०२

तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः ॥ १ ॥ प्रकाशिका अथैतत्प्रकरणोपयोगितया प्रकरणान्तरमारभते- । तस्मिन्नति । तस्मिन् काले उपावर्तनकाले । इदमप्यपरमासीदित्यर्थः । तुराषाट्छब्दस्य छन्दसि सह ः ’ ( ३.२.६३) इति ण्विप्रत्ययविधानाच्छन्दस्येव साधुत्वम् । भाषायामपि साधुत्वं गिरिशादिवत् । तदाश्रयणपक्षे तु तुरासाहमिति पाठः । यद्वा भाषायामपि साधुत्वम् । यथा क्षीरतरङ्गिण्यां - तुरं त्वरितं साहयत्यभिभवत्यरीन् । ‘षह मर्षण’ इति चौरादिकोऽयं धातुः । ततो णिजन्तात् क्विप् । पूर्वपदस्य न हि वृति – (६.३.११६) इत्यादिना दीर्घः । ‘सहेः साडः सः (८.३.५६ ) इति साड्भूतस्य सहेः षत्वविधानाद् द्वितीयायां षत्वं नास्ति । पुरोधाय पुरस्कृत्य । धाम सदनम्। स्वायंभुवं ‘ओर्गुणः’ (६.४.१४६ ) इति गुणग्रहणाद् गुणज्ञापितस्यानित्यत्वाद् गुणाभावः ॥ १ ॥ विवरणम् अथोपवर्णितप्रकरणानुगुणं प्रकरणान्तरमारभते- तस्मिन्निति । दिवौकसः तस्मिन् काले तारकेण विप्रकृताः तुरासाहं पुरोधाय स्वायम्भुवं धाम ययुः । दिवौकसो देवाः तस्मिन् काले देव्याः प्रयोज्योपावर्तनकाले तारकेण तारकाख्येनासुरेण विप्रकृताः पीडिताः सन्तः । तुरासाहम् इन्द्रम्। तुराषाट्छब्दस्य ‘छन्दसि सह ः ’ ( ३.२.६३) इति ण्विप्रत्ययविधानात् कथं भाषायां साधुत्वम् । उच्यते। तुरं त्वरितं साहयत्यभिभवत्यरीनिति तुराषाट् । ’ षह मर्षण’ इति चौरादिको धातुः । ततो णिजन्तात् क्विप् । ‘नहिनृति - ’ (६.३.११६) इत्यादिना पूर्वपददीर्घः । ‘सहेः साडः सः ’ ( ८.३.५६ ) इति साड्भूतस्यैव सहेः षत्वविधानाद् द्वितीयायां तदभावेन षत्वाभावः । पुरोधाय पुरस्कृत्य स्वयम्भुव इदम् । ‘ओर्गुणः ’ (६.४.१४६) इति गुणग्रहणाद् गुणज्ञापितस्य ‘संज्ञापूर्वको विधिरनित्य’ इति अनित्यत्वादत्र गुणाभावः । धाम सदनम्। ‘धाम तेजस्सदनयोरिति भोजः । ययुः जग्मुः । देव्याः परमेश्वरपरिचर्यासमये शतमखमुखा मखभुजस्तारकासुरपरिभवमसहमानास्तन्निवेदनाय परमेष्ठिनः सद्म प्रपेदिर इत्यर्थः ॥ १ ॥ द्वितीयः सर्गः तेषामाविरभूद् ब्रह्मा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥२॥ प्रकाशिका ८३ तेषामिति । आविरभूत् प्रकाशोऽभूत् । ‘प्रकाशे प्रादुराविः स्यादित्यमरः । अनेन स्वयमनुग्रहोन्मुख आत्मानं दर्शितवान्, न तु ते स्वप्रयत्नेन ददृशुरिति द्योत्यते । अत एव तादृगुपमानं दत्तम् । उपमानेन च स्वापस्येव परिम्लानमुखश्रीत्वस्य तदीयाविर्भावावधिकत्वं द्योत्यते। प्रातरिति नियतनिमित्तैभूतकालवाचिना ब्रह्मणोऽपि लोकानुग्रहार्थं भाविनि सभायामाविर्भावे निमित्तत्वेन नियतस्वेच्छापरिकल्पितः कालः प्रकाश्यते, यत्र तेषां तदुपस्थानमासीत् ॥ २ ॥ तेषां तद्दर्शनप्रकारमाह- ―― विवरणम् तेषामिति । ब्रह्मा तेषाम् आविरभूत् । तेषां दिवौकसाम् । सम्बन्धषष्ठी चेयम्। आविरभूत् प्रकाशोऽभूत् । ‘प्रकाशे प्रादुराविः स्यादित्यमरः । तेषां तारकासुरपीडाया अनुभावमाह – परिम्लानमुखश्रियामिति । परिम्लाना परितः समन्ताद् म्लाना म्लानिमुपगता मुखश्रीः मुखशोभा येषाम् । कल्पान्तकृशानुकल्पेन तारकासुरभुजबलोष्मणा परिम्लानमुखानां बर्हिर्मुखानां दयानिधिः परमेष्ठी स्वयमेवात्मानं दर्शितवान्, न तु तैः प्रयत्नेनान्विष्य दृष्टोऽभूदिति भावः । अनेन ब्रहमणोऽपि देवकार्यानुगुणत्वं व्यज्यते । अत एव तदनुगुणमुपमानमाह – सुप्तपद्मानां सरसां प्रातः दीधितिमान् इव इति । सुप्तपद्मानां सुप्तानि मुकुलितानि पद्मानि येषां तेषां सरसां पद्माकराणां प्रातः प्रभाते । उपमेयपक्षे तद्दर्शनानुगुणकाल इत्यर्थात् सिध्यति। दीधितिमान् आदित्य इव । अत्र परिम्लानमुखश्रियामिति सुप्तपद्मानामिति विशेषणद्वयं परम्परबिम्बप्रतिबिम्बभावेन स्थितम्। उपमया तेषां मुखवैवर्ण्यस्य ब्रह्मदर्शनावधिकत्वं ध्वनितम्॥२॥ अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥३॥ प्रकाशिका अथेति । सर्वस्य धातारमिति प्रणिपातोपस्थानौचित्यम् । सर्वे, न त्वतिभूयस्त्वादलब्धसाम्मुख्येन केचन । कुत इत्याह – सर्वतोमुखमिति । अनेन समन्ताद् युगपच्चोपस्थानं प्रतीयते । तत एव वक्ष्यति - चतुर्मुखसमीरिता चतुष्टयी शब्दानां८४ कुमारसम्भवे प्रवृत्तिरिति । अर्थ्याभिरर्थादनपेताभिः, सत्याभिरित्यर्थः । यतोऽयं वागीशः, ततोऽस्योपस्थाने तथाविधानां वाचां प्रसर उपपन्न एवेति भावः । उपतस्थिरे पूजयामासुः । उपाद् देवपूजासंगति-’ ( वा १.३.२५) इत्यादिनात्मनेपदम् ॥३॥ तेषां तदुपस्थानप्रकारमाह- विवरणम् अथेति । अथ ते सर्वे वागीशं प्रणिपत्य अर्थ्याभिः वाग्भिः उपतस्थिरे । अथ आविर्भावान्तरं ते दिवौकसः सर्वे, न तु जनबाहुल्यादलब्धसम्मुखत्वेन केचिदेवेत्यर्थः। वागीशं वाचः सरस्वत्या ईशं भर्तारम् । अत एव तदुपस्थाने तथाविधानां वाचां प्रसर इति भावः । प्रणिपत्य प्रणम्य अर्थ्याभिः अर्थादनपेताभिः । ‘धर्मपथ्यर्थन्यायादनपेते’ (४.४.९२ ) इति यत्प्रत्ययः । यथार्थभूताभिर्वाग्भिः उपतस्थिरे पूजयामासुः । ‘उपाद् देवपूजासङ्गतिकरणमित्रसरणपथिष्विति वक्तव्यम्’ (वा. १.३.२५) इत्यात्मनेपदम्। तस्य प्रणिपातोस्थानयोग्यत्वमाह – सर्वस्य धातारमिति । सर्वस्य कृत्स्नस्य जगतः धातारं स्रष्टारम्, अखिलजगन्निर्माणकर्तारमित्यर्थः । ननु कथमेकस्यैव सर्वेषां युगपदाभिमुख्येन प्रणिपातादिसम्भवः, अत आह— सर्वतोमुखमिति। सर्वतः सर्वासु दिक्षु मुखानि यस्य तं चतुर्मुखमित्यर्थः । तस्य चतुर्मुखत्वात् समन्ताद् युगपच्चोपतस्थिर इति भावः । अत एव वक्ष्यति — पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । इति ॥ ३ ॥ प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टमी । ( २.१६) नमोऽस्त्वमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद् प्रकाशिका भेदमुपेयुषे ॥४॥ नमोऽस्तित्वति । अमूर्तये अशरीराय । केवलात्मने एकात्मने । ‘निर्णिक्ते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोरिति सिंहः । गुणत्रयेण विभागो यस्य । भेदमुपेयुषे त्रिमूर्तित्वेनेति शेषः । अयमर्थः - सृष्टेः प्रागेकात्मनेऽमूर्तये पश्चात् सत्त्वादिगुणमधिष्ठाय ब्रह्मविष्णुरुद्रात्मने तुभ्यं नमोऽस्त्विति ॥४॥ विवरणम् अथ तेषां वाचिकमुपस्थानं प्रपञ्चयति नमोऽस्त्वित्यादिभिरेकादशभिः श्लोकैः । तत्रादौ ब्रह्मणस्त्रिमूर्तिसृष्टौ हेतुत्वमाहुः - द्वितीयः सर्गः ८५ नम इति । तुभ्यं नमः अस्तु । तुभ्यं नमस्स्वस्ति - ’ ( २.३.१६ ) इत्यादिना नमश्शब्दयोगे चतुर्थी । नम इति नमस्कारवाचकमव्ययम् । अस्तु भवतु । अस्माभिः कृतो नमस्कार एतादृशाय भवते भवत्वित्यर्थः । कीदृशायेत्याकाङ्क्षायां ब्रह्मणो मूर्तित्रयसृष्टेः पूर्वावस्थामाहुः - सृष्टेः प्राक् केवलात्मने अमूर्तये इति । सृष्टेः प्राक् त्रिमूर्तिसृष्टेः पूर्वावस्थायां केवलात्मने एकात्मने । ‘निर्णीते केवलमिति त्रिलिङ्ग त्वेककृत्स्नयोरित्यमरः । अद्वितीयायेत्यर्थः । अत एवामूर्तये अशरीराय। सृष्ट्यनन्तरं तु भवानेक एव त्रिधा भासत इत्याहुः - पश्चाद् भेदम् उपेयुषे इति । पश्चात् सृष्टेरूर्ध्वकालं भेदं ब्रह्मविष्णुशिवात्मना त्रैविध्यव्यवहारम् उपेयुषे प्राप्तवते। त्रैविध्यप्राप्तौ हेतुमाहुः — गुणत्रयविभागायेति । गुणानां सत्त्वरजस्तमसां त्रयं गुणत्रयं, तेन विभागः पृथग्भावो यस्य तस्मै । तदुक्तं- इति ॥ ४ ॥ पालने विमलसत्त्ववृत्तये जन्मकर्मणि रजोजुषे लये। तामसाय जगतां पराकृतद्वैतजालवपुषे नमोऽस्तु ते ॥ यदमोघमपामन्तरुप्तं बीजमज ! त्वया । अदश्चराचरं विश्वं प्रभावस्तस्य गीयते ॥५॥ प्रकाशिका यदिति । ‘अदश्चराचरं विश्वं प्रभावस्तस्य गीयत’ इति पाठः । प्रकृष्ठो भावः प्रभावो विभूतिः । श्रिणीभुवोऽनुपसर्गे ३.३.२४) इत्यनुपसर्गाद् घञ्विधानात्। अयमर्थः- ःत्वया यद् बीजमपामन्तर्निषिक्तं, तस्य बीजस्य प्रभाव इति चराचरमिदं विश्वं लोकैर्गीयत इति । अत्र मनुः - अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्॥ इति। अत्राप्शब्देन सूक्ष्मभूतान्युच्यन्त इति तद्विदः । ‘अतश्चराचरं विश्वं प्रभवस्तस्य गीयस’ इति पाठे यदमोघमपामन्तरित्यस्य पौनरुक्तत्यं स्यात् ॥ अथ जगत्सृष्टिप्रकारमाहुः- विवरणम् यदिति । हे अज! त्वया अपाम् अन्तः यद् बीजम् उप्तं चराचरम् अदः विश्वं तस्य प्रभावः गीयते। अज! न जायत इत्यजः । अन्येष्वपि दृश्यते’ (३.२.१०१) इति डः । अनेन जननप्रतिषेधेन विनाशोऽपि प्रतिषिद्धः । ‘जातस्य ८६ कुमारसम्भवे हि ध्रुवो मृत्युरित्युत्पन्नस्यैव भावस्य विनाशप्रतिपादनात् । जगतामेवोत्पत्तिः, त्वं तु नित्य एव इति भावः । अपां त्वयैवादौ सृष्टानां जलानाम् । अत्रापामित्यनेन सूक्ष्मरूपाणामपामुपादानं, चराचरं विश्वमित्यनेन तु स्थूलरूपाणामिति सृष्टिप्रकरणात् सिध्यति । अन्तः अन्तर्भागे यद् बीजं वीर्यम् उप्तं निषिक्तं चराचरम् अदो दृश्यमानं विश्वं तस्य प्रभाव इति गीयते । मन्वादिभिरिति शेषः । प्रकृष्टो भावः प्रभावो विभूतिः । ‘श्रिणीभुवोऽनुपसर्गे’ (३.३.२४) इति अनुपसर्ग एव घञ्विधानात् । गीयते उच्यत इत्यर्थः । तस्य बीजस्य जगदुत्पादनसामर्थ्यमाहुःअमोघमिति। सफलमित्यर्थः । जगदुत्पत्तेः प्रकृष्टं कारणमिति यावत् । त्वया पूर्वं जलं निर्माय तदन्तर्भागे निषिक्तस्य वीर्यस्य विभूतिरेव चराचरात्मकमिदं विश्वमिति मन्वादयो वदन्तीत्यर्थः । अत्र पुराणवचनं मनुवचनं च- इति ॥ ५ ॥ हिरण्यगर्भो भगवान् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मादण्डात् समुत्पन्नं जगत् स्थावरजङ्गमम् ॥ तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन्। प्रलयस्थितिसर्गाणामेकः कारणतां गतः॥६॥ प्रकाशिका तिसृभिरिति । उदीरयन् प्रकाशयन् । ‘पश्चाद् भेदमुपेयुषे ’ (२.४) इत्यस्य प्रपञ्चनरूपेयमुक्तिः ॥ ६ ॥ न केवलं सृष्टिरेव त्वदुपक्रमा, अपितु स्थितिसंहारावपीत्याहुः- तिसृभिरिति । त्वम् एकः प्रलयस्थितिसर्गाणां कारणतां गतः । त्वमेकः, नान्यसहाय इत्यर्थः । अनेन स्थितिप्रलययोर्विष्णुरुद्रोपज्ञत्वप्रतीतिर्निरस्ता । प्रलयस्थितिसर्गाणां प्रलयः संहारः, स्थिती रक्षा, सर्गः सृष्टिः, तेषामिति द्वन्द्वः । कारणताम् उपादानादिरूपतां गतः प्राप्तोऽसि । अत्र सर्गस्थितिप्रलयानामिति क्रममपहाय सर्गस्य चरमोपादानं तस्य पूर्वश्लोक एव प्रतिपादितत्वेनानुवादरूपत्वादित्यवगन्तव्यम्। अविवक्षित एव वा क्रमः । ननु स्थितिप्रलयौ विष्णुरुद्रकर्तृकत्वेन प्रसिद्धाविति कथं त्वमेक इत्युच्यते, अत आहुः - तिसृभिः अवस्थाभिः महिमानम् उदीरयन् इति । तिसृभिः हरिहरहिरण्यगर्भस्वरूपाभिः अवस्थाभिः द्वितीयः सर्गः 1 ८७ अवस्थाविशेषैः । महिमानं माहात्म्यम् उदीरयन् प्रकाशयन्, निजमेव वैभवं मूर्तित्रयभेदेन प्रकटयन्नित्यर्थः । ‘पश्चाद् भेदमुपेयुषे ’ (२.४ ) इत्यस्य विवरणत्वेनेयमुक्तिः ॥ ६ ॥ स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥७॥ प्रकाशिका एवं लिङ्गसृष्टिमुक्त्वा मिथुनसृष्ट्यर्थं ब्रह्मणो रूपमाह - स्त्रीपुंसाविति । स्त्रीपुंसौ निपातनादच् समासान्तः । भिन्नमूर्तेः परिगृहीतमूर्त्यन्तरस्य । प्रसूतिभाजः मिथुनीभूय सन्तानकारिणः । अत्र मनुः- इति ॥७॥ द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः || अथ मिथुनसर्गप्रकारमाहुः — विवरणम् स्त्रीपुंसाविति । सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्त्रीपुंसौ यौ तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेः भिन्ना मायावलम्बनेन प्रकृतिपुरुषात्मना द्विधाकृता मूर्तिः शरीरं येन तस्य । ते तवात्मभागौ आत्मन एव भागौ अंशौ स्त्रीपुंसौ स्त्री च पुमांश्च स्त्रीपुंसौ। ‘अचतुर’( ५.४.७७ ) इत्यादिना निपातनादच् समासान्तः । तावेव नान्यावित्यर्थः । प्रसूतिभाजः प्रसूतिं प्रसवं भजत इति प्रसूतिभाक् तस्य, मिथुनीभूय सन्तानकारिण इत्यर्थः । सर्गस्य सृष्टेः पितरौ मातापितरौ । ‘पिता मात्रा’ (१.२.७०) इत्येकशेषः । स्मृतौ, मन्वादिभिरिति शेषः । अत्र मनुः- द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः ॥ इति । अत्र विराडिति प्रपञ्चरूपः पुरुष उच्यते। तस्य च स्वरूपमित्यमुक्तं श्रीभागवते — ‘नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुव इत्यादि । तव शरीरभेदमेव मन्वादयो मिथुनसर्गप्रकरणे स्त्रीपुरुषात्मना व्यपदिशन्तीत्यर्थः ॥ ७ ॥ म ८८ कुमारसम्भवे स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते। यावेव स्वप्नबोधौ तौ भूतानां प्रलयोदयौ ॥ ८ ॥ प्रकाशिका स्वकालेति । स्वकालः परार्धद्वयं, तस्य परिमाणेन करणभूतेन । पट्त्रिंशत्सहस्रसङ्ख्यैरहोभिर्यथा स्वकालः परिमितो भवति, तथा व्यस्तानि विभक्तानि रात्रिन्दिवानि येनेत्यर्थः । अनेन स्वायुषोऽपि स्वयमेव व्यवस्थापक इतीश्वरस्येतरवन्न कालाधीनत्वमित्युक्तम्। अनेन स्वप्नबोधयोः प्रलयोदययोश्च स्वेच्छाधीनत्वमुक्तम् ॥८॥ विवरणम् अथ वेदान्ताभिमतसृष्टिप्रलयप्रसङ्गेनापि स्तुवन्ति - स्वकालेति । ते स्वप्नबोधौ यौ तौ एव भूतानां प्रलयोदयौ। ते जगदीशितुस्तव स्वप्नश्च बोधश्च स्वप्नबोधौ, लीलामात्रकल्पितौ निद्राप्रबोधावित्यर्थः । तावेव पञ्चभूतानां तत्कार्याणां प्रलयोदयौ प्रलयो महाप्रलयः उदयः सर्गः । तव निद्रैव जगतो महाप्रलयः । तत्सर्गस्तु तव प्रबोध एवेत्यर्थः । तदुक्तं वेदान्तविद्भिः- निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि । स्मृतमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ इति । पुराणप्रसिद्धश्चायमर्थः- यदा स देवो जागर्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥ इति । स्वापप्रबोधयोर्निमित्तभूतस्याहोरात्रविभागस्यापि स्वेच्छामात्रनिर्मितत्वमाहुः — स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य । स्वस्य कालः स्वकालः, स च द्विपरार्धसंवत्सरपरिमितः, तस्य परिमाणमियत्ता, तेन करणभूतेन व्यस्तं विभक्तं रात्रिन्दिवं येन तस्य । रात्रिश्च दिवा च रात्रिन्दिवम्। ‘अचतुर(५.४.७७)इत्यादिना निपातनादच् समासान्तः । परार्धद्वयपरिमितेनात्मनः परमायुषा यथासम्भवं कल्पिताहोरात्रविभागस्येत्यर्थः । अनेन स्वायुषोऽपि स्वयमेव व्यवस्थापक इत्युक्तं भवतीति जगदीश्वरस्य नेतरजनवत् कालाधीनत्वं, नापि कर्माधीनत्वमिति लोकतो व्यतिरेको ध्वन्यते ॥८॥ जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥९ ॥ द्वितीयः सर्गः प्रकाशिका ८९ जगद्योनिरिति । योनिरीश इत्याभ्यां क्रमादुपादानत्वमधिष्ठातृत्वं चोक्तम्। आदिरन्त इत्याभ्यां जगतः प्राक् पश्चाच्चास्यावस्थितिरुक्ता । अयोनिरित्यादिभिरस्योपादानान्तरादिविरह उक्तः || ९ || विवरणम् ननूपादानादिना विना कथं स्वप्नप्रबोधमात्रेण जगतः प्रलयोद्भवाद्युपपत्तिरत आहुः - जगद्योनिरिति । त्वं जगद्योनिः । जगतः स्थावरजङ्गमात्मकस्य प्रपञ्चस्य योनिः उपादानकारणमसि। अनाद्यविद्यातिरस्कृतस्य स्वरूपस्याज्ञानादेवाधिष्ठानभूते त्वयि जायमानस्य प्रपञ्चभ्रमस्य सर्पभ्रमस्य रज्जुरिव त्वमेवोपादानकारणमसीत्यर्थः । तदुक्तं- यदज्ञानाद् विश्वं भवति फणिवद् रज्जुशकले निलीनं यज्ज्ञाने भवति सनिदानं त्रिभुवनम् । यदुच्चैराम्नायैः सततमवगम्यं मुनिजनै- स्तदेतद् ब्रह्माहं सहजपरमानन्दसुभगम्॥ इति। त्वं पुनः कारणान्तररहित एवेत्याहुः - अयोनिरिति । योनिः उपादानादिकारणम् अस्य नास्तीत्ययोनिः । इत्थं देवस्य जगदुपादानत्वमुक्त्वा कर्तृत्वमप्याहुः - त्वं जगदीश इति । जगतामीशः स्वामी । उत्पादको रक्षिता चेत्यर्थः । त्वं पुनरीशान्तररहित इत्याहुः – निरीश्वर इति । ईश्वररहितः । उत्पादको रक्षिता च तव नास्तीत्यर्थः । जगद्योनित्वाद् जगदुत्पत्तेः पूर्वमपि विद्यमान एव त्वमित्याहुः जगदादिरिति । जगतामादिः । अत एवानादिः आदिरस्य नास्तीत्यनादिः, पूर्वकोटिरहित इत्यर्थः । संहर्तृत्वमप्याहुः - त्वं जगदन्त इति । जगतामन्तः अवधिकरोऽसि। त्वं पुनः संहर्तृरहित इत्याहुः – निरन्तक इति । अन्तकोऽस्य नास्तीति निरन्तकः, अपरकोटिरहित इत्यर्थः ॥ ९ ॥

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ १० ॥ प्रकाशिका अथ पराधीनज्ञानसर्गस्थितिप्रलयात् प्रपञ्चादस्य व्यतिरेकमाह-

आत्मानमिति। आत्मानमात्मना वेत्सीति उत्पत्स्यमाने स्वात्मनि तदुत्पत्त्युपायं स्वयमेव जानासीत्यर्थः । सृजस्यात्मानमात्मना स्वज्ञातेनोपायेन सृज्ये स्वात्मनि ९० कुमारसम्भवे स्वयमेव सृजसीत्यर्थः । आत्मना कृतिना च त्वमात्मन्येव प्रलीयस इति । कृतिना कृतकृत्येन । कृतकृत्यत्वं चात्मनः स्थितौ । कृतिना आत्मना स्वात्मन्येव प्रलीयस इत्यर्थः । अत्र मनुः - एवं स सर्वं सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ इति ॥ १० ॥ विवरणम् ननूत्पादकान्तरराहित्ये दृश्यमानस्य चतुर्मुखस्य कथमुत्पत्तिरित्यत्राहुः- ।

आत्मानमिति । त्वम् आत्मना आत्मानं वेत्सि । आत्मना स्वमेव । ‘स्वयमात्मने’त्यमरः । आत्मानं सृज्यं स्वदेहं वेत्सि जानासि । सृष्टेः सृज्यस्वरूपावगमाधीनत्वाद् आदौ सृज्यं स्वदेहं तत्सृष्ट्युपायं च स्वयमेव जानासीत्यर्थः । तदनन्तरं तु सृजसीत्याहुः - आत्मना आत्मानं सृजसि इति । आत्मना स्वयमेव आत्मानं स्वदेहं सृजसि सृष्टं करोषि । ‘सृज विसर्ग’ इति धातुः । स्वयमेव स्वदेहसृष्टिरित्यर्थः । स्वदेहस्यापि स्वयमेव संहर्तेत्याहुः – कृतिना आत्मना आत्मन्येव प्रलीयसे चेति । कृतिना कृतकृत्येन स्वावतारकार्याणां विधानान्निर्वृतेनेत्यर्थः । आत्मना स्वदेहेन करणभूतेन आत्मनि स्वस्मिन्नेव प्रलीयसे प्रकर्षेण लीनो भवसि । त्वमादावात्मदेहस्वरूपं तत्सर्गोपायं च स्वयमेव जानासि । ततः परं तं सृजसि। सर्गान्तरं पुनः परार्धद्वयवत्सरपर्यन्तं रक्षिते स्वदेहे स्वावतारकार्येषु च निर्वृत्तेषु कृतकृत्यः सन् स्वदेहं स्वात्मन्येव लीनं करोषीत्यर्थः । अत्र मनुः- एवं स सर्वं सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ इति । अत्र स्वाधीनात्मसर्गस्थितिप्रलयस्यास्य ब्रह्मणः पराधीनसर्गादेः प्रपश्चाद् व्यतिरेकोक्तिः ॥ १० ॥ उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ ११ ॥ प्रकाशिका उद्घात इति । उद्घात आरम्भः । ‘स्यादभ्यादानमुद्घात आरम्भ’ इति सिंहः । न्यायैरुदात्तादिभिः । कर्म प्रतिपाद्यम्। गिराम् अर्थाद् वेदानाम् ॥ ११ ॥ द्वितीयः सर्गः ९१ विवरणम् वेदा अपि त्वदुद्भूता एवेत्याहुः-

उद्घात इति । त्वं तासां गिरां प्रभवः । तासां तादृशीनां गिरां वाचाम् । यच्छब्दवाक्यविशेषणवशाद् वेदवाक्यानामित्यर्थः प्रभव उद्भवस्थानमसि । अत्र तार्किकास्तावत्-कविरिव काव्यं महश्वरो वेदवाक्यान्यारचितवानित्याहुः । वेदान्तिनस्तु — निःश्वासरूपेण परब्रह्मण एवोद्भूयमाना वेदा इत्याहुः । सर्वथापि त्वदुद्भवा वेदा इत्यर्थः। कीदृशीनां गिरामित्यत्र तासां वेदत्वद्योतकं विशेषणत्रयम्। तत्रादावध्ययनारम्भसमय एवावगम्यं विशेषमाहुः – यासां प्रणव उद्घात इति । यासां गिरां प्रणवः प्रणवोच्चारणम् उद्घात आरम्भो भवति । ‘स्यादभ्यादानमुद्घात आरम्भ’ इति सिंहः । या गिरः प्रणवोच्चारणपूर्वकमुच्चार्यन्त इत्यर्थः । अनेनारम्भसमय एव गीरन्तरव्यतिरेक उक्तः । अध्ययनवेलायामपि व्यतिरेकमाहुःयासां त्रिभिर्न्यायैरुदीरणम् इति । त्रिभिर्न्यायैरुदात्तानुदात्तस्वरितभेदेन त्रिभिः न्यायैः व्यवस्थाभिः उदीरणम् उच्चारणं भवति । अथार्थज्ञानसमयेऽपि व्यतिरेकमाहुः — यासां यज्ञः फलं स्वर्गः कर्म इति । यज्ञो यागः तस्य फलं स्वर्गश्च कर्म प्रतिपाद्यं भवतीति शेषः । प्रतिपादनक्रियायां यज्ञस्वर्गयोः कर्मत्वात् कर्मेत्युक्तम् । यासां गिरां यागश्च तत्फलभूतः स्वर्गश्च प्रतिपाद्यो भवतीत्यर्थः ॥ ११ ॥ त्वं पितॄणामपि पिता देवानामपि दैवतम् । परतोऽपि परश्चासि विधाता वेधसामपि ॥ १२ ॥ प्रकाशिका त्वमिति । अत्र पूर्वार्धेन वेदेषु प्राधान्येन यष्टव्ययोः पितृदेवगणयोरपि पतित्वमुक्तम्। परतो विश्वोत्तीर्णात् पुरुषात् परोऽधिकः । वेधसां मरीच्यादीनामपि विधाता स्रष्टा ॥ १२ ॥ विवरणम् उक्तप्रकारसिद्धमस्य सर्वोत्कर्षमाहुः- त्वमिति । त्वं पितॄणाम् अपि पिता असि । पितॄणाम् अग्निष्वात्तादीनाम् । अपिशब्दः पितॄणां पुराणप्रसिद्धसर्वोत्कर्षमाह । ‘इज्यन्ते पितरो देवैः सुरेन्द्रादिभिरप्युत’ इत्युक्तत्वात्। पिता माननीयोऽसि । देवाधिपतित्वमप्याहुः – त्वं देवानामपि दैवतम् असि इति । इन्द्रादिदेवानामप्यधीश्वरोऽसि । कर्मकाण्डे यष्टव्यतया प्रसिद्धानां पितृदेवगणानामपि त्वमेव पतिरित्यर्थः । तेषामप्यधिपतित्वे हेतुमाहुः - त्वं परतः अपि परः च असि इति । प्रपञ्चोत्तीर्णाद् मायाशबलात् पुरुषादपि परः ९२ कुमारसम्भवे परमात्मैवासीत्यर्थः । अत एवाहुः - त्वं वेधसाम् अपि विधाता असि। वेधसां जगत्सर्गकृतां मरीच्यादीनामपि विधाता स्रष्टासि । वक्ष्यति च मरीच्यादीनां जगदेकदेशकर्तृत्वं ‘सर्गशेषविधायित्वाद्’ (६.९)इत्यत्र ॥ १२ ॥ त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ १३ ॥ प्रकाशिका त्वामिति । प्रकृतिः मूलकारणम् । पुरुषस्यार्थान् भोगान् प्रवर्तयतीति कर्तरि ल्युट् । तद्दर्शिनं प्रकृतिदर्शिनम् । उदासीनं प्रवृत्तिरहितम्॥ १३ ॥ विवरणम् सांख्यसिद्धान्तसिद्धौ प्रधानेश्वरावपि त्वमेवेत्याहुः- म्ना त्वामिति । त्वां पुरुषार्थप्रवर्तनीं प्रकृतिम् आमनन्ति । त्वां, नान्यं कञ्चिदित्यर्थः । पुरुषार्थप्रवर्तनीं पुरुषस्यार्थान् भोगान् प्रवर्तयतीति तथा । कर्तरि ल्युट् । तादृशीं प्रकृतिम् । प्रधानं प्रकृतिः स्त्रियामित्यमरः । आमनन्ति । अभ्यासे’ इति धातु। ‘पाघ्राध्मास्थाम्ना - ’ ( ७.३.७८ )इत्यादिना मनादेशः । आम्नायसिद्धार्थत्वेन व्यपदिशन्तीत्यर्थ । साङ्ख्यस्मृतय इति शेषः । सत्त्वरजस्तमसां साम्यावस्था प्रधानमिति साङ्ख्यानां व्यवहारः । तामेव मूलप्रकृतिरिति प्रकृतिरिति च ते व्यवहरन्ति । तदुद्भूतो महदादिप्रपञ्च इति तेषां मतम् । तदुक्तं साङ्ख्यसप्तत्यां- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । तत्र साङ्ख्या द्विविधाः निरीश्वराः सेश्वराश्चेति । तत्र निरीश्वराः साङ्ख्या अन्यनिरपेक्षात् प्रधानादेव जगदुद्भवस्थितिविलया इत्याहुः । सेश्वराः पुनरीश्वरस्य निष्क्रियस्यापि सान्निध्यमात्रेणैव प्रधानाज्जगदुद्भवादय इत्याहुः । तदुक्तं— तत्र यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥ इति । सेश्वरसाङ्ख्यमतसिद्धा प्रकृतिरनेन वाक्येनोच्यते। पुरुषस्यार्थान् प्रवर्तयितुमेव तस्या व्यापार इति च तेषां मतम् । तदप्युक्तं साङ्ख्यसप्तत्यां- रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तम्। ph पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ इति । द्वितीयः सर्गः ९३. सेश्वरसाङ्ख्यास्त्वामेव जगत्सर्गादिकरी मूलप्रकृतिमाहुरित्यर्थः । साङ्ख्यसम्मतः पुरुषोऽपि त्वमेवेत्याहुः - त्वामेव तद्दर्शिनम् उदासीनं पुरुषं विदुः इति । तां प्रकृति द्रष्टुं शीलमस्येति तद्दर्शी, तम्। उदासीनं निर्व्यापारं पुरुषम् ईश्वरं विदुः । ‘विदो लटो वा’ (३.४.८३) इति णलादिविकल्पः । विदन्तीत्यर्थ। निर्व्यापारस्यापि यस्य सन्निधिमात्रेण प्रधानस्य जगत्सर्गादिसामर्थ्यमिति साङ्ख्यविदो वदन्ति, सोऽपि त्वमेवेत्यर्थः ॥ १३ ॥ त्वमेव हव्यं होता च भोग्यं भोक्ता च शाश्वतम् । वेद्यश्च वेदिता चासि ध्याता ध्येयं च तत्परम् ॥१४॥ प्रकाशिका त्वमिति । हव्यं हविः । भोग्यं पशुवर्गादि । शाश्वतमित्यनेन भोग्यस्य कर्मविनाशेऽप्यवस्थानमुक्तम् । अत्र पूर्वार्धेन वेदेषु कर्मभागविषयोऽर्थः उत्तरार्धेन ज्ञानभागविषयोऽर्थश्चोच्यते। एषु च स्तुतिवाक्येष्वन्यथापि योजयन्ति तद्विदः ॥ १४ ॥ विवरणम् अथास्य सर्वात्मकत्वप्रतिपादनेन स्तुतिगोचरत्वं निराकुर्वन्तः स्तुतिमुपसंहरन्ति -

त्वमिति । त्वम् एव हव्यं होता च असि । हव्यं पशुपुरोडाशादिरूपं होमसाधनं होता यजमानश्चासि । हविर्यजमानश्च न त्वत्तो भिन्नावित्यर्थः । भोग्यभोक्तृस्वरूपत्वमप्याहुः – त्वम् एव शाश्वतं भोग्यं भोक्ता च असि इति । शाश्वतं नित्यं भोग्यं फलं भोक्ता यागादिकर्मफलानुभोक्ता चासि । स्वर्गपश्वादिरूपं फलं तद्भोक्ता चासीत्यर्थः । अत्र शाश्वतमिति भोग्यविशेषणेन ‘यत् कर्मफलं तत् कर्मनाशे नश्यति, यथा मर्दनकर्मनाशे तत्फलभूतं सुखम्। तस्मादग्निहोत्रादिकर्मणां कालान्तरे स्वर्गादिफलदातृत्वं वदतां वेदवाक्यानामुन्मत्तप्रलपितप्रायत्वमेव’ इति नास्तिकानुमानं निरस्यते । अग्निहोत्रादिफलं तु नित्यमेव, न कर्मविनाशे नश्यतीति भावः । अनेन पूर्वकाण्डप्रतिपाद्यानामर्थानां ब्रह्मात्मकत्वं प्रतिपादितम्। अथोत्तरार्धेनोत्तरकाण्डप्रतिपाद्यार्थस्यापि तदात्मकत्वमाहुः - वेद्यमित्यादिना । त्वं वेद्यं वेदिता च असि । वेद्यं प्रपञ्चः, वेदिता ज्ञाता । प्रपञ्चः प्रपञ्चसाक्षी च त्वमेवेत्यर्थः । उपास्योपासकभेदप्रतिभासस्यापि त्वमेवाधिष्ठानमित्याहुः – त्वं ध्याता तत्परं ध्येयं च असीति । ध्याता उपासका जीवाः । जातावेकवचनम्। एकजीवपक्षापेक्षया वा । तत्परं तस्मादुपासकात् परम् उत्कृष्टम् ध्येयम् उपास्यं च । उपासका मुमुक्षवो जीवाः । उपासकेभ्यः परं सकलनिष्कलभेदभिन्नं स्वरूपं त्वमेवासीत्यर्थ । तदिति पृथक्पदं वा। वेदान्तवाक्येषु तच्छब्दवाच्यतया प्रसिद्धमित्यर्थः ॥ १४ ॥ -९४ कुमारसम्भवे इति तेभ्यः स्तुतीः श्रुत्वा याथार्थ्यहृदयङ्गमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥ १५ ॥ प्रकाशिका इतीति । इत्थम्भूताः । स्तुतिर्नाम स्वाभिप्रायानुरूपं देवतावीर्योद्बोधनम्। अभिप्रायश्चात्र वक्ष्यते ‘तदिच्छामः ’ (२.५० ) इत्यादिना । तत्र च सेनानीसृष्टिः सृष्टेन च लोकस्थितिः तारकासुरसंहारः तस्य च निरतिशयशक्तिमत्त्वं चेत्येतत् सर्वमभिप्रेतम्। तदनुरूपविधातृवीर्योद्बोधनं चात्र स्पष्टम् । याथार्थ्येन स्वरूपानतिक्रमेण। प्रसादेनाभिमुखोऽनुग्रहोन्मुखः । । अनेनास्य सुप्रसादत्वाल्लोकतो व्यतिरेकः प्रतीयते । लोके हि स्तुतय आरोपितप्रायार्थाः प्रसादनाय, इह तु यथार्था इति ॥ १५ ॥ विवरणम् अथ ब्रह्मणः प्रति॒वचनं प्रस्तौति- इतीति । वेधा तेभ्यः इति स्तुतीः श्रुत्वा प्रसादाभिमुखः दिवौकसः प्रत्युवाच । वेधाः ब्रह्मा तेभ्यः देवेभ्यः सकाशाद् इति उक्तप्रकाराः स्तुतीः । स्तुतिर्नाम स्वाभिप्रायानुरूपं देवतावीर्योद्बोधनम् । अभिप्रायश्चात्र ‘तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये’ (२.५० ) इति वक्ष्यते । अतस्तादृशवीर्यतारकासुरविमर्दनक्षमस्य सेनान्यः सृष्टौ यद् ब्रह्मणो वीर्यं तदुद्बोधनं ‘नमोऽस्तु ’ (२.४ ) इत्यादिभिः श्लोकैः कृतम्। लीलामात्रकल्पितसकलजगत्सृष्टिस्थितिप्रलयस्य तव सेनानीसृष्टौ कः प्रयास इति स्तुतिवचनानां तात्पर्यार्थः । श्रुत्वा आकर्ण्य । प्रसादाभिमुखः अनुग्रहोन्मुखः सन् दिवौकसः देवान् प्रत्युवाच प्रतिवचनं कृतवान् । ब्रह्मणः स्तुतौ सामान्यस्तुतिव्यतिरेकमाह – याथार्थ्यहृदयङ्गमा इति । याथार्थ्येन यथार्थत्वेन हृदयङ्गमाः मनोहराः। लोके हि प्रसादनाय क्रियमाणाः स्तुतयः प्रायेणारोपितार्थाः ब्रह्मणः स्तुतयस्तु यथार्था एवेति भावः ॥ १५ ॥ पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥ १६ ॥ प्रतिवचनप्रस्तावे विशेषमाह- प्रकाशिका ॐ पुराणस्येति। पुराणस्याद्यस्य कवेर्निबन्धुः प्राज्ञस्य वा। चतुर्भिर्मुखैः समीरिता सम्यगीरिता सकलसंस्कारसमग्रमुच्चारिता । प्रवृत्तिः प्रवाहः । पुराणकविसम्बन्धात् द्वितीयः सर्गः ९५ समग्रसंस्कारः । अत एव चरितार्था । चतुर्भ्यो मुखेभ्यश्चतुर्धा शब्दानां प्रवृत्तिरासीदित्यर्थः। चरितार्थत्वं त्वौपचारिकं द्रष्टव्यम्। यथा देवाः सर्वतोमुखत्वादस्य सुलभसाम्मुख्याः सन्तः सर्व एव युगपत् परितश्चोपतस्थिरे, तथासावपि तान् सर्वानेव चतुर्मुखविनिर्गतया चतुष्टय्या शब्दानां प्रवृत्त्या [ ऋलृक्सूत्रमहाभाष्ये । युगपत् परितश्च प्रत्युक्तवानित्यर्थः । दक्षिणावर्तस्तु — वैखर्यादिरूपेण चतुष्टयीति व्याचष्ट । तत् तु निरूपयितव्यम् ॥ १६ ॥ विवरणम् अथास्य प्रतिवचनप्रस्तावे विशेषमाह -

पुराणस्येति । पुराणस्य कवेः चतुर्मुखसमीरिता चतुष्टयी शब्दानां प्रवृत्तिः चरितार्था आसीत् । पुराणस्य आद्यस्य कवेः प्रवाहः सर्वज्ञस्य वा । ‘वाक्प्रबन्धविधाता च सर्वज्ञश्च कविः स्मृत’ इति भोजः । चतुर्मुखसमीरिता चतुर्भिर्मुखैः वदनैः समीरिता सम्यक् सकलसंस्कारसमग्रम् ईरिता उच्चारिता चतुर्मुखोदीरितत्वादेव चतुष्टयी। ‘संख्याया अवयवे तयप्’ (५.२.४२ ) । अवयवचतुष्टययुक्तेत्यर्थः । शब्दानां प्रवृत्तिर्वचसां प्रवाहः चरितार्था कृतार्था आसीद् बभूव। चतुर्भ्यो मुखेभ्यः प्रवृत्ताश्चत्वारो वाक्प्रवाहा कृतार्था बभूवुरित्यर्थः । यथा देवाः सर्वतोमुखत्वादस्य सुलभसाम्मुख्याः सन्तः सर्व एव युगपत् परितश्चोपतस्थिरे, तथासावपि तान् सर्वानपि चतुर्भिर्वदनैर्युगपदेव प्रत्युवाचेत्यर्थः । सर्वेषामपि युगपदेव प्रतिवचनसिद्धेः कृतार्थत्वम्। अत्र वक्तुः कृतार्थत्वं वाक्प्रवृत्तावुपचर्यते, वाक्प्रवृत्तेरचेतनायाः कृतार्थत्वानुपपत्तेः । इह वाक्प्रवाहस्य पुराणकविसम्बन्धात् समग्रसंस्कारवत्त्वं, चतुर्मुखोच्चरितत्वाच्चतुष्टयत्वं तेन कृतार्थ (त्व) मिति विभागः ॥ १६ ॥ , स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः । युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥१७॥ प्रकाशिका

स्वागतामिति । स्वागतं शोभनमागमनम्। अधीकारान् ‘उपसर्गस्य घञि - (६.३.१२२) इति दीर्घः । वः युष्मभ्यम् । प्रभावैः स्वानधीकारानवलम्ब्य स्थितेभ्यो युष्मभ्यं स्वागतमित्यर्थः । युगपदित्यनेन प्राप्तेः सहेतुकत्वं सूचयति । युगानीव बाहवो येषामिति समासः । प्राज्यं प्रभूतम् ॥ १७ ॥ विवरणम् निना विधातुः प्रतिवचनप्रकारमाह स्वागतमित्यादिभिरेकादशभिः श्लोकैः । तत्रादौ स्वागतमाह- ९६ कुमारसम्भवे स्वागतमिति । हे प्राज्यविक्रमाः ! वः स्वागतम्। हे प्राज्यविक्रमाः ! प्राज्यः प्रभूतो विक्रमो येषाम्। ‘प्रभूतं प्रचुरं प्राज्यमित्यमरः, विक्रमस्त्वतिशक्तिता’ इति च। अनया सम्बुद्ध्या तेषां परिभवावकाशाभावो ध्वन्यते । वः युष्मभ्यं स्वागतं शोभनमागमनम्। अस्त्विति शेषः । भवतामागमनकार्यं शोभनं भूयादिति भावः । प्राज्यविक्रमत्वस्य फलमाह - प्रभावैः स्वान् अधीकारान् अवलम्बेति । स्थितेभ्य इति शेषः । प्रभावैः सामयैः स्वान् आत्मीयान् । ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने’ इति सिंहः । अधीकारान् ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’(६.३.१२२) इति दीर्घः । अवलम्ब्य धृत्वा स्थितेभ्यः । स्वाधिकारावलम्बने शक्तत्वमाह – युगबाहुभ्य इति । युगा इव बाहवो येषाम् । ‘यानाद्यङ्गे युगः पुंसि’ इत्यमरः । आगमनं सहेतुकमिति द्योतयन्नाह - युगपत् प्राप्तेभ्य इति । युगपत् सहैव प्राप्तेभ्य आगतेभ्यः । तत्र आत्मीयानधिकारानवलम्ब्य पृथगवस्थितानां सम्भूयागमनवचनेनागमनं सहेतुकं स च हेतुर्महानिति च व्यज्यते ॥ १७ ॥ किमिदं द्यूतिमात्मीयां न बिभ्रति यथापुरम् । हिमक्लिष्टप्रसादानि ज्योतींषीव मुखानि वः ॥ १८ ॥ प्रकाशिका किमिति । किं प्रश्ने । इदमिति वक्ष्यमाणं वैकृतं परामृष्टम् । इदं किंहेतुकमित्यर्थः । तदाह किमित्यादिना श्लोकाष्टकेन । तत्र सामान्यतो निरूपयति – धुतिमिति । अत्मीयां नैसर्गिकीम् । न तु सर्वथा न बिभ्रतीत्याहयथापुरमिति । ज्योतींषि चन्द्रतारकादीनि ॥ १८ ॥ विवरणम् इत्थं सूचितमर्थे किञ्चिद् विवृणोति - किमिति । इदं किम् । इदंशब्देन वक्ष्यमाणं मुखवैवर्ण्यादिकं सर्वप्रत्यक्षदृष्टं परामृष्टम् । किंशब्दः प्रश्ने । दृश्यमानमिदं सर्वं किंकारणकमित्यर्थः । तत्रादौ सकलसुरसाधारण्येन मुखवैवर्ण्यमेवाह – वः मुखानि आत्मीयां द्युतिं यथापुरं न बिभ्रति इति । वः युष्माकं मुखानि वदनानि आत्मीयां स्वाभाविकीं द्युतिं कान्ति। यथापुरम्। पदार्थानतिवृत्तौ यथाशब्दः । पूर्वकालानतिक्रमेण, पूर्ववदिति यावत्। न बिभ्रति न दधति । भवतां मुखानि पूर्ववत् कान्ति न दधतीत्यर्थः । मुखवैवर्ण्यमुपमया स्फुटयति — हिमक्लिष्टप्रसादानि ज्योतींषीवेति । हिमेन तुषारेण क्लिष्टः क्लेशं प्राप्तः प्रसादः येषां तानि ज्योतींषि चन्द्रादीनीव । अनेनोपमानेन कालवशात् प्राप्तस्य वैवर्ण्यस्य कालान्तरे निवृत्तिरप्यस्तीति द्योत्यते ॥ १८ ॥ द्वितीयः सर्गः प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम्। वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥१९॥ अथ विशेषतो निरूपयति- प्रकाशिका प्रशमादिति । अनुद्गीर्णसुरायुधम् अनुद्गीर्णसुरायुधम् अनुद्गतनानारत्नच्छायम्। ९७ / अनेन कार्यमुखेनार्चिः प्रशम उपपादितः । अश्रिः कोटिः । अर्चिषां प्रशमादिति कुण्ठिताश्रित्वोत्प्रेक्षणे हेतुः। अत्रार्चीषि किरणाः, न तु ज्वालाः, तासामूर्ध्वमुखत्वेनाश्रिवत् सर्वतोमुखत्वासिद्धेः ॥ १९ ॥ इत्थं विवरणम् सामान्येनोक्तं विशेषतः प्रतिपादयति सप्तभिः श्लोकैः । तत्रादौ प्राधान्यान्महेन्द्रावस्थामाह- प्रशमादिति । वृत्रस्य हन्तुः एतत् कुलिशं कुण्ठिताश्रि इव लक्ष्यते । वृत्रस्य हन्तु वृत्राभिधानस्य दानवपतेः निग्रहीतुः । देवेन्द्रस्य तादृशावस्थाप्राप्तेरनौचित्यमुक्तम् । एतद् दृश्यमानं कुलिशं वज्रम् । अनेन अचलेष्वप्यकुण्ठितत्वं द्योत्यते । कुण्ठिताश्रि कुण्ठिताः क्षीणधारा अश्रयः कोटयो यस्य । ‘स्त्रियः पाल्यश्रिकोटय’ इत्यमरः । तथाभूतमिव लक्ष्यते। कुण्ठिताश्रित्वोत्प्रेक्षायां च हेतुमाह — अर्चिषां प्रशमाद् अनुद्गीर्णसुरायुधमिति । अर्चिषां किरणानां न तु ज्वालानाम्। तासामूर्ध्वमुखत्वेन सर्वतोमुखाश्रिसाधर्म्यानुपपत्तेः । प्रशमात् संक्षयाद् अनुद्गीर्णसुरायुधम् अनुद्गीर्णम् अनुद्गतं सुरायुधम् इन्द्रचापरूपा नानारत्नप्रभा यस्य तत् तथा। नानारत्नप्रभानुद्गमनादर्चिः प्रशमः सुखावसेयः । अर्चिः प्रशमनेन कुण्ठिताश्रित्वमुत्प्रेक्ष्यत इति भावः ॥ १९ ॥ किञ्चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥२०॥ प्रकाशिका , किञ्चेति । अपि च दैन्यं चेतसोऽनौजस्यम् । तेन तत्कार्यभूतमनुज्ज्वलत्वमत्र लक्ष्यते। नन्विन्द्रावरुणावादित्येष्वन्तर्भूतौ। सत्यम् । अधिकारभेदात् तु विग्रहभेदो व्यवहारभेदश्च ॥ २० ॥ हम विवरणम् अथ वरुणावस्थामाह- ९८ कुमारसम्भवे किञ्चेति । किञ्च प्रचेतसः पाणौ यं पाशः मन्त्रेण हतवीर्यस्य फणिनः दैन्यम् आश्रितः । किञ्च अपि चेत्यर्थः । प्रचेतसः वरुणस्य। ‘प्रचेता वरुणः पाशी’ त्यमरः । पाणौ हस्ते वर्तमान इत्यर्थात् सिध्यति । अयं दृश्यमानः । अनेन दैन्यस्य प्रत्यक्षप्रमाणसिद्धत्वमुक्तम् । यमवरुणौ पाशहस्ताविति प्रसिद्धिः । मन्त्रेण अर्थाद् गरुडदैवतेन हतवीर्यस्य हतं प्रतिहतं वीर्यं प्रभावो यस्य । ‘वीर्यं बले प्रभावे चे’ त्यमरः । तस्य फणिनः दैन्यं दीनत्वम्। ‘दौर्गत्यादेरनौजस्यं दैन्यं कार्ण्यामृजादिकृत्’ (५.१४) इति दशरूपके। मानस ओजःक्षय इत्यर्थः । तेनात्र तत्कार्यभूतमनुज्ज्वलत्वं लक्ष्यते । आश्रितः प्राप्तः । पाशस्य पूर्वावस्थामाहअरिदुर्वार इति । अरिभिः शत्रुभिः दुर्वारः दुःखेन वार्यत इति तथा । कृच्छ्रार्थे खल् अरिजनैरवारणीयशक्तिरित्यर्थः । अनेनास्यैतादृशदशाप्रवेशानवकाशो निरूप्यते । अपकारिजनदुर्वारः फणी यथा मन्त्रप्रमथितशक्तिर्दीनां दशामाप्नोति, तथा वरुणस्यायं पाशोऽपीत्यर्थः । पाशफणिनोः स्वरूपसाम्यमेवंव्यवहारे हेतुः । ननु ‘अमी च कथमादित्याः (२.२३) इत्यनेन श्लोकेन द्वादशादित्यावस्थाया वक्ष्यमाणत्वादिन्द्रावरुणयोश्च द्वादशादित्येष्वेवान्तर्भावात् कथं पृथग् वर्णनम्। मैवम् । अधिकारभेदनिमित्ताद् विग्रहभेदात् पृथग् व्यवहारोपपत्तेः । अत्र पाशः फणिदैन्यसदृशं दैन्यमाश्रित इति निदर्शना ॥ २० ॥ । कुबेरस्य मनः शल्यं शंसतीव पराभवम् । अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २१ ॥ प्रकाशिका कुबेरस्येति । शंसतीवेत्युत्प्रेक्षया स्फुटत्वं द्योत्यते । मनः शल्यं पराभवमिति रूपकम् ॥ २१॥ कुबेरावस्थामाह- विवरणम् कुबेरस्येति । कुबेरस्य अपविद्धगदः बाहुः पराभवं शंसति इव । कुबेरस्य वैश्रवणस्य। अपविद्धगदः अपविद्धा त्यक्ता । यथा रघुवंशे ‘अपविद्धशुचाविव’ [ रघु. १०.७४] इति। अपविद्धा शत्रुप्रहारसामर्थ्याभावेन निरुपयोगत्वात् त्यक्ता गदा येन सः बाहुः हस्तः पराभवं परिभवं शंसति कथयतीव । वैश्रवणस्य गदाशून्यो हस्त एव शत्रुपरिभवं कथयतीवेत्युत्प्रेक्षा । कथनोत्प्रेक्षया च पराभवस्य स्फुटत्वं द्योत्यते। कथितं हि स्फुटतरमवगम्यते । तादृशं बाहुमुपमिनोति – भग्नशाखः द्रुमः एव इति । भग्नाः भङ्गं प्रापिताः शाखा यस्य तादृशो द्रुमः वृक्ष इव।

द्वितीयः सर्गः

९९ पराभवस्यात्यन्तासह्यत्वं द्योतयन् पराभवं विशिनष्टि – मनश्शल्यमिति । मनसः शल्यं शल्यवदत्यन्तदुस्सहमित्यर्थः । रूपकं चेदम्। अत्रोत्प्रेक्षोपमारूपकाणां संसृष्टिः ॥ २१ ॥ यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥२२॥ प्रकाशिका यमोऽपीति । भूबिलेखनं विषादस्यानुभावः । लाघवमबहुमानम् । अयं तु श्लोकः ‘प्रशमादर्चिषाम् ’ (२.१९) इत्यस्यानन्तरं पठनीयः ॥ २२ ॥ यमावस्थामाह - विवरणम् यमोऽपीति । यमः अपि दण्डेन भूमिं विलिखन् अमोघे अपि अस्मिन् निर्वाणालातलाघवं कुरुते । यमयति नियमयत्यसत् इति यमः । असतां नियन्तायमन्तकोऽपीत्यपिशब्दार्थः । अनेनास्य पूर्वोक्तदिक्पालत्रयव्यतिरेक उक्तः । तथाभूतोऽयमप्येतादृशो जातः, किमुतान्य इति भावः । यमस्यैतादृशं विशेषं प्रतिपादयितुमेव महेन्द्रवृत्तान्तवर्णनानन्तरं क्रममतिक्रम्य वरुणकुबेरयोरवस्था प्रतिपादिता । अरुणाचलनाथादयः पुनः - अयं तु श्लोकः ‘प्रशमादर्चिषाम्’ (२.१९) इत्यस्यानन्तरं पठनीय इत्येवोक्तवन्तः । दण्डेन स्मरणमात्रेणाप्यसतां भयङ्करेणेत्यर्थः । भूमिं विलिखन् । विषादवन्तो हि दण्डादिना भूमिविलेखनं कुर्वन्तीति विषादस्यानुभावोऽयम् । अमोघे मोघो निष्फलो न भवतीत्यमोघः तस्मिन्नपि, सफलप्रहारेऽपीत्यर्थः । अपिशब्दोऽस्य तादृशावस्थाया अयोग्यत्वं सूचयति । अस्मिन् दण्डे निर्वाणालातलाघवं निर्वाणे प्रशान्तानले अलाते उल्कायां यल्लाघवम् अबहुमानः, तत् करोति । यतोऽयं तादृशमपि दण्डमित्थं भूविलेखनादानुपयोजितवान्, ततोऽस्य तस्मिन्ननादरः स्फुट एव । अनादरश्च शत्रुप्रहारसामर्थ्याभावकृत इत्यवसेवयम्। दण्डस्यापि निस्तेजस्त्वप्राप्तिर्दर्शनमात्रेणैवावसेयेत्याह-अस्तमितत्विषेति । अस्तमिता विनष्टा त्विट् शोभा यस्य तत्तथा । एतच्च दण्डविशेषणं निर्वाणालातसाम्यसिद्ध्यर्थम् । अत्रेन्द्राद्यायुधानां नष्टप्रभावत्वप्रतिपादनेन तदधिष्ठात्र्या देवताया अपि भयाकुलत्वं दर्शितम् ॥ २२॥ अमी च कथमादित्याः प्रतापक्षयशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥२३॥ १०० कुमारसम्भवे प्रकाशिका अमी इति । कथमिति विस्मये । प्रकामं यथेच्छम् ॥ २३ ॥ विवरणम् दिक्पालावस्थावर्णनानन्तरमवशिष्टेषु देवेषु प्रधानभूतानामादित्यानामवस्थां प्रस्तौति - अमी इति। अमी आदित्याः च प्रकामालोकनीयतां गताः कथम् । अमी पुरतो दृश्यमानाः । हस्तनिर्देशपूर्वकोऽयं व्यवहारः । आदित्याः द्वादशादित्याः । चकारो ऽयमपिशब्दार्थे । ये पूर्वं प्रभया दुर्निरीक्षाः, तेऽपीत्यर्थः । प्रकामालोकनीयतां प्रकामं यथेच्छम् आलोकनीया द्रुष्टुं शक्या इति प्रकामालोकनीयाः, तेषां भावस्तत्ता, तां गताः कथम् । कथंशब्दो विस्मये। तादृशा आदित्या अप्येवंभूताः, अत्यद्भुतमेतदित्यर्थः। उत्प्रेक्षते - चित्रन्यस्ता इव इति । चित्रेषु न्यस्ताः लिखिता इव। न हि चित्रन्यस्ता आदित्या दुरालोका भवन्ति । प्रकामालोकनीयत्वप्राप्तौ हेतुमाह — प्रतापक्षयशीतला इति । प्रतापस्य आतपस्य । ‘प्रतापौ पौरुषातपौ’ इति यादवः। क्षयेण शीतलाः शीताः । एतच्च पराभवहेतुकस्य दैन्यस्यानुभावः ॥ २३ ॥ पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते । अम्भसामोघसंरोधः प्रतीपगमनादिव ॥२४॥ प्रकाशिका पर्याकुलत्वादिति । मरुतां वायूनाम्। ते च स्मृत्युक्ता अष्टौ- गगनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । इति । अथवा तन्त्रान्तरोक्तानां वायूनामेकोनपञ्चाशतो ग्रहणम्, अत्र लिङ्गं वेगभङ्गः, न तु मरुद्गणानां तदसम्भवात् ॥ २४॥ विवरणम् वायुनामवस्थामाह- पर्याकुलत्वादिति । मरुतां पर्याकुलत्वाद् वेगभङ्गः अनुमीयते । मरुतां गगनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः ॥ इति स्मृत्युक्तानामष्टानां वायूनां न तु मरुद्गणानां तेषां वेगभङ्गानुपपत्तेः । ‘पर्याकुलत्वाद व्याकुलत्वाद्, अयथापूर्वसंचाराद्धेतोरित्यर्थः । वेगस्य भङ्गो वेगभङ्गः । द्वितीयः सर्गः १०१ अनुमीयते दृश्यमानेन पर्याकुलत्वेन लिङ्गेन वायूनामपि वेगो यत्रकुत्रापि भग्नो जात इत्यनुमीयत इत्यर्थः । अत्रोपमामाह — अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव इति। अम्भसां जलानाम् ओघसंरोधः ओघस्य प्रवाहस्य संरोधः सम्यग्रोधः समुद्रवर्धनादिना विच्छेदः प्रतीपगमनात् प्रतीपं प्रतिकूलं यथा भवति तथा गमनादिव। यथा नदीनां वेगभङ्गः सुखानुमेय इति भावः ॥ २४ ॥ आवर्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः क्षताहङ्कारशंसिनः ॥२५॥ प्रकाशिका आवर्जितेति । आवर्जिते जटामये मौलौ केशबन्धे विशेषेण लम्बिन्यः शशिकोटयो येषाम् । अहङ्कारोऽभिमानित्वम् । अहङ्कारस्याधिदैवतं शिवः । स एवैकादशात्मा रुद्रः । तत इयमुक्तिः ॥ २५ ॥ रुद्राणामवस्थामाह-

विवरणम् आवर्जितेति । रुद्राणां मूर्धानः अपि क्षताहङ्कारशंसिनः । रुद्राणामेकादशरुद्राणां मूर्धानः शिरांसि क्षताहङ्कारशंसिनः क्षतं भग्नम् अहङ्कारम् अभिमानित्वं शंसितुं शीलमेषामिति तथा। भवन्तीति शेषः । अहङ्कारस्याधिदैवतं शिव इति पुराणप्रसिद्धिः । एकादशात्मा रुद्रोऽपि स एव । ततश्च अहङ्काराधिदैवतानामप्यहङ्कारक्षतिरिति विरोधोऽपिशब्देनोच्यते । मूर्ध्नामहङ्कारक्षतिकथनप्रकारं विशेषणद्वारेणाह – आवर्जितजटामौलिविलम्बिशशिकोटय इति । आवर्जितेषु विषादभरानतशिरस्कतया शिरसा सहावनमितेषु जटारूपेषु मौलिषु केशबन्धेषु । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रय’ इति सिंहः । विलम्बिन्यः लम्बनशीलाः । शशिकोटयश्चन्द्रकला येषु ते तथा। नम्नशिरस्त्वं विषादस्यानुभावः । शिरोनमने शिरोलङ्कारस्त्रंसस्तु स्वभावसिद्ध इति स्वभावोक्तिः ॥ २५ ॥ लब्धप्रतिष्ठाः प्रथमं न खलु स्थ बलोत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥२६॥ प्रकाशिका इत्थं निरूपितस्य वैकृतस्य हेतुं स्वयमेवाभ्यूहति- लब्धेति । प्रथमं लब्धप्रतिष्ठाः प्राप्तस्वपदस्थितयः । न खलु स्थ। खलुर्जिज्ञासायाम्। एतद् विशेषतो ज्ञातुमिच्छामीत्यर्थः । न स्थ न भवथ। काक्वा १०२ भवथैवेत्यर्थः । ‘मथ्नामि कुमारसम्भवे कौरवशतमि’ [ वेणीसंहारे] त्यादिवत् । कृतव्यावृत्तयः स्वपदाच्च्याविताः । अत्र हेतुः - बलोत्तरैरिति । अपवादानां बलवत्तरत्वं ‘स्वावकाशनिरवकाशयोर्निरवकाशो बलीयानि ‘ति न्यायात् । परै शत्रुभिः ॥ २६ ॥ विवरणम् इत्थं प्रतिपादितानां मुखवैवर्ण्यादीनां कारणं स्वयमेवाभ्यूह्य कथयति — लब्धेति। यूयं परैः_कृतव्यावृत्तयः न खलु स्थ। परैः शत्रुभिः कृतव्यावृत्तयः कृता विहिता व्यावृत्तिः स्वपदच्युतिर्येषां तथाविधा न खलु । खलुशब्दो जिज्ञासायाम् । स्थ भवथ । अत्र काक्वा भवथैवेत्यर्थः । ’ मथ्नामि कौरवशतं समरे न कोपाद्’ [ वेणीसंहारे ] इत्यादिवत् । भवन्तः शत्रुभिः स्वपदात् प्रच्याविता एवं तद्विशेषविषया मे जिज्ञासेति भावः । ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खलु’ इत्यमरः । स्वपदात् प्रच्यावनमुपमया स्फुटयतिअपवादैः उत्सर्गाः इव इति । अपवादैर्विशेषविधिभिः उत्सर्गाः सामान्यविधय इव । यथा विशेषविधिभिः सामान्यविधयः स्वस्थानान्निरस्यन्ते, तथा यूयमपि परैरिन्द्रादिस्थानान्निरस्ता एव । के पुनस्त इत्यादयो विशेषाः कथ्यन्तामित्यर्थः । सामान्यविधीनां देवानां च साधारणं धर्ममाह – प्रथमं लब्धप्रतिष्ठा इति । प्रथमं शत्रुसमागमात् पूर्वं विशेषशास्त्रश्रवणात् पूर्वं च लब्धा प्राप्ता प्रतिष्ठा स्वपदस्थितिर्यैस्ते तथा । परेषां विशेषविधीनां च साधारणं धर्ममाह – बलोत्तरैरिति । बलेन शक्त्या उत्तरैः उत्कृष्टैः । इन्द्रादिभ्योऽपि बलाधिकैरित्यर्थः । विशेषविधीनां बलोत्तरत्वं तु ‘सावकाशनिरवकाशयोर्निरवकाशो विधिर्बलीयानि ‘ति न्यायात् । सर्वे ब्राह्मणा भोजयितव्या इत्यादयः सामान्यविधयः । देवदत्तस्तु क्षीरयवागूं पाययितव्य इत्यादयो विशेषविधयः । तत्र ब्राह्मणसामान्यतः प्रथमं देवदत्तेऽपि प्राप्तं भोजयितव्यत्वं पाश्चात्येन विशेषविधिना निरस्यते । तत्र यदि विशेषविधिर्देवदत्तादपि निवर्तेत, तर्हि स निरवकाश एव स्यात्। न च विधेर्निरवकाशत्वं युक्तं कल्पयितुम्। सामान्यविधिस्तु ब्राह्मणान्तरेषु सावकाश एवेति युक्तं विशेषविधीनां बलोत्तरत्वम् ॥२६॥ तद् ब्रूत वत्साः ! किमितः प्रार्थयध्वे समागताः । मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥२७॥ प्रकाशिका तदिति । तत् तस्माद्, यस्माद् वैकृतहेतुरेवंविधः । ब्रूत वत्साः ! । किं ब्रूम इत्याह — किमित इति। यत् प्रार्थितं तद् ब्रूतेत्यर्थः । इतोऽस्मत्तः । समागताः सम्भूयागमनात् प्रार्थनयावश्यं भवितव्यमिति भावः । ननु लोकस्थितिभङ्गे सति द्वितीयः सर्गः १०३ लोकगुरोस्तव लोकपालानामस्माकं च समानेयं प्रार्थनेत्याह - मयीति । तस्माद् रक्षाप्रार्थना युष्माकमेवेत्यभिप्रायः ॥ २७ ॥ विवरणम् अथ तस्मिन् विषये स्वकर्तव्यांशं पृच्छन् वचनमुपसंहरति- सम्भूयागताः । तदिति । तद् वत्साः ! समागता यूयम् इतः किं प्रार्थयध्वे ब्रूत । तद् भवतामिदं मुखवैवर्ण्यादिकं परपरिभूतत्वं यतो वदति, तस्मादित्यर्थः । वत्साः ! पुत्राः ! | अनेनानुकम्पातिशय उक्तः । समागताः अनेन प्रार्थनाया अवश्यम्भावः । सूचितः । इतः मत्सकाशात् किं वस्तु प्रार्थयध्वे । ‘अर्थ याच्ञायाम् इति धातुः । ब्रूत व्यक्तं वदत। ‘ब्रूञ् व्यक्तायां वाचि’ इति धातु । को भवतां पराभवकर्तेति शेषः कथ्यतामित्यर्थः । किं प्रार्थयध्वे इत्यनेन प्रश्नेनैव ब्रूतेत्येतद् गतार्थंमपि पुनर्वचनं त्वराविशेषं द्योतयति । मत्सकाशाद् यदपेक्षितं, तत् त्वरितं ब्रूत, नात्र शङ्का कर्तव्येत्यर्थः । ननु लोकरक्षापरिक्षये जायमाने लोकगुरोस्तव लोकपालानामस्माकं च समानमेव व्यसनम्। तस्मात् किमर्थं प्रार्थयध्व इत्युच्यत इत्यत्राह — मयि लोकानां सृष्टिः अवस्थिता, रक्षा युष्मासु हि इति । रजोगुणमवलम्ब्यावस्थिते मयि लोकानां सृष्टिरवस्थिता । रक्षा तु लोकपालनाधिकृतेषु युष्मास्वेव । हिशब्दः प्रसिद्धौ । ततो लोकरक्षापरिक्षये तद्रक्षणाधिकृतानां युष्माकमेव प्रार्थना युक्तेति भावः ॥ २७ ॥

ततो मन्दानिलोद्धूतकमलाकरशोभिना । गुरुं नेत्रसहस्त्रेण चोदयामास वासवः ॥ २८ ॥ प्रकाशिका तत इति । गुरुं बृहस्पतिम् ॥ २८ ॥ विवरणम् अथ प्रतिवचनप्रस्तावे वाचस्वतेरेव तद्योग्यत्वान्महेन्द्रस्य तन्नियोगप्रकारमाह- तत इति । ततः वासवः नेत्रसहस्रेण गुरुं चोदयामास । ततः ब्रह्मणो नियोगानन्तरं वासवः इन्द्रः नेत्राणां सहस्रेण करणभूतेन गुरुं बृहस्पतिम् । ‘बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुरिति सिंहः । चोदयामास प्रेरयामास । ‘चुद प्रेरण’ इति धातुः । प्रतिवक्तुमिति शेषः । नेत्रसहस्रव्यापारप्रतिपादनेन नियोगप्रकारमेव वदन् नेत्रसहस्रं विशिनष्टि – मन्दानिलोद्धतकमलाकरशोभिनेति । मन्दानिलेन मन्दवातेन उद्भूतश्चलितो यः कमलाकरः पद्माकरः तद्वत् शोभितुं शीलमस्येति तथा ।१०४ कुमारसम्भवे गुरुविषयगौरवद्योतकं तत्कालविशेषणं च । अत्र नेत्रसहस्ररूपोऽवयवी कमलाकरस्थानीयः । अवयवभूतानि नेत्राणि तु कमलस्थानीयानीति विभागः ॥ २८ ॥ स विनेतृ हरेश्चक्षुर्दशचक्षुश्शताधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम्॥२९॥ प्रकाशिका स इति । हरेरिन्द्रस्य चक्षुः अर्थप्रकाशकत्वादुपचारः । दश च तानि चक्षुश्शतानि चेति दशचक्षुश्शतानि तेभ्योऽधिकं विशिष्टम् । कथं वैशिष्ट्यमित्याह—विनेतृ। विनयोपदेशकम् । स द्विनेत्र’ इति पाठे द्वे नेत्रे यस्य धर्मदृष्टिरर्थदृष्टिश्च । अनेन भगवतो बृहस्पतेर्भगवतः शुक्राद् व्यतिरेको ध्वनितः । स हि बलियज्ञे विरोधमाचरन् भगवता विष्णुना धर्मदृष्ट्या विफलीकृतः । असौ तु दृष्टिद्वययोगाद् धर्मार्थावुभावपि समीक्ष्योक्तवानित्यर्थः । दशचक्षुश्शताधिकं तदगोचरार्थग्राहकमित्यर्थः। वाचस्पतिः अलुकि ‘षष्ठ्याः पतिपुत्र—’ (८.३.५३) इति सत्वम् ॥ २९ ॥ विवरणम् अथ बृहस्पतेः प्रतिवचनप्रस्तावमाह- स इति । सः वाचस्पतिः प्राञ्जलिः जलजासनम् इदम् उवाच। सः य एवं

वासवेन नियुक्तः स इत्यर्थः । वाचस्पतिः गीष्पतिः । ‘जीव आङ्गिरसो वाचस्पतिरि’त्यमरः। अलुक्। ‘षष्ठ्यः पतिपुत्र’ – ( ८.३.५३ ) इति सत्वम् । अनेन बृहस्पतेरुक्तिचातुर्यं दर्शितम्। तच्च नियोगहेतुः । प्राञ्जलिः प्रकृष्टोऽञ्जलिर्यस्य तथाभूतः सन्, अञ्जलिं कृत्वेत्यर्थः । जलजासनं ब्रह्माणम् उवाच उक्तवान्। न केवलमुक्तिचातुर्यं, विचारचातुर्यं चास्तीत्याह – द्विनेत्र इति । धर्मदृष्टिरर्थदृष्टिश्चेति द्वे नेत्रे यस्य स द्विनेत्रः । अनेनासुराचार्याद् भार्गवात् सुराचार्यस्यास्य व्यतिरेको ध्वन्यते । शुक्रो हि बलियज्ञे नारायणप्रार्थितपदत्रयपरिमितभूभागप्रदाने विरोधमाचरन् भगवता धर्मदृष्ट्या वियोजितः । असौ तु दृष्टिद्वयशालित्वाद् धर्मार्थावुभावपि समीक्ष्योक्तवान्। अत एव विजयार्थं सेनानीसृष्टिमात्रं प्रार्थयिष्यति ‘तदिच्छामः ’ (२.५० ) इत्यादिना । अस्य महेन्द्रयोगक्षेमविधानमात्रतत्परत्वं महेन्द्रापेक्षया विज्ञानाधिक्यं चाह - हरेः दशचक्षुश्शताधिकं चक्षुरिति । हरेरिन्द्रस्य । FSF 1 यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ इति सिंहः । दश च तानि चक्षुश्शतानि चेति तथा। तेभ्योऽधिकं विशिष्टं द्वितीयः सर्गः १०५ चक्षुरित्यर्थः । चक्षुश्शब्दोऽयमर्थप्रकाशकत्वाद् वाचस्पतौ गौणः । ‘लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता’ [ श्लोकवार्त्तिके] इति । चक्षुस्सहस्रागोचरार्थग्राहक इत्यर्थः ॥ २९ ॥ एवं यदात्थ भगवन्नामृष्टं नः परैः पदम्। प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ! ॥ ३० ॥ प्रकाशिका एवमिति । ‘लब्धप्रतिष्ठाः ’ (२.२६ ) इत्यादिना परैरस्माकं पदमाक्रान्तमिति यदात्थ, तदेवं, सत्यमित्यर्थः । प्रत्येकं प्रतिपदार्थम् । विनियुक्तात्मा विभक्तशक्तिः । विश्वव्यापित्वात् सर्वगतं जानासीत्यर्थः ॥ ३० ॥ वचनप्रकारमेवाह- विवरणम् एवमिति । हे भगवन्! त्वं यद् आत्थ तद् एवम्। भगाः सन्त्यस्येति भगवान्। ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ तत्तथेत्यर्थः । हे भगवन्! ऐश्वर्यादिषड्गुणपरिपूर्ण ! त्वं यद् आत्थ ‘लब्धप्रतिष्ठाः प्रथमम् ’ (२.२६)इत्यादिनास्माकं पदं परैराक्रान्तमिति यद् ब्रवीषि । ‘ब्रुवः पञ्चानाम्’ (३.४.८४) इत्यादिना सिपस्थलादेशो ब्रुवश्चाहादेशः । तदेवं अनूदितमेवार्थं सुखग्रहणार्थमुद्दिशति – नः पदं परैः शत्रुभिः । अत्र तारकासुरस्यैकत्वेऽपि तत्सहचराणां बहुत्वाद् बहुवचनम्। इन्द्रादीन् प्रायशस्तत्तत्स्थानेभ्यो निरस्य स्वानेव दैत्यांस्तत्र तत्र नियोजितवानिति बहुवचनेन द्योत्यते । आमृष्टं परिभूतम्। भवता यदस्मद्विज्ञापनात् पूर्वमेवास्मवृत्तान्तसाक्षात्कारः कृतः, तदुपपन्नमेवेति वदन् पुनरपि स्तौति – प्रभो ! प्रत्येकं विनियुक्तात्मा त्वं कथं न ज्ञास्यसि इति । हे प्रभो! सर्वलोकनियन्तः ! प्रत्येकं प्रतिपदार्थम्। सर्वेष्वपि पदार्थेष्वित्यर्थः। विनियुक्तः आत्मा येन स तथा । अनेन सर्वलोकसाक्षित्वमुक्तम्। तत एव हेतोः कथं न ज्ञास्यसि कथं न जानीयाः । लृट्प्रयोगस्तु ‘कथं स लक्ष्यप्रभवो भविष्यति’ [ कु. सं. ५.८१], ‘भविष्यति प्रार्थितदुर्लभः कथम्’[कुसं. ५.४६ ] इत्यादिवद् द्रष्टव्यः । सर्वजनान्तर्यामितया विश्वव्यापी भवान् किं किं न लोकवृत्तं जानातीति भावः ॥ ३० ॥ १०६ कुमारसम्भवे त्वया दत्तवरोदीर्णस्तारकाख्यो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥३१॥ प्रकाशिका तमेव स्वाधिकारोपप्लवं प्रपञ्चयति- त्वयेति। दत्तवरत्वादुदीर्ण उद्रिक्तः । अनेन शक्त्युपचय उक्तः । महासुर इत्यसुरविजयित्वात् तस्य क्रूरत्वमुक्तम्। अत एवाह — उपप्लवायेति । धूमकेतुरुत्पातविशेषः ॥ ३१ ॥ विवरणम् अथ तमेव स्वाधिकारोपप्लवं विस्तरतः प्रदर्शयिष्यन्नुपप्लवहेतुभूतं तारकासुरमेव निर्दिशति- त्वयेति । तारकाख्यो महासुरः लोकानाम् उपप्लवाय उत्थितः । तारक इत्याख्या नाम यस्य स तथा महासुरः महान् असुरः ‘आन्महतः (६.३.४६) इत्यादिनात्वम्। असुरश्रेष्ठ इत्यर्थः । असुरविजयित्वात् क्रूरस्वभाव इति भावः । धर्मविजयिनश्च लोभविजयिनश्चासुरविजयिनश्चेति त्रिविधाः खलु विजिगीषवः । यदाह कौटिल्य ःधर्मलोभासुरविजयिन इति त्रयोऽभियोक्तारः । तेषामभ्यवपत्त्या धर्मविजयी तुष्यति; तमभ्यवपद्येत । परेषामपि भयाद् भूमिद्रव्यापहरणेन लोभविजयी तुष्यति; तमर्थेनाभ्यवपद्येत । भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी तुष्यति; तं भूमिद्रव्याभ्यामुपगृह्याग्राह्यः प्रतिकुर्वीत ( १२.१.१६२) इति। अत एव वक्ष्यति - इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः । (२.३९) इति । लोकानां चतुदर्शभुवनानाम् उपप्लवायात्यन्तविनाशाय । असुरविजयित्वादिति भावः । उत्थितः उदितः, भवतीति शेषः । ननु लोकोत्तरबलैर्भवद्भिरेव स हन्यतामित्यत्राह–त्वया दत्तवरोदीर्ण इति । त्वया विश्वगुरुणा भवतैव, न तु येनकेनचिदिति भावः । दत्तवरोदीर्णः दत्तो वरो यस्मै स दत्तवरः, अत एव उदीर्ण उद्रिक्तः । त्वद्वरादस्माकमवध्यतां गत इत्यर्थः । एतस्यैव चतुर्दशलोकविनाशहेतुत्वमुपमया स्फुटयति । धूमकेतूः इव इति । धूमाकारः केतुर्धूमकेतुः उत्पातविशेषः । ‘अग्न्युत्पातौ धूमकेतु’ इत्यमरः । धूमकेतोरुदयस्यात्यन्तिक विनाशहेतुत्वमुक्तं गार्ग्यसंहितायाम्— उत्तिष्ठति यदा भीमो धूमकेतुर्नभस्तले। तदा विनश्यति क्षिप्रं जगदेतच्चराचरम् । इति ॥ ३१ ॥ द्वितीयः सर्गः पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिकाकमलोन्मेषो यावन्मात्रेण सिध्यति ॥ ३२ ॥ 1 प्रकाशिका अथ तद्विषये यथाशक्त्यनुवृत्तिमाह सप्तभिः श्लोकैः- पुर इति । यावन्मात्रेण, मात्रशब्दोऽवधारणे। यावतैषेत्यर्थः ॥ ३२ ॥ विवरणम् १०७ अथ विषयीभूतेषु तद्विषयेषूपायान्तरेषु स्वशक्त्यनुरूपां समाश्रयवृत्ति दर्शयति सप्तभिः श्लोकैः । तत्रादौ रवेरनुवृत्तिमाह- पुर इति । रविः अस्य पुरे तावन्तम् एव आतपं करोति । रविरादित्यः अस्य तारकासुरस्य पुरे राजधान्यां तावन्तं तत्परिमाणम्। ‘यत्तदेतेभ्यः परिमाणे वतुप्’ (५.२.३९)। आतपं प्रकाशम् । ‘प्रकाशो द्योत आत्तप’ इत्यमरः । करोति विदधाति । किंपरिमाणमित्यत्राह - यावन्मात्रेण दीर्घिकाकमलोन्मेषः सिध्यति इति । यावन्मात्रेण, मात्रशब्दोऽवधारणे। ‘मात्रं कार्त्स्न्येऽवधारण’ इत्यमरः । यावतैवेत्यर्थः । दीर्घिकाकमलोन्मेषः दीर्घिकासु क्रीडावापीषु । ‘वापी तु दीर्घिके’ त्यमरः । तासु यानि कमलानि पद्मानि तेषामुन्मेषो विकासः सिध्यति सिध्येत् । यावतैव निजातपेन वापीकमलविकाससिद्धिः, रविस्तत्पुरे तावन्मात्रमेवातपं करोति, न न्यूनमधिकं वा । न्यूनत्वे कमलोन्मेषाभावेनापराधप्रसङ्गाद्, अधिकत्वे तु तदवरोधवधूमुखारविन्दपरिम्लानताविधानेनात्यन्तमपराधप्रसङ्गाच्चेति भावः ॥ ३२॥ सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते। नादत्ते केवलां रेखां हरचूडामणीकृताम् ॥३३॥ प्रकाशिका सर्वाभिरिति । सर्वदा अपरपक्षेऽपि । केवलामेकाम् ॥ ३३ ॥ चन्द्रस्यानुवृत्तिमाह- विवरणम् सर्वाभिरिति । चन्द्रः सर्वदा सर्वाभिः कलाभिः तं निषेवते। चन्द्रः ‘चदि आह्लादने’ इति धातुः । इदमेव तस्य सर्वदा निषेवणनिर्बन्धहेतुः, गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गडी ॥ १०८ कुमारसम्भवे इति न्यायादिति भावः । सर्वदा अपरपक्षेऽपि सर्वाभिः, न तु कृष्णप्रतिपदादिषु न्यूनाभिः । कलाभिः ‘कला तु षोडशो भाग’ इत्यमरः । उपलक्षणतृतीया चेयम्। निषेवते नितरां सेवते । चन्द्रोऽयं सकलकलापरिपूर्णः सन् सर्वदा तमेव निषेवत इत्यर्थः। नूनु हरजटाकोटिघटिता चन्द्रस्यैका कला । अतः कथं सर्वाभिरित्युक्तं, तत्राह - हरचूडामणीकृतां केवलां रेखां न आदत्ते इति । हरेण परमेश्वरेण चूडामणीकृतां शिरोलङ्कारतां प्रापितां केवलामेकां रेखां कलां, रेखाशब्देनात्यल्पत्वमुक्तम्। इदमसुराधिपतेस्तदुपादाननिर्बन्धाभावे हेतुः । नादत्ते न स्वीकरोति। किमनया ममात्यल्पया रेखयेति तदुपेक्षामात्रेण चन्द्रः परमेश्वरपराधीनां रेखां नादत्त इत्यर्थः ॥ ३३ ॥ व्यावृत्तगतिरुद्याने कुसुमस्तेयसाहसात्। न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥३४॥ प्रकाशिका व्यावृत्तेति। व्यावृत्ता निवृत्ता गतिर्यस्य । उद्याने आक्रीडे। कुसुमस्तेयसाहसात् कुसुमापहारदण्डमाशङ्क्येत्यर्थः॥३४॥ पवनस्यानुवृत्तिमाह- विवरणम् व्यावृत्तेति। वायुः तत्पार्श्वे तालवृन्तानिलाधिकं न वाति । वायुः ‘वा गतिगन्धनयोरिति धातुः । सञ्चारशीलोऽपीत्यर्थः । तत्पार्श्वे तस्य तारकासुरस्य पार्श्वे समीपे तालवृन्तानिलाधिकमिति वानक्रियाविशेषणम् । तालवृन्तस्य व्यजनस्यानिलो वायुस्तालवृन्तानिलः । व्यजने वीज्यमाने जायमानोऽनिल इत्यर्थः । तस्मादधिकं यथा भवति तथा न वाति औचित्यानुसारेण तालवृन्तानिलवद् वाति चेत्यर्थः । किमर्थं ततोऽधिकं न वातीत्यत्राह — उद्यानकुसुमस्तेयसाहसाद् व्यावृत्तगतिरिति। उद्यानकुसुमस्तेयसाहसादिति ल्यब्लोपे पञ्चमी। उद्यानकुसुमस्तेयसाहसमाशङ्कयेत्यर्थः । उद्याने आक्रीडे ‘पुमानाक्रीड उद्यानमित्यमरः । यानि कुसुमानि पुष्पाणि तेषां स्तेयम् अपहारः, तस्माद्धेतोर्यः साहसः दण्डः, ‘दण्डो दमः साहसोऽस्त्री’ इति वैजयन्ती । तम् आशङ्क्य व्यावृत्तगतिः निवृत्तस्वैरसञ्चारः । उद्यानकुसुमस्तेयरूपादनालोचितकर्मणः सकाशाद् व्यावृत्तगतिरिति केचिद् व्याचक्षते । तत्पक्षे गतिशब्दो निरुपयोगः स्याद्, उद्यानकुसुमस्तेयसाहसाद् व्यावृत्त इत्यनेनैव चरितार्थत्वात् ॥ ३४ ॥ पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः । उद्यानपालसामान्यमृतवस्तमुपासते॥३५॥ द्वितीयः सर्गः प्रकाशिका १०९ पर्यायेति । सम्भारः सम्पादनम्। उद्यानपालैः सामान्यं यथा भवति ॥ ३५ ॥ ऋतूनामनुवृत्तिमाह- विवरणम् -पर्यायेति । ऋतवः पर्यायसेवाम् उत्सृज्य तम् उद्यानपालसामान्यम् उपासते। ऋतवः वसन्तादयः । वसन्तश्च तथा ग्रीष्मः प्रावृट् च शरदेव च। हेमन्तः शिशिरश्चैव षडेत ऋतवः स्मृताः । इति । पर्यायसेवां पर्यायेण क्रमेण सेवा पर्यायसेवा, ताम्। तत्सृज्य त्यक्त्वा । सर्वत्र हिं वसन्तादयः क्रमेण प्रवर्तन्ते तद्गृहे तु युगपदेवेति भावः । तं तारकम् । उद्यानपालसामान्यमित्युपासनक्रियाविशेषणम्। उद्यानमाक्रीडं पालयन्तीत्युद्यानपालाः, तैः सामान्यं साधारणं यथा भवति तथा। समानशब्दात् ‘चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्’ (वा. ५.१.१२४ ) इति स्वार्थे ष्यञि कृते सामान्यशब्दसिद्धिः । उपासते सेवन्ते । ननु कथमृतूनामुद्यानपालसाधारण्यमित्याशङ्कय साधारणं धर्ममाह - पुष्पसम्भारतत्परा इति । पुष्पाणां सर्वर्तुसम्भवानां चम्पकादीनां सम्भारे सम्पादने तत्पराः सावधानाः । शीतोष्णादिकं स्वगुणमपहायाक्रीडपालकवत् स्वस्वकुसुमसम्पादनमात्रपरा वसन्तादयः कुसुमान्तरमविनाशयन्तो युगपदेव तमाराधयन्तीत्यर्थः। यथोद्यानपालकानां पुष्पसामग्र्या अन्यथाभावे दण्डः, तथा वसन्तादीनामप्यस्तीति भावः ॥ ३५ ॥ तस्योपायनयोग्यानि रत्नानि सरितां पतिः । कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते ॥३६॥ प्रकाशिका तस्येति । निष्पत्तेः उपायनयोग्यतावस्थायाः । रत्नेषु यानि समग्रगुमत्वात् तदुपायनयोग्यानि अम्भसि पच्यमानानि कालपरिणामापेक्षित्वाद् अनिष्पन्नानि रत्नानि तेषां निष्पत्तिं समुद्रस्तत्सेवात्वरया कथञ्चिद् धैर्येण प्रतिपालयतीत्यर्थः ॥ ३६ ॥ वरुणस्यानुवृत्तिमाह- विवरणम् तस्याति । सरितां पतिः तस्य उपायनयोग्यानि रत्नानि अम्भसाम् अन्तर्निष्पत्तेः ११० कुमारसम्भवे आ कथमपि प्रतीक्षते । सरितां पतिः समुद्रः तस्य तारकासुरस्य उपायनयोग्यानि उपायने उपचारार्थपदार्थप्रदाने योग्यानि उचिततानि रत्नानि मौक्तिकादीनि अम्भसामन्तः स्वजलान्तर्भागे निष्पत्तेः आ उत्पत्तिपर्यन्तम्। मर्यादायामाङ् । उपायनयोग्यताप्राप्तिपर्यन्तमित्यर्थः । कथमपि धैर्यमवलम्ब्येति भावः । प्रतीक्षते प्रतिपालयति । समग्रगुणानामेव रत्नानां तदुपायनयोग्यत्वात् तदितरप्रदाने दण्डमाशङ्क्य स्वजलान्तर्भागे पच्यमानानां रत्नानां कालवशादेव परिपाकोपपत्तेरुपायनयोग्यताप्राप्तिपर्यन्तं तत्सेवायाः कालविलम्बमप्याशङ्कमानो यथाकथञ्चित् प्रतीक्षते । शुक्तिकायां पतितो जलबिन्दुः षण्मासोत्तरकालमुद्गीणो हि प्रशस्तं मौक्तिकं भवति । यदाह राजशेखरः – मौक्तिकानां दत्तषाण्मासिकानामिति । एवं रत्नान्तरेष्वपि तदुचितकालप्राप्तेरावश्यकत्वात् प्रतीक्षणोपपत्तिः । योग्यताप्राप्त्यनन्तरं तु झटिति तस्मै समर्पयत्येवेति भावः ॥ ३६ ॥ ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ॥३७॥ प्रकाशिका ज्वलदिति । ज्वलन्तो मणय एव शिखा येषाम् । स्थिराः वाय्वादिभिरनिर्वापणीयाः प्रदीपाः दीपभाजनवत्र्त्यादिसमष्टयः, अथवा स्थिरप्रदीपाः तत्र तत्राविचलत्वेन स्थापिता गृहप्रदीपा दीपभाजनानि ॥ ३७ ॥ विवरणम् अथ भूलोकवासिनां क्षुद्रत्वात् तदनुवृत्तिकथनमतिलङ्घ्य पातालवासिनां नागानामनुवृत्तिमाह- ज्वलदिति । वासुकिप्रमुखाः भुजङ्गाः निशि स्थिरप्रदीपताम् एत्य एनं पर्युपासते । वासुकिप्रमुखाः वासुकिः प्रमुखः आदिर्येषां ते तथा, वासुकिप्रभृतय इत्यर्थः। भुजङ्गाः सर्पाः। न केवलं स्वर्गवासिनो वयं, किन्तु पातालवासिनो विषकटुका भुजङ्गाश्चेति चशब्दार्थः । निशि रात्रौ । अनेन प्रदीपयोग्यकालो निर्णीतः स्थिरप्रदीपताम् । स्थिराः, अनेन तेषां तैलवर्त्यादिनिरपेक्षत्वेन तद्विनाशनिमित्ताभावात् पवनादिभिरनिर्वापणीयत्वाच्च प्रदीपान्तरेभ्यो व्यतिरेक उक्तः । प्रदीपाः दीपभाजनवर्तिज्वलनानां समष्टयः । स्थिराश्च ते प्रदीपाश्चेति स्थिरप्रदीपाः, तेषां भावस्तत्ता, तामेत्य । अथवा दीपयोग्येषु तेषु तेषु स्थानेषु निश्चलतया स्थापिताः प्रदीपाः स्थिरप्रदीपाः, प्रदीपशब्दस्य प्रदीपभाजनमर्थः। एनं तारकं पर्युपासते परितः समन्तात् सेवन्ते। भुजङ्गानां प्रदीपत्वप्राप्तौ हेतुमाह – ज्वलन्मणिशिखा इति । द्वितीयः सर्गः १११ ज्वलन्तो मणय एव शिखा ज्वाला येषां ते तथा । भुजङ्गाः समुत्क्षिप्तफणास्तेषु तेषु प्रदेशेष्ववस्थाय निजफणामणिभिस्तिमिरमहरन्तस्तमेव सेवन्त इत्यर्थः ॥ ३७ ॥ तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः । अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ॥ ३८ ॥ प्रकाशिका इत्थं भूलोकवासिनः स्वल्पबलानविगणय्य स्वर्गपातालवासिनां तारकं प्रति दण्डोपतनवृत्तमुक्त्वा त्रैलोक्याधिपतेरिन्द्रस्य वृत्तं विशेषत आह-

तत्कृतेति । अयमर्थः – उभयोरपि त्रैलोक्याधिपतित्वेन मत्सरस्य संश्रयवृत्तावपि दुरपाकरत्वाद् विशेषतस्तस्यासुरविजयित्वात् तत्सन्निकर्षतो बिभ्यद् दूरस्थ एवेन्द्रस्तदनुग्रहमाकाङ्क्षन् दूतमुखेन प्रापितैः कल्पद्रुमजैर्भूषणैस्तमनुवर्तत इति । अत्र कौटिल्यः – भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी तुष्यति । तं भूमिद्रव्याभ्यामुपगृह्याग्राह्यः प्रतिकुर्वीत । ( १२.१.१६२ ) इति ॥ ३८ ॥ विवरणम् इत्थं त्रैलोक्यवासिनां तारकं प्रति दण्डोपनतवृत्तं प्रतिपाद्य त्रैलोक्याधिपतेरिन्द्रस्य वृत्तं सविशेषमाह- तत्कृतेति । इन्द्रः अपि दूतहारितैः कल्पद्रुमविभूषणैः तं मुहुः अनुकूलयति । न परं त्रैलोक्यवासिनः, अपि तु तत्पतिरिन्द्रोऽपीत्यपिशब्दार्थः । दूतहारितैः आत्मनो दूतैः प्रयोज्यकर्तृभिः हारितैः असुरसमीपं प्रापितैः कल्पद्रुमविभूषणैः कल्पद्रुमोत्पन्नैर्विचित्रैराभरणैः तं तारकम् । मुहुः प्रतिक्षणम् अनुकूलयति आत्मानुकूलं करोति । त्वया मयि प्रसादः क्रियतामिति दूतमुखेन वदन् तदुचितान्याभरणानि च प्रतिपादयन् प्रतिक्षणं तं प्रसादयतीति यावत् । किमर्थमेवं करोतीत्यत्राहतत्कृतानुग्रहापेक्षी इति। तत्कृतमसुरकृतमनुग्रहमपेक्षितुं शीलमस्येति तथा । अयमभिप्रायः – इन्द्रस्त्रैलोक्याधिपतित्वाभिमानिनमात्मानं प्रति समत्सरस्य विशेषतश्चासुरविजयिनस्तारकासुरस्य संश्रयवृत्त्याप्यानुकूल्यकरणमशक्यमिति निश्चिन्वानः ग्रहणबन्धनादिभयात् सन्निधिं परिहृत्य दूरावस्थित एव तदनुग्रहमाकाङ्क्षमाणः प्रतिक्षणं दूतजनप्रापितैः कल्पद्रुमविभूषणैः तमनुवर्तते। ‘तं भूमिद्रव्याभ्यामुपगृह्याग्राह्यः प्रतिकुर्वीत’ (१२.१.१६२) इति कौटिल्योक्तप्रकारोऽनेन दर्शित इति वेदितव्यम् ॥ ३८ ॥ इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ३९ ॥ ११२ कुमारसम्भवे प्रकाशिका इत्थमुपवर्णितायाः संश्रयवृत्तेर्वैफल्यमाह- इत्थमिति । क्लिश्नाति बाधते । विग्रहमेवास्मास्वाचरतीत्यर्थः । शाम्येत् सन्धिरेव संश्रयोऽपि । अत्र नोपकारेण शाम्येदित्येतावता विरोधपरिहारे सत्यपि प्रत्यपकारेण शाम्येदिति वचनं तन्नियमप्रतीत्यर्थम् । ३९ ॥ विवरणम् इत्थमुपवर्णितायाः संश्रयवृत्तेरप्यसुरविजयिनि तस्मिन् विफलत्वमाह- इत्थमिति । इत्थम् आराध्यमानः अपि भुवनत्रयं क्लिश्नाति । इत्थं पूर्वोक्तप्रकारेण आराध्यमानः सेव्यमानोऽपि । अपिशब्दः सेव्यमानस्य विरोधाचरणं विरुद्धमिति दर्शयति । भुवनानां त्र्यं भुवनत्रयं त्रैलोक्यं क्लिश्नाति पीडयति । अस्मासु वैरमेवाचरतीत्यर्थः । ननु प्रतिक्षणमाराध्यमानस्य कथं प्रतिकूला प्रवृत्तिरितीमामाशङ्कां दुर्जनस्यायं स्वभाव इत्यर्थान्तरन्यासेन परिहरति - दुर्जनः प्रत्यपकारेण शाम्येद् उपकारेण नेति । दुष्टो जनः दुर्जनः । अपकारिणमुद्दिश्य क्रियमाणोऽपकारः प्रत्यपकारः, तेन। शाम्येत् सन्धि कुर्यात् । उपकारस्तु दुर्जने दोषमेवावहतीत्याह — उपकारेण नेति । उपकारेण तु न शाम्येदित्यर्थः । ननु दुर्जनो नोपकारेण शाम्येदित्येतावदेवात्र वक्तव्यमिति किमर्थं प्रत्यपकारोपन्यासः । प्रत्यपकारेणैव शाम्येदिति नियमप्रतिपादनार्थमिति ब्रूमः । यदाह माघः -

चतुर्थोपायसाध्ये तु शत्रौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ ( २.५४ ) इति । अत्राराध्यमानोऽपि न शाम्यतीत्यस्य समर्थ्यस्य प्रत्यपकारेण शाम्येदित्येतत् सामान्यं वैधर्म्येण समर्थकं, शमनाभावस्यैवोक्तत्वात्॥ ३९ ॥ तेनामरवधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छिन्नपातानां क्रियन्ते नन्दनद्रुमाः ॥४०॥ प्रकाशिका तमेव विग्रहं प्रपञ्चयति सप्तभिः श्लौकैः तेनेति । छिन्नपातानामिति कर्मणि षष्ठी। विशेषणेन तदनर्हत्वं द्योत्यते॥४०॥ विवरणम् क्लिश्नाति भुवनत्रयमिति यो विग्रह उक्तस्तमेव प्रपञ्चयति सप्तभिः श्लोकैः । तत्र विध्वंसनम् अपहरणम् उपरोध इति त्रिविधो विग्रहः । तत्र विध्वंसनमाह- द्वितीयः सर्गः ११३ तेनेति । तेन नन्दनद्रुमाः छिन्नपातानाम् अभिज्ञाः क्रियन्ते । तेन तारकासुरेण । नन्दनद्रुमाः नन्दने नन्दनोद्याने ये द्रुमाः वृक्षाः ते। छिन्नपातानां छिन्नानां पाताः पतनानि छिन्नपाताः, अथवा छिन्नं छेदनं भावे निष्ठा, तेन पाताः छिन्नपाताः तेषाम् अभिज्ञाः । कर्मणि चेयं षष्ठी। अभिजानन्तीत्यभिज्ञाः क्रियन्त इति कर्मणि लट् । कल्पवृक्षानसौ छित्त्वा पातयतीत्यर्थः । पूर्वं तदभिज्ञानलेशस्याप्यभावमाहअमरवधूहस्तैः सदयालूनपल्लवा इति । अमरवधूनां स्वर्गस्त्रीणाम् । वधूहस्तस्य कोमलत्वातिशयाद् वधूपदोपादानम् । हस्तैः करैः । सदयमिति लवनक्रियाविशेषणम् । सदयं दयासहितं यथा भवति तथा आलूनाः छिन्नाः पल्लवा येषां ते तथा । अत्रामरशब्देन तेषां नन्दनद्रुमेष्वात्मीयत्वाभिमानः प्रकाश्यते । स च लवने सदयत्वमापादयति। तत्रापि वधूहस्तैरिति कोमलत्वं द्योत्यत इत्यत्यन्तदूरे छिन्नपाताभिज्ञत्वमिति भावः । अत्र कार्यभूतेन छिन्नपातज्ञापनेन कारणभूतं पातनं प्रतीयत इति कार्यद्वारेण पातनस्यैवाभिधानात् पर्यायोक्तमलङ्कारः । नात्राप्रस्तुतप्रशंसा, कार्यकारणयोरुभयोरपि वर्णनीयत्वेन प्रस्तुतत्वात्॥४०॥ वीज्यते स हि सन्तप्तश्वाससाधारणानिलैः । चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥ ४१ ॥ प्रकाशिका वीज्यत इति । सन्तप्तश्वासैः साधारणः सदृशोऽनिलो येषाम् । अत्र हेतुर्बाष्पशीकरवर्षिभिरिति। बन्दी हठहृतमहिला । दक्षिणावर्तस्तु तत्सङ्घात इत्याह ॥ ४१ ॥ विवरणम् अथ त्रिभिः श्लोकैरपहरणं प्रतिपाद्यते । तत्रादौ अत्यन्तासह्यं दारापहरणमाह- वीज्यत इति । स हि सुरबन्दीनां चामरैः वीज्यते । सः तारकः । हिशब्दः प्रसिद्धौ। प्रसिद्धः स इत्यर्थ । वाक्यालङ्कारे वा हिशब्दः । सुरबन्दीनां सुरा देवाः तेषां बन्दीनां तारकेण बलात्कारेण हतानां वनितानाम् । ‘बन्दी परस्य वनिता हता बद्ध्वा बलेन या’ इति भोजः । चामरैः सितव्यजनैः वीज्यत इति कर्मणि लट् । वर्तमानेनाद्यापि तदवस्थत्वमुक्तम्। सुरबन्दीनां दुःखातिशयं द्योतयन् व्यजनं विशिनष्टि — सन्तप्तश्वाससाधारणानिलैरिति । सन्तप्तैः सम्यक् तप्तैः, दुःखवशादुष्णतरैरित्यर्थः, श्वासैः दीर्घश्वासैः साधारणः सदृशोऽनिलो वायुर्येषां तैः, प्रियतमवियोगादिदुःखसन्तप्तदीर्घनिःश्वासवातसदृशवातैरित्यर्थः । व्यजनानिलानामुष्णत्वे हेतुमाह - बाष्पशीकरवर्षिभिरिति । बाष्पाणां शोकाश्रूणां शीकरान् कणान् वर्षितुं शीलमेषामिति तथा। मुहुर्मुहुः कराभ्यां बाष्पपरिमार्जनात् ताभ्यां११४ कुमारसम्भवे व्यजनग्रहाच्च बाष्पशीकरवर्षित्वं व्यजनानिलानामित्यवसेयम् । शोकाश्रूणामुष्णत्वमुक्तं रघुवंशे - ’ शोकोष्णैः पार्थिवाश्रुभिः ’ (१२.४ ) इति । अनेन व्यजनानिलानां सुखकरत्वाभावेऽप्यनवरतं वीज्यमानत्ववचनेनासुरविजयिनस्तस्य परपीडामात्रतत्परत्वं व्यज्यते । अत्र पूर्वश्लोक इव पर्यायोक्तं, बन्दीशब्दोपादानेन हठहृतात्वस्य स्पष्टमेवोक्तत्वात् । ‘गम्यस्यापि भयन्तरेणाभिधानं पर्यायोक्तमिति हि तस्य लक्षणम्[अलङ्कारसर्व . ] । पूर्वत्र तु छिन्नपातज्ञापनकथनेन छित्त्वा पातयतीत्यर्थः प्रतीयत एवेति विशेषः ॥ ४१ ॥ उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः । आक्रीडपर्वतास्तेन कल्पिता स्वेषु वेश्मसु ॥ ४२ ॥ प्रकाशिका उत्पाट्येति । हरितां सूर्याश्वानाम् । आक्रीड उद्यानम्॥४२॥ विवरणम् धनापहरणमाह- उत्पाट्येति । तेन मेरुशृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः। तेन तारकेण मेरोर्महामेरोः शृङ्गाणि शिखराणि उत्पाट्य उन्मूल्य स्वेषु आत्मीयेषु वेश्मसु गृहेषु आक्रीडपर्वताः आक्रीड उद्यानम् । ‘पुमानाक्रीड उद्यानमित्यमरः । आक्रीडेषु ये पर्वताः क्रीडापर्वताः तत्त्वेन कल्पिताः । मेरुशिखराणि तेन क्रीडापर्वतविधानेषूपयोजितानीत्यर्थः । उत्पाटनसौकर्यमाह – हरितां खुरैः क्षुण्णानीति । हरितां सूर्याश्वानाम् । ‘सूर्ये सूर्यतुरङ्गे च मेरौ च हरिदिष्यत’ इति भोजः । खुरैः पादाग्रभागैः क्षुण्णानि परिमृदितानि । मेरुपर्यन्तभागेनानुदिनं गच्छतां रवितुरगाणां खुरैरुद्धरणयोग्यतामापादितानीत्यर्थः । धनापहरणस्य वदत्यसह्यत्वाभावादेव तदनन्तरमुपादानमित्यवसेयम्॥४२॥ दारापहरण- मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् । हेमाम्बुरुहसस्यानां तद्वाप्यो धाम साम्प्रतम् ॥ ४३ ॥ प्रकाशिका मन्दाकिन्या इति । शेषं शिष्टम् । अन्यत् किं कुत्रोपयुक्तमित्याह – हेमेति । तेन हेमाब्जानि स्ववापीविरचनायामुपयोजितानि मेरुशृङ्गाणीवाक्रीडपर्वतविधान इत्यर्थः । दिग्वारणमदाविलत्वं तदुपेक्षाहेतुः । साम्प्रतमिति अयमपरः कालो वर्तत इत्यर्थः ॥ ४३ ॥ द्वितीयः सर्गः विवरणम् अथोपभोगसाधनानां कनकारविन्दादीनामप्यपहरणमाह- ११५ मन्दाकिन्या इति । मन्दाकिन्याः पयः शेषम्। मन्दाकिन्याः सुरदीर्घिकायाः । ‘मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिके’त्यमरः । पयः शेषं शिष्टमित्यर्थः, भवतीति शेषः । ‘त्रिष्वन्यत्रोपयुक्तत’ इति केशवस्वामिवचनात् शेषशब्दस्याभिधेयलिङ्गत्वं ‘सप्तर्षिहस्तापचितावशेषाणि’ (१.१६ ) इतिवद् द्रष्टव्यम्। किं वा तदन्यत्, कुत्र वा तदुपयुक्तमित्यत्राह – साम्प्रतं हेमाम्बुरुहसस्यानां तद्वाप्यः धामेति । साम्प्रतमिदानीम्। अनेनास्य कालस्य पूर्वस्मात् कालाद् महान् विशेषो जात इति ध्वन्यते । हेमाम्बुरुहसस्यानां हेमाम्बुरुहाणां सुवर्णपङ्कजानां सस्यानां ब्रीह्मादीनाम् । उत्खातप्रतिरोपणात् सुवर्णपङ्कजेषु सस्यत्वारोपः । प्रधानोपभोगसाधनत्वप्रतीतिश्च फलम्। तद्वाप्यः तस्य वाप्यो दीर्घिकाः । ‘वापी तु दीर्घिके’ त्यमरः । धाम गृहम् । तारकासुरः सुवर्णपङ्कजान्युन्मूल्य स्वावापीरचनायामुपयोजितवान्। ततश्च तत्र जलमात्रमवशिष्टं भवतीत्यर्थः । ननु पयांसि केन नापहृतानि, अत आह दिग्वारणमदाविलमिति । दिग्वारणानां दिग्गजानां मदेन मदजलेन आविलं कलुषं कलुषीकृतमिति भावः । अत्र पर्यायोक्तं स्फुटम् ॥४३॥ भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते। खिलीकृते विमानानां तदाघातभयात् पथि ॥ ४४ ॥ प्रकाशिका भुवनेति । भुवनमर्थात् स्वर्गादन्यत्। खिलीकृते सञ्चारवर्जिते विमानानां पथीत्यन्वयः आघातोऽवस्कन्दः॥४४॥ उपरोधमाह- विवरणम् पथि भुवनेति । विमानानां तदाघातभयात् खिलीकृते स्वर्गिभिः भुवनालोकनप्रीतिः न अनुभूयते । विमानानां व्योमयानानाम्। ‘व्योमयानं विमानोऽस्त्री’ त्यमरः । पथि मार्गे तदाघातभयात् तस्य तारकासुरस्याघातस्तदाघातः तस्मात्, तारकासुरकर्तृकादाघातादित्यर्थः । आघातोऽवस्कन्दः अभिभव इति यावत् । आघाताद् यद् भयं तस्माद्धेतोः खिलीकृते सञ्चारवर्जिते । ‘खिलमप्रहतस्थानमिति भोजः । निमित्तसप्तमी चेयम् । स्वर्गिभिर्देवैः भुवनालोकनप्रीतिः भुवनानां स्वर्गादन्येषां लोकानां स्वर्गेऽपि स्वावस्थितप्रदेशव्यतिरिक्तप्रदेशानामिति चार्थादायाति । ११६ कुमारसम्भवे आलोकनं दर्शनं तेन या प्रीतिः सा नानुभूयते न प्राप्यते तारकासुराभिभवभयात्। कुत्रापि गुहायामेवास्माकमिदानीमवस्थानमित्यर्थः ॥ ४४|| यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥४५ ॥ प्रकाशिका यज्वभिरिति । सम्भृतमर्पितम् । हव्यं हविः । विततेषु प्रवृत्तेषु । उपक्रमे तु शाठ्यान्न विघ्नमाचरतीति भावः । मायी माययेत्यर्थः ॥ ४५॥ भोजनस्याप्यपहरणमाह- विवरणम् यज्वभिरिति । सः अध्वरेषु विततेषु यज्वभिः सम्भृतं हव्यं मिषतां नः जातवेदोमुखाद् आच्छिनत्ति । सः तारकासुरः अध्वरेषु यागेषु विततेषु प्रवृत्तेषु सत्सु यज्वभिः विधिना कृतयज्ञैर्यजमानैः । ‘सुयजोर्ध्वनिप्’ (३.२.१०३ ) इति यजेर्ध्वनिप् । ‘यज्वा तु विधिनेष्टवानित्यमरः । अनेन हव्यस्यादरणीयत्वं ध्वनितम्। सम्भृतमर्पितम् । मिषतामित्यनादरे षष्ठी । मिष स्पर्धायामिति धातुः । ’ स्पर्धायां मिषतीति स्यादिति देवः । स्पर्धमानानस्माननादृत्येत्यर्थः । उन्मिषतोऽस्माननादृत्येति वा । जातवेदोमुखाद् जातवेदा अग्निः, जातवेदा एव मुखं जातवेदोमुखम् । अग्निरेव हि देवानां मुखम्। तस्माद् आच्छिनत्ति अपहरति । क्रतोरुपक्रमे शाठ्यान्न विघ्नमाचरति । प्रवृत्ते तु यागे वदनादेव हविराहरति चेति भावः । ननु कथं मिषतामेव भवतां हविराहरणोपपत्तिरत आह-मायीति । मायास्यास्तीति मायी । व्रीह्यादित्वादिनिः । मायावी मायामाश्रित्याहरतीत्यर्थः ॥४५॥ उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च । देहबन्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥४६॥ प्रकाशिका उच्चैरिति । उच्चैस्त्वं हयानां प्रधानगुणः । महत् सुसंहतमिति शरीरलक्षणे वचनात्। उपलक्षणं चैतदन्येषां गुणानाम् । देहं बध्नातीति देहबन्धं, मूर्तिमदित्यर्थः । चिरकालार्जितमिति उच्चैस्त्वहेतुः लोभनीयत्वादेश्च द्योतकम् । अत्र प्रकरणे ’ तेनामरवधू’ (४०) इत्यादिना विध्वंसनम्, ‘उत्पाट्यहेम’ (४२) इत्यादिना ‘मन्दाकिन्या’ (४३) इत्यादिना चापवाहनं, ‘भुवनाला. (४४) इत्यादिनोपरोधः, अन्यैस्तु विलोप इति विग्रहप्रकारा उक्ताः ॥ ४६ ॥ द्वितीयः सर्गः विवरणम् किं बहुना महेन्द्रस्याश्वरत्नमपि तेनापहृतमित्याह - ११७ उच्चैरिति । तेन उच्चैःश्रवाः हयरत्नं च अहारि । तेन तारकेण उच्चैःश्रवा इति इन्द्राश्वस्य नाम। ‘हय उच्चैःश्रवा’ इत्यमरः । हयरत्नं हयश्रेष्ठः चकारोऽपिशब्दार्थे । किमन्येषामपहरणेन विद्यते, जयसाधनभूतमश्वरत्नमप्यपहृतमित्यर्थः । अहारि अपहृतम्। उच्चैःश्रवसः स्वजातिश्रेष्ठत्वे हेतुमाह – उच्चैरिति । उच्चैरित्यव्ययम् । उन्नतमित्यर्थः। ‘महत्युच्चैरित्यमरः । अनेनाश्वविशेषणेनान्येभ्यः प्रधानगुणसद्भाव उक्तः। उन्नतत्वमश्वानां प्रधानगुणः, शरीरलक्षणे ’ महत् सुसंहतमित्युक्तत्वात् । उपलक्षणं चैतदन्येषामपि गुणानाम् । अश्वरत्नमुत्प्रेक्षते - इन्द्रस्य चिरकालार्जितं यशः देहबन्धमिवेति । इन्द्रस्य महेन्द्रस्य चिरकालार्जितं बहुकालसञ्चितम्। एतदुन्नतत्वे हेतुः, लोभनीयत्वादिकं च ध्वनति । चिरकालसञ्चितं हि वस्तु लोभनीयं भवति । तदपहरणं च खेदमातनोति । यशः कीर्तिः देहं बध्नातीति देहबन्धम् । कर्मण्यण्। - मूर्तिमदित्यर्थः । उभयोरपि धावल्यमतिमहत्त्वं चोत्प्रेक्षाहेतुः । अश्वापहारे तस्य यशसोऽप्यपहृतत्वप्रतीतिः फलम् ॥ ४६ ॥ तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः । वीर्यवन्त्यौषधानीव विकारे सान्निपातिके ॥४७॥ प्रकाशिका तर्हि किमन्यैरुपायैर्नोपक्रान्तमित्याह- , तस्मिन्निति । सर्वे न केवलमुक्ता संश्रयवृत्तिः । क्रूरे कठिने अभेद्यचित्त इत्यर्थः । प्रतिहता क्रिया कार्यजननं येषाम् । विकारे ज्वरे । सान्निपातिके दोषत्रयसन्निपातभवे ॥४७॥ विवरणम् ननु समाश्रयप्रवृत्तिव्यतिरेकेणान्येऽप्युपायाः सन्ति नाम । ते किं न तस्मिन् प्रयुक्ता इत्याशङ्क्य प्रयुक्तानामपि तेषां वैफल्यमाह— तस्मिन्निति । नः सर्वे उपायाः तस्मिन् प्रतिहतक्रियाः । नः अस्माकम् । सर्वे, न केवलं संश्रयवृत्तिपर्यन्तः सन्ध्यादिप्रयोगः, अपि तु सामादिप्रयोगोऽपीति भावः । उपायाः सामादयः तस्मिन् तारके । प्रतिहता कृतप्रतिहनना क्रिया कार्यजननं येषां ते तथा । आसीन्निति शेषः । अत्रोपमामाह - सान्निपातिके विकारे वीर्यवन्ति औषधानीवेति । सान्निपातिके, वातपित्तश्लेष्मसमाहारः, सन्निपातः सन्निपातादुद्भूतः सान्निपातिकः, तादृशे विकारे ज्वरादौ वीर्यवन्ति प्रशस्तवीर्यायुक्तानि । प्रशंसायां ११८ कुमारसम्भवे मतुप् । औषधानि मुस्तापर्पटकादीनीव । दोषत्रयसम्भवे ज्वरादौ महावीर्यण्यौषधानीवास्माकमुपायाः सर्वेऽपि तारके प्रतिहतशक्तयो जाता इत्यर्थः । सन्निपातज्वरादावौषधानां निष्फलत्वमुक्तं वैद्यशास्त्रे - वातपित्तकफानां च सन्निपातो यदा भवेत् । तदा जातो ज्वरस्तीव्रो ह्यसाध्यः सर्वभेषजैः ॥ इति । उपमानोपमेययोः साधारणं धर्ममाह — क्रूर इति । असुरविजयित्वादभेद्यचित्ते दोषत्रयसम्भूतत्वादसाध्ये चेत्यर्थः ॥ ४७ ॥ जयाशा यत्र चास्माकं प्रतिघातोद्गतार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ॥ ४८ ॥ प्रकाशिका सर्वोपायेभ्यो बलवत्तमो दण्डः कथं न फलेदित्याह- जयाशेति । यत्र जयाशास्माकमिति दण्डोपाये मूर्धाभिषिक्तत्वं द्योतयति । निष्क उरकण्ठभूषणम्। ‘साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्रीति सिंहः । कण्ठकाठिन्यात् प्रतिहतप्रज्वलितेन कण्ठगतेन हरिचक्रेण हेतुनास्य कण्ठे निष्कोऽर्पित इवेत्युत्प्रेक्ष्यते ॥ ४८ ॥ विवरणम् ननु सर्वोपायेभ्यो बलवत्तरो दण्डः किं न तस्मिन् फलित इत्यत्राह- जयाशेति । यत्र अस्माकं जयाशा तेन हरिचक्रेण च अस्य कण्ठे निष्कमर्पितमिव । यत्र यस्मिन् हरिचक्रे अस्माकं जयाशा जेष्यामो वयमनेनेत्याशा, पूर्वमासीदिति शेषः । अनेन विष्णुचक्रस्य दण्डोपायेषु मूर्धाभिषिक्तत्वं द्योत्यते । तस्याप्यत्र निष्फलत्वमाह - तेनेत्यादिना । तेनास्मदाशानिष्ठितेन हरिचक्रेण विष्णोश्चक्रेण सुदर्शनेन हेतुभूतेन । अपिशब्दार्थे चकारः । स चास्य तादृशावस्थाप्राप्त्यनुपपत्तिं द्योतयति । अस्य तारकासुरस्य कण्ठे गले निष्कमुरोभूषणम्। ‘साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले, दीनारेऽपि च निष्कोऽस्त्री’ त्यमरः । अर्पितं न्यस्तमिव। उत्प्रेक्षायां हेतुमाह - प्रतिघातोद्गतार्चिषेति । प्रतिघातः प्रतिहननम् । भावे घञ्। तेनोद्गतमुत्थितम् अर्चिः ज्वाला यस्य तेन । शिलातलकर्कशे तत्कण्ठे विष्णुचक्रे पातिते सति कण्ठदेशकाठिन्यादुद्गतया वक्षः प्रदेशपर्यन्तं लम्बमानयानलज्वालयास्य कण्ठदेशे महत्तरमुरोभूषणमर्पितमिवेत्यर्थः । उत्प्रेक्षया हरिचक्रस्यापि तस्मिन् कुण्ठशक्तित्वं सूचितम् ॥ ४८ ॥ द्वितीयः सर्गः तदीयास्तोयदेष्वद्य पुष्कलावर्तकादिषु । अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥४९॥ प्रकाशिका अथ तदवष्टम्भेन तदीयानां दुर्विलसितं दिङ्मात्रेण दर्शयति-

११९ तदीया इति । प्रलयकाल एव वर्षित्वात् तोयपूर्णत्वम् । पुष्कलावर्तकादिषु प्रलयकार्यार्थं सम्भृतेषु देवराजवल्लभेषु कूटस्थमेघेषु । यदाह – ‘जातं वंशे भुवनविदिते पुष्कलावर्तकानाम्’ (मे.६) इति। आदिशब्देन राजावर्तकादयो • राजावर्तकादयो गृह्यन्ते । तावातमभ्यस्यन्तीति, लोभनीयेष्वपि परधनेषु दृप्तानां सुलभा निर्दयतेति भावः । निर्जितैरावता इति दर्पकण्डूविनोदस्यान्यत्र दुर्लभत्वं द्योतितम् ॥ ४९ ॥ विवरणम् इत्थं निष्फले सति हरिचक्रे हेवेषु च पराङ्मुखेषु विजितलोकत्वेन निवृत्तयुद्धसन्नाहानां तारकासुरपरिजनानां दुर्विलसितं दिङ्मात्रेण दर्शयति- तदीया इति। तदीयाः गजाः अद्य पुष्कलावर्तकादिषु तोयदेषु तटाघातम् अभ्यस्यन्ति । तदीयास्तारकासुरसम्बन्धिनः । अनेन गजानां तदीयत्वाभिमानित्वाद् गर्वोद्रिक्तत्वं सूचितम् । तारकासुरसम्बन्धित्वादस्माकं के वा प्रतियोद्धार इति हि तेषामभिमानः । अद्य इदानीं, युद्धप्रसङ्गवार्तयापि विरहितेऽस्मिन् काल इत्यर्थः । पुष्कलावर्तकादिषु पुष्कलावर्तकः प्रलयकालवर्षशीलो महामेघः, स आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिशब्देन राजावर्तकादीनामुपादानम् । तोयदेषु मेघेषु । ते हि तोयदाः प्रलयकार्यसिद्ध्यर्थं देवराजेन सम्भृता नित्यास्तस्य प्रियतराश्च । यथोक्तं मेघसन्देशे—‘जातं वंशे भुवनविदिते पुष्कलावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः’ इति । तटाघातं वप्रक्रीडां, मत्तानां गजानां गिरिवप्रादिषु कण्डूविनोदनार्थं यो दन्तप्रहारः तमित्यर्थः । अभ्यस्यन्ति पुनः पुनः कुर्वन्ति । ते हि तोयदाः प्रलयकाल एव वर्षन्तीति तेषां नित्यं तोयपूर्णत्वेन काठिन्यात् तेषु तटाघातोपपत्तिः । तद्गजानां दृप्तत्वे हेतुमाह – निर्जितैरावणा इति । निर्जितः नितरं जितः ऐरावणः ऐरावतो यैस्ते तथा । ‘ऐरावतोऽभ्रमातङ्गैरावणाप्रमुवल्लभा’ इत्यमरः । अनेन विशेषणेन दर्पकण्डूविनोदनस्यान्यत्र दुर्लभत्वं द्योत्यते ॥ ४९ ॥ तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्यते । कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥ ५० ॥ १२० कुमारसम्भवे प्रकाशिका फ अथात्र प्रतीकाररूपं स्वाभिलषितं प्रस्तौति- तदिति । तत् तस्माद्, यस्मादेवमापदन्यश्चोपायो न विद्यते । शान्तये नाशाय । कर्मबन्धुच्छिदं निवृत्तिलक्षणम्। भवस्य संसारस्य । उपमानेनैकान्तसिद्धि- माशंसते ॥ ५० ॥ विवरणम् इत्थं देवानां तारकासुरकृतां महतीं पीडां प्रतिपाद्य तत्र प्रतीकाररूपं स्वाभिलषितमर्थयते- तदिति । हे विभो ! तद् वयं तस्य शान्तये सेनान्यं स्रष्टुम् इच्छामः । विभो ! प्रभो ! भवतः किं दुष्करमिति भावः । तद् यस्माद् वयमेवमापन्नाः आपन्निवृत्त्यर्थमुपायान्तरं च न विद्यते, तस्माद्धेतोः तस्य तारकस्य शान्तये नाशाय ‘क्षमायां निर्विकारत्वे तथानिष्टनिवर्तने, परिक्षये च शान्तिः स्यादिति भोजः । सेनान्यं देवसेनानायकम्। सेनां रक्षां नयतीति सेनानीः तं स्रष्टुं निर्मातुम् इच्छामः अभिलषामः । अत्रोपमामाह - मुमुक्षवः भवस्य कर्मबन्धच्छिदं धर्ममिवेति। मुमुक्षवो मोक्षेच्छवः भवस्य संसारस्य, जननस्येत्यर्थः । ‘भवः संसाररुद्रयोरिति भोजः । शान्तय इति अत्रापि योज्यम् । कर्मबन्धच्छिदं कर्मणां बन्धः कर्मबन्धः, कर्मबन्धं छिनत्तीति कर्मबन्धच्छित् तं निवृत्तिलक्षणं धर्ममित्यर्थः । यथा मुमुक्षवो भवस्य शान्तये निवृत्तिलक्षणं धर्ममिच्छन्ति, तथा वयं तस्य शान्तये सेनान्यमित्यर्थ । अनेनोपमानेन देवानां तारकासुरभयनिवृत्तिमात्रं न केवलमाकाङ्क्षितम्, अपि सर्वभयनिवृत्तिरेवेति ध्वन्यते । एतादृशार्थप्रार्थनसमर्थत्वादेवादी हरेश्चक्षुर्दशचक्षुश्शताधिकम् ’ (२.२९) इत्युक्तम्॥ ५० ॥ ’ स द्विनेत्रो गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव सुरश्रियम् ॥५१॥ प्रकाशिका , सेनान्यां लब्धेऽपि कथमेकान्तसिद्धिः, कस्तस्य परिकरः कीदृशो वा स भवेदित्याह— गोप्तारमिति । यं यादृशशक्तियुक्तम् । पुरस्कृत्येति देवैः परिकग्तित्वमुक्तं, गोत्रभिदिति दुर्वारशक्तित्वं, प्रत्यानेष्यतीत्येकान्तसिद्धिः । कथमीदृशोऽसौ तादृशेन सेनान्या न कार्यं साधयेदिति भावः ॥ ५१ ॥ द्वितीयः सर्गः विवरणम् १२१ ननु सृष्टेऽपि सेनान्यां कथमात्यन्तिकभयनिवृत्तिः, कश्च तस्य परिकरः कीदृशो वा स भवेदित्यत्राह- गोप्तारमिति । गोत्रभिद् यं पुरस्कृत्य शत्रुभ्यः वन्दीमिव सुरश्रियं प्रत्यानेष्यति । गोत्रभित् पर्वतपक्षच्छेदी देवेन्द्रः । अनेन देवेन्द्रस्यैव सहजदुर्वारशक्तिमत्त्वं द्योत्यते । सेनानीलाभे स एव जेतुं समर्थ इत्यर्थ। यं सेनान्यं पुरस्कृत्य अग्रतः कृत्वा । अनेन सेनान्यः सुरपरिकरत्वमुक्तम् । शत्रुभ्यः शत्रुजनसकाशाद्, न केवलं तारकासुरादिति बहुवचनस्यार्थः । अनेनात्यन्तिकभयविनाश उक्तः । वन्दीं हठहृतमहिलामिव सुरश्रियें देवलक्ष्मी प्रत्यानेष्यति प्रत्यानेतुं समर्थो भवेदिति भावः । यादृशेन सेनान्या तादृशशक्तियुक्तो महेन्द्रः स्वयमेव हठहृतमहिलामिव शत्रुवशवर्तिनीं देवलक्ष्मी प्रत्यानेष्यति, तादृशस्त्वया सृज्यतामित्यर्थः । सृष्टे तु सेनान्यां गोत्रभित् स्वयमेव साधयिष्यति चेति भावः । अत्र प्रबलशत्रुवशवर्तनं तज्जयानन्तरमात्मवशवर्तनं च सुरश्रीवन्द्योः साधारणो धर्मः । अथवा बन्दीमिति जातावेकवचनम् । वन्दीमिव सुरश्रियमित्यस्य वन्दीः सुरश्रियं चेत्यर्थः । यथा रघुवंशे – ‘वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ’ (१६.१९) इति । सेनानीशब्दस्यार्थमाह – सुरसैन्यानां गोप्तारमिति । सुराणां देवानां सैन्यानि सुरसैन्यानि तेषां गोप्तारं रक्षितारम् ||५ १ || । वचस्यवसिते तस्य ससर्ज गिरमात्मभूः । गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥ ५२ ॥ ब्रह्मणः प्रतिवचनमाह- प्रकाशिका वचसीति । अवसिते निराकाङ्क्ष इत्यर्थ । अनेन वाचोऽवसर उक्तः । उपमानेन विश्वोपकारकत्वं द्योत्यते । तत्राप्यनन्तरशब्दोऽवसरद्योतकः ॥ ५२ ॥ विवरणम् अथ ब्रह्मणः प्रतिवचनप्रस्तावं वर्णयति- वचसीति । तस्य वचसि अवसिते आत्मभूः गिरं ससर्ज । तस्य गुरोः वचसि अवसिते, आकाङ्क्षान्तरविरहिते सतीत्यर्थः । अनेन ब्रह्मणो वचनावसर उक्तः । आत्मभूः ब्रह्मा गिरं वाचं ससर्ज उवाचेत्यर्थः । ब्रह्मणो वचनस्य लोकोपकारकत्वं वृष्ट्युपमानेन दर्शयति-सा सौभाग्येन गर्जितानन्तरां वृष्टिं जिगायेति । सा गीः सौभाग्येन सुभगत्वेन गर्जितानन्तरां गर्जितं मेघनिर्घोषः । ’ स्तनितं गर्जितं मेघनिर्घोष’ १२२ कुमारसम्भवे इत्यमरः । तस्मादनन्तराम् अव्यवधानाम्, अम्भोधरनिनदानन्तरसम्भवामित्यर्थः । गर्जितानन्तरशब्देन वृष्टेरवसर उक्तः । वृष्टिं वर्षम्। जिगाय जितवती । अत्र तारकासुरवृत्तान्तप्रतिपादकस्य गुरुवचनस्य गर्जितोपमानेन गाम्भीर्यं भयहेतुत्वं च व्यज्यते, ब्रह्मवचनस्य वृष्टट्युपमानेन लोकोपकारकत्वम् । परमेष्ठिनः प्रतिवचनं वर्षमिव सर्वानप्यानन्दयामासेत्यर्थः ॥ ५२ ॥ सम्पत्स्यते वः कामोऽयं कालः कश्चित् प्रतीक्ष्यताम् । न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मनः ॥५३॥ प्रकाशिका

सम्पत्स्यत इति । कामोऽनर्थपरिहारः । अयमिति सेनानीलाभद्वारकः । ननु ‘हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसीतिवत् सुदूरस्थे प्रतिकारे प्रत्युपस्थिते चानर्थेनास्माकं प्रतिपत्तिरित्याह — काल इति । कालो हि सकलसाधनमिति भावः । कश्चिदिति कार्यक्षमः । प्रतीक्ष्यतां तावत्कालं सहिष्णुतैव प्रतिपत्तिरित्यर्थः । सम्पादयिष्यामीति किं नोक्तमित्याह - न त्विति । अस्य कामस्य । सिद्धौ सिद्धिमुद्दिश्य । आत्मन इति कर्मणि षष्ठी। अंशेनात्मानं न षष्ठी। स्त्रक्ष्यामीत्यर्थः ॥ ५३ ॥ तामेव गिरं प्रपञ्चयति— विवरणम् , सम्पत्स्यत इति । युष्माकम् अयं कामः सम्पत्स्यते । अयं सेनानीलाभद्वारकः कामः अनर्थपरिहारः सम्पत्स्यते भविष्यति । ननु प्रत्युपस्थिते महत्युपद्रवे कथं सम्पत्स्यत इति भविष्यत्कालनिर्देशः । कोपाविष्टे महति फणिनि शिरसि वर्तमाने हिमवच्छिखरे कुत्रापि दिव्यौषधयो भविष्यन्तीति विषवैद्यवचनमिव भवतो वचनमिदमस्माकं प्रतिभातीत्यत्राह - कश्चित् कालः प्रतीक्ष्यतामिति । कश्चिद् योऽस्माकमनुकूलत्वात् कार्यसाधनक्षमः, स इत्यर्थः । कालः कालः उपरिष्टात्। प्राप्तिपरिहारयोः कालो हि साक्षात् साधनमिति भावः । तदुक्तं श्रीभागवते - ‘तदा वयं विजेष्यामो यदा काल प्रदक्षिणः’ (१०.५४.१६) इति । प्रतीक्ष्यतां प्रतिपाल्यताम्, जयानुकूलकालप्राप्तिपर्यन्तमुपद्रवसहिष्णुतैव कर्तव्येति भावः । ननु भवतां काममहमेव सम्पादयिष्यामीति वचनमपहाय किमत्रभवता ‘सम्पत्स्यत’ इति पृथग्जनवत् कथितमित्यत्राह – अहमस्य सिद्धौ आत्मनः सर्गव्यापारं न तु यास्यामीति। अस्य भवद्भिरिदानीं प्रार्थितस्य कामस्य सिद्धौ प्राप्तिमुद्दिश्य । आत्मन इति कर्मणि षष्ठी । आत्मांशेनैवात्मानं न स्रक्ष्यामीत्यर्थः । सर्गव्यापारं सृष्टिकर्म । द्वितीयः सर्गः १२३ तुशब्दोऽवधारणे । नैव यास्यामीत्यर्थः । भवतामस्याभिलषितस्य सिद्धिमहमेवांशेन न करिष्यामीति भावः ॥ ५३ ॥ इतः स दैत्यः प्राप्तश्रीर्खेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ ५४ ॥ अत्र हेतुमाह- प्रकाशिका इत इति । अभिनयविशेषादिदंशब्दोऽस्मदर्थं बोधयति । अत्र प्रतिवस्तु विषेति । दक्षिणावर्तस्तु ‘संवर्ध्यः’ इति पदच्छेदमाह । तत्तु न चतुरश्रं निर्हेतुकत्वदोषात्। क्षयस्यैव निषेध्यत्वेन प्रस्तुतत्वाच्च । ‘विषवृक्षम्’ इति तु भवितव्यमित्याशङ्कयाह वामनः ‘निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात्’ (काव्यालङ्का. ५.२.२२) इति । ‘तिङ्कृत्तद्धितसमासैरिति सूत्रे परिगणनं, तस्य प्रायिकत्वात् । तिङादिना हि बाहुल्येन कर्मणोऽभिधानमिति परिगणनं, न तु नियमार्थम् । तस्मादनभिधानमेव विभक्तेः प्रयोजकमिति निपातेनापि यत् कर्माभिहितं तत्र न द्वितीया । असाम्प्रतमिति तद्धितान्तो निपात्यतेऽयुक्तमित्यस्यार्थे । तस्य चार्थः कर्म। तच्च निपातेनाभिहितमिति न द्वितीया ॥ ५४ ॥ ननु किमत्र कारणमित्यत्राह- विवरणम् इत इति । इतः प्राप्तश्रीः स दैत्यः इत एव क्षयं नार्हति । अभिनयविशेषादितश्शब्दोऽयमस्मच्छब्दार्थः । बहुविधैस्तपोभिस्तुष्टान्मत्त इत्यर्थ। प्राप्तश्रीः प्राप्ता श्री ऐश्वर्यं येन स तथा । स दैत्यस्तारकासुरः । इतः मत्सकाशादेव । क्षयं नाशं । नार्हति । मया दत्तवरस्य दैत्यस्य मयैव हन्तुमयोग्यत्वादित्यर्थः । अत्र प्रतिवस्तूपमामाह - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतमिति । विषवृक्षो नाम प्राणिनां मरणप्रदो वृक्षविशेषः । तदुक्तं- यस्य स्पर्शनमात्रेण वायुसंस्पर्शनेन वा । म्रियन्ते जन्तवः सर्वे विषवृक्षः स कीर्तितः ॥ इति । अपिशब्दः पूर्वोक्तस्य न्यायस्य सार्वत्रिकत्वं प्रतिपादयति । संवर्ध्य वर्धयित्वा स्वयमेव च्छेत्तुमसाम्प्रतम् अयुक्तम् । असाम्प्रतमित्यव्ययमयुक्तमित्येतस्मिन्नर्थे। ‘युक्ते साम्प्रतमित्यमरः । तेन, यदि केनचित् पुरुषेण विषवृक्षोऽपि येन केनापि कारणेन वर्धितो भवेत् तर्हि तस्यैव तद्भङ्गो न युक्त इत्यर्थः । ननु विषवृक्षोऽपीत्यत्र१२४ कुमारसम्भवे विषवृक्षमपीति द्वितीयाप्रयोगो युक्तः, तिङ्कृत्तद्धितसमासैरनभिहिते हि कर्मकारके द्वितीया विहिता । अत्र तु निपाताभिहितो विषवृक्षः । असाम्प्रतमित्यस्य निपातत्वात् । तेनैव हि विषवृक्षः कर्मत्वेनाभिहितः, न तिङ्कृत्तद्धितसमासैः । ’ तस्माद् विषवृक्षमित्येव भवितव्यम् । न। तिङ्कृत्तद्धितसमासैरिति परिगणनं न नियमार्थम् । तिङादिभिरेव प्रायशः कर्माभिधीयत इत्येव तेषामुपादानं, न नियमार्थम्। तस्मादनभिधानमेव कर्मविभक्तेः प्रयोजकम् । अत्र तु निपातेनापि विषवृक्षोऽभिहित एव। तस्मान्नात्र द्वितीया । तदुक्तं वामनेन – ‘निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वाद्’ [ काव्याल. ५.२.२२] इति ॥ ५४ ॥ वृतं तेनेदमेव प्राङ् मया चास्मै प्रतिश्रुतम् । वरेणाशमितं लोकानल दग्धुं हि तत्तपः॥५५॥ प्रकाशिका न केवलमयुक्तं, समयभङ्गश्च स्यादित्याह- वृतमिति । इदमिति ‘नाहं त्वया निग्राह्य’ इति । किमेवमभ्युपगतमित्याह — वरेणेति। तदपि लोकार्थं कृतमित्यर्थः ॥५५॥ विवरणम् न केवलमयुक्तमित्येव दोषः समयभङ्गोऽपि भवेदित्याह- वृतमिति । तेन प्राग् इदमेव वृतम्। तेन तारकेण । इदमेव मदवध्यत्वमेवेत्यर्थः । वृतं प्रार्थितम् । स तारकासुरो वरप्रदानसमये तपसा तुष्टं मां प्रति मदवध्यत्वमेवाभ्यर्थितवानित्यर्थः । अभ्यर्थनानन्तरं देवेन तु किं कृतमित्यत्राह - मया अस्मै प्रतिश्रुतं चेति । मया तपसा तुष्टेनेति शेषः । अस्मै तारकाय । ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (१.४.४० ) इति सम्प्रदानत्वाच्चतुर्थी । तथास्त्विति मया तं प्रत्यनुज्ञातं चेत्यर्थः । नन्वस्मदनुग्रहार्थी भवान् कथं तस्मै तादृशं वरं दत्तवानित्यत्राह — तत्तपः वरेणाशमितं लोकान् दग्धुमलं हि इति । तस्य तारकासुरस्य तपः वरेण तदुक्तवरप्रदानेन अशमितं शान्तिमप्रापितं सत् लोकान् त्रीनपि लोकान् दग्धुं भस्मसात्कर्तुम् अलं पर्याप्तं हि । ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकमिति सिंहः । यदि तदा तदभ्यर्थितं वरं नादास्यं, तर्हि तस्य मूर्धानं निर्भिद्य निर्गतस्तपोमयो वह्निः सर्वानपि लोकान् भस्मसादकरिष्यत् । यथोक्तं श्रीभागवते हिरण्यकशिपोस्तपःप्रसङ्गे– तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधोलोकानतपद् विष्वगीरितः । इति। ( स्कन्धः ७.३.४ ). द्वितीयः सर्गः १२५ उपद्रवसहनमेव हि भस्मीभावाद वरीयः । ‘त्यजेदेकं कुलस्यार्थे’ इत्यादिन्यायात् । अतो लोकानुग्रहार्थमेव मया तदुक्ता वराः सर्वे तस्मै दत्ता इति भावः ॥५५॥ क्रमते- संयुगे सम्मुखीनं तमुद्गदं प्रसहेत कः । अंशादृते निषिक्तात् तु नीललोहितरेतसः ॥ ५६ ॥ प्रकाशिका कालप्रतीक्षणे कथं भाविनी कार्यसिद्धिरित्याशङ्क्य तस्या दिङ्मात्रं दर्शयितुमुप- संयुग इति । सम्मुखीनं ‘यथामुखसम्मुखस्य दर्शनः खः ’ ( ५.२.६ ) इति खः । किं नास्त्येवेत्याहअंशादिति । ‘निषिक्तात् त्विति पाठः । नीललोहितशब्देन कुमारजन्मसमर्थं गौरीशबलत्वं ध्वनितम्। निषेकसामर्थ्यादंशशब्देन पुत्रोऽभिधीयते ॥ ५६ ॥ विवरणम् ननु कश्चित् कालः प्रतीक्ष्यताम्’ (२.५३) इति हि भवतोक्तं प्रतीक्षिते तु काले कथमापत्प्रतीकारो भविष्यतीत्याशङ्क्यापत्प्रतीकारप्रकारमेव दिङ्मात्रेण दर्शयितुमारभते- संयुग इति। निषिक्तान्नीललोहितरेतसः अंशाद् ऋते कः तु संयुगे सम्मुखीनम् उद्गदं तं प्रसहेत । निषिक्तात् स्त्रीयोनौ कृतनिषेकाद् नीललोहितरेतसः । नीललोहितो हरः । ’ धूर्जटिर्नीललोहितः’ इत्यमरः । अत्र नीललोहितशब्देन गौरीसंमिश्रतत्वेन शबलशरीरो हरोऽभिधीयते । तेन च कुमारोत्पत्तेरानुगुण्यं ध्वनितम्। तस्य रेतो वीर्यम्। ‘शुक्लं तेजोरेतसी चे ‘त्यमरः । तस्यांशात्, रेतसः स्त्रीयोनौ निषिक्तोंऽशः पुत्र एवेति निषेकसामर्थ्यादंशशब्देनात्र पुत्रोऽभिधीयते । तस्मादृते हरपुत्रादन्यः क इत्यर्थः । तुशब्देनास्यान्येभ्यो व्यतिरेक उक्तः । संयुगे युद्धे । सम्मुखीनं ‘यथामुखसम्मुखस्य दर्शनः खः’ अभिमुखगतमित्यर्थः । उद्गदम् उत्क्षिप्तगदं तं तारकं प्रसहेत सोढुं शक्नुयाद्, न कोऽपीत्यर्थः । हरपुत्र एव कालप्रतीक्षणे सति तारकासुरस्य हन्ता भविष्यति, नान्यः कोऽपीति भावः ॥ ५६ ॥ स हि देवः परं ज्योतिस्तमः पारे प्रतिष्ठितम्। परिच्छिन्नप्रभावद्धिर्न मया न च विष्णुना ॥५७॥ तत्रापि का सम्भावनेत्याह- प्रकाशिका १२६ कुमारसम्भवे स इति । देवो द्योतनस्वभावः । तच्च क्रीडाव्यवहारद्युतिस्तुतिकान्तिगतयः । अत एवाह — परं ज्योतिरिति । देशकालाद्यवच्छिन्नप्रकाशं न भवति, तत्प्रकाशकं च। तमोऽविद्या, तस्याः पारे परस्तात् । प्रतिष्ठितं निर्विकारत्वात् कूटस्थ इत्यर्थः । उत्तरार्धेन तु उक्तोपपादनाय ‘नोर्ध्वं गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरि त्यादिनोक्तमितिहासार्थमनुस्मारयति ॥ ५७ ॥ विवरणम् ननु विष्णुनाप्यवध्यं तारकासुरं हरपुत्रः कथं हनिष्यतीत्याशङ्कायां हरस्य तस्माद् व्यतिरेकमाह-

स हीति । स देवः हि । सः हरः देवः द्योतनस्वभावः, क्रीडाव्यवहारद्युतिस्तुतिकान्तिगतिमानित्यर्थः । स्वयंप्रकाश इति वा । हिशब्दः पुराणादिप्रसिद्धिं प्रतिपादयति। द्योतनस्वभावत्वमेवोपपादयति - परं ज्योतिः । परं देशकालाद्यनवच्छिन्नम्। तेजोन्तराणि हि देशकालाद्यवच्छिन्नानि देशकालाद्यवच्छिन्नस्यैव प्रकाशकानि च । अयं तु न तथेति भावः । ज्योतिस्तेजः । देशकालाद्यनवच्छिन्नत्वे हेतुमाह - तमः पारे प्रतिष्ठित इति । तमस अविद्यायाः पारे परस्तात् प्रतिष्ठितः स्थितः । विनाशादिधर्मवतामविद्यातत्कार्याणां परस्तान्निर्विकारत्वात् कूटस्थनित्यत्वेनावस्थित इत्यर्थः। उक्तार्थोपपादनार्थमितिहासप्रसिद्धां कथामनुस्मारयतिपरिच्छिन्नेत्यादिना। स इति अत्राप्यनुषज्यते । सः मया परिच्छिन्नप्रभावर्द्धिर्न, प्रपञ्चप्रवर्तकेन मयापीत्यर्थः । परिच्छिन्नप्रभावर्द्धिः परिच्छिन्ना इयत्तया कृतपरिच्छेदा प्रभावस्य महिम्नः ऋद्धिः समृद्धिरतिशयो यस्य स तथा। नारायणस्तत्परिच्छेदे मत्तोऽप्यतिरिक्तो न भवतीत्याह – विष्णुना च नेति । परिच्छिन्नप्रभावर्द्धिरिति अत्रापि योज्यम् । हरतेजसामन्तमवगन्तुं हंसमारुह्य प्रजापतिरूर्ध्वं गतः । विष्णुस्तु भूदाररूपमादायाधोभागं गतः । बहुदिव्यसंवत्सरं गत्वराभ्यामुभाभ्यामपि न तदन्तोऽवगत इति पुराणप्रसिद्धा कथानेन वाक्येनोक्ता । तदुक्तं ‘नोर्ध्वं गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरिति ॥ ५७ ॥ उमारूपेण ते यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥५८॥ तेजोंशनिषेकोपायमाह- प्रकाशिका भगवानपि उमेति । त इति, य इत्थमनर्थप्रतीकारार्थिनः । संयमस्तिमितत्वमाकर्षणीयत्वे हेतुः । परमेश्वरस्यारूपहार्यत्वमभिप्रेत्याक्रष्टुं यतध्वमित्युक्तम् । अन्यथाकर्षतेति ब्रूयात् । द्वितीयः सर्गः १२७ ननु तर्हि किमर्थोऽयं विधिः । न । परम्परया सार्थकत्वस्य दर्शयिष्यमाणत्वात् । अत एव वक्ष्यति - अर्थोऽयमर्थान्तरभाव्य एव (३.१८) इत्यादिना । उपमानेन तु परमेश्वरस्य नैसर्गिकं निजशक्तिपरशक्तिपराधीनत्वं ध्वनितम्। अत्र तु वतिर्निरूप्यः । ‘तत्र तस्येव’ (५.१.११६) इति, तेन तुल्यं क्रिया चेद्वतिः ( ५.१.१५ ) इति सूत्रद्वयनीत्या दुर्लभत्वात् ॥ ५८ ॥ विवरणम् तेजोनिषेकोपायप्रकारमप्युपदिशति- लोहवदिति ।

उमारूपेणेति। ते यूयम् उमारूपेण शम्भोः मनः आक्रष्टुं यतध्वम् । ते ये सेनानीसर्गद्वारेणापत्प्रतीकारं प्रार्थयन्ते, त इत्यर्थः । उमायाः पार्वत्याः रूपेण सौन्दर्येण साधनेन शम्भोः परमेश्वरस्य मनः चित्तम् आक्रष्टुम् उमाया अभिमुखं प्रवर्तयितुं । यतध्वं यत्नं कुरुत । शम्भोररूपहार्यत्वमभिप्रेत्य यतध्वमित्युक्तं, न पुनराकर्षतेति । इदानीं तु विशेषतोऽप्यनाकर्षणीयमित्याह – संयमस्तिमितमिति । रागद्वेषादिविरहः संयमः, तेन स्तिमितं निश्चलम् । उमारूपेण चित्ताकर्षणमुपमया स्फुटयति — अयस्कान्तेन अयस्कान्तेन अयस्कान्तपाषाणेन लोहवल्लोहमिव। अयो यथायस्कान्तेनाकर्षति, तद्वदित्यर्थः । अनेनोपमानेन परमेश्वरस्य स्वाभाविकमेव शक्तिपराधीनत्वमिति ध्वन्यते। अत्र वतिप्रयोगश्चिन्त्यः ‘तत्र तस्येव’ (५.१.११६ ) इति सूत्रेण, ‘तेन तुल्यं क्रिया चेद्वति’ ( ५.१.११५) इति सूत्रेण च दुर्लभत्वादित्यरुणाचलनाथेनोक्तम्। अतस्तन्मतानुसारिभिरस्माभिश्चिन्त्यते । ‘तेन तुल्यं क्रिया चेद्वतिरिति तृतीयान्ताद् विहितः प्रत्ययः सर्वविभक्त्यर्थानन्तर्भावयतीति कैयटपदमञ्जर्योः प्रतिपादितम् । अत एव सर्वविभक्तीनां क्रमेणोदाहरणे ‘ब्राह्मणेन तुल्यं, ब्राह्मणमिव भवन्तं पश्यामी’ ति द्वितीयार्थे वतिरुदाहृतः । तथा च ’ पूर्ववत् सनः ’ (१.३.६२ ) इत्यत्र पूर्वस्मादिव पूर्ववदिति पञ्चम्यर्थे वतिर्व्याख्यातः ॥ ५८ ॥ उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम् । सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम ॥५९ ॥ प्रकाशिका निषेकं प्रत्यधिकरणान्तरस्यायोग्यत्वं दर्शयति- उभे इति । सा उमा । तदीया शम्भुसंबन्धिनी । अनेन परमेश्वरशक्तेरेव सर्वभर सहत्वमिति द्योतयति । वाशब्दोऽवधारणे । यद् वक्ष्यति ‘सैव क्षमेत्यात्मभुवोपदिष्टम्’ (३.१६) इति ॥ ५९ ॥ १२८ कार्य कुमारसम्भवे विवरणम् निषेकं प्रत्यधिकरणान्तरस्यायोग्यत्वं दर्शयति- उभे इति । उभयोः आहितं वीर्यं वोढुम् उभे एव क्षमे । उभयोरिति षष्ठ्या अत्र वीर्यशब्देनैव सम्बन्धः । आहितमित्यस्य कर्ता पुनरुभाभ्यामित्यर्थात् सिध्यति । आहितं निषिक्तं वीर्यं रेतः वोढुं प्रसवपर्यन्तं धर्तुम् उभे एव, नान्याः स्त्रियः, क्षमे शक्ते । उभाभ्यां निषिक्तमुभयोर्वीर्यं धर्तुमुभे एव योषितौ क्षमे इत्यर्थः। उभयशब्दोक्तमर्थं विविच्य दर्शयतिशम्भोः सा वा मम तदीया जलमयी मूर्तिर्वा इति । शम्भोः परमेश्वरस्य । वीर्यमित्यर्थादायाति । सा पार्वती । वाशब्दोऽवधारणार्थे । ननु वा विकल्पोपमानद्वन्द्वसमुच्चयेष्विति निपातसूत्रे न वाशब्दस्यावधारणार्थत्वं प्रोक्तम्। सत्यम्। ‘निपाता अनेकार्था’ इति वचनानुसारिणा कविनात्रावधारणार्थत्वमेव विवक्षितम् । अत एव वक्ष्यति – ‘योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्’ (३.१६) इति । शम्भोर्वीर्यं सोढुं पार्वत्येव क्षमेत्यर्थः । मम जगत्सिसृक्षया वीर्यमुत्सृजतः । तदीया शम्भुसम्बन्धिनी । जलमयी जलस्वरूपिणी। मूर्तिः अष्टमूर्तेः परमेश्वरस्यैका मूर्तिः । मद्वीर्यभारसहिष्णुत्वमपामेवेत्यर्थ । ‘यदमोघमपाम्’ (२.५) इत्यादिना यदपां मद्वीर्यभारसहिष्णुत्वमुक्तं, तदपि तासां हरमूर्तिभेदत्वादेवेति वदता ब्रह्मणा परमेश्वरांशस्यैव तारकासुरनिग्रहसामर्थ्यमित्युक्तं भवति । अत्रापामुपन्यासो दृष्टान्तत्वेनेति मन्तव्यम्॥ ५९ ॥ तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥ ६० ॥ प्रकाशिका एवं कृतेऽवश्यंभाविनी सिद्धिरित्याह- तस्येति । आत्मा पुत्र इत्यर्थः । शितिकण्ठस्येत्यनेन कालकूटनिगरणं द्योतयता स देवोऽस्माकं परमापत्सु शरणमिति द्योतयति । अत्र मोक्ष्यत इत्यादि पर्यायोक्तम्। तद्वीर्यविध्वस्ते शत्रौ सुरस्त्रियः स्वभर्तृविरहभाविनं केशरचनाविशेषं त्यक्ष्यन्तीति प्रतीतेः ॥ ६० ॥ विवरणम् पार्वतीपरमेश्वरयोः परस्परसम्मेलने कृते कार्यसिद्धिरवश्यं भविष्यत्येवेति वाचा देवानानन्दयति- तस्येति । तस्य शितिकण्ठस्य आत्मा वः सेनापत्यम् उपेत्य वीर्यविभूतिभिः स्वर्गबन्दीनां वेणीः मोक्ष्यति । तस्य य एवम्भूतप्रभावः तस्येत्यर्थः । शितिकण्ठस्य द्वितीयः सर्गः १२९ नीलकण्ठस्य । ‘शिती धवलमेचकावित्यमरः । कालकूटनिगरणप्रभूतकण्ठनैल्यस्येत्यर्थः । अनेनायमेवास्माकमापत्सु शरणमिति द्योतयति । आत्मा पुत्र इत्यर्थः । ‘आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्’ (स्क. १०.७८.३६ ) इति श्रीभागवतवचनाद् आत्मशब्दप्रयोगेणात्र तत्पुत्रस्य परमेश्वरतुल्यशक्तत्वं ध्वनितम्। वः युष्माकं सैनापत्यं सेनापतित्वम्। ‘पत्यन्तपुरोहितादिभ्यो यक्’ (५.१.१२८) इति यक् । उपेत्य प्राप्य वीर्यविभूतिभिः वीर्यातिशयैः । बहुवचनेन विभूतिशब्देन च तद्वीर्याणां निरवधिकत्वं ध्वनितम्। स्वर्गबन्दीनां, बन्द्यो हठहृतमहिलाः । तारकासुरेण बन्दीकृतानां स्वर्गस्त्रीणामित्यर्थः । वेणीः संश्लिष्टकेशान्। ‘वेणी प्रवेणी । शीर्षण्यशिरस्यावि’त्यमरः । भर्तृविरहिता हि कुलस्त्रियः स्वकेशान् भर्तृसमागमपर्यन्तं दृढं निबध्नन्ति । यथोक्तं शाकुन्तले- वसने परिधूसरे वसाना नियमक्षामतनुर्धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं वहन्ती ॥ [ ७.२१] इति । मोक्ष्यति विश्लेषयिष्यति । अत्र कार्यभूतेन वेणीविश्लेषणेन कारणभूतस्तारकासुरवध प्रतीयत इति पर्यायोक्तम्॥ ६० ॥ इति व्याहृत्य विबुधान् विश्वयोनिस्तिरोदधे। मनस्याहितकर्तव्यास्तेऽपि प्रतिययुर्दिवम् ॥ ६१ ॥ प्रकरणमुपसंहरति- प्रकाशिका इतीति । व्याहृत्य तिरोदध इत्यनेन लोककार्यार्थं देवेभ्यो दत्तस्य विधातृदर्शनस्य चिरसुलभत्वं द्योत्यते । मनसीति, मनसा तमेवार्थं सङ्कल्पयन्त इत्यर्थः ॥ ६१ ॥ प्रकरणमुपसंहरति- विवरणम् इतीति । विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । विश्वयोनिर्विश्वस्य योनिरुद्भवस्थानं प्रपञ्चकर्ता ब्रह्मा विबुधान् सुरान् इति पूर्वोक्तप्रकारेण व्याहृत्य उक्त्वा तिरोदधे अन्तर्हितोऽभूत् । इति व्याहृत्य तिरोदध इत्यनेन देवकार्यार्थमेवादौ दर्शनं दत्तं तच्च दर्शनं तदनुग्रहप्रदानपर्यन्तं सुलभं चाभूदिति देवानां प्रमोदातिशयप्राप्तिर्ध्वनति । लब्धप्रसादानां देवानां प्रवृत्तिमाह — तेऽपि मनसि आहितकर्तव्याः दिवं प्रतिययुरिति । ते देवाः मनसि आहितं निहितं कर्तव्यं करणीयं १३० कुमारसम्भवे यैस्तथाभूताः सन्तः। अनन्तरकरणीयं मनसा निश्चित्येत्यर्थः । दिवं स्वर्गं प्रतिययुः, यथागतं गता इत्यर्थः ॥ ६१ ॥ तत्र निश्चित्य कन्दर्पमगमत् पाकशासनः । मनसा कार्यसंसिद्धित्वराद्विगुणरंहसा ॥ ६२ ॥ प्रकाशिका अथ तदुपायानुष्ठानरूपोत्तरसर्गार्थबिन्दुमुपक्षिपति- तन्त्रेति। तत्र दिवि। निश्चित्य मन्त्रेण प्रक्रंस्यमानमुपायानुष्ठानमवधार्येत्यर्थ। मनसा अगमत् सस्मार उपस्थानार्थम् । ‘कार्यसंसिद्धित्वराद्विगुणेति पाठः ॥ ६२ ॥ विवरणम् अथ पार्वतीपरमेश्वरसङ्गमोपायानुष्ठानरूपमुत्तरसर्गार्थबिन्दुमुपक्षिपति- तत्रेति । पाकशासनः तत्र निश्चित्य मनसा कन्दर्पम् अगमत्। पाकशासनः इन्द्रः। ‘इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः इत्यमरः । तत्र दिवि निश्चित्य करिष्यमाणमुपायानुष्ठानं मन्त्रिभिः सह सम्मन्त्र्य । सम्यगवधार्येत्यर्थः । मनसा कन्दर्पमगमत्। सस्मारेत्यर्थः । समीपागमनार्थमिति शेषः । स्मरणे मनसो विशेषं दर्शयति – कार्यसंसिद्धित्वराद्विगुणरहसेति । कार्यस्य सेनानीलाभरूपस्यार्थस्य संसिद्धौ सम्यक्सिद्धौ या त्वरा त्वरणं तया द्विगुणं प्रवृद्धं रंहः वेगो यस्य तेन । मनसः स्वतो वेगवत्त्वादिति द्विगुणरंहसेत्युक्तम् । स्वाभिलषितस्य सेनानीलाभरूपस्यार्थस्य स्वमनोरथानुरूपे लाभे त्वरया प्रवृद्धवेगेनेत्यर्थः । अनेन मनोविशेषणेन ‘कश्चित् कालः प्रतीक्ष्यताम्’ (२.५३) इति ब्रह्मणा निर्दिष्टस्य कालप्रतीक्षणरूपस्यांशस्य कार्यसिद्धित्वरयातिक्रान्तत्वात् कामदहनरूपो भविष्यन्ननर्थोऽपि सूचितः ॥ ६२ ॥ अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्ज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्करास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥६३॥ बिन्दोराविर्भावं दर्शयति- प्रकाशिका अथेति । अथशब्द आनन्तयें। स्मरणानन्तरमेवेत्यर्थः । ललितेत्याद्युपमागर्भम्। द्वितीयः सर्गः १३१ उपतस्थे, सङ्गतिकरण आत्मनेपदम् । शतमखेन सङ्गतोऽभूदित्यर्थः । अत्र विशेषणानि स्वभावोक्तिं पुष्णन्ति। सा च समीहितार्थसाधनक्षमतामस्याभिव्यनक्ति । प्राञ्जलिरिति तु विधेयत्वाभिप्रायम्॥६३॥ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां द्वितीयः सर्गः ॥ २॥ विवरणम् अथोपक्षिप्तस्योत्तरसर्गबिन्दोराविर्भावमपि दर्शयति-

अथेति । अथ सः पुष्पकेतुः कण्ठे चापम् आसज्ज्य प्राञ्जलिः शतमखम् उपतस्थे इति । अथ स्मरणानन्तरमेव । अनेन पुष्पकेतोः शतमखवशवर्तित्वमुक्तम्। सः, य एवं महेन्द्रेण स्मृतः स इत्यर्थः । पुष्पकेतुः कामदेवः कण्ठे चापमासज्ज्य स्थापयित्वा । अनेन चापभृतां स्वभाव उक्तः । तेन च तदुक्तकरणोद्योगः सूचितः । प्राञ्जलिः कृताञ्जलिर्भूत्वेत्यर्थः । अनेन भृत्यतया तदुक्तकारित्वमुक्तम् । शतमखं शतक्रतुम्। अनेन भृत्यतया तदुक्तकारित्वमुक्तम् । शतमखं शतक्रतुम्। अनेन तन्नियोगस्यानतिक्रमणीयत्वमुक्तम् । उपतस्थे, ‘उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम्’ ( वा १.३.२५) इत्यात्मनेपदम् । शतमखेन सङ्गतोऽभूदित्यर्थः । चापस्य समीहितार्थसाधनक्षमतामभिद्योतयन् चापं विशिनष्टि – ललितयोषिभ्रूलताचारुशृङ्गमिति । ललितायाः सुन्दर्याः योषितः स्त्रियाः भ्रूलता प्रशस्ता भूरिव चारु कोमलं शृङ्गम् अग्रं यस्य तत्तथा। अत्र ललितलताशब्दाभ्यामुपमानत्वसिद्धिरुक्ता । अनेन चापविशेषणेनास्मत्कार्यमसौ साधयिष्यत्येवेति शतमखस्य बुद्धिर्ध्वन्यते । तादृशचापाधिष्ठानयोग्यं कण्ठं विशिनष्टिरतिवलयपदाङ्क इति। रतेरात्मवल्लभाया वलयपदं वलयस्थानमेवाङ्कश्चिह्नं यस्य तस्मिन् । कण्ठाश्लेषे वलयस्य चिरं कण्ठावसक्तत्वाद् वलयप्रतिबिम्बलाञ्छितमित्यर्थः । अनेन गाढालिङ्गनं ध्वनितम्। बाणानामप्यादानमाह — सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्र इति । सहचरस्य त्रैलोक्यविजये सहायभूतस्य मधोर्वसन्तस्य ‘मधुर्वसन्ते दैत्ये च मधु मद्ये च माक्षिक’ इति भोजः । हस्ते न्यस्तः निक्षिप्तभूताङ्कुर एवास्त्रं येन स तथा । अनेन सहायसम्मतिः सहायस्य स्वाधीनता च दर्शिता ॥ ६३ ॥ द्वितीय सर्गेऽस्मिन् महति गहनार्थे मितपदे निगूढानर्थान् को जगति विवरीतुं प्रभवति । तथाप्यस्माभिर्यत् प्रलपितमिति क्षीणमतिभि- र्विलज्जैस्तत् सर्वं भवतु शिवयोः स्तोत्रविधये ॥ १३२ कुमारसम्भवे मीमांसोचितमानमेयघटनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये। ब्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते निरगाद् द्वितीय उदितः सर्गे निसर्गोज्ज्वलः॥ ॥ इति श्रीकृष्णप्रियशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे द्वितीयः सर्गः ॥ २ ॥