०४

अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता । विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥१॥ प्रकाशिका अथोपक्षिप्तं करुणं वर्णयति । स च प्रतिपक्षगतत्वेन नायकोत्कर्षावह इति प्रसिद्धम् । अथेति । अथ शब्दः प्रकरणान्तरोपक्रमे । परायणं परमाश्रयः । ‘परायणमभिप्रेते तत्परे परमाश्रय’ इति यादवः । सती भवन्ती । अनेन मोहस्येष्टत्वं गम्यते । विवशा विबोधितेति विबोधनस्यानिष्टत्वम् । नवत्वमसह्यत्वे हेतुः । प्रतिपादयिष्यतेति एवं साध्यवसायस्य विधेरनिच्छन्त्यामेव तस्यां विबोधनं घटत एवेति भावः ॥ १ ॥ विवरणम् अथ पूर्वसर्गोपक्षिप्तः प्रतिपक्षगतत्वेन नायकोत्कर्षप्रतिपादकः करुणरसश्चतुर्थेनानेन सर्गेण वर्ण्यते । तत्र हरे तिरोहिते गतायां च देव्यां कामदहनप्रस्तावमोहमुपगता रतिः किमकरोदित्याकाङ्क्षायामाह - अथेति । अथ मोहपरायणा सती कामवधूः विधिना विबोधिता । अथशब्दः प्रकरणान्तरोपक्रमे वर्तते । मोहपरायणा मोह एव परायणं परमाश्रयो यस्याः सा तथा । ‘परायणमभिप्रेते तत्परे परमाश्रये’ इति यादवः । मोहैकशरणेत्यर्थः । सती भवन्ती । अनेन मोहस्येष्टत्वं प्रतिपादितम्। कामवधूः कामस्य वधूर्भार्या रतिः । विधिना दैवेन। विबोधिता बोधं प्रापिता । दैववशादुपलब्धचेतनाभूदित्यर्थः । अनेन प्रबोधनस्यानिष्टत्वमुक्तम्। तर्हि किमर्थमसौ निजानभिमतं प्रबोधमुररीचकार । अत आह— विवशेति । परवशा विधिपराधीनेत्यर्थः । तर्हि किं विधिरनिच्छन्त्यै तस्यै बोधं विततारेत्यत्राह – असह्यवेदनं नववैधव्यं प्रतिपादयिष्यता । नवमभिनवं वैधव्यम्। नवत्वमसह्यवेदनत्वे हेतुः । गते हि काले वेदना सह्या भवति । प्रतिपादयिष्यतेति । लृटः शत्रादेशः । ‘विश्राणनं वितरणं स्पर्शनं प्रतिपादनमित्यमरः । दातुमारब्धेनेत्यर्थः । इत्थं साध्यवसायस्य विधेस्तस्या अनिष्टस्यापि बोधस्य विधानं कर्तव्यमेवेत्यर्थः ॥ १ ॥ चतुर्थः सर्गः अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने। न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ २ ॥ विबोधनस्य कार्यमाह- प्रकाशिका २०७ अवधानेति । अवधानपरे प्रियदर्शनं प्रत्यवहिते इत्यर्थः । प्रलयान्तोन्मिषितत्वाच्च तच्छेषानुवृत्त्या यत्नावधेयत्वम् । कथमत्यन्तास्तमितस्य दर्शनमित्याह - न विवेदेति । अनेन भर्गलोचनाग्निनिर्गमनसमय एव मोहमुपगतेति गम्यते । अतृप्तयोर्दर्शनोत्सुकयोः। ’ तद्विपर्यासे च’ इति भोजसूत्रेण सप्तमी । तत्र च ‘क्रियार्हस्य कारकत्व’ इति ‘क्रियानर्हस्य चाकारकत्व’ इति च सूत्रद्वयगतोऽर्थः तच्छब्देन परामृश्यते। अत्र च दर्शनार्हयोर्दृशोः स्थितयोः दर्शनविलोपात् क्रियार्हस्याकारकत्वम्। अत्र प्रलयशेषानुवृत्तिरौत्सुक्यस्य चोदयः ॥ २ ॥ विवरणम् अथ विबोधस्य कार्यं दर्शयति- अवधानेति । सा प्रलयान्तोन्मिषिते विलोचने अवधानपरे चकार । सा रतिः । प्रलयान्तोन्मिषिते । प्रलयो मोहः । ‘प्रलयो नष्टचेष्टते’ त्यमरः । तस्यान्ते अवसाने उन्मिषिते कृतोन्मेषे । अनेन मोहशेषानुवृत्तिर्दर्शिता । अत एव विलोचनयोर्यत्नतः सावधानत्वविधानम्। विलोचने चक्षुषी । अवधाने सावधानत्वे परे तत्परे । प्रियदर्शनसावधाने इत्यर्थः । बोधनानन्तरं प्रियतममेव सावधानमवलोकितवतीति भावः। कथमत्यन्तास्तमितस्य प्रियस्य दर्शनोपपत्तिरत आह— प्रियं तयोः अतृप्तयोः अत्यन्तविलुप्तदर्शनं न विवेदेति । सेति तच्छब्दः पूर्वार्धगत एवं कर्तृत्वेनात्राप्यनुषज्यते। प्रियं कान्तम् । तयोः विलोचनयोः । अतृप्तयोः, तृप्ते न भवत इत्यतृप्ते। दर्शनोत्सुकयोः सतोरेवेत्यर्थः । अत्र सप्तमीविधानाभावात् तत्र ‘तद्विपर्यासे चे’ ति भोजसूत्रेण सप्तमी द्रष्टव्या । अस्य सूत्रस्यायमर्थः - ‘क्रियार्हस्य कारकत्वे’ ‘क्रियानर्हस्य चाकारकत्वे’ इति च सूत्रद्वयेन या सप्तमी विहिता, सा तयोर्विपर्यासे च भवति । क्रियार्हस्याकारकत्वे क्रियानर्हस्य च कारकत्वे च भवतीत्यर्थः । अत्र दर्शनार्हयोर्दृशोः सतोरपि दर्शनविलोपात् क्रियार्हस्याकारकत्वम् । अत्यन्तविलुप्तदर्शनम्, अत्यन्तं विलुप्तं नष्टं दर्शनं यस्य तथाविधम् । न विवेद न ज्ञातवती । हरकोपानलोद्गमनसमय एव मोहमुपगतत्वादात्मकान्तं मृतं न विवेदेति भावः । अस्मिन् वाक्ये मोहशेषानुवृत्तिरौत्सुक्योदयश्च दर्शितः ॥ २ ॥ २०८ कुमारसम्भवे अयि जीवितनाथ ! जीवसी- त्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥३॥ अवधानस्य कार्यमाह- प्रकाशिका अयीति । ‘अयि प्रश्ने सानुनय’ इति हलायुधः । पुरुषाकृतिरिति पाठः । तद्विशेपणं हरकोपानलभस्मेति । हरकोपानले भस्मीभूता । केवलमिति, न कश्चिदप्यभस्मीभूतस्तदवयवस्तत्परिच्छदो वेत्यर्थः । एतद् विभावोद्बोधपरं वाक्यम् || ३ || विवरणम् विलोचनयोरवधानपरत्वविधानस्य फलमाह - अयीति। जीवितनाथ! त्वं जीवसि । अयीति सानुनयप्रश्नविषयमव्ययम् । ‘अयि सानुनये प्रश्ने’ इति हलायुधः । जीवसि कच्चिदित्यर्थः । इत्यभिधाय उक्तवा उत्थितया कृतोत्थानया। पुरुषाकृतिमात्रदर्शनं जीवनसन्देहे हेतुः । अत एव सत्वरमुत्थानम्। तया रत्या । अग्रे क्षितौ भूमौ पुरुषाकृतिः पुरुषस्याकृतिराकारः ददृशे दृष्टाभूत्। अयमभिप्रायः - हरकोपानलनिष्पतनानन्तरमेव मोहमुपगता रतिः ईषन्मोहविगमानन्तररं प्रियशरीरसंस्थानं पूर्ववदेवावलोक्य सत्वरमुत्थाय तत्समीपमुपगम्य पुरस्तादेव पुरुषाकृति ददर्शेति । कीदृशी पुनः सा पुरुषाकृतिरित्यत्राह — केवलं हरकोपानलभस्मेति । केवलं तच्छरीरावयवेषु तत्परिच्छदेषु वा न कश्चिदंशस्तत्राभस्मसाद्भूतो दृष्टोऽभूदित्यर्थः । हरकोपानलभस्म । हरस्य कोपो हरकोपः हरकोपश्चासावनलश्चेति हरकोपानलः तस्य भस्म । सम्यगवलोकनानन्तरं हरकोलानलभस्मैव दृष्टमभूदिति भावः । पुरुषाकृतीत्येव केचित् पठन्ति। तन्मते पुरुषाकृति हरकोपानलभस्म ददृशे इत्यन्वयः । अनेन श्लोकेन करुणस्य विभावोद्बोधो दर्शितः ॥ ३ ॥ अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्धजा अ समदुःखामिव कुर्वती स्थलीम् ॥४॥ चतुर्थः सर्गः प्रकाशिका अथ तद्विबोधोद्बोधितस्य करुणस्यानुभावव्यभिचारादिकं प्रपञ्चयति- २०९ अथेति । अथ अत्यन्तनाशावगमानन्तरमित्यर्थः । अत एव पुनरेव विलापः । एवशब्दः पौनर्वचनिकः । विह्वलता च ग्लानिः । तस्या अनुभावो वसुधालिङ्गनं मूर्धजविकिरणं च । निर्दयमङ्गैर्वलनात् स्थल्यास्तथाकरणोत्प्रेक्षा॥४॥ विवरणम् भस्ममात्रावलोकनोद्बोधित व करुणस्यानुभावव्यभिचार्यादिकं प्रपञ्चयति— अथेति । अथ सा पुन एव विह्वाला विललाप । अथ प्रियतमस्यात्यन्तिकविनाशावगमनानन्तरम् । सा रतिः । पुनरेव पुनरपीत्यर्थः । विह्वला परवशा सती । ग्लानिमुपगम्येति भावः । परिदेवनमि’त्यमरः । आत्मनः शरीरावयवेष्वपि विललाप परिदेवनमकरोत् । ‘विलापः निर्दयत्वमाह - वसुधालिङ्गन- धूसरस्तनीति । वसुधाया भूमेः आलिङ्गनेन धूसरौ धूसरवर्णौ स्तनौ यस्याः सा तया । अनेन एवमुत्थितायाः परमार्थावगमनानन्तरमवनतशरीरतया भूमौ पतनं द्योत्यते । इदं च ग्लानेरनुभावः । अनुभावान्तरमप्याह - विकीर्णमूर्धजेति । विकीर्णाः विक्षिप्ताः मूर्धजाः केशा यस्याः सा तथा । इत्थंभूतव्यापारायास्तस्याः उत्प्रेक्षां दर्शयति । स्थली समदुःखां कुर्वतीवेति । स्थलीं पृथिवीम् । समदुःखां समं समानं दुःखं यस्यास्तथाविधां कुर्वतीव । निर्दयं पृथिव्यां परिवर्तनादिभिः स्थल्यास्तथाकरणोत्प्रेक्षा पश्यतां पक्षिमृगवनचरादीनामपि दुःखोत्पादनाद् वनस्थलीमप्यात्मसमानदुःखां कुर्वाणेवेत्यर्थः ॥ ४ ॥ उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया । तदिदं गतमीदृशीं दशां विलापप्रकारानाह- न च दीर्ये कठिनाः खलु स्त्रियः ॥ ५ ॥ प्रकाशिका उपमानमिति। उपमानं नाम प्रसिद्धतद्धर्मकं वस्तु । विलासिनाम् । धीरसञ्चारिणी दृष्टिर्गतिगवृषभाञ्चिता। स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ इति [ दशरूपके] विलासलक्षणम् । करणं मात्रम् । चस्त्वर्थे । खलुर्जिज्ञासायाम्। २१० कुमारसम्भवे ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खल्वि’ ति सिंहः । अतः सर्वाः स्त्रियः कठिना इति ज्ञातव्यमित्यर्थः। अत्र निर्वेदः । उन्मादस्त्वेषु वाक्येषु भूयसा द्रष्टव्यः ॥ ५ ॥ विवरणम् विलापप्रकारानेव प्रपञ्चयति उपमानमित्यादिभिः- उपमानमिति । तव यत् करणं कान्तिमत्तया विलासिनाम् उपमानम् अभूत्, तद् इदम् ईदृशीम् दशां गतम्, अहं च न दीर्ये । तव यत् करणं शरीरम् । ‘करणं साधकतमक्षेत्रगात्रेन्द्रियेष्वपी’ त्यमरः । कान्तिमत्तया । कान्तिरस्त्यस्मिन्निति कान्तिमत् । अतिशायने मतुप् । तस्य भावस्तत्ता । विलासिनाम्। धीरसञ्चारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता। स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ कामस्य इति विलासलक्षणम् । ‘विलासो भूषणालापगतिकर्मसु चारुता’ इति च । तद्वतां पुरुषाणाम्। उपमीयतेऽनेनेत्युपमानम्। प्रसिद्धसाधर्म्यं वस्त्वित्यर्थः । शरीरमिवास्य शरीरं चारुतरमित्यादिवचनेष्विति भावः । तदिदं शरीरमीदृशीं दशामवस्थाम्। भस्मसाद्भावमित्यर्थः । गतं प्राप्तमासीत् । तुशब्दार्थे चकारः । दीर्य इति कर्मकर्तरि प्रयोगः । अहं तु न दीर्ये विदारणं न गच्छामि । यतोऽहं तादृशे त्वयीदृशीं दशां गतेऽपि न दीर्ये, तत एव शङ्के इत्याहस्त्रियः कठिनाः खल्विति । खलुशब्दो जिज्ञासायाम् । ‘निषेधवाक्यालङ्कारजिज्ञासानुनये स्त्रीत्वात् कठिनतैव मम विदारणाभावे हेतुरिति भावः । अनेन वाक्येनात्मनिर्वेदो दर्शितः । उन्मादस्त्वस्मिन् प्रकरणे प्रायेण द्रष्टव्यः ॥ ५ ॥ क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः । नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः ॥ ६ ॥ प्रकाशिका क्वेति । विनिकीर्यापास्य । उपमानेन गत्वरत्वं द्योत्यते ॥ ६ ॥ विवरणम् प्रणयिनीं मां परित्यज्य क्व नु खलु गतोऽसीत्यनुगमनाकाङ्क्षया सोन्मादमाह - क्वेति । त्वदधीनजीवितां मां विनिकीर्य क्व नु विद्रुतः असि । त्वदधीनजीवितां तवैवाधीनं जीवितं जीवनं यस्यास्ताम् । मत्प्राणनाथत्वं तवैवेति भावः । । चतुर्थः सर्गः २११ विनिकीर्य । ‘कृ विक्षेप’ इति धातुः । अपास्येत्यर्थः । क्व नु विद्रुतोऽसि कस्मिन् प्रदेशे विद्रुतवानसि । अत्रानुरूपामुपमां दर्शयति-जलसङ्घातो नलिनीमिवेति । जलस्य सङ्घातो जलसङ्घातः । सङ्घातः समूहः । नलिनीं पद्मिनीमिव । विनिकीर्येति अत्रापि योज्यम् । यथा जलसङ्घातः नलिनीमितस्ततो विक्षिप्य त्वरितं गच्छति, तद्वदित्यर्थः । प्रियतमस्य सत्वरगमने हेतुमाशङ्कते - क्षणभिन्नसौहृद इति । क्षणेन भिन्नं नष्टं सौहृदं बन्धुत्वं यस्य स तथा । स्नेहभङ्गाभावे हि जिगमिषायां सत्यामपि पुनः पुनरापृच्छ्य मन्दमेव गच्छति । जलसङ्घातस्य गमने हेतुमाहक्षतसेतुबन्धनामिति । क्षतं भग्नं सेतोर्बन्धनं यस्यास्ताम् । अत्र सौहृदसेत्योः परस्परसाम्यं प्रतीयते । नलिन्या जीवितमपि जलसङ्घाताधीनम् । एकत्र सञ्चितो जलसङ्घातोऽपि सेतुभङ्गानन्तरं सत्वरं गच्छति, गमनानन्तरं च कुत्र गत इति न ज्ञायते ॥६॥ कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥७॥ अथवा न गतोऽसीत्याह- प्रकाशिका कृतवानिति । उभयं ह्यमिलने हेतुरिति भावः । अत आह— अकारणमिति । रतय इति परत्वनिर्देशः स्ववाल्लभ्यादिद्योतकः । विलपन्त्यै इति, परिहासस्यापि नायमवसर इत्यर्थः । अनयोरुपालम्भनवाक्ययोरीर्ष्या ॥७॥ विवरणम् अथवा प्रणयिनीं मां परित्यज्य गतोऽसीति यन्मया कथितं ( तद) युक्तमेव, अत्र विश्लेषमात्रेऽपि हेत्वभावादित्याह- कृतवानिति । त्वं मे विप्रियं न कृतवान् असि । विप्रियमप्रियं कर्म कदाचिदपि न कृतवानसि । त्वया ममानिष्टं कर्म स्वप्नेऽपि नाचरितमित्यर्थः । नापि मया तवानिष्टं कर्म कृतमित्याह - मया ते प्रतिकूलं च न कृतमिति । प्रतिकूलमनिष्टम् । उभयमेव हि द्वन्द्वानां परस्परविश्लेषकारणमिति भावः । तस्मात् तयोरप्येकस्याभावे त्वरितमेव दर्शनं दातव्यमित्याह — किमकारणमेव रतये दर्शनं न दीयंत इति । किं कस्माद्धेतोः । अकारणं पूर्वोक्तेन कारणद्वयेन विनैवेत्यर्थः । रतय इति नामग्रहणेनात्मनः प्राचीनं प्रेमविषयत्वमनुस्मारयतीत्यर्थान्तरसङ्क्रमितवाच्यध्वनिः । २१२ कुमारसम्भवे

दर्शनं न दीयते दृष्टिगोचरो न भवसीत्यर्थः । ननु परिहासार्थमेवास्त्वित्यत्राहविलपन्त्यै इति । विलापं कुर्वत्यै । परिहासस्यापि नायमवसर इति भावः ॥ ७ ॥ स्मरसि स्मर! मेखलागुणै- रुत गोत्रस्खलितेषु बन्धनम्। च्युतकेसरदूषितेक्षणा- न्यवतंसोत्पलताडनानि वा ॥ ८ ॥ अथ कारणमाशङ्कते - प्रकाशिका स्मरसीति । उत विकल्पे । च्युतेति विशेषणं गोत्रस्खलनकारिणि मुखे दण्ड इति द्योतनाय । अत्रोह ॥ ८ ॥ विवरणम् इत्थं निरस्तेऽपि गमने दर्शनाभावात् पुनरपि गमनमेवावधार्थ गमने हेतुमाशङ्कतेस्मरसीति । स्मर! त्वं गोत्रस्खलितेषु मेखलागुणैः बन्धनम् उत अवतंसोत्पलताडनानि वा स्मरसि । हे स्मर ! गोत्रस्खलितेषु गोत्रस्य नाम्नः स्खलितेषु / स्खलनेषु । सपत्नीनामाक्षरग्रहणेष्वित्यर्थः । मेखलाभिरेव गुणैः पाशैः । उतशब्दो विकल्पे । ‘विकल्पे किं किमूत चेत्यमरः । बन्धनं वेत्यर्थः । अवतंसोत्पलताडनानि अवतंसेन कर्णपूरेण उत्पलेन कुवलयेन यानि ताडनानि तानि वा स्मरसि । ‘पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे’ इत्यमरः । यस्मादेवं दर्शनदानाभावः, तस्मात् तयोरन्यतरस्य स्मरणमाशङ्क इत्यर्थः । गोत्रस्खलनकारिणि मुख एव दण्ड इति द्योतयन्नवतंसोत्पलताडनानि विशिनष्टि - च्युतकेसरदूषितेक्षणानीति । च्युतैः पतितैः अवतंसोत्पलस्य केसरैः दूषिते पीडिते ईक्षणे नेत्रे यैस्तानि । मुखे हि ताडने कृते नेत्रयोरवतंसोत्पलकेसरदूषितत्वं भवतीति भावः । रहस्यन्यवधूनामाक्षरग्रहणे सति मया कृतयोरेतादृशयोरपराधयोरन्यतरस्य स्मरणेनैव त्वमिदानीं मत्समीपं नोपयासीत्यूहः ॥ ८ ॥ हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ ९ ॥ चतुर्थः सर्गः २१३ प्रकाशिका अथवा प्रागपि निःस्नेह एवासीत्याह- हृदय इति । कैतवं धूर्तालापम् । पदं वाक्यम् । अत्रोहपुरस्सरेर्ष्या ॥ ९ ॥ विवरणम् अथवा हेतुसद्भावे एव द्वन्द्वानां परस्परविश्लेष इति यदुक्तं, तत् स्निग्धानामेव । त्वं तु पूर्वमपि मयि निःस्नेह एवेत्याह- हृदय इति । त्वं हृदये वससीति मत्प्रियं यदवोचः, तदहं कैतवम् अवैमि । हे रते ! त्वं मे हृदये वससि मनसि स्थितिं करोषि इत्येवंरूपं मत्प्रियं मम प्रियमिष्टं यदवोचः अवादीः, तदहं कैतवं धूर्तालापमेवावैमि अवगच्छामि । कथमवगच्छसीत्यत्राह — इदमुपचारपदं न चेत्, त्वमनङ्गः रतिः अक्षता कथम् । इदं हृदये वससीत्यादिरूपं वचनम् । उपचारपदमुपचारवाक्यम् । पदशब्दस्यात्र वाक्यमर्थः । ‘न पदं पदमित्याहुर्वाक्यं हि पदमुच्यते’ इति न्यायात् । उपचार सम्मानं, सम्मानवाक्यमित्यर्थः। न चेत् तर्हि त्वमनङ्गः अशरीरोऽभूः, रतिः पुनरक्षता क्षतरहिता जाता, इदं कथं कथञ्चिदित्यर्थः । अयमभिप्रायः – यद्यहं ते हृदये वसामि तर्हि त्वयि भस्मसाद्भूतेऽपि मम क्षतमात्रेणापि रहितत्वं नोपपद्यते । तस्मान्मत्प्रसादार्थं प्रयुक्तमेव ते तादृशं वचनमिति अत्रोहस्तत्पुरस्सरेर्ष्या च द्योत्यते ॥ ९ ॥ परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव । विधिना जन एष वञ्चित - स्त्वदधीनं खलु देहिनां सुखम् ॥ १० ॥ प्रकाशिका सस्नेहया त्वया किं कृतमित्याह- परलोकेति । नवशब्दः पदव्यन्वेषणसौकर्यार्थः । तदानीमेव किं नागतासीत्याह – विधिनेति । मोहं विदधतेति शेषः । भोगसाधनेषु सत्सु किं तवास्मदनुगमनेनेत्याह — त्वदधीनमिति । खलुर्वाक्यालङ्कारे। देहिनां, न केवलं ममैकस्याः । अत्र मरणव्यवसायो मरणम् ॥ १० ॥ विवरणम् अस्त्वहं निःस्नेहः, सस्नेहा त्वं तु किं करिष्यसीत्यत्राह-२१४ कुमारसम्भवे परलोकेति । अहं परलोकनवप्रवासिनः तव पदवीं प्रतिपत्स्ये । परलोकनवप्रवासिनः परलोकमुद्दिश्य नवं यथा भवति तथा प्रवासं कर्तुं शीलमस्येति तथा । प्रवासो देशान्तरगमनम्। एतस्माल्लोकात् सद्य एव परलोकं गतस्येत्यर्थः । चिरप्रवासिनो हिं पदवी दुरवबोधा स्यात्, नवप्रवासिनस्तु पथिकजनानुयोगादिभिः सुबोधेति नवशब्दस्य ग्रहणम् । पदवीं मार्गं प्रतिपत्स्ये प्राप्स्यामि । मृतं त्वामनुमरिष्यामि सद्य एवेत्यर्थः । तर्हि त्वं तदानीं किं न मृतासीत्यत्राह – एष जनो विधिना वञ्चित इति । एष जनः अहमित्यर्थः । विधिना दैवेन वञ्चितः कृतवञ्चनो जातः । तदानीं मे मोहं विदधतेति शेषः । ननु सुखसाधनेष्वन्नपानादिषु सत्सु किं तवानेन मरणव्यवसायेनेत्यत्राह - देहिनां सुखं त्वदधीनं खलु इति । देहिनां शरीरिणां सुखं त्वदधीनं त्वदायत्तम् । खलुशब्दः प्रसिद्धौ । न केवलं त्वदधीनजीविताया ममैव, अपितु सर्वेषामपि सुखं त्वदधीनमिति प्रसिद्धमेवेत्यर्थः । अत्र मरणाख्यो व्यभिचारी । मरणं तु मरणव्यवसाय एवेति दशरूपके ॥ १० ॥ रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय ! कामिनां प्रिया- स्त्वदृते प्रापयितुं क ईश्वरः ॥११॥ प्रकाशिका सुखस्य तदधीनत्वमुपपादयति— रजनीति | प्रियेति पदच्छेदः ॥ ११ ॥ विवरणम् अथ सुखस्य तदधीनत्वमुपपादयन्ती तत्पराक्रमाननन्यसाध्याननुस्मृत्य विलपति रजनीत्यादिना श्लोकद्वयेन- रजनीति | प्रिय ! त्वदृते कः पुरमार्गे रजनीतिमिरावगुण्ठिते प्रियाः त्वदृते कः पुरमार्गे रजनीतिमिरावगुण्ठिते प्रियाः कामिनां वसतिं प्रापयितुम् ईश्वरः । प्रिय ! हे कान्त! अनया सम्बुद्ध्या त्वया विना कथमहं जीवामीति व्यज्यते । त्वदृते त्वां विना । कः न कोऽपीत्यर्थः । पुरमार्गे पुरे यो मार्गस्तस्मिन् । रजनीतिमिरावगुण्ठिते । रजन्यां रात्रौ यानि तिमिराणि तमांसि तैरवगुण्ठिते आवृते सति । अनेनाभिसारिकावृत्तस्यावसरः कामपीडाविरहितानां दुर्गमत्वं च द्योत्यते । प्रियाः कामिनीः कामिनां प्रियाणां वसतिं गृहं प्रापयितुं नेतुम् । अस्य गत्यर्थण्यन्तत्वाद् द्विकर्मकत्वम् । ईश्वरः समर्थो भवति । त्वमेव समर्थ इत्यर्थः । न केवलं पुरमार्गस्य तिमिरावृतत्वमात्रं चतुर्थः सर्गः २१५ भयजनकम्, अन्यदपीत्याह - घनशब्दविक्लवा इति । घनस्य मेघवस्य शब्देन विक्लवाः परवशाः । घनागमनसमये निरस्तमाना इति च व्यज्यते । तिमिरावृतत्वाद् भयजनकेषु पुरमार्गेषु भयजनकेषु घनशब्देषु श्रूयमाणेषु च कामिनीनां कामुकगृहप्राप्तौ त्वत्सामर्थ्यमेकमेव निमित्तमिति भावः ॥ ११ ॥ नयनान्यरुणानि घूर्णयन् वचनानि स्खलयन् पदे पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥१२॥ प्रकाशिका नयनानीति । अधुना इत आरभ्य । विडम्बना हास्यावलम्बनम्। भावशून्यत्वादित्यर्थः। अनयोः पद्ययोस्तत्पराक्रमस्मृतिः ॥ १२ ॥ विवरणम् ननु वारुणीमद एव प्रियाः प्रिववसतिं किं मवेत्यत्राह - , नयनानीति । त्वयि असति वारुणीमदः प्रमदानाम् अधुना विडम्बना । त्वयि असति अत्यन्तास्तमिते सति। वारुणीमदः । वारुणी मद्यं, तज्जनितो मदः । ‘सम्मोहानन्दसम्भेदो मदिरादिकृतो मद’ इति मदलक्षणम् । प्रमदानां स्त्रीणां विडम्बना हासकारणं, भावशून्यत्वादिति भावः । मदिरामदस्वभावकथनेन हासकारणत्वमेवाभिव्यनक्ति–नयनानीत्यादिना विशेषणद्वयेन । तत्र मदिरापानानन्तरमेव जायमानं स्वभावमादौ वर्णयति — अरुणानि नयनानि घूर्णयन्निति । अरुणानि मद्यपानेन जनितरागाणि नयनानि विलोचनानि घूर्णयन् भ्रामयन् । अथ तदनन्तरं जायमानं स्वभावमाह - पदे पदे वचनानि स्खलयन्निति । पदे पदे प्रतिपदं वचनानि वाक्यानि स्खलयन् स्खलितानि कुर्वन् । मदिरामदो हि प्रथमं नयनशोणिमानमातनोति, पुनश्च स्खलितपदानि वचनानि जनयति । नहि तयोरुभयोरपि भावशून्यत्वे तद्दर्शिनां हासादन्यत् किमपि सम्भवतीति भावः ॥ १२ ॥ अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः । बहुलेऽपि गते निशाकर- स्तनुतां दुःखमनङ्ग! मोक्ष्यति ॥ १३॥ २१६ कुमारसम्भवे प्रकाशिका विशेषतः त्वत्सुहृदः शोच्याः संवृत्ता इत्याह- अवगम्येति । कथीकृतमिति कथावशेषीकृतम्। बहुले कृष्णपक्षे । दुःखं कृच्छ्रात्। अत्रोहः ॥ १३ ॥ विवरणम् हन्त तव बन्धवोऽपि सम्प्रति शोचनीयाः संवृत्ता इत्याह- अवगम्येति । अनङ्ग ! निशाकरः तव वपुः कथीकृतम् अवगम्य बहुले गते अपि दुःखं तनुतां मोक्ष्यति । हे अनङ्ग !, इदानीं त्वमेवं संवृत्त इत्यर्थः । निशाकरः चन्द्रः । तव वपुः शरीरम् । कथीकृतम्। कथाशब्दादभूततद्भावे विप्रत्ययः । कथावशेषीकृतमित्यर्थः। अत एवानङ्गेति सम्बुद्धिरुक्ता । अवगम्य ज्ञात्वा । बहुले कृष्णपक्षे । ‘बहुलः कृष्णपक्षेऽपीति भोजः । गते अतीतेऽपि । अपिशब्दः कृष्णपक्षात्यये तनुतापरित्यागाभावस्य विरोधमाह । दुःखं कृच्छ्रात् तनुतां कार्श्यम् । ‘स्त्रियां तनुः शरीरे स्यात् कृशे भद्रे तनुस्त्रिष्विति नानार्थकोशः । मोक्ष्यति त्यक्ष्यति। त्वद्विनाशजनिताद् दुःखात् प्रक्षीणशरीरश्चन्द्रः पूर्वपक्षेऽपि कृच्छ्रेणैव शरीरपुष्टि प्राप्स्यतीत्यर्थः । त्वद्विनाशस्य दुःखकारणत्वमाह – प्रियबन्धोरिति । प्रियाः बन्धवो यस्य तस्य । प्रियस्य इष्टस्य बन्धोरिति वा विग्रहः । अयं च दुःखे प्रथमो हेतुः । द्वितीयं हेतुमाह — निष्फलोदय इति । निष्फलः अफलः उदयो यस्य स तथा । चन्द्रोदयस्य कामिनीकामुकसम्भोगसौख्यं हि फलम् । न च तत् कामेन विना सम्भवतीति निशाकरस्य निष्फलोदयत्वमिति दुःखनिमित्तकं शरीरकार्श्यमिति भावः । नहि दुःखनिमित्तं शरीरका बहुलावसानेऽपि नश्यतीति कृच्छ्रेण कार्श्यपरित्यागोपपत्तिरूह्या॥१३। हरितारुणचारुबन्धनः

कलपुंस्कोकिलशब्दसूचितः । वद सम्प्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ १४ ॥ प्रकाशिका न केवलं त्वत्सुहृदां, किञ्च त्वत्परिच्छदानामपि नियता शोच्यतेत्याह- हरितारुणेति। हरितारुणचारुबन्धनत्वं बाणस्यापि धर्मः । दक्षिणावर्तस्तु - सूचिक इति पाठमादृत्य सूचिर्वेधनशल्यमित्याह ॥ १४ ॥ चतुर्थः सर्गः विवरणम् २१७ न केवलं त्वत्सुहृदामेव शोच्यत्वं, त्वत्परिच्छदानामपीति श्लोकद्वयेनोच्यते । तत्रादौ बाणानां प्राधान्यात् तेषां शोच्यत्वमाह- हरितेति । नवचूतप्रसवः सम्प्रति कस्य बाणतां गमिष्यति वद । नवचूतप्रसवः । नवोऽभिनवः चूतप्रसवः चूतपुष्पम् । सम्प्रति एतस्मात् कालादारभ्येत्यर्थः । कस्य बाणतां शरत्वं गमिष्यति प्राप्स्यति वद ब्रूहि । चूतप्रसवोऽद्यप्रभृति निरुपयोगः संवृत्त इति भावः । उद्दीपनत्वातिशयं द्योतयितुं नवशब्दः । नवचूतप्रसवस्य बाणधर्मयोगमाह — हरितारुणचारुबन्धन इति । नवत्वाद्धरितमीषन्नीलमरुणं रक्तवर्णं चारु मनोहरं च बन्धनं वृन्तं यस्य स तथा । बाणोऽपि शिल्पिभिः कृतैर्हरितैररुणैश्च बन्धनैर्युक्तो भवति । चूतपुष्पाणां दर्शनेन विनाप्युद्दीपनत्वमाह -कलपुंस्कोकिलशब्दसूचित इति । कलेन मधुरेण पुंस्कोकिलशब्देन पुंस्कोकिलानां स्वनेन सूचितः ज्ञापितः । नहि चूताङ्कुरास्वादनेन विना कोकिलालापस्य कलत्वं भवति । तदुक्तं ‘चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज’ (कुमा. ३.३२) इति । कलतरकोकिलालापश्रवणानुमितोदय इत्यर्थः । धन्विनां बाणमोक्षोऽपि तल्लिङ्गभूतेन हुङ्कारेणानुमीयते । कूजनसामर्थ्यप्रतीत्यर्थं पुंस्त्वविशेषणं सैनिकत्वप्रतीत्यर्थं । च॥१४॥ अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता । विरुतैः करुणस्वरैरियं गुरुशोकामनुरोदितीव माम् ॥ १५ ॥ प्रकाशिका अलिपङ्क्तिरिति । अनेकशः अनेकेषु । ‘मङ्गलार्थेऽयमिष्यत’ इति वचनात् । करुणं दयनीयम् । उत्प्रेक्षया शोच्यता गम्यते ॥ १५ ॥ धनुर्गुणस्यापि शोच्यतामाह- विवरणम् अलीति । त्वया अनेकशः धनुषः गुणकृत्ये नियोजिता अलिपङ्क्तिः करुणस्वरैः विरुतैः गुरुशोकां माम् अनुरोदिति इव । त्वया भवता अनेकशः बहुशः । बहुषु कार्येष्वित्यर्थः । धनुषः कौसुमस्य चापस्य । गुणकृत्ये गुणस्य मौर्व्याः कृत्ये कार्ये । धनुरारोपण इत्यर्थः । नियोजिता समर्पिता । मौर्वीत्वं प्रापितेत्यर्थः । २१८ कुमारसम्भवे अनेन प्राचीनानेकोपयोगकथनेन भविष्यतो निरुपयोगत्वस्यात्यन्तदुःखहेतुत्वमुक्तम्। अलिपङ्क्तिः अलीनां भ्रमराणां पङ्क्तिः । करुणस्वरैः करुणो दयनीयः स्वरो येषां तादृशैः । विरुतैः झङ्कारैः । शोकहर्षादौ हि स्वरभेदः प्रसिद्धः ‘द्विधा भिन्नाः शिखण्डिभिः ‘(रघु.१.३९) इत्यादिषु । गुरुशोकाम् । गुरुरधिकः शोको दुःखं यस्यास्तादृशीम्। मामनुरोदितीव रुदत्या ममानुरोदनं करोतीव । ‘रुदादिभ्यः सार्वधातुके’ (७.२.७६ ) इतीडागमः । दर्शनात् क्लिष्टजन्तूनां धर्मशीलस्य चेतसः । आर्द्रता करुणा तस्या विषयः करुणस्त्रिषु ॥ इति भोजः । उत्प्रेक्षयालिपङ्क्तेः शोच्यता सूच्यते ॥ १५ ॥ 1 प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतपदेषु कोकिलान् मधुरालापनिसर्गपण्डितान्॥१६॥ तन्मादेवं कुर्या इत्याह- प्रकाशिका प्रतिपद्येति । तायत् प्रथमम् । उत्थिन उद्युक्तः । रत्यर्था दूता रतिदूताः । अत्रौत्सुक्यम् ॥ १६ ॥ विवरणम् यदि मद्धिनाशादेवम्भूता मम बन्धवः तर्हि किं सपा कर्तव्यमित्यत्राह- प्रतिपद्येति । त्वं तावद् मनोहरं वपुः प्रतिपद्य उत्थितः पुनः अपि कोकिलान् रतिदूतपदेषु आदिश । तावत् प्रयमम् । आदौ तव बन्धूनां मध्ये कोकिलानां शुचमपनय, पुनः क्रमेणान्येषामपीति भावः । मनोहरं रमणीयं वपुः शरीरम् । प्रतिपद्य, भस्मरूपं वपुरवहाय पूर्ववदतिरमणीयं शरीरमेवोपादायेत्यर्थः । उत्थितः उद्युक्तः सन्। नैवमौदासीन्यं कुर्या इत्यर्थः । पुनरपि पूर्ववदित ऊर्ध्वमप्यादिशेत्यर्थः। कोकिलान् परभृतान् रतिदूतपदेषु रत्यर्था दूता रतिदूताः तेषां पदेषु स्थानेषु । कामिनीकामुकयोः परस्परं घटनरूपेषु कार्येष्वित्यर्थः । कोकिलानामेव सामर्थ्यम् । यथोक्तं रघुवंशे- तत्र हि त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ (९.४७) चतुर्थः सर्गः २१९ इति । आदिश नियुङ्क्ष्व । आदौ कोकिलानां शुचमपनीय तेष्वपि स्वकृत्ये योजितेषु त्वरितगतयस्ते जगतामपि शुचमपनयन्तीति आदौ कोकिलानाज्ञापयेत्युक्तम् । दूतकार्ये कोकिलानां सामर्थ्यं दर्शयति – मधुरालापनिसर्गपण्डितानिति । मधुरेषु मनोहरेष्वालापेपु निसर्गतः स्वभावत एव पण्डितान् विदग्धान् । अलं तव वचनप्रकारशिक्षाविषयैः प्रयासैरिति भावः । अनेन वाक्येनैत्सुक्यं प्रकाशितम् ॥ १६ ॥ शिरसा प्रणिपत्य याचिता- न्युपगूढानि सवेपथूनि च । सुरतानि च तानि ते रहः स्मर! संस्मृत्य न शान्तिरस्ति मे ॥ १७ ॥ प्रकाशिका शिरसेति । प्रथमं कुपितायाः शिरसा प्रणिपत्य याचनं, ततः प्रसन्नाया उपगूहनं, ततो रागोद्बोधे सुरतमिति क्रमेण स्मृतिः । तानीत्यनुभूतपरामर्शिना तच्छब्देनाव्यपेश्यत्वं, बहुवचनेन बहुप्रकारत्वं च द्योत्यते । शान्तिरनुत्सुकता । तस्याश्च कृदभिहितत्वेनान्याङ्गत्वात् स्मरणस्य भिन्नकर्तृकत्वभ्रमः स्यात् । संस्मृत्य न शाम्यामीत्यर्थः ॥ १७॥ विवरणम् इत्थं बहुप्रकारान् प्रलापान् विधाय निजप्रलापमनर्थकमवधार्यापुनः पूर्वानुभूतानतिमधुरानवाङ्मनसगोचरान् कामानुभावानेव संस्मृत्य प्रलपति- शिरसेति । स्मर! ते शिरसा प्रणिपत्य याचितानि सवेपथूनि उपगूढानि च रहः तानि सुरतानि च संस्मृत्य मे शान्तिः नास्ति । स्मर! हे मदन ! । यस्य सान्निध्यमात्रेणापि जन्तूनां मनोविकारः सम्पद्यते, तेन स्वयमेव कृतानां सुरतादीनाम् अवाङ्मनसगोचरत्वोपपत्तिरनया सम्बुद्ध्या व्यज्यते । कुपितां मामनुनेतुं शिरसा प्रणिपत्य साष्टाङ्गं नमस्कृत्य । त्वया कृतानि यानि याचितानि याचनानि । भावे निष्ठा । प्रसीद, सदयं मामवलोकयेत्यादीनि प्रार्थनानीत्यर्थः । तथा सवेपथूनि वेपथुः सात्त्विकविकाररूपः शरीरकम्पः तेन सहितान्युपगूढानि उपगूहनानि । अत्रापि भावे प्रत्ययः । रहः रहसि तानि सुरतानि त्वयैव कृतानि तानि पूर्वानुभूतान्यनिर्देश्यानि च। बहुवचनेन कामशास्त्रप्रसिद्धानां करणभेदानामुपादानम् । चकारः समुच्चयार्थः । संस्मृत्य सम्यक् स्मृत्वा । प्रथमं कुपितां मामनुनेतुं प्रणिपत्य याचनं, तदनन्तरं प्रसन्नायां मयि सरागमालिङ्गनं, ततश्च रागस्य समुद्बोधे सति बहुविधानि सुरतानीति स्मरणक्रमोऽत्र विवक्षितः । एवमेतादृशानुभवपात्रीकृताया मम शान्तिरनुत्सुकता २२० कुमारसम्भवे नास्ति कथश्चिदपि न भवति । अत्र शान्त्याः कृदभिहितत्वेन क्रियान्तराङ्गत्वात् स्मरणस्य भिन्नकर्तृकत्वभ्रमः । संस्मृत्य न शाम्यामीत्यर्थः । यदाह महिमा - कर्तुरुपाधितयोक्ता कृद्वाच्यतया गतान्यगुणतां वा । क्त्वो भिन्नकर्तृकत्वभ्रमाय भवति क्रियावचश्च तयोः ॥ [ व्यक्तिविवेके पृ. ३७] इति । संस्मृत्य स्थिताया ममेति वा योजना ॥ १७॥ रचितं रतिपण्डित ! त्वया नवमङ्गेषु ममेदमार्तवम् । ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ १८ ॥ प्रकाशिका रचितमिति । आर्तवमृतुप्रभवम् । ध्रियते अवतिष्ठते । अत्र विषादः ॥ १८ ॥ विवरणम् अथ स्वशरीरगतानि कुसुमाभरणान्यवलोक्य सविषादमाह - रचितमिति । रतिपण्डित ! त्वया मम अङ्गेषु रचितं नवम् आर्तवम् इदं कुसुमप्रसाधनं ध्रियते, तव चारु तद् वपुः न दृश्यते । हे रतिपण्डित ! रतिषु सुरतेषु पण्डित ! विदग्ध ! । त्वत्कृतानां कर्मणां कथं विस्मरणं स्यादित्यनया सम्बुद्ध्या व्यज्यते । त्वया स्वहस्तेनैव ममाङ्गेषु रचितं न्यस्तम् । शिरोलङ्कारकर्णावतंसादितां प्रापितमित्यर्थः। नवम् अभिनवम् । अत्र कुसुमाभरणानामभिनवत्वकथनेन क्षणादेव त्वमीदृशीं दशां गतोऽसीति व्यज्यते । आर्तवम् ऋतुप्रभवं, वसन्तपुष्पाभरणमित्यर्थः। इदं दृश्यमानं कुसुमप्रसाधनं कुसुममयं प्रसाधनमलङ्कारः । ध्रियते ममाङ्गेष्वेवावतिष्ठते। ‘धृङ् अवस्थाने’ इति धातोरिदं रूपम् । चारु सुन्दरम्। तत् प्रसाधनकर्तृत्वेन मयेदानीमेवानुभूतं वपुः शरीरं न दृश्यते । हा हतास्मीति शेषः ॥ १८ ॥ विबुधैरपि यत् सुदारुणै- रसमाप्ते परिकर्मणि स्मृतः । तदिमं कुरु दक्षिणेतरं कार चरणं निर्मितरागमेत्य मे ॥ १९ ॥ चतुर्थः सर्गः प्रकाशिका २२१ विबुधैरिति । विबुधानां सौम्यत्वस्योचितत्वाद् अपिशब्दः । परिकर्मणि प्रसाधने । तत्तस्मात् । दक्षिणेतरमिति, तस्य स्त्रीणां सम्भोगसाधनत्वात् । यथा मेघसन्देशे – ‘वामश्चास्याः कररुहपदैरि ’ [ ९४]त्यादि । अत्रौत्सुक्यम् ॥ १९ ॥ अथार्थरचितस्य सौत्सुक्यमाह - विवरणम् चरणालक्तकरञ्जनपरिपूरणस्यावश्यकत्वात् त्वरिततरमागच्छेति विबुधैरिति । विबुधैः सुदारुणैः परिकर्मणि असमाप्ते स्मृतः यत् यत् त्वम् एत्य मे दक्षिणेतरम् इमं चरणं निर्मितरागं कुरु । विबुधैर्देवैः । विबुधानां सौम्यत्वस्यैवोचितत्वादपिशब्दो विरोधमाह । विबुधत्वे सत्यपि सुदारुणैरत्यन्तदारुणैः । विबुधानां दारुणत्वमसाध्ये कर्मणि नियोगार्थं ( स्मरणात् ।) तस्यापि स्मरणस्य प्रसाधनान्तराले कृतत्वात् सुदारुणत्वम् । तथाविधैः सद्भिः । परिकर्मणि प्रसाधने असमाप्ते समाप्तिमप्रापिते सति स्मृतः चिन्तितोऽसीति यत्, तत् तस्माद्धेतोः त्वमेत्यागत्य दक्षिणेतरं वामम् । इममलक्तकशून्यत्वेन शोच्यतया दृश्यमानं चरणं पादम् । निर्मितरागं निर्मितो विहितः रागः अलक्तकरसो यस्मिंस्तथाविधम्। कुरु विधेहि । अयमभिप्रायः - स्नेहातिशयात् स्वहस्तेनैव मम चरणद्वयमलक्तकरसेन रञ्जयितुं प्रवृत्तस्त्वं दक्षिणचरणरञ्जनानन्तरमेव देवकृतात् स्मरणाद् गतोऽसीति यत्, तस्माद् द्रुततरमागत्य वामचरणमलक्तकरसेन रञ्जयेति । प्रियतमकृतस्य वामचरणस्पर्शस्य विशेषतः स्त्रीणां सुखकरत्वं प्रसिद्धम् । यथोक्तं मेघसन्देशे — ‘वामश्चास्याः कररुहपदैरि’ [ ९४]त्यादि ॥ १९ ॥ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते। चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ॥ २० ॥ अथवैतत् कर्तव्यमित्याह- प्रकाशिका अहमिति । पतङ्गवर्त्मना अग्निप्रवेशेनेत्यर्थः । भवामि, वर्तमानसामीप्ये लट् । यावन्न विलोभ्यसे वञ्चयसे, तावदियमागतास्मीत्यर्थः । अत्र सपत्नीशङ्का । ननु दिव्यत्वाद् दिवीत्यनुपपन्नम् । मरणादृतेऽपि शक्यश्च प्राप्तुम्। न । दिव्यानामपि शरीरत्यागानन्तरं गतयो भिन्नाः । तस्मात् सालोक्यमनुमरणलभ्यमेव ॥ २० ॥ २२२ कुमारसम्भवे विवरणम् अथवा वृथा प्रलापैरलं, भर्तुरनुमरणमेव युक्तमिति सपत्नीशङ्कया सहाह— , अहमिति । प्रिय ! त्वं यावद् दिवि सुरकामिनीजनैः न विलोभ्यसे, तावद् अहं पतङ्गवर्त्मना एत्य पुनः ते अङ्काश्रयिणी भवामि । हे प्रिय ! त्वं यावद् दिवि स्वर्गे सुरकामिनीजनैः स्वर्गस्त्रीभिः न विलोभ्यसे यावन्नात्मवशं नीयसे, तावदहं पतङ्गवर्त्मना पतङ्गानां शलभानां वर्त्मना मार्गेण अग्निप्रवेशेनेत्यर्थः । एत्य त्वत्समीपं प्राप्य । पुनः पुनरपि ते तव । अङ्काश्रयिणी अङ्कमुत्सङ्गमाश्रयितुं शीलमस्या इति तथा । भवामीति ‘वर्तमानसामीप्ये वर्तमानवद्वे’ (३.३.१३१) ति लट्। चिरपरिचये सति सुरसुन्दर्यस्त्वां वशीकरिष्यन्ति, तस्मात् पूर्वमेवाङ्काश्रयिणी भवामीत्यर्थः। नन्वस्ति किं सुरसुन्दरीणां तादृशं सामर्थ्यमित्यत्राह – चतुरैरिति । पुंसां चित्ताकर्षणविचक्षणैरित्यर्थः । नन्वत्र श्लोके दिवीति यदुक्तं तदनुपपन्नं, पूर्वमपि मदनस्य दिव्यत्वात्। नाप्यनुमरणे प्रयोजनमपि पश्यामः, आत्मनो दिव्यत्वेन मरणं विनापि स्वर्गप्राप्त्युपपत्तेः । उच्यते । दिव्यानामपि शरीरत्यागानन्तरं स्वर्ग एवावस्थानमिति नियमो नास्त्येव । तस्मात् सुरकार्यमुद्दिश्य कृतशरीरत्यागस्य स्वर्गप्राप्तिरेवोचितेति सम्भावनामात्रेणैव दिवीत्युक्तम् । नापि दिव्यानामपि भर्तृलोकप्राप्तिरनुमरणेन विना सम्भवति, स्मृतिपुराणादिषु भर्तृलोकप्राप्तेरनुमरणमात्रोपायत्वेन प्रतिपादनादित्यलमनेन ॥ २० ॥ मदनेन विनाकृता रतिः क्षणमात्रं किल जीवतीति मे । वचनीयमिदं व्यवस्थितं

रमण ! त्वामनुयामि यद्यपि ॥ २१ ॥ प्रकाशिका दोषस्तु तथाकरणेऽपि नापैतीत्याह- मदनेनेति । इतिशब्दों हेतौ, न तु वचनीयप्रकारवाची । तत्त्वे जीवेदिति स्यात् । व्यवस्थितं शिलालिखितं जातम् । अत्र लज्जा ॥ २१ ॥ विवरणम् हन्त ममानुमरणेन भर्तृलोकप्राप्तौ सिद्धायामपि क्षणमात्रजीवननिमित्तो लोकापवाद- दोषः कदाचिदपि नापैतीति सलज्जमाह- चतुर्थः सर्गः २२३ का मदनेनेति । रमण! अहं त्वामनुयामि यद्यपि, रतिः मदनेन विनाकृता क्षणमात्रं जीवति किल इतीदं वचनीयं मे व्यवस्थितम् । रमण! हे कान्त! अहमनुमरणेन यद्यपि त्वामनुयामि सद्य एवानुगमिष्यामि । वर्तमानसामीप्ये लट् । तथापि रतिः मदनेन कामदेवेन । विनाकृतेत्येकं पदम् । विरहितेत्यर्थः । तथाभूता सती । क्षणमात्रं कञ्चित्कालमपि जीवति किल । किलशब्दः प्रसिद्धौ । इतिशब्दो हेतौ, न तु वचनीयप्रकारवाची । तथा सती जीविता किलेति प्रयोगः स्यात् । केचित्तु जीवितेत्येव पठन्ति । जीवतीत्येतस्माद्धेतोरुत्पन्नमित्यर्थः । वचनीयं लोकापवादः । मे व्यवस्थितं, शिलातललिखितं जातमित्यर्थः ॥ २१ ॥ क्रियतां कथमन्त्यमण्डनं परलोकत्वरितस्य ते मया । सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ २२ ॥ प्रकाशिका अनुम्रियमाणापि पतिमात्मानं च मण्डयति । ततश्च यत् ते मण्डनं प्राप्तकालं, तदपि मे दुर्लभमित्याह- क्रियतामिति । प्राप्तकाले लोट्। अशक्यत्वे हेतुमाह – सममिति । समं युगपत् । लोके हि जीवितापायेऽपि कञ्चित् कालमङ्गमवतिष्ठते, इह तु न तथेत्यर्थ । दक्षिणावर्तस्तु स्वयमेवेति पाठमादृतवान् । तन्न चतुरश्रम् । अन्त्यमण्डनस्याशक्यत्वं ह्युपपाद्यम् । तत्र च स्वयङ्गमनस्य नोपयोगः । अत्रापि विषादः ॥ २२ ॥ विवरणम् भर्तारमनुमर्तुमुद्यता हि पतिव्रताः पतिमात्मानं च कुसुमचन्दनादिभिरलङ्कुर्वन्तीति नियमाद् यत् ते मण्डनं प्राप्तकालं, तदपि मे विधिवैपरीत्याद् दुर्लभमभूदिति सविषादमाह– क्रियतामिति । परलोकत्वरितस्य ते अन्त्यमण्डनं मया कथं क्रियताम् । परलोकत्वरितस्य परलोकमुद्दिश्य गन्तुं त्वरितस्य, इहलोकं परित्यज्य त्वरितमेव परलोकं गतस्येत्यर्थः । ते तव । अन्त्यमण्डनं, प्रेतशरीरालङ्करणमित्यर्थः । मया कथं क्रियतां, न कथञ्चिदित्यर्थः । क्रियतामिति प्राप्तकाले लोट् । अनुमरणकाल एव हि तस्यापि काल इति भावः । अन्त्यमण्डनाशक्यत्वे हेतुमाह-त्वम् अङ्गेन च जीवितेन च सममेवातर्कितां गतिं गतः असीति । अङ्गेन शरीरेण जीवितेन च समं२२४ कुमारसम्भवे सहैव अतर्कितामनिरूपितां गतिम् । प्रत्यक्षाद्यविषयां पदवीमित्यर्थः । गतः प्राप्तोऽसि । सर्वेषां हि मृतानां जन्तूनां शरीरमात्रं तत्रैव तिष्ठति । त्वं तु शरीरप्राणाभ्यां सहैव विनष्टोऽसि । ततः कथमन्त्यमण्डनावकाश इति भावः ॥ २२ ॥ ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च तत् ॥ २३ ॥ प्रकाशिका ऋजुतामिति । तां कथां तद्विलोकनं च स्मरामीत्यन्वयः । नयत इति हेतौ शता । तदा कथाप्यन्यैवेति भावः । दक्षिणावर्तस्तु कथामित्यत्र स्मरामीत्यनुषङ्गमाह । न तच्छ्रद्धेयम्। पूर्वमन्यान्वये सत्यनुषङ्गः । न च पूर्वं ते स्मरामीत्यन्वयः । न हि तथान्वयप्रतीतिः स्वारसिकी। विभक्तिप्रक्रमदोषश्च स्यात् । न च सुहृत्संकथा कटाक्षवीक्षणं च शरर्जुतानयनानुषङ्गिके तेन समकक्ष्यतां नेये । तयोरेव हि स्वानुभवसिद्धविविधविलासास्पदत्वेन स्मर्यमाणयोः करुणोद्दीपकत्वं विवक्षितं, तथा स्मरणं च तच्छब्देन दर्शितम् । अत्रापि स्मृतिः ॥ २३ ॥ विवरणम् इत्थमनुमरणे कल्पितेऽपि पूर्वानुभूतानतिमनोहरान् भावविशेषान् वचनविशेषानपि संस्मृत्य प्रलपन्ती त्वरितमनुमरणमेव द्रढयति — ऋजुतामिति । अहं शरम् ऋजुतां नयतः उत्सङ्गनिषण्णधन्वनः ते मधुना सह सस्मितां कथां तद् नयनोपान्तविलोकितं च स्मरामि । शरं बाणम् ऋजुतामार्जवम् नयतः प्रापयतः । हेतौ शता । शरर्जुतानयनाद्धेतोः उत्सङ्गनिषण्णधन्वनः उत्सङ्गे अङ्के निषण्णं स्थितं धनुर्यस्य तस्य । ते तव मधुना अत्यन्तबन्धुभूतेन मूर्तिमता वसन्तेन सह सस्मितां मन्दस्मितसहितां कथां सँल्लापम् । तत् तादृशम् । अत्र पूर्वानुभूतपरामर्शिना तच्छब्देनानिर्देश्यत्वमुक्तम् । नयनोपान्तविलोकितं नयनस्योपान्तेन नेत्रकोणेनेति यावत् । चकारः समुच्चयार्थः । स्मरामि चिन्तयामि । शरस्य वक्रतामपनेतुमङ्के चापं निधायात्यन्तसावधानत्वयोग्ये तस्मिन्नपि काले मधुना सम्भाषणं कुर्वतस्तन्मध्ये च सस्नेहं नेत्रोपान्तेन मामवलोकयतश्च तव तादृशान् भावान् कथमहं विस्मरामि । अविस्मृता च कथं न त्वरितमेवानुमरिष्यामीति भावः ॥ २३ ॥ TAARE चतुर्थः सर्गः क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥२४॥ प्रकाशिका २२५ क्वेति। हृदयङ्गमः ‘गमश्च’ (३.२.४७) इति खश् । कुसुमैरायोजितं सम्पादितं कार्मुकं येन । खलुर्जिज्ञासायाम्। अत्र हेतुबलाद् गमने सम्भाव्ये तदभावसम्भावनं तद्दर्शनस्येष्टत्वात् । त्वद्गतामिति वक्तव्ये सुहृद्गतामिति वचनं सुहृद्गतां गतिमसावपि गच्छत्विति पिनाकिमननस्य हेतुतासंभावनां द्योतयितुम् । तत्र चानुकूलमुग्ररुषेति विशेषणम् । अत्र सुहृद्दर्शनौत्सुक्यं पिनाकिन्यसूया च ॥ २४ ॥ विवरणम् अथ ‘मधुना सह सस्मितां कथाम्’ (कुमा. ४.२३ ) इति प्रसङ्गागतं प्रियतमबन्धुभूतं मधुमुद्दिश्यापि प्रलपति — क्वेति । ते हृदयङ्गमः सखा मधुः क्व नु । ते तव। हृदयङ्गमः हृदयं गच्छतीति हृदयङ्गमः। ‘गमश्च’ (३.२.४७) इति खच् । हृदय एव वर्तमानः, अतिप्रिय इत्यर्थः । तथाभूतः सखा मधुर्वसन्तः क्व नु । नुशब्दो वितर्के। इदानीं कुत्र वा गत इत्यर्थः । प्रियतमविरहिताहं यदि तमपि द्रक्ष्यामि, तर्हि मे दुःखं किञ्चिदपि शाम्येदित्यर्थः । न केवलं सखित्वादेव हृदयङ्गमत्वम्, अपितु उपकर्तृत्वाच्चेत्याह—कुसुमायोजितकार्मुक इति । सुकुमैः पुष्पैरायोजितं सम्पादितं कार्मुकं चापं येन स तथा । अदर्शने स्नेहादपायमेवाशङ्कयाह — सोऽपि पिनाकिना सुहृद्गतां गतिं न गमितः खलु । सोऽपि । न केवलं मत्प्रियतमः, अपितु तत्सखोऽपीत्यपिशब्दार्थः । पिनाकिना । पिनाकोऽस्यास्तीति पिनाकी । अनेन साधनसम्पत्तिरुक्ता। सुहृद्गतां सुहृदा बन्धुना गतां प्राप्ताम् । गतिं पदवीम् । न, गमितः प्रापितः। खलुशब्दो जिज्ञासायाम् । अत्र हेतुवशात् सुहृन्मार्गप्राप्तिप्रापणे सम्भाव्येऽपि तदप्रापणसम्भावनं तद्दर्शनौत्सुक्यादिति द्रष्टव्यम् । प्रकरणवशादत्र त्वद्गतां गतिमित्येव वक्तव्ये सुहृद्गतां गतिमिति वचनं पिनाकिनस्तद्विनाशने हेतुसद्भावं प्रदर्शयितुम् । अत एवाह — उग्ररुषेति । अत्युग्रकोपेन । अत्युग्रकोपो हि रिपुजनमुन्मूल्यापि तद्बन्धूननुन्मूल्य न विरमति । अत्र पूर्वार्धेन सुहृद्दर्शनौत्सुक्यमुत्तरार्धेन पिनाकिन्यसूया च ध्वन्यते ॥ २४ ॥ २२६ कुमारसम्भवे अथ तैः परिदेविताक्षर हृदये दिग्धफलैरिवार्पितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत् पुरः ॥ २५ ॥ प्रकाशिका अथैवं कृतप्रस्तावस्य मधोर्वृत्तमाह- अथेति । तैरिति तथाभूतैरित्यर्थः। परिदेविताक्षरैर्विलापवाक्यैरित्यर्थः । अक्षरग्रहणमर्थात् प्रागेव चित्तद्रुतिहेतुतां द्योतयितुम् । विषाक्ते दिग्धलिप्तका’ विति सिंहः । अभ्यवषत्तिरनुग्रहः । स चात्राश्वासनम् । आतुराया दूरावलोकनाक्षमत्वात् पुरोदर्शनम् ॥ २५ ॥ विवरणम् इत्थं कृतप्रस्तावस्य मधोः प्रवृत्तिं दर्शयति- अथेति । अथ मधुः आतुरां रतिम् अभ्युपपत्तुम् आत्मानं पुरः अदर्शयत् । अथ एवम्भूतविलापान्तरं मधुर्वसन्तः आतुरां भर्तृवियोगेन दुःखितां रतिं कामवधूम् अभ्युपपत्तमनुग्रहीतुम् । ‘अभ्युपपत्तिरनुग्रहः’ इत्यमरः । अनुग्रहश्चार्थादाश्वासनं विवक्षितम्। आश्वासयितुमिति यावत् । आत्मानं स्वशरीरं पुरः अग्रे एव अदर्शयद् दर्शयामास । आतुराया रतेः दूरावलोकनसामर्थ्याभावादग्र एवाविर्भावः । अभ्युपपत्तौ हेतुं प्रदर्शयति - तैः परिदेविताक्षरैः हृदयेऽर्पितः इति । तैः तथाभूतैः, अनिर्देश्यैरित्यर्थः । परिदेविताक्षरैः विलापवाक्यैः । ‘विलापः परिदेवनमित्यमरः । भावे निष्ठा। अक्षरग्रहणेनार्थावबोधात् पूर्वमेव हृदयद्रवहेतुत्वं द्योत्यते । हृदये हृदि । अर्पितः आहत इत्यर्थः। अर्दित इति वा पाठः । परिदेविताक्षराणामसह्यत्वमुत्प्रेक्षया दर्शयतिदिग्धफलैरिवेति । दिग्धैर्विषलिप्तैः । ‘विषाक्ते दिग्धलिप्तकाविति सिंहः । फलैः शरमुखैः । ‘फलं शरमुखेऽपि चेति भोजः । विषाक्तैः शरमुखैरिवात्यन्तदुस्सहैरित्यर्थः । हृदयार्पितं हि शल्यमत्यन्तपीड़ाकरं भवति, तत्रापि विषाक्तमिदं हृदयं दहत्येवेति भावः ॥ २५ ॥ तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते॥२६॥ चतुर्थः सर्गः प्रकाशिका २२७ तमिति । भृशं पूर्वस्मात् । स्तनसम्बाधमिति ‘परिक्लिश्यमाने च’ (३.४.५५) इति णमुल् ॥ २६ ॥ विवरणम् वसन्तदर्शनानन्तरं रतेर्दुःखाधिक्यनाह- तमिति । सा तमवेक्ष्य भृशं रुरोद । सा रतिः तं वसन्तम् अवेक्ष्य दृष्ट्वा । भृशमत्यन्तं, पूर्वस्मादधिकमित्यर्थः । रुरोद रोदनं चकार । दुःखाधिक्यमेव प्रकटयति — स्तनसम्बाधमुरो जघान चेति । स्तनसम्बाधमिति ‘परिक्लिश्यमाने च’ (३.४.५५ ) इति णमुल् ॥ स्तनौ बाधित्वेत्यर्थः । उरः वक्षः प्रदेशं जघान कराभ्यामाहतवती । स्तनयोर्बाधा यथा भवति तथा वक्षःस्थलमाजघानेत्यर्थः । उक्तमर्थमर्थान्तरन्यासेन समर्थयते - दुःखं स्वजनस्य अग्रतः विवृतद्वारमिव उपजायते हीति । दुःखं दुःखसामान्यम् । स्वजनस्य स्वस्यात्मीयस्य जनस्य, बन्धोरित्यर्थः । अग्रतः अग्रे । विवृतद्वारं विवृतं विघटितं द्वारं यस्य तत्तथा । उपजायते भवति । सर्वं हि दुःखं बन्धुजनस्याग्रे विवृतद्वारमिव भवतीत्यर्थः । अन्तर्भागे निरुद्धं हि वस्तु यथा द्वारे विघटिते सति निरन्तरं निर्गच्छति, तथा मनस्स्थितं दुःखमपि बन्धुजनस्याग्रे प्रलापाश्रुसन्तानादिरूपेण बहिः प्रसरत्येवेति भावः । हिशब्दः प्रसिद्धौ ॥ २६ ॥ इति चैनमुवाच दुःखिता सुहृदं पश्य वसन्त ! किं स्थितम् । तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम्॥२७॥ प्रकाशिका इतीति । दुःखिता, दुःखोन्मादादित्यर्थः । स्थितं स्थानम् । किं तिष्ठसीत्यर्थः । पश्येत्युक्तं, स नात्र दृश्यत इत्याहतदिदमिति । तच्छब्दः सुहृदं परामृशति, प्रतिनिर्दिश्यमानलिङ्गं च भजते । कणशः अल्पार्थे शस्। पवनैरिति बहुवचनेन स इदानीमेव सर्वः संवृत्त इति द्योत्यते । कर्बुरं शबलम् । एतद् दर्शनसौकर्यार्थम् । यावत्र निश्शेषं प्रकीर्यते तावद् भस्मापि पश्येति भावः । अत्र दैन्यम् ॥ २७ ॥ , विवरणम् उज्जृम्भितदुःखाया रतेः प्रवृत्तिमाह- २२८ कुमारसम्भवे इतीति। दुःखिता सा एनमित्युवाच च । दुःखिता सती सा रतिः एनं वसन्तम् इति वक्ष्यमाणप्रकारेण उवाच उक्तवती च । दुःखोन्मादवशादित्थमुवाच चेत्यर्थः । वचनप्रकारानेवाह – सुहृदमित्यादिना । वसन्त ! त्वं सुहृदं पश्य । हे वसन्त ! त्वं सुहृदं बन्धुभूतं पश्य । सुहृद्दर्शनं त्वरितमेव कर्तव्यम् । नायं कालक्षेपस्यावसर इत्याह — स्थितं किमिति । स्थितमवस्थानम् । भावे निष्ठा । किं किमर्थवमस्थानेन कालविलम्बनं करोषीत्यर्थः । कालक्षेप मा कुर्वित्यभिप्रायः । स्थित इति पाठे किमर्थं तूष्णीं स्थितो भवसीत्यर्थः । ननु मे सखा न तु दृश्यते । अतः कथं पश्येत्युक्तमित्यत्राह—तदिदं भस्म पवनैः कणशः प्रकीर्यते इति । अत्र तदिति तच्छब्देन प्रतिनिर्दिश्यमानलिङ्गः सुहृत् परामृश्यते । ‘शैत्यं हि यत् सा प्रकृतिर्जलस्ये’ [ रघु. ५.५४ ]त्यादिवत् । इदं दृश्यमानं भस्म पवनैर्वायुभिः । अत्र बहुवचनेन भस्मनोऽप्यत्यन्तविनाशकालः प्राप्त इति द्योत्यते । कणशः अल्पार्थे शस्। ‘लवलेशकणाणव’ इति सिंहः । प्रकीर्यते इतस्ततः प्रक्षिप्यते । तव सुहृदयं भस्मभावमुपगतो वायुभिः परमाणुतां नीत्वा परितो विकीर्यते । तदपि क्षणमात्रं पश्येत्यर्थः । इदानीं तु दर्शनं सुकरमेवेत्याहकपोतकर्बुरमिति । कपोतवत् कर्बुरं शबलम्। ‘चित्रकिर्मीरकल्माषशबलैताश्च कर्बुर’ इत्यमरः । कपोतवन्नानावर्णमित्यर्थः । अनेन श्लोकेन दैन्यं प्रकाशितम् ॥ २७ ॥ अयि सम्प्रति देहि दर्शनं स्मर! पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २८ ॥ प्रकाशिका अयीति । सम्प्रति को विशेष इत्याहपर्युत्सुक इति । पूर्वमपि त्वं पर्युत्सुकेत्याह – दयितास्विति । तस्मान्मय्यनपेक्षा सम्भवति, न त्वस्मिन् सुहृदीति वाक्यशेषः । अत्रापीर्यौत्सुक्ये ॥ २८ ॥ प्रत्याह- विवरणम् अस्तु ते मत्प्रलापेऽनादरः, वसन्ताय तु दर्शनं देयमेवेत्यौत्सुक्यदैन्याभ्यां सह रमणं अयीति । अयि स्मर! सम्प्रति दर्शनं देहि । अयि स्मर! हे मदन ! सम्प्रति इदानीम्। दर्शनं देहि, त्वरितमागच्छेत्यर्थः । ननु सम्प्रति को विशेषः । अत आह-

चतुर्थः सर्गः २२९ एष माधवः पर्युत्सुक इति । एषः दृश्यमानः माधवः वसन्तः । पर्युत्सुकः, त्वद्दर्शनसाभिलाष इत्यर्थः । भवतीति शेषः । यस्मादेष माधवस्त्वद्दर्शनलालसो वर्तते, तस्माद् दर्शनं देहीत्यर्थः । ननु पूर्वमेव त्वं पर्युत्सुकैव । माधवे को विशेष इत्यत्राह – नृणां दयितासु प्रेम अनवस्थितं, सुहृज्जने चलं न खल्विति । नृणां पुरुषाणां दयितासु कान्तासु प्रेम स्नेहः अनवस्थितम् अस्थिरम् । सुहज्जने बन्धुजने । प्रेमशब्दोऽत्राप्यनुषज्यते । चलं चञ्चलम् न खलु, स्थिरमेवेत्यर्थः । यस्मात् पुम्भः स्त्रीषु कृता मैत्री चञ्चला, बन्धुजनेषु कृता मैत्री तु स्थिरैव, तस्मान्मय्युपेक्षा सम्भवेदपि, न त्वस्मिन् सुहृदीति भावः ॥ २८॥ अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥ २९ ॥ सुहृत्त्वेऽपि विशेषमाह- प्रकाशिका अमुनेति । ननुरवधारणे। पार्श्ववर्तिना सचिवेन सतेत्यर्थः । तव धनुष आज्ञां कारितमित्यर्थः। ‘हृक्रोरन्यतरस्याम्’ (१.४.५३) इति जगतः कर्मसंज्ञा । विशेषणाभ्यां धनुषो दौर्बल्यमुक्तम् ॥ २९ ॥ विवरणम् नन्वन्येऽपि चन्द्रादयः सुहृदो मम सन्त्येव । अस्मिन् वसन्ते को विशेष इत्याशङ्कयाह- अमुनेति । पार्श्ववर्तिना अमुना ननु ससुरासुरं जगत् तव धनुषः आज्ञां कारितन्ननु । पार्श्ववर्तिना । पार्श्वे वर्तितुं शीलमस्येति तथा। सचिवपदवीमनुवर्तमानेनेत्यर्थः । अमुना वसन्तेन । ननुशब्दोऽवधारणे । ससुरासुरं सुरैरसुरैश्च सह वर्तमानम्। क्षुद्रत्वादितरेषामनुपादानम्। त्वदीयचापाज्ञानुष्ठाने सुरेष्वसुरेषु वा मनुजेषु तिर्यग्योनिषु वा न कश्चिद् विशेष इति भावः । जगद् जगद्वासिनो जनाः । ‘हक्रोरन्यतरस्याम्’ (१.४.५३) इति जगतः कर्मसंज्ञा । तव धनुषः पुष्पमयत्वादतिमृदुनोऽपीति भावः । आज्ञां नियोगं कारितमनुष्ठापितम् । ससुरासुरः सकलोऽपि लोकः पुष्पमयत्वादतिपेलवस्यापि तव धनुषो निदेशवर्ती जात इति २३० कुमारसम्भवे यत्, तदस्यैव मधोः साचिव्यबलादित्यर्थः । न केवलं तव धनुषो दौर्बल्यम्, अपितु मौर्व्या अपीत्याह - बिसतन्तुगुणस्येति । बिसस्य मृणालस्य तन्तुरेव गुणो मौर्वी यस्य तस्यापीत्यर्थः। अलीनामिव बिसतन्तूनामपि गुणत्वप्रसिद्धेरेवमुक्तम् । शराणामपि दौर्बल्यमाह – पेलवपुष्पपत्रिण इति । पेलवानि पुष्पाण्येव पत्रिणः शरा यस्य तादृशस्यापि ते धनुषो निदेशवर्ती ससुरासुरो लोकः, न तु तेषु यः कश्चिदिति यत्, तस्यैत्साचिव्यमात्रहेतुत्वादवश्यमस्मै दर्शनं दातव्यमेवेति भावः ॥ २९ ॥ गत एव न ते निवर्तते स सखा दीप इवानिलाहतः । अहमस्य दशेव पश्य मा- अथादर्शननिर्वेदादाह- मविषह्यव्यसनप्रधूपिताम् ॥३०॥ प्रकाशिका गत इति । दशा वर्तिः । किं दशासादृश्यमित्याह — पश्येति । दशापक्षे असह्यविक्षेपेण प्रधूपिताम् । अन्यत्र प्रधूपनमनौज्ज्वल्यम् । अत्रात्मनिर्वेदः ॥ ३० ॥ प्रत्याह- विवरणम् इत्थमभिहितेऽप्यकृतनिवर्तने निजरमणे स्वात्मन्यवज्ञां प्रतिहर्शयन्ती वसन्तं , गत इति । ते सखा सः गत एव । ते तव सखा सः कामदेवः गत एव । आत्यन्तिकादर्शनं प्राप्त एवेत्यर्थः । कुत एतदवगतमित्यत्राह - न निवर्तते इति । यस्मादेवंविधे बन्धुजने दर्शनोत्सुके सत्यपि न निवर्तते तस्मादित्यर्थः । अत्रोपमामाह — अनिलाहत ः दीपः इवेति । अनिलेन वायुना आहतः अभिहतः दीपः प्रदीप इव । यथानिलाहतो दीपः पुनर्न निवर्तते, तथायमपीत्यर्थः । आत्मानमप्युममिनोति — अहमस्य दशा इवेति । अहमस्य कामदेवदीपस्य दशा वर्तिरिव । भवामीति शेषः । न ह्यनिलाहते दीपे वर्तिरपि तेन सह गच्छति । आत्मनो दशासाम्यमपि प्रकटयति - अविषह्यव्यसनप्रधूपितां मां पश्येति । अविषह्येणासह्येण व्यसनेन दुःखेन प्रधूपितां प्रकर्षेण धूपितामनुज्ज्वलाम् अन्तर्ज्वलच्छोकाग्निधूमयुक्तामिति वा । दशापक्षे तु अविषह्येणानिलकृतेन व्यसनेन विक्षेपेण प्रधूपितामित्यर्थः । तादृशीं मां पश्य अवलोकय ॥ ३० ॥ चतुर्थः सर्गः विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता। अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ३१ ॥ तेन सहैव किं न गतासीत्याह- प्रकाशिका २३१ विधिनेति । ‘शसु हिंसायामिति धातोः पचाद्यच् । विशसो हिंसकः । तस्य कृत्यं वैशसम् । विमुञ्चतेति हेतौ शता । समग्रवैशसं लाभ एवेति भावः । आत्मावशेषादुपकारिणि विधौ किमसूयेत्याह – अनपायिनीति । कदाचिदप्यविरहिणि । पतनाय। ‘तुमर्थाच्च भाववचनात् ’ (२.३.१५) इति चतुर्थी । खलो विधिः किमेतदपि न जानातीति भावः । अत्र विधिं प्रत्यसूया ॥ ३१ ॥ विवरणम् ननु किमर्थं तर्हि परलोकगतेन प्रियतमेन सह तदानीमेव न गतासीत्यत्राह- विधिनेति । कामवधे मां विमुञ्चता विधिना अर्थवैशसं कृतं ननु । कामवधे कामस्य कामदेवस्य वधे दहने क्रियमाणे सति। मां विमुञ्चता वधाद् विसृजता । हेतौ शता । विधिना दैवेन । अर्धवैशसमर्धहिंसा । ‘शसु हिंसायामि’ त्यस्माद्धातोः पचाद्यचि कृते विशस इति पदं सिध्यति । विशसो हिंसकः । ‘नृशंसो विशसः क्रूर’ इति भोजः । विशस्य कर्म वैशसं हिंसा । ननुरवधारणे। कामवधे मम विमोचनाद्धेतोर्दैवेनार्धहिंसा कृतैवेत्यर्थः । पुरुषस्यार्धं हि पत्नी । न चार्धहतदेहेन किञ्चिदपि प्रयोजनमस्ति । तस्मात् समस्तहिंसैव वरीयसीति भावः । नन्वात्मरक्षणादुपकार एव विधिना कृतः । ततः कथमर्धवैशसं कृतमित्युक्तम् । तत्राहअनपायिनि संश्रयद्रुमे गजभग्ने वल्लरी पतनायेति । अनपायिनि कदाचिदप्यविरहिणि संश्रयद्रुमे आश्रयभूते द्रुमे । उपघ्नतरावित्यर्थः । गजमग्ने गजेन भग्ने भ प्रापिते सति । वल्लरी लता । पतनाय । ‘तुमर्थाच्च भाववचनात् ’ (२.३.१५) इति चतुर्थी । पतनं कर्तुमेव समर्था भवतीत्यर्थः । न ह्याश्रयद्रुमे भग्ने सति लतया किञ्चिदपि प्रयोजनमस्ति । तस्मात् तद्वन्मां कामवधे विमुञ्चता विधिना अर्धवैशसमेव कृतमिति भावः । अत्र विधिं प्रत्यसूया प्रकाशिता ॥ ३१ ॥ २३२ कुमारसम्भवे तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्जना- दनु मां प्रापय पत्युरन्तिकम् ॥३२॥ प्रकाशिका इतः मरं मरणव्यवसायगर्भा उक्तयः- तदिति । तत् तस्माद्, यस्मादर्धवैशसं दुस्सहतरम् । अनन्तरमवसरप्राप्तम् । विधुरामित्यनुकम्प्यत्वे हेतुः । अतिसर्गो दानम् । अनुपश्चात् । प्रियवियोगविधुराणां सुहृद्वधूनां तत्सकाशप्रापणं हि सुहृदामुचितमिति भावः ॥ ३२ ॥ विवरणम् अथानुमरणमेव निश्चित्य तदुपकरणसम्पादनाद्यर्थं माधवं प्रत्याह तदित्यादिभिः सप्तभिः श्लोकैः । तत्र सङ्क्षेपोक्तिरनेन श्लोकेन क्रियते - तदिति । तद् भवता अनन्तरं बन्धुजनप्रयोजनमिदं क्रियताम् । तद् यस्मादर्धवैशसमसह्यतरं तस्मादित्यर्थः । भवता प्रियतमसहायत्वान्मम बन्धुभूतेन त्वया। अनन्तरमविलम्बितमेव । अनेनावसरप्राप्तिरुक्ता । बन्धुजनप्रयोजनं बन्धुभूतजनस्य मम प्रयोजनभूतम् इदं वक्ष्यमाणं क्रियतामनुष्ठीयताम् । इदंशब्दनिर्दिष्टमेवार्थं सङ्क्षिप्य दर्शयति - त्वं विधुरां मां ज्वलनातिसर्जनात् पत्युरन्तिकमनु प्रापयेति । बिधुरां भर्तृवियोगदुःखिताम् । इदमनुकम्प्यत्वे हेतुः । ज्वलनातिसर्जनाद् ज्वलनेऽग्नौ यदतिसर्जनं दानं तस्माद्धेतोः । ‘विश्राणनं वितरणं दानं स्यादतिसर्जनमिति भोजः । पत्युः भर्तृः अन्तिकं समीपम् अनु पश्चात् प्रापय नय । विधिवैपरीत्यात् सहगमनाभावेऽप्यग्निप्रवेशोपकरणं सम्पाद्य पश्चादपि भर्तुरन्तिकं मां प्रापय । प्रियवियोगविधुराणां सुहृद्वधूनां प्रियतमसकाशप्रापणमेव हि सुहृदामुचितमिति भावः ॥ ३२ ॥ शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥३३॥ चतुर्थः सर्गः २३३ एतदेव ममाप्युचितमित्याह- प्रकाशिका शशिनेति । विचेतनैः करणशून्यैः । शशिप्रभृत्यचेतनवृत्तान्तेनाप्येतत् प्रत्येतुं शक्यमित्यर्थः । दक्षिणावर्तस्तु – पृथग्जनैरिति पाठमादृतवान् ॥ ३३ ॥ विवरणम् प्रमदाः पतिवर्त्मगाः इति विचेतनैरपि प्रतिपन्नं हि । प्रमदाः स्त्रियः । पतिवर्त्मगाः पत्युर्भर्तुर्वर्त्म मार्गं गच्छन्तीति यथा । इतिशब्दः प्रकारवाची । अयं प्रकारो विचेतनैः विगता चेतना ज्ञानं येभ्यस्तैरपि । ‘प्रतिपज्ज्ञप्तिचेतना’ इत्यमरः । सचेतनेषु का कथा इत्यपिशब्दार्थः । प्रतिपन्नमङ्गीकृतम् । विचेतनानामपि भर्तृमार्गप्राप्तिमेव दर्शयति — शशिनेत्यादिना । कौमुदी शशिना सह याति । कौमुदी चन्द्रिका | ‘चन्द्रिका कौमुदी ज्योत्स्ना’ इत्यमरः । शशिना चन्द्रेण सह याति गच्छति । नहि चन्द्रे गते चन्द्रिका क्षणमात्रमपि तत्र तिष्ठति, किन्तु चन्द्रगतं लोकान्तरमेव गच्छतीत्यर्थः । अनेन गते सत्यनुगमनमुक्तम्। मृते सत्यनुमरणं चाह – तडिन्मेघेन सह प्रलीयते इति । तडिद् विद्युत् । ’ तडित् सौदामनी विद्युदित्यमरः । मेघेन सहैव प्रलीयते प्रकर्षेण लीना भवति । मेघे विनष्टे तडिदपि विनश्यत्येवेत्यर्थः । इत्थमचेतनैश्चन्द्रिकादिभिरपि प्रतिपन्नं भर्तृलोकगमनं कथं सचेतनाहं न करिष्यामीत्यर्थः ॥ ३३ ॥ अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना । नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ॥३४॥ प्रकाशिका इदानीमेव चेदपरो लाभ इत्याह- अमुनेति । एवशब्दो मण्डनान्तरापेक्षाव्यवच्छेदकः । कषायितो भावितः । ‘कषायस्तुवर’ इत्युपक्रम्य ‘भावनायां चे ‘ति केशवः । रचयिष्यामि निधास्यामि । अत्र नवपल्लवसंस्तरोपमानेन विभावसोः परमप्रीतिविषयत्वं ध्वन्यते ॥ ३४ ॥ विवरणम् तस्मादवश्यकर्तव्यः शरीरत्यागो यदीदानीमेव क्रियते, तर्हि न मे भर्तृलोकप्राप्तिरेव लाभः, अपितु लाभान्तरमप्यस्तीत्याह-२३४ कुमारसम्भवे अमुनेति । अहममुना प्रियगात्रभस्मनैव कषायितस्तनी विभावसौ तनुं रचयिष्यामि । अमुना पुरोवर्तिना । वायुभिर्नीयमानतया दृश्यमानेनेत्यर्थः । अनेनास्य कालान्तरानवस्थानमिदानीमादानसौकर्यं च द्योत्यते । प्रियस्य गात्रं प्रियगात्रं तस्य भस्म प्रियगात्रभस्म, तेन । एवशब्दो मण्डनान्तरान्वेपणं परिहरति । कषायितस्तनी । कषायितौ भावितौ, अनुलिप्तावित्यर्थः, स्तनौ यथा तथाभूता सती । ‘निर्यासे भावनायां च कषायस्तुवरे रसे’ इति भोजः । अत्र प्रियगात्रभस्मनैवानुलिप्तस्तनीत्यनेन प्रियालिङ्गनप्रतिविधिर्दर्शितः । प्रियमालिङ्गय हि चितायां शयितव्यम् । विभावसौ वह्नौ । ‘सूर्यवह्नी विभावसू’ इत्यमरः । तनुं शरीरं रचमिष्यामि निधास्यामीत्यर्थः । अत्रोपमामाह - नवपल्लवसंस्तरे यथा इति । नवपल्लवसंस्तरे नवैः पल्लवैः कृते संस्तरे शय्यायाम् । यथाशब्दोऽयमुपमाद्योतकः । अग्निपल्लवयोरारुण्यमुपमाहेतुः । अनेनोपमानेनात्रापि प्राचीनसम्भोगसौख्यं द्योत्यते । विभावसोः परमप्रीतिविषयत्वं च ध्वन्यते । अत्र पल्लवानां नवत्वविशेषणेनात्यन्तसौकुमार्यमुक्तम् । प्रियगात्रभस्मनो मण्डनान्तरेभ्यो व्यतिरेकं दर्शयति – सुभगेनेति । सुभगत्वं मनोहरत्वं, तच्च प्रियगात्रकार्यत्वात् ॥ ३४ ॥ कुसुमास्तरणे सहायतां बहुशः सौम्य ! गतस्त्वमावयोः । कुरु सम्प्रति तावदाशु मे विनिपाताञ्जलियाचितां चिताम् ॥३५॥ कथमेतन्नृशंसं कुर्यामित्याह- प्रकाशिका कुसुमेति । तावच्छब्दः क्रमद्योतकः । क्रमश्चावसरः । इदमिदानीं प्राप्तावसरमित्यर्थः। विनिपाताञ्जलिरन्त्याञ्जलिरित्यर्थः । तेन याचनस्याप्रत्याख्येयत्वमुक्तम्। सम्पदि सहायेन विपद्यपि तथा भाव्यमित्यर्थः ॥ ३५ ॥ विवरणम् नन्वस्तु मृतभर्तृकाणां वधूनां भर्तृसमीपप्रस्थानोपकरणविधानमेव सर्वत्र बन्धुजनप्रयोजनं, तथाप्यहं कथमेतादृशं नृशंसं कर्म कुर्यामित्यत्राह— कुसुमेति । सौम्य ! त्वं कुसुमास्तरणे आवयोः बहुशः सहायतां गतः । है सौम्य ! प्रियदर्शन ! | ’ रुचिरः सुभगः सौम्य’ इति भोजः । कुसुममये आस्तरणे चतुर्थः सर्गः २३५ शय्यायाम् आवयोः भर्तुर्मम च बहुशोऽनेकशः सहायतां सहायत्वं गतः प्राप्तोऽसि । सुरतोपकरणभूतानामुद्दीपनानां विधानादिति शेषः । अनेन वाक्येन वसन्तस्य सम्पदि सहायत्वमुक्तम् । अत एव विपद्यपि सहायेन भवितव्यमित्याह — त्वं सम्प्रति तावन्मे विनिपाताञ्जलियाचितां चितामाशु कुरु । सम्प्रति इदानीम् आपत्समयेऽपि । तावच्छब्दः क्रमार्थः । क्रमश्चात्रावसरप्राप्तिः । अवसरप्राप्तमिदं कुर्या इत्यर्थः । मे मम । विनिपाताञ्जलियाचिताम् । विनिपातो मरणं तत्समये कृतोऽञ्जलिर्विनिपाताञ्जलिः । अन्त्याञ्जलिरित्यर्थः। तेन याचिताम् । अनेन याचनस्याप्रत्याख्येयत्वमुक्तम्। चितां, ‘देहदाहाय काष्ठानां सञ्चयः साग्निकश्चिता’ । तां कुरु विधेहि । यस्त्वमानयोः सुरतावसरे तदुपकरणविधानेन सहायता - मुपगतोऽभूः तेन त्वया मरणावसरे तदुपकरणविधानेनापि सहायकेन सहायकेन भवितव्यमेव । यतः खलस्वभाव इति भावः ॥ ३५ ॥ तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः । विदितं खलु ते यथा स्मरः अन्यदपीत्याह— सम्पन्मात्रसहायत्वं क्षणमप्युत्सहते न मद् विना ॥ ३६ ॥ प्रकाशिका तदन्विति । त्वरणे हेतुमाह - विदितमिति । खलुरनुनये । उत्सहते व्याप्रियते, शयनासनादिष्विति शेषः । मदिति पञ्चमी ॥ ३६ ॥ विवरणम् अन्यच्च किञ्चित् कर्तव्यमस्तीत्याह- तदन्विति । तदनु त्वं मदर्पितं ज्वलनं दक्षिणवातवीजनैः ज्वलयेः । तदनु चिताविधानानन्तरम् । मदर्पितं मय्यर्पितं न्यस्तम् । अर्पणेऽपि स्वस्यैव कर्तृत्वम् । ‘स्वयमेवार्पयेदग्निमिति वचनात्। ज्वलनमग्निम्। दक्षिणवातवीजनैः दक्षिणस्य मलयाचलोद्भूतस्य वातस्यानिलस्य वीजनैः सञ्चारणैः । ज्वलयेः ज्वलितं विधेहि । त्वरयेरिति पाठे ज्वलनं कृतत्वरं विधेहीत्यर्थः । नन्वग्निः शुष्केन्धनसंयोगे सति क्रमेण स्वयमेव ज्वलिष्यति । किमिति त्वरयेत्यत्राह - स्मरः मां विना यथा क्षणमपि नोत्सहते, तथा ते विदितं खल्विति । स्मरो मदनो मां विना मया विना । २३६ कुमारसम्भवे ‘पृथग्विनानानाभि – ’(२.३.३२ ) इति योगविभागाद् द्वितीया । मद्विनेत्येव वा पाठः । ‘पृथग्विने’ त्यादिना पञ्चमी । मया विना यथा क्षणमात्रमपि नोत्सहते शयनासनादिषु न व्याप्रियते, तथा ते त्वया । विदितमिति वर्तमाने क्तः । ‘क्तस्य च वर्तमाने ’ (२.३.६७) इति षष्ठी । खलुशब्दोऽनुनये । ‘निषेधवाक्यालङ्कारवर्तमाने’(२.३.६७) ॥ जिज्ञासानुनये खल्वि’त्यमरः ॥ ३६ ॥ इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ । अविभज्य परत्र यन्मया सहितः पास्यति ते स बान्धवः ॥ ३७ ॥ प्रकाशिका यच्च तेऽवश्यकर्तव्यं जलाञ्जलिदानं, तदप्येतत् कृत्वैव कर्तव्यमित्याह — इतीति । चापिः समुच्चये । इति चापि विधाय एवं च कृत्वा । अञ्जलिदाने विशेषमाह – एक एवेति । नावावयोः । अत्र हेतुमाह — अविभज्येति । अत्रानुमरणात् सहभावः । एकस्यैव दानादविभाग इत्युभयमप्यभिमतं कामस्य यस्मा- दित्यर्थः॥ ३७॥ विवरणम् तवावश्यकर्तव्यं जलाञ्जलिदानमपि मदुक्तमेतत् सर्वं कृत्वैव कर्तव्यमित्याह- इति चेति। इति चापि विधाय सलिलस्य अञ्जलिः नौ एक एव दीयताम् । इतिशब्दः पूर्वोक्तप्रकारवाची । चापिशब्दाभ्यां पूर्वोक्तसकलकर्तव्यसमुच्चयः क्रियते । पूर्वोक्तक्रमेण सर्वमपि विधायेत्यर्थः । सलिलस्याञ्जलिः प्रेततर्पणजलाञ्जलिः । नौ आवाभ्याम्। अस्मिञ्जलाञ्जलिदाने विशेषमाह – एक एवेति । नान्येषामिव पृथग् दातव्यमित्यर्थ। दीयतामिति कर्मणि लोट् । आवयोरेकजलाञ्जलिदाने हेतुमाह - ते स बान्धवः परत्र मया सहितः अविभज्य पास्यति यत् । ते तव सः परलोकप्राप्तेरपरोक्षः बान्धवो बन्धुः । स्वार्थेऽण्प्रत्ययः । परत्र परलोके मया सहितः । अत्रानुमरणं सहभावे हेतुः । अविभज्य विभागमकृत्वा । जलाञ्जलेरेकत्वादविभागः । पास्यति पानं करिष्यति । यस्मात् तव बन्धोरविभज्यमानं सहैव पानं चाभिमतं, यस्माच्च तत्रानुमरणमेकजलाञ्जलिदानमेव चोपायः, तस्मादनुमरणोपायकरणमेकजलाञ्जलिदानं चावश्यं कर्तव्यमेवेति भावः ॥ ३७ ॥ चतुर्थः सर्गः परलोकविधौ च माधव ! स्मरमुद्दिश्य विलोलपल्लवाः । निवपेः सहकारमञ्जरीः अन्यच्चेत्याह- प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥ प्रकाशिका परलोकेति । परलोकविधौ प्रेतकृत्य इत्यर्थः ॥ ३८ ॥ प्रेतकार्ये विशेषान्तरमप्याह- विवरणम् २३७ परलोकेति । माधव! परलोकविधौ स्मरमुद्दिश्य सहकारमञ्जरीः निवपेः च । माधव ! हे वसन्त! परलोकविधौ परलोके विधिः परलोकविधिः तस्मिन् । प्रेतकृत्य इत्यर्थः । स्मरमुद्दिश्य कामदेवोद्देशेन । सहकारमञ्जरीः सहकारस्य चूतस्य मञ्जरीः स्तबकान्। निवपेः। ‘पितृदानं निवापः स्यादित्यमरः । निवापाञ्जलौ कुसुमस्थाने दद्या इत्यर्थः । न केवलं कुसुममात्रम्, अपितु पल्लवांश्चेत्याह – विलोलपल्लवा इति । विलोलाश्चञ्चलाः पल्लवा यासु ताः । प्रेतकार्ये सहकारप्राधान्ये हेतुमाह - ते सखा प्रियचूतप्रसवो हीति । ते सखा कामदेवः । प्रिया इष्टाः चूतस्य सहकारस्य प्रसवाः पुष्पाणि यस्य स तथा । हि शब्दो यस्मादर्थे । पूर्वं यत् प्रियं, तदेव हि परत्र देयमिति भावः ॥ ३८ ॥ इति देहविमुक्तये स्थिरां रतिमाकाशभवा सरस्वती । शफरीं हृदशोषविह्वलां प्रथमा वृष्टिरिवान्वकम्पत ॥ ३९ ॥ प्रकाशिका अथ मरणव्यवसायनिवृत्तेर्वक्ष्यमाणाया हेतुमवतारयति —

इतीति । स्थिरां व्यवसिताम् । प्रथमेति, द्वितीयादीनां प्राणप्रदत्वसाम्याभावात् । अन्वकम्पत् अकृपायत् ॥ ३९ ॥ २३८ कुमारसम्भवे विवरणम् इत्थं विलप्य स्थिरमरणव्यवसायायां मदनप्रियतमायां तद्व्यवसायनिराकरणकारणभूतं किमप्यद्भुतमुद्भूतमित्याह- इतीति । इति देहविमुक्तये स्थिरां रतिम् आकाशभवा सरस्वती अन्वकम्पत । इति उक्तेन प्रकारेण । देहविमुक्तये देहस्य शरीरस्य विमुक्तये परित्यागाय । स्थिरां कृतनिश्चयाम् । रतिं कामवधूम् । आकाशभवा आकाशाद्भव उद्भवो यस्यास्तादृशी । सरस्वती वाणी । ‘गीर्वाग्वाणी सरस्वती’ त्यमरः । अन्वकम्पत अनुकम्पां कृतवती । अनुगृहीतवतीत्यर्थः । अत्राकाशभवेत्यनेन दिव्यत्वमुक्तम् । तस्य च रतेः सत्यत्वप्रतीतिः फलम्। वृष्टिसाम्यं चानेन प्रतिपादितं वृष्टेरप्याकाशभवत्वात् । अत्रोपमां दर्शयति — ह्रदशोषविह्वलां शफरीं प्रथमा वृष्टिरिवेति । ह्रदशोषविह्वलां ह्रदस्य जलाशयस्य शोषेण ग्रीष्मकृतेन शोषणेन विह्वलां परवशाम् । शफरीं मत्स्यविशेषस्त्रियम् । प्रथमा ग्रीष्मावसानसमुद्भवा । द्वितीयादीनां प्राणप्रदत्वसाम्याभावात् प्रथमशब्दोपादानम् । उपमेये तु माधववचनापेक्षया प्रथमपदम् । यथा प्रथमा वृष्टिराकाशदेशादतर्कितापाता सती हृदविनाशविधुरां शफरीमनुगृह्णाति तथा भर्तृविनाशविधुरां रतिं सरस्वती चानुगृहीतवतीत्यर्थः ॥ ३९ ॥ कुसुमायुधपत्नि ! दुर्लभ- स्तव भर्ता न चिराद् भविष्यति । शृणु येन स कर्मणा गतः सरस्वतीप्रकारमाह- शलभत्वं हरलोचनार्चिषि ॥ ४० ॥ प्रकाशिका , कुसुमेति । दुर्लभो न भविष्यतीत्यन्वयः । कदा न भविष्यतीत्याह—– चिरादिति । दवीयसि काल इत्यर्थः । नचिरादित्येकपदत्वे विवक्षिते विरुद्धार्थप्रतीतिः । कथमेतत् प्रत्येमीत्याह - शृण्वति ॥ ४० ॥ तस्याः सरस्वत्याः प्रकारमेवाह— विवरणम् कुसुमायुधेति । कुसुमायुधपत्नि ! तव भर्ता चिराद् दुर्लभः न भविष्यति । कुसुमायुधपत्नि! कुसुममायुधं यस्य तस्य पत्नी कुसुमायुधपत्नी, तस्याः सम्बुद्धिः चतुर्थः सर्गः २३९ कुसुमायुधपत्नीति । तव अनुमरणोद्यतायास्ते । भर्ता कान्तः । चिरात् केषुचित् कालेष्वतीतेष्वित्यर्थः । दुर्लभः दुःखेन लभ्यो न भविष्यति । सुलभ एव भविष्यतीत्यर्थः । ननु भविष्यतीत्युक्तिमात्रेण को निश्चय इत्याशङ्कय नाशहेतुमुत्पत्तिहेतुं च प्रतिपादयितुकामो नाशहेतुमादाववतारयति - शृण्वित्यादिना । सः येन कर्मणा परलोचनार्चिषि शलभत्वं गतः तत् शृणु । स कामः । येन कर्मणा यादृशेन कर्मणा । हरलोचनार्चिषि । हरस्य लोचनं हरलोचनं, हरलोचने विद्यमानमर्चिः हरलोचनार्चिः । अर्चिस्तेजः । हरलोचनाग्नावित्यर्थः । शलभत्वं पतङ्गभावम् । गतः प्राप्तः तत् कर्म शृणु । यस्य कर्मणः परिपाकवशान्मदनो भस्मसाद्भूतः तत् कर्माकर्णयेत्यर्थः ॥४०॥ तत् कर्माह- अभिलाषमुदिरितेन्द्रियः स्वसुतायामकरोत् प्रजापतिः । अथ तेन निगृह्य विक्रिया- मभिशप्तः फलमेतदन्वभूत् ॥४१॥ प्रकाशिका अभिलाषमिति। उदीरितेति णिचा कामस्य प्रयोजकत्वमुक्तम् । तस्य कर्मणः कथमीदृशफलप्रसावकत्वं जातमित्याह — अथेति । विक्रियां निगृह्येति, तदनिग्रहे शापानुपपत्तेः । एतदिति हरलोचनार्चिषि शलभत्वम् ॥४१ ॥ तदेव कर्माह- विवरणम् अत्रोदीरितेति । णिचा । अभिलाषमिति । प्रजापतिः स्वसुतायाम् अभिलाषम् अकरोत् । प्रजापतिर्ब्रह्मा । स्वसुतायां स्वस्य सुतायां सरस्वत्याम् । अभिलाषमुपभोगेच्छाम् अकरोत् कृतवान् । ब्रह्मा सृष्टिसमये सरस्वतीं निर्माय तद्रूपलावण्यदर्शनमोहितस्तदुपभोगाकाङ्क्षां व्यधादित्यर्थः । नन्वत्र कामस्य कोऽपराध इत्यत्राह – उदीरितेन्द्रिय इति । उदीरितानि सङ्क्षोभितानीन्द्रियाणि यस्य स तथा । प्रयोजकत्वमव्यभिचारादर्थत एवायातीति शब्दतः प्रयोगाभावः । नहि कामेन विना कश्चिदपीन्द्रियसङ्क्षोभकृद् भवति । अयमेव कामस्यापराध इति भावः । ननु तादृशं कर्म कथमीदृशं फलमजनयदित्यत आहअथ तेन विक्रियां निगृह्य अभिशप्त एतत् फलमन्वभूदिति । अथ इन्द्रियक्षोभानन्तरं तेन प्रजापतिना विक्रियात कामस्य २४० कुमारसम्भवे इन्द्रियविकारं निगृह्य परिहृत्य । इन्द्रियक्षोभसमये शापानुपपत्तेस्तन्निग्रहकथनम् । अभिशप्तः हरकोपाग्निस्त्वां दहत्विति शप्त इत्यर्थः । तथाभूतः सन् एतद् हरकोपानलदाहरूपमिदं फलम् अन्वभूदनुभूतवान् ॥ ४१ ॥ परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः । उपलब्धसुखस्तदा स्मरं वपुषा स्वेन समग्रयिष्यति ॥४२॥ प्रकाशिका अस्तु तावद्, एतत्प्रत्यापत्तेस्तु को हेतुरित्याह- परिणेष्यतीति । तपसेति प्रवणीकरणस्य निरुपायत्वशङ्कां विधुनोति । उपलब्धसुखः ज्ञातानुकूल्यः । अनुकूल एवेदानीमस्माकमिति जानन्नित्यर्थः । इति चाहेत्युत्तरश्लोकार्थे वाक्यपरिसमाप्तिः ॥ ४२ ॥ विवरणम् मदनस्य प्रत्यापत्तावपि हेतुमाह- परिणेष्यतीति । हरः पार्वतीं तपसा तत्प्रवणीकृतः यदा परिणेष्यति तदा उपलब्धसुखः स्मरं स्वेन वपुषा समग्रयिष्यति । हरो महादेवः । तपसा पार्वतीकृतेन बहुप्रकारेण तपसा कर्तृभूतेन । तत्प्रवणीकृतः तस्याः पार्वत्याः प्रवणीकृतः प्रह्वीकृतः । पार्वतीपरत्वं प्रापित इत्यर्थः । ’ प्रवणस्तत्परे नम्र’ इति शाश्वतः । नहि तपसा किञ्चिदप्यसाध्यम् । अनेनैवम्भूतं हरं प्रह्वीकर्तुं साधनसम्पत्तिरुक्ता । पार्वतीतपोवर्णनरूपस्योत्तरसर्गार्थस्य बिन्दूपक्षेपोऽपि कृतः । यदा परिणेष्यति उदूढां करिष्यति। ’ तथा परिणयोद्वाहोपयमाः पाणिपीडनमित्यमरः । तदा उपलब्धसुखः उपलब्धं ज्ञातं सुखमानुकूल्यं येन तथाभूतः सन् । अस्माकमनुगुण एवायं मदन इत्यवगम्येत्यर्थः। स्मरं कामदेवम् । स्वेन वपुषा त्वया पूर्वमनुभूतेन शरीरेणैवेत्यर्थः । यथा दर्शनानन्तरं भवती भर्तारं प्रत्यभिज्ञास्यति, तथैवेत्यभिप्रायः । समग्रयिष्यति सम्पूर्णं करिष्यति । यदा परमेश्वरः पार्वतीकृतैस्तपोभिरुदबुद्धाभिलाषस्तां परिणेष्यति, तदा कामोऽयमस्माकमनुकूल एवेत्यवधार्य जगदीश्वरः प्राचीनेनैव शरीरेण मदनं योजयिष्यतीत्यर्थः। ‘इति चाहे’ त्युत्तरश्लोकस्य पूर्वार्ध एवास्य । परिसमाप्तिः ॥ ४२ ॥ वाक्यस्य קלון क क चतुर्थः सर्गः इति चाह स धर्मचारिणि! ISTER स्मरशापान्तभवाम् सरस्वतीम् । अशनेरमृतस्य चोभयो- वशिनश्चाम्बुधराश्च योनयः ॥ ४३ ॥ प्रकाशिका २४१ इतीति । इति चाह इत्याह, न केवलं शप्तवान्। स इति प्रजापतिः । धर्मचारिणि ! पतिव्रते ! । त्वत्प्रभावे किं न संभाव्यमिति भावः । स्मरशापान्तभवां स्मरशापप्रदानावसानसंभूताम् । अनेन वशिनामनुग्रहस्वभावत्वादप्रायत्निकत्वमनुग्रहवाचोऽस्या द्योत्यते । एवञ्च विशेषणदानस्यापेक्षितत्वादव्यभिचारिणोऽपि कर्मण उदापानम् । प्रजापतिः शप्त्वा पश्चात् परिणेष्यतीत्यादिवाक्यरूपां सरस्वतीं चाहेत्यर्थः । तथाकुपितस्य प्रसादमर्थान्तरन्यासेनोपपादयति - अशनेरिति । अशन्यमृतशब्दौ कोपप्रसादयोरपि लक्षकौ । वशिनां कोपप्रभवत्वं चोक्तं शाकुन्तलेशमप्रदानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद् वमन्ति ॥ (२.७) इति । अत्राम्बुधरवृत्तान्तस्य वशिवृत्तान्तदृष्टान्तत्वेनोपादानात् तत्समकक्ष्यतेति दीपकमिदम्। तेन चार्थान्तरन्यासस्य सङ्करः । दक्षिणावर्तस्तु – स्मरशापान्तभवा सरस्वतीति पाठमादृत्य व्याख्यातवान् । तन्नास्माकं हृदयमावर्जयति ॥ ४३ ॥ वाक्यपरिसमाप्तिमेव दर्शयति- विवरणम् इति चेति । धर्मचारिणि ! सः इति सरस्वतीम् आह च । धर्मचारिणि ! हे पतिव्रते ! । त्वत्पातिव्रत्यमाहात्म्यात् सर्वमपि सम्भाव्यमेवेति भावः । सः प्रजापतिः । इति परिणेष्यतीत्यादिपूर्वोक्तप्रकारात् । सरस्वतीं वाणीम् आह उक्तवान् । अस्त्यादिपदवत् तिङ्प्रतिरूपकमव्यममिदम्। चशब्दः पूर्वोक्तशापरूपसरस्वतीसमुच्चयार्थः । [ रघु. ५.५४] ‘उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत् सा प्रकृतिर्जलस्ये ‘ति न्यायेन वशिनामनुग्रहस्वभावत्वमेव दर्शयति - स्मरशापान्तभवामिति । स्मरविषयस्य शापस्यान्ते भवतीति स्मरशापान्तभवा, तादृशीं सरस्वतीं, न तु शापमोक्षं देहीति स्मरप्रार्थनानन्तरभवाम् । अनेन वशिनां प्रसादस्य स्वाभाविकत्वं दर्शितम् । शापप्रदानानन्तरं कृपालोः परमेष्ठिनो मुखात् परिणेष्यतीत्यादिरूपा सरस्वती च स्वयमेव निर्गतेत्यर्थः । नन्वेवं कुपितस्य २४२ कुमारसम्भवे प्रजापतेस्तदनन्तरमेव तादृशप्रसादोदयः कथमुपपद्यत इतीमामाशङ्कामर्थान्तरन्यासेन परिहरति — अशनेः अमृतस्य चोभयोः वशिनः अम्बुधराश्च योनयः इति । अशनेः वैद्युताग्नेः अमृतस्य जलस्य च उभयोरपि वशिनो जितेन्द्रियाः अम्बुधरा मेघाश्च योनयः उद्भवस्थानानि। अत्र वशिपक्षे तावदशन्यमृतशब्दौ दुःखानन्दकारणत्वात् कोपप्रसादयोर्लक्षकौ । वशिनां कोपप्रभवत्वं चोक्तं शाकुन्तले- शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद् वमन्ति ॥ इति । अत्र वशिवृत्तान्तदृष्टान्तत्वेनाप्रकृतोऽम्बुधरवृत्तान्त उपात्त इति दीपकमलङ्कारः । सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु वह्नीषु कारकस्येति दीपकम् ॥ इति तस्य [ काव्यप्रकाशे] लक्षणम् । तेन चार्थान्तरन्यासस्य सङ्करः ॥४३॥ तदिदं परिरक्ष शोभने ! भवितव्यप्रियमङ्गमं वपुः । अपि वीतजला तपात्यये पुनरोघेन हि युज्यते नदी ॥ ४४ ॥ अथ कर्तव्यमवतारयति- प्रकाशिका तदिति । तत् तस्माद्, यस्माद् भावी तस्य देहलाभः । इदमिति समग्रगुणास्पदत्वं द्योतयति । शोभन इत्यामन्त्रणं ‘मदनेन विनाकृता’ ( ४.२१ )इत्युक्तं वचनीयमप्येवं शीलवत्यां त्वयि निरवकाशमिति द्योतयति । भवितव्यप्रियसङ्गमम् उक्तादेव हेतोरवश्यंभाविप्रियसङ्गमम् । अवश्यंभाविनं प्रियसङ्गमोत्सवं मा हासीरिति भावः। प्रियसङ्गमस्य भावित्वमुपपादयति - अपीति । वीतजलापीत्यन्वयः । तपात्यय इत्यनेन प्रकृतेऽपि कालस्य घटयितृत्वं द्योत्यते । एतच्च न प्रतिवस्तु, प्रथमं बिम्बभूतस्य वस्तुनोऽनुपन्यासात् । नापि सादृश्येनाप्रस्तुतप्रशंसा, हिशब्देनोपपादकस्योक्तत्वात्। तस्मात् कैश्चिदभ्युपगतः सादृश्येनार्थान्तरन्यासोऽयम् ॥ ४४ । विवरणम् इत्थं मदनस्य प्रत्यापत्तिमुपपाद्य कर्तव्यमेवाह — तदिति । शोभने ! तत् त्वम् इदं वपुः परिरक्ष । शोभने ! हे समग्रगुणसम्पन्ने ! चतुर्थः सर्गः २४३ अनेनामन्त्रणेन ‘मदनेन विनाकृता रतिः’ इति श्लोकेन त्वया पूर्वोक्तं वचनीयमप्येतादृशगुणविशिष्टायां त्वयि निरवकाशमेवेति द्योत्यते । तद्, यस्मात् त्वत्प्रियतमस्य देहलाभोऽवश्यम्भावी, तस्मादित्यर्थः । इदं समग्रगुणास्पदत्वेन दृश्यमानम् । वपुः शरीरम् । परिरक्ष परितः समन्ताद्रक्ष। शीतोपचारादिभिः सुरक्षितमेव कुरु । सहसा देहत्यागेन प्रियसङ्गमोत्सवं मा परित्यजेत्यर्थः । परिरक्षणीयत्वे हेतुमाह — भवितव्यप्रियसङ्गममिति । भवितव्यः अवश्यम्भावी प्रियसङ्गमः प्रियेण भर्त्रा सङ्गमो यस्य तादृशम् । प्रियसङ्गमस्यावश्यम्भावित्वमेवोपपादयति—वीतजलापि नदी तपात्यये पुनः ओघेन युज्यते हि । वीतजलम वीतानि विशेषणेतानि गतानि जलानि यस्या सा तथाभूतापि नदी । तपात्यये ग्रीष्मकालावसाने । ‘उष्ण ऊष्मागमस्तप’ इत्यमरः । इत्यमरः । अनेन प्रियवियोगस्येव प्रियसङ्गमस्यापि कालस्यैव हेतुत्वं द्योत्यते । पुनः पुनरपीत्यर्थः । ओघेन प्रवाहेण, न तु जलमात्रेणेत्यर्थः । अनेन पूर्वकृतानामनुभवानामपि पूर्ववदेव प्रत्यापत्तिः सूचिता । युज्यते संयुक्ता भवति । हिशब्दः उपपादकत्वद्योतकः प्रसिद्धिवाची । सादृश्यनिमित्तोऽर्थान्तरन्यासोऽत्रालङ्कारः । स तु कैश्चिदेवाचार्यैरभ्युपगतः, न तु सर्वैः । ननु प्रतिवस्तूपमास्तु । मैवम् । प्रथमं बिम्बभूतस्य वस्त्वन्तरस्यानुपादानात् । नापि सादृश्येनाप्रस्तुतप्रशंसा, उपपादकस्य उपपादकस्य हिशब्दस्योपादानात्। तस्मात् सादृश्येनार्थान्तरन्यास एवायम् ॥ ४४ ॥ उपसंहरति- । इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना- माश्वासयत् समभिवृद्धरसैर्वचोभिः ॥४५ ॥ प्रकाशिका प्रत्यय इत्थमिति । किमपि भूतमदृश्यरूपमित्यनेनाकाशभाषिते कः । इत्यसंभावनां निराकरोति । अत एव वक्ष्यति - तत्प्रत्ययाच्चेति । मन्दीचकार, न तु निश्शेषमपानुदत् । अपनुन्ना तु सा बुद्धिरन्यथेत्याह — तत्प्रत्ययादिति । चस्त्वर्थे । समभिवृद्धरसैः सौहार्दस्यन्दिभिः ॥ ४५ ॥ आकाशवाणीमुपसंहरति- विवरणम् इत्थमिति । अदृश्यरूपं किमपि भूतं रते मरणव्यवसायबुद्धिम् इत्थं२४४ । कुमारसम्भवे मन्दीचकार । अदृश्यरूपमदृश्यं रूपं शरीरं यस्य तत्तथा । किमपि अनिर्देश्यम् । अनेनाकाशभाषितस्यापि विश्वसनीयता प्रतिपादिता । अत एव तत्प्रत्ययाच्चेत्युत्तरार्धे वक्ष्यति। भूतं दैवविशेषः । इदमपि विश्वसनीयत्वे हेतुः । रतेः कामदेवभार्यायाः । मरणव्यवसायबुद्धिं मरणे देहत्यागे व्यवसायो निश्चयो यस्यास्तादृशीं बुद्धिम् । मरणविषयां निश्चयबुद्धिं वा । मन्दीचकार अल्पीचकार, न तु निश्शेषमपाचकार । निश्शेषापहरणं तु माधववचनादासीदित्याह —— कुसुमायुधबन्धुश्च तत्प्रत्ययाद् वचोभिरेनामाश्वासयदिति । कुसुमायुधबन्धुः कुसुमायुधस्य कामदेवस्य बन्धुभूतो वसन्तः। चकारस्तुशब्दार्थे। कुसुमायुधबन्धुस्त्वित्यर्थः। तत्प्रत्ययात् तस्मिन् भूतवचसि प्रत्ययाद् विश्वासात् । ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुष्वित्यमरः । वचोभिर्वाग्भिः। बहुवचनेन बचसो बहुप्रकारत्वमुक्तम् । कृपालोः परमेश्वरस्यानुचराणां केषाञ्चिद् वचनमेवेदम् । मा वृथा शरीरं विनाशय । अवश्यं प्रियसङ्गमो मरणेन विना भविष्यत्येवेत्यादिरूपैरिति भावः । वसन्तवचसामाश्वासकारित्वमाह — समभिवृद्धरसैरिति । सम्यगभिवृद्धो रसोऽनुरागो येषु तैः । ‘शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इति सिंहः। सान्द्रसौहार्दस्यन्दिभिरित्यर्थः । सौहार्दे हेतुः कुसुमायुधबन्धुत्वम् । अत्र कुसुमायुधबन्धुत्वम्। अत्र कुसुमायुधशब्देन कुसुमसम्पादके वसन्ते बान्धवहेतुरपि सूचितः । सुहृद्वचो हि विपदि विश्वास्यमिति भावः ॥ ४५ ॥ अथ मदनवधूरुपप्लवान्तं व्यसनकृशा प्रतिपालयाम्बभूव । शशिन इव दिवातनस्य रेखा किरणपरिक्षयधूसरा दिनान्तम् ॥ ४६ ॥ प्रकाशिका प्रकरणमुपसंहरति- अथेति । अथशब्दोऽवस्थान्तरद्योतकः । अवस्थान्तरं च करुणस्य सप्रत्याशत्वम्। अत एव च प्रतिपालनम् । उपप्लवान्तं शायावसानकालमित्यर्थः । रेखात्वादेवोपमाने कार्श्यम्, कार्श्यसाहचर्याच्चोपमेये धूसरत्वं प्रतीयते । अत्र सर्गे स्थायी करुणः । तत्र भूयसां भवानां वारिधौ कल्लोलानामिवोन्मज्जनं निमज्जनं च दर्शितम्॥४६॥ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां चतुर्थः सर्गः ॥४॥ चतुर्थः सर्गः २४५ रतिप्रलापप्रकरणमुपसंहरति- विवरणम् अथेति । अथ मदनवधूः व्यसनकृशा उपप्लवान्तं प्रतिपालयाम्बभूव । अथशब्दोऽयमवस्थान्तरारम्भं द्योतयते । करुणस्य प्रत्यापत्त्याशया विप्रलम्भत्वप्राप्तिश्चात्रावस्थान्तरम्। आकाशवाणीमाधववचसोरानन्तर्यवाची वायमथशब्दः । मदनवधूः मदनस्य वधूः रतिः । व्यसनकृशा व्यसनैः दुखशतैः कृशा कृशशरीरा सती । उपप्लवस्योपद्रवस्य । अन्तमवसानकालम्। शापावसानसमयमित्यर्थः । । प्रतिपालयाम्बभूव प्रतीक्षाञ्चक्रे । अत्रोपमामाह - दिवातनस्य शशिनः रेखा किरणपरिक्षयधूसरा दिनान्तमिवेति । दिवातनस्य अहनि वर्तमानस्य । शशिनश्चन्द्रस्य । रेखा कलेत्यर्थः । किरणपरिक्षयधूसरा किरणानां रश्मीनां परिक्षयेण नाशेन हेतुना धूसरा धूसरवर्णा सती दिनान्तमिव । यथा चन्द्रस्य प्रतिपत्कला विवर्णा कृशा च सती स्वतेजोवृद्धिकरं दिनान्तं प्रतिपालयति, तथेयमपि भर्तुः शापावसानसमयमित्यर्थः । प्रदोषमिति वा पाठः । अत्र रेखाशब्दप्रयोगेण उपमाने कार्यं प्रतीयते, कार्श्यसाहचर्यादुपमेये धूसरत्वं च । अत्र रतेस्तादृशचन्द्रकलोपमानेन प्रियसङ्गमानन्तरभाविनी क्रमेण वृद्धिश्च ध्वन्यते ॥ ४६ ॥ सर्गेऽस्मिन् करुणो रसः स्थिरतरो भावास्तु वारान्निधौ कल्लोला इव तत्र तत्र बहवः सम्मज्जनोन्मज्जने । कुर्वाणा विलसन्ति हन्त नितरां दीना मदीया पुन- बुद्धिस्तस्य तथापि देशिककृपानावैव पारं गता ॥ आश्लेषाशतकादिपद्यरचनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये। व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते स्म चतुर्थ एति विरतिं सर्गे निसर्गोज्ज्वलः ॥ ॥ इति श्रीकृष्णशिष्यनाराणस्य कृतौ कुमारसम्भवविवरणे चतुर्थः सर्गः ॥ ४ ॥ PIFIR (