चित्य शनैश्शनैर्निवर्तयेत्यर्थः । मनसो निवर्तनीयत्वमेव बधूवरयोः परस्परानन्वयमुखेन दर्शयति - तद्विधः क्व पुण्यलक्षणा त्वं च क्व इति । तद्विधः तादृशः । पूर्वोक्तसकलदोषाधिष्ठानभूत इत्यर्थः । पुण्यानि शुभानि लक्षणानि चिह्नानि यस्याः सा तथा । सामुद्रिकोक्तसकलवधूलक्षणपरिपूर्णेत्यर्थः । युवयोर्महानेव विशेष इति भावः । अनन्वयमेव द्रढयति – साधुजनेन वैदिकी यूपसत्क्रिया श्मशानशूलस्य न अपेक्ष्यते इति । साधुजनेन सज्जनेन वैदिकी वेदविहिता । यूपसत्क्रिया यूपो यज्ञस्तम्भः, तद्विषया सत्क्रिया सती क्रिया तक्षणादिरूपो यूपसंस्कारः । श्मशानशूलस्य बध्यारोपणशूलस्य । न अपेक्ष्यते नेष्यते। यथा वैदिकत्वादलौकिकी यूपसत्क्रिया विशिष्टयज्ञोपयोगयोग्ययूपयोग्या, न वध्यारोपणशूलयोग्या, तथा पुण्यलक्षणत्वान्महाभाग्यगुणयोगिनी त्वमपि स्वर्गादिभोगयोग्यतादृशगुणविशिष्टपुरुषयोग्यैव, न श्मशानाश्रयहरयोग्येत्यर्थः । अत्र साधुजनेन नापेक्ष्यत इत्यनेन ’ तवानुवृत्तिं न तु कर्तुसुत्सहे’ (५.६५) इति पूर्वोक्तमेवार्थमुपसंहृतवानित्यवसेयम् । अत्र सादृश्यनिमित्ताप्रस्तुतप्रशंसा ॥ ७३ ॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया। निकुञ्चितभ्रूलतमाहिते तया देव्या वृत्तोन्तमाह— विलोचने तिर्यगुपान्तलोहिते ॥७४॥ प्रकाशिका इतीति । द्विजाताविति तस्य शापाद्यविषयत्वद्योतनात् कोपस्यात्मदाहकत्वं द्योत्यते । प्रवेपमानाधरलक्ष्यकोपयेत्यादिना कामुकस्य निकुञ्चितमाभुग्नम्। तिर्यगाहिते पार्श्वापवृत्ते कृते ॥ ७४ ॥ विवरणम् इत्थमपरमार्थब्रह्मचारिणा सपरिहासमभिहिताया देव्या वृत्तमाह- मनोरथसिद्धिरुक्ता ।३२४ कुमारसम्भवे इतीति । द्विजातौ इति प्रतिकूलवादिनि तया विलोचने तिर्यग् आहिते । द्विजातौ ब्राह्मणे । अनेनास्य बटोः शापाद्ययोग्यत्वं प्रतिपादितम् । यथोक्तं भागवते भगवतैव — ‘विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ! ’ (१०.६४.४१ ) इति । अनेनास्य शापाद्यविषयत्वप्रतिपादनेन कोपस्यात्मदाहमात्रफलपर्यवसानं ध्वन्यते । अत एवाधरस्पन्दादीनां बहुविधानां कोपचिह्नानामुद्भवः । इति शब्देन विदितो महेश्वरः’ ( ५.६५) इत्यादि पूर्वोक्तं हरनिन्दावचनं विवक्षितम् । प्रतिकूलं वदितुं शीलमस्येति तथा । तया पार्वत्या विलोचने आत्मनो नयने । तिर्यगित्याधानक्रियाविशेषणं, तिरश्चीने यथा भवति तथा आहिते विहिते । ब्राह्मणे प्रतिकूलवादिनि सति पार्वती तस्य शापाद्यनर्हत्वादात्मनो नयनद्वयं कोपवशात् तन्मुखान्निवर्त्य तिर्यक्प्रसारितकनीनिकं चकारेत्यर्थः । चकारेत्यर्थः । एतदपि कोपचिह्नं ब्रह्मचारिविषयानादरद्योतकं च। पुनरपि कोपसूचकं क्रियाविशेषणमाहनिकुञ्चितभ्रूलतमिति । निकुञ्चिते आभुग्ने भ्रूलते प्रशस्ते भ्रुवौ ( यस्मिन् कर्मणि तद् ) यथा भवति तथा। अनेन भ्रूभङ्गप्रतिपादनेन कामुकस्य मनोरथसिद्धिरुक्ता । कोपस्यानुभावान्तरमप्याह—प्रवेपमानाधरलक्ष्यकोपयेति । प्रवेपमाने प्रकर्षेण वेपमाने कम्पमाने अधरे लक्ष्यः लक्षयितुं शक्यः कोपो यस्यास्तया । पुनरप्यनुभावान्तरमाह — उपान्तलोहिते इति । उपान्ते अपाङ्गे लोहिते रक्ते । अनेन नेत्रविशेषणेनापि कामुकस्य मनोरथस्फूर्तिर्ध्वन्यते ॥ ७४ ॥ उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ७५ ॥ प्रकाशिका द्विजातित्वादेव प्रतिवचो देयमित्याह- उवाचेति । नूनं निश्चये । कथं न वेद्मीत्याह-यत इति । एवमिति द्वेषगर्भम् । उपपादयतिअलोकेति । सामान्यं साधारणम् । मन्दा मूढाः । स्वमान्द्याज्ज्ञातुमशक्येन लोकोत्तरेण महच्चरितेन द्वेषपविषयत्वं व्याप्तमित्यर्थः ॥ ७५ ॥ विवरणम् यद्यपि द्विजातित्वादसौ न शापादिविषयस्तथापि प्रतिवचनविषयो भवत्येवेति मन्वानाया देव्याः प्रतिवचनप्रस्तावमाह-

३२५ उवाचेति । एनम् उवाच च । एनं ब्रह्मचारिणम् उवाच च उक्तवती च । न केवलं कोपचितैरेव तन्मनोरथं पूरयामास, अपि तु वाचा चेति चशब्दार्थः । तत्र ब्रह्मचारिणा पूर्वाभिहितानां हरनिन्दावचनानां परिहारोऽपि वक्तव्यः । तत्रादौ यत्तावदुक्तं विदितो महेश्वरः’ (५.६५) इति, तदेव परिहरति-त्वं हरं परमार्थत न वेत्सि नूनमिति । हरं महेश्वरं । परमार्थतः तत्त्वतः न वेत्सि न जानासि । नूनंशब्दो निश्चयार्थः । त्वं हरमापातत एव जानासि न तु परमार्थत इत्यर्थः । नन्वहं कथं न जानामीत्यत्राह - त्वं माम् एवम् आत्थ यतः इति । मां तत्स्वरूपस्य दुर्ज्ञेयत्वमवगच्छन्तीं मां प्रतीत्यर्थः । ’ अमङ्गलाभ्यासरतिम्’ (५.६५) इत्यादिपूर्वोक्तप्रकारं हरनिन्दावचनमेवंशब्दार्थः । आत्थेति ब्रुवः पञ्चानामादित आहो ब्रुवः ’ ( ३.४.८४) इति लटि ब्रुव आहादेश । यतः यस्मात्कारणात्। यस्मान्मामेवमात्थ, तस्मात् त्वं तत्स्वरूपं परमार्थतो न जानासीत्यर्थः । ननु कथमेवम्भूतेन निन्दावचनेन स्वरूपाज्ञानानुमानमित्याशङ्क्य महाजननिन्दायास्तत्स्वरूपाज्ञानेन व्याप्तिं दर्शयतिमन्दाः महात्मनां चरितं द्विषन्ति इति । मन्दाः मूढाः । परमार्थज्ञानहीना इत्यर्थः । महात्मनां महाजनानां चरितं व्यापारं द्विषन्ति । निन्दन्तीत्यर्थः । निन्दायामुपपत्तिमाह—अलोकसामान्यमिति । लोकेषु सामान्यं साधारणं न भवतीत्यलोकसामान्यम् । लोकोत्तरमित्यर्थः । अत एवाह — अचिन्त्यहेतुकमिति । अचिन्त्यः चिन्तयितुमशक्यो हेतुर्यस्य तत्तथा । महतामेवम्भूतस्यानुष्ठानस्य किं प्रयोजनमिति कैश्चिदपि ज्ञातुमशक्यमित्यर्थः । अवाङ्मनसगोचरं महतां चरितम् । तस्मात् तदेकदेशदर्शनेन महाजननिन्दावचनं तत्स्वरूपाज्ञानादेवेत्यर्थः । तस्माद् ‘विदितो महेश्वर’ इति वचनमनुपपन्नमेवेति भावः ॥ ७५ ॥ विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमाभिराशोपहतात्मवृत्तिभिः॥७६॥ प्रकाशिका कस्तर्हि तस्य परमार्थ इत्याह- विपदिति । इष्टार्जनानिष्टपरिहारार्थे मङ्गलाचरणमित्यर्थः । तदुभयमप्यस्य नापेक्षितमित्याह – जगदिति । निराशिषः प्राप्तीच्छारहितस्य । आशा हानोपादानेच्छा, तयोपहतान्तःकरणानां प्रवृत्तिभिर्मङ्गलाचरणरूपाभिस्तादृशस्य किं प्रयोजनमित्यर्थः । जगच्छरण्यत्वेन विपदभाव उक्तः । निराशिष्ट्वेनाभव्याभाव उक्तः । अनेनामङ्गलाचरणदोषो देवस्य परिहृतः ॥ ७६ ॥ ३२६ कुमारसम्भवे विवरणम् यत्पुनरमङ्गलाभ्यासरतिम् (५.६५) इत्युक्तं, तदस्य युक्तमित्याह- विपदिति । विपत्प्रतीकारपरेण भूतिसमुत्सुकेन वा मङ्गलं निषेव्यते । विपदाम् आपदां प्रतीकारः प्रतिक्रिया तस्मिन् परेण तत्परेण । भूतिः सम्पत् तस्यां समत्सुकेन सम्यग् उत्सुकेन सश्रद्धेन । वाशब्दो विकल्पे । मङ्गलं सत्कर्म निषेव्यते नितरां सेव्यते। इष्टानिष्टप्राप्तिपरिहारकामो हि मङ्गलाचरणेऽधिकारीत्यर्थः । अस्य तु तदुभयकामनाविरहाद् मङ्गलाचरणं निष्प्रयोजनमेवेत्याहजगच्छरण्यस्य निराशिषः सतः आभिः आशोपहतात्मवृत्तिभिः किम् इति । जगतां लोकत्रयवासिनां जनानां शरण्यस्य त्वमेव रक्षितेति शरणत्वेन प्राप्तुं योग्यस्य । ‘शरणं गृहरक्षित्रोरित्यमरः । अनेन विपदभाव उक्तः । आशीरभिलाषः । ’ अशीरुरगदंष्ट्रायां शुभवाक्याभिलापयोरिति वैजयन्ती । निरभिलापस्येत्यर्थः । अनेनावाप्तव्यस्य कस्यचिदप्यभाव उक्तः । सतः एवम्भूतस्य सतः । आभिः जन्मजरामरणादिरूपविपदम्भोधिनिमग्नैर्जनैः क्रियमाणत्वेन दृश्यमानाभिरित्यर्थः । अत एव आशोपहतात्मवृत्तिभिः आशया हानोपादानेच्छया उपहता दूषिताः आत्मानः अन्तःकरणानि येषाम् । ‘आत्मा देहमनोबुद्धिक्षेत्रज्ञपरमात्मसु’ इति भोजः । तेषां वृत्तिभिः मङ्गलाचरणरूपैर्व्यापारैः । किं, न किमपि प्रयोजनमित्यर्थः । निराशस्य भगवतः प्राप्तव्यपरिहार्ययोरभावात् किं मङ्गलाचरणैरिति भावः ॥ ७६ ॥ अकिञ्चनः सन् प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्याविदः पिनाकिनः ॥ ७७ ॥ प्रकाशिका अकिञ्चन इति । किञ्चन द्रव्यं यस्य नास्ति सोऽकिञ्चनः । सम्पदामिन्द्रादिसम्बन्धिनीनाम्। पितृसद्म गोचरो यस्य । अनेन ’ अवस्तुनिर्बन्ध’ (५.६६) इति परिहृतम् ॥ ७७ ॥ विवरणम् अथ परमेश्वरस्वापरिच्छेद्यत्वप्रतिपादनेनावस्तुनिर्बन्धपरत्वमात्मनः परिहरति— अकिञ्चन इति । पिनाकिनः याथार्थ्याविदः न सन्ति । पिनाकिनः वीराग्रेसरस्य हरस्य । नाहमसाराभिनिवेशपरेति भावः । याथार्थ्यं परमार्थं विदन्तीति याथार्थ्याविदः ।

३२७ न सन्ति न भवन्ति । लोकत्रय इति शेषः । त्रैलोक्ये कः पुमान् पिनाकिनं वस्तुत्वावस्तुत्वाभ्यां परिच्छिनत्तीत्यर्थः । ‘नायं गुणः कर्म न सन्न चासद्’ इत्यादिभागवतवचनादिति भावः । अपरिच्छेद्यत्वमेव प्रपञ्चयति — अकिञ्चन इत्यादिना । अकिञ्चनः सन् सः सम्पदां प्रभव इति उदीर्यते । किञ्चन द्रव्यं यस्य नास्ति सोऽकिञ्चनः । दरिद्र इत्यर्थः । तथाभूतः सन्नपि भवन्नपि । सम्पदाम् इन्द्रादिसम्बद्धानामैश्वर्याणाम्। प्रभवः उद्भवस्थानमिति । उदीर्यते, पुराणादिष्विति शेषः । कर्मिणां कर्मफलप्रदो हर इति पुराणादिप्रसिद्धिरनेन वाक्येन दर्शितेत्यवसेयम् । ‘दिगम्बरत्वेन निवेदितं वसु (५.७२) इत्यप्यनेनैव परिहृतम् । यथा दिगम्बरत्वेन दरिद्रत्वानुमानं, तथा बहुधनप्रदत्वेन धनाढ्यत्वानुमानस्यापि शक्यत्वात् । तस्मादपरिच्छेद्य एव पिनाकीति भावः । ‘अलक्तकाङ्कानि पदानि’ (५.६८) इति यदुक्तं तत् परिहरतित्रिलोकनाथः सः पितृसद्मगोचरः इति । त्रयाणां लोकानां नाथः त्रिलोकनाथः तथाभूतः सन्नपि। सः हरः पितृसद्मगोचर इत्युदीर्यते । पितॄणां सद्य पितृसद्म श्मशानं, स एव गोचरो विषयो यस्य स तथा । श्मशाननिलय इत्यर्थः । त्रिलोकनाथो वा श्मशाननिलयो वा हर इति को वा परिच्छिन्द्यादिति भावः । ‘करेण शम्भोः’ (५.६६) इत्यादि यदुक्तं तन्मनसि निधायाह - भीमरूपः स शिव इति । भीमं भयङ्करं विषधराभरणादिभिः स्वरूपतश्च भयानकं रूपं यस्य, तथाभूतः सन्नपि शिव इत्युदीर्यते शान्तस्वरूप इति कीर्त्यते । मायामात्रनिर्मितं हि भगवतः शरीरम् । तस्माद् भीमरूपो वा शिवो वेति को वा जानीयादिति भावः ॥ ७७ ॥ विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ ७८ ॥ प्रकाशिका विभूषणोद्भासीति । कपालि ब्रह्मशिरः कपालधारि । तदुक्तं- जगत्सिसृक्षासमयेषु वेधसां प्रणामलोलानि शिरांसि पादयोः । , जगद्विरामेषु कपालशेषतां गतानि तिष्ठन्ति जटासु धूर्जटेः ॥ इति । विश्वमूर्तेः सर्वात्मनः । लौकिकालौकिकयोः सौम्यासौम्ययोर्वा कतरेणालङ्कृतं वपुरिति नियमेन न ज्ञातुं शक्यत इत्यर्थ । अनेन ‘त्वमेव तावत् परिचिन्तय’ (५.६७ ) इत्यादि परिहृतम् ॥ ७८ ॥ ३२८ कुमारसम्भवे विवरणम् अपि च परमेश्वरस्य शरीरावलम्बनमपि भक्तानुग्रहार्थमेव । तस्मादलौकिकेन वा लौकिकेन वा सौम्येन वा असौम्येन या केनालङ्कारेणालङ्कृतं कीदृशं वा वपुरिति नियमेन न ज्ञातुं शक्यमित्याह- विभूषणेति । विश्वमूर्तेः वपुः न अवधार्यते । विश्वमेव मूर्तिः यस्य तस्य । त्रैलोक्यात्मकस्येत्यर्थः । अनेन प्रपञ्चस्य परमेश्वरविवर्तत्वमुक्तम् । वपुः शरीरम् । नावधार्यते कीदृशमिति वा केनालङ्कृतमिति वा न ज्ञायत इत्यर्थः । अनेन ‘वपुर्विरूपाक्षम्’ (५.७२) इत्यपि परिहृतम् । वपुषो विरूपाक्षत्वेनैव व्यवस्थानुपपत्तेरुक्तत्वाद् भूषणानामप्यनियतत्वमाह - विभूषणेत्यादिना । विभूषणोद्भासि पिनद्धभोगि वा स्यात्। विभूषणैः कटकमकुटादिभिरलङ्कारैः उद्भासितुं शोभितुं शीलमस्येति तथा । पिनद्धा बद्धाः भोगिनः सर्पा यस्मिंस्तादृशं वा वपुः स्यात् । वाशब्दो विकल्पे । विभूषणोद्भासित्वेन पिनद्धभोगित्वेन वा न निश्चेतुं शक्यमित्यर्थः । अनेन ‘करेण शम्भोः’ (५.६६) इत्याद्येव स्पष्टतया परिहृतमित्यवसेयम्। तथा गजाजिनालम्बि दुकूलधारि वा । गजस्याजिनं चर्म आलम्बितुं परिधातुं शीलमस्येति तथा । दुकूलं धर्तुं शीलमस्येति दुकूलधारि । अलौकिकेन गजाजिनेन वा लौकिकेन दुकूलेन वालङ्कृतं भगवतो वपुरिति तत्त्वतो ज्ञातुं को वा समर्थ इत्यर्थः। अनेन ‘वधूदुकूलं क्व च हंसलक्षणम्’ (५.६७) इत्यादि परिहृतम् । कपालि वा अथवा इन्दुशेखरम्। कपालि ब्रह्मशिरः कपालधारि । तदुक्तं- जगत्सिसृक्षासमयेषु वेधसां प्रणामलोलानि शिरांसि पादयोः । जगद्विरामेषु कपालशेषतां गतानि तिष्ठन्ति जटासु धूर्जटेः ॥ इति । इन्दुः शेखरः शिरोलङ्कारो यस्य तादृशं वा स्यात् । अनेनानुक्तः कपालधारित्वदोषोऽपि स्वेनैवाशङ्क्य परिहृतो वेदितव्यः ॥ ७८ ॥ तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजोऽपि शुद्धये । तथाहि नृत्ताभिनयक्रियाच्युतं विलुप्यते मौलिभिरम्बरौकसाम् ॥७९॥ प्रकाशिका तदङ्गेति । कल्पते समर्थं भवति । विलुप्यते ह्रियते । अम्बरौकसां देवानाम् । अनेन ‘अयुक्तरूपं किमतः परम्’ (५.६९) इत्यादि परिहृतम् ॥ ७९ ॥ नीति लिए

विवरणम् ‘स्तनद्वयेऽस्मिन् हरिचन्दनाङ्किते’ (५.६९) इत्यादि यदुक्तं, तत् परिहरति- ३२९ तदङ्गेति। चिताभस्मरजः अपि तदङ्गसंस्पर्शम् अवाप्य शुद्धये कल्पते ध्रुवम् । चितायां श्मशाने यद् भस्म तस्य रजः । तस्य परमेश्वरस्य अङ्गस्य शरीरस्य संस्पर्शम् अवाप्य संप्राप्य । शुद्धये शुद्धिं कर्तुं कल्पते समर्थं भवति । ‘कृपू सामर्थ्य’ इति धातुः । शुद्धिकरं भवतीत्यर्थः । ध्रुवं नात्र सन्देहः । कथं न सन्देहः, अत आह— तथाहि नृत्ताभिनयक्रियाच्युतम् अम्बरौकसां मौलिभिः विलुप्यते इति । तथाहीत्युपपादकं वाक्यम् । तत्र प्रकारवाची तथाशब्दः शुद्धिसम्पादनसामर्थ्य पूर्ववाक्योक्तं परामृशति । हिशब्दो हेतौ । ‘हि हेताववधारणे’ इत्यमरः । तथाभावाद्धेतोरित्यर्थः । नृत्ते नर्तने योऽभिनयः । रामादिस्वरूपमाभिमुख्येन नयतीत्यभिनयः । स एव तत्स्वरूपव्यञ्जकत्वाद् व्यञ्जक इति चोच्यते । ‘व्यञ्जकाभिनयौ समौ’ इत्यमरः । तस्य क्रिया करणं, तेन च्युतं पतितम् । चिताभस्मरज इति अत्राप्यनुषज्यते । अम्बरमेव ओकः गृहं येषां तेषां देवानाम् । मौलिभिः किरीटैः कर्तृभिः । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रय’ इत्यमरः । विलुप्यते ह्रियते । प्रणामसमय इति शेषः । यदि चिताभस्मरजः परमेश्वरशरीरस्पर्शलाभात् पावनं नाभविष्यत् तर्हि तस्य नृत्तसमये पतितमेतदमराः किरीटैर्नाहरिष्यन्नित्यर्थः । तस्मात् तदङ्गसंसर्गपावनं यच्चिताभस्म स्वत एव प्राप्तुमशक्यत्वाद् दिविषदो नृत्ताभिनयक्रियाच्युतमाकाङ्क्षन्ति, तस्य तदङ्गसंसर्गेणैव प्राप्तौ भविष्यन्त्यां या मम भाग्यसम्पत् तामियत्तया परिच्छेतुं न बृहस्पतेरपि बुद्धिः प्रभवतीति भावः ॥ ७९ ॥ असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा । करोति पादावुपनम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥८०॥ प्रकाशिका असम्पद इति । ‘प्रभिन्नो गर्जितो मत्त’ इति सिंहः । उपनम्येति पाठः । अनेन ‘इयञ्च तेऽन्या’ (५.७० ) इत्यादि परिहृतम् ॥ ८० ॥ विवरणम् ‘विलोक्य वृद्ध क्षमधिष्ठितम्’ (५.७०) इत्यादि यदुक्तं, तत् परिहरति- ३३० कुमारसम्भवे असम्पद इति । वृषा उपगम्य असम्पदः वृषेण गच्छतः तस्य पादौ मौलिना विनिद्रमन्दाररजोरुणाङ्गुली करोति इति । वृषा इन्द्रः । उपगम्य स्वस्थानात् तत्समीपं प्राप्य । अनेन भक्त्यतिशयः सूचितः । सम्पदस्य नास्तीत्यसम्पत्, तस्य । अत एव वृषेण उक्ष्णा वाहनेन गच्छतः तस्य परमेश्वरस्य पादौ चरणौ । मौलिना तत्पादप्रणतेन किरीटेन । विनिद्राणां विकसितानां मन्दाराणां कल्पवृक्षपुष्पाणां रजोभिः रेणुभिररुणा रक्तवर्णा अङ्गुलयो ययोः तादृशौ । करोति विदधाति । वाञ्छितार्थप्रदानां कल्पवृक्षाणां महेन्द्रेण शिरसि धृतानि कुसुमानि यस्य पदाङ्गुलीररुणीकुर्वन्ति, तस्य वृषेण सञ्चरणं न सम्पदभावादिति भावः । किमर्थं तर्हि वृषेण सञ्चरणमिति चोद्यं पुनः ‘अलोकसामान्यमचिन्त्यहेतुकम्’ (५.७५) इत्यनेनैव परिहृतमित्यवगन्तव्यम्। परमार्थतस्तु परमेश्वरस्य चरितानि विषयतृष्णा न कर्तव्येति लोकशिक्षार्थमेव । तदुक्तमाचार्यैः - [ शिवमहिम्नः स्तवे ] महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत् तव वरद ! तन्त्रोपकरणम् । सुरास्तां तां सिद्धिं दधति तु भवद्भूप्रणिहितां नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ इति । कीदृशस्तर्हि हरापेक्षया महेन्द्र इत्यत्राह - प्रभिन्नदिग्वारणवाहन इति । प्रभिन्नो मत्तः । ’ प्रभिन्रो गर्जितो मत्त’ इत्यमरः । दिग्वारणो दिग्गजः एरावतो वाहनं यस्य स तथा । स्वत एव गजः, तत्रापि दिग्गज, पुनश्च मत्त इति वृद्धक्षमत्तदिग्गजयोर्यद्यपि महदन्तरं; तथापि दिग्वारणवाहनो वृषा वृषवाहनस्य चरणौ नमति । ततो न वृषवाहनत्वं परिहासास्पदम् ॥ ८० ॥ विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ ८१ ॥ प्रकाशिका एवं त्वदुक्तं सर्वमसमीचीनम् । किञ्चित्तु घुणाक्षरन्यायेन समीचीनमापतितमित्याह- विवक्षतेति । च्युतात्मना स्खलितबुद्धिना । एकशब्दस्य सामान्यवाचिनोऽपि विशेषे पर्यवसानं, हेतुरूपोत्तरवाक्यवलात्। कथमिति, त्वदुक्तमलक्ष्यजन्मत्वमेवोपपन्नमित्यर्थः॥ ८१ ॥ शाह एक

विवरणम् ३३१ यद्यपि ‘विदितो महेश्वरः’ (५.६५) इत्यादि भवदुक्तं वाक्यं सर्वमप्यसमञ्जसं जातम् । किञ्चित्तु तत्र घुणाक्षरन्यायेन समञ्जसमापन्नमित्याह- विवक्षतेति । दोषं विवक्षता अपि त्वया ईशं प्रति एकं साधु भाषितम् । दोषमेव वस्तुमिच्छतापि त्वया परमेश्वरमुद्दिश्य एकं वस्तु सम्यगुक्तम् । दोषविवक्षायामपि गुणवचने हेतुमाह — च्युतात्मनेति । च्युतः स्खलित आत्मा बुद्धिर्यस्य तेन । तव बुद्धिमान्द्यमेवात्र हेतुरिति भावः । एकमेव साधु भाषितमित्यत्र यद्यप्येकशब्दः सामान्यवाची, तथाप्युत्तरवाक्यबलादलक्ष्यजन्मत्वे विशेषे पर्यवस्यति। कथमेकस्य वचसः साधुत्वमित्यत्राह —-यम् आत्मभुवः अपि कारणमामनन्ति, स कथं लक्ष्यप्रभवः भविष्यति इति। यं परमेश्वरम् आत्मभुवः ब्रह्मणः। यश्चराचरात्मकमिदं विश्वं सृजति, तस्यापीत्यपिशब्दार्थः । कारणं स्रष्टारम् । आमनन्ति । ‘म्ना अभ्यासे’ इति धातुः । श्रुतयो वदन्तीत्यर्थः । अनेन तदर्थस्यान्यभवाशङ्का निरस्ता । लक्ष्यः प्रमाणगोचरः प्रभवो जन्म यस्य तथाविधः । कथं भविष्यति न कथमपीत्यर्थः । जगत्सर्गात् पूर्वमेवोत्पन्नो हि ब्रह्मा जगतस्तदुपज्ञत्वात्। तथाविधस्य ब्रह्मणोऽपि कारणभूतस्य भगवतः प्रभवः केन लक्ष्यते। तस्माद् भवदुक्तमलक्ष्यजन्मत्वमेव तस्योचितम् । तच्च सर्वकारणस्यास्य गुण एवेति भावः ॥ ८१ ॥ अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थिरं न कामवृत्तिर्वचनीयमीक्षते ॥८२॥ प्रकाशिका अथ पुनरपि तत्प्रतिवचनवैरस्यमाशङ्क्य वाग्विवादं निषेधति — अलमिति । तथाविधस्तथाप्रकारः । तावदवधारणे । तथाविध एवेत्यर्थः । अशेषमिति क्रियाविशेषणम् । साकल्येनास्त्वित्यर्थः । अत्र अस्मिन् । भावोऽभिलाषः, तत्रैकरसं पक्षपाति । कामवृत्तिः कामस्वभाव इत्यर्थः ॥ ८२ ॥ विवरणम् इत्थं देवी तदुक्तं देवगतमखिलमपि दोषं परमार्थनिवेदनेन परिहृत्य पुनरपि तद्वचनोद्योगमाशङ्क्य बहुप्रलापस्य तपोविरोधित्वात् तद्वचनस्य द्वारमेवावृणोति - अलमिति । विवादेन अलम् विरुद्धो वादो विवादः तेन । अलं पर्याप्तम् । ३३२ कुमारसम्भवे विवादो मास्त्वित्यर्थः । ननु वादस्य स्वरूपनिर्णयफलत्वात् तस्य चाद्याप्यभावात् कथं वादनिषेधः, अत आह— सः त्वया तथा श्रुतः अशेषं तधाविधः तावदस्तु इति । त्वया वेदविदां वरेण । अनेन तदुक्तस्य प्रामाण्योपपत्तिरनूदिता । यथा येन प्रकारेण । श्रुतः शास्त्रादिति शेषः । अशेषमिति क्रियाविशेषणम्। साकल्येनास्त्वित्यर्थः । तथाविधः तथाप्रकारः । तावच्छब्दोऽवधारणे। तथाविध एवास्त्वित्यर्थः। परमेश्वरस्त्वदुक्तप्रकार एव साकल्येन भवतु, विवादेनालमिति भावः । ननु यदि भवत्या मदुक्तप्रकारत्वमेव निरूपाक्षस्यानूदितं तर्हि तत्प्राप्तिमात्रफलात् तपसो विरम्यतामत आह— मम मनः अत्र स्थिरम् इति । अत्र परमेश्वरे स्थिरं निश्चलम्। दोषशतश्रवणैरप्यचञ्चलमित्यर्थः । तत्र हेतुमाह — भावैकरसमिति । भावोऽभिलाषः, तत्रैकरसं पक्षपाति । हरविषयाभिलाषमात्रतत्परमित्यर्थः । भावैकरसं मनः स्थिरमिति पाठः । भावैकरसस्थिरम् इति पाठे भावैकरसम् अत एव स्थिरं चेति विग्रहः । ननु कथमत्यन्तनिन्द्ये जने तवाभिलाषः, अत आह— कामवृत्तिः वचनीयं न ईक्षते इति । कामस्य वृत्तिः कामस्वभाव इत्यर्थः । वचनीयं दोषं नेक्षते न विचिन्तयति । रागाञ्जनमिदमक्ष्णोर्व्यञ्जयति प्रायशो गुणान् विषये । दोषाञ्जनं तु दोषाननुभयसक्तिर्व्यनक्ति भूतार्थम् ॥ इति न्यायादिति भावः ॥ ८२ ॥ निवार्यतामालि ! किमप्यसौ वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतो विभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ८३ ॥ प्रकाशिका एवमुक्तेऽपि तस्मिन् वचनोद्यमं दृष्ट्वा सखीमाह- निवार्यतामिति । वटुः । यथाप्रतिपन्नग्रथनशीलः । ‘पट वट ग्रथन’ इति चौरादिकाद्धातोः वटयतेरौणादिक उप्रत्ययः । वटुर्वाचाट इत्यर्थः । स्फुरितं स्फुरणं, तदुत्तरं तद्भूयिष्ठमधरं यस्य । एतद्विवक्षुत्वे लिङ्गम् । अत्र हेतुः - न केवलमिति । विभाषते परिवदति । गुरोर्यत्र परीवादो निन्दा चापि प्रयुज्यते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ इति वचनादियमुक्तिः॥ ८३ ॥

विवरणम् ३३३ इत्थमनूदितेष्वपि सकलेषु दोषेषु कपटवटौ पुनरपि वचनोद्योगं दृष्ट्वा कोपाविष्टा सखीमाह- निवार्यतामिति । आलि ! असौ वटुः निवार्यताम् । आलि! हे सखि ! । ‘आलिः सखी वयस्या चे ‘त्यमरः । असौ दृश्यमानः वटुः यथाप्रतिपन्नार्थग्रथनशीलः । ‘पट । वट ग्रथन’ इति चौरादिकाद्धातोः वटयतेरौणादिक उप्रत्ययः । वाचाट इत्यर्थः । अत एव निवार्यताम् आश्रमाद्वहिर्भागे निस्सार्यताम् । नाहमस्य दर्शनं सहे इति भावः । नन्वसावत्र तिष्ठतु, किमनेन तवेत्यत्राह — पुनः किमपि विवक्षुः इति । पुनः पुनरपि । मया तदुक्तदोषेऽङ्गी कृतेऽपीत्यर्थः । अथवा पूर्वं बहवो दोषा उक्ताः पुनरपीत्यर्थः । विवक्षुः वक्तुमिच्छुः । ननु विवक्षुत्वे किं प्रमाणमित्यत्राह — स्फुरितोत्तराधर इति । स्फुरितं स्फुरणं, तदुत्तरं तद्भूयिष्ठम् अधरं यस्य स तथा । यस्मादस्याधरः स्फुरति, तस्माद् विवक्षुरेवायमिति भावः । ननु प्रलपत्वसौ वाचाल, को दोष इत्याशङ्कयाह—यः महतः अपभाषते केवलं स न यः तस्माच्छृणोति सः अपि पापभाग् इति । यः महतः महाजनान् अपभाषते परिवदति । न केवलम् स एव पापभाग्, अपितु यस्तस्माच्छृणोति महाजननिन्दकात् पुरुषाद् महाजननिन्दावचनं शृणोति, सोऽपि पापभाक् । पापं भजतीति पापभाग् भवतीति शेषः । यथा वक्तुस्तथा श्रोतुरपि पापभाक्त्वमस्त्येवेत्यर्थः । गुरोर्यत्र परीवादो निन्दा निन्दा बापि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ (मनु.२.२०० ) इति वचनादिति भावः। स तस्मादपि पापभागिति वा योजना । वक्त्रपेक्षया श्रोतुः पापाधिक्यमस्तीत्यर्थः। ननु कथं श्रोतुः पापाधिक्यम् । श्रूयताम्। श्रोतरि श्रवणोत्सुके सति वक्ता सविस्तरं वदतीति लोकस्वभावः । नेत्रवक्त्रविकारादिभिः श्रोतुः कोपावगमे सति ततोऽधिकं न वदतीति दुर्जनानां स्वभावः । तस्माच्छ्रोतुरपि वचनस्य कारयितृत्वमवश्यं भवत्येवेति कारयितृत्वश्रोतृत्वजनितयोदोंषयोः सम्भूय सम्भवाद् दोषाधिक्योपपत्तिः ॥ ८३ ॥ इतो गमिष्याम्यथवेति वादिनी चचाल सा च स्तनभिन्नवल्कला। स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥८४॥३३४ अत एवाह- कुमारसम्भवे प्रकाशिका इत इति । चचाल गन्तुमारेभे । स्तनेति गमनरभसात् स्तनच्युतगात्रिकावल्कला। समाललम्बे जग्राह । कृतस्मित इत्यनेन प्रकृतस्य प्रकरणार्थस्य नर्मपरत्वमुज्जीवितम्। चशब्दाभ्यां क्रियायौगपद्यलक्षणः समुच्चयालङ्कारः । वृषराजकेतन इत्यनेन भगवत्परिजनपरिच्छदादेरपि तत्राविर्भावो ध्वनितः ॥ ८४ ॥ विवरणम् इत्थं कोपाधिक्याद् ब्राह्मणनिरासाय सखीं नियुक्तवत्याः पुनरषत्कोपप्रशमे सति ‘गन्तव्यं वा ततोऽन्यत’ इति स्मृत्यनुसारिणीं देव्याः परमार्थस्मरणपुरस्सरी प्रवृत्तिमाह- इत इति । अथवा अहम् इतः गमिष्यामि इति वादिनी सा चचाल च । वृषराजकेतनः स्वरूपम् आस्थाय कृतस्मितः तां समाललम्बे च । अथवेति पक्षान्तरे । तच्चात्र — सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा ॥ इति वचनानुसारेण पूर्वश्लोकोक्तब्राह्मणनिरासापरितोषसूचकम् । इतः अस्मात् प्रदेशाद् गमिष्यामि इति वादिनी । ‘बहुलमाभीक्ष्ण्ये’ (३.२.८१) इति णिनिः । इत्थं पुनः पुनर्वदन्तीत्यर्थः । किं ममानेन ब्राह्मणनिरासप्रयासेन । अहमेव परमेश्वरपरिवादपरस्यास्य वटोः सकाशाद् दूरतो गमिष्यामीति पुनः पुनरुक्त्वेत्यर्थः । सा पार्वती चचाल त्वरितं गन्तुमारेभे च । वृषाणां राजा वृषराजः केतनं ध्वजचिह्नं यस्य स तथा। अनेन भगवत्परिजनपरिच्छदानां पूर्वपदेन तत्राविर्भावो ध्वन्यते । स्वरूपमास्थाय वटुवेषं परित्यज्य आत्मनो रूपमवलम्ब्येत्यर्थः । कृतं स्मितं मन्दस्मितं येन तथाभूतः सन् । अनेन प्रकृतस्य प्रकरणार्थस्य नर्मपरत्वप्रतिपादनेन कोपप्रशमनं ध्वनितम्। तां पार्वतीं समाललम्बे जग्राह च । अत्र चशब्दाभ्यां क्रियायौगपद्य-लक्षणः समुच्चयालङ्कारः प्रतिपाद्यते । देव्याः प्रयाणे सरभसत्वमाहस्तनभिन्न-वल्कलेति। स्तनाद् भिन्नं च्युतं वल्कलं यस्याः सा तथा । गमनसंरम्भवशात् स्तनगलितस्तनावरणवल्कलेत्यर्थः ॥ ८४ ॥ तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- निक्षेप एव पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५ ॥

३३५ प्रकाशिका एवमतर्कितोपनतदर्शने देवे देव्या वृत्तमाह-

तमिति । सरसं स्वेदार्द्रम् । निक्षेप इति निमित्तसप्तमी । पदं चरणम्। सिन्धुर्नदी | उद्धृतमेवेत्यन्वयः । अत उक्तं – न ययौ न तस्थाविति । गमनायोद्धृतस्य पदस्य पुरतो नियमनाभावाद् यानस्य निवृत्तिः, तत्रैवानवस्थापनाच्च स्थानस्येत्यवसेयम्। अत्र नायिकागतानां सात्त्विकानां सम्भोगभाविनां भवानां पूर्व ‘विवृण्वती शैलसुतापि भावम्’ (३.६८) इत्यादिना दर्शितोदयानां पुनः स्वावसरे समुन्मीलनं कृतम्। व्रीलाहर्षादीनां च व्यभिचारिणां तथा नायकगतानां च ‘हरस्तु किञ्चित् परिवृत्तधैर्यः’ (३.६७) इत्यादिना सूचितानां पुनः ‘अव्यञ्जितहर्षलक्षणः ’ (५.६२) इत्यादिभिः पदैः सूचनमात्रं कृतम् । एवमेभिरुत्तम्भितपरस्परास्थाबन्धलक्षणः सम्भोगशृङ्गार इतः प्रभृति क्रमात् प्रकर्षपदवीमधिगच्छन्ननुसन्धेयः ॥ ८५ ॥ विवरणम् इत्थमचिन्तितोपनते साक्षादेव दृष्टे मनोरथप्रियतमे देव्या वृत्तमाह- तमिति । शैलाधिराजतनया तं वीक्ष्य न ययौ न तस्थौ । शैलानामधिराजश्चक्रवर्ती, तस्य तनया । तं परमेश्वरं वीक्ष्य साक्षादेवावलोक्य न ययौ । ‘इतो गमिष्याम्यथवेति वादिनी चचाल (५.८४ ) इति यद् गमनमारब्धं, तन्न कृतवती । प्रियतमावलोकनकौतुकहर्षादिवशादिति शेषः । नापि यथासुखमेव तमवलोकयन्ती तस्थावित्याह— न तस्थाविति । नापि तत्रैवावस्थानं वितेने । लज्जयेति शेषः । ननु कथं गमनावस्थानयोरुभयोरपि युगपदेव निषेधोपपत्तिरत आह-पदं निक्षेपे उद्धृतमेव उद्वहन्तीति । पदं पादम् । निक्षेप इति निमित्तसप्तमी । प्रदेशान्तरे निधानं निक्षेपः । पूर्वं गमनारम्भे प्रदेशान्तरार्पणार्थं यत् पदमुद्धृतं, तत् तथैवोद्वहन्तीत्यर्थ । अत्र पुरतो निधानाभावाद् गमननिषेधः, पूर्वस्थाने निधानाभावात् स्थितिनिषेध इत्यवसेयम्। अनेन स्तम्भो नाम सात्त्विकविकार उक्तः । ‘स्तम्भोऽस्मिन् निष्क्रियाङ्गता’ (दशरूपकम्. ४.५) इति । सात्त्विकान्तराणामप्युत्पत्तिमाहवेपथुमतीत्यादिना । वेपथुः शरीरकम्पः तद्वती। सरसाङ्गयष्टिः सरसा स्वेदार्द्रा अङ्गयष्टिः प्रशस्तमङ्गं यस्याः सा तथा । न ययौ न तस्थाविति यदुक्तं, तत्रोपमां दर्शयति-मार्गाचलव्यतिकराकुलिता सिन्धुः इव इति । मार्गे प्रवाहमार्गे योऽचलव्यतिकरः नदीपर्यन्तवर्तिना तत्प्रवाहबिलुप्तमूलेन अतर्कितपतनेन शैलेन सम्पर्कः, तेनाकुलिता परवशीकृता । सिन्धुः नदीव । सापि हि न गच्छति, नापि गमनोद्यमाद् विरमति । अत्र प्रकरणे नायिकामतानां विवृण्वती शैलसुतापि भावम्’ इत्यनेन दर्शितोदयानां व्रीलाहर्षादीनां व्यभिचारिणां समुन्मीलनं स्वावसरे कृतम् । ३३६ कुमारसम्भवे ‘हरस्तु किञ्चित्परिवृत्तधैर्यः’ इत्यादिना दर्शितोदयानां नायकगतानां सात्त्विकानां व्यभिचारिणां च भावानाम् ‘अव्यञ्जितहर्षलक्षण’ इत्यादिना समुन्मीलनं च कृतमिति द्रष्टव्यम् । ततश्च परस्परानुरागनिश्चयोत्तम्भितः परस्परास्थानबन्धनः सम्भोगशृङ्गारः क्रमादितः परं प्रकर्षपदवीमारोहतीत्यवसेयम्॥ ८५ ॥ अद्यप्रभृत्यनवमाङ्गि ! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां पिधत्ते ॥ ८६ ॥ प्रकाशिका अथ प्रकृतस्य प्रयोज्योपावर्तनविधेः फलयोगं दर्शयति- अद्येति । तपोभिः क्रीतो दास इत्यन्वयः । अह्नाय शीघ्रम् । क्लमक्लेशौ पर्यायौ । फलं जनयन् क्लेशः स्वस्य प्रत्यग्रतां पिधत्ते छादयति । प्रमुषितो भवतीत्यर्थः ॥ ८६ । इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां । विवरणम् अथ प्रकृतन्यापि महतः प्रयोज्योपावर्तनविधेस्तदुचितं फलयोगं दर्शयति- अद्येति । अनवमाङ्गि ! अहम् अद्यप्रभृति तव तपोभिः क्रीतः दासः भस्मि । चन्द्रमौलौ इति वादिनि सा नियमजं क्लमम् अह्नाय उत्ससर्ज । अनवमम् उत्कृष्टम् अङ्गं यस्याः तस्याः सम्बुद्धिः अनवमाङ्गीति । अद्यप्रभृति एतस्माद् दिवसादारभ्य। अनेन दास्यस्य निरवधिकत्वमुक्तम् । ननु कुलक्रमागता धनक्रीताश्चेति द्विविधा दासाः । तदनुभयाभावे कथं दासत्वम्, अत आह— तपोभिः क्रीत इति । क्रीतः स्वीकृतः । ‘डुक्रीञ् द्रव्यविनिमये’ इत्यस्माद्धातोः क्तः । अत्र तपसो मूल्यत्वेनोपादानम्। क्रीतदासा हीतरदासापेक्षया नितरामात्मायत्ता भवन्तीत्यभिप्रायः। चन्द्रमौलौ इति वादिनि सति सा । नियमजं नियमो व्रतं तस्माज्जातं नियमजम् । क्लमं क्लेशम् अह्नाय सद्यः । ’ द्राग् झटित्यञ्जसाह्राय’ इत्यमरः । उत्ससर्ज अत्याक्षीत्। उक्तमर्थमर्थान्तरन्यासेनोपपादयति — क्लेशः पुनः फलेन नवतां पिधत्ते हि इति । क्लेशः सर्वकर्मानुष्ठानजनिता पीडा । पुनः फलोत्पत्त्यनन्तरम् । फलेन उत्पन्नेनेति शेषः । नवतां प्रत्यग्रतां पिधत्ते आच्छादयति, हिशब्दः प्रसिद्धौ । प्रत्यग्रं

३३७ हि दुःखं सदैव चेतसि स्फुरति । कालान्तरप्राप्तौ तु प्रमुषितं भवति । फलोत्पत्त्यनन्तरं तु बहुकालप्राप्त्यभावेऽपि न चेतसि स्फुरति । लोकप्रसिद्धश्चायमर्थ इति भावः ॥ ८६ ॥ सर्गः पञ्चम एष वञ्चनपटोर्मायावटोश्चेष्टि- तैरुन्मीलत्कमनीयकोमलरसो लोकोत्तरार्थोदयः । बुद्धिर्मे पुनराकुला भणितिरप्यत्यन्तहीना तथा- प्यस्मद्देशिकगौरवादहमिमां व्याख्यामिहाख्यातवान् ॥ श्रीमद्भागवतप्रबन्धरचनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये । व्याख्यानेऽत्र कुमारसंम्भवपदार्थालोचनप्रक्रिया- निष्णाते बत पञ्चमोऽयमगमत् सर्गे निसर्गोज्ज्वलः ॥ ॥ इति श्रीकृष्णशिष्यस्य नाराणयस्य कृतौ कुमारसम्भवविवरणे ॥ ५ ॥ S क नागर P