०३

तस्मिन् मघोनस्त्रिदशान् विहाय सहस्त्रमक्ष्णां युगपत् पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेऽपि ॥ १ ॥ प्रकाशिका अथोपाक्षिप्तमुपायानुष्ठानं प्रपञ्चयति— तस्मिन्निति । तस्मिन् कामे । त्रिदशान् मन्त्राय समासीनान् । सहस्रमित्यादिना तस्यात्रादरातिशयद्योतनात् स्वगौरवत्यागो दर्शितः । तदुपपादयति — प्रयोजनापेक्षितयेति । चलं गत्वरम् । गौरवं सावष्टम्भावस्थानादि । आश्रितेऽपि परिजनविषयेऽपि । कर्तरि निष्ठा । अयमर्थः - यदा प्रभवः परिजनात् कार्यमपेक्षन्ते, तदा स्वगौरवमपि विहाय परिजनमपि संभावयन्तीति । त्रिदशान् विहायेत्युक्त्या त्रिदशगतं गौरवमेकौघभूतं कामगतमिति दर्शितम् । न चायं दोषः, ‘अर्थाधिकारी धीरोद्धत’ इति भोजोक्तेः । चलश्च कार्यापेक्षया धीरोद्धतः । अत एव प्रायश्शब्दः ॥ १ ॥ विवरणम् अथोपक्षिप्तं पार्वतीपरमेश्वरसङ्गमोपायानुष्ठानं तदनुबद्धं कामदहनं च तृतीयेनानेन सर्गेण वर्ण्यते । तत्र कामदेवागमनानन्तरं मघोनस्तद्विषयां प्रतिपत्तिं दर्शयति- तस्मिन्निति । मघोनः अक्ष्णां सहस्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । मघोनः इन्द्रस्य । ‘इन्द्रो मरुत्वान् मघवेत्यमरः । अक्ष्णां नयनानां सहस्रं त्रिदशान् देवान् विहाय परित्यज्य तस्मिन् कामदेवे युगपत् सहैव पपात पतितमासीत् । तत्र सहस्रयुगपच्छब्दाभ्यां मघोनस्त्वरातिशयो द्योत्यते । तेन च कामदेवेऽस्यादरातिशयः । त्रिदशान् विहायेति तेष्वनादरः उक्तः । पूर्वं मन्त्राय समासीनानखिलानमराननाप्रत्याक्षिसहस्रेण सहस्राक्षस्तत्कालसमागतं कामदेवमेव सबहुमानमवलोकितवानित्यर्थः । ननु मन्त्राय पूर्वमारोपितगौरवेषु देवेषु कथं कामदेवागमनानन्तरमेव तस्यानादरः, कथं वा तत्कालसमागतकामदेवे चादरः, अत आह— प्रभूणाम् आश्रितेषु गौरवं प्रयोजनापेक्षितया प्रायः चलमिति । प्रभूणां राज्ञाम् आश्रितेषु सेवकेषु कर्तरि निष्ठा । इयं तु विषयसप्तमी । प्रभूणामाश्रितजने विषये यद्१३४ कुमारसम्भवे गौरवमादरः, तत् प्रयोजनापेक्षितया प्रयोजनमपेक्षितुं शीलमेषामिति प्रयोजनापेक्षिणः, तेषां भावस्तत्ता तया हेतुभूतया । प्रायः प्रायेण चलं चञ्चलं भवति । यस्मात् प्रभवः प्रयोजनापेक्षिणः, तस्मादाश्रितविषयस्तेषामादरः प्रायेण तत्तदर्थसाधकेषु जनेषु चञ्चलो भवतीत्यर्थः । धीरोद्धतानामयं स्वभावः । यदाह भोज ः’अर्थाधिकारी धीरोद्धत’ इति । धीरोद्धतानामर्थाधिकारित्वात् तेषामादरः स्वगौरवमपहायापि परिजनमपि सम्भावयतीत्यर्थः । अत्रार्थान्तरन्यासः । कार्यापेक्षितयैव चलत्वमिति प्रायश्शब्दः प्रयुक्तः । महेन्द्रस्य धीरोद्धतत्वं प्रतिनायकत्वकृतम्। आश्रितेऽपीति पाठे ॥ १ ॥ स वासवेनासनसन्निकृष्ट- मितो निषीदेति निसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम्॥२॥ प्रकाशिका स इति । वासवेनेति तत्कृतस्य संभावनस्य दुर्लभतां द्योतयति । आसनसन्निकृष्टं सन्निकृष्टासनम् । आहितग्न्यादिषु पाठात् साधुत्वम् । षष्ठीसमासस्तु न भवति, ‘न लोका – ’ (२.३.६९) इति षष्ठीप्रतिषेधात् । इदं तु निसर्गक्रियाविशेषणं मिथोवचनाङ्गम्। निसृष्टभूमिर्दत्तावस्थानभूमिष्ठ इत्यर्थः । प्रसादं माननम् । मूर्ध्ना, साञ्जलिना नम्रेणेत्यर्थाल्लभ्यते । मिथो रहसि । एवमिति वक्ष्यमाणस्याप्युपसंहारः ॥ २ ॥ विवरणम् अथ वाचिकसम्भावनाप्रदर्शनपुरस्सरं मन्मथस्य वचनावसरं दर्शयति– स इति । वासवेन इतः निषीदेति आसनसन्निकृष्टं निसृष्टभूमिः सः भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनमेवं वक्तुं प्राक्रमत। वासवेन देवेन्द्रेण । अनेन तत्कृतस्य सम्भावनस्यात्यन्तदुर्लभत्वं द्योत्यते । इतः अस्मिन् प्रदेशे। सप्तम्यर्थे सिः। निषीद स्थितिं कुरु । आसनसन्निकृष्टमिति निसर्गक्रियाविशेषणम् । आसनसन्निकृष्टं सन्निकृष्टासनम्। आहिताग्न्यादिषु पाठात् साधुत्वम् । सन्निकृष्टमासनं यथा भवति तथा निसृष्टभूमिरित्यर्थः । न पुनरत्रासनस्य सन्निकृष्टमिति समासः । ‘न लोक’(२.३.६९)इत्यादिना षष्ठीप्रतिषेधात् । निसृष्टा दत्ता भूमिरवस्थानप्रदेशो यस्मै स तथा । पूर्वं कामदेवाधिष्ठितात् प्रदेशादारभ्यात्मसिंहासनपर्यन्तं स्वहस्तेनैवाहूय तत्र दत्तावस्थानप्रदेश इत्यर्थः। तत्रावस्थायेत्यर्थात् सिध्यति । एतच्च मिथोवचनाङ्गम् । सः तृतीयः सर्गः १३५ कामदेव ः भर्तुः स्वामिनः प्रसादं सगौरवावलोकनादिरूपं संमानं मूर्ध्ना, साञ्जलिना नम्रेण शिरसेत्यर्थः । प्रतिनन्द्य प्रसादमभिनन्द्य । मिथः रहसि । अनेन मन्त्रगुप्तिर्दर्शिता । एनं भर्तारम् । एवमिति वक्ष्यमाणप्रकारसङ्क्षेपः । वक्तुं प्राक्रमत उपक्रान्तवान् ॥२॥ आज्ञापय ज्ञातविशेष! पुंसां लोकेषु यत् ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्त मिच्छामि संवर्धितमाज्ञया ते ॥ ३ ॥ प्रकाशिका P आज्ञापयेति । मद्विशेषमधिगम्य मामस्मर इत्यामन्त्रणपदेन द्योत्यते । यत् करणीयं तदाज्ञापयेत्यर्थः । प्रथममेवाज्ञापयेति किमुक्तमित्याह - अनुग्रहमिति । संवर्धितमिति पाठः । मयि संस्मरणेनाङ्कुरितं तवानुग्रहमाज्ञया संवर्ध्यमान- मिच्छामीत्यर्थः ॥ ३ ॥ विवरणम् एवंशब्दोक्तमेव प्रपञ्चयत्याज्ञापयेत्यादिभिरष्टभिः श्लोकैः- आज्ञापयेति । पुंसां ज्ञातविशेष! त्वमाज्ञापय । पुंसां पुरुषाणां ज्ञातो विशेषः सामर्थ्यभेदो येन, ज्ञातसकलपुरुषसामर्थ्यभेदेत्यर्थः । अनेनामन्त्रणेन मत्सामर्थ्य - विशेषमवधार्य खलु भवताहं स्मृतः । तस्मान्मदुचिते कार्ये मामाज्ञापयेति ध्वन्यते । ‘यो यस्मिन् कर्मणि कुशलः तं तस्मिन्नेव योजयेद्’ इति न्यायादिति भावः । आज्ञापनस्य विषयमपि सङ्क्षिप्य दर्शयति - ते लोकेषु यत् करणीयमस्तीति । ते तव लोकेषु लोकत्रये । अत्र बहुवचनेन सर्वलोकगतार्थसाधनसमर्थत्वमात्मनः समर्थितम्। करणीयं कर्तव्यम् । मयेति शेषः । लोकत्रये तव मया यत्कर्तव्यमस्ति, तदाज्ञापयेति पूर्वेणान्वयः । आज्ञापनमात्रस्यैवात्र कालविलम्ब इति भावः । ननु किमर्थमादावेवाज्ञापयेत्युक्तम्, अत आह— अहं संस्मरणप्रवृत्तं तेऽनुग्रहमाज्ञया संवर्धितमिच्छामीति । संस्मरणप्रवृत्तं संस्मरणेन सम्यक् स्मरणेन । अत्र स्मरणस्य सम्यक्त्वं नाम सरभसागमनप्रयोजकत्वम् । प्रवृत्तमङ्कुरितम् । ते त्रैलोक्यनाथस्य तव । अनुग्रहम् । अनेनानुग्रहस्यात्यन्तदुर्लभत्वमुक्तम्। संवर्धितं सम्यग्वर्धितम् । वर्तमाने क्तः । वर्ध्यमानं सन्तमिच्छामि । सर्वलोकाधिपतेस्तव योऽनुग्रहः संस्मरणेन मय्यङ्कुरितोऽभूत्, तमहमाज्ञया वर्ध्यमानमिच्छामीत्यर्थः ॥ ३ ॥ १३६ कुमारसम्भवे केनाभ्यसूया पदकङ्क्षिणा ते नितान्तदीधैर्जनिता तपोभिः । यावद् भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥४॥ प्रकाशिका धीरोद्धतत्वाद् दुस्साधेष्वर्थेषु स्वशक्तिं प्रकाशयंस्तानेवार्थानेकैकं पृच्छति षड्भि श्लोकैः-

केनेति । पदकाङ्क्षिणा इन्द्रपदं प्रार्थयता । यावद् भवति भविष्यतीत्यर्थः । असौ भवतीति पाठे वर्तमानसामीप्ये लट् ॥ ४॥ विवरणम् अत्र प्रतिनायको मारो धीरोद्धतत्वादत्यन्तदुस्साधेष्वप्यर्थेषु स्वशक्तिं प्रकाशयंस्तानेवार्थान् पृच्छति षड्भिः श्लोकैः । तत्र तदिच्छानुसारेण हि प्रश्नः कर्तव्यः । इच्छा च द्विविधा अनिष्टपरिहाररूपा इष्टप्राप्तिरूपा च । तत्रानिष्टपरिहारस्यैव प्राधान्यं ‘कृतकृत्यस्य कामेऽधिकार’ इति वचनादिति आदावनिष्टपरिहारविषयः प्रश्नः क्रियते । तत्रानिष्टपरिहारोऽपि द्विविधः सर्वस्वनाशपरिहारस्तदेकदेशनाशपरिहारश्च । तत्र सर्वस्वनाशस्यैव हि प्राधान्यमिति आदौ तद्विषयं प्रश्नमवतारयति- केनेति । केन ते पदकाङ्क्षिणा नितान्तदीर्षैः तपोभिः अभ्यसूया जनिता । अत्र केनेति सर्वनाम्ना निजशक्तेः सार्वत्रिकत्वं द्योत्यते । ते तव पदकाङ्क्षिणा पदं स्थानं काङ्क्षितुं शीलमस्येति तथा । इन्द्रपदं प्रार्थयतेत्यर्थः । नितान्तदीघैः अत्यन्तदीघैः, बहुकालकृतैरित्यर्थः । अनेन तपसः पदाहरणसामर्थ्यं दर्शितम् । अभ्यसूया असूया जनिता उत्पादिता। त्रैलोक्ये कः पुमान् बहुकालकृतैस्तपोभिस्त्वां दूरतो निराकृत्य स्वयमेवामरावतीमधिष्ठाय माहेन्द्रं पदमहमेवानुभवामीति कृतोद्योगस्तवासूयां जनयतीत्यर्थः । त्वरितं वदेति शेषः । ननूक्त्वा किं फलमित्यत्राह - सः अस्य मत्कार्मुकस्य निदेशवर्ती यावद् भवतीति । कर्तृपदमत्राध्याहार्यम्। ॥ अस्य मत्पाणाविदानीं विद्यमानस्य । अनेनायुधादानहेतुकः कालविलम्बो निरस्तः । मत्कार्मुकस्य अनेन स्वातन्त्र्यमायुधस्योक्तम्। निदेशवर्ती निदेशे आज्ञायां वर्तितुं शीलमस्येति तथा । ताच्छील्ये णिनिः । अनेनासौ पुनः कदाचिदपि तपश्चरितुं न यतिष्यत इत्यर्थो द्योत्यते । यावद् भवति, ‘यावत्पुरानिपातयोर्लट् ’ (३.३.४) इति भविष्यदर्थे लट् । स मत्कार्मुकाज्ञाकर एव भविष्यतीत्यर्थः । आहितसायकस्य आहितः कृतसन्धानः सायकः शरो यस्मिन् । अनेन विशेषणेन कार्मुकस्य शरसन्धानव्यतिरिक्तकारणान्तरनिरपेक्षत्वं ध्वनितम् ||४ || तृतीयः सर्गः असम्मतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः । बद्धश्चिरं तिष्ठतु सुन्दरीणा- मारेचितभ्रूचतुरैर्विलासैः ॥५॥ पुरुषार्थेषु मोक्षमधिकृत्याह- प्रकाशिका १३७ असम्मत इति । प्रभुणा लोकतन्त्रेऽधिकृतस्य कस्यचिन्मुमुक्षुत्वं प्रभोरसम्मतमिति भावः । तर्हि स कुतस्तत् प्रतिपद्यत इत्याहपुनर्भवक्लेशभयादिति । सर्वो हि स्वार्थे वर्तते। आरेचनम् एकस्या भ्रुवो ललितमीषदुत्क्षेपणम् । ‘रेचितं पुनरेकस्या ललितोत्क्षेपणं भ्रुव’ इत्याहुः । एतदेकं वाक्यम् । वाक्यभेदे तु स इत्युत्तरार्धेऽध्याहार्यः ॥ ५ ॥ विवरणम् अथ पुरुषार्थचतुष्टये धर्मस्यैव प्राधान्यात् तद्विषयः प्रश्नः क्रियते । स तु स्वराज्यैकदेशनाशपरिहारविषयश्चेति मन्वानः पृच्छति — असम्मत इति । तव असम्मतः पुनर्भवक्लेशभयाद् मुक्तिमार्गं प्रपन्नः कः सुन्दरीणाम् आरेचितभ्रूचतुरैः विलासैः बद्धः चिरं तिष्ठतु । तव असम्मतः त्रैलोक्यरक्षाधिकृतस्य तवानिष्टः । तव सम्मति विनैव मुक्तिमार्गं प्रपन्न इत्यर्थः । नहि प्रभुणा लोकतन्त्रे नियुक्तस्य पुरुषस्य मुमुक्षुत्वं प्रभोः सम्मतं भवति । तस्य मुमुक्षुत्वे तत्पदस्य रक्षाशैथिल्येन विनाशप्रसङ्गादित्यर्थः । मुक्तिमार्गप्राप्तौ हेतुमाहपुनर्भवक्लेशभयादिति । पुनर्भवेण जननमरणेन यः क्लेशः पीडा तद्भयात्। स्वार्थमात्रपरो हि लोकः । अतः परार्थां लोकरक्षामुपेक्ष्य निजक्लेशहारिणीं मुक्तिपदवीमेव प्रपन्न इति भावः । मुक्तिमार्गं मोक्षमार्गम् इहामुत्रभोगविरामादिरूपां पदवीं प्रपन्नः प्राप्तः कः पुमान् सुन्दरीणां सर्वावयवसुन्दरीणां स्त्रीणाम् आरेचिताभिः ईषद्रेचितयुक्ताभिः । रेचितमेकस्या भ्रुवो ललितोत्क्षेपणम् । यथोक्तं सङ्गीतशास्त्रे’रेचितं पुनरेकस्या ललितोत्क्षेपणं भ्रुव’ इति । तादृशीभिर्भूभिः चतुरैः सुन्दरैः । अत्र रेचितशब्देनैव भ्रूशब्दार्थे सिद्धेऽपि पुनर्वचनं करिकलभन्यायादिति मन्तव्यम् । अथवा आरेचिताभिः नर्तिताभिः । ‘आरेचितं नर्तितं स्यादिति भोजः । अयं तु पक्षो माधवोक्तः । विलासैः कटाक्षविक्षेपादिरूपैः बद्धः वशीकृतः चिरं चिरकालं तिष्ठतु त्वत्प्रसादपर्यन्तं स्त्रीजनपराधीन एव स्थितिं करोत्विति भावः । इत्थमेकवाक्यतापक्षे १३८ कुमारसम्भवे योजना । वाक्यभेदे पुनरुत्तरार्धे स इति कर्तृपदमध्याहृत्य पूर्वश्लोकवद् योजनीयम् ॥ ५ ॥ अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । कस्यार्थधर्मो वद पीडयानि धर्मार्थावधिकृत्याह- सिन्धोस्तटावोघ इव प्रवृद्धः ॥ ६ ॥ प्रकाशिका अध्यापितस्येति । उशनसापीति । ‘न कश्चिन्नापनयते पुमानन्यत्र भार्गवादि’ ति दर्शनात् । अध्यापितस्यापीत्यन्वयेऽपि अप्यर्थ उशनसि विश्राम्यति, विशेषणे तात्पर्यात्। नीतिमिति, नीतेर्धर्मार्थयोरुभयोरपि पालने साधनत्वात् । प्रयुक्तो रागो विषयाभिषङ्ग एव चारो यस्य । अस्मन्नीतिरौशनसीमपि नीतिं जेतुं क्षमेति भावः । एकेनोभयोरपि पीड्यत्वमुपमयोपपादयति – सिन्धोरिति ॥ ६ ॥ विवरणम् अथ धर्मार्थावधिकृत्य प्रश्नः क्रियते । स तु भविष्यदापत्परिहारविषयश्चेति तृतीयं प्रश्नमवतारयति— अध्यापितस्येति । अहं ते द्विषः कस्य अर्थधर्मौ पीडयानि वद । ते द्विषस्तव शत्रुभूतस्य कस्य अर्थधर्मौ अर्थं च धर्मं च पीडयानि विनाशयेयम् । प्रश्ने लोट् । वद निर्दिश । अत्र कस्यार्थधर्मौ पीडयानीति प्रश्नेनैव वदेत्येतस्य गतार्थत्वेनानुपयोगात् तव वचनविलम्ब एवात्र विलम्ब इत्येतस्मिन्नर्थे शब्दोऽयं सङ्क्रमितः । औद्धत्यपरिहारो व्यङ्ग्य इत्यर्थान्तरसङ्क्रमितवाच्यध्वनिः । न मे प्रभावो नीतिशास्त्रवेदिषु विहन्यत इत्याहउशनसा नीतिम् अध्यापितस्यापीति । उशनसा भार्गवेण। ‘उशना भार्गवः कविरित्यमरः । नीतिं नीतिशास्त्रम् अध्यापितस्य अध्ययनं कारितस्यापि । उशनसा स्वयमेव शिक्षितनीतिशास्त्रस्यापीत्यर्थः । उशनस एव नीतिशास्त्रप्रावीण्यमिति प्रसिद्धं न कश्चिन्नापनयते पुमानन्यत्र भार्गवात्’, ‘भार्गवेण समो नये’ इत्यादिषु। अर्थपालन इव धर्मपालनेऽपि नीतेरेव साधनत्वप्रसिद्धेरेवमुक्तम्। मम नीतिरौशनसीमपि नीति जेतुं क्षमेति भावः । आत्मनो नीतिविदां धर्मार्थविश्लेषे साधनसम्पत्तिं दर्शयतिप्रत्युक्तरागप्रणिधिरिति । प्रयुक्तः प्रेरितो रागो विषयाभिलाष एव प्रणिधिश्चरो येन स तथा । अतिप्रवृद्धो हि तृतीयः सर्गः १३९ विषयाभिलाषः सर्वानपि पुरुषार्थान् विघटयितुं क्षम इति भावः । परनीतिविश्लेषणस्य प्रणिधिसाध्यत्वाद् रागोऽत्र प्रणिधित्वेन रूपितः । ‘प्रणिधिरपसर्पश्चरः स्पर्श’ इत्यमरः । ननु कथमेकस्यैवोभयविश्लेषणसामर्थ्यं युगपदेव सम्भवतीतीमामाशङ्कामुपमया परिहरति - प्रवृद्ध ओघ ः सिन्धोस्तटाविवेति । प्रवृद्धः प्रावृषि महतीं वृद्धि प्राप्तः ओघ नदीवेगः । ‘ओघोवृन्देऽम्भसां रये’ इति सिंहः । सिन्धोः नद्याः तटौ तीरप्रदेशाविव । यथा प्रवृद्धो जलप्रवाहः सिन्धोस्तटद्वयं विघटयति, तथाहं कस्यार्थधर्मौ विघटयेयमिति त्वरितमेव वदेत्यर्थः । त्रैलोक्ये कः पुरुषो धर्मार्थाभ्यामुपायाभ्यां त्वां जेतुमुद्योगं करोति, अहं तस्यार्थधर्मयोः काम एवोपयोग विधास्यामीति भाव || ६ || कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम्॥७॥ प्रकाशिका अथ कामस्य शृङ्गारात्मकस्य सम्भोगविप्रलम्भद्वैविध्ये सति सम्भोगस्यासतो लब्धलाभात्मकत्वाभावात् तं विहाय विप्रलम्भं प्रागसङ्गतवियुक्तविषयत्वेन द्विविधं सामान्येन मन्वानस्तत्राद्यमधिकृत्याह- कामिति । एकपत्नी, पतिव्रता, तस्या व्रतं परपुरुषादर्शनादि, तेन दुःखशीलां दुरुपक्रमस्वभावाम् । लोलं मनः, मनसः स्वभावलोलत्वादित्यर्थः। रूपसम्पदा । मुक्तलज्जामित्यष्टमी कामावस्थां दर्शयति । तत एव स्वयङ्ग्राहलक्षणा चपलता ॥७॥ विवरणम् चारुतया अनन्तरमिष्टप्राप्तिरूपः प्रश्नः क्रियते । स त्वत्र कामविषयः । इतरेषां कामदेवानधीनत्वात्। तत्र शृङ्गारात्मको हि कामः । शृङ्गारस्तु सम्भोगविप्रलम्भभेदेन द्विविधः । तत्र सम्भोगस्य अलब्धनायिकाविषयत्वाभावेन तत्सिद्ध्यर्थमात्मनः स्मरणानुपपत्तेस्तत्प्रश्नमपहाय विप्रलम्भविषयः प्रश्नः क्रियते । तत्र विप्रलम्भोऽपि द्विविधः । एकः प्रागसङ्गतनितम्बिनीविषयः, अन्यस्तु विप्रयुक्तनायिकाविषयः । तत्राद्यमधिकृत्याह- कामिति । त्वम् एकपत्नीव्रतदुःखशीलां कां नितम्बिनीं कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि । एकस्य पत्नी एकपत्नी पतिव्रतेत्यर्थः, तस्या व्रतं पुरुषान्तरादर्शनादिरूपं तेन दुःखशीलां दुर्धर्षस्वभावाम् । ‘शीलं स्वभावे सद्वृत्ते’ १४० कुमारसम्भवे इति सिंहः । नितम्बिनीं स्त्रियं कण्ठे स्वयंग्राहनिषक्तबाहुम् आलिङ्गनार्थं स्वयमेव ग्रहणं स्वयङ्ग्राहः । ग्रहणार्थे ग्राहशब्दप्रयोगो मृग्यः, जलचरे ग्राह इति नियमात् । स्वयङ्ग्रह इत्येव मुख्यः प्रयोगः । तथा च माघेन प्रयुक्तं ‘स्वयंग्रहाश्लेषसुखेन निष्क्रयम् (१.५०) इति । माधवस्तु णिजन्तत्वेन साधितवान् । नायिकायाः स्वयमेव स्वबाहुभ्यां यद् ग्रहणं स स्वयंग्राहः । ‘एरच् ’ ( ३.३५६ ) इत्यच्प्रत्यय इति । स्वयंग्रहणेन कण्ठे विषक्तौ विशेषेण सक्तौ बाहू यस्यास्तथाभूतां सतीम् इच्छसि अभिलषसि । वदेति शेषः । ननु महेन्द्रस्य कथं परस्त्रीसम्भोगलालसत्वमाशङ्क्यते, अत आह— चारुतया लोलं मनः प्रविष्टामिति । चारुतया चारुत्वेन सौन्दर्यातिशयेनेत्यर्थः। लोलं चञ्चलं मनः चित्तं प्रविष्टां प्राप्ताम् । रूपसौन्दर्याणां निरवधिकत्वाद् मनसः स्वभावलौल्याद् अहल्यावृत्तान्तस्य प्रसिद्धत्वाच्च न काचिदनुपपत्तिरिति भावः । अत्र मनः प्रविष्टामित्यनेन महेन्द्रस्य सङ्कल्पाभिधाना तृतीया कामावस्था दर्शिता । यथाह— चक्षुः प्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः ।’ इति । ननु लज्जापरतन्त्रा हि स्वभावतो नितम्बिन्यः, विशेषतश्च पतिव्रताः । अतः कथं तासां स्वयङ्ग्राहाश्लेषोपपत्तिः । अत आह— मुक्तलज्जामिति । मुक्ता त्यक्ता लज्जा यया तां, मद्बाणभिन्नहृदयत्वेन परित्यक्तलज्जाम् । अत व चपलतया स्वयङ्ग्रहणलक्षणालिङ्गनविशेषप्रवृत्तां चेत्यर्थः । अनेन नितम्बिन्यास्त्रपानाशरूपा सप्तमी कामावस्था दर्शिता, उन्मादरूपाष्टमी च ॥ ७ ॥ , कयासि कामिन्! सहसापराधात् पादानतः कोपनयावधूतः । यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥८॥ द्वितीयं विप्रलम्भमधिकृत्याह- प्रकाशिका कयासि कामिन्निति । कामिन्निति नर्मसचिवोचितं नर्मगर्भमामन्त्रणम्। सहसापराधात् पादानतः कोपनात्वादवधूत इत्यर्थः । यस्या इति पाठो युक्तः । दृढानुतापमिति नवम्यवस्था दर्शिता । प्रवालशय्याश्रयणं व्याधेरनुभावः । अत्र तृतीयः सर्गः १४१ धर्मार्थमोक्षाणामात्मनः प्रतिबन्धकत्वेनोक्तिः, कामस्य तु साधकत्वेनेति विशेषः । कामस्य वक्तुस्तथास्वभावकत्वात्॥८॥

विवरणम् अथ द्वितीयं विप्रलम्भमधिकृत्योच्यते । स तु प्रवासनिमित्तो माननिमित्तश्चेति द्विविधः । तदुक्तं विप्रयोगस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा । मानप्रवासभेदेने [ दशरूपके ]ति । तत्र प्रवासनिमित्तः पुरः स्थिते पुरन्दरे न सम्भावित इति माननिमित्तमधिकृत्याह- कयासीति । कामिन्! अपराधात् पादानतः त्वं कोपनया कया सहसा अवधूतः असि। कामिन्निति नर्मसचिवोचितं नर्मगर्भमामन्त्रणम् । अपराधपादप्रणामादेः कामिनामेवोपपत्तेरेवमुक्तम् । अपराधात् सपत्नीजननामग्रहणादिरूपात् । पादानतः बध्वाः पादयोरानतः प्रणतः । कोपनया कोपशीलया सहसा अविचार्य त्वरितमेव अवधूतः निराकृतोऽसि । अथात्मनस्तद्विषयां प्रवृत्तिं दर्शयति — अहं यस्याः शरीरं प्रवालशय्याशरणं करिष्यामीति । यस्याः कामिन्याः शरीरं देहं प्रवालशय्याशरणं प्रवालैः पल्लवैः कृता शय्यैव शरणं रक्षिता यस्य तथाविधं करिष्यामि । यस्याः शरीरं मया प्रवालशय्यामात्रशरणं विधातव्यं, तथाभूतया कया त्वमवधूतोऽसीति पूर्वेण योजना । प्रवालशय्याशरणत्वमनुतापस्यानुभावः । तमेवानुतापमाह— दृढानुतापमिति । दृढः स्थिरोऽनुतापः सन्तापो यस्य तत् तथा । अनेन तनुताख्या पञ्चमी कामावस्था दर्शिता । अत्र पुरुषार्थप्रकरणे धर्मार्थमोक्षाणां प्रतिबन्धकत्वेनोक्तिः, कामस्य तु साधकत्वेनेत्यात्मनः स्वभावो दर्शितः । अयं च स्वभावविशेषः ‘पुंसां ज्ञातविशेषे’ त्यामन्त्रणेनैव प्रतिपादितो वेदितव्यः ॥ ८ ॥ प्रसीद विश्राम्यतु वीर! वज्रं शरैर्मदीयैः कतमः सुरारिः बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥९॥ प्रकाशिका अथ शस्त्रसाध्यं शत्रुविजयमप्यहमेव करिष्यामीत्याह- प्रसीदेति । विश्राम्यतु भुवनकण्टकप्रमथनेष्वपर्यायेणाविश्रमेण च निदेशकारी ते वज्रो विश्रमं लभताम्, अत्र प्रसादं विधेहीत्यर्थः । अथ च तादृशेऽपि साधने स्वयमेकवीरः सन् स्वविक्रमलेशेनापि सुकरेऽर्थे मामाज्ञापयितुं प्रसीदेत्यर्थः । मोघीकृतबाहुवीर्यत्वं विषयाकृष्टत्वेन निरुद्यमत्वात् । स्त्रीभ्योऽपि बिभेत्विति, किमतः परं क्लीबत्वं संपादयामीति भावः । अत्र प्रकरणे पञ्चाद्यानि पद्यान्यनन्यसाध्य- १४२ कुमारसम्भवे विषयाणि । षष्ठं शस्त्रसाध्यविषयम् । पञ्चस्वप्याद्यं प्रत्युपस्थितमूलहरापत्प्रतीकारविषयम्। द्वितीयं तथाविधैकदेशबाधकापत्प्रतीकारविषयम्, अधिकृतस्य मुमुक्षया तदधिकारवैकल्यात्। तृतीयं त्वद्यागतापत्प्रतीकारविषयं, स्वयमभियुञ्जानादपि विजिगीषुवृत्तप्रवृत्तात् स्वशक्त्युपचयकारिणः कस्माच्चिदात्माभिभवस्य शङ्कितत्वात् । तदनन्तरौ तु स्वसुखविषयाविति विषयभेदः । सुखादप्यसुखपरिहारे गौरवं तत्रापि प्रत्युपस्थिते विशेषः, तस्मिन्नपि मूलहर इति यथापूर्वं गौरवमिति क्रमो विवक्षितः ॥ ९ ॥ विवरणम् , एवं तावदनन्यसाध्यस्यार्थस्य प्राधान्यात् प्रथमं तद्विषयः प्रश्नः कृतः । अथ शस्त्रसाध्यं शत्रुविजयमप्यहमेव करिष्यामीत्याह- प्रसीदेति । वीर! त्वं प्रसीद । अत्र वीरेति सम्बुद्ध्या त्वद्भृत्येन मया विजितेष्वपि शत्रुषु तव वीरत्वहानिर्नास्तीति द्योत्यते । प्रसीद मयि प्रसादं कुरु । शत्रुविजयाख्ये कार्ये मामाज्ञापयेत्यर्थः । नन्वहं वज्रपाणिः, ततो मत्प्रतिपक्षनिग्रहार्थं किमर्थमहं त्वामाज्ञापयामीत्यत आह-वज्रं विश्राम्यतु इति । त्रिभुवनकण्टकोद्धरणार्थमनवरतप्रवृत्तिकं तव वज्रमात्मभारं मद्बाणेषु निधाय परिश्रमापनोदनार्थं कञ्चित् कालं विश्राम्यतु विश्रान्तिं लभताम् । ननु कुसुममात्रायुधस्त्वं कथं वज्रसाध्यं शत्रुविजयं करिष्यसीतीमामाशङ्कां शत्रुविजयप्रकारकथनेन परिहरति - कतमः सुरारिः मदीयैः शरैः मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि बिभेत्विति । कतमः ‘बा बहूनां जातिपरिप्रश्ने डतमच्’ ( ५.३.९३) । दैत्यराक्षसादीनां बहूनां जातिपरिप्रश्नस्यात्र विवक्षितत्वात्। सुराणामरिः सुरारिः मदीयैः मत्सम्बन्धिभिः शरैः बाणैः मोघीकृतबाहुवीर्यः मोघीकृतं निष्फलीकृतम्, अभूततद्भावे च्विः । बाहुवीर्यं बाह्वोर्वीर्यं यस्य तथाभूतः सन्, विषयाकृष्टतया निरुद्यमत्वान्निष्फलदोष्प्रतापो भूत्वा स्त्रीभ्योऽपि बिभेतु स्त्रीसकाशादपि भीतिमान् भवतु । किमतः परं तव रिपूणां क्लीबत्वं सम्पादयिष्यामीति भावः । स्त्रीणां भयजनकत्वमाह - कोपस्फुरिताधराभ्य इति । कोपेन निजशासनोलङ्घनसम्भवेन रोषेण स्फुरितः चञ्चलोऽधरो यासां तास्तथोक्ताः । रोषकृतेनाधरस्फुरणमात्रेणापि बिभेतु, किं पुनर्वचनादिनेति भावः ॥ ९॥ तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणे- धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ १० ॥ तृतीयः सर्गः प्रकाशिका १४३ अथ विकत्थनोदीर्णदर्पस्तैषां मन्त्रमजानन्नपि दैवात् तदभिमते परमदुस्साधेऽपि कार्ये स्वशक्त्युपन्यासं कुर्वन् सर्वातिशायितामात्मनः प्रकटयति- तव प्रसादादिति । तव प्रसादादित्यनौद्धत्येन प्रभुकोपपरिहारः । सहायापेक्षापि नात्यन्तमस्तीत्याह—सहायमिति । कुर्यामिति कुर्यामिति संभावनायां लिङ् । हरस्य धैर्यच्युतिकारितामपि मयि संभावयामीत्यर्थः । पिनाकपाणेः तादृशसाधनसमग्रस्य । हरस्य स्वयं चतुर्दशभुवनसंहर्तुरित्यर्थः । प्रचुरतमसे तत्संहर्त्रे हराय नमो नम’ इति वचनात्। अन्यद् दण्डापूपिकया सिद्धमित्याह — के ममेति । किं क्षेपे, अन्ये’ दूरनिरस्ता इत्यर्थः । अत्र साधनसहायपौष्कल्यलक्षणे कारणे असमग्रेऽपि साध्यभावलक्षणस्य कार्यस्य भाववचनाद् विशेषोक्तिरनुक्तनिमित्ता । निमित्तं च स्ववीर्यातिशयो ध्वन्यते। अनयोश्चेन्द्रकामयोः प्रतिनायकत्वाद् धीरोद्धतत्वमुप- पन्नम्॥ १० ॥ विवरणम् DATTE इत्थं विकत्थनोदीर्णदर्यः कन्दर्यस्तेषां मन्त्रमजानन्नपि परमदुस्साधेऽपि देवकार्ये स्वसामर्थ्यप्रकटनं कुर्वन् गर्वोद्धतः सर्वातिशायितामात्मनः प्रदर्शयति — तवेति । अहं कुसुमायुधोऽपि तव प्रसादाद् मधुम् एकमेव सहायं लब्ध्वा पिनाकपाणेः हरस्यापि धैर्यच्युतिं कुर्याम् । कुसुमायुधः कुसुममेवायुधं यस्य तथाभूतः सन्नपि । अनेनात्यन्तदुर्बलसाधनत्वमात्मनो दर्शितम् । ननु तथाविधस्य तव कथं तादृशे कार्ये सामर्थ्यमित्यत्राह - तव प्रसादादिति । तत्तादृशो हि प्रभूणां प्रभावः, यदेते नितान्तहीनबलमपि भृत्यं निजाज्ञया बलवत्तरं कुर्वन्ति । यथोक्तं शाकुन्तले- सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसां निहन्ता तं चेत् सहस्रकिरणो धुरि नाऽकरिष्यत् ॥ इति । अनेन वचनेनात्मप्रशंसानिमित्तकोपपरिहारार्थमौद्धत्यपरिहारः कृत इत्यवसेयम् । अस्मिन् कर्मणि सहायापेक्षापि नात्यन्तमस्तीत्याह — मधुमेकं सहायं लब्ध्वा इति । मधुं वसन्तम् एकं निस्सहायम् । एवशब्दः सहायान्तरनैरपेक्ष्यमेव द्रढयति । लब्ध्वा सम्प्राप्य । पिनाकपाणे, पिनाक इति हरचापस्य नाम । ‘पिनाकः शूलिनो धुनिरि’ ति ‘भोजः । पिनाकः पाणौ यस्य तस्य । अनेन हरस्य प्रबलसाधनत्वमुक्तम् । हरस्य, हरतीति हरेः, चतुर्दशभुवनसंहर्तुरपीत्यर्थः । प्रचुरतमसे तत्संहर्त्रे हराय नमो नमः'१४४ कुमारसम्भवे इति वचनात्। अपिशब्देन हरस्य लोकोत्तरत्वमुक्तम् । धैर्यस्य च्युतिं विश्लेषम् । कुर्यामिति सम्भावनायां लिङ् । इदानीमत्यन्तदुश्चरेऽपि तपसि वर्तमानस्य हरस्य धैर्यच्युतिमपि मयि सम्भावयामीत्यर्थः । धृतपिनाकस्य हरस्य जयेऽपि समर्थस्य ममान्येषां धन्विनां जयः पुनरीषत्कर एवेत्याहममान्ये धन्विनः के इति । अन्ये हरव्यतिरिक्ताः धन्विनः धनुष्मन्तः । ’ धन्वी धनुष्मान् धानुष्क’ इत्यमरः । के, किंशब्दः क्षेपे । न केऽपीत्यर्थः । अन्ये तृणसमाना एवेति भावः । अनेनान्यजयस्य दण्डापूपिकया सिद्धत्वमुक्तमित्यर्थापत्तिरलङ्कारः । दण्डापूपिकयार्थान्तरापातनमर्थापत्तिरिति । जयकारणानामायुधपौष्कल्यादीनामभावेऽपि जयोत्पत्तिवचनाद् विभावना च। कारणाभावे कार्योत्पत्तिर्विभावना चेति ॥ १० ॥ अथोरुदेशादवतार्य पाद- माक्रान्तिसम्भावितपादपीठः । सङ्कल्पितेऽर्थे विवृतात्मशक्ति- माखण्डलः काममिदं बभाषे ॥ ११ ॥ प्रकाशिका अथैवंविधया कामोक्त्या लब्धाश्वासस्येन्द्रस्य वृत्तमाह- अथेति । अत्र चेष्टाविशेषेणादरः प्रतीयते । सङ्कल्पितेऽर्थे विवृतात्मशक्तिमित्यादरे हेतुः । आखण्डलः काममिदमिति । एवं हि कार्यतत्त्वमिति भावः । आखण्डलशब्देन विश्वोत्तरत्वं, काममिति कान्तिमात्रसारत्वम्, वक्ष्यमाणवाक्यार्थपरामर्शिनानुवृत्तिपरत्वादि च ध्वन्यते ॥ ११ ॥ विवरणम् इदंशब्देन अथ निजमनोरथपूरणक्षमेणैवम्भूतेन मदनवचनेन जातप्रत्याश्वासस्व वृत्तजितः प्रवृत्तिमाह- अथेति । अथ आखण्डलः ऊरुदेशात् पादमवतार्य काममिदं बभाषे । अथ हरविषयसामर्थ्यप्रतिपादनानन्तरम् आखण्डल इन्द्रः, अत्राखण्डलशब्देन विश्वोत्तरत्वमिन्द्रस्य द्योत्यते । अखण्डमैश्वर्यं ज्ञानं वा लाति गृह्णातीत्यखण्डलः, स एवाखण्डलः। ‘अन्येषामपि दृश्यते’ (६.३.१३७) इति दीर्घः पृषोदरादिसूत्रेण वा । ऊरुदेशात् पादमवतार्य आदरातिशयात् प्रसादातिशयाच्च ऊरुदेशस्थितं पादमधः प्रसार्येत्यर्थः । कामं कामदेवम्, अनेनात्र कान्तिमात्रसारत्वमुक्तम् । कमु कान्ताविति धातुः अत्राखण्डलकामशब्दाभ्यां तयोः परस्परोपकारकत्वं सूचितम् । इदं वक्ष्यमाणं, तृतीयः सर्गः १४५ बभाषे उक्तवान्। आखण्डलं विशिनष्टि — आक्रान्तिसम्भावितपादपीठः इति । आक्रान्त्या आक्रमणेन स्वपादविन्यासेनेत्यर्थः, सम्भावितं सम्मानितं पादपीठं येन स तथोक्त। स्वस्मिन् स्वामिनः पादविन्यास एव हि पादपीठस्यानुग्रह इति भावः । कामविषयादरातिशये हेतुमाह – सङ्कल्पितेऽर्थे विवृतात्मशक्तिमिति । सङ्कल्पिते मन्त्रकुशलैर्देवैः सह सम्मन्त्र्य तैः सम्यक्कल्पिते व्यवस्थापितेऽर्थे परमेश्वरचित्ताकर्षणरूपे विवृता प्रकाशिता आत्मनः शक्तिः सामर्थ्यं येन । हृदयस्थितं कार्यतत्त्वमवधार्य तत्सम्पादननिपुणा हि भृत्याः प्रभूणामादरपदमिति भावः ॥ ११ ॥ सर्वं सखे! त्वय्युपपन्नमेत- दुभे ममास्त्रे कुलिशं भवाँश्च । पूर्वं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च ॥ १२ ॥ प्रकाशिका तत्र स्तुत्या तावदस्य वीर्यं सन्धुक्षयति- सर्वमिति । एतद् यत् त्वया शक्यत्वेनोक्तम् । अत्र हेतुमाह — उभे इति । तत्र विशेषमाह – पूर्वमिति । कुण्ठं गमनसाधनक्रिययोरक्षमम् । ‘कुण्ठो मन्दः क्रियासु य’ इति सिंहः । सर्वतः तपोवीर्यमहत्स्वपीत्यर्थः । अनेन तदुक्तत्यभ्युपगम कृतः ॥ १२ ॥ विवरणम् अथ स्तुत्या तस्य वीर्यं सन्धुक्षयन्नाह - , सर्वमिति । सखे! एतत् सर्वं त्वयि उपपन्नम्। हे सखे! आदरातिशयद्योतनार्थमिदमामन्त्रणम् । एतत् त्वदुक्तमर्थजातं सर्वं नैवात्र किञ्चिदर्थजातमनुपपन्नमस्तीति भावः । त्वयि उपपन्नं युक्तं, त्वदुक्तं सामर्थ्यं सर्वमपि त्वय्यस्त्येवेत्यर्थः । उपपन्नत्वमेवोपपादयति — मम उभे अस्त्रे इति । विद्येते इति शेषः । के पुनस्ते इत्यत्राह — कुलिशं भवांश्चेति । कुलिशं वज्रम् । तयोरेकमस्त्रं कुलिशम्, एकस्तु भवानेवेत्यर्थः । उभयोर्मध्ये कुलिशस्य न्यूनतामाह — पूर्वं तपोवीर्यमहत्सु कुण्ठमिति । पूर्वं पूर्वोक्तं वज्रं तपोवीर्यं तपश्शक्तिः तेन महत्सु लोकोत्तरेषु । अस्त्रप्रयोगो हि वीर्यवत्सु कर्तव्य इति वीर्यपदप्रयोगः । कुण्ठमशक्तं, तद्विषये गमने स्वार्थसाधने चासमर्थमित्यर्थः । कुण्ठो मन्दः क्रियासु य’ इति सिंहः । कामस्य व्यतिरेकमाह — त्वं सर्वतोगामि च साधकं चेति । त्वं त्वद्रूपमस्त्रं सर्वतोगामि सर्वतः तपोवीर्यमहत्स्वपि गन्तुं शीलमस्येति तथा । साधकं स्वार्थसाधकं १४६ कुमारसम्भवे च, न केवलं तत्प्राप्तिमात्रसमर्थम् अपि तु स्वकार्यभूततत्समाधिभङ्गसमर्थं चेत्यर्थः । अस्त्रापेक्षया सर्वतोगामिशब्दस्य साधकशब्दस्य च नपुंसकलिङ्गत्वमित्यवसेयम् । अनेन श्लोकेनानन्यसाध्ये शस्त्रसाध्ये च कर्मण्यहं कुशल इति यत् कामदेवेनोक्तं, तदेवानूदितमित्यवसेयम् ॥ १२ ॥ अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥ १३ ॥ प्रकाशिका यदहं त्वद्वीर्यं जानामि, तन्न केवलमनया मदुक्त्यावसेयम्, अपितु मत्प्रवृत्त्यापीत्याह— । अवैमीति । सारं बलम् । आत्मसमम् अनुरक्तं शुचिं चेत्यर्थः । एवमनुरक्तः शुचिर्दक्ष’ इति प्रधानगुणत्रयविशिष्टेऽमात्ये त्वयि स्थिते कमन्यमीदृशेऽर्थे नियोक्ष्य इति भावः । कर्त्रभिप्राये क्रियाफल आत्मनेपदम् । भूधरतामवेक्ष्य भूभारधारणक्षमं मत्वा ॥ १३ ॥ विवरणम् अपिच अहं ते सकलमपि वीर्यं जानामीति यदुक्तं, तत्र न केवलमुक्तिमात्रं प्रमाणम्, अन्यैरत्यन्तदुस्साधेऽर्थे मन्नियोगश्चेत्याह- १ अवैमीति । अहं ते सारम् अवैमि । सारं बलम् । ‘सारो बले स्थिरांशे च ’ इत्यमरः। अवैमि जानामि । किं तर्हि तत्र प्रमाणमित्यत्राह — अतः खलु अहं त्वां गुरुणि कार्ये नियोक्ष्ये इति । अतः त्वद्वीर्यज्ञानात्। खलुशब्दोऽवधारणे । त्वद्वीर्यज्ञानादेव हेतोरित्यर्थः । नह्यज्ञातशक्तयो भृत्याः प्रभुणा गुरुणि कार्ये विनियुज्यन्त इति भावः । गुरुणि अनन्यसाध्ये कार्ये कर्तव्येऽर्थे नियोक्ष्ये नियोगं करिष्ये। ‘स्वरितञितः कर्त्रभिप्राये - ’ (१.३.७२) इत्यात्मनेपदम् । अस्मादभीष्टसाधनाय हि त्वामहं नियोक्ष्ये, न तु परीक्षाद्यर्थमित्यर्थः । न केवलं तव वीर्यवत्त्वमात्रम्, अपि तु अनुरक्तत्वं निर्व्याजत्वं चास्तीत्याह - आत्मसममिति । आत्मनैव समं तुल्यम्। ‘तस्य दण्डवतो दण्डः स्वदेहान्त्र व्यशिष्यत’ (१७.६२) इति रघुवंशोक्तः प्रकारोऽनेन दर्शितः । ‘अनुरक्तः शुचिर्दक्ष’ इत्यादयोऽमात्यगुणाश्च प्रतिपादिताः । सर्वामात्यगुणविशिष्टे त्वयि स्थिते सति कमन्यमीदृशे कार्ये नियोक्ष्य तृतीयः सर्गः १४७ इति भावः । गुणावधारणमेवात्मार्थे नियोगे हेतुरिति यदुक्तं, तत् प्रतिवस्तूपमयोपपादयतिशेषः भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय व्यादिश्यत इति । शेषोऽनन्तः । भूधरतां भुवो भूमेः धरः धर्ता । धरतीति धरः, ‘धृञ् धारण’ इति धातोः पचाद्यचि रूपम्। भूधरस्य भावो भूधरता, ताम् । अवेक्ष्य ज्ञात्वा कृष्णेन विष्णुना देहोद्वहनाय त्रैलोक्याधिष्ठितस्यात्मशरीरस्योद्वहनायोद्धरणाय व्यादिश्यते नियुज्यते । अनन्तस्य पृथिवीधारणमवधार्यैव हि भगवता नारायणेनायमात्मनः शयनसाधनतां नीत इत्यर्थः ॥ १३ ॥ आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् । निबोध यज्ञांशभुजामिदानी- मुच्चैस्तरामीप्सितमर्थमत्र ॥ १४ ॥ प्रकाशिका नियोगश्च त्वयाङ्गीकृतप्राय एवेत्याह- आशंसतेति । आशंसता ईषद् ब्रुवता । ‘शंसु स्तुतौ’ इति धातुः, न तु आङः शसि इच्छायाम्’ इति, तस्यात्मनेपदित्वात् । आशंसते स्यादिच्छायां शंसतीति स्तुतौ भवेत् । हिंसायां शसतीच्छायामाशास्ते शास्ति शासने ॥ गध इति निघण्टुः । ईषद्वचनं च कर्तव्यतयानभिसंहितत्वात् । प्रतिपन्नकल्पं, न तु सर्वथा प्रतिपन्नम्, अस्माभिरनिवेदितत्वात्। तस्मादिदं निवेद्यत इत्याह — निबोधेति । उच्चैस्तरामितीप्साया विशेषणम् । उच्चैस्तिरामिति वा पाठः । अत्र वृषाङ्के । देवानामिदानीं यः सातिशयमीप्सितोऽर्थः तं परमेश्वरविषयमवगच्छेत्यर्थः ॥ १४ ॥ विवरणम् कुर्यां हरस्यापि पिनाकपाणेः (३.१०) इति वदता त्वया मन्नियोगः प्रायेणाङ्गीकृत एवेत्याह- आशंसतेति । वृषाङ्के बाणगतिम् आशंसता त्वया नः कार्यं प्रतिपन्नकल्पम् । वृषाङ्के वृषध्वजे बाणगतिं बाणस्य गतिं प्रवृत्तिम् आशंसता ईषद् ब्रुवता | ईषद्वचनमत्र तदेव देवकार्यमिति निश्चयाभावात् । ‘शंसु स्तुतौ’ इति धातोराङ्पूर्वस्य शत्रन्तमिदं रूपं न तु ‘आङः शसि इच्छायाम्’ इत्यस्य धातोः, तस्यात्मनेपदित्वात्। यथोक्तं देवेन- १४८ कुमारसम्भवे आशंसते स्यादिच्छायां शंसतीति स्तुतौ भवेत्। हिंसायां शसतीच्छायामाशास्ते शास्ति शासने ॥ इति । त्वया भवता नः कार्यं परवशीकरणरूपं प्रयोजनं प्रतिपन्त्रकल्पम् अङ्गीकृतप्रायं, न तु सर्वथैवाङ्गीकृतम्, अस्माभिरनुक्तत्वात् । अत एवाह - निबोधेत्यादिना । यज्ञांशभुजाम् इदानीम् उच्चैस्तराम् ईप्सितम् अर्थम् अत्र निबोध । अनेन तारकासुरनिमित्तयज्ञविप्लवनिवृत्त्यर्थोऽयं प्रयास इति सूचितम् । अत एवाहइदानीमिति। प्रवृद्धतारकासुरोपद्रवेऽस्मिन् काले । उच्चैस्तरामिति ईप्साविशेषणम् । सातिशयमीप्सितमित्यर्थः । अर्थं प्रयोजनम् अत्र वृषाङ्के विषये निबोध जानीहि । ‘बुध अवगमन’ इति धातोर्लोटि रूपम् । सर्वदा सर्वविषयाणामीप्सितानामस्माकं त्वमेव साधकः। इदानीमत्यन्तमीप्सितोऽर्थः परमेश्वरविषय इत्यवगच्छेत्यर्थः ॥ १४ ॥ अमी हि वीर्यप्रभवं हरस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातहार्यो तत् कथमित्याह— ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥१५॥ प्रकाशिका

अमी इति । हिशब्दोऽस्यार्थस्य पूर्वोक्तं प्रत्युपपादकत्वं द्योतयति । उशन्ति इच्छन्ति । तत्र का मय्यपेक्षेत्याह – स चेति । एकेति सुकरत्वं द्योतयति । ब्रह्मा अङ्गभूस्तनयो यस्य । तथाच पुराणसिद्धम् । वक्ष्यति च – ‘यमामनन्त्यात्मभुवोऽपि कारणम्’ (५.८१) इति । अनेन पूर्वमपि देवः पुत्रवानिति प्ररोचयति । तर्हि स एव देवः किं न प्रार्थित इत्याह — ब्रह्मणि प्रत्यगात्मनि योजितात्मा योगेनार्पितान्तःकरणः ॥ १५ ॥ हरविषयमभिलाषमेव स्फुटयति- विवरणम् अमी इति । अमी देवाः जयाय हरस्य वीर्यप्रभवं सेनान्यम् उशन्ति हि । अमी देवाः, ये त्वत्प्रसादकाङ्क्षयात्र तिष्ठन्तः । जयाय तारकासुरविजयाय हरस्य जगत्संहर्तुः परमेश्वरस्य। अनेन तत्सुतस्य शत्रुनिग्रहसामर्थ्यं ध्वन्यते । वीर्यप्रभवं वीर्याद् रेतसः प्रभव उद्भवो यस्य तं सेनान्यं सेनानायकम् उशन्ति इच्छन्ति । ‘वश तृतीयः सर्गः १४९ कान्तौ’ इति धातुः । ’ ग्रहिज्या – ’ ( ६.१.१६) इत्यादिना संप्रसारणम् । अस्यार्थस्य पूर्वोक्तमर्थं प्रत्युपपादकत्वं द्योतयितुं हिशब्दः । अत्र किं मया कर्तव्यमित्याह — स च त्वदेकेषुनिपातहार्य इति । सः हरः । चशब्देनास्य चित्ताकर्षणमन्यैरशक्तमिति द्योत्यते। सोऽपीत्यर्थः । त्वेदेकेषुनिपातहार्यः त्वया एकस्यैवेषोर्निपातेन निपतनेन हार्य ः हर्तुं शक्यः । एकशब्देनात्र त्वया सुकरोऽयमर्थ इति द्योत्यते । चशब्दोक्तं हरस्य विशेषमेवाह — ब्रह्माङ्गभूरिति । ब्रह्मा सकलजगन्निर्माणकर्मठो विधिरेवाङ्गभूस्तनयो यस्य स तथा । श्रुतिप्रसिद्धश्चायमर्थः । वक्ष्यति च - ‘यमामनन्त्यात्मभुवोऽपि कारणमिति । पुराणपुरुषे तस्मिन्नन्ये प्रयासा निरर्थका एवेत्यर्थः । पुनरपीदानीमस्ति विशेष इत्याह — ब्रह्मणि योजितात्मेति । ब्रह्मणि परमात्मनि योजितः एकीभावमापादितः आत्मा जीवात्मा येन स तथा । जीवपरैक्यमवगम्य स्थित इत्यर्थः । अनेन तपोवीर्यमहत्त्वमुक्तम् । तेन चान्यैरसाध्यत्वं द्योत्यते । मदनेन साध्यत्वं तु ‘त्वं सर्वतोगामि च साधकं च ’ ( ३.१३)इत्यत्रोक्तम्॥ १५ ॥ तस्मै हिमाद्रेः प्रयतां तनूजां

यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्॥१६॥ प्रकाशिका उपायोऽपि तत्र कथ्यत इत्याह- तस्मा इति । तस्मा इति ‘रुच्यर्थानां प्रीयमाणः ’ (१.४.३३) इति चतुर्थी । हिमाद्रेरिति प्रयतामिति च परमेश्वरयोग्यतां द्योतयतः । यतस्वेत्यत्र हेतुः — यतात्मन इति । अन्यां किन्नेत्याह — योषित्स्विति ॥ १६ ॥ विवरणम् ननु मया हरः कस्या योषितो वशं नेतव्य इत्यत्राह -

तस्मा इति । हिमाद्रेः तनूजां तस्मै रोचयितुं यतस्व । हिमाद्रेः हिमवतः तनूजां पुत्रीम् । अनेनाभिजात्ययुक्ततया पार्वत्याः परमेश्वरयोग्यता दर्शिता । तस्मै हराय । ‘रुच्यर्थानां प्रीयमाणः ’ (१.४.३३) इति सम्प्रदानसंज्ञा । रोचयितुं हरस्य तस्यां रुचिमुत्पादयितुमित्यर्थः । यतस्व यत्नं कुरु । ननु किमर्थं यतस्वेत्युक्तं, न रोचयेति । अत आह— यतात्मन इति । यतः संयतः आत्मा अन्तःकरणं येन तस्मै । १५० कुमारसम्भवे विषयव्यावृत्तचित्तायेत्यर्थः । स्वगुणैरपि पार्वत्याः परमेश्वरयोग्यतामाह —प्रयतामिति । परिशुद्धान्तःकरणामित्यर्थः । किमर्थमस्यान्यस्यां रुचि नोत्पादयेयम्, अत आह— योषित्सु तद्वीर्यनिषेकभूमिः सा एव क्षमा इति आत्मभुवा उपदिष्टमिति । योषित्सु स्त्रीषु तस्य हरस्य वीर्यनिषेकस्य रेतस्सेचनस्य भूमिः अधिकरणं सा पार्वत्येव क्षमा योग्या, नान्याः स्त्रियः । स्त्रीणां मध्ये सैव हरवीर्यनिषेकाधिकरणत्वयोग्येत्यर्थः । नन्वत्र किं प्रमाणमित्यत्राह — इत्यात्मभुवोपदिष्टमिति । साक्षात् परमेष्ठिनैवोपदिष्टोऽयमर्थ इत्यर्थः । नास्य कदाचिदप्यन्यथात्वं भविष्यतीति भावः ॥ १६ ॥ गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥ १७ ॥ प्रकाशिका तयोस्तु परिचयः प्रवृत्त एवेतयाह- गुरोरिति । अन्वास्ते उपास्ते । ननु स्त्रीवचसि कथं प्रत्यय इत्याहमत्प्रणिधिरिति ॥ १७॥ विवरणम् ननु हिमाद्रौ वर्तते सा पार्वती, हरस्तु कैलासशिखरे । अतः कथं तयोः परस्परसन्दर्शनोपपत्तिः, कथं वा च परस्परसन्दर्शनेन विना रुचिमुत्पादयेयमित्यत्राह- गुरोरिति । नगेन्द्रकन्या अधित्यकायां तपस्यन्तं स्थाणुं गुरोः नियोगाद् अन्वास्ते इति मया अप्सरसां मुखेभ्यः श्रुतं च । नगेन्द्रकन्या पार्वती अधित्यकायां हिमवच्छिखरे। ‘उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका’ इत्यमरः । तपस्यन्तं तपश्चरन्तं स्थाणुं हरं गुरोः पितुः नियोगाद् निदेशाद् अन्वास्ते उपास्ते इति उक्तप्रकारेण अप्सरसामप्सरः स्त्रीणां मुखेभ्यः, अप्सरसां वचनादित्यर्थः । बहूनामप्सरसां मुखेभ्यो बहु श्रुतमिति बहुवचनस्यार्थः । इदं च निर्णये हेतुः । चकारः पूर्वोक्तसमुच्चयार्थः । नन्वनृतवादिन्यो हि स्त्रियः, अतः कथं तद्वचस्सु विश्वासः । अत आह— सः वर्गः मत्प्रणिधिः इति । स वर्गः अप्सरसां गणः मत्प्रणिधिः मम प्रणिधिः गूढपुरुषः । ‘यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पश’ इत्यमरः । चारवचस्सु विश्वासो युक्त एव ‘चारैः पश्यन्ति राजान’ इत्युक्तत्वात्॥ १७ ॥ 1 उपसंहरति— तृतीयः सर्गः तद् गच्छ सिद्धयै कुरु देवकार्य- मर्थोऽयमर्थान्तरभाव्य एव । अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्करः प्रागुदयादिवाम्भः ॥ १८॥ ॥ १। प्रकाशिका तदिति । तत् तस्माद्यस्मादीदृशोऽर्थः, स चोपायः, स चोपायः, १५१ उपायस्य चोपस्थितत्वम्। सिद्ध्यै गच्छ त्वद्गमनं सिद्धये भूयात् । कुर्विति नियोगः । ननुः देवीसन्निधिरेव तत्समाधिभङ्गायालमित्याह — अर्थ इति । अर्थान्तरेण देवीसन्निधानादिना भाव्यः साध्यः । प्रत्ययं हेतुम् । ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’ इत्यमरः । अत्र दृष्टान्तमाह — बीजाङ्कुर इति । यथा मृत्संयोगादिकारणान्तरसमवधानेऽपि बीजाङ्कुरः स्वोदयाय प्रधानकारणमम्भोऽपेक्षते, तथा देवीसन्निधानेऽपि त्वामयमर्थ इत्यर्थः ॥ १८ ॥ प्रकृतमुपसंहरति- विवरणम् तदिति । तत् त्वं सिद्ध्यै गच्छ । तद् यस्मात् सेनानीलाभरूपं देवकार्यं पार्वतीपरमेश्वरसङ्गममात्रलभ्यं, पार्वती च पितृनियोगात् परमेश्वरसन्निधावेव वर्तते, तस्मादित्यर्थः । अनेन सिद्धेः कालप्राप्तिरुक्ता । सिद्ध्यै कार्यसिद्ध्यर्थं गच्छ गमनं कुरु। त्वद्गमनं सिद्ध्ये भूयादित्याशीर्वादोऽनेन वाक्येन विवक्षितः । ‘अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते’ (३.३) इत्यत्राभ्यर्थितामाज्ञामेव करोति — देवकार्यं कुरु इति । देवानां कार्यं देवकार्यम्। तच्च परमेश्वरवशीकरणरूपम्। कुरु विधेहि । ननु यदि देवसन्निधावेव देवी विद्यते, तर्हि सा स्वभावसुभगया निजशरीरसुषमयैव देवहृदयमाक्रष्टुं क्षमा किमस्मद्गमनेन । अत आह— अर्थान्तरभाव्य एवायम् अर्थः उत्तमं त्वाम् अपेक्षत इति । अर्थान्तरभाव्यः अर्थान्तरेण त्वद्व्यतिरिक्तेन देवीसन्निधानादिलक्षणेन भाव्य उत्पाद्य एव सन्नपि । एवशब्दः कामदेवस्य प्रयासाधिक्यं वारयति । अयं हरवशीकरणरूपः अर्थः प्रयोजनम्। ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि’त्यमरः । उत्तमं प्रकृष्टं प्रत्ययं हेतुम्। ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’ इत्यमरः । त्वाम् अपेक्षते आकाङ्क्षति । हरचित्ताकर्षणरूपं देवकार्यं देवीसन्निघानादिभिः साध्यमपि प्रकृष्टकार णत्वे न त्वां १५२ कुमारसम्भवे प्रतिपालयतीत्यर्थः । त्वत्प्राप्त्यनन्तरमेवान्येषां साधनानां सफलत्वमिति भावः । अत्रोपमां दर्शयति — बीजाङ्कुरः उदयात् प्राग् अम्भः इवेति । बीजाङ्कुरः, कलमादिबीजानामङ्कुरः । ‘अङ्कुरोऽभिनवोद्भिदी’त्यमरः । उदयात् प्राक् स्वोद्भवात् पूर्वम् अम्भः जलमिव। नहि जलसेकमन्तरेण क्षितिवपनादिसंयुक्ताद् बीजादङ्कुरोत्पत्तिरिति भावः ॥ १८ ॥ अस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । अप्यप्रसिद्धं यशसे हि पुंसा- मनन्यसाधरणमेव कर्म ॥ १९ ॥ प्रकाशिका एवं नियुज्य त्रिभिः श्लोकैः पुनस्तमुद्धर्षयति- अस्मिन्निति । नाम सम्भावनायाम् । अत्र न त्वदन्यस्यास्त्रव्यापारः सम्भाव्यते । तस्मात् त्वं धन्य इत्यर्थः । उपपादयति — अपीति । अप्रसिद्धमपि किमुत प्रसिद्धमीदृशं कर्मेत्यर्थः ॥ १९ विवरणम् इत्थं कामदेवं नियुज्य तमेव प्रोत्साहयत्यस्मिन्नित्यादिना श्लोकत्रयेण -

अस्मिन्निति । सुराणाम् अस्मिन् विजयाभ्युपाये तवैव अस्त्रगतिः नाम । सुराणां देवानाम् अस्मिन् इदानीं विचार्य कल्पिते विजयाभ्युपाये विजयस्तारकासुरजयः, तत्राभ्युपायश्च सेनानीलाभाय परमेश्वरचित्ताकर्षणं, तत्र । तवैवास्त्रगतिः अस्त्राणां प्राप्तिः, नान्येषामित्यर्थः । नामशब्दः सम्भावनायाम् । अस्मिन् कर्मणि तवैवास्त्रगतिः सम्भाव्यत इत्यर्थः । ततः किमित्यत्राह – त्वं कृती । कृती धन्य इत्यर्थः । धन्यत्वमेवोपपादयति — अनन्यसाधारणमेव कर्म अप्रसिद्धमपि पुंसां यशसे इति । अनन्यसाधारणम् अन्येषां साधारणं समानं न भवतीति अनन्यसाधारणम् एवशब्दः साधारणत्वलेशस्याप्यभावमाह । अन्यैः कदाचिदपि कर्तुमशक्यं कर्मेत्यर्थः । अप्रसिद्धं प्रसिद्धिरहितमपि पुंसां पुरुषाणां यशसे यशः सम्भावयितुं समर्थं भवतीत्यर्थः । अप्रसिद्धं यत्किञ्चित् कर्मापि तस्यैव सामर्थ्यमिति व्यवस्थिते सति पुंसां यशस्करं भवति । परमेश्वरचित्ताकर्षणलक्षणमिदं तु कर्मान्यैर्दुष्करं सुप्रसिद्धं चेति भवानतिमहतो यशसो भाजनं भविष्यत्येवेति भावः ॥ १९ ॥ तृतीयः सर्गः सुराः समभ्यर्थयितार एते कार्य त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्र- महो यथासि स्पृहणीयवीर्यः ॥ २० ॥ प्रकाशिका न केवलं भावियशोभाजनतया धन्यस्त्वं किन्त्विदानीमपि धन्य एवेत्याह- , १५३ सुरा इति । सुराः स्वयं वरदाः । त्रयाणामपीति सङ्ख्याश सन्निकर्ष उपादीयमानोऽपिशब्दः सङ्ख्येयस्य सजातीयान्तरं व्यवच्छिनत्ति । नातिहिंस्रमिति तपोमात्रहिंसामनुजानाति । यथाशब्दो योग्यतायाम् । तस्माद् युक्तमेव स्पृहणीयशक्तिरसीत्यर्थः । क्षीरस्वामी तु ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत’ इति सन्तोष उदाहृतवान् ‘बतासि स्पृहणीयवीर्य’ इति पाठेन ॥ २० ॥ विवरणम् न केवलं भवतो भावियशोभाजनतया धन्यत्वम्, अपि तु इदानीमपि त्वं धन्यएवासीत्याह- सुरा इति । एते सुराः समभ्यर्थयितारः । एते सगौरवं त्वन्मुखमेवावलोक्य परितो वर्तमानाः सुराः देवाः समभ्यर्थयितारः सम्यगभ्यर्थयितारः याचितारः । याचने सम्यक्त्वं गत्यन्तराभावात् । ये देवाः सर्वेषामपि लोकानां वरदाः, ते त्वामभ्यर्थयन्त इत्यर्थः । प्रयोजनं तु न केवलं देवानामेवेत्याहत्रयाणामपि विष्टपानां कार्यमिति । त्रयाणामपीत्यपिशब्देन लोकान्तरव्यवच्छेद उक्तः । तारकासुरपरिभूताः सर्वेऽपि लोकास्त्वयैवानुग्राह्याः सञ्जाता इत्यर्थः । इत्यर्थः। एवं सर्वलोकानुग्रहे क्रियमाणे प्राणिहिंसा— जनितोऽपि दोषस्तव न सम्भवतीत्याह - ते चापेन कर्म अतिहिंस्रं न चेति । ते तव चापेन धनुषा क्रियमाणं कर्म अतिहिंस्रम् अत्यन्तहिंसाशीलं न च। सर्वेषामपि चापेन क्रियमाणं कर्म शरीरनाशकत्वेन हिंस्रमेव भवति । तव तु तपोमात्रहिंसया नात्यन्तहिंस्रमिति भावः । फलितमाह — त्वं स्पृहणीयवीर्यः असि अहो बत इति । स्पृहणीयमभिलषणीयं वीर्यं यस्य स तथा । ममाप्येवंविधं वीर्यं भूयादिति सर्वैरप्यभिलषणीयवीर्योऽसीत्यर्थः । अभिनन्द्यवीर्योऽसीति वा । अहो इति विस्मये। बतेति सन्तोषे । ‘अहो हि च विस्मये’ इति, ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत’ इति च सिंहः । त्वद्वीर्यस्वरूपनिरूपणावस्थायां ममापि विस्मयसन्तोषौ जायेते इत्यर्थः । ‘अहो यथासी’ति पाठे यथाशब्दो योग्यतायाम् । युक्तमेव स्पृहणीयवीर्योऽसीत्यर्थः ॥ २० ॥१५४ कुमारसम्भवे मधुश्च ते मन्मथ ! साहचर्या- दसावनुक्तोऽपि सहाय एव । समीरण श्रोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥२१॥ प्रकाशिका यच्चोक्तं ‘सहायमेकं मधुमेव लब्ध्वा (३.१० ) इति, तदपि ते न प्रार्थ्यमित्याहमधुरिति । साहचर्यात् सख्यादित्यर्थः । समीरणः केन व्यादिश्यत इत्यन्वयः । अनयोक्तिभङ्गया वसन्तस्य नियोग इति पर्यायोक्तम् ॥ २१ ॥ विवरणम् अपिच सर्वेषां सर्वेषु कर्मसु भवता ममास्मिन् कर्मणि सहायेन भवितव्यमित्यभ्यर्थिताः सन्तोऽपि प्रत्युपकारलिप्सयैव बन्धवोऽपि सहायतां प्रतिपद्यन्ते । तव तु ‘सहायमेकं मधुमेव लब्ध्वा (३.१०) इत्यत्रोक्तो मधुरुक्तिमात्रमपि नापेक्षते । तस्माद् धन्य एवासीत्याह- मधुरिति । मन्मथ ! असौ मधुः च साहचर्याद् अनुक्तः अपि ते सहायः एव । मन्मथ ! हे मदन ! असौ तव समीप एव वर्तमानः मधुर्वसन्तः अपिशब्दार्थे चकारः । यस्त्वया पूर्वं पुरारिविजये सहायतया निर्दिष्टः, सोऽपीत्यर्थः । सहैव चरतीति सहचरः, तस्य भावः साहचर्यं तस्मात् सख्यादित्यर्थः । अनुक्तोऽपि अनियुक्तोऽपि । अनेन साहचर्यस्य स्वाभाविकत्वमुक्तम् । तच्च वचनानपेक्षत्वे हेतुः । अत्र प्रतिवस्तूपमामाह — त्वं हुताशनस्य चोदयिता भव इति समीरणः केन व्यादिश्यते इति । हुताशनस्य अग्नेः चोदयिता प्रेरको भव । व्यादेशप्रकारश्चायम् । अत एवाहइतीति। उक्तप्रकारेणेत्यर्थः । व्यादिश्यते नियुज्यते, न केनापीत्यर्थः । अत्रोक्तिभङ्गया वसन्तस्य नियोग एवोक्त इति पर्यायोक्तमलङ्कारः । तेन च प्रतिवस्तूपमायाः संसृष्टिः ॥ २१ ॥ तथेति शेषामिव भर्तुराज्ञा- मादाय मूर्ध्ना मदनः प्रतस्थे । ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥२२॥ रिक तृतीयः सर्गः १५५ नियुक्तस्य वृत्तान्तमाह- प्रकाशिका तथेति । तथाशब्दोऽभ्युपगमे । शेषां माल्यादिदानम् । ‘माल्याक्षतादिदाने स्त्री शेषे ‘ति केशवः । प्रतस्थे गन्तुमारभत । आस्फालनमुद्घर्षणार्थं गजाश्वानाम् । हस्तविशेषणं स्पर्शश्लाघ्यताङ्गम् । तदङ्गम्, अर्थात् प्रणामसमये ॥ २२ ॥ विवरणम् अथ महेन्द्रेण तथा नियुक्तस्य मदनस्य प्रवृत्तिमाह- तथेति । मदनः भर्तुः आज्ञां शेषामिव तथा इति मूर्ध्ना आदाय प्रतस्थे । मदनः कामदेवः भर्तुः स्वामिनः आज्ञां नियोगं शेषां माल्याक्षतादिदानम् । ‘माल्याक्षतादिदाने स्त्री शेषा’ इति केशवः । तामिव । तथेत्यभ्युपगमवाचकमव्ययम् । मूर्ध्ना नम्रण शिरसा । आदाय स्वीकृत्य । प्रतस्थे गन्तुमारेमे । अत्राज्ञायाः शेषोपमया मदनस्य तस्यामादरातिशय उक्तः । मदनो महेन्द्राज्ञां प्रस्थानादिसमये बन्धुभिर्दीयमानं माल्याक्षतादिकमिव शिरसा समादाय प्रस्थानोद्यमं चकारेत्यर्थः । शेषां चाज्ञां चादायेति वा। अभ्युपगतनियोगं मदनं प्रति महेन्द्रस्यादरातिशयमाह – इन्द्रः तदङ्गं हस्तेन पस्पर्शेति । इन्द्रो देवेन्द्रः तदङ्गं तस्य मदनस्य अङ्गं शरीरं हस्तेन पस्पर्श हस्तेनैव स्पृष्टवान्। अर्थात् प्रणामसमय इति सिध्यति । महेन्द्रहस्तस्य विशेषमाहऐरावतास्फालनकर्कशेनेति । ऐरावतस्य आत्मनो वाहनभूतस्य गजस्य आस्फालनेन । गजाश्वानां युद्धारम्भादावुद्घर्षणार्थं यदाहननं तदिहास्फालनशब्देनोच्यते । तेन कर्कशेन कठिनेन । अनेन विशेषणेनात्रापि स्पर्शनस्योद्घर्षणार्थत्वं द्योत्यते ॥ २२ ॥ स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्ययप्रार्थितकर्मसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥ २३ ॥ प्रकाशिका स इति । अभिमतेनाभिमानविषयभूतेन । अस्मिन् सति किं मे दुर्लभमित्यभिमानः । साशङ्कं किं भविष्यतीति सभयम् । तच्च तस्याः परमेश्वरप्रभावज्ञत्वेन, तच्च पतिव्रतात्वात् । तत एव चानुयानम्, एवंविधेऽस्य जीवितसंशये नैनं जह्यामिति। अङ्गव्ययार्थं वस्तुतः शरीरनाशः प्रयोजनं यथा भवति तथा प्रार्थिता कर्मसिद्धिर्येन । अनेन तस्यानात्मज्ञतां कविः सोपहासमनुसन्धत्ते ॥ २३ ॥ १५६ कुमारसम्भवे विवरणम् अथ प्रस्थितस्य मदनस्य हरपदप्राप्तिमाह- स इति । सः हैमवतं स्थाण्वाश्रमं जगाम । सः मदनः हैमवतं हिमवत्सम्बन्धि, हिमवत्प्रस्थगतमित्यर्थः। स्थाणोः शिवस्य आश्रमं जगाम गतोऽभूत्। परमेश्वरपदप्राप्तौ मदनस्य सहायसमृद्धिं दर्शयतिअभिमतेन सख्या माधवेन अनुप्रयातः इति। अभिमतेन अभिमानविषयभूतेन । अस्मिन् सुहृदि मम सन्निधौ वर्तमाने किं मया दुष्करमित्यभिमानस्य पात्रभूतेनेति यावत् । सख्या बन्धुना माधवेन वसन्तेन अनुप्रयातः अनुगतः । पतिदेवता रतिश्च नैनं तत्याजेत्याह - रत्या चेति । अनुप्रयात इति योज्यम्। रतेरनुप्रयाणे हेतुमाह – साशङ्कमिति । अनुप्रयाणक्रियाविशेषणं चेदम् । आशङ्कासहितं यथा भवति तथा अनुप्रयात इत्यर्थः । अत्र पतिव्रतात्वात् परमेश्वरप्रभावज्ञानं, तेन च परमेश्वरतपोविघ्नमाचरन्नयं मे भर्ता कथं भविष्यतीत्याशङ्का, तया चानुप्रयाणम् । एवंविधे महति जीवितसंशये नैनमहं जह्याम् । यद्यसावसून् परित्यक्ष्यति, तर्हि तदैव मत्प्राणनाथमनुकर्तुमनुजानातु मां परमेश्वर इत्यादिचिन्ताकुलया रत्या च शनैः शनैरनुगत इत्यर्थः । अथ कवीश्वरः परमेश्वरतपोविघाताय प्रवृत्तस्य मदनस्याज्ञतां स्वयमेव सोपहासमनुसन्दधाति - अङ्गव्ययप्रार्थितकर्मसिद्धिरिति । अङ्गव्ययः शरीरनाशः, तदर्थमेव प्रार्थिता अभ्यर्थिता कर्मणः स्वव्यापारस्य सिद्धिः हरसमाधिभङ्गलक्षणं फलं येन स तथा । यः सकृदपि ध्यातः कीर्तितो वा जन्मसहस्रसञ्चितमपि पापमपहाय मुक्तिमेव प्रयच्छति, यो वा स्वपरिपन्थिनस्त्रिपुरादीनपि क्षणेन भस्मसादकरोत् तस्य देवस्य समाधिभङ्गे प्रवृत्तस्य मदनस्य स्वशरीरनाशादन्यत् किं वा फलं भविष्यति । तस्मादङ्गव्ययार्थमेवास्य तत्समाधिभङ्गाकाङ्क्षा । अहो महानस्य मोहातिशय इति भावः ॥ २३ ॥ तस्मिन् वने संयमिनां मुनीनां तपःसमाधिप्रतिकूलवृत्तिः । सङ्कल्पयोनेरभिमानभूत- तत्र मधोर्वृत्तिमाह— मात्मानमादाय मधुर्जजृम्भे ॥२४॥ प्रकाशिका तस्मिन्निति । संयमिनां जितेन्द्रियाणाम्। तपसि समाधिरेकाग्रता । सङ्कल्प- योनेरभिमानभूतम् । अत्र पुराणवचनं- तृतीयः सर्गः सङ्कल्पप्रभवं कामं रतिं प्रीत्यभिमानिनीम् । अभिमानात्मकं तस्य मधुं मदनविग्रहम् ॥ आराधयेयुः क्षितिपाः सस्त्रीका रूपकाङ्क्षिणः । १५७ इति । आत्मानमृतुविशेषात्मकं स्वभावमित्यर्थः । जजृम्भे पल्लवकुसुमादिस्वलिङ्गबाहुल्येन प्रकटोऽभूदित्यर्थः ॥ २४ ॥ विवरणम् अथ कामप्रवृत्तेरुद्दीपनपूर्वकत्वाद् ’ उद्दीपनानि माल्यर्तुचन्दनेन्दूदयादयः ।’ इति वसन्तस्याप्युद्दीपनत्वादादौ तत्प्रवृत्तिमाह तस्मिन्नित्यादिभिर्दशभिः श्लोकैः तस्मिन्निति। मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आदाय तस्मिन् वने जजृम्भे। मधुर्वसन्तः सङ्कल्पयोनेः कामस्य अभिमानभूतं, तस्मिन् सति किं मया दुष्करमित्यभिमानमेव मूर्तिमवलम्ब्यावस्थितमित्यर्थः । अत्र पुराणवचनं— सङ्कल्पप्रभवं कामं रतिं प्रीत्यभिमानिनीम् । अभिमानात्मकं तस्य मधुं मदनविग्रहम् ॥ आराधयेयुः क्षितिपाः सस्त्रीका रूपकाङ्क्षिणः । इति। आत्मानं स्वरूपम् आदाय स्वीकृत्य, ऋतुस्वभावमादायेत्यर्थः । तस्मिन् वने स्थाणुतपोवने वनशब्देन वसन्तविजृम्भणाधिकरणत्वयोग्यतां दर्शयति । जजृम्भे मदनहृदयानुरूपं स्वरूपमादाय हरतपोवने कुसुमपल्लवकोकिलकूजितादिलिङ्गबाहुल्येन प्रकटोऽभूदित्यर्थः । मधोः स्वभावमाह - संयमिनां मुनीनां तपः समाधिप्रतिकूलवृत्तिरिति । संयमो निगृहीतेन्द्रियत्वमस्त्येषामिति संयमिनः, तेषां जितेन्द्रियाणामित्यर्थः । मुनीनां महर्षीणां तपसि यः समाधिः चित्तैकाग्र्यं तस्य प्रतिकूला विरोधिनी वृत्तिर्यस्य स तथा । अनेन मधोर्मुनिसामान्यसमाधिभेदनसामर्थ्यप्रतिपादनेन परमेश्वराकर्षविषयः प्रयासो निष्फल एवेति व्यज्यते । अन्यथा मुनिशब्दमपहाय तपः समाधिप्रतिकूलवृत्तिरित्येवोच्येत ॥ २४ ॥ कुबेरनाथां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य। दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥२५॥ १५८ तत्प्रकारमाह- कुमारसम्भवे प्रकाशिका कुबेरनाथामिति । समयं गमनकालम् । मुखेन पुरोभागेन । व्यलीकमपराधः । अत्रोदीच्यां परपरिग्रहभूतप्रतिनायिकात्वम्, उष्णरश्मौ नायकत्वं गमने नायकव्यापारविशेषः, नियतकालविलङ्घने संविद्विलङ्घनम्, अवाच्यां खण्डितनायिकात्वं चारोप्यत इति समासोक्तिः । तन्मूला चेयं गन्धवहे व्यलीकनिःश्वासोत्प्रेक्षा । मुखोपचारश्च तदङ्गम्। न चात्रोपमा युक्ता, नायिकात्वाद्यारोपस्याध्यवसायं प्रत्युनुकूलत्वाद्, अध्यवसायश्चोत्प्रेक्षेति ॥ २५ ॥ विवरणम् अथ वसन्तागमनकोलाहलं सविस्तरं वक्तुमुपक्रान्तः प्रथमं मलयमारुतप्रवृत्तिं वर्णयति- कुबेरेति । उष्णरश्मौ समयं विलङ्घय कुबेरनाथां दिशं गन्तुं प्रवृत्ते दक्षिणा दिग् मुखेन गन्धवहम् उत्ससर्ज । उष्णा रश्मयः किरणाः यस्य तस्मिन् आदित्ये समयं पूर्वव्यवस्थापितं गमनकालं विलङ्घय अक्रमेण वसन्तागमनादतिक्रम्य । कुबेरो वैश्रवणो नाथोऽधिपो यस्याः ताम् उत्तरां दिशं गन्तुं प्रवृत्ते गमनाय कृतसन्नाहे सति दक्षिणा दिग् मुखेन पुरोभागेन । गन्धं बहतीति गन्धवहो वायुः तम् उत्ससर्ज उत्सृष्टवती । अत्रोत्प्रेक्षते - व्यलीकनिःश्वासमिवेति । व्यलीकमपराधः । ‘पीडार्थेऽपि व्यलीकं स्यादित्यमरः । अपिशब्दादपराधेऽपि तद्व्याख्या । प्रियतमकृतापराधनिमित्तं दीर्घनिःश्वासमिव। अत्र कुबेरनाथामिति विशेषणेन स्त्रीलिङ्गत्वेन च परपरिग्रह - भूतप्रतिनायिकात्वमुदीच्यां प्रतीयते । समयं विलङ्घय गन्तुं प्रवृत्त इत्यनेन उष्णरश्मौ तथाविधनायकत्वम् अत एव दक्षिणस्यां दिशि खण्डितनायिकात्वं चेति समासोक्तिः । नायकपक्षे समयशब्दः संविद्वाचकः । ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः । समासोक्तिमूला च गन्धवहे व्यलीकनिःश्वासोत्प्रेक्षा । मुखोपचारः पुनरङ्गमुत्प्रेक्षायाः । अत्रोत्प्रेक्षासमासोक्त्योः सङ्करः । ‘विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्ति’ रिति तल्लक्षणम् ॥ २५ ॥ असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनपुरेण ॥ २६ ॥ तृतीयः सर्गः प्रकाशिका pow १५९ असूतेति । सद्यः अक्रमात् । स्कन्धात् प्रभृति, सर्वत इत्यर्थः । ’ ततः प्रभृती ‘ति भाष्यकारवचनात् प्रभृतिशब्दयोगे पञ्चमी । सपल्लवानि, ‘कुसुमजन्म ततो नवपल्लव’ इति [ रघु. ९.२६] क्रमो नात्रासीदित्यर्थः । पादेनेति । अन्यदा ऋतोः क्रमादाप्या-य्यमानवलत्वेन सहकार्यपेक्षा स्यात् । इदानीं तु सद्य उपलब्धबलत्वे सा नासीदित्यर्थः। पादविशेषणेन इतिकर्तव्यताविशिष्टपादसम्पर्ककार्यत्वं पुष्पोद्गमस्य ध्वनितम्। अत्र पादसम्पर्कक्रियानिषेधेऽपि प्रसिद्धतत्कार्यभूतपुष्पोद्गमविभावनाद् . विभावनात्रालङ्कारः ॥२६॥ अथाशोकपुष्पोद्गमं वर्णयति— विवरणम् असूतेति । अशोकः सद्यः स्कन्धात् प्रभृत्येव कुसुमानि असूत । अशोकः अशोकतरुः सद्यः अक्रमं स्कन्धात् प्रभृति स्कन्धदेशादारभ्य, सर्वत इत्यर्थः । आदौ शाखाग्रे काचिन्मञ्जरी सञ्जाता, पुनश्च शाखान्तर इत्यादिक्रममतिक्रम्य स्कन्धदेशादारभ्य सर्वेष्वप्यवयवेषु युगपदेव कुसुमानि बभूवुरित्यर्थः । ’ ततः प्रभृती ‘ति भाष्यकारवचनात् प्रभृतिशब्दयोगे स्कन्धादिति पञ्चमी । एवशब्देन कुसुमपल्लवरहितस्यांशस्याभाव उक्तः । कुसुमानि पुष्पाणि असूत उत्पादितवान् । अपिच ‘कुसुमजन्म ततो नवपल्लव’ [ रघु. ९.२६ ] इत्यादिषु प्रसिद्धः क्रमोऽपि तत्र नासीदित्याह – सपल्लवानीति पल्लवसहितानि । अशोकतरुः सद्य एव कुसुमपल्लवैराचितोऽभूदित्यर्थः । ऋतोरक्रमपरिपूर्तिः क्रमातिक्रमे हेतुरित्यवसेवयम् । आलिङ्गनात् कुरवको बकुलो मुखशीथुना । कामिनीनां पदाघातादशोकः पुष्यति द्रुतम् ॥ इत्यादिवचनसिद्धः सहकारिनियमोऽपि वसन्ते मूर्तिमति स्वयमेवागते तत्र नासीदित्याह – सुन्दरीणां पादेन सम्पर्क नापैक्षतेति । सुन्दरीणां सर्वावयवसुन्दरीणाम्। अनेनान्यासां तत्रानुपयोगित्वमुक्तम् । पादेन चरणेन सम्पर्क संयोगं नापैक्षत नापेक्षते स्म । इतः पूर्वं चरणस्यापीतिकर्तव्यतांशोऽस्तीत्याहआशिञ्जितनूपुरेणेति। आभीक्ष्ण्येन शिञ्जितं शब्दितं नूपुरं मञ्जीरं यस्य तेन । तत्कालविशेषणं चेदम् । अत्र कामिनीसम्पर्करूपप्रसिद्धकारणविरहेऽपि पुष्पोद्गमरूपकार्योत्पत्तिप्रतिपादनाद् विभावनालङ्कारः । सा चात्रानुक्तनिमित्ता ॥ २६ ॥ १६० प् कुमारसम्भवे सख्युः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य ॥२७॥ प्रकाशिका सख्युरिति । उद्गमशब्दो द्रव्यं लक्षयति, करिदन्तच्छेदकान्त इतिवत्। अक्लिष्टताप्रतीतिः फलम् । वाजरचनायां कृतायां नामाक्षरनिवेशनमिति लोकक्रमः । सख्युर्मनोभवस्येत्यन्वयः ॥ २७ ॥ चूतपुष्पोद्गमं वर्णयति— विवरणम् सख्युरिति । मधुः समाप्ति नीते नवचूतबाणे द्विरेफान् निवेशयामास । मधुर्वसन्तः समाप्ति सम्पूर्णतां नीते प्रापिते नवचूतबाणे नूतने चूतकुसुम एव बाणे शरे। अधिकरणसप्तमी चेयम्। द्विरेफान् मधुकरान् निवेशयामास निवेशितवान् । अत्रोत्प्रेक्षते - सख्युः मनोभवस्य नामाक्षराणीवेति । सख्युः निजपरमसखस्य मनोभवस्य कामदेवस्य नामाक्षराणि नामद्योतकान्यक्षराणीव । अक्षराणां मषीरूपितत्वेन वर्णसाम्यं सन्निवेशसाम्यं चोत्प्रेक्षाहेतुः । उद्दीपनत्वप्रतीतिः फलम् । चूतपुष्परूपस्य बाणस्य तत्किसलयरूपं पत्रमप्याह – प्रवालोद्गमचारुपत्रे इति । अत्रोद्गमशब्द उद्गमनक्रियावाचकोऽपि उद्गमनक्रियायाः पत्रत्वानुपपत्तेः कार्यकारणभावसम्बन्धादुद्गतं द्रव्यं लक्षयति । किसलयानां तत्कालोपपन्नत्वप्रतिपादनमुखेनातपादिभिरपरिक्लिष्टताप्रतीतिश्च फलम् । उद्गतं प्रवालमेव चारु सुन्दरं पत्रं यस्य तस्मिन् । अत्र किसलयानां सन्निवेशादिसाम्यात् पत्रत्वरूपणम् । उत्तेजनवाजरचनादिभिः सम्पूर्णतां नीते हि शरे नामाक्षराणि लिख्यन्त इति लोकप्रसिद्धः क्रमः समाप्ति नीते इत्यनेनोक्तः ॥ २७॥ वर्णप्रकर्षे सति कर्णिकारं

दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्रयविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ २८ ॥ तृतीयः सर्गः प्रकाशिका १६१ वर्णप्रकर्ष इति । अत्र कर्णिकारं तथात्युज्ज्वलमपि निर्गन्धमभूद्, यथा सहृदयैरदूयतेति वाक्यं विपरिणमनीयम् । अन्यथा अर्थान्तरन्यासघटना न स्यात् । तदानीं कर्णिकारस्वरूपरामणीयकं तथा यूनां हृदयहारि जातं, यथा तदनुसन्दधतां तेषां हन्त विधातृदौश्शील्यादेतद्रूपानुरूपस्य सौरभस्य लेशोऽपि नात्रासीदिति खेदोऽभवदिति तात्पर्यं शृङ्गारोद्दीपनवर्णनस्य प्रकृतत्वात् ॥ २८ ॥ कर्णिकारपुष्पोद्गमं वर्णयति— विवरणम् वर्णेति । कर्णिकारं वर्णप्रकर्षे सति निर्गन्धतया चेत दुनोति स्म । कर्णिकारं कर्णिकारकुसुमं वर्णप्रकर्षे वर्णस्य प्रकर्षे उत्कर्षे कान्त्यतिशये सत्यपि निर्गन्धतया निर्गतो गन्धो यस्मात् तन्निर्गन्धं तस्य भावस्तत्ता, तया सौरभ्याभावेन हेतुनेत्यर्थः । चेतः चित्तं दुनोति स्म अपीडयत् । सहृदयानामिति शेषः । नात्र काचिदनुपपत्तिरित्याह – विश्वसृजः प्रवृत्तिः गुणानां सामग्र्यविधौ प्रायेण पराङ्मुखीति । विश्वं सृजतीति विश्वसृग् ब्रह्मा, तस्य । प्रवृत्तिः व्यापारः गुणानां सामग्र्यविधौ सम्पूर्णताविधाने प्रायेण प्रायशः पराङ्मुखी विमुखी । अस्य वाक्यस्य कर्णिकारकुसुमानां निर्गन्धतया सहृदयहृदयपीडाविधाने तात्पर्यमिति प्रतिभाति । तच्चायुक्तम् । तथा सति प्रकृष्टशृङ्गारोद्दीपनवर्णनानुगुणत्वभङ्गप्रसङ्गात् । तस्मादेवमत्र तात्पर्यं वर्णनीयम्। कर्णिकारकुसुमं तथा नामात्युज्ज्वलं यूनां हृदयहारि जातं, यथा तेषां निर्गन्धतामवधार्य सहृदयहृदयैर्दूयत इति पूर्वार्धे वाक्यार्थः । तथा च सति सर्वपदार्थेषु विधातृदौश्शील्यादेवमेव गुणसामग्र्याभाव इति नात्र काचिदनुपपत्तिरित्यर्थान्तरन्यासोऽपि सुघटो भविष्यति ॥ २८ ॥ बालेन्दुवक्राण्यविकासभावाद् की ही बभुः पलाशान्तविलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥२९॥ प्रकाशिका बालेन्दुवक्राणीति । सद्यो नखक्षतानीत्यन्वयः, सद्यः समागतानामिति वा । प्रवासप्रत्यागमने नखक्षतविधानात् । अत्र समासोत्त्युत्प्रेक्षे ॥ २९ ॥ १६२ कुमारसम्भवे पलाशकुसुमोद्गमं वर्णयति— विवरणम् ‘बालेति । पलाशानि बभुः । पलाशानि पलाशकुसुमानि बभुः शुशुभिरे । अत्रोत्प्रेक्षते - वसन्तेन सद्यः समागतानां वनस्थलीनां नखक्षतानीवेति । वसन्तेन सद्य एव समागतानां सङ्गतानाम् । प्रवासप्रत्यागमनसमये हि नखक्षतानि बहुलानि भवन्तीति सद्य इत्युक्तम् । वनस्थलीनां वनराजीनां नखक्षतानि नखव्रणानीव । सद्यो नखक्षतानीति वान्वयः । सद्यः समुत्पन्नानि नखक्षतानीवेत्यर्थः । तेषामेवातिलोहितत्वोपपत्तेः । पलाशकुसुमानां नखक्षतत्वोत्प्रेक्षायां हेतुमाह - बालेन्दुवक्राणीत्यादिना विशेषणद्वयेन । अविकासभावाद् बालेन्दुवक्राणीति । अविकासभावाद् विकासराहित्याद् बालचन्द्रवद्वक्राणि कुटिलानि । अविकसितानामेव वक्रत्वाद्, वक्राणामेव नखक्षतसादृश्यादविकासभावादित्युक्तम् । तथा अतिलोहितानि अत्यन्तरक्तवर्णानि। नखक्षतान्यपि बालेन्दुवक्राणि भवन्ति । अचिरोद्गतत्वे सत्यतिलोहितानि च भवन्ति । अत्र चिरकालसङ्गतनायिकानायकवृत्तान्तप्रतीतेः समासोक्तिरलङ्कारः। उत्प्रेक्षा च तदङ्गम् ॥ २९ ॥ लग्नद्विरेफाञ्जनभक्तिचित्रे मुखे मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रबालोष्ठमलञ्चकार ॥ ३० ॥ प्रकाशिका लग्नेति। मुखे प्रारम्भे । तिलकः श्रीमत्संज्ञवृक्षविशेषः । अरुणः सूर्यः । अत्र मुखतिलकरागशब्दानां वदनविशेषकलाक्षावाचित्वेन लिङ्गविशेषेण च प्रसाधनप्रवृत्तनायिकाप्रतीतौ समासोक्तिः । तामेव च रूपकमुपस्करोति॥ ३० ॥ विवरणम् तिलककुसुमोद्गमं चूतपल्लवोद्भवं च युगपद् वर्णयति- लग्नेति । मधुश्रीः मुखे तिलकं प्रकाश्य बालारुणकोमलेन रागेण चूतप्रवालोष्ठम् अलञ्चकार । मधुश्रीः वसन्तलक्ष्मीः मुख एव मुखे प्रारम्भे वदने च तिलकमेव तिलकं तिलककुसुमं विशेषकं च । ‘तिलकः क्षुरकः श्रीमानि ‘ति, ‘तमालपत्रतिलकचित्रकाणि विशेषकमिति चामरः । प्रकाश्य अतिशयेन सम्पाद्य । बालः अभिनवोदितः अरुणः सूर्यः । ‘अरुणो भास्करेऽपि स्यादित्यमरः । तृतीयः सर्गः १६३ बालश्चासावरुणश्चेति बालारुणः, तद्वत्कोमलेन मनोहरेण रागेणैव रागेण रक्तवर्णेन लाक्षारसेन च । ‘रक्तवर्णेऽनुरागे च रागो लाक्षारसेऽपि चे ‘ति भोजः । चूतस्य प्रवालं चूतप्रवालं, चूतप्रवालमेवोष्ठं चूतप्रवालोष्ठम् अलञ्चकार अलङ्कृतवती । मुखे तिलकयोग्यतां दर्शयति – लग्नद्विरेफाञ्जनभक्तिचित्रे इति । लग्नैः सक्तैः द्विरेफैः भ्रमरैरेवाञ्जनैः कृतया भक्त्यैव भक्त्या भागेन विन्यासेन च पत्रभङ्गेन च चित्रे आश्चर्यभूते । अत्र प्रवालादीनामोष्ठत्वादिरूपणानि शब्दैरेवोक्तानि । मधुश्रियः प्रसाधनप्रवृत्तनायिकात्वरूपणं पुनरर्थसामर्थ्यात् प्रतीयते इत्येकदेशविवर्तिरूपकमिदम् । ‘श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तदि’ [काव्यप्रकाशे] ति । अरुणाचलनाथस्तु — मुखतिलकरागशब्दानां वदनविशेषकलाक्षावाचित्वेन लिङ्गविशेषेण च प्रसाधनप्रवृत्तनायिकात्वप्रतीतौ समासोक्तिः । तामेव च रूपकमुपस्करोतीत्युक्तवान्। तत्कथमिति न ज्ञायते, एकदेशविवर्तिरूपकेणैव वसन्तलक्ष्म्या नायिकात्वप्रतीतौ सिद्धायां समासोत्त्या निरर्थकत्वात् । एतदलङ्कारसर्वस्वे प्रपञ्चितम् ॥ ३० ॥ मृगाः प्रियालद्रुममञ्जरीणां रजः कणैर्विघ्नितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरु- र्वनस्थलीर्मर्मरपत्रमोक्षाः ॥ ३१ ॥ प्रकाशिका मृगा इति । ‘राजादनः प्रियालः स्यादिति सिंहः । मर्मरो मर्मरशब्दयुक्तः पत्रमोक्षो यासाम्। तदनन्तरं हि नवदलोद्गमः । मदोद्धतत्वात् प्रत्यनिलगमनम् ॥ ३१ ॥ विवरणम् इत्थं वसन्तागमनवेलायां स्थावराणां विकारं प्रतिपाद्य जङ्गमानां विकारमप्याह मृगा इत्यादिभिस्त्रिभिः श्लोकैः - मृगा इति । मृगाः मदोद्धताः प्रत्यनिलं वनस्थलीः विचेरुः । मृगाः एणादयः मदोद्धताः मदेनोद्धताः अतिगर्विताः सन्तः । प्रत्यनिलमित्यव्ययीभावः । अनिलो वायुः । अनिलमभिमुखीकृत्येत्यर्थः । वनस्थलीः वनभूमीः । अत्यन्तसंयोगे द्वितीया । विचेरुः । विविधं चेरुः । अत्र मदोद्धतत्वमनिलाभिमुखप्रसरणे हेतुः । मदोद्धतानां मृगाणां स्वभावश्चायम्। अनिलाभिमुखगमनस्य फलमाह – प्रियालद्रुममञ्जरीणां रजः कणैः विघ्नितदृष्टिपाता इति । प्रियालसंज्ञो द्रुमः प्रियालद्रुमः । ‘राजादनः प्रियालः१६४ कुमारसम्भवे स्यादित्यमरः । तेषां मञ्जर्यः प्रियालद्रुममञ्जर्यः । तासां रजः कणै रजसां रेणूनां कणैः लेशैः । ‘लवलेशकणाणवः’ इत्यमरः । विघ्निताः सञ्जातविघ्नाः दृष्टिपाता नेत्रप्रचाराः येषां ते तथा । रजःकणप्रतिहतावलोकनसामर्थ्या इत्यर्थः । मदोद्धतानां स्वनाश एव फलमिति भावः । वनस्थलीनां तत्कालविशेषणमाह — मर्मरपत्रमोक्षाः इति । मर्मरो मर्मरध्वनियुक्तः पत्राणां मोक्षो मोचनं यासां तास्तथा । ‘मर्मरः पर्णशब्दे स्यादिति भोजः । मृगाणां धावने पादाभिघातवशात् प्रसार्यमाणानां पर्णानां मर्मरध्वनिरत्र विवक्षितः । अथवा मर्मरः पत्रमोक्षो यासामिति विग्रहः । अत्र तु शुष्कतया वृक्षात् पततां पर्णानां ध्वनिर्विवक्षितः । वसन्ते हि पुराणानि पर्णानि पतन्ति, अभिनवानि चोत्पद्यन्ते । अत्र स्वभावोक्तिः ॥ ३१ ॥ ‘चूताङ्करास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥३२॥ प्रकाशिका चूताङ्कुरेति । कषायकण्ठो रक्तकण्ठः । रागश्च सुस्वरता । ‘कषायस्तुवर’ इत्युपक्रम्य ‘रक्त’ इति केशवः । यच्चुकूज कूजनं यदित्यर्थः । तत् कूजनं तथाविधं स्मरवचनमासीदित्यर्थः । तेन तस्योद्दीपनातिशय उक्तः । तथाहि — सार्थको निरर्थकादर्थक्रियाङ्गम्। स च विदग्धप्रयुक्तश्चित्तमावर्जयति । तत्रापि सुहृत्त्वेन विशेषः । विदग्धः सुहृच्च नान्योऽस्ति, यथायं कामिनां स्मरः । तस्यापि मानिनीमानशैथिल्याभिप्रायं वचः सुतरामुद्दीपनम् ॥ ३२ ॥ विवरणम् कोकिलकूजितं वर्णयति— एकनाथ वा चूतेति । पुंस्कोकिलः मधुरं चुकूज यत् तदेव स्मरस्य मनस्विनीमानविघातदक्षं वचनं जातम्। पुमान् कोकिलः पुंस्कोकिलः । कूजनसामर्थ्यप्रतिपादनार्थं पुंस्त्वविशेषणम्। मधुरमिति कूजनक्रियाविशेषणम् । चुकूज कूजनं कृतवान् यत्, तदेव कूजनं स्मरस्य मदनस्य मनस्विनीनां प्रणयिनीनां मानस्याभिमानस्य विघाते उन्मूलने । अत्र मनस्विनीत्वं मानोत्पत्तौ हेतुः । दक्षं विदग्धं वचनं वाक्यं जातम् । वसन्तागमनवेलायां यत् कोकिलकूजनं जातं, तदेव प्रत्युपस्थितं तृतीयपुरुषार्थं मा परित्यजत, अलमभिमानविलम्बनेनेत्यादिरूपं मदनवचनमासीदित्यर्थः । अनेन तृतीयः सर्गः १६५ कोकिलालापस्योद्दीपनत्वं प्रतिपादितम् । निरर्थकस्यापि कोकिलालापस्य कामिजनबन्धुभूतस्य विदग्धतरस्य स्मरस्य प्रियतमाभिमानविघातदक्षवचनत्वेन रूपणाद्रूपकम् । अत्र स्वरमाधुर्यमुद्दीपनत्वे हेतुः । स्वरमाधुर्यहेतुमाह – चूताङ्कुरास्वादकषायकण्ठ इति । चूतानामङ्कुरस्याभिनवोद्भिन्नस्य पुष्पस्यास्वादेनादनेन कषायो रक्तः कण्ठो यस्य स तथा । ‘कषायस्तुवरे’ इत्यारभ्य ‘रक्ते’ इति केशवः । रक्तत्वं च सुस्वरता। सुस्वरकण्ठ इत्यर्थः । अनेन चूताङ्कुरास्वादनस्य गलान्तरोद्भूतदोषनिरासकत्वमुक्तम्॥३२॥ हिमव्यपायाद विशदाधराणा- मापाण्डरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३३ ॥ प्रकाशिका हिमेति । विशदाधराणाम्, अलक्तकार्पणविरहात्। स्वाभाविककान्तियुक्तानामेव मुखानामापाण्डरीभावः, कुङ्कुमविरहात् । स्वेदोद्गम आतपकृतः । पत्रेषु कपोलगतेषु । विशेषकेषु ललाटगतेषु। पदकरणमर्थादुच्छ्वासनम् ॥३३॥ विवरणम् हिमवच्छिखरवर्तिनीनां किम्पुरुषाद्यङ्गनानामपि तत्कालसुलभं विशेषं वर्णयति — हिमेति । किम्पुरुषाङ्गनानां पत्रविशेषकेषु स्वेदोद्गमः पदं चक्रे । किम्पुरुषाङ्गनानां किन्नरस्त्रीणां पत्रेषु विशेषकेषु च कपोलगतेषु पत्रभङ्गेषु ललाटतटघटितेषु तिलकेषु च स्वेदोद्गमः उद्भूतस्वेदः पदं चक्रे स्थानं कृतवान्। आतपकृताः स्वेदबिन्दवः किन्नराङ्गनानां पत्रभङ्गतिलकेषु किञ्चिदुच्छूनतामजनयन्नित्यर्थः। स्वाभाविकमङ्गसौन्दर्यमपि तासां तदानीमभिव्यक्तमासीदिति विशेषणद्वयेन दर्शयति — हिमव्यपायादित्यादिना । हिमव्यपायाद् विशदाधराणां हिमस्य तुषारस्य व्यपायादपगमाद् विशदो निर्मलोऽधरो यासां तासाम् । शीतकाल एव हि स्त्रीणामधेरष्वलक्तकरसार्पणम्, अलक्तकस्योष्णस्वभावत्वात्। अलक्तकरसाभावात् स्वाभाविकेन रागेण मनोहराधराणामित्यर्थः । विशेषणान्तरमाह – आपाण्डरीभूतमुखच्छवीनामिति । अत्रापि हिमव्यपाय एव हेतुः । उष्णस्वभावकुङ्कुमार्पणाभावादापाण्डरीभूता मुखच्छविर्यासां तासाम्। मुखेऽपि स्वभाविकी शोभैव प्रकटाभूदिति भावः । अनेन श्लोकेन तासां तत्कालसुलभशोभातिशय उक्तः ॥ ३३ ॥ १६६ कुमारसम्भवे तपस्विनः स्थाणुवनौकसस्ता- माकालिकीं वीक्ष्य मधुप्रवृत्तिम् । प्रयत्नसंस्तम्भितविक्रियाणां कथञ्चिदीशा मनसां बभूवुः ॥ ३४ ॥ प्रकाशिका एवंविधामुद्दीपनसम्पदं कार्यमुखेन स्फारयति- तपस्विन इति। मत्वर्थेनावासविशेषणेन च विकारानुपपत्तिः । आकालिकीं सद्यःसमुद्भवसमाप्तिकाम्। ‘आकालिकडाद्यन्तवचने’ (५.१.११४) इत्यकालशब्दस्याकालिकडादेशः । प्रयत्नः प्रत्याहारादिः । विक्रिया हर्षादिरतिर्वासनारूपा । यदाह - [ कालिदासः शाकुन्तले ५.२ ] रम्याणि वीक्ष्य मधुराँश्च निशम्य शब्दान् पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि । इति । सपरिग्रहाणां च तादात्विकी रतिः ॥ ३४ ॥ विवरणम् इत्थमुपवर्णितस्योद्दीपनस्य कामदेवाभिमते कार्ये प्रवृति प्रतिपादयति- तपस्विन इति । स्थाणुवनौकसः तपस्विनः आकालिकीं तां मधुप्रवृत्तिं वीक्ष्य कथञ्चिद् मनसाम् ईशाः बभूवुः । स्थाणोः शिवस्य वनं तपोवनमेव ओको गृहं येषां ते तपस्विनः वानप्रस्थाः आकालिकीं सद्यस्समुद्भवसमाप्तिमतीम् । ‘आकालिकडाद्यन्तवचने’ (५.१.११४) इत्यकालशब्दस्याकालिकडादेशः । पूर्वव्यवस्थापितकालात् प्रागेव सञ्जातां सद्यो विनाशवतीं चेत्यर्थः । तां पूर्वप्रतिपादितां मधोर्वसन्तस्य प्रवृत्तिं विजृम्भणरूपं व्यापारं वीक्ष्य सम्यगवलोक्य कथञ्चिद् यथाकथञ्चिद् मनसामीशाः स्वामिनो बभूवुः । अत्र तपस्विन इति मतुबन्तेन स्थाणुवनौकस इति परमेश्वरसान्निध्यप्रतिपादनेन च मनोविक्रियाहेतुः प्रतिपादितः । आकालिकत्वादनिरूपितागतत्वेन तु मनोविकारोत्पत्तौ हेतुः प्रतिपादितः । अत एव कथञ्चिदीशा बभूवुरित्युक्तम् । मनोविकारप्रशमनप्रकारमाह — प्रयत्नसंस्तम्भितविक्रियाणामिति । प्रयत्नैः प्रत्याहारादिरूपैर्व्यापारैः संस्तम्भिता सम्यक् स्तम्भिता तृतीयः सर्गः १६७ विक्रिया वासनारूपेण वर्तमाना हर्षादिर्येषाम् । सपरिग्रहाणां तु तादात्विकी रतिः । हर्षादिरतीनां वासनारूपेण वर्तमानत्वमुक्तं शाकुन्तले- रम्याणि वीक्ष्य मधुराँश्च निशम्य शब्दान् पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनंमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ इति । महर्षयः कृतबहुविधप्रशस्ततपस्त्वात् परमेश्वरसान्निध्यवशाच्च प्राणायाम - • प्रत्याहारादिभिरात्मनो मनोविकारं कथमपि निवारयामासुरित्यर्थः ॥ ३४ ॥ तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने। काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ ३५ ॥ प्रकाशिका अथ मदनागमनस्य प्रभावं वर्णयति- तमिति । आरोपितपुष्पचाप इति संरम्भः । रतिद्वितीय इति तस्याः प्रीत्यभिमानित्वाद् अस्य सहायसम्पत् । काष्ठामुत्कर्षं गतं काष्ठागतम् । द्वितीया श्रिता - ’ (२.१.२४) इत्यादिना समासः । तत्काल भावि चैतद्विशेषणम्। काष्ठागतत्वाच्च स्नेहो रसः रसनियतत्वात्, तेनानुविद्धम् । तद्विजृम्भानुरूपं द्वन्द्वानि जङ्गमस्थावराणि भावं सम्भोगेच्छाम् । क्रियया अनुभावरूपया ॥ ३५ ॥ विवरणम् इत्थं वसन्तागमनप्रभावमुक्त्वा मदनागमनप्रभावमेवाह- तमिति । रतिद्वितीये मदने तं देशं प्रपत्रे द्वन्द्वानि भावं क्रियया विवव्रुः । रतिद्वितीये रतिरेव द्वितीया यस्य तस्मिन् । अनेन मदनस्य तस्यां प्रीत्यभिमानित्वात् सहायसम्पदुक्ता। भावमभिलाषं, सम्भोगेच्छामित्यर्थः । क्रियया इच्छायाः कार्यभूतेन व्यापारेण, आलिङ्गनादिभिरित्यर्थः । विवव्रुः प्रकाशयामासुः । मदनागमनानन्तरं सर्वाणि मिथुनान्यपि स्वात्मनि सञ्जातां सम्भोगेच्छां तत्कालभूतैर्व्यापारैः प्रकाशयामासुरित्यर्थः । मदनस्योद्योगमाह – आरोपितपुष्पचाप इति । आरोपितं सज्जीकृतं पुष्पमयं चापं शरासनं येन तस्मिन् । भावस्योत्कर्षमाह — काष्ठागतस्नेहर- १६८ कुमारसम्भवे सानुविद्धमिति । काष्ठामुत्कर्षम्। ‘काष्ठोत्कर्षे स्थितौ दिशी’ त्यमरः । गतेन प्राप्तेन । ‘द्वितीया श्रितातीत — ’ (२.१.२४ ) इत्यादिना समासः । तत्कालविशेषणं चेदम् । स्नेह एव रसनियतत्वाद्रसः स्नेहरसः, स्नेहातिशयो वा तेनानुविद्धं विजृम्भितमित्यर्थः। द्वन्द्वानि मदनागमनवशात् परमकाष्ठामधिष्ठितं परस्परानुरागं तत्प्रकाशकैः कर्मभिः प्रकाशयाञ्चक्रुरित्यर्थ ॥ ३५ ॥ आधार मधु द्विरेफः कुसुमैकपात्रे , पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥३६॥ प्रकाशिका तत्प्रकारानाह - मध्विति । प्रियामनुवर्तमान इति नागरिकवृत्तमप्यशिक्षितमेव प्रतिभातमित्यर्थः । ‘पाययेयुरनुपिबेयुश्चेति दर्शनात् । कण्डूयनमनुवृत्तिप्रकर्षः । कण्ड्वा दुर्लक्षत्वात्॥३६॥ विवरणम् अथ क्रियया भावप्रकाशनमेव प्रपञ्चयति चतुर्भिः श्लोकैः । तत्रादौ भ्रमरद्वन्द्वानां मृगद्वन्द्वानां च प्रकाशनप्रकारमाह- मध्विति। द्विरेफः स्वां प्रियाम् अनुवर्तमानः कुसुमैकपात्रे मधु पपौ । द्विरेफो भ्रमरः स्वां प्रियाम् आत्मीयां बल्लभाम् अनुवर्तमानः अनुसरन् कुसुमैकपात्रे कुसुममये एकस्मिन् पात्रे साधारणे पात्रे मधु पपौ पीतवान् । अत्र नागरिकवृत्तं भ्रमरैरशिक्षितमपि मदनसान्निध्यवशादुद्बुद्धमभूदित्युक्तं भवति । भवति । नागरिका ह्येकस्मिन्नेव पात्रे सम्भृतं मद्यं वल्लभां पाययन्ति, स्वयं चानुपिबन्ति । ‘पाययेयुरनुपिबेयुश्चेति वचनात् । कृष्णसार शृङ्गेण मृगीम् अकण्डूयत । कृष्णसारो मृगविशेषः । शृङ्गेण स्वेनैव विषाणेन मृगीं वल्लमाम् अकण्डूयत कण्डूयितवान्। कृष्णसारः स्वां वल्लभां वल्लभां कण्डूयनादिभिरनुवर्तिवानित्यर्थः । मृग्या भावविशेषप्रकारमाहसंस्पर्शनिमीलिताक्षीमिति । संस्पर्शेन समीचीनेन स्पर्शनेन, स्पर्शसुखेनेति यावत् । निमीलिते अक्षिणी यया ताम् । अत्राक्षिनिमीलनं स्पर्शसुखस्यानुभावः ॥ ३६ ॥ अपि श जगण तृतीयः सर्गः ददौ सरः पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपयुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥३७॥ प्रकाशिका १६९ ददाविति । गण्डूषजलं मुखान्तर्गतजलम् । अर्धोपयोग आस्वादपरीक्षा- र्थम् ॥ ३७ ॥ विवरणम् गजमिथुनानां चक्रवाकमिथुनानां च प्रवृत्तिमाह- ददाविति । करेणुः गजाय गण्डूषजलं ददौ । करेणुः करिणी । ‘करेणुरिभ्यां स्त्री नेभे’ इत्यमरः । गजाय करिणे गण्डूषजलं मुखान्तर्गतजलं ददौ दत्तवती । गण्डूषजलस्य प्रियतमावदनसम्पर्कव्यतिरिक्तमपि गुणान्तरमाह – सरः पङ्कजरेणुगन्धीति । सरसि यानि पङ्कजानि तेषां रेणुः परागः तस्य गन्धोऽस्त्यस्मिन्निति तथा। यथा कामिनी सुरभिलकुसुमादिसंस्कृतं मुखासवं कामिने ददाति तद्वदित्यर्थः । यथाह माघः – [१०.१] सञ्जितानि सुरभीण्यथ यूनामुल्ललन्नयनवारिरुहाणि । आययुः सुमधुराणि सुरायाः पात्रतां प्रियतमावदनानि ॥ इति । रथाङ्गनामा अर्धोपयुक्तेन बिसेन जायां सम्भावयामास । रथाङ्गनामा चक्रवाकः । ‘कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः’ इत्यमरः । अर्धोपयुक्तेन अर्धकवलितेन । अत्रार्धोपयुक्तत्वमास्वादपरीक्षार्थम् । तेन च स्वयमेवादौ किञ्चिदास्वाद्य तस्य स्वादिष्ठतामवगम्य प्रियतमायै ददावित्यर्थः प्रदर्शितः । बिसेन मृणालेन जायां प्रियतमां सम्भावयामास सम्मानितवान् । अत्र ‘ताम्बूलीदलमर्धखण्डितमहं वाञ्छामीत्यादिषु प्रसिद्धं मुखताम्बूलार्पणं प्रतीयते ॥ ३७ ॥ गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम्। पुष्पासवाघूर्णितनेत्रशोभं प्रियामुखं किम्पुरुषश्चचुम्ब॥३८॥ ’ १७० कुमारसम्भवे प्रकाशिका गीतान्तरेष्विति । गीतयोः प्रक्रान्तप्रक्रंस्यमानयोरन्तर इत्यर्थः । अवसरज्ञत्वं च द्योत्यते। पुष्पासवाघूर्णितयोर्नेत्रयोः शोभा यत्रेति विग्रहः । मुखस्य विशेषणाभ्यां विभावतापरिपोषः ॥ ३८ ॥ विवरणम् एवं हिमवच्छिखरवर्तिनां मृगपक्षिणां कामविकारमुक्त्वा किम्पुरुषादीनामप्याहगीतान्तरेष्विति । किम्पुरुषः गीतान्तरेषु प्रियामुखं चुचुम्ब । किम्पुरुषः किन्नरः गीतान्तेषु अतीतानागतयोर्गानयोरन्तरालेषु । अतीते कस्मिंश्चिद्गाने गानान्तरे चानागते सतीत्यर्थः । अनेनोद्दीपनविभाव उक्तः । अवसरज्ञत्वं च तस्य द्योत्यते । प्रियाया मुखं प्रियामुखं चुचुम्ब चुम्बितवान् । अत्र हि भावपरिपोषार्थं मुखस्य विशेषणद्वयम्। तत्राद्यमाह — श्रमवारिलेशैः किञ्चित्सुमुच्छ्वासितपत्रलेखमिति । श्रमवारीणां गानश्रमसञ्जातानां स्वेदजलानां लेशैः कणैः । किञ्चित्समुच्छ्वासितपत्रलेखं किञ्चित्समुच्छ्वासिता स्वेदजलसंसर्गादीषदुच्छ्वासिता उच्छूनतां प्रापिता पत्रलेखा पत्रभङ्गो यस्मिंस्तत् तथा । द्वितीयं विशेषणमाह - पुष्पासवाघूर्णित-’ नेत्रशोभमिति । पुष्पासवेन माध्वीसुरया । ‘गौली माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा’ इत्यादिस्मृतिप्रसिद्धयेत्यर्थः । आघूर्णितयोः कलुषीकृतयोः नेत्रयोः शोभा यस्मिंस्तत्तथोक्तम्। अत्र माध्व्यास्तद्देशसुलभत्वात् सौरभ्यादिगुणविशिष्टत्वाच्च पुष्पशब्दस्योपयोगः ॥ ३८ ॥ पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रबालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापु- विनम्रशाखाभुजबन्धनानि ॥ ३९॥ प्रकाशिका पर्याप्तेति । पर्याप्तं पूर्णम्। प्रियसन्निधौ स्तनपूरणमधरस्फुरणं च नायिकाधर्मः । विनम्रम् अस्तब्धम् ॥ ३९ ॥ विवरणम् अथ स्थावराणामपि मदनोन्मादं दर्शयति- पर्याप्तेति । तरवः अपि लतावधूभ्यः विनम्रशाखाभुजबन्धनानि अवापुः । तरवोऽपि स्थावरात्मका वृक्षा अपि । अन्ये तिष्ठन्त्वित्यर्थः । लतावधूभ्यः लताभ्य I तृतीयः सर्गः १७१ एव वधूभ्यः स्त्रीभ्यः सकाशाद् विनम्रशाखाभुजबन्धनानि विनम्रैः विशेषेण नम्रः अस्तब्धैः । द्विविधा हि लतानां शाखाः स्तब्धाः सन्नताश्च । तत्र स्तब्धैरालिङ्गनानुपपत्तेरेवमुक्तम्। तरुषु तरुषु लीनैरित्यर्थः । नायिकापक्षे तु अनेनालिङ्गनस्वभावोक्तिः । शाखाभिरेव भुजैः यानि बन्धनानि आलिङ्गनानि तानि अवापुः प्राप्तवन्तः । आलिङ्गनसौख्यमाह – पर्याप्तपुष्पस्तवकस्तनाभ्य इति । पर्याप्ताः सम्पूर्णाः पुष्पस्तबकाः कुसुमगुच्छा एव स्तनाः यासां ताभ्यः । किञ्च अधरार्पणमप्यासीदित्याह—स्फुरत्प्रवालोष्ठमनोहराभ्य इति । स्फुरद्भिः कम्पमानैः प्रवालैः पल्लवैरेवौष्ठैः मनोहराभ्यः । सन्निहिते हि प्रियतमे वधूनां स्तनपूर्तिरधरस्फुरणं च भवति । कामशास्त्रप्रसिद्धश्चायमर्थः ॥ ३९ ॥ श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसङ्ख्यानपरो बभूव । आत्मेश्वराणां नहि जातु विघ्नाः ||१४|| समाधिभेदप्रभवो भवन्ति ॥४०॥ ॥१४॥ प्रकाशिका अथ यथावसरमाधिकारिकं वृत्तमवतारयति - श्रुतेति । अत्राप्सरसामुपस्थानं सकलदिविषत्साधारणं, न त्वन्यमुनिवत् समाधिभङ्गार्थम् । उक्तं च ‘अप्सरसां मुखेभ्यः श्रुतमिति । अस्मिन् क्षणे एवंविधे सकलचेतनक्षोभसमये। प्रसङ्ख्यानं परमात्मानुसन्धानम् । चित्ताधिकारे पातञ्जलं’तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यथाख्यातिमात्रं धर्ममेघाख्यध्यानोपगमं भवति । तत् प्रसङ्ख्यानमित्याचक्षते ध्यायिन’ इति । चित्तस्य धर्ममेघाख्यध्यानोपगमः प्रसङ्ख्यानम् । आत्मेश्वराणां वश्यात्मनाम् । समाधिरैका- ग्र्यम्॥४०॥ विवरणम् इत्थमुपवर्णितं मधुमदनवृत्तं प्रकृते योजयति- श्रुतेति । हरः अस्मिन् क्षणेऽपि प्रसङ्ख्यानपरः बभूव । हरः परमेश्वरः अस्मिन् क्षणे एवंविधसकलचेतनवर्गमनःक्षोभकरे समयेऽपि प्रसङ्ख्यानपरः । प्रसङ्ख्यानं परमात्मानुसन्धानम्। ‘परमात्मानुसन्धानप्रसङ्ख्यानसमाधय’ इति भोजः । एवंविधे वसन्तकोलाहले मन्मथे च स्वयमेवागते सति हरः किञ्चिदप्यस्खलितचित्तवृत्तिः परमात्मानुसन्धानान्न विररामेत्यर्थः । सेवार्थमागतानामप्सरसां स्तुतिमात्रमेव तदा हरेण १७२ कुमारसम्भवे भक्तानुकम्पया श्रुतमित्याह - श्रुताप्सरोगीतिरिति । श्रुताः अप्सरसां सेवार्थमागतानाम् अप्सरः स्त्रीणां गीतयो गानानि येन । अत्राप्सरसां सेवार्थमेवागमनं नान्यमुनिसन्निधाविव चित्तक्षोभविधानार्थम् । भगवत्सेवायाः सर्वसुरसाधारणत्वादप्सरसामु - पस्थानम्। अत एव ‘अप्सरसां मुखेभ्यः श्रुतमिति पूर्वमुक्तम् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते — विघ्नाः जातु आत्मेश्वराणां समाधिभेदप्रभवो न भवन्ति हि इति । विघ्नाः विघ्नकारिणो रम्यपदार्थाः जातु कदाचिदपि आत्मेश्वराणां आत्मनः मनसः ईश्वराणां स्वामिनां, स्ववशमनसामित्यर्थः । समाधिभेदे चित्तैकाग्र्यभञ्जने प्रभवः समर्थाः न भवन्ति । हि शब्दः प्रसिद्धौ । सकलचित्तक्षोभविधायिनोऽपि पदार्थाः कदाचिदपि न धीराणां मनसः क्षोभमापादयन्तीति भावः ॥ ४० ॥ लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः । मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत् ॥ ४१ ॥ प्रकाशिका अथात्मनिर्विशेषस्य देवामात्यस्य प्रतीहारपदे स्थितस्य भगवतः शैलादेस्तत्कालोचितं विधिमाह- लतागृहेति। वामप्रकोष्ठेऽर्पणं दक्षिणाङ्गुल्या गणतर्जने व्यापृतत्वात् । अङ्गुलिस्तर्जनी । संज्ञा विनयसूचना । ’ संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचने’ति सिंहः। मा चापलाय चापलं कर्तुं मा भूतेति शेषः ॥ ४१ ॥ विवरणम् एवं मधुमदनवृत्तसम्भ्रान्तचित्तेषु जरायुजादिषु चतुर्विधेषु शरीरिवर्गेषु भगवत्प्रतिहारपदे वर्तमानस्य देवामात्यस्य नन्दिकेश्वरस्य तत्कालोचितां प्रवृत्तिमाह— लतेति । अथ नन्दी लतागृहद्वारगतः गणान् चापलाय मा इति मुखार्पितैकाङ्गुलिसंज्ञया एव व्यनैषीत् । अथ सर्वभूतानामविनयवर्धनानन्तरं नन्दी नन्दिकेश्वरः लतैव गृहं लतागृहं तस्य द्वारं गतः सन् गणान् भूतगणान् चापलाय चापलं कर्तुं मा भूत इति शेषः । इतिशब्दो विनयप्रकारवचनः । मुखार्पितैकाङ्गुलिसंज्ञया मुखे वदने अर्पितया न्यस्तया एकयैवाङ्गुल्या, तर्जन्येत्यर्थः । तया या संज्ञा अर्थसूचना । ‘संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना’ इति सिंहः । तयैव । एवकारो वचनादिव्यावृत्त्यर्थः । तेन चास्य प्रभावातिशयः सूचितः । व्यनैषीत् तृतीयः सर्गः १७३ शिक्षितवान् । सर्वेऽपि काममविनयमाचरन्तु, वयं तु भगवत्परिचारकाः, ततो नास्माकमुचितोऽयमविनय इतीममर्थं स नासारोपितया तर्जन्यैव सूचितवानित्यर्थः । अथ नन्दिनस्तत्कालविशेषणमाह – वामप्रकोष्ठार्पितहेमवेत्र इति । वामे दक्षिणेत - रस्मिन् प्रकोष्ठे मणिबन्धकूर्परमध्ये अर्पितं न्यस्तं हेमवेत्रं सुवर्णमयं वेत्रं यष्टिर्येन स तथा । अत्र दक्षिणहस्तस्य गणविनयव्यापृतत्वात् सुवर्णवेत्रस्य वामप्रकोष्ठार्पणमित्यवसेयम्॥४१॥ निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् । तच्छासनात् काननमेव सर्वं चित्रार्पितारण्यमिवावतस्थे ॥४२॥ प्रकाशिका गणानां विनयनादेव जरायुजादिचतुर्विधभूतग्रामस्य विनयो जात इत्याह- निष्कम्पेति । अत्र द्विरेफाः स्वेदजाः । ‘स्वेदजाः कृमिदंशाद्या’ इत्यमरः । अण्डजाः पक्षिणः । उपमया निष्पन्दतातिशय उक्तः । पारमेश्वर्या आज्ञाशक्तेरयं प्रभाव इति भावः ॥ ४२ ॥ विवरणम् एवं गणविनयनादेव चतुर्विधस्यापि भूतग्रामस्य विनयो जात इति परमेश्वरद्वारपालस्य नन्दिनः प्रभावातिशयमाह- निष्कम्पेति । तच्छासनात् काननं सर्वमेव चित्रार्पितारण्यमिव अवतस्थे । तच्छासनात् तस्य नन्दिनः शासनात् काननं वनम् । सर्वमेव, न तु भूतगणमात्रं, नापि काननावस्थितजनमात्रमित्यर्थः । चित्रार्पितारण्यं चित्रे अर्पितं लिखितम् अरण्यं वनमिवावतस्थे अवस्थितमासीत् । अत्र जरायुजाण्डजस्वेदजोद्भिज्जभेदेन चतुर्विधेषु भूतग्रामेषु उद्भिज्जादीनां तच्छासनानुष्ठानस्य विस्मयकरत्वात् प्रथमं तत्प्रकारमाहनिष्कम्पवृक्षमिति । निष्कम्पा निश्चला वृक्षा यस्मिंस्तत्तथा । वृक्षा अपि तदानीमचञ्चला जाता इत्यर्थः। अथ वृक्षाद्यपेक्षया किञ्चिदधिकज्ञानानां स्वेदजानां तच्छासनानुष्ठानप्रकारमाह— निभृतद्विरेफमिति । निभृता निश्चलाः द्विरेफा भ्रमरा यस्मिंस्तत्तथा । भ्रमरा अपि तदा स्वाभाविकं भ्रमणशीलत्वं तत्यजुरित्यर्थः । अत्र द्विरेफानां स्वेदजत्वं ‘स्वेदजाः क्रिमिदंशाद्याः’ इत्यमरसिंहवचनाद् द्रष्टव्यम्। स्वेदजापेक्षया अण्डजानां ज्ञानाधिक्यादनन्तरं तेषां नन्दिनियोगावस्थितिमाह — मूकाण्डजमिति । मूका निश्शब्दा१७४ कुमारसम्भवे अण्डजाः पक्षिणो यस्मिंस्तत्तथा । अथ जरायुजा अपि तन्नियोग एव स्थिता इत्याह - शान्तमृगप्रचारमिति । शान्तो मृगाणां हरिणादीनां प्रचारः सञ्चारो यस्मिंस्तत्तथा। भूतग्रामाणामेवमेव चतुर्विधत्वमुक्तं भोजराजेन - उद्भिज्जा वृक्षगुल्माद्याः पक्षिसर्पादयोऽण्डजाः । स्वेदजाः क्रिमिदंशाद्या नृमृगाद्या जरायुजाः ॥ इति । अत्राभिप्रायवेदिनां तच्छासनावस्थानं कैमुतिकन्यायादवगतमित्यपेक्षितमित्यवसेयम्। उपमया निष्कम्पत्वाद्यतिशयः प्रतिपादित इति महेश्वरप्रभावोऽनेन श्लोकेन दर्शितः ॥४२॥ दृष्टिप्रतीपं परिहृत्य तस्य कामः पुरश्शुक्रमिव प्रयाणे । प्रान्तेषु संसक्तनमेरुशाखं प्रकृतं प्रस्तौति- ध्यानास्पदं भूतपतेर्विवेश ॥४३॥ गणा प्रकाशिका दृष्टिप्रतीपमिति । प्रतीपमाभिमुख्यमित्यर्थः । प्रयाणे पुरश्शुक्रो निषिद्धः शास्त्रे । प्रान्तेषु संसक्तनमेरुशाखमिति आत्मनिगूहनार्थम् । ध्यानास्पदं प्रकृतं लतागृहम्। अत्र दृष्टिप्रतीपपरिहरणेन कामस्य देवसन्निकर्षाद्धतौजस्कत्वं द्योत्यते ॥ ४३ ॥ विवरणम् अथ प्रकृतं मदनस्य परमेश्वरसमाधिभङ्गव्यापारमेवानुसन्धत्ते- दृष्टीति । कामः प्रयाणे पुरश्शुक्रमिव तस्य दृष्टिप्रतीपं परिहृत्य भूतपतेः ध्यानास्पदं विवेश । कामः कामदेवः प्रयाणे यात्रायां पुरश्शुक्रं पुरोभागस्थितं शुक्रमिव तस्य हरस्य । दृष्टिप्रतीपं दृष्टेः प्रतीपमाभिमुख्यमित्यर्थः । परिहृत्य त्यक्त्वा भूतपतेः गिरीशस्य । ‘भूतेशः खण्डपरशुरि ‘त्यमरः । ध्यानार्थमास्पदं ध्यानास्पदम् । आस्पदं स्थानम्। ‘लतागृहद्वारगतः ’ (३.४१) इत्यत्र प्रकृतं लतागृहमित्यर्थः । विवेश प्रविष्टोऽभूत् । प्रयाणे हि पुरश्शुक्रः प्रतिषिद्धो मुहूर्तशास्त्रे - आग्नेयाद्यास्तारकाः साभिजित्काः प्रागाद्याशासंस्थिता सप्त सप्त । यस्यां तिष्ठेत् भार्गवो दिश्यमुष्यां यात्रां पुंसां प्राणमानार्थहन्त्री ॥ इति । यथा प्रयाणोद्युक्ता जनाः पुरोभागस्थितं शुक्रं वर्जयित्वैव गच्छन्ति, तृतीयः सर्गः १७५ तथासावपि हरस्य दृष्टिमार्गं परिहृत्यैव गतवान् । यथात्मानं हरो न पश्येत् तथा जगामेत्यर्थः । अनेन दृष्टिमार्गपरिहारकथनेन कामस्य हरसान्निध्यप्रतिहतशक्तित्वं सूचितम्। यथा पुरश्शुक्रपरिहाराभावे विनाशनिश्चयस्तथैवास्याप्येतदभिमुखप्रयाणेऽप्यभूदिति भावः । आत्मनिगूहनोपायोऽपि दैववशात्तत्र तस्यासीदित्याहप्रान्तेषु संसक्तनमेरुशाखमिति । प्रान्तेषु परिसरेषु संसक्ता संश्लिष्टा नमेरूणां सुरपुन्नागानां शाखा यस्मिंस्तत् । क्षितितलपर्यन्तनिरन्तराश्लिष्टनमेरुविटपत्वात् तत्प्रदेशस्य दृष्टिमार्गपरिहारसौकर्य -मिति भावः ॥ ४३ ॥ स देवदारुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । आसीनमासन्नशरीरपात- ॥ स्त्रियम्बकं संयमिनं ददर्श ॥ ४४ ॥ प्रकाशिका पुनरप्यस्यावसादकरं देवदर्शनं वर्णयति स इति । शार्दूलेति तदास्तृतायामित्यर्थः । आसन्नशरीरपात इति सोपहासम् । त्रियम्बकमिति यणादेशे प्राप्तेऽपि छन्दोभङ्गे छन्दोविचितिकारैरियङुवङादेशस्योक्तत्वादियङादेशः । संयमिनमित्यनवसरोपस्थानं दर्शयता आसन्नशरीरपातत्वमुपपादितम् । अवसरे तु वक्ष्यति – ‘तस्यानुमेने’ (७.९३) इत्यादि ॥४४॥ मदनस्य भगवद्दर्शनप्रकारमाह- विवरणम् स इति । सः त्रियम्बकं ददर्श । सः कामदेवः त्रियम्बकं त्रिनेत्रम् | अम्बकं नेत्रम्। त्रियम्बकमित्यत्र यणादेशे प्राप्ते छन्दोभङ्गप्रसङ्गे सति छन्दोविचितिकारैरियङुवङादेशयोर्विहितत्वादियङादेशः । ‘त्रियम्बकं नान्यमुपस्थितासाविति भर्तृहरिप्रयोगाच्च नायं दोषः । ददर्श दृष्टवान् । अत्र त्र्यम्बकशब्दप्रयोगेण ‘तृतीयादक्ष्णः कृशानुः किल निष्पपात’ (३.७१) इति वक्ष्यमाणोऽर्थः सूचितः । त्र्यम्बकस्य समाधियोग्यमवस्थानप्रकारमाह – देवदारुद्रुमवेदिकायाम् आसीनमिति । देवदारुर्वृक्षविशेषः । देवदारुरेव द्रुमो देवदारुद्रुमः, तस्य वेदिकायाम्। शिलादिभिर्बद्धे मूलप्रदेश इत्यर्थः । आसीनं स्थितम्। ‘ईदास ’ (७.२.८३) इति शानच ईकारादेशः । तस्यां समाधियोग्यमवस्थानमाह — शार्दूलचर्मव्यवधानवत्यामिति । शार्दूलो व्याघ्रः, तस्य चर्मणा व्यवधानवत्याम् आच्छादनसहितायाम् ।

१७६ कुमारसम्भवे शार्दूलचर्मातृतायामित्यर्थः । अथ कविस्तादृशपरमेश्वराभिभवोद्युक्तं मदनं सोपहासं विशिनष्टि - आसन्नशरीरपात इति । आसन्नः समीपवर्ती शरीरपात शरीरस्य पातो नाशो यस्य स तथोक्तः । अहो मदनस्यानात्मवेदित्वमिति भावः । आसन्नशरीरपातत्वोपपादकं त्र्यम्बकविशेषणमाह-संयमिनमिति । । संयम इन्द्रियनिग्रहः सोऽस्यास्तीति संयमी, तम्। अनवसरोपस्थानादस्य शरीरनाश इति भावः । अवसरोपस्थानेनानुग्रहः पुनः ‘तस्यानुमेने भगवान् विमन्युर्व्यापारमात्मन्यपि सायकानाम्’ (७.९३ ) इत्यादिना वक्ष्यते ॥ ४४ ॥ पर्यङ्कबन्धस्थिरपूर्वकाय- मृज्वायतं सन्नमितोभयांसम् । उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये ॥ ४५ ॥ प्रकाशिका पर्यङ्केति । पर्यङ्को वीरासनं, तस्य बन्धेन स्थिरः पूर्वकायोऽधःकायो यस्य । अत्र वसिष्ठः - ‘एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितमित्यादि । ऋज्वायतत्वमर्थादूर्ध्वकाये। उत्तानपाणिद्वयसन्निवेशात् सन्नमितोभयांसत्वम् । अत्र योगसारवचनम्— इति ॥ ४५ ॥ उत्तानिते करतले करमुत्तानितं परम् । आधायाङ्कगतं कृत्वा ध्यायेद् यस्तत्र नान्तरम् ॥ विवरणम् अथ मन्मयावसादकरं भगवतस्तपःप्रभावदुष्प्रेक्षत्वमेव विशेषणैः प्रपञ्चयति षड्भिः श्लोकैः । तत्र तपसामासनस्थैर्यमूलत्वादादावासनप्रकारमाह- पर्यङ्केति । पर्यङ्कबन्धस्थिरपूर्वकायं पर्यङ्कस्य वीरासनस्य बन्धेन बन्धनेन स्थिरः निश्चलः पूर्वकायः अधः कायः कायस्याधोभागो यस्य । निश्चलशरीरपूर्वार्ध इत्यर्थः । यथाह वसिष्ठः- वीरासनबन्धनेन एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितम् । इतरस्मिंस्तथाचोरुं वीरासनमुदाहृतम्॥ इति । तं ददर्शेति पूर्वेणान्वयः । ऊर्ध्वकायावस्थानप्रकारमाह — ऋज्वायतमिति । ऋजु तृतीयः सर्गः १७७ अवक्रम् अत एवायतं दीर्घं च। अवक्रायतोर्ध्वकायमित्यर्थः । पाणिद्वयावस्थापनप्रकारमाह— उत्तानपाणिद्वयसन्निवेशाद् अङ्कमध्ये प्रफुल्लराजीवमिवेति । उत्तानस्य ऊर्ध्वमुखस्य पाणिद्वयस्य सन्निवेशाद् अवस्थापनाद् । अङ्कस्य मध्ये । प्रफुल्लराजीवं प्रफुल्लं विकसितं राजीवं पङ्कजं यस्य तम्। उत्तानयोः करतलयोरङ्कमध्यावस्थापितत्वाद् अङ्कमध्ये प्ररूढारविन्दमिव दृश्यमानमित्यर्थः । अत्र पाणिद्वयस्या सन्निवेशादेवांसयोः सन्नमितत्वमपि सम्भवतीति न तस्य शास्त्रीयत्वम् । पाणिद्वयस्याङ्कावस्थापनं तु योगसारवचनसिद्धम् । यथोक्तम्– ‘उत्तानिते करतले करमुत्तानितं परम् । आधायाङ्कगतं कृत्वा ध्यायेदि त्यादि ॥ ४५ ॥ भुजङ्गमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् । कण्ठप्रभाभ्यङ्गविशेषनीलां मृगत्वचं ग्रन्थिमतीं दधानम् ॥ ४६ ॥ प्रकाशिका भुजङ्गमेति । अक्षसूत्रस्य द्विगुणनं शैथिल्यपरिहाराय । श्रवसि स्थापनं श्रवसः पवित्रतास्मृतेः । अभ्यङ्गो व्याप्तिः । ग्रन्थिरस्रंसनाय ॥ ४६ ॥ विवरणम् ध्यानोद्योगद्योतकमलङ्कारविशेषमाह-

भुजङ्गमेति । भुजङ्गमोन्नद्धजटाकलापं भुजङ्गमेन सर्पेण उन्नद्धः ऊर्ध्वं नद्धः जटाकलापः जटासमूहो येन तम् । योगमात्रव्यापृतस्य जपविरामादक्षमालार्पणप्रकारमाह— कर्णावसक्तद्विगुणाक्षसूत्रमिति । कर्णे अवसक्तं कर्णावसक्तम्। द्वौ गुणौ परिवृत्ती यस्य तद् द्विगुणम् । कर्णे दक्षिणकर्णे अवसक्तं स्थितं द्विगुणमक्षसूत्रम् अक्षमाला यस्य तम्। अक्षसूत्रस्य कर्णे निधानं कर्णस्य पवित्रतास्मृतेः । द्विगुणत्वं चाञ्चल्यपरिहारार्थम्। कटिप्रदेशस्यापि योगानुगुणं स्थिरत्वापादनप्रकारमाहग्रन्थिमतीं मृगत्वचं दधानमिति । ग्रन्थिः ग्रथनमस्या अस्तीति ग्रन्थिमती । अतिशायने मतुप् । तादृशीं मृगत्वचं मृगस्य त्वचं दधानं परिदधानम् । निबिडग्रथितं मृगचर्म वसानमित्यर्थ। अत्र निबिडग्रथनं मध्ये स्रंसपरिहारार्थम् । भगवत्परिधानभूताया मृगत्वचः शोभाधिक्यमाह—कण्ठप्रभाभ्यङ्गविशेषनीलामिति । कण्ठस्य प्रभाया अभ्यङ्गेन व्याप्त्या विशेषतो नीलाम्। गलगलितया बहलतरया गरलप्रभया विशेषतोऽपि श्यामलामित्यर्थः । मृगत्वचः स्वतो नीलत्वाद् विशेषनीलोक्तिः ॥ ४६ ॥ । १७८ P कुमारसम्भवे किञ्चित्प्रकाशस्तिमितोग्रतारै- भ्रूविक्रियायां विरतप्रसङ्गैः । नेत्रैरविस्पन्दितपक्ष्ममालै- र्लक्षीकृतघ्राणमधोमयूखैः ॥४७॥ प्रकाशिका PSTUMP किञ्चिदिति । विशेषणानि योगदृष्टिस्वभावाख्यानपराणि चित्तैकाग्रताद्योत- कानि ॥ ४७ ॥ विवरणम् क नेत्राणामपि योगानुगुणमवस्थानविशेषमाह- किञ्चिदिति । नेत्रैः लक्षीकृतघ्राणम् । नेत्रैः त्रिभिर्लोचनैः । लक्षीकृतघ्राणं लक्षीकृतं लक्षतां प्रापितं घ्राणं नासाग्रं येन तम् । शरादिप्राप्यभूमिर्लक्षशब्दार्थः । अत्र तु प्राप्यभूमित्वगुणयोगाद् घ्राणे गौणः प्रयोगः । त्रिभिरपि लोचनैरश्रान्तमवलोक्यमाननासिकाग्रमित्यर्थः । अथ योगदृष्टिख्यापनपराणि चित्तैकाग्र्यद्योतकानि च नेत्रविशेषणान्याह — किञ्चिदित्यादिभिः । किञ्चित्प्रकाशस्तिमितोग्रतारैः । किञ्चन प्रकाशो यासां ताः किञ्चित्प्रकाशाः स्तिमिता निश्चलाः उग्रा दुर्निरीक्षाश्च ताराः कनीनिकाः येषां तैः अत्र किञ्चित्प्रकाशत्वं नयनानामीषन्मीलनात् । तच्च योगस्वभावकृतम्। स्तिमितत्वं चित्तैकाग्र्यकृतम् । स्तिमितत्वादेवोग्रत्वम् । नेत्राणां स्तिमितत्वाद् भ्रुवोरपि स्तिमितत्वमाह - भ्रूविक्रियायां विरतप्रसङ्गैरिति । भ्रुवोर्विक्रियायां विकारे । विरतो निवृत्तः प्रसङ्गो व्यापारो येषां तैः । भ्रूविकारस्य नेत्रविकारपूर्वकत्वादेवमुक्तम् । नेत्रावयवानामपि निस्पन्दत्वमाह — अविस्पन्दित- । पक्ष्ममालैरिति। अविस्पन्दिता अचलिताः पक्ष्ममाला अक्षिरोमसमूहाः येषां तैः । नासाग्रमात्रावलोकप्रकारमाहअधोमयूखैरिति । अधोभाग एव मयूखा रश्मयो येषां तैः । अनेन समाधेरचलत्वमुक्तम्॥४७॥ अवृष्टिसंरम्भमिवाम्बुवाह- मपामिवाधारमनुत्तरङ्गम् अन्तश्चराणां मरुतां निरोधा- न्निवातनिष्कम्पमिव प्रदीपम् ॥४८॥ कृ तृतीयः सर्गः प्रकाशिका १७९ अवृष्टीति । अत्राध ऊर्ध्वं तिर्यक् च वायोर्गतित्रयनिरोधादुपमानत्रयो- पपत्तिः ॥४८ ॥ कन विवरणम् अथ योगाभ्यासयोग्यं प्राणादिवायूनां निरोधमुपमामुखेन दर्शयति- अवृष्टीति । अन्तश्चराणां मरुतां निरोधाद् अवृष्टिसंरम्भम् अम्बुवाहमिव । अन्तश्चरन्तीत्यन्तश्चराः, तेषाम् । शरीरान्तर्वर्तिनामित्यर्थः । मरुतां प्राणादिवायूमां निरोधाद् नियमनाद्धेतोः । अवृष्टिसंरम्भम् । संरम्भ उद्योगः वृष्टिसंरम्भो यस्य नास्ति सोऽवृष्टिसंरम्भः, (तम्) वर्षोद्योगरहितमम्बुवाहं मेघमिव दृश्यमानम् । अनेनोपमानेन मरुतामधःप्रदेशप्रवृत्त्यभावः सूचितः । ऊर्ध्वप्रवृत्त्यभावमपि दर्शयति — अनुत्तरङ्गम् अपाम् आधारमिवेति। अनुत्तरङ्गम् उद्गतस्तरङ्गो यस्मात् स उत्तरङ्गः, उत्तरङ्गो न भवतीत्यनुत्तरङ्गः, अपां जलानाम् आधारमधिष्ठानं जलाशयमिवेत्यर्थः । ’ जलाशयो जलाधार’ इत्यमरः । अन्तश्चराणां मरुतां निरोधादिति अत्रापि योजनीयम् । तिर्यक्प्रवृत्त्यभावमपि प्रतिपादयति-निवातनिष्कम्पं प्रदीपमिवेति । निवातं वाताभावः । अर्थाभावेऽव्ययीभावः । तेन हेतुना निष्कम्पं निश्चलं प्रदीपमिव । अन्तश्चराणां मरुतां निरोध एवात्रापि हेतुः । कुम्भितपवनत्वेन कुत्रापि पवनप्रवृत्त्यभावानिश्चिलशरीरमित्यर्थः ॥४८ ॥ कपालनेत्रान्तरलब्धमार्गै- र्ज्योतिः प्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्यान् ि बालस्य रश्मीन् ग्लपयन्तमिन्दोः ॥४९॥ प्रकाशिका कपालनेत्रान्तरेति । कपालं ब्रह्मशिरस्सम्बन्धि । वक्ष्यति च ‘कपालमेवामलशेखर श्रीः ’ (७.३२) इति । तन्नेत्ररन्ध्रनिर्गतैर्ज्योतिः प्ररोहैरन्तराग्नेयमण्डलसमुद्गतैः। शिरस्तः ब्रह्मरन्ध्रात्। मृणालेत्याद्युत्प्रेक्षाप्राणकम्॥ ४९ ॥ विवरणम् इत्थं प्रतिपादितस्वासनजयादिरूपस्व योगस्य सिद्धिं दर्शयति- कपालेति । शिरस्तः उदितैः ज्योतिष्प्ररोहैः बालस्य इन्दोः रश्मीन् ग्लपयन्तम्। शिरस्तः ब्रह्मरन्ध्राद् उदितैः उद्गतैः ज्योतिष्प्ररोहैः ज्योतिषाम् १८० कुमारसम्भवे अन्तर्गताग्नेयमण्डलसमुद्गतानां तेजसां प्ररोहैः अङ्कुरैः बालस्य इन्दोः जटाकोटितटघटितस्य बालचन्द्रस्य रश्मीन् ग्लपयन्तं ग्लानिं प्रापयन्तम् । अयमभिप्रायःयोगिनो हि नियमितप्राणा आग्नेयमण्डलापरनामधेयं कुण्डलिनीशब्दाभिधेयमात्मतेजो मूलाधारादुत्थाप्य क्रमात् सुषुम्नान्तरं नाभिप्रदेशं हृदयं भ्रूमध्यं च नीत्वा द्वादशान्तस्थिते परमात्मनि योजयन्ति । परमेश्वरस्य तु तदानीं तेन तेजसा तन्मध्यवर्तिनो बालचन्द्रस्य प्रभासङ्कोचोऽपि सञ्जातः । बालचन्द्रे परमात्मसाम्यं च प्रतीयत इति । ज्योतिष्प्ररोहाणामूर्ध्वगमनाभ्युपायमभ्यूह्य कथयति — कपालनेत्रान्तरलब्धमार्गैरिति । कपालस्य ब्रह्मशिरःकपालस्य यन्नेत्रान्तरं नेत्ररन्ध्रं तेन पथा लब्धमार्गैः। ब्रह्मशिरःकपालनेत्ररन्ध्रनिर्गतैरित्यर्थः । बालचन्द्ररश्मीनां ग्लानिप्राप्तौ हेतुमाह - मृणालसूत्राधिकसौकुमार्यानिति । मृणालस्य सूत्रं मृणालसूत्रं, तस्मादप्यधिकं सौकुमार्यं येषां तान् । प्रबलसन्निधौ दुर्बलं ग्लानिमेतीति हि प्रसिद्धमिति भावः ॥ ४९ ॥ नागरी मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् । यमक्षरं क्षेत्रविदो विदुस्त- प्राणीक मात्मानमात्मन्यवलोकयन्तम् ॥५०॥ प्रकाशिका मन इति । हृदि स्थानविशेषे । अत्र वसिष्ठः- यतो निर्याति विषयाद् यस्मिंश्चैव प्रलीयते । हृदयं तद् विजानीयान्मनसः स्थितिगोचरम्॥ इति। अत्रोपायमाह—समाधिवश्यमिति। अक्षरमनश्वरम्। क्षेत्रविदः क्षेत्रक्षेत्रज्ञविभागविद इत्यर्थः । आत्मानं परमात्मानम् । आत्मनि स्वस्मिन् । अत्र परमपावनस्य योगिदशापन्नपरमेश्वरस्वरूपस्य कविशक्त्या प्रत्यक्षायमाणत्वं कृतमित्येतदनुसन्धातॄणां कार्यमात्ररसिकानां गुरुकटाक्षपातरहितानामपि सकलबन्धध्वंसो भवति । अयमेव चात्र कारुणिकस्य कवेरभिप्रायः ॥ ५० ॥ योगसिद्धेः फलमाह- विवरणम् एकट मन इति । क्षेत्रविदः यम् अक्षरं विदुः मनः हृदि व्यवस्थाप्य तम् आत्मानम् आत्मनि अवलोकयन्तम् । क्षेत्रं शरीरं विदन्तीति क्षेत्रविदः । आत्मनो भिन्नत्वेन तृतीयः सर्गः १८१ शरीरमवगच्छन्त इत्यर्थः । क्षेत्रक्षेत्रज्ञविभागविद इति यावत् । यमक्षरं विदुः अनश्वरं जानन्ति । ‘विदो लटो वा’ (३.४.८३) इति झेरुसादेशः । अन्तःकरणम् । हृदि हृदये मनोनिवासस्थान इत्यर्थः । यथाह वसिष्ठः- यतो निर्याति विषयाद् यस्मिंश्चैव प्रलीयते । हृदयं तद् विजानीयान्मनसः स्थितिगोचरम्। इति । व्यवस्थाप्य स्थिरतया स्थापयित्वा । तम् आत्मानं परमात्मानमित्यर्थः । आत्मनि स्वस्मिन्, जीवात्मनीत्यर्थः । अवलोकयन्तं पश्यन्तम् । विषयेभ्यो मनो निवार्य जीवपरयोरैक्यमेवावगच्छन्तमिति भावः । तत्तदिन्द्रियानुसारेण विषयाननुधावतो मनसो निरोधप्रकारमाह-नवद्वारनिषिद्धवृत्तीति । शरीरस्य हि नवद्वाराणि सन्ति । यथाहुः-

नयनश्रवणे द्वे द्वे नासिके वदनं तथा । पायूपस्थौ च देहेऽस्मिन् नवद्वाराणि देहिनाम्॥ इति । नवभ्योऽपि द्वारेभ्यो निषिद्धा वारिता वृत्तिर्यस्य तत् । मनोनिषेधोपायमाहसमाधिवश्यमिति। समाधिरैकाग्र्यं तेन वश्यं विधेयम्। समाधिपरिशीलनमेव हि विषयेभ्यो मनोनिवारणस्योपायः । एवम्भूतं त्र्यम्बकं ददर्शेति पूर्वेणान्वयः । अत्र महाकविः परमकारुणिको योगिदशापन्नस्य परमेश्वरस्य परमपावनं स्वस्वरूपमनुसन्धातॄणां कर्मबन्धपरिध्वंसार्थं कविशक्त्या प्रत्यक्षायमाणतया प्रदर्शितवानिति भाविकमलङ्कारः । ‘अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकमि’ […]ति ॥ ५० ॥ स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत् साध्वससन्नहस्तः स्त्रस्तं शरं चापमपि स्वहस्तात् ॥५१॥ प्रकाशिका कुर एवं परमामनभिभवनीयतामधितिष्ठति देवे कामस्यावस्थां वर्णयति — स्मर इति । साध्वसं भयम् । तस्य चालम्बनं (तथाभूतत्वम्) । तथाभूतत्वात् सङ्कल्पेनाप्यधृष्यत्वम्। अदूरादिति स्फुटप्रत्यये हेतुः । नालक्षयदिति विषादाव्यभिचारिणी जडता । तथाभूतं पश्यन्नित्यनेन पूर्वं दाक्षायणीसाहचर्ये समग्रशृङ्गारास्पदत्वेन देवस्य स्वयमनुभूतत्वात् तथाभावः कदाचिदप्यतर्कितपूर्वः कामेनेति प्रतीयते ॥ ५१ ॥ १८२ कुमारसम्भवे विवरणम् एवं परमेश्वरस्य दुरभिभत्वं प्रतिपाय तमेवमालोकयतो मदनस्य तदनुगुणाम- वस्थामाह- स्मर इति । अयुग्मनेत्रम् अदूरात् तथाभूतं पश्यन् स्मरः स्वहस्तात् स्रस्तं शरं चापमपि न अलक्षयत् । अयुग्मनेत्रं त्र्यम्बकम् अदूरात् समीपे इत्यर्थः । ‘दूरान्तिकार्थेभ्यो द्वितीया च’ (२.३.३५ ) इति पञ्चमी । अनेन सम्यगवलोकनोपपत्तिर्दर्शिता । तथाभूतं पश्यन् अत्यन्तदुर्निरीक्षतया साक्षात्कुर्वन् । पूर्वं दाक्षायणीसाहचर्ये समग्रशृङ्गारास्पदत्वात् तथाभूतत्वेनानुभूतस्य भगवतस्तथाभावो मनसापि न स्मरेण सम्भावित इति भावः । स्मरः मदनः स्वहस्ताद् आत्मनः करात्। स्रस्तं गलितं शरं चापमपि । अपिशब्दः समुच्चये । नालक्षयत् न ज्ञातवान् । अत्र स्वहस्तस्रस्तस्याप्यज्ञातत्ववचनेन साध्वसस्योत्कर्ष उक्तः । तथाभूतत्वमेवोपपादयति — मनसाप्यधृष्यमिति । सङ्कल्पेनाप्यनभिभवनीयम्। अहमेनमभिभष्यामीति सङ्कल्पयितुमप्यशक्यमित्यर्थः । स्वहस्ताच्छरचापस्रंसे हेतुमाह — साध्वससन्नहस्त इति । साध्वसेन भयेन । ‘भीतिर्भीः साध्वसं भयमित्यमरः । सन्नौ क्षीणौ हस्तौ यस्य स तथा । अत्र साध्वसस्यालम्बनं तथाभूतत्वम् ॥ ५१ ॥ निर्वाणभूयिष्ठमथास्य वीर्यं की सन्धुक्षयन्तीव वपुर्गुणेन । सन्धुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवताभ्या- मदृश्यत स्थावरराजकन्या ॥५२॥ प्रकाशिका अथ पूर्वप्रकृतं देवीकर्तृकं शुश्रूषालक्षणं प्रयोज्यस्योपावर्तनं स्वावसरेऽवतारयतिनिर्वाणभूयिष्ठमिति । आहिताग्न्यादिषु पाठात् पूर्वनिपातानियमः । निर्वाणसन्धुक्षणाभ्यामग्निसाम्यप्रतीतिः । वपुर्गुणेन रूपसम्पदा । वनदेवताभ्यामोषधिप्रस्थयोषिद्भ्यां सखीभ्याम् । यद्वक्ष्यति ‘योषितो वनदेवताः’ (६.३९) इति । अनेन ‘सखीसमग्राम्’ (१.५८) इत्येतदनुसंहितम्। ते च विजयामालिन्यौ प्रसिद्धे । दर्शनस्य तद्वीर्योद्दीपनत्वाददृश्यतेत्युक्तं, न त्वाजगामेति ॥ ५२ ॥ विवरणम् क 15 अथ प्रथमसर्गे प्रतिपादितं शुश्रूषादिलक्षणं प्रयोज्योपावर्तनं स्वावसरेऽवतारयति- निर्वाणेति । अथ स्थावरराजकन्या अदृश्यत । अथ साध्वसप्राप्त्यनन्तरम् । तृतीयः सर्गः १८३ स्थावरराजकन्या स्थावराणां राजा हिमवान्, तस्य कन्या पार्वती । अदृश्यत दृष्टाभूत् । तद्दर्शनस्य मन्मथोद्दीपनत्वप्रदर्शनार्थमदृश्यतेत्युक्तं, नत्वभ्याययाविति । दर्शनं हि मन्मथकर्तृकं, तेन च तस्य कृतार्थताभिमानः, तेन च तस्य वीर्यसन्धुक्षणमिति क्रमः । अत एवोत्प्रेक्षते - निर्वाणभूयिष्ठमस्य वीर्यं वपुर्गुणेन सन्धुक्षयन्तीवेति । निर्वाणभूयिष्ठं नष्टप्रायम्। आहिताग्न्यादिषु पाठात् पूर्वनिपातनियमाभावः । कर्तरि निष्ठान्तश्चायं निर्वाणशब्दो ‘निर्वाणोऽवाते’ (८.२.५०) इति निपातितः। अस्य कामदेवस्य वीर्यं बलम् । ‘वीर्यं बले प्रभावे च’ इत्यमरः । वपुषो गुणेन सौन्दर्यातिशयेन सन्धुक्षयन्तीव वर्धयन्तीव । अत्र निर्वाणसन्धुक्षणशब्दाभ्यां मन्मथवीर्यस्याग्निसाम्यं प्रतीयते । तेन चात्यन्तदुस्सहत्वम् । ‘सखीसमग्रां समादिदेशे ‘ति पूर्वोक्तमर्थमनुसन्दधान आह— वनदेवताभ्यामनुप्रयातेति । तत्रत्यानां योषितां वनदेवतात्वाद् वनदेवताभ्यामित्युक्तम् । वक्ष्यति च ’ योषितो वनदेवताः’ (कुमार. ६.३९) इति । एते च विजया मालिनी चेति प्रसिद्धे देवीसख्यौ । अनुप्रयाता अनुगता ॥ ५२ ॥ अशोकनिर्भत्सितपद्मराग- माक्रुष्टहेमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥५३॥ प्रकाशिका अशोकेति । मित्यर्थः ॥ ५३ ॥ मुक्ताकलापो मुक्ताकलापो हारः । वसन्तपुष्पमयमाभरणमाभरणजात- विवरणम् अथ देवीदर्शनस्य मन्मथवीर्यसन्धुक्षणसामर्थ्यं प्रतिपादयितुं देवीविशेषणभूताश्चत्वारः श्लोकाः । तत्रादौ दूरतो दृश्यमानाया अपि देव्या बसन्तपुष्पाभरणानामुज्ज्वलतरत्वाद् दूरतोऽपि दर्शनोपपत्तेर्वसन्तपुष्पाभरणरमणीयत्वमाह- S अशोकेति । वसन्तपुष्पाभरणं वहन्ती । वसन्तपुष्पाभरणमिति जातावेकवचनम्। वसन्तपुष्पमयान्याभरणानि दधानेत्यर्थः । वसन्तपुष्पाभरणानामितराभरणव्यतिरेकं प्रतिपादयितुं वसन्तपुष्पाभरणं विशिनष्टि — अशोकेत्यादिना । तत्रादावशोककुसुमानामौज्ज्वल्यातिरेकात् दद्दर्शनं जातमिति पूर्वमशोकपुष्पाभरणं वर्णयति - अशोकनिर्भत्सितपद्मरागमिति । अशोकैः अशोककुसुमैः निर्भत्सिता१८४ कुमारसम्भवे निन्दिताः पद्मरागाः पद्मरागमणयो येन तत् । अनेन देव्याः काञ्चीनूपुरादिप्रत्युप्तानामुत्तमतराणां पद्मरागाणामशोककुसुमेभ्यो न्यूनता प्रतिपादिता । काञ्चीनूपुरादीनामपि कर्णिकारकुसुमापेक्षया न्यूनतां प्रतिपादयतिआक्रुष्टहेमद्युतिकर्णिकारमिति । आक्रुष्टा निन्दिता हेम्नः सुवर्णस्य द्युतिः कान्तिर्यैस्तादृशा [ नि] कर्णिकारपुष्पाणि यस्मिंस्तत् । अनेनाशोककुसुमापेक्षया कर्णिकारकुसुमानां न्यूनप्रभावत्त्वादशोकपुष्पदर्शनानन्तरमेव कर्णिकारपुष्पदर्शनमिति च प्रतिपादितम् । अत एवानन्तरमेव तदुपादानम् । अथ पुनरपि प्रत्यासत्तिबलात् सिन्दुवारकुसुमानामपि दर्शनं जातमित्याह — मुक्ताकलापीकृतसिन्दुवारमिति । मुक्ताकलापो मुक्ताकलापीकृतानि मुक्ताकलापतां प्रापितानि । सिन्दुवारकुसुमानि यस्मिन् । अत्राभूततद्भावप्रयोगेण सिन्दुवारपुष्पाणां मुक्ताकलापापेक्षया बहुगुणत्वाद् मुक्ताकलापमपहाय तत्स्थानप्रापणमुक्तमिति व्यतिरेकोपपत्तिः ॥ ५३ ॥ आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविता लतेव ॥५४॥ प्रकाशिका हारः, आवर्जितेति । इवशब्दो वाक्यालङ्कारे । तरुणार्करागमिति वसन्ते स्त्रीणां रक्तं वासः। तदुक्तम् ‘अरुणरागनिषेधिभिरंशुकैरि’ [ रघु. ९.४३]ति॥५४॥ विवरणम् अथ क्रमेण किञ्चिदासन्नत्वाद् विभाव्यमानस्तनजघनाद्यवयवविभागां देवीं विशिनष्टि- आवर्जितेति । स्तनाभ्यां किञ्चिदिव आवर्जिता इति । स्तनाभ्यामावर्जनकर्तृभूताभ्यां स्तनभाराभ्यां किञ्चिद् ईषदिव । इवशब्दो वाक्यालङ्कारे । आवर्जिता आनमिता। स्तनभारगौरवादनवमितशरीरेत्यर्थः । पुनश्च क्रमेण वसनवर्णस्यापि विशेषावगमो जात इत्याह - तरुणार्करागं वासो वसाना इति । तरुणस्य अचिरोदितस्य अर्कस्य सूर्यस्य राग इव रागो यस्य तादृशं वासो वसाना परिदधाना। अत्रारुणाम्बरधारणं वसन्तोचितम् । यथोक्तं रघुवंशे – ‘अरुणरागनिषेधिभिरंशुक्रैः’(९.४३) इति । अत्रोत्प्रेक्षते - सुजातपुष्पस्तवकावनम्रा पल्लविता लता सञ्चारिणीवेति । सुजातेन मनोहरेण पुष्पस्तबकेन मञ्जर्या । अत्र स्तवकशब्देनैव तृतीयः सर्गः १८५ विवक्षितार्थसिद्धावपि मनोहारित्वातिशयप्रदर्शनार्थं काव्यप्रकाशकृता — ‘कर्णावतंसादिपदे पुष्पशब्दप्रयोगः । यदुक्तं कर्णादिध्वनिनिर्मितिः, सन्निधानादि- बोधार्थमिति । अवनम्रा अवनमिता । पल्लविता सञ्जातपल्लवा । तारकादित्वादितच् । सञ्चारिणी सञ्चरणशीला लतेव । अत्र गौरीलतयोः स्तनस्तबकयो रक्तवासःपल्लवयोश्च परस्परसाम्यमुत्प्रेक्षाबीजम् ॥ ५४ ॥ स्त्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥५५॥ प्रकाशिका स्त्रस्तामिति । स्रंसनं गमनवशात्। गमनप्रतिबन्धनिरासाय चावलम्बनम् । पुनश्शब्द उभयशेषः । स्थानविदा, अत्र निक्षिप्तमापदि सुलभं स्यादिति । ‘मौवीं द्वितीयामिति युक्तमिति लिख्यते ॥ ५५ ॥ भोजादयः । अत्र युक्तिर्विस्तरभयादस्माभिर्न विवरणम् अथ तदपेक्षयापि किञ्चित् प्रत्यासन्नां विभाव्यमानव्यापारविशेषां देवीं विशिनष्टि- स्स्रस्तामिति । नितम्बात् स्रस्तां केसरदामकाञ्चीं पुनः पुनः अवलस्वमाना । नितम्बाद् जघनप्रदेशात् स्रस्तां गमनवशाद् गलिताम्। केसरदामकाञ्चीं केसरमालामयीं काञ्चीं रशनाकलापम्। केसरो बकुलः । पुनश्शब्द उभयशेषः । गमनवशात् पुनः पुनर्गलितां केसरदामकाञ्चीं पुनः पुनरवलम्बमानेत्यर्थः । गमनप्रतिबन्धनिरासाय स्वयमेव स्वस्थानं नीत्वा करेण गृह्णतीति भावः । काञ्चीमुत्प्रेक्षते - स्थानविदा स्मरेण न्यासीकृतां कार्मुकस्य द्वितीयमौर्वीमिवेति । स्थानविदा स्थानं वेत्तीति स्थानवित् तेन । अत्र निक्षिप्तमापदि मया सुलभं भवेदिति निक्षेपस्थानज्ञेनेत्यर्थः । स्मरेण मदनेन न्यासीकृतां निक्षेपतां प्रापितां कार्मुकस्य चापस्य द्वितीयां मौवीं शिञ्जिनीमिव । चापभृतो हि युद्धमध्ये मौर्वीभङ्गमाशङ्कय द्वितीयां कामपि मौर्वीमाप्तजने निक्षिपन्ति । अत्र द्वितीयमौर्वीमित्यत्रोत्प्रेक्षाविषयभूतस्य द्वितीयात्वस्य समासान्तर्गतत्वमयुक्तम् । तस्मान्मौर्वी द्वितीयामित्येव युक्तः पाठ इति कैश्चिदुक्तम्। तदयुक्तम्। समासान्तर्गतत्वेऽपि कविशक्त्या द्वितीयात्वप्रतिपत्तेः सुलभत्वात् । न चात्र द्वितीयात्वमात्रमुत्प्रेक्ष्यम्, अपि तु स्मरेण १८६ कुमारसम्भवे न्यासीकृतत्वं द्वितीयात्वं मौर्वीत्वं च । तत्र मौर्वीत्वोत्प्रेक्षयैव तदितरोत्प्रेक्षासिद्धिरिति मौर्वीत्वमेवात्र विधेयांश इति नाविमृष्टविधेयांशत्वदोषः ॥ ५५ ॥ सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् । प्रतिक्षणं सम्भ्रमलोलदृष्टि- र्लीलारविन्देन निवारयन्ती ॥५६॥ प्रकाशिका सुगन्धीति । बिम्बाधर इति ‘बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम्’(५.२.१५) इति वामनः । बिम्बाकारोऽधर इति विग्रहः । शाकपार्थिवादित्वात् समासः । अन्यथाधरबिम्ब इति स्यात् । अनेन कुलकेन कविः प्रतिभामय्या स्वदृष्ट्या साक्षात्कृतं समग्रलोकोत्तरविभावतापात्रभूतं तत्कालसमुचितभूषणविलासविशेषितं देव्या वपुः सहृदयानां साक्षात्कारपदवीं स्वशक्त्या नीतवानिति भाविकमलङ्कारः । अत्रापि पूर्ववदभिप्रायः । कवेः ॥ ५६ ॥ विवरणम् अथ देवीगतानां सूक्ष्मतराणां व्यापाराणामपि विभाव्यमानत्वात् तद्विशिष्टां देवीं विशिनष्टि- सुगन्धीति । बिम्बाधरासन्नचरं द्विरेफं प्रतिक्षणं लीलारविन्देन निवारयन्ती । बिम्बाधरासन्नचरम् । बिम्बाकारोऽधरो बिम्बाधरः । शाकपार्थिवादित्वात् समासः । तस्यासन्ने चरतीति तथा । द्विरेफं भ्रमरं प्रतिक्षणं क्षणे क्षणे। लीलारविन्देन लीलार्थमेव हस्ते गृहीतेन पद्मेन निवारयन्ती नितरां वारयन्ती । लीलारविन्दगन्धानुभवस्य प्रतिक्षणं विद्यमानत्वेऽपि भ्रमरस्य तत्परित्यागपूर्वकस्य बिम्बाधरसञ्चारस्य हेतुमाह — सुगन्धिनिःश्वासविवृद्धतृष्णमिति । शोभनो गन्धो यस्य सः सुगन्धिः । ‘गन्धस्येदुत्पूतिसुसुरभिभ्यः (५.४.१३५ )इतीत्। तादृशे निःश्वासे विवृद्धा तृष्णा यस्य तम् । भ्रमरबाधानुभावमाह — सम्भ्रमलोलदृष्टिरिति । सम्भ्रमेण लोला चञ्चला दृष्टिर्यस्याः सा तथा । अत्र किल कुलके महाकविः प्रतिभामय्या स्वदृष्ट्या लोकोत्तरसौन्दर्यसौकुमार्यादिभिः स्वत एव रमणीयं तत्कालोचितभूषाविलादादिभिश्च नितरां हृदयङ्गमं देवीशरीरं साक्षात्कृत्य स्वशक्त्या सहृदयानामपि साक्षात्कारपदवीं नीतवानिति भाविकमलङ्कारः । अत्रापि पूर्ववदेवानुसन्धातृणामखिलक्लेशनाश एव महाकारुणिकस्य कवेरभिप्रायः ॥ ५६ ॥ तृतीयः सर्गः तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीतिमिवादधानाम्। जितेन्द्रिये शूलिनि पुष्पकेतुः स्वकर्मसिद्धिं पुनराशशंस ॥५७॥ प्रकाशिका १८७ इत आरम्भ प्रयोज्यस्य देवस्याभियोक्त्र्या देव्यास्तत्सहोत्थायिनः कामस्यतत्सख्यादीनां च वृत्तं यथास्वमवसरे तिलतण्डुलकन्यायेन वर्णयति । तत्र तावल्लब्धबलस्य कामस्य वृत्तमाह- तामिति । ह्रीतिमादधानामिवेति रूपाभिमानमपहरन्तीमित्यर्थः । जितेन्द्रिये जितेन्द्रियेऽपीत्यर्थः । शूलिनीति तीक्ष्णदण्डत्वं द्योत्यते, पुष्पकेतुरिति सुकुमारोपकरणत्वम् । पुनश्शब्देनाशंसायाः पूर्वत्रुटितत्वमनुसंहितम् ॥ ५७ ॥ विवरणम् अथ तादृशदेवीदर्शनलब्धबलस्य कामस्यावस्थामाह- तामिति। पुष्पकेतुः तां वीक्ष्य जितेन्द्रिये शूलिनि पुनः स्वकर्मसिद्धिम् आशशंस । पुष्पकेतुः पुष्पमेव केतुर्यस्य सः कामदेवः । अनेनात्मनः सुकुमारसाधनत्वमुक्तम्। तां पार्वतीं वीक्ष्य सम्यगवलोक्य । जितेन्द्रिये जितानीन्द्रियाणि येन तस्मिन् । उपरतेन्द्रियव्यापारेऽपीत्यर्थः । शूलिनीत्यनेन तीक्ष्णदण्डत्वादनभिभवनीयत्वं द्योत्यते । पुनश्शब्देनाशंसायाः पूर्वं भग्नत्वमनुसंहितम् । स्वकर्मसिद्धिं स्वस्य कर्मणः हरचित्तवशीकरणव्यापारस्य सिद्धिं फलप्राप्तिम् आशशंस श्रद्दधे । अत्र परस्मैपदित्वं चिन्त्यम् । तद्दर्शनेन स्वकर्मलाभाशंसायां हेतुमाह — सर्वावयवानवद्यामिति । सर्वेष्ववयवेष्वनवद्यामवद्यरहिताम् । निर्दोषामिति यावत् । अत एवोत्प्रेक्षते - रतेरपि ह्रीतिमादधानामिवेति । रतेः कामदेवेन सह तत्रागतायाः कामपत्न्याः । अपिशब्देनान्यासां का गतिरिति द्योत्यते। हीति लज्जाम्। ‘ही लज्जायामि’ति धातोः स्त्रियां क्तिन् । आदधानां विरचयन्तीमिव । रतिरपि तामवलोक्य किमपि व्रीलाकुला नूनं जातैवेत्यर्थः । तस्या रूपाभिमानदर्पं हरन्तीमिति भावः । शूलिनस्तीक्ष्णदण्डत्वेऽपि पुष्पकेतुः सुकुमारसाधनस्यात्मनस्तज्जयो नूनमनया भविष्यतीति कल्पितवानिति भावः ॥ ५७ ॥ १८८ कुमारसम्भवे भविष्यतः पत्युरुमा च शम्भोः समाससाद प्रतिहारभूमिम् । योगात् स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥५८॥ अथ कथां संविदधाति — प्रकाशिका भविष्यत इति । भविष्यतः पत्युरिति प्राप्तौ लज्जामन्थरत्वं द्योत्यते । प्रतिहारभूमिं द्वारदेशम् । योगादुपारराम, योगश्चित्तवृत्तिनिरोधः । चशब्दौ दैवाद् यौगपद्यं सूचयतः ॥ ५८ ॥ विवरणम् अथ कथामेवानुसन्दधान आह- , भविष्यत इति । उमा शम्भोः प्रतिहारभूमिं समाससाद च । सः परमात्मसंज्ञं परं ज्योतिः अन्तर्दृष्ट्वा योगादुपारराम च । उमा पार्वती शम्भोः शिवस्य प्रतिहारभूमिं द्वारप्रदेशं समाससाद प्राप्तवती । सः शम्भुः । परमात्मसंज्ञं परमात्मेति संज्ञा यस्य तादृशम्। परं ज्योतिः दृश्यप्रपञ्चोत्तीर्णं स्वयम्प्रकाशस्वरूपम् अन्तः हृदयकुहरे दृष्ट्वा साक्षात्कृत्य योगात् समाधेः उपारराम उपरतोऽभूतः । ‘व्याङपरिभ्यो रमः’ (१.३.८३) इति परस्मैपदम्। परमात्मसाक्षात्कारपर्यन्तो हि योगः । अत्र चशब्दद्वयेन दैवादागतं यौगपद्यं द्योत्यते, प्रयोज्यस्योपावर्तनमित्यत्रोक्तमवसरोपस्थानं च । नन् ‘अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’(१०.६)इति रघुवंश उक्तम् । अत्र पुनः कामदहनाद्यनर्थप्राप्तिरेव भाविनी । अत आह— पत्युः भविष्यत इति । भर्तृत्वेन भविष्यत इत्यर्थः । अनेन देवीप्राप्तेर्लब्धावसरत्वं द्योत्यते । अपि च मुखदर्शनमात्रं तदानीमेव भविष्यति । ‘उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि (कुमा. ३.६७) इति वक्ष्यमाणत्वात् । समुच्चयोऽत्रालङ्कारः । गुणक्रियायौगपद्यं समुच्चय इति ॥ ५८ ॥ ततो भुजङ्गाधिपतेः फणाभि- रधः कथञ्चिद् धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥५९॥ क ि तृतीयः सर्गः १८९ योगावसानिकं विधिमाह- प्रकाशिका तत इति। फणाभिरिति सर्वौघप्रसर उक्तः । कथञ्चित् कृच्छ्रात् शनैरिति शास्त्रसिद्धो रेचनाक्रमः ॥ ५९ ॥ विवरणम् अथ योगादुपरतस्य भगवतस्तदवसानकर्तव्यं विधिमाह— तत इति । तत ईशः पर्यङ्कबन्धं बिभेद । ततः योगविरामानन्तरम् ईशः परमेश्वरः पर्यङ्कबन्धं वीरासनं बिभेद विसृष्टवान् । योगादुपरते त्रैलोक्यात्मके भगवति तच्छरीरगौरवमप्यनन्तेन कथमपि सोढमित्याह — भुजङ्गाधिपतेः फणाभिः अधः कथञ्चिद् धृतभूमिभाग इति । भुजङ्गानां नागानाम् अधिपतेः अनन्तस्य । फणाभिरिति बहुवचनेन सर्वासामपि स्वशक्तीनां तत्रैवोपयोगविधानमुक्तम्। अधः क्षितितलस्याधोभागे कथञ्चिद् यथाकथञ्चित्। धृतभूमिभागः, धृतः स्वावस्थानभूमिभागो यस्य स तथोक्तः । भगवति योगादुपरते तद्भारमसहमानेनानन्तेन सर्वा अपि फणास्तदधोभाग एवाधाय भूमिर्धृताभूदिति भावः । कुम्भेन क्रमेण पूरितानां प्राणवायूनां योगशास्त्रोक्तरेचनक्रमेण विमुक्तिमाह — शनैः कृतप्राणविमुक्तिरिति । शनैः योगशास्त्रोक्तक्रमेणेत्यर्थः। कृता प्राणानां शरीरवायूनां विमुक्तिः मोचनं येन स तथा । भगवद्बद्धस्य पर्यङ्कबन्धस्य योगशास्त्रानुगुणत्वमाह — निबिडमिति । द्रमित्यर्थः । अच्छिद्रत्वं च योगशास्त्रसिद्धम् ॥ ५९ ॥ तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम्। प्रवेशयामास च भर्तुरेनां 万 भ्रूक्षेपमात्रानुमतप्रवेशाम्॥६०॥ प्रकाशिका अथ नायिकानायकयोः परस्परावलोकनं घटयितुमाह- अच्छि- तस्मा इति । तस्मै लब्धावसराय । प्रणिपत्येति समुदाचारः । शुश्रूषयेत्यनौचित्यपरिहारः । अनुमतोऽनुज्ञातः । मात्रशब्देन सत्त्वजं माधुर्यमुक्तम् । श्लक्ष्णो विकारो माधुर्यं संक्षोभे सुमहत्यपी’ति ॥ ६० ॥ र १९० कुमारसम्भवे विवरणम् अथ नायिकानायकयोः परस्परदर्शनोपायमाह-

तस्मा इति । नन्दी प्रणिपत्य शैलसुतां शुश्रूषया उपेतां तस्मै शशंस । नन्दी नन्दीश्वरः। प्रणिपत्येत्यनेन भृत्यानां समुदाचार उक्तः । शैलसुतां पार्वतीम् । शुश्रूषया प्रतिदिनं क्रियमाणया परिचर्यया हेतुभूतया । नात्र किञ्चिदनुचितत्वमस्तीति भावः । देवस्य सर्वसेव्यत्वात् । उपेतां प्राप्ताम् । तस्मै योगादुपरतत्वेन लब्धावसराय हराय शशंस निवेदितवान्। निवेदनानन्तरं हरानुज्ञापुरस्सरीं नन्दिनः प्रवृत्तिमाह — भर्तुः भ्रूक्षेपमात्रानुमतप्रवेशाम् एनां प्रवेशयामास चेति । भर्तुः स्वामिनो हरस्य । भ्रूक्षेपमात्रानुमतप्रवेशाम् । भ्रुवः क्षेपो भ्रूक्षेपः । क्षेपश्चालनम्। एकस्या भ्रुवश्चालनमात्रेणेत्यर्थः । अनेन सत्त्वजं माधुर्यमुक्तम्। ‘श्लक्ष्णो विकारो माधुर्यं संक्षोभे सुमहत्यपी’ त्युक्तत्वात्। अनुमतः अनुज्ञातः प्रवेशः समीपप्राप्तिर्यस्याः ताम् । एनां पार्वतीं प्रवेशयामास अन्तर्भागं प्रापयामास च । एककर्तृकयोः शंसनप्रवेशनक्रिययोः समुच्चयेऽत्र चशब्दः ॥ ६० ॥ तस्याः सखीभ्यां प्रणिपत्य पूर्वं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ ६१ ॥ देव्या देवोपस्थाने क्रममाह- प्रकाशिका तस्या इति । पूर्वं देवीप्रणामात् प्रागित्यर्थः । स्वहस्तलून इति सौष्ठवार्थम् । शिशिरात्ययस्य वसन्तस्य । मूले निकटे । भिन्नो मिश्रः । प्राक् पुष्पविकिरणमाभ्यामीश्वरभावज्ञानार्थमिति दक्षिणावर्तः । देव्याः शालीनतापनयनार्थत्वं तु युक्तम् ॥६१॥ विवरणम् नायकदर्शनानन्तरं सञ्जातसात्त्विकविकाराया देव्या लज्जापनोदार्थमादौ तत्सखीभ्यामेव परमेश्वरसेवा कृतेत्याह- तस्या इति । तस्याः पूर्वं सखीभ्यां शिशिरात्ययस्य पुष्पोच्चयः त्र्यम्बकपादमूले प्रणिपत्य व्यकीर्यत । तस्याः देव्याः पूर्वम्। ‘अन्यारादितरर्ते तृतीयः सगः दिक्शब्द - ’ (२.३.२९) इत्यादिना पञ्चमी । देवीप्रणामात् प्रागित्यर्थः । सखीभ्यां विजयामालिनीभ्यां शिशिरात्ययस्य वसन्तस्य । पुष्पोच्चयः । पुष्पाणामुच्चयः समूहः । वसन्तकुसुमराशिरित्यर्थः। त्र्यम्बकपादमूले त्र्यम्बकस्य हरस्य पादमूले पादयोर्मूले निकटे। प्रणिपत्य नमस्कृत्य । व्यकीर्यत विक्षिप्तोऽभूत् । पुष्पोच्चयस्य सौष्ठवद्योतकं विशेषणमाह-स्वहस्तलून इति । आत्मनो हस्ताभ्यामेव लूनः अवचितः, परमेश्वरभक्त्या स्वयमेव शिक्षापूर्वपल्लवभङ्गाः, पल्लवभङ्गैर्भिन्नो मिश्रः पल्लवभङ्गभिन्नः । स्वयमेवाहृतैः पल्लवैरुपेत इत्यर्थः ॥ ६१ ॥ अत एवाह- उमापि नीलालकमध्यशोभि विस्त्रंसयन्ती नवकर्णिकारम् । चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥६२॥ प्रकाशिका उमेति । अत्र विशेषणानि रत्युद्दीपनाभिप्रायेणोपात्तानीति परिकरः प्रकृतां प्रणामक्रियामुपस्करोति ॥ ६२ ॥ अथ देव्याः प्रणाममाह- विवरणम् उमापीति । उमापि मूर्ध्ना वृषभध्वजाय प्रणामं चकार । उमा पार्वती । अपिशब्दः पूर्वोक्तसखीप्रणामसमुच्चयार्थः । वृषभध्वजाय परमेश्वराय प्रणामं प्रणमनं चकार कृतवती । प्रणामसमये देव्याः प्रह्वत्वमाह-नीलालकमध्यशोभि नवकर्णिकारं विस्रंसयन्तीति। नीलानां कृष्णवर्णानामलकानां मध्ये शोभितुं शीलमस्येति तथा । नवकर्णिकारं नवमभिनवं कर्णिकारं कर्णिकारकुसुमम् । विस्रंसयन्ती अत्यन्तनम्रशिरस्तया निपातयन्ती । अनेनात्यन्तप्रवणत्वमुक्तम् । अत्र नीलशब्दनवशब्दाभ्यामलककर्णिकारकुसुमयोः परभागलाभातिशयः सूचितः । कर्णावतंसपल्लवोऽपि प्रणामसमये गलित इत्याहकर्णच्युतपल्लवेनेति । कर्णात् च्युतः गलितः पल्लवः कर्णावतंसपल्लवो यस्य तेन मूर्ध्ना । अत्र प्रणामक्रियायां लालित्यापादकानि विशेषणानि रत्युद्दीपनपरतया प्रयुक्तानीति परिकरोऽलङ्कारः ॥ ६२ ॥ १९२ 1g कुमारसम्भवे अनन्यभाजं पतिमाप्नुहीति सा भव्यमेवाभिहिता भवेन । न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति पाके विपरीतमर्थम्॥६३॥ प्रत्यभिवादनप्रकारमाह- प्रकाशिका अनन्येति । अन्यां न भजतीत्यनन्यभाक् । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । भव्यमेव, न केवलमाचारसिद्धम् । भव्यं भावि । भावित्वमेवोपपादयतिन हीति । ईश्वरव्याहृतयः आगमप्रभृतयः । कदाचिदिति स्वतः प्रमाण्यं द्योतयति । पुष्णन्तीत्यनेन कारकत्वमप्यस्तीति द्योतयति । पाके परिणामे ॥ ६३ ॥ विवरणम् देव्या प्रणतस्य देवत्याशीर्वादप्रकारमाह- अनन्येति । भवेन सा अनन्यभाजं पतिम् आप्नुहि इति भव्यमेव अभिहिता । भवेन रुद्रेण । ‘भवो भीमः स्थाणू रुद्र’ इत्यमरः । सा पार्वती । अनन्यभाजम्। अन्यां स्त्रियं न भजत इत्यनन्यभाक् । अन्यशब्दस्य सर्वनामत्वात् पुंवद्भावः । पतिं भर्तारम् । भार्यान्तररहितं भर्तारमित्यर्थः । सपत्नीसद्भावो हि स्त्रीणां परं दुःखकारणमिति भावः । आप्नुहि प्राप्नुहि । इतिशब्दः प्रकारवचनः । भव्यं भावि । न केवलं कन्यकाजनप्रणामेष्वाचारसिद्धत्वादेवमुक्तं, किन्तु भाव्यर्थकथनमेवेत्येवकारस्यार्थः । अभिहिता उक्ता । भावित्वमेवोपपादयति — ईश्वरव्याहृतयः लोके कदाचिद् विपरीतमर्थं न पुष्णन्ति हीति । ईश्वराणां महात्मनां व्याहृतयः उक्तयः लोके लोकत्रये कदाचित् कालत्रयेऽपि विपरीतमन्यथाभूतम् अर्थं न पुष्णन्ति, न प्राप्नुवन्ति । ईश्वराणां वचनं देशान्तरे कालान्तरेऽवस्थान्तरे वा न व्यभिचरतीत्यर्थः । तत्प्रतिबन्धकं दुरितं निरस्यापि कार्यं साधयत्येवेति पुष्णन्तीत्यनेन द्योत्यते । ‘पुष पुष्टावि’ति धातुः। हिशब्दः प्रसिद्धौ । प्रसिद्धिश्च श्रुतिस्मृतिषु। ‘पाक’ इति पाठे परिणाम इत्यर्थः ॥ ६३॥ कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्षः शरासनज्यां मुहुराममर्श ॥ ६४ ॥ तृतीयः सर्गः १९३ तस्मिन्नवसरे कामस्योद्यमाह- प्रकाशिका काम इति । तुशब्दोऽवस्थान्तरद्योतकः । बाणावसरं परिचयविशेषमित्यर्थः । पतङ्गवत् शलभवत्। वह्निमुखं विविक्षुः महासाहसं कर्तुकाम इत्यर्थः । इतोऽपि किञ्चित् प्रसृतं परिचयं प्रतिपाल्य प्रहरिष्याम्येनमिति व्यवसित इत्यर्थः । उमासमक्षं देव्याः समक्षं यथा भवति । इदं देवीप्रोत्साहनार्थम् । हरे बद्धलक्षो दत्तदृष्टिरित्यर्थः । ज्यापरामर्शनं शरसन्धानपूर्वरङ्गः ॥६४॥ द्र. अत्रास्माकं टिप्पणं कालिदासग्रन्थावल्याम्। विवरणम् अथ लब्धावसरस्य मदनस्योद्योगमाह- किम ए कामस्त्विति । कामः तु बाणावसरं प्रतीक्ष्य उमासमक्षं शरासनज्यां मुहुः आममर्श । कामः कामदेवः । तुशब्दोऽवस्थान्तरद्योतनार्थः । बाणावसरं बाणस्यावसरे नायिकानायकयोः परस्परपरिचयविशेषरूपं प्रहरणावकाशं प्रतीक्ष्य प्रतिपाल्य । उमासमक्षमित्यामर्शनक्रियाविशेषणम् । उमायाः पार्वत्याः समक्षं प्रत्यक्षं यथा भवति तथा । ज्यापरामर्शनस्योमासमक्षत्वमहमस्मि ते सहाय इति देवीप्रोत्साहनार्थम् । शरासनज्यां शरासनस्य चापस्य ज्यां शिञ्जिनीम् । मुहुः पुनः पुनः आममर्श आमृष्टवान्। ज्यापरामर्शश्च धन्विनां शरसन्धानस्य पूर्वरङ्गतया प्रसिद्धः । अथ कामस्य साहसोद्योगं कविः सोपहासमाह — पतङ्गवद्वह्निमुखं विविक्षुरिति । पतङ्गवच्छलभ इव। वह्निमुखं वह्नेर्मुखं, भोक्तुकामस्य व्यात्तवदनस्य वह्नेरग्नेर्मुखं वदनकुहरमेव । विविक्षुः प्रवेष्टुकामः । अतिसाहसमेव कर्तुकाम इत्यर्थः । ज्यापरामर्शसमयोचितं स्वभावमाह - हरबद्धलक्ष इति । हरे परमेश्वर एव बद्धलक्षः, बद्धदृष्टिरित्यर्थः । शरनिपाताधिकरणं परमेश्वरमेव सावधानमवलोकयन्निति भावः । नायिकानायकयोरितोऽपि किञ्चिदुपचिते सति परिचये सहसैव प्रहरिष्याम्येनमिति शरसन्धानं कर्तुमुद्युक्तस्तस्थावित्यर्थः ॥ ६४ ॥ IF PREPE

अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण । विशोषितां भानुमतो मयूखै- । र र्मन्दाकिनीपुष्करबीजमालाम् ॥६५॥ जल ।१९४ कुमारसम्भवे प्रकाशिका परिचयस्य कारणान्तरमाह- अथेति । उपनिन्ये उपजहार । तपस्विन इत्युपायनविशेषौचित्यार्थम् । ताम्ररुचेत्युद्दीपनाभिप्रायम्। मन्दाकिनीसम्बन्धात् श्लाघ्यत्वम्॥६५॥ विवरणम् दैवात् परिचयस्य कारणान्तरमपि तदैव जातमित्याह- । अथेति । अथ गौरी तपस्विने गिरिशाय ताम्ररुचा करेण मन्दाकिनीपुष्करबीजमालाम् उपनिन्ये । अथ प्रणामानन्तरं गौरी पार्वती । तपस्विन इत्यनेन तादृशोपायनविशेषौचित्यं द्योत्यते । गिरिशाय हराय । ताम्ररुचा ताम्रा रक्ता रुक् शोभा यस्य तादृशेन करेण । उद्दीपनाभिप्रायमेतद्विशेषणम्। मन्दाकिनीपुष्करबीजमालां, मन्दाकिन्यां गङ्गायां यानि पुष्कराणि पद्मानि तेषां बीजैः कृतां मालाम् । पद्माक्षमालामित्यर्थः। मन्दाकिनीशब्देन पद्माक्षाणां सुलक्षत्वमुक्तं, मन्दाकिन्या हिमवच्छिखरवर्तित्वात्। मन्दाकिनीसम्बन्धेन पद्माक्षाणां पावनत्वाधिक्यं च द्योत्यते । उपनिन्ये उपजहार । पद्माक्षस्य धारणमात्रमेवातः परं कर्तव्यं, संस्कारस्तु सर्वोऽपि कृत एवेत्याहभानुमतः मयूखैः विशोषिततामिति । भानवो रश्मयोऽस्य सन्तीति भानुमानित्यादित्य उच्यते । तस्य मयूखैः रश्मिभिः । विशोषितां विशेषेण शोषितां कृतशोषणाम्। भगवदुपायनार्थं स्वयमेवादाय शोषितामित्यर्थः ॥ ६५ ॥ प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च । सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६६॥ परिचयस्य प्रसरमाह- प्रकाशिका प्रतिग्रहीतुमिति । प्रणयिनः प्रार्थयितारः प्रिया यस्य । दाक्षिण्यादित्यर्थः । तां पुष्करबीजमालाम्। नाम प्रसिद्धौ । अत्र यौगपद्येन कामस्य क्षिप्रकारित्वमुक्तम् ॥६६ ॥ विवरणम् परिचयस्य ततोऽपि किञ्चिदाधिक्यमाह- प्रतिग्रहीतुमिति । त्रिलोचनः प्रणयिप्रियत्वात् तां प्रतिग्रहीतुम् उपचक्रमे च । पुष्पधन्वा धनुषि सम्मोहनं नाम बाणं समधत्त च । त्रीणि लोचनानि सन्त्यस्येति त्रिलोचनः शिवः । प्रणयिनः प्रार्थयितारः । ‘प्रणयः स्नेहयाच्ञयोरिति भोजः । ते तृतीयः सर्गः १९५ प्रिया यस्य तस्य भावस्तत्त्वं तस्माद्धेतोः, दाक्षिण्यादित्यर्थः । तां पद्माक्षमालां । प्रतिग्रहीतुम् उपचक्रमे आरब्धवान्। पुष्पधन्वा कामः धनुषि चापे सम्मोहनं नाम सम्मोहनमिति प्रसिद्धम् । द्रावणः क्षोभणश्चैव वशीकरण इत्यपि । आकर्षणश्च कामस्य बाणः सम्मोहनोऽपरः ॥ इत्युक्तत्वात्। बाणं शरं समधत्त संयोजयामास च । अत्र चकारद्वयेन यौगपद्यमुक्तम् । तेन च कामस्य क्षिप्रकारित्वं ध्वन्यते । सम्मोहनबाणस्य यथार्थनामकत्वमाहअमोघमिति। सफलमित्यर्थः । सर्वत्र दृष्टसद्यः फलमिति भावः । अत्र समुच्चयोऽ- लङ्कारः ॥६६ ॥ तत्फलमाह- हरस्तु किञ्चित्परिवृत्तधैर्य- श्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥६७॥ प्रकाशिका हर इति । तुशब्दोऽवस्थाविशेषद्योतकः । किञ्चिदिति अगाधसत्त्वत्वात् । उपमानेऽपि किञ्चिद्धैर्यपरिवृत्तिरुदयारम्भशब्देनोपदर्शिता । बिम्बफलाधरोष्ठ इति विभावोपस्कारः । विलोचनव्यापारेण नैसर्गिक्या रतेरुदयावस्था द्योत्यते । न च औत्सुक्यावेगचापलहर्षादेर्व्यभिचारिणोऽपि साधारणः ॥ ६७ ॥ तादृशबाणसन्धानस्य फलमाह-

विवरणम् हर इति । हरः तु उमामुखे विलोचनानि व्यापारयामास । हरः त्रिलोचनः । तुशब्दः पूर्वावस्थातो व्यतिरेकं द्योतयति । उमामुखे उमायाः पार्वत्या मुखे । विलोचनानि त्रीण्यपि लोचनानि । व्यापारयामास प्रवर्तयामास । उमामुखे विलोचनव्यापारस्य हेतुमाह – किञ्चित्परिवृत्तधैर्य इति । किञ्चित्परिवृत्तम् ईषदन्यथाभूतं, गमितं, धैर्यं यस्य स तथा । हरधैर्यस्यापि तदानीं किञ्चिदन्यथात्वं जातमिति भावः । महासत्त्वत्वादीषत्परिवृत्तत्वम् । अत्रोपमामाह – चन्द्रोदयारम्भे अम्बुराशिरिवेति । चन्द्रोदयस्यारम्भे अम्बुराशिः समुद्र इव । अत्राप्युदयारम्भशब्देन उपमानभूतस्य समुद्रस्यापि किञ्चिद्धैर्यपरिवृत्तिरुपदर्शिता । देवस्य देव्यां सञ्जातं भावविशेषं ।

। १९६ कुमारसम्भवे प्रकाशयन्नुमामुखं विशिनष्टि — बिम्बफलाधरोष्ठ इति । बिम्बस्य लताविशेषस्य फलं बिम्बफलं तदिव रक्तवर्णोऽधरोष्ठो यस्य तस्मिन्। अनेन विलोचनव्यापारयोग्यत्वमुक्तम् । अत्र देवस्य तादृशे वदने विलोचनव्यापारेण स्वाभाविक्या रतेरुद्बोधावस्था दर्शिता । स तु विलोचनव्यापारः रतेर्व्यभिचारिणामौत्सुक्यावेगचापलहर्षादीनामप्युपलक्षणम्॥६७॥ विवृण्वती शैलसुतापि भाव- मङ्गैः कुचद्बालकदम्बकल्पैः । साचिक्रियाचारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ६८ ॥ प्रकाशिका हरदृष्टिपाते देव्या दशां वर्णयति- विवृण्वतीति । शैलसुतापीति, न केवलं देवो विवृण्वन् विलोचनानि व्यापाररितवान्। कुचन्तो मीलन्तः । मीलत्पुष्पबालकदम्बकल्पैरित्यर्थः । रोमाञ्चितत्वाच्च तत्सादृश्यम् । स्तनवाचिनः कुचशब्दस्यापि कुचतीति निर्वाहः, कुड्मलसन्निवेशत्वात् । साचिक्रिया त्र्यश्रीकरणम्। तच्च लज्जाकार्यम् । ‘तिर्यगर्थे साचि तिरोऽपीति सिंहः । पर्यस्तं विवर्तितम् । अनेनान्योन्यदृष्टिसमागम उक्तः ॥ ६८ ॥ विवरणम् देवस्य तादृशदृष्टिपाते देव्याः समवस्थां वर्णयति— विवृण्वतीति । शैलसुता अपि अङ्गः भावं विवृण्वती तस्थौ । शैलसुता पार्वती । न केवलं देव एव भावं व्यवृणोत्, किन्तु शैलसुतापीत्यपिशब्दार्थः । अङ्गैः शरीरावयवैः भावमभिलाषं विवृण्वती प्रकाशयन्ती तस्थौ अतिष्ठत् । अङ्गानां भावविवरणप्रकारं दर्शयति — कुचद्बालकदम्बकल्पैरिति । कुचन्तः सङ्कुचन्तः । सङ्कुचत्पुष्पा इत्यर्थः । निमीलत्पुष्पबालकदम्बसदृशैरित्यर्थः । कदम्बो वृक्षविशेषः । अङ्गानां रोमाञ्चितत्वादत्र तत्सादृश्यम् । कदम्बकुसुमानि हि रोमतुल्यदलानि । तेषां निमीलनावस्थाप्रदर्शनेन रोमाञ्चस्य निबिडत्वमुक्तम् । बालशब्देन देव्या यौवनावस्था दर्शिता । तेन मनोहारित्वातिशयः । अन्योन्यदृष्टिसमागमोऽपि जात इत्याहपर्यस्तविलोचनेन मुखेन उपलक्षिता इति । पर्यस्तविलोचनेन पर्यस्तं विवर्तितं विलोचनं नेत्रं यस्य तादृशेन मुखेन उपलक्षिता । भगवद्दृष्टिपातसञ्जातया लज्जया विवर्तितनयनमुखारविन्देत्यर्थः । तादृशस्य वदनस्य पुनरपि लज्जाद्योतकं 165 1955 तृतीयः सर्गः १९७ विशेषणमाह - साचिक्रियाचारुतरेणेति । साचिक्रिया त्र्यश्रीकरणम्। ‘तिर्यगर्थे साचि तिरोऽपीति सिंहः । त्र्यश्रीकरणं च लज्जाकार्यम् । तेन चारुतरेण अत्यन्तचारुणा । अत्र देव्याः शङ्करे पूर्वमुत्पन्ना रतिः सांभिलाषावलोकनवसन्तादिभिरुद्दीप्यमाना रोमाञ्चोत्कण्ठादिभिः सात्त्विकव्यभिचार्यादिभिरनुबध्यत इत्यवसेयम् ॥ ६८ ॥ अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद् बलवन्निगृह्य । हेतुं स्वचेतोविकृतेर्दिदृक्षु- दिशामुपान्तेषु ससर्ज दृष्टिम् ॥६९॥ प्रकाशिका अथ बलवद्भावान्तरोदयेन सत्त्वनिधौ देवे रतेः प्रशमं दर्शयति- अथेति । पुनरिति प्रत्याहरणमुक्तम्। वशित्वादिति । जितेन्द्रियो हि प्रमादादुत्पथगामीन्यपीन्द्रियाणि नियन्तुं शक्नोति, शान्तरसवासनाया अप्रमुषितत्वादित्यर्थः । बलवत् सुष्ठु । स्वशब्देन हेतोरनल्पत्वं द्योत्यते । उपान्तेषु मुखेषु । अत्रेन्द्रियक्षोभनियमनेन शान्तव्यभिचारिण्या मतेरुदयः प्रतीयते । दिदृक्षुरिति तद्व्यभिचार्यौत्सुक्यम्। दृष्टिसर्जनमनुभावः ॥ ६९ ॥ विवरणम् अथ सत्त्वनिधौ भगवति झटिति शान्तरसव्यभिचारिण्याः परमार्थविमर्शनरूपाया मतेराविर्भावे सति तस्याः प्राबल्यात् तादृश्या अपि रतेः प्रशमं दर्शयति- अथेति । अथ अयुग्मनेत्रः वशित्वाद् इन्द्रियक्षोभं पुनः बलवद् निगृह्य स्वचेतोविकृतेः हेतुं दिदृक्षुः दिशाम् उपान्तेषु दृष्टिं ससर्ज । अथ तत्तादृशस्य प्रशमस्य तादृशावस्थाप्राप्त्यनन्तरम् । अयुग्मनेत्रः त्रिलोचनः । द्व्यादयो युग्मसङ्ख्या युग्मशब्देनोच्यन्ते । युग्मसङ्ख्याकनेत्रो न भवतीत्ययुग्मनेत्रः । वशित्वाद् जितेन्द्रियत्वात्। प्रमादादुत्पथगामिनामिन्द्रियाणां निग्रहे वशिनामेव हि सामर्थ्यमित्यर्थः । शान्तरसस्यात्यन्तप्रमुषितत्वाभावादिति भावः । इन्द्रियक्षोभम् इन्द्रियाणां चक्षुरादीनां क्षोभं विकारम् । पुनश्शब्देन प्रत्याहरणमुक्तम्। पुनरपीत्यर्थः । बलवदिति निग्रहक्रियाविशेषणम्। बलवत् सुष्ठु यथा भवति तथा निगृह्य नियम्य । क्षोभवासनामपि परिहृत्येत्यर्थः । स्वचेतोविकृतेः स्वस्य चेतसः मनसः विकृतेः विकारस्य । अत्र स्वशब्देन बलवता कारणेन विनानुपपत्तिरुक्ता । हेतुं कारणं दिदृक्षुः द्रष्टुमिच्छुः दिशामुपान्तेषु मुखेषु दृष्टिं नेत्रं ससर्ज विससर्ज । अत्र १९८ कुमारसम्भवे शान्तरसव्यभिचारिण्या मतेरुदय इन्द्रियक्षोभनियमने हेतुः । क्षोभकारणदर्शनौत्सुक्यं तादृश्या मतेर्व्यभिचारि । दृष्टिविसर्गस्तस्या अनुभाव इति विवेकः ॥ ६९ ॥ स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥७०॥ प्रकाशिका स इति । चक्रीकृतं मण्डलीकृतम् । इदमालीढाख्यं स्थानम् । ‘आलीढं तु ततोऽग्रतः, दक्षिणे वाममाकुञ्ज्य प्रत्यालीढं विपर्यय’ इति यादवः । प्रहर्तुमभ्युद्यतं स्पष्टापकारमित्यर्थः । अत्रालीढस्थानस्वभावोक्तिर्देवक्रोधस्य वक्ष्यमाणस्यालम्बन- विभावतां पुष्णाति ॥ ७० ॥ दृष्टिविसर्गस्य फलमाह - विवरणम् स इति । सः आत्मयोनिं ददर्श । सः अयुग्मनेत्रः आत्मयोनिं कामदेवं ददर्श दृष्टवान् । अयमेव चेतोविकृतिहेतुरिति दर्शनमात्रेणैव ज्ञातुं शक्यमिति द्योतयितुमात्मयोनेर्विशेषणान्याह — दक्षिणापाङ्गनिविष्टमुष्टिमित्यादिभिः । दक्षिणे अपाङ्गे नेत्रकोणे सञ्चरचापमौर्वीविकर्षणवशान्निविष्टा स्थिता मुष्टिर्यस्य तम् । नतांसे विनष्टदक्षिणांसम्। आकुञ्चितसव्यजानुम् आकुञ्चितः वक्रीकृतः सव्यजानुः वामपादजानुर्येत तम् । अनेनालीढाख्यो धन्विनामवस्थानविशेष उक्तः । स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृती ॥ अन्वर्थं स्यात् समपदमालीढं तु ततोऽग्रतः । दक्षिणे वाममाकुञ्य प्रत्यालीढं विपर्यये ॥ इति यादवः । उक्तं च रघुवंशे – ‘अतिष्ठदालीढविशेषशोभिना’ (३.५२ ) इति । इयमालीढस्वभावोक्तिर्वक्ष्यमाणस्य देवकोपस्यालम्बनविभावः । चापस्याप्यवस्था- माह — चक्रीकृतचारुचापमिति । चक्रीकृतं मण्डलीकृतं चारु सुन्दरं चापं येन तम् । अनेन प्रहारस्य दृढपातित्वं सूचितम्। एभिर्विशेषणैः, सिद्धमर्थमेवाहप्रहर्तुमभ्युद्यतमिति । प्रहर्तुमात्मनि बाणप्रयोगं कर्तुम् अभ्युद्यतमुद्युक्तम्। अनेन स्पष्टापकारत्वमुक्तम् ॥७० ॥ अत एवाह- तृतीयः सर्गः तपः परामर्शविवृद्धमन्यो- भ्रूभङ्गदुष्प्रेक्षमुखस्य तस्य । स्फुरन्नुदर्चिः सहसा तृतीया- दक्ष्णः कृशानुः किल निष्पपात ॥७१॥ प्रकाशिका १९९ तप इति । परामर्शो धर्षणम् । भ्रूभङ्गेत्यादि रौद्रव्यभिचारिण औग्र्यस्यानुभावप्रपञ्चनम्। कृशानुरिति, यः कल्पान्तेषु विश्वं संहरति । यथाह मुरारिः - नीललोहितललाटलाञ्छने लोचने जयति कोऽपि पावकः । रक्षितस्य जगदन्तहेतवे यस्य यस्य संज्वलनमात्मभूरभूत् ॥ इति । किलैतिह्ये॥ ७१ ॥ विवरणम् (अङ्क. ७. श्लो. ३१) भगवतस्तत्तादृशमदनदर्शनजं क्रोधं तत्फलं चाह- तप इति । तपः परामर्शविवृद्धमन्योः तस्य तृतीयादक्ष्णः कृशानुः सहसा निष्पपात किल । तपः परामर्शविवृद्धमन्योः तपसः परामर्शेन धर्षणेन हेतुना विवृद्धः मन्युः क्रोधो यस्य । तृतीयादक्ष्णः ललाटलोचनात् कृशानुः अग्निः । यः किल कल्पान्ते सकलमपि लोकं भस्मसात्करिष्यति । यदाह मुरारिः- नीललोहितललाटलाञ्छने लोचने जयति कोऽपि पावकः । रक्षितस्य जगदन्तहेतवे यस्य संज्वलनमात्मभूरभूत् ॥ इति । सहसा झटिति निष्पपात निर्जगाम । मदनमभिमुखीकृत्येति शेषः । किलैतिह्ये । अनेन निजवचनस्य मूलभूतं प्रमाणं दर्शयति । रौद्ररसव्यभिचारिणः क्रौर्यस्यानुभावं प्रपञ्चयति—भ्रूभङ्गेत्यादिना भ्रूभङ्गदुष्प्रेक्षमुखस्य भ्रूभङ्गेन भ्रूकुट्या दुष्प्रेक्षं दुर्दर्शं मुखं यस्य तस्य । कृशानुनिष्पतनस्यावस्थां दर्शयति - स्फुरन्निति । प्रकाशमानः, आदौ तावत् तृतीयलोचने किञ्चित्प्रकाशमानो दृष्ट इत्यर्थः । द्वितीयावस्थां दर्शयतिउदर्चिरिति। उद्गतज्वालः, तदनन्तरं जाज्वल्यमानो दृष्ट इत्यर्थः । अत्र स्फुरन् उदर्चिः निष्पपातेति पदत्रयेण कृशानुस्वभावसिद्धः क्रमो विवक्षित इत्यवसेयम्॥७१ ॥ २०० कुमारसम्भवे कोपं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा ॥। ३ भस्मावशेषं मदनं चकार ॥७२॥ तत्फलमाह- प्रकाशिका STANDAR कोपमिति । संहर प्रार्थने लोट् । सम्भ्रमे द्विर्वचनम् । मरुतां कामं नियुज्य प्रतिपालयताम् । यावच्चरन्तीति लटो निर्वाहो रघुवंशप्रकाशिकायां यावदादिशति’ (११.३) इत्यत्र दर्शितः । तत्समकालमेव स दग्ध इत्यर्थः । भवनेत्रजन्मेति तत्समर्थत्वं द्योत्यते। अनेन परमेश्वरप्रतिकूलस्य देवानामुद्यमस्य भङ्गो दर्शितः ॥ ७२ ॥ कृशानुनिष्पतनस्य फलमाह- विवरणम् कोपमिति । प्रभो ! त्वं कोपं संहर संहर इति मरुतां गिर यावत् खे चरन्ति तावद् भवनेत्रजन्मा वह्निः मदनं भस्मावशेषं चकार । प्रभो! हे त्रैलोक्याधिपते! हरप्रभावदर्शनेन सञ्जातपरमार्थबोधानामत एव विगलिताभिमानानां देवानामियमुक्तिः । संहरेति प्रार्थनायां लोट् । द्विर्वचनं तु सम्भ्रमं प्रतिपादयति । इतिशब्दः प्रकारवाची । मरुतां कामं नियुज्य निजमनीषितलाभदर्शनार्थं हरसमीपे वर्तमानानां देवानाम् । गिरः वाचः यावद् यस्मिन् काले खे आकाशे चरन्ति । अत्र लट्प्रयोगस्यायं निर्वाहः ‘तदादौ च’ इति भोजसूत्रम् । तस्य चायं वृतिग्रन्थ ः - तदादौ चोपपदे भूतार्थे लड् भवतीति । वृत्तौ चायमेव श्लोक उदाहरणत्वेन दर्शितः, ‘अथाह वर्णी( स. ५. श्लो. ६५) इति च । माधवस्त्वेवमाह — यावत्तावच्छब्दौ क्रिययोस्तुल्यकालतामाहतुः । गिरां चरणे वर्तमाने सति वह्निः काममदहदित्यर्थः । नहि मरुतां वचनेषु चरत्सु वह्निः काममदहदिति प्रयोगे कोऽपि दोष इति । वाक्प्रचारसमकालमेव मदनो दग्धोऽभूदित्यर्थ । भवनेत्रजन्मा भवस्य शम्भोर्नेत्राज्जन्म यस्य सः । वह्निः मदनं भस्मावशेषं भस्मैवावशेषम् अवशिष्टं यस्य तथाविधम् । चकार कृतवान्। अत्र भवनेत्रजन्मेत्यनेन दहनसामर्थ्यं द्योत्यते । देवानां परमेश्वरप्रतिकूलः समुद्यमोऽपि भग्नोऽभूदिति अनेनैव श्लोकेन दर्शितः । पुनश्च भग्नैर्देवैः सेनानीप्रसूत्यै भगवानभ्यर्थितोऽभूदित्यवसेयम् । अत एव षष्ठे सर्गे हर एव वक्ष्यति - इति ॥ २७॥ तृतीयः सर्गः सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः। अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ (६.२७) तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहुर्तं कृतोपकारेव रतिर्बभूव ॥ ७३ ॥ प्रकाशिका २०१ अथ ‘रौद्रात्तु करुणो रस’ इति न्यायेन देवगतस्य तथाविधस्य रौद्रस्य कार्यत्वेनोत्तरसर्गे वर्णयिष्यमाणं करुणमुपक्षिपति — तीब्रेवति । अभिषङ्गो दुःखम् । मोहोऽत्र प्रलयः सात्त्विको करुणव्यभिचारी | स च पकारेवेत्यन्वयः ॥ ७३ ॥ भावः नष्टसंज्ञत्वम् । व्यसनं विपत् । मोहेन कृतो- विवरणम् अथ परमेश्वरगतस्य तत्तादृशस्य रौद्ररसस्य ‘रौद्रात् तु करुणो रस’ इति न्यायेन कार्यभूतमुत्तरसर्गे वर्णयिष्यमाणं करुणमुपक्षिपति — तीव्रेति । रतिः मुहूर्तं मोहेन कृतोपकारा बभूव इव । रतिः कामभार्या । मुहूर्तं कञ्चित्कालमित्यर्थः । मोहेन करुणव्यभिचारिणा प्रलयाख्येन सात्त्विकेन भावेन कर्त्रा । स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रु वैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन्निष्क्रियाङ्गता ॥ प्रलयो नष्टसंज्ञत्वं शेषाः स्युर्व्यक्तलक्षणाः ॥ (४.५,६) इति दशरूपके। कृतोपकारा कृत उपकारो यस्याः तथाविधा बभूवेव । मोहस्य कारणमाह — तीव्राभिषङ्गप्रभवेणेति । तीव्रो दुस्सहः अभिषङ्गो दुःखम् । ‘अभिषङ्गस्तु कथ्यते, आक्रोशशापाभिभवसङ्गेष्वाह तु सज्जनः । दुःखे पराभवे त्वाह सिंह’ इति केशवः। तस्मात् प्रभव उद्भवो यस्य तेन । मोहस्य स्वरूपमाह – इन्द्रियाणां वृत्तिं संस्तम्भयतेति । इन्द्रियाणां सान्तःकरणानां चक्षुरादीनां वृत्तिं स्वस्वविषयव्यापारम् । संस्तम्भयता सम्यक् स्तम्भयता । अत एवाज्ञातभर्तृव्यसना अज्ञातमनवगतं भर्तुः कान्तस्य व्यसनं विपत्तिर्यया सा तथा । अयमेव कृतोपकारत्वोत्प्रेक्षायां हेतुः ॥ ७३ ॥ २०२ कुमारसम्भवे तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावरुज्य । स्त्रीसन्निकर्षं परिहर्तुमिच्छ- नन्तर्दधे भूतपतिः सभूतः ॥७४॥ प्रकाशिका अथ दाह्याभावात् प्रशान्तरोषस्य देवस्य पुनरपि शान्ते विश्रान्तिमाह— तमिति । आशु इति शान्तस्यादूरविच्छेदः प्रकाश्यते । तत्र हेतुः तपस्वीति । नित्ययोगे मतुप् । तथा च पुराणेषु श्रूयते देवः । वज्रोऽशनिः । उपमानेन तत्स्वभावत्वं द्योत्यते । स्त्रीसन्निकर्षं परिहर्तुम् । ‘अङ्गारसदृशी नारी घृतकुंभसमः पुमानिति न्यायेन देवीप्रत्यासत्तिजं स्वचित्तविकारं देव्या वैलक्ष्यविषादादेः कामपत्न्याः शोकस्य चानुसन्धानं च परिहर्तुमित्यर्थः । अन्तर्दधे अन्तर्धानेन तद्देशवासमजहात्। सभूतः सगणः । एतत् सर्वपरिच्छदोपलक्षणं, सर्वस्यापि स्वेच्छापरिकल्पितत्वात्॥७४॥ विवरणम् अथ मदने दग्धे दाह्यस्यान्यस्याभावात् स्वयमेव शान्ते रोषे देवस्य पुनरपि प्रकृते शान्ते विश्रान्तिमाह- तमिति । भूतपतिः तपसः विघ्नं तं वज्रः वनस्पतिमिव आशु अवरुज्य स्त्रीसन्निकर्षं परिहर्तुमिच्छन् सभूतोऽन्तर्दधे । भूतानां पतिः भूतपतिः । ‘भूतेशः खण्डपरशुः’ इत्यमरः। तपसः विघ्नं शरीरमवलम्ब्यावस्थितं तपोविघ्नम्। तं कामदेवम्। वज्रोऽशनिः । ह्रादिनी वज्रमस्त्री स्यात् कुलिशम्’ इत्यमरः । वनस्पति वृक्षमिव । अनेनोपमानेन आशुशब्दोक्तमर्थमनुस्मारयति । आशु शीघ्रम् । अनेन शान्तरसस्यादूरविच्छेदः प्रकाश्यते । अवरुज्य अवभज्य । स्त्रियाः सन्निकर्षः स्त्रीसन्निकर्षः तम्। परिहर्तुं हातुम् इच्छन् । ‘अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्’ इति न्यायेन देवीसन्निकर्षेण ममावश्यं चित्तविकारो भविष्यति, देव्या वैलक्ष्यविषादादिदर्शनेन कामपत्न्याः शोकानुसन्धानदर्शनेन च तपसो महान् विघ्नो भविष्यतीत्याशङ्क्येत्यर्थः। सभूतः भूतगणसहितः सन् अन्तर्दधे तिरोऽधात् । तद्देशावासमजहादित्यर्थः । अत्र भूतशब्दः सर्वपरिच्छदानामुपलक्षणम् । तेषामपि स्वेच्छामात्रपरिकल्पितत्वादिच्छाभावे तिरोधानम् । एवम्भूतं तपविघ्नं सद्य एव विनाश्य तत्क्षणमेव शान्तरसावलम्बने हेतुमाह — तपस्वीति । नित्ययोगे मतुप् । पुराणप्रसिद्धश्चायमर्थः ‘शिवो योगरतः शश्वद्’ इत्यादि ॥ ७४ ॥ तृतीयः सर्गः शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समीक्ष्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित् ॥ ७५ ॥ प्रकाशिका अथ नायिकाया वृत्तान्तमपि तावदुपसंहरति — २०३ शैलात्मजेति । अपीति, न केवलं देवः । पितुरिति, न तथात्माभिलाषभङ्ग इति भावः । अत्र हेतुः - उच्छिरसः अभिमानिनः अभिलाषं देवोपावर्तनविषयम् । ललितं वपुरिति, व्यर्थमित्यनुषङ्गः । समक्षम् अक्ष्णोः समीपे । ‘अव्ययम् —’ (२.१.६ ) इत्यादिना समासः । ‘तृतीया - ’ (२.४.८४) इत्यादिना अम्भावः । इतिशब्दः सखीसाक्षात्कारस्य लज्जाधिक्ये हेतुत्वद्योतकः । शून्येति चेतसः शून्यत्वं चिन्ताया अनुभावः । चिन्तालज्जे चानिष्टोपालम्भजस्य शोकस्य व्यभिचारिण्यौ, स च पूर्वानुरागस्य । कथञ्चिदिति लज्जाकार्यम् ॥ ७५ । । विवरणम् नायिकायाः शुश्रूषावृत्तान्तमप्युपसंहरति- शैलात्मजेति । शैलत्मजा अपि उच्छिरसः पितुः अभिलाषमात्मनो ललितं वपुश्च व्यर्थं समीक्ष्य कथञ्चिद् भवनाभिमुखी जगाम । शैलात्मजा पार्वती । न केवलं देवस्तद्देशवासमजहाद् अपितु शैलात्मजापीत्यपिशब्दार्थः । उच्छिरसो मानिनः । अनेनाभिलाषभङ्गस्यात्यन्तदुःसहत्वमुक्तम् । अत एव पितुरभिलाषमित्युक्तं न पुनरात्मनोऽभिलाषमिति । पितुरभिलाषश्च देवोपावर्तनविषय एव । आत्मनो ललितं सुन्दरं वपुः शरीरं च व्यर्थं निरुपयोगं समीक्ष्य सम्यगवधार्य । कथञ्चित् कृच्छ्रेण । एतच्च लज्जाया अनुभावः । भवनाभिमुखी भवनं प्रत्यभिमुखी जगाम । भवनमभिमुखीकृत्य प्रतस्थ इत्यर्थः । विशेषतोऽपि लज्जाया आधिक्यमाह - सख्योः समक्षमिति अधिकजातलज्जा चेति । सख्योर्विजयामालिन्योः । समक्षम् अक्ष्णोः समीपे । प्रत्यक्षमित्यर्थः । ‘अव्ययं विभक्ति - ’ (२.१.६) इत्यादिना समासः । ‘तृतीयासप्तम्योर्बहुलम्’ (२.४.८४) इत्यम्भावः । इतिशब्दः सखीसाक्षात्कारस्य लज्जाधिक्ये हेतुत्वं द्योतयति । अधिकजातलज्जा अत्यन्तं जाता लज्जा यस्याः सा तथोक्ता । सौभाग्यभङ्गस्यान्यदर्शनमेवात्यन्तलज्जावहं किं पुनः सखीदर्शनमिति भावः । इत्थमभिप्रवृद्धस्य मनोरथस्यात्यन्तभङ्गे जाते सति सञ्जातायाश्चिन्ताया अनुभावमाह — शून्येति । शून्यहृदयेत्यर्थः । आत्मानमप्यजानानेति भावः ।

अत्र२०४ कुमारसम्भवे शोकः पूर्वानुरागहेतुकः, चिन्तालज्जे च शोकस्य व्यभिचारिण्यौ । एतच्च सर्वं पञ्चमसर्गादौ देवीवृत्तान्तप्रस्तावे स्फुटीकरिष्यति ॥ ७५ ॥ सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् । सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीद् वेगदीर्घीकृताभ्रः ॥ ७६ ॥ प्रकाशिका अत्र देव्याः शोच्यतां परिहरति—- सक्थ्यक्ष्णोः ङीष् । ।

सपदीति । सपद्यादायेत्यन्वयः । संरम्भः क्रोधः । मुकुलिताक्षी ‘बहुव्रीहौ (५.४.११३) इति षच्। ‘षिद्गौरादिभ्यश्च’ (४.१.४१) इति दुहितरमिति निसर्गवात्सल्यम् । निसर्गवात्सल्यम्। अनुकम्प्यामिति तदवस्थोचितम् । दोर्भ्यामादायेत्यनुभावः । उपमानेनानुरूपता द्योत्यते । पन्थानं प्रतिगता प्रतिपथा । ‘अत्यादयः क्रान्ता(वा. २.२.१८) इत्यादिना समासः । ‘ऋक्पूरब्धूः(५.४.७४) इत्यादिना समासान्तः । येनागतस्तेनैव पथा गतवानित्यर्थः । अत्र प्रतिपथं वेगेन गमनं हिमवतो वैलक्ष्यद्योतकम् । अत्र दीर्घीकरणं महाबलत्वमहावर्ष्मत्वयोः। अत्रैतत्पर्यन्त इतिवृत्ते देवस्य दाक्षायणीविषयाया रतेस्तद्देहत्यागात् करुणेन विच्छेदः । तस्य च नैसर्गिकतत्त्वज्ञानपरिपोषितेन निर्वेदात्मना शान्तेन प्रशमः । पुनश्च देहान्तरं गताया देव्यास्तदुद्दीपनसेवाकृतिदर्शनोदिताया वासनास्तितायाः प्राक्तन्या रतेः ‘प्रणयिप्रियत्वात्’ (कु. ३.६६ ) इति दर्शितदाक्षिण्यात्मना दयावीरेण शान्तं व्यवधाय ‘हरस्तु किञ्चित्’ ‘हरस्तु किञ्चित्’ (कु. ३.६७) इत्यादिना किञ्चिदाविर्भावमुपगताया प्रबलवासनाव्यभिचारिण्या ‘अथेन्द्रियक्षोभम्’ (कु. ३.६९) इत्यादिना दर्शितया मत्याभिभवः । तस्याश्च स्मरविषयेण रौद्रेणाभिभवः । तस्मिंश्च दाह्याभावात् प्रशान्ते ‘तमाशुविघ्नम्’ (कु.३.७४) इत्यादिना पुनः शान्ते विश्रान्तिरित्यवसेयम्॥ ७६ ॥ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां तृतीयः सर्गः ॥ ३ ॥ विवरणम् अथ पुत्र्यास्तादृशीं दशामवलोकयतो भग्नमनोरथस्य दिमवतस्तत्कालोचितां प्रवृत्तिं दर्शयति- सपदीति । अद्रिः दोर्भ्यां दुहितरं सपदि आदाय प्रतिपथगतिः आसीत्। अद्रिः तृतीयः सर्गः २०५ हिमवान् दोर्भ्यां स्वहस्ताभ्यां दुहितरं पुत्रीम् । अनेन निसर्गवात्सल्यास्पदत्वमुक्तम् । एतच्च सपद्यादानप्रयोजकम् । दोर्भ्यामादानं वात्सल्यस्यानुभावः प्रतिपथगतिः पन्थानं प्रतिगता प्रतिपथा । ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयता’ इति समासः । ‘ऋक्पूरब्धूः—’ इत्यादिना समासान्तः । प्रतिपथा गतिर्यस्य स प्रतिपथगतिः । येन तथा पूर्वमागतस्तेनैव गतवानित्यर्थः । एतच्च वेगेन प्रतिपथगमनं वैलक्ष्यद्योतकम् । अत्रोपमामाह — सुरगजः पद्मिनीं दन्तलग्नां बिभ्रदिवेति । सुरगज ऐरावतः पद्मिनीं पद्मम्। दन्तलग्नां दन्तयोर्लग्नां सतीम् । बिभ्रद्दधानः सन्निव । यथा सुरगजः पद्मिनीं दन्ताभ्यां बिभ्रद् यथागतं गच्छति, तथा हिमवान् पुत्री दोर्भ्यामादायेत्यर्थः । अनेनोपमानेनानुरूपता द्योत्यते । देव्याः पारवश्यमाह – रुद्रसंरम्भभीत्या मुकुलिताक्षीमिति । रुद्रस्य संरम्भो रुद्रसंरम्भः । संरम्भः क्रोधः । ‘संरम्भौ क्रोधसम्भ्रमौ’ इति भोजः । तस्माद् भीत्या भयेन हेतुना । मुकुलिताक्षी मुकुलिते निमीलिते अक्षिणी नेत्रे यस्याः सा तथा । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गत् षच्’ ‘षिद्गौरादिभ्यश्च’ इति ङीष् । पद्मिन्यपि जलाशयादुद्धृता मुकुलिता भवति । देव्यास्तादृशलालनयोग्यत्वमाहअनुकम्प्यामिति । दयनीयाम् । गमनप्रकारमाह – वेगदीर्घीकृताभ्र इति । वेगेन सत्वर - प्रयाणजेन दीर्घीकृतमभ्रं मेघो येन स तथा । अभ्यन्नताङ्गसङ्घट्टनाद् दीर्घीकृतगगनासक्तमेघमण्डल इत्यर्थः। एतच्च विशेषणं सुरगजेऽपि योजनीयम् । अनेन विशेषणेन महाबलत्वं महाशरीरत्वं च द्योत्यते । अत्र देवगता दाक्षायणीविषया या रतिस्तद्देहत्यागेन करुणेन विच्छिन्ना तत्त्वज्ञानोपबृंहिता शान्तरसे विश्रान्तिमुपयाता, सैवात्र देहान्तरमवलम्ब्योपगताया देव्या दर्शनादिभिः समुन्मिषिता । ‘हरस्तु किञ्चित् परिवृत्तधैर्य’ इत्यादिना तदुन्मेषो दर्शितश्च । ततः सापि चिरकालपरिचितेन शान्तेनाभिभूता । ‘अथेन्द्रियक्षोभम्’ इत्यादिना तदभिभवावस्थैव दर्शिता च । पुनश्च तस्यापि रौद्ररसेनाभिभवः । तस्य तु मदने दग्धे दाह्याभावात् पुनरपि शान्ते विश्रान्तिः । ’ तमाशुविघ्नं तपस’ इत्यादिना तस्य शान्ते विश्रान्तिर्दर्शिता च । पुनश्च देव्यास्तपश्चरणानन्तरं प्राचीना रतिरेवोन्मेषमुपयास्ततीत्यवसेयम् ॥ ७६ ॥ ‘श्रीमासोत्सवचम्पु’काव्यरचनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये। व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते स्म तृतीय एति विरतिं सर्गे निसर्गोज्ज्वलः ॥ ॥ इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे तृतीय सर्गः ॥ ३ ॥