०१

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य* स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥ प्रकाशिका समस्तागमसंवेद्यं समस्तागमकारणम्। शरण्यं सर्वलोकानां प्रपद्येऽहं कपर्दिनम् ॥ १ ॥ यः काव्ये पदवाक्यशक्त्यवगमो योऽलङ्क्रियास्वागमो या नानाविधवेद्यवस्तुविषये प्राप्तप्रतिष्ठा यश्चायं रसभावमेलनगुणप्राधान्यबोधोदय- स्तत् सर्वं भवपादपङ्कजरजःसम्पर्कजं रघुवंशे महाकाव्ये विमृश्य रससम्पदम् । कालिदासकवीन्द्रस्य ज्ञातास्वादेन सूक्तिषु || ३ || अरुणाचलनाथेन द्विजपादाब्जसेविना । कुमारसम्भवाख्येऽपि मया टीका वितन्यते ॥ ४ ॥ वर्ण्यते शिवयोर्वृत्तं कालिदासस्य सूक्तयः । मतिः । मन्महे ॥ २ ॥ व्याख्यातारो वयं चेति मन्ये कोऽप्युत्सवः सताम्॥५॥

  • ‘वारिविधि विगा.’ नारायणः । FPR Patil betalt vine कुमारसम्भवे तत्र कविरादौ वस्तुनिर्देशं करोति- अस्तीति । उत्तरस्यां दिशीति हिमवतो देवभूम्यन्तर्भाव उक्तः । वक्ष्यति च ‘पितुः प्रदेशास्तव देवभूमयः’ (कुसं. ५.४५) इति । देवतात्मा, न केवलं स्थावरात्मा । इदं तु वक्ष्यमाणचेतनकृत्यविवाहादिघटनार्थम् । नाम प्रसिद्धौ । पूर्वेत्यादि मानदण्डोत्प्रेक्षाङ्गम् । मानं परिच्छेदस्तदर्थो दण्डो मानदण्डः । अन्ये तु पृथिवीमतिव्याप्य स्थितत्वात् तस्याः पृथुत्वाभिमानदम इवेति व्याचक्षते । न त्वेतत् सरसकाव्ययोजनासु युज्यते । ननु कोऽयं वस्तुनिर्देशो नाम उच्यते । वस्त्वितिवृत्तम्। तत्र च प्राधान्याद् वस्तुशब्देनात्र नायक उच्यते। तस्य प्रधानस्येतरस्य वा निर्देशो वस्तुनिर्देशः । अत्र च घंघणेन श्रियः पतिः’ इत्युदाहृतं, भोजेन तु हयग्रीववधे ‘आसीद् दैत्यो हयग्रीवः’ इत्यादि । हिमवांश्चात्र प्रबन्धे पताकानायकः । ननु वस्तुनिर्देशैकोपक्रमेषु काव्येषु शिष्टप्रवाहसिद्धो मङ्गलाचारः कविभिर्नादृतः स्यात्। न। तत्रापि तैः परमेश्वरनमस्कारो मानसः क्रियते । वाचिकस्तु कैश्चिच्चरितार्थम्मन्यतयोपेक्ष्यते, कैश्चित्तु व्याख्यातृश्रोतृजनानुग्रहाय प्रयुज्यते । इह तु हिमवत्कीर्तनान्मङ्गलमप्याचरितमेव ॥ १ ॥ विवरणम् षट्पदमुखरितगण्डं कोटीरभरावबद्धशशिखण्डम् । प्रणमत वारणतुण्डं पदकमलप्रणतसकलसुरषण्डम् ॥ १ ॥ अपारकरुणापूरतरङ्गितदृगञ्चलम्। कलाय ’ कोमलच्छायं जानकीनायकं भजे ॥ २ ॥ सुरारातेर्वक्षःकुहररुधिरक्षोदकपिशैः स्वतः श्वेतैः सन्ध्याकपिशशशिखण्डांशुसदृशैः । नखोद्योतैर्भक्तप्रकरहृदयध्वान्तभिदुरा दया काचिद् दिव्या विलसति पुरश्रेणिविपिने ॥ ३ ॥ लोकानामुदयस्थितिक्षतिकरी वन्दारुबृन्दारक- श्रेणीमौलिमणिप्रभारविकरप्रोद्यत्पदाम्भोरुहा। भाति ब्रह्मखलालये शशिकलाशुम्भज्जटावल्लरी भक्ताभीष्टविधानकल्पलतिका काचित् कृपावल्लरी ॥ ४ ॥ १. कलायो मटरपदे प्रसिद्धमन्नम् । तच्च नीलवर्णम् T प्रथमः सर्गः अङ्ग तुङ्गशशाङ्कशङ्खधवलं कोटीरभारे परे बालादित्यकराङ्कुरप्रतिभटं कण्ठे घनश्यामलम् । सत्त्वादीनपि बिभ्रतं त्रिजगतां रक्षादिसिद्ध्यै गुणा-. नाबद्धाञ्जलि बालचन्द्र निलयं मारारिमाराधये ॥ ५ ॥ कृष्णो विबुधाधिपतिर्निष्णातो वितरणेषु विद्यायाः । मुष्णातु हृदयतिमिरं पुष्णातु च मङ्गलानि सकलानि॥६॥ प्राचीनाचार्यकृताः सुविचार्य कुमारसम्भवव्याख्याः । बालप्रबोधनार्थे ललितं करवाणि विवरणं तस्य ॥ ७ ॥ प्राचीनसूरिविहिते महति प्रभूते व्याख्यान्तरे विफल एष परिश्रमो मे । वाति प्रकामसुभगे मलयाद्रिजाते वाते फलं किमु करोति मुखानिलोऽयम् ॥ ८ ॥ व्याख्यैषा तु तथापि प्रदर्शितान्वयपदार्थवाक्यार्था । विवृतसमासा पठतां गुरुतरमुपकारमारचयेत् ॥ ९ ॥ व्याख्यान्तरेषु दृष्टेषु विमृष्टेष्वपि तत्त्वतः । सुभगः शिवदासोक्तो मार्ग एवानुगम्यते ॥ १० ॥ इह खलु महाकविः कालिदासः पार्वतीपरमेश्वरपवित्रचरित्रविचित्रं कुमारसम्भवाभिधानं काव्यं चिकीर्षुः ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्’ इति वचनानुसारेण वस्तुनिर्देशं तावत् करोति अस्तीति । ननु काव्ये यत् साध्यं तदनुसारेणैव काव्यसंज्ञा कर्तव्या, यथा युधिष्ठिरविजयजानकीहरणशिशुपालवधप्रभृतीनाम् । अत्र तु तारकासुरनिग्रहः काव्ये साध्यतया निर्दिष्टः, ‘तस्मिन् विप्रकृताः काले तारकेण दिवौकसः’ (कुसं. २.१ ) इत्युपक्रमात् । तस्मात् तारकवध इत्येव संज्ञा कर्तव्या। तत्पर्यन्तं च काव्यं प्रवर्तयितव्यम्। न चैतत् कृतम्। तस्मादसमञ्जसमिदं काव्यम् । अपि च कुमारोत्पत्तिपर्यन्तमपि न काव्यं कृतम्। तस्मादनुपपन्नमिदं नामापीति । अत्रोच्यते । नात्र तारकासुरनिग्रहः काव्ये साध्यः । ‘तदिच्छामो विभो ! सृष्टं सेनान्यं तस्य शान्तये’ ( कुसं. २.५० ) इति देवैः कुमारसृष्टिमात्रस्यैव ब्रह्माणं प्रति प्रार्थितत्वात्। तारकासुरनिग्रहस्तु कुमारोद्भव प्रस्तावकतया निमित्तत्वेनोपक्षिप्तः, यथा किरातार्जुनीये दुर्योधनजयः । तस्मात् कुमारसम्भव इत्येव संज्ञा युक्ता । नचैवं सति तत्पर्यन्तं काव्यं प्रवर्तयितव्यमिति वाच्यम्। १. बालमन्द। उमारूपेण ते यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ (कु. सं. २.५९)कुमारसम्भवे इति ब्रह्मणः प्रतिवचनेन शम्भोश्चित्ताकर्षणमात्रस्यैव परमसाध्यत्वेन प्रतिपादनात् । कारणपौष्कल्ये कार्यस्यावश्यम्भाव एव ब्रह्मणस्तथा निर्देशे हेतुरिति चावगन्तव्यम् । शम्भोश्चित्ताकर्षणं पुनरष्टमे सर्गे विस्तरतः प्रतिपादितम्। यथोक्तमन्त्यश्लोके- समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमदृतूनां साग्रमेका निशेव । स न सुरतरसेषुच्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥ इति । उक्तं च पञ्चमसर्गान्ते देवीं प्रति देवेनैव ‘अद्यप्रभृत्यनवमताङ्गि ! तवास्मि दासः क्रीतस्तपोभिरिति । तस्मादुमारूपेणेत्युपक्रमाद् अद्यप्रभृतीति परामर्शात् समदिवसनिशीथमित्युपसंहाराच्च शम्भोश्चित्ताकर्षणमात्र एव तात्पर्यम्, उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ इति वचनात् । सम्भोगवर्णनेन । तच्च सम्यक् प्रतिपादितम्। अष्टमस कुमारोत्पत्तेर्बिन्दूपक्षेपोऽपि कृत इति सर्वमनवद्यम् । यत्त्वत्र तारकासुरनिग्रहपर्यन्तं चिकीर्षितमिदं काव्यं निजसम्भोगवर्णनेन कुपिताया देव्याः शापादसंपूर्णं जनितमिति कैश्चिदुक्तं, तदप्युक्तया रीत्या परिहृतं वेदितव्यम् । कवेश्चिकीर्षाया एतत्पर्यन्तत्वस्य समर्थितत्वात्। देव्याः शापाभावं पुनरष्टमसर्गादौ निपुणमुपपादयिष्यामः । ननु कुमारसंभव इत्यत्र कः समासः । षष्ठीतत्पुरुष इति ब्रूमः । नचैवं सति कुमारसंभव - रूपार्थपरत्वाच्छब्दस्य कुमारसंभवः काव्यमिति सामानाधिकरण्यं न स्यादिति वाच्यम्, अभिधेयेनाभिधायकस्यापि बहुशो व्यपदेशदर्शनात् । यथा जानकीहरणं प्रबन्धः शिशुपालवधः काव्यमित्यादिष्वित्यलमतिप्रसङ्गेन । प्रकृतमेवानुसरामः । उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः अस्ति। उत्तरस्यां दिशीत्यनेन हिमवतो देवभूमिष्वन्तर्भाव उक्तः । वक्ष्यति च पितुः प्रदेशास्तव देवभूमयः’ (कुसं. ५.४५ ) इति। उत्तरस्यां दिशि देवभूमयः, दक्षिणस्यां दिश्यसुरभूमयः, मध्ये मनुष्यभूमय इति पुराणप्रसिद्धिः। हिमानां तुषाराणामालयो हिमालयः । नामेति प्रसिद्धिवाचकमव्ययम्। हिमवानिति प्रसिद्ध इत्यर्थः । नगानां पर्वतानामधिराजो नगाधिराजः । अधिराजः श्रेष्ठः । अस्ति भवति । अत्रास्तीति बर्तमाननिर्देशेन परमेश्वरश्वशुरस्यास्य नित्यत्वमुक्तम्। ‘आसीदुदीच्यां दिशी - त्यादिरीत्या विनाशसहधर्मचारिण्या उत्पत्तेरनुपादानात्। वक्ष्यमाणानां चेतनेष्वेवोपपन्नानां विवाहपुत्रोत्पादनादिधर्माणाम् उत्पत्तिं दर्शयन् नगाधिराजं विशिनष्टि देवतात्मेति । देवतास्वरूपः न केवलं स्थावरात्मेत्यर्थः । हिमवत आयामविस्तरादिकं दर्शयति – पूर्वापरौ वारिनिधी विगाह्य प्रथमः सर्गः स्थितः । पूर्वमपरं च पूर्वापरौ प्राच्यपश्चिमौ वारिनिधी समुद्रौ विगाह्य सम्प्राप्य स्थितः अवस्थितः । अत एवोत्प्रेक्षते - पृथिव्या मानदण्ड इवेति । पृथिव्या भूमेः मानाय परिच्छेदाय दण्डो मानदण्डः । मानदण्डो हि मेयेन तुल्यपरिमाणो भवति । ननु परमेश्वरो ह्यत्र नायकः । तन्निर्देशाभावे कथमत्र वस्तुनिर्देशः । उच्यते। अत्र पताकावृत्तनायकभूतस्य हिमवतो निर्देशाद् वस्तुनिर्देशः । कथाशरीरं हि वस्तुशब्देनोच्यते । तत्र प्रधानभूतत्वान्नायकोऽपि वस्तु निर्देश्यम् । नायकास्तु प्रधाननायकपताकानायकप्रतिनायकभेदेन त्रिविधाः । तत्र घंघणाचार्यः कथायां प्रधानभूतस्य नायकस्य निर्देशो वस्तुनिर्देश इत्युक्त्वा ‘श्रियः पतिः श्रीमति शासितुं जगद्’ इत्यादिश्लोकमुदाहृतवान्। भोजराजस्तु हयग्रीववधे काव्ये ‘आसीद् दैत्यो हयग्रीव’ इत्यादिश्लोकमुदाहृत्य प्रतिनायक निर्देशस्यापि वस्तुनिर्देशत्वमुक्तवानिति युक्तमत्र पताकानायकनिर्देशस्यापि वस्तुनिर्देशत्वमित्यलमनेन । न च वस्तुनिर्देशमात्रोपक्रमेषु काव्येषु कविभिः शिष्टाचारसिद्धो मङ्गलाचारः समुपेक्षित इति शङ्कनीयम्, तत्रापि मानसस्य वाचिकस्य वा पारमेश्वरस्य नमस्कारस्य तैरङ्गीकृतत्वात् । अङ्गीकृतत्वे च तेषां शिष्टत्वमेव प्रमाणम्। कैश्चित् तु श्रोतृजनानुग्रहाय स्वग्रन्थेषु निवेश्यत इत्येव विशेषः । इह तु महाकविरादावस्तिपदप्रयोगात् तेनैव परमार्थसतः परमात्मन एव प्रतिपादनाद् देवतात्मनो हिमवतः प्रतिपादनाच्च निष्प्रत्यूहपरिसमाप्त्यादिप्रयोजनं शिष्टाचारसिद्धमिष्टदेवतास्मरणात्मकं मङ्गलमपि कृतवानेवेत्यवसेयम् । अत्र प्रकृतस्य हिमवतस्तुल्यपरिमाणत्वलक्षणसमानधर्मयोगात् पृथिवीमानदण्डत्वेन संभवनादुत्प्रेक्षालङ्कारः । ‘सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यद्’ इत्युत्प्रेक्षालक्षणम् ( काव्यप्रकाशे) ॥ १ ॥ अथ. यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे। भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥२॥ प्रकाशिका यत्तदादेरुपादानं क्रियाभ्याससमुच्चयौ । क्रियासमभिहारश्च वाक्यार्थान् युञ्जते मिथः || इति न्यायेन यच्छब्दपरामर्शेन वर्णनावाक्यार्थान् प्रकृतेन योजयति- यं सर्वशैला इति । पुरा किल पृथुरादिराजः प्रजानां सिद्धये गोरूपां पृथिवीं ६ कुमारसम्भवे तत्तददूदुहत् । तत्र च तेषु वर्गेषु यथोचितं दोग्धारो वत्साश्च परिकल्पिता इति तदनुसारेणेदं वाक्यम् । मेराविति सतिसप्तमीति दक्षिणावर्तः । भोजसूत्रं तु ‘क्रियार्हस्य कारकत्वम्’ इति सप्तमीविधायकम्। दुदुहुरित्यन्तर्भावितण्यर्थत्वान्मेरोदग्धृत्वं न व्याहतम् । अनेन भुवः साराग्र्यवस्तु पात्रत्वमस्य हिमवतो द्योत्यते । यतो वत्सपीतशेषं दोग्धार उपयुञ्जते। मेरुहिमवतोर्दोग्धृत्ववत्सत्वकरणवद् धरित्र्या गोत्वकरणमपि पृथूपदिष्टामिति विशेषणवशाल्लभ्यते ॥ २ ॥ विवरणम् अथ षोडशभिः श्लोकैरयमेव गिरिवर्यो यच्छब्दवाक्यैरुपवर्ण्यते । न च तत्रत्यानां यच्छब्दानां तच्छब्दाकाङ्क्षा, प्रागेवाध्याहृततच्छब्देन हिमालयशब्देनैवाकाङ्क्षानिवृत्तेः, यत्तदादेरुपादानं क्रियाभ्याससमुच्चयौ । क्रियासमभिहारश्च वाक्यार्थान् युञ्जते मिथः || इति न्यायात् । तत्रादौ हिमवतः स्वजातिश्रेष्ठत्वमाह- यमिति । मेरौ दोग्धरि स्थिते सर्वशैलाः यं वत्सं परिकल्प्य धरित्रीं भास्वन्ति रत्नानि महौषधीश्च दुदुहुः । मेरौ महामेरौ दोग्धरि दोहनं कर्तरि स्थिते अवस्थिते । अत्र ‘क्रियार्हस्य कारकत्वम्’ इति भोजसूत्रेण सप्तमी । अत्र दोहनक्रियार्हस्यैव कारकत्वात् । सर्वशैलाः सर्वे निषधविन्ध्यादयोऽन्ये शैलाः यं हिमवन्तं वत्सं परिकल्प्य वत्सत्वेन कल्पयित्वा धरित्रीं भूमिं भास्वन्ति प्रशस्तशोभायुक्तानि, प्रशंसायां मतुप् रत्नानि मकतपद्मरागमौक्तिकप्रभृतीन् मणीन् महौषधीः महतीः वीर्ययुक्ताः ओषधीः मृतसञ्जीविनीप्रभृतीः । चकारः समुच्चयार्थः । दुदुहुरित्यत्रान्तभूतण्यर्थत्वं द्रष्टव्यम्। अन्यथा मेरोर्दोग्धृत्वनिर्देशानुपपत्तेः । दोहयामासुरित्यर्थः । अत्र दुहेर्द्विकर्मकत्वाद् धरित्र्या रत्नादीनां च कर्मत्वम् । तत्र धरित्र्या ‘अकथितं च’ ( १.४.५१) इति कर्मसंज्ञा । रत्नमहौषधीनां ‘कर्तुरीप्सिततमं कर्म’ (१.४.४९) इति कर्मसंज्ञा। हिमवतो वत्सत्वनिर्देशाद् दोहनकर्मभूताया धरित्र्याः पशुरूपधारणमितिहासप्रसिद्धमर्थादायातीति तन्त्रोक्तम् । मेरोर्दोग्धृत्वे हेतुमाह — दोहदक्ष इति । दोहने दक्षे विदग्धे । यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेदिति हि न्यायविदो वदन्ति । ननु कथं पृथिव्यां तत्र तत्रावस्थितानां रत्नमहौषधीप्रभृतीनां दोहनोपपत्तिः, अत आह— पृथूपदिष्टामिति । पृथुर्नाम नारायणांशभूतो राजा । वेनो नामाभवद्राजा दुश्शीलो दुष्पराक्रमः । तं शप्त्वा मुनयो जग्मुः पीडितास्तदुपद्रवैः || राजाभावात् ततो जाता धरित्री दुर्जनाकुला । ततस्ते मुनयः सर्वे सञ्चिन्त्य मनसा हरिम् ॥ प्रथमः सर्गः ममन्थुस्तस्य वेनस्य गतप्राणं कलेवरम् । तस्मादभून्महातेजा अरणेरिव पावकः ॥ नारायणांशसम्भूतः पृथुः पृथुपराक्रमः । इति भागवतप्रसिद्धायाः पृथूत्पत्तेः संक्षेपः । तेनोपदिष्टाम्। जनानामभीष्टदोहनार्थं त्वयानुकूलया भवितव्यमित्युपदेशप्रकारः । पुरा किल पृथुः क्षुत्क्षामदेहानां प्रजानाम् अन्नपानाद्यभीष्टसिद्ध्यर्थं गोरूपधरामुर्वीं प्रजाभिरात्माभीष्टमर्थं दोहयामास । तत्र तेषु तेषु वर्गेषु यथोक्तं दोग्धारो वत्साश्च परिकल्पिता इति भागवतप्रसिद्धा कथानेन वाक्येनोच्यते । नहि नारायणप्रभावात् किमपि दुर्लभमिति भावः । अत्र हिमवतो वत्सत्वनिर्देशाद् वसुन्धरासारभूतानां रत्नादीनां समृद्धिर्हिमवति द्योत्यते । वत्सनिपीतशेषं दोग्धार उपयुञ्जत इति न्यायात् । अपि च देवादीनामिष्टदोहने महेन्द्रादीनां स्वजातिश्रेष्ठानामेव वत्सत्वं परिकल्पितम् । सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पयः । सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताः । ( श्री भा. ४.१८.२६) इति भागवतवचनात् । अतो हिमवतः स्वजातिश्रेष्ठत्वमनेन श्लोकेनोच्यते ॥२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः॥३॥ प्रकाशिका अनन्तेति । रत्नान्युत्तमवस्तूनि तेषां प्रभवो जन्मकारणम् । सौभाग्यमभिगम्यता । सन्निपातो बहूनां समवायः । निमज्जति न्यग्भवति । ननु विशेषस्य सामान्येन समर्थने किमत्र दृष्टान्तेन, यः खलु यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुषण्डे स्मरदवः ॥ इत्यत्र काव्यानुमानेऽपि कार्कश्यभयात् तर्कानुमान इव न प्रयुज्यते । तत्र ह्यप्रतीतप्रतीत्युत्पादनं क्रियते । अर्थान्तरन्यासे तु प्रतीतोपपादनम् । न च क्वचिदीदृशे विषये दृष्टान्तो दृश्यते । न च वाच्यं, कुमारसम्भवे गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गडि ः || इत्यत्र सामान्यस्य समर्थको यो विशेषः, स दृष्टान्त एव एवमिहापि दृष्टान्तोऽस्त्विति । यतस्तत्र स एव समर्थकः प्रकृतायाः सामान्यव्याप्तेः । इह तु प्रकृतस्य विशेषस्य समर्थिका सेति विशेषः । न च तस्या अपि स्थिरीकरणाय दृष्टान्तोऽपेक्ष्यः । न हि काव्ये प्रमाणप्रतिपन्नेनैवार्थेन व्यवहारः, प्रतीतिमात्रस्यैव उपयोगात्। तत् कथमत्र दृष्टान्तः । उच्यते । न तावदयं दृष्टान्तो व्याप्तिविरोधी, किन्त्वतिरिक्त इति शङ्क्यते । न च नैवं शङ्क्यम् । चारुत्वाधानात् । अर्थान्तरन्यासस्य ह्यस्य शृङ्गाराङ्गभूतः स्वभावसुकुमारोऽयं दृष्टान्तश्चारुत्वमाधत्ते । उक्तं च कुन्तकेन— अलंकारस्य कवयो यत्रालङ्करणान्तरम् । असन्तुष्टा निबन्धन्ति हारादेर्मणिबन्धनम्॥ इति । यः पुनर्यच्छब्दवाक्यस्य तच्छब्दवाक्येन साकाङ्क्षत्वादर्थान्तरन्यास-वाक्येनासम्बन्धः कैश्चिच्छङ्कितः, सोऽपि न यतोऽत्र द्विधाकाङ्क्षा, शाब्दी चार्थी च । तत्र प्रथममर्थस्य स्वभावकृतत्वादन्तरङ्गभूताया आर्थ्या आकाङ्क्षाया अर्थान्तरन्यासवाक्यान्वयेन निवृत्तौ पश्चादितरान्वयेनेतरा निवर्तते ॥३॥ विवरणम् नन्वस्य सर्वगुणास्पदत्वेऽपि हिमदोषदूषितत्वात् कुतो वैशिष्ट्यम्, अत आह— अनन्तेति । अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । अनन्तरत्नप्रभवस्य अनन्तानां निरवधिकानां रत्नानामुत्तमवस्तूनां प्रभवस्य जन्मकारणस्य यस्य हिमवतः हिमं ‘तुषारस्तुहिनं हिमम्’ इत्यमरः । सौभाग्यविलोपि सौभाग्यम् अभिगम्यतागुणं विलोप्तुं नाशयितुं शीलं यस्य तादृशम् । अत्र रत्नशब्दः स्वजातिश्रेष्ठवाची ‘रत्नं स्वजातिश्रेष्ठेऽपीत्यमरः । उमाख्यस्य कन्यारत्नस्य, वैदूर्यादीनां मणिरत्नानां, देवदारुप्रभृतीनां वृक्षरत्नानां, मृतसञ्जीवनीप्रभृतीनाम् औषधरत्नानां, गङ्गादीनां सरिद्रत्नानां, सोमलताप्रभृतीनां यज्ञद्रव्यरत्नानां च प्रभवस्य जन्मकारणभूतस्य यस्य हिमदोष एको रमणीयतामपहन्तुं न शशाकेत्यर्थः । उक्तमर्थमर्थान्तरन्यासेन समर्थयते - एको दोषो गुणसन्निपाते निमज्जति हि । एकः असहायो दोषः गुणसन्निपाते एकत्र समवाये निमज्जति न्यग्भवति, तिरस्कृतो भवतीत्यर्थः । हिशब्दः प्रसिद्धौ। ‘हि हेतौ च प्रसिद्धौ च’ इति भोजः । अत्र स्वभावसुकुमारं दृष्टान्तमुपन्यस्यति – इन्दोः किरणेषु अङ्क इव । इन्दोश्चन्द्रस्य किरणेषु रश्मिषु अङ्कः कलङ्क इव। ‘कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणमित्यमरः । न चात्रार्थान्तरन्यासस्य तर्कसमय इव दृष्टान्तेन समर्थनं, न प्रथमः सर्गः शृङ्गाराङ्गमिति शङ्कनीयम् । अत्र दृष्टान्तस्य विशेषतश्चारुत्वाधानमात्रपरत्वादिति । यथाह कुन्तकाचार्यः- अलङ्कारस्य कवयो यत्रालङ्करणान्तरम् । SSTR असन्तुष्टा निबन्धन्ति हारादेर्मणिबन्धवत् ॥ इति। (वजी. १.३५) अनेन श्लोकेनाभिगम्यत्वगुणयोगित्वं हिमवतः समर्थितम् । अत्र एको हि दोष इत्यत्र विशेषस्य सामान्येन समर्थनादर्थान्तरन्यासः । सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्र सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ (काव्यप्रकाशे) इति तस्य लक्षणम् । इन्दोः किरणेष्विवाङ्क इत्यत्र तूपमा । ’ साधर्म्यमुपमा भेद’ ( काव्यप्रकाशे] इति तल्लक्षणम् । अत्र तु तयोः संयोगरूपेणावस्थानात् संसृष्टिरलङ्कारः । एषां तिलतण्डुलन्यायेन मिश्रत्वे संसृष्टिः’ इति तल्लक्षणम् । वस्तुतस्तु विकस्वरालङ्कार एव । यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरितुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमारीत्या अर्थान्तरन्यासविधया वा विन्यस्यते, तत्र विकस्वरालङ्कारः । ’ यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः’ इति च [ चन्द्रलोके] तल्लक्षणम् ॥३॥ यश्चाप्सरोविभ्रमण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् ॥४॥ प्रकाशिका यश्चेति । चो वाक्यार्थसमुच्चये । विभ्रमेति विलासेन क्रियमाणानां मण्डनानां तदुपकरणीभावेन सम्पादयित्रीम् । वलाहकच्छेदाः सन्ध्यावायुना विच्छिन्ना मेघाः । यदुक्तं रघुवंशेऽपि दिनान्तमुग्रानिलभिन्नमेघम्’ (१६.११) इति । तेषु विभक्तः संक्रमितः स्वरूपभूतो रागो यया । अकालसन्ध्यामादित्यास्तमयकालव्यतिरिक्तकालभवां सन्ध्याम्। धातुमत्तां धातुसम्पदम् । अत्र शिखरप्रतिवस्तुभूतवलाहकच्छेदविभक्तरागया अकालसन्ध्यया शिखरगता धातुसम्पदध्यवसीयते, न तूपमीयते, सिद्धेनैवोपमानेन भवितव्यमिति । अयं च विवेको रघुवंशप्रकाशिकायां विस्तरेणास्माभिः कृतः, तत एवावधार्यताम् । दक्षिणावर्तस्तु ‘विभ्रमस्त्वरयाकाले भूषास्थानविपर्यय’ इति लक्षणानुसारेण विभ्रमशब्दं व्याख्याय यस्य शिखरलग्नां १० कुमारसम्भवे धातुमत्तामालोक्याकाले सायंसन्ध्याभ्रमेण त्वरमाणाः सायन्तनमण्डनमयथायथमप्सरसः कुर्वन्तीत्यभिप्राय इति व्याचष्ट । न चैतद् युक्तम् । स ह्यर्थो विभ्रमशब्दस्य शास्त्रव्यवहार एव । लोके तु विलासपर्यायो विभ्रमशब्दः । यथा ‘विव्वोकैर्बक - सहवासिनां परोक्षैरि’ त्यत्र विव्वोकदशब्दः । तदर्थत्वे मण्डनशब्दश्चातिरिक्तः । न च तासां तथा भ्रमः केनचिच्छब्देनोक्तः, यथा- कपाक्ते मार्जारः पय इति कराँल्लेढि शशिन- स्तरुच्छिद्रप्रोतान् विसमिति करी सङ्कलयति । रतान्ते तल्पस्थान् वसनमिति गृह्णाति वनिता प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥ इत्यत्र, येन तासामयथायथं मण्डनमुपपद्यते । न च कविकर्तृका तत्सम्भावना तदुपपादयितुमलं व्यधिकरणत्वात् । यदप्यत्रान्यदवकरप्रायमस्य व्याख्यानं, तद् विस्तरभयान्नोद्भाव्य दूषितम्॥४॥ , विवरणम् अथ शृङ्गाराङ्गभूताङ्गरागास्पदत्वेनाप्यस्य सर्वपर्वतोत्कर्षमाह- यश्चेति । यः शिखरैः धातुमत्तां बिभर्ति च । यो हिमवान् शिखरै शृङ्गः ‘कूटोऽस्त्री शिखरं शृङ्गमित्यमरः । धातुमत्तां धातुसम्पदमित्यर्थः । बिभर्ति दधाति । चकारः पूर्वोक्तगुणग्रामसमुच्चयार्थः । धातुसम्पदां रमणीयत्वमाह - अप्सरोविभ्रममण्डनानां सम्पादयित्रीमिति । अप्सरसाम् अप्सरः स्त्रीणां विभ्रमेण विलासेन ‘विभ्रमः सम्भ्रमे भ्रान्तौ शोभायां चे ‘ति वैजयन्ती । क्रियमाणानां मण्डनानामलङ्काराणां सम्पादयित्रीं स्वयमेव तदुपकरणतां सम्प्राप्य सम्पादयित्रीम् । अनेन विशेषणेन धातुसम्पदामप्रयाससाध्यत्वाद् अन्यालङ्कारसाधनेभ्यो व्यतिरेको दर्शितः । तादृशीं धातुसम्पदामुत्प्रेक्षते - वलाहकच्छेदविभक्तरागामकालसन्ध्यामिवेति। वलाहकच्छेदेषु छिन्नेषु वलाहकेषु । अत्र छेदशब्देन छिन्नं द्रव्यं लक्ष्यते । कार्यकारणभावश्च सम्बन्धः । छेदस्य तात्कालिकत्वप्रतिपादनेन मनोहारित्वप्रतीतिः सन्ध्यावायुना विच्छिन्नेषु मेघेष्वित्यर्थः । उक्तं च रघुवंशे ‘दिनान्तमुग्रानिलभिन्नमेघम् ( १६.११) इति । विभक्तस्तादात्म्येन सङ्क्रमितो रागो यया ताम् अकालसन्ध्याम् आदित्यास्तमयकालव्यतिरिक्तकालसम्भवां सन्ध्यामिव । अत्र शिखरस्थानीयानि वलाहकशकलानि, अकालसन्ध्या तु धातुसम्पत्स्थानीयेति विवेकः । धातुसम्पदां रागातिशय उत्प्रेक्षाहेतुः । गोरोचनाद्यलङ्कारान्तरानादरप्रतीतिः फलम् ॥ ४ ॥ फलम्। प्रथमः सर्गः पदं तुषारस्स्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम्। विदन्ति मार्गं नखरन्ध्रमुक्तै- मुक्ताफलैः केसरिणां किराताः ॥ ५ ॥ प्रकाशिका ११ पदमिति । पदमङ्घ्रिविन्यासप्रतिबिम्बम् । तस्य तुषारस्रुतिधौतरक्तत्वाददर्शनम् । कुटिलत्वात् सरन्ध्रेषु नखेषु लग्नानां मुक्तानां पदविन्यासवशाद् गलनमित्यवसेयम्। अत्र मुक्तासंपदुदात्तमलङ्कारः ॥५॥ विवरणम् सत्स्वपि सर्वेषु रत्नेषु हिमवति मुक्ताफलानां प्राचुर्यमाह- पदमिति । किराताः यस्मिन् हतद्विपानां केसरिणां पदम् अदृष्ट्वापि नखरन्ध्रमुक्तः मुक्ताफलैः मार्ग विदन्ति । किराता वनेचरा यस्मिन् हिमवति हतद्विपानां हताः निहताः द्विपाः गजाः यैः तेषां केसरिणां सिंहानां ‘सिंहो मृगेन्द्रः पश्चास्यो हर्यक्ष ः केसरी हरिरित्यमरः । पदम् अङ्घ्रिविन्यासप्रतिबिम्बम् । ‘पदमङ्घ्रौ’ इत्यारभ्य ‘चिह्नेऽङ्घ्रिविन्यासे’ इति केशवः । अदृष्ट्वा अनवलोक्यापि । अपिशब्दो विरोधमाह । नखरन्ध्रमुक्तैः नखानां रन्ध्रेभ्यो मुक्तैर्गलितैः । सिंहनखानां सरन्ध्रत्वं प्रसिद्धम् । मुक्ताफलैर्मौक्तिकैः मार्गं पन्थानं केसरिणामित्यनुषज्यते । विदन्ति जानन्ति । शोणिताक्तस्य पदस्यानवलोकने हेतुमाह - तुषारस्स्रुतिधौतरक्तमिति । तुषारो हिमम् ‘तुषारस्तुहिनं हिमम्’ इत्यमरः । तस्य स्रुतिभिः आस्रवैः धौतं क्षालितं रक्तं शोणितं यस्मिंस्तत् । अयमभिप्रायः – सर्वेषु हि पर्वतेषु हतगजानां सिंहानां शोणिताक्तानङ्घ्रिप्रतिबिम्बानवलोक्य किरातास्ताननुगच्छन्ति । हिमवति पुनः शोणितानामनवरतस्रुतहिमजलसंक्षालितत्वात् तादृशान् पदविन्यासानवलोक्यानुगन्तुमसमर्था अपि कुटिलेषु सरन्ध्रेषु नखेषु गजमस्तकेभ्यो लग्नानां मुक्ताफलानां पदविन्यासवशात् क्रमेण गलितत्वात् तान्येवावलोक्य सिंहानां मार्गमनुगच्छन्तीति । मौक्तिकानामुत्पत्तिर्गजेन्द्रेभ्योऽप्यस्तीत्युक्तमगस्त्येन— द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि। मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥ इति । अत्रोदात्तमलङ्कारः, दर्शनसमय एवादाय रक्षितव्यानां मौक्तिकानां सिंहमार्गप्रदर्शनोपक्षीणत्वप्रतिपादनेन मुक्तासम्पदामुपादानात् । ‘उदात्तं वस्तुनः संपद्’ इति तल्लक्षणम् ॥५॥ १२ कुमारसम्भवे आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ ६ ॥ प्रकाशिका आमेखलमिति । अभिविधावाङ्। अद्रेर्मध्यसानुप्रदेशेष्वित्यर्थः । सिद्धाः प्राप्ताष्टगुणैश्वर्या विश्वावसुप्रभृतयो देवयोनयः । छायाया निषेवणं ग्रीष्म आतपोद्वेगाद्, यथा वर्षासु वृष्ट्युद्वेगादातपस्य ॥६॥ हिमवतः सर्वकालरमणीत्वमाह- विवरणम् आमेखलमिति । सिद्धाः आमेखलं संचरतां घनानां छायाम् अधस्सानुगताः निषेव्य वृष्टिभिः उद्वेजिता यस्य शृङ्गाणि आश्रयन्ते । सिद्धाः संप्राप्ताष्टैश्वर्या विश्वावसुप्रमुखा देवयोनयः । आमेखलम्, अभिविधावाङ् । मेखला मध्यसानुप्रदेशः । तत्रैव सञ्चरतामित्यर्थः । घनानां मेघानां छायाम् अनातपम् । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातप’ इत्यमरः । अधस्सानुगताः अधोभागे ये सानवः प्रस्थाः ‘स्नुः प्रस्थः सानुरस्त्रियाम्’ इत्यमरः । तान् गताः प्राप्ताः सन्तः उष्णबाधानिवृत्तिपर्यन्तं नितरां सेवित्वा । छायानिषेवणे पूर्वमातपोद्वेजितं हेतुरिति द्रष्टव्यम्। पुनश्च वृष्टिभिरुद्वेजिताः पीडिताः सन्तो यस्य हिमवतः शृङ्गाणि शिखराणि आश्रयन्ते सेवन्ते । हिमवच्छिखरेषु वर्तमाना गन्धर्वादयः पूर्वमातपोद्वेजिताः किंचित्कालमधोवर्तिनो भूत्वा छायासुखमनुभूय पुनश्च शीतबाधायां जयमानायां शृङ्गप्रदेशमेवाश्रयन्त इत्यर्थः । शृङ्गनिषेवणे हेतुमाह-आतपवन्तीति । प्रशंसायां मतुप् । प्रशस्तातपयुक्तानीत्यर्थः। प्रशस्तत्वं च सद्य एव शीतबाधकत्वात् । अत्र पर्वतवर्तिनां जनानां छायातपयोर्यथेष्टनिषेवणप्रतिपादनेनातिक्रान्तमेघमार्गत्व-प्रतिपादनेन चास्य सर्वकालरमणीयत्वमौन्नत्यं चोक्तम् । अत्र काव्यलिङ्गमलङ्कारः । वृष्टिभिरुद्वेजिता इति पदद्वयस्य आतपवन्तीति पदस्य च शृङ्गनिषेवणे हेतुत्वेनोपादानात् । ‘काव्यलिङ्गं हेतोर्वाक्यपदार्थता’ इति [ काव्यप्रकाशे] तल्लक्षणम्। अयमलङ्कारः सार्वत्रिकः ॥६॥ १. गताः N प्रायेण प्रथमः सर्गः न्यस्ताक्षरा धातुरसेन यत्र १३ कि भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणा- मनङ्गलेखक्रिययोपयोगम्॥७॥ प्रकाशिका न्यस्ताक्षरा इति । कुञ्जरा इव बिन्दुशोणाः । ’ उपमानानि सामान्यवचनैः’ (२.१.५५) इति समासः । कुञ्जरेषु पद्मकाख्यं बिन्दुजालकम्। ‘बिन्दुः पद्मकं बिन्दुजालकम्’ इति सिंहः । भूर्जत्वक्षु धातुद्रवबिन्दुर्बिन्दुः । कुञ्जरस्थानीया भूर्जत्वचः । बिन्दुजालकस्थानीया धातुद्रवविहिताक्षरबिन्दवः । अनङ्गसूचकं पत्रमनङ्गलेखः तस्य क्रियया करणेन उपयोगमङ्गभावम् अर्थात् प्रियतमाह्वानादौ । विद्याधराः खड्गगुलिकाञ्जनादिविद्याधारिणो जीमूतवाहनादयः ॥७॥ विवरणम् अथ शृङ्गाराङ्गभूतपदार्थसमृद्धिरस्मिन् पर्वते चतुर्भिः श्लोकैरुपवर्ण्यते । तत्रादौ प्रियतमानयनादौ यदुपकरणं, तस्य समृद्धिमाह — न्यस्ताक्षरेति । यत्र भूर्जत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति । भूर्जत्वचः मृदुतरास्तद्देशसुलभा वृक्षत्वग्विशेषाः । ‘भूर्जपत्रो भुजो भूजों मृदुत्वक् चर्मचर्मिका’ इति यादवः । विद्याधरसुन्दरीणां विद्याधरस्त्रीणाम् अनङ्गसूचकं पत्रम् अनङ्गलेखः तस्य क्रियया करणेन उपयोगम् अङ्गभावं प्रियतमाह्वानादावित्यर्थात् सिध्यति। सर्वत्र हि तालीपत्रादौ आत्मनः सन्देशान् विलिख्य कामिन्यः कामुकेभ्यः प्रयच्छन्ति, हिमवति तु भूर्जत्वक्ष्विति भावः । तेन च मनोहरतराणां भूर्जत्वचां सुन्दरीणां च निरवधिकत्वं ध्वन्यते । उपयोगप्रकारमाह – धातुरसेन न्यस्ताक्षरा इति । धातुरसो धातुद्रवः तेन न्यस्तानि लिखितान्यक्षराणि यासु तास्तथा। गैरिकरसविलिखिताक्षरा इत्यर्थः । अत एव कुञ्जरबिन्दुशोणाः कुञ्जरा इव बिन्दुशोणाः । ‘उपमानानि सामान्यवचनैः’ (२.१.५५ ) इति समासः । बिन्दुभिः शोणा ः बिन्दुशोणाः । कुञ्जरेषु बिन्दवः पद्मकानि । ‘पद्मकं बिन्दुजालकम्’ इत्यमरः । भूर्जत्वक्षु धातुद्रवबिन्दवः । अनेन विशेषणेन परभागदर्शनीयत्वमपि भूर्जत्वचां प्रतिपादितम् ॥७॥१४ कुमारसम्भवे यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥ ८ ॥ प्रकाशिका य इति । कीचका वेणवः । ‘वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ’ इति सिंहः । किन्नरा अश्वमुखा देवगायना इति दक्षिणावर्तः । तत्र निरूप्यते । ‘बिम्बोष्ठं बहु मनुते तुरङ्गवक्रश्चुम्बन्तं मुखमिह किन्नरं प्रियायाः’ ( ४.३८) इत्यत्र माघप्रयोगे अश्वमुखादन्यः किन्नर इति प्रतीयते । भट्टमयूरप्रयोगे तु मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये वीक्ष्य व्रीलावतीनां प्रतिकुहरमुखं किन्नरीणां मुखानि । सूतेऽसूयत्यपीषज्जलगति वहतां कन्धराधैर्वलद्भि- र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ इत्यत्राश्वमुखः किन्नर इति प्रतीयते। अत्र हि कुहरस्थानां तासां मुखमात्रदर्शने वाहानां स्वजातिभ्रमादभिलाषः, ‘नान्ययोनिषु गन्धर्वा मनः कुर्वन्ति सङ्गम’ इति वचनात्। तस्मादश्वमुखानश्वमुखभेदेन द्विधा किन्नरजातिः । सा च मुखमात्रे तद्व्यतिरिक्तगात्रमात्रे च नराकृतित्वात् किन्नरकिंपुरुषशब्दाभ्यां वितर्कव्युत्पादिताभ्यामुच्यत इत्यवसेयम् । तानो नामोद्गातव्यस्य स्वरादेरियत्तापरिच्छेदः । स चांशस्वर उच्यते। अत्राभिनवगुप्तः- द्विकत्रिकचतुष्काः स्युर्ज्ञेया वंशगताः स्वराः । अधोऽधस्तारतां प्राप्तास्तानस्त्वंशस्वरो मतः । इति । अंशस्वरलक्षणे भरतः- रागोऽस्मिन् निवसति यस्माच्चापि प्रवर्तते । नेता च तारमन्द्राणां योऽत्यर्थं चोपलभ्यते ॥ ग्राहोपन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यश्चेह सोऽशः स्याद् दशलक्षणः ॥ इति । तानप्रदानं च वंशेनैव कार्यम् । ‘गाता यं यं स्वरं गच्छेत् तं तं वंशेन वादयेदिति भरतः । अत्र सर्वो वाक्यार्थ उत्प्रेक्ष्यते । ननु पूरणादेर्वास्तवस्य किमुत्प्रेक्षया । न गिरेस्तत्र तावत् पूरणव्यापारासम्भवः । तत एव च तत्कारक- प्रथमः सर्गः १५ वर्गस्याप्यसंभवः, क्रियापेक्षित्वात् कारकाणाम्। ततस्तत्सर्वमुत्प्रेक्षाप्राणकम् । तामेव च दरीमुखेति रूपकमुपस्करोति । यथा ‘पिनष्टीव तरङ्गायैरुदधिः फेनचन्दनम्’ इत्यत्र । एवं तत्कर्तृकायामिच्छायां तदङ्गभूतपदार्थवर्गे चोत्प्रेक्षा । तर्हीवशब्दः केनान्वयमुपेयात् । प्रधानभूतेनेच्छतिना । प्रधानभूततदर्थोत्प्रेक्षयैव सामर्थ्या दितरोत्प्रेक्षासिद्धेः । यथाह महिमा - इति||८|| एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः । 1 तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यतः ॥ (व्यक्तिविवेके पृ. ४५० ) उद्दीपनसद्भावमप्याह- विवरणम् य इति । यः दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छतीव। यो हिमवान् दरीमुखोत्थेन दर्येव मुखं दरीमुखं, दरी गुहा । तस्या मुखत्वारोपो वंशपूरणोत्प्रेक्षासिद्ध्यर्थम् । दरीमुखादुत्तिष्ठतीति दरीमुखोत्थः । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कर्तरि कः । ‘उदः स्थास्तम्भोरि’ (८.४.६१ ) ति पूर्वसवर्णश्च। तेन समीरणेन वायुना कीचकानां सरन्ध्राणां वेणूनां ‘वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धता’ इति सिंहः । रन्ध्रभागान् रन्ध्रप्रदेशान् । ‘भागः प्रदेशे शकले भागधेये च कथ्यते’ इति भोजः । पूरयन् सन् उद्गास्यताम्। ‘लृटः सद्वा’ (३.३.१४) इति लृटः शत्रादेशः । उच्चैर्गानं करिष्यतामित्यर्थः । तानप्रदानस्य गानारम्भात् पूर्वमेव कर्तव्यत्वनियमा-दुद्गास्यतामित्युक्तं त तूगाय तामिति । किन्नराणां किम्पुरुषाणाम्। अश्वमुखा अनश्वमुखाश्चेति द्विविधाः किन्नराः । अश्वमुखाः मुखव्यतिरिक्तेषु गात्रेषु नराकृतयः । अनश्वमुखास्तु मुखे नराकृतयः इतरत्र पश्वाकृतयः । अत एव नरः किमयं पुरुषः किमयमिति शङ्काजनकत्वादुभे च जाती किन्नरकिम्पुरुषाभ्यामुच्येते इति विवेकः । अत एव माघेन द्विविधा किन्नरजातिरुक्ता । बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्र- चुम्बन्तं मुखमिह किन्नरं प्रियायाः । श्लिष्यन्तं पुनरितरोऽपि तं , निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम्॥ इति। ( ४.३८) तानप्रदायित्वं तानं प्रदातुं शीलमस्येति तानप्रदायी, तस्य भावस्तत्त्वम्। उद्गातव्यस्य स्वरादेरियत्तापरिच्छेदस्तान इत्युच्यते । स एवांशस्वर इति च व्यपदिश्यते । यथोक्तमभिनवगुप्तेन- १६ कुमारसम्भवे द्विकत्रिकचतुष्काः स्युर्ज्ञेया वंशगताः स्वराः । अधोऽधस्तारतां प्राप्तास्तानस्त्वंशस्वरो मतः ॥ इति । अंशस्वरलक्षणं च भरतेनोक्तं- रागो यस्मिन्निवसति यस्माच्चापि प्रवर्तते। नेता च तारमन्द्राणां योऽत्यर्थं चोपलभ्यते॥ ग्रहोपन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यश्चेह सोऽशः स्याद् दशलक्षणः ॥ इति । तदुपगन्तुं प्राप्तुमिच्छतीव । तानप्रदानं च वंशेनैव कर्तव्यमित्याह भरतः’गाता यं यं स्वरं गच्छेत् तं तं वंशेन वादयेदिति । अत एव रघुवंशे वंशकृत्यमित्युक्तं स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम्’ (२.१२) इति । यथा केषुचिद् गातुमारब्धेषु गानारम्भात्पूर्वं कश्चिन्मुखमारुतेन वेणुसुषिरं पूरयन् गेयानां स्वराणाम् इयत्तापरिच्छेदं करोति, तथायमपि कर्तुमिच्छतीवेति क्रियोत्प्रेक्षा । यद्यप्यत्र मुखमारुतेन वेणुरन्ध्रपूरणादिकं सर्वमप्युत्प्रेक्षितमेव, तथाप्ययमिवशब्दः प्रधानभूतेनेच्छतिनैवान्वयमुपेयात् । तदन्वये च सामर्थ्यादितरोत्प्रेक्षापि सिध्यति । यथाह महिमा— एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यतः । इति । गानादीनामुद्दीपनत्वं प्रसिद्धम् । उक्तं च शाकुन्तले - ’ रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः’ (५.२) इति । अत्र दरीमुखोत्थेनेत्यत्र रूपकमलङ्कारः । ’ तद् रूपकमभेदो य उपमानोपमेययोः’ इति तल्लक्षणम्। तदेव रूपकमुत्प्रेक्षाणामभिव्यञ्जकम् । तस्मादत्र सजातीयानामुत्प्रेक्षाणां विजातीयस्य रूपकस्य च परस्परार्थापेक्षत्वादङ्गाङ्गिभावलक्षणः सङ्करः । ’ अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः’ इति तल्लक्षणम्॥८॥ कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्। यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ ९ ॥ प्रकाशिका कपोलकण्डूरिति । विघट्टितानां कपोलकषणेन मृदितानां सरलद्रुमाणां गन्ध इत्यन्वयः ॥ ९ ॥ FATEFRIESTS pysipps का प्रथमः सर्गः विवरणम् १७ हिमवति सौरभ्यस्याप्यप्रयाससाध्यत्वमाह- कपोलेति। यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टितानां सरलद्रुमाणां स्रुतक्षीरतया प्रसूतो गन्धः सानूनि सुरभीकरोति । यत्र हिमवति करिभिः गजैः कपोलकण्डूः कपोलयोः गण्डप्रदेशोः कण्डूः स्रवन्मदजलतया भ्रमराधिष्ठिततया च जनिता गण्डकण्डूतीः विनेतुं शमयितुं विघट्टितानां संघर्षणोन्मृदितानां सरलद्रुमाणां सुगन्धिनिर्यासानां वृक्षविशेषाणां स्रुतक्षीरतया स्रुतानि गलितानि क्षीराणि निर्यासा येभ्यः, तेषां भावस्तत्ता तया हेतुना प्रसूत उद्भूतः गन्धः सानूनि प्रस्थान सुरभीकरोति सुगन्धीकरोति । अभूततद्भावे च्विः । प्रस्थशब्देनात्र प्रस्थगताः पदार्था अप्युपलक्ष्यन्ते । यत्र गजैः परिमृदितानां सरलद्रुमाणां गन्धः सौरभ्यरहितानपि पदार्थान् सुरभिलान् करोतीत्यर्थः । सुगन्धानामुद्दीपनत्वमनुभवसिद्धं, सन्निधिमात्रेणगन्धः क्षोभाय जायत’ इत्यादिवचनसिद्धं च ॥ ९ ॥ , वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्या- मतैलपूराः सुरतप्रदीपाः ॥१०॥ प्रकाशिका ‘यथा वनेचराणामिति । ‘तत्पुरुषे कृति बहुलम्’ (६.३.१४) इत्यलुक्। इदं विशेषोक्तावुदाहृतं वामनेन । अस्मन्मते तु रूपकविशेष एवायम् ॥ विवरणम् रतिप्रदीपानामप्यप्रयाससाध्यत्वमाह- वनेचराणामिति । यत्र ओषधयः रजन्यां वनितासखानां वनेचराणाम् अतैलपूरा सुरतप्रदीपाः भवन्ति । यत्र हिमवति ओषधयः रात्रावुज्ज्वला वृक्षविशेषाः रजन्यां रात्रौ वनितानां सखायो वनितासखाः तेषाम् । षष्ठीतत्पुरुष एवात्र समासः । बहुव्रीहिविवक्षायां तु समासप्रत्ययो न स्यात् । स्त्रीसहितानामित्यर्थः । अनेन विशेषणेन सुरतप्रदीपानामुचितत्वमुक्तम् । वने चरन्तीति वनेचराः तेषाम्। ‘तत्पुरुषे कृति बहुलम् ’ (६.३.१४) इत्यलुक्। अतैलपूरा तैलानां स्नेहानां पूरेण रहिताः । तैलनिषेकनिरपेक्षा इत्यर्थः । अनेनाप्रयाससाध्यत्वमुक्तम्। मध्ये विनाशाभावादयश्च द्योत्यन्ते । सुरतोपयोगिनः प्रदीपाः सुरतप्रदीपाः । सुरतगृहे दीपस्याप्यावश्यकत्वमुक्तं रतिरहस्ये १८ कुमारसम्भवे प्रसृतसुरभिधूपे पुष्पदामावकीर्णे ज्वलितमहितदीपे धाम्नि कामी सुवेषः । सह सहचरवर्गैर्वामभागे निवेश्य स्त्रियमुपहितभूषां भावयेन्नर्मगोष्ठीम्॥ इति ।

ओषधीनां रतिप्रदीपत्वरूपणे हेतुमाह – दरीगृहोत्सङ्गनिषक्तभास इति । दर्यो गुहाः, ता एव गृहा दरीगृहाः, तेषाम् उत्सङ्गेष्वन्तर्भागेषु निषक्ताः नितरां सक्ताः भासः प्रभा यासां तास्तथा । अत्रौषधीनां सुरतप्रदीपत्वेन रूपणात् सुरतप्रदीपानामतैलपूरत्वविशिष्टत्वाच्च सविशेषणं रूपकमलङ्कारः, भोजराजेन रूपकभेदस्य चतुर्धा दर्शितत्वात् ‘समस्तं व्यस्तमुभयं सविशेषणमित्यपि’ इति ॥ १० ॥ उद्वेजयत्यङ्गुलिपाष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ ११ ॥ प्रकाशिका उद्वेजयतीति। उद्वेजयत्यपीत्यन्वयः । अङ्गुलिपाणिभागग्रहणं शैत्यभयादसमग्रपादतलार्पणं द्योतयति । अत्र शैत्यदुःखादपि श्रोणिपयोधरदुर्वहत्वदुःखस्य तत्कार्यभूतशीघ्रगतिविरुद्धस्वकार्यसम्पादनेन प्रबलतरत्वमुक्तम्॥११॥ विवरणम् इत्थमुपवर्णितानामुद्दीपनानां तदनुरूपवनिताजनसद्भावप्रतिपादनेन सोपयोगत्वमाह— उद्वेजयतीति । यत्र अश्वमुख्यः दुर्वहश्रोणिपयोधरार्ताः मन्दां गतिं न भिन्दन्ति । यत्र हिमवति अश्वमुख्यः किन्नराङ्गनाः दुःखेनोह्यन्त इति दुर्वहाः । कृच्छ्रार्थे खल् । तैः श्रोणिपयोधरैः श्रोण्या जघनस्थलेन पयोधराभ्यां स्तनाभ्यां च आर्ताः पीडिता सत्य इति मन्दगमनपरित्यागाभावे हेतु । मन्दां गतिम् अत्यन्तमन्दं गमनं न भिन्दन्ति नान्यथा कुर्वन्ति न परित्यजन्तीत्यर्थः । ननु स्त्रियः श्रोणिपयोधरभारान्मन्दमेव गच्छन्ति। अत्र को विस्मयः, यदेवमुच्यत इत्यत्राह — शिलीभूतहिमे मार्गे अङ्गुलिपाणिभागान् उद्वेजयत्यपीति । शिलीभूतानि शिलात्वं प्राप्तानि हिमानि यस्मिंस्तस्मिन् मार्गे अङ्गुलीः पाष्णिभागौ च । गुल्फयोरधोभागः पाष्णिशब्देनोच्यते । ‘तद्ग्रन्थी घुटिके गुल्फौ पुमान् पाणिरधस्तयोः’ इत्यमरः । उद्वेजयति पीडयति प्रथमः सर्गः १९ सत्यपि । अत्रापिशब्दः शीघ्रगमनस्य कारणपौष्कल्यं दर्शयति । अङ्गुलीनां मार्दवाधिक्यात् तासु शैत्यकाठिन्यबाधाया अप्याधिक्यमिति शैत्यादिभयात् पाणिभागाभ्यां गमनम्। तेन च तत्रापि पीडाधिक्यमिति पाष्णिशब्दं प्रयुञ्जानस्याभिप्रायः । अत्र शैत्यादिदुखस्य कार्यं शीघ्रगमनम्। तत्तु श्रोणिपयोधरदुर्वहत्वखेदेन बाध्यत इति श्रोणिपयोधरगौरवातिशयः प्रतिपादितः । तेन च तत्रत्यानां वधूनां सर्वावयवसौन्दर्यं दर्शितम् ॥ ११ ॥ दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥१२॥ । प्रकाशिका दिवाकरादिति । भीतमिव दिवा गुहासु लीनमित्यन्वयः । क्षुद्रोऽनार्यः । शरणं प्रपत्रे शरणत्वेनात्मानमुपसन्न इत्यर्थः । ममत्वं मदीयमित्यभिमानित्वम् । ममेत्यस्मच्छब्दप्रतिरूपकमव्ययमिति केचित् । अन्ये तु — सर्वेषां प्रायः शब्दानां प्रयोऽर्थाः - स्वरूपं व्यवहार्योऽर्थो बुद्धिश्च । तत्र स्वरूपं यथा - घटशब्दस्य धकारटकारसमुदायः । व्यवहार्योऽर्थो यथा - तस्य पृथुबुध्नोदराकारो मृदादिविकारः । बुद्धिर्यथा - तद्विषया तदाकारा च बुद्धिः । तत्र बुद्ध्यर्थत्वे शब्दशक्तिस्वाभाव्याद् इत्यवच्छिन्नत्वेन वृत्तिगतत्वेन वा केवलं प्रयोगः । यथा घट इति बुद्धिरिति, घटबुद्धिरिति वा, न तु स्वातन्त्र्येण प्रयोगः । तस्मान्ममशब्दस्य ममेति बुद्धिरर्थः, यथा ‘निर्मम’ इत्यत्र । तया चात्र तद्वाँल्लक्ष्यते। तस्य भावो ममत्वमिति समर्थयन्ते । उच्चैश्शिरसाम् उन्नतानाम् । सति आयें। अत्र काव्यप्रकाशकृता दूषितम् । तद्यथाउत्प्रेक्षितमपि तात्त्विकेन रूपेण परिवर्जितत्वान्निरुपाख्यप्रख्यम्। तत्समर्थनाय यदर्थान्तरन्यासोपादानं, तद्वालेख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषयत्वमेव तस्य, अनुचितार्थतैव दोष इत्युक्त्वा इमं तु श्लोक - मुदाहृत्यात्राचेतनस्य तमसो दिवाकरात् त्रास एव न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम्। संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरिति व्यर्थ एव तत्समर्थनायां यत्न इति [ काव्यप्रकाशान्ते ] । तदयुक्तम् । यतः परित्राणं वक्तुं प्रकृतम् । तत्र हेतुत्वेन केवलं भीतिरसंभविनी संभाव्यते । परित्राणं च नासंभवि । तद्धि नाम बाधकनिवारणम् । बाधकश्चात्र तमसोऽर्कालोकः । स च व्यवधीयतेऽस्य पातालकुक्षिकल्पाभिर्गुहाभिरिति ॥ १२ ॥ २० आश्रितवात्सल्यमप्याह- कुमारसम्भवे विवरणम् दिवाकरादिति । यः अन्धकारं दिवाकराद् रक्षति। यो हिमवान् अन्धकारम् अन्धतमसं दिवाकराद् आदित्याद् रक्षति परित्रायते । रक्षणे हेतुमाह – भीतमिव दिवा गुहासु लीनमिति । भीतं सूर्यालोकात् त्रस्तं सदिव । इवशब्दोऽयमुत्प्रेक्षाद्योतकः । अचेतनेषु भयासंभवात्। हेतूत्प्रेक्षा चेयम् । दिवा अहनि गुहासु कुहरेषु लीनं स्थितं, रविकिरणभयादिव दिवसे सर्वतः प्रदेशात् परावृत्य निजकुहराभ्यन्तरमेवाश्रितमित्यर्थः। उक्तमर्थमर्थान्तरन्यासेन समर्थयते - उच्चैश्शिरसां क्षुद्रेऽपि शरणं प्रपन्ने सतीव ममत्वं नूनम् । उच्चैश्शिरसाम् उन्नतानामित्यर्थः । क्षुद्रे अनार्ये जनेऽपि । अपिशब्दोऽयमनार्यरक्षणस्यायुक्ततां द्योतयति । सन्तमसस्यानार्यत्वं सर्वदृष्टिनिरोधनेनाज्ञानप्रदत्वादित्यवसेयम् । शरणं प्रपन्ने शरणं रक्षिता । ‘शरणं गृहरक्षित्रो ः ’ इत्यमरः । तं प्रपन्ने प्राप्ते, त्वमेव रक्षितेत्यात्मानं प्राप्त इत्यर्थः । सति आर्ये जन इव ममत्वं मदीयत्वाभिमानित्वमित्यर्थः । भवतीति शेषः । सज्जनेष्विव दुर्जनेष्वपि शरणं प्राप्तेषु महतां ममत्वमुपपन्नमेवेति भावः । नूनं शब्दोऽयं निश्चयं वदन् प्रसिद्धिं द्योतयति । दिवाकरादित्यत्र ‘भीत्रार्थानां भयहेतुः ’ (१.४.२५) इत्यपादानत्वम्। ममत्वमित्यत्र ममेत्यस्मच्छब्दप्रतिरूपकमव्ययं षष्ठ्यर्थे तस्य भावस्तत्त्वमिति कैश्चिद् व्याख्यातम्। कैश्चित् पुनरेवं व्याख्यातं – सर्वेषामपि शब्दानां त्रयोऽर्थाः स्वरूपं व्यवहार्योऽर्थो बुद्धिश्चेति । तत्र स्वरूप पक्षे घटशब्दस्य घकारटकारसमुदायोऽर्थः । व्यवहार्यार्थपक्षे पृथुबुध्नोदराकारो मृदादिविकारोऽर्थः । बुद्धिपक्षे तु घट इति ज्ञानमेवार्थः। तस्मादत्र ममशब्दस्य ममेति बुद्धिरित्यर्थः । अत एव ममेति बुद्धिर्यस्य नास्ति स निर्मम इत्युच्यते। अत्र ममेति बुद्ध्या तद्वानेव लक्ष्यते । ममस्य भावो ममत्वम्। तथा च सति ममत्वमित्यस्य मदीयत्वाभिमानित्वमित्यर्थ इति । अयं तु श्लोकः काव्यप्रकाशदूषितः । तद्यथा – अचेतनस्य तमसो दिवाकरात् त्रास एव न सम्भवतीति कुतस्तत्प्रयोजितमद्रिणा परित्राणं, कुतस्तरां तत्समर्थनार्थमर्थान्तरन्यास इति[काव्यप्रकाशान्ते]। तत् पातालकुक्षिकल्पाभिर्गुहाभिः परिहीयते। केवलम् भयमेव तत्रारोपितम्। अत एव तस्योत्प्रेक्षारूपत्वमिति युक्त एव परित्राणसमर्थनार्थमर्थान्तरन्यास इत्यलमनेन ॥ १२ ॥ लाङ्गूलविक्षेपविसर्पिशोभै- रितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजनैश्चमर्यः ॥१३॥ प्रथमः सर्गः प्रकाशिका २१ लाङ्गूलेति । लाङ्गूलं बालदण्डः 1 गिरिराजशब्दं बालव्यजनैरर्थयुक्तं चमर्यः कुर्वन्तीति । राजशब्दस्यार्थो हि सामान्येन प्रकृतिषट्कस्वामित्वम् । गिरिराजशब्दस्यापि तद्विशेष एव कश्चिदर्थः । तेनैव हि तस्यार्थयुक्तता युक्तिमती । एवं स्थितेऽत्र स्वार्थचिह्नभूतैर्बालव्यजनैर्गिरिराजशब्दस्यार्थयुक्तत्वकरणमुपचर्यते॥ १३ ॥ विवरणम् गिरिराजशब्दवाच्यत्वमप्यस्यैव युक्तमित्याह —- लाङ्गूलेति । चमर्यः यस्य गिरिराजशब्दं बालव्यजनैः अर्थयुक्तं कुर्वन्ति । चमर्यश्चमरमृग्यः । अत्र चमरस्त्रीणामुपादानेन स्त्रीणामेव चामरग्रहणाधिकार इति दर्शयति । यथोक्तम् ‘एतासामरविन्दसुन्दरदृशां द्राक् चामरान्दोलनाद्’ इति । यस्य हिमवत गिरिराजशब्दं गिरिराजोऽयमिति शब्दं बालव्यजनैः निजलाङ्गूलमयैश्चामरैरर्थयुक्तं यथार्थं कुर्वन्ति । प्रकृतिषट्कस्वामित्वं हि सामान्यतो राजशब्दस्यार्थः । अतोऽत्र तत्स्वामिनश्चिह्नभूतैर्बालव्यजनैः गिरिराजशब्दस्यार्थयुक्तत्वकरणमुपचार इत्यरुणाचलनाथेन व्याख्यातम् । वयं तु बालव्यजनावधूननदर्शनेनायमेव गिरिराज इति या सर्वजनप्रतीतिः, तत्करणमेवात्रार्थयुक्तत्वकरणमिति मन्यामहे, प्रतीतिमात्रपरायणत्वात् काव्यव्यवहाराणाम्। न केवलं बालव्यजनानां सत्तामात्रम्, अपि तु वीजनमपि दृश्यत इत्याह – लाङ्गूलविक्षेपविसर्पिशोभैरिति । लाङ्गूलानां बालदण्डानां विक्षेपेण चालनेन विसर्पिण्यो व्यापिन्यः शोभा येषु तैः । अनेन विशेषणेन व्यजनान्दोलनसमयसम्भविनी महती शोभा दर्शिता, बालदण्डानां व्यजनदण्डसाम्यं च प्रकाशितम् । सितव्यजनसाम्यमप्याह — इतस्ततश्चन्द्रमरीचिगौरैरिति । इतस्ततः समन्ततः सर्वत इत्यर्थः । चन्द्रमरीचिगौरैः चन्द्रस्य मरीचिवत् किरणवद् गौरैः धवलैः, सर्वश्वेतैरित्यर्थः ॥ १३ ॥ यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम्। दरीगृहद्वारि विलम्बिबिम्बा- स्तिरस्करिण्यो जलदा भवन्ति ॥ १४ ॥ प्रकाशिका यत्रेति । आक्षेपो हरणम् । यदृच्छया सङ्गत्या । बिम्बं शरीरम् । ‘बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु प्रतिबिम्बे तत्प्रकृतौ’ इति यादवः । तिरस्करिण्यो २२ कुमारसम्भवे यवनिकाः । अत्र लज्जया गुह्यगूहनाय करतलेषु व्यापार्यमाणेषु दैवोपनतेन जलदरोधतमसा समीहितसौकर्यमिति समाधिरलङ्कारः प्राधान्येन ध्वन्यते ॥ १४ ॥ विवरणम् नवोढानुसरणमप्यत्रैव सुखकरमित्याह- यत्रेति । यत्र अंशुकाक्षेपविलञ्जितानां किम्पुरुषाङ्गनानां जलदाः तिरस्करिण्यो भवन्ति । यत्र हिमवति अंशुकाक्षेपविलञ्जितानाम् अंशुकानां वसनानाम् आक्षेपेण हरणेन विलञ्जितानां विशेषेण लज्जितानाम् । नवोढा हि पूर्वमेव लज्जिताः प्रियतमकृते तु वसनहरणे विशेषेणेति भावः । किंपुरुषाङ्गनानां किन्नरस्त्रीणां जलदा मेघा एव तिरस्करिण्यो यवनिका भवन्ति । ‘प्रतिसीरा यवनिका स्यात् तिरस्करिणी च सा’ इत्यमरः । जलदानां यवनिकात्वप्राप्तिप्रकारमाह— यदृच्छया दरीगृहद्वारि विलम्बिबिम्बा इति । यदृच्छया यादृच्छिकसङ्गत्या दरीगृहद्वारि दरीरूपाणां सुरतभवनानां द्वारि द्वारप्रदेशे विलम्बिनो लम्बनशीला बिम्बाः शरीराणि येषां ते तथा। ‘बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु प्रतिबिम्बे तत्प्रकृतौ’ इति यादवः । गुहाद्वारे घनोपरुद्धे सति गुहायामोषधिप्रकाशादिप्रवेशाभावात् तमोवृद्धिः । ततश्च गुह्यगोपनार्थं करतलादिव्यापारनैरपेक्ष्यमिति भावः । अत्र जलदेषु तिरस्कारिणीत्वमारोपितम्। तस्य च प्रकृतोपयोगित्वात् परिणामोऽलङ्कार । ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम’ इत्यलङ्कारसूत्रम् । काव्यप्रकाशकृत्पक्षे तु रूपकमेव । ‘अतैलपूरा’ इत्यत्राप्येवं द्रष्टव्यम् । तत्र सविशेषणस्य रूपकस्यातिस्फुटत्वादयमलङ्कारो नोक्तः । अत्र समाधिरलङ्कारः प्राधान्येन ध्वन्यते च । जलदरोधतमसा नवोढागुह्यगोपनकार्यसिद्धेः । ‘समाधिः सुकरं कार्यं कारणान्तरयोगत’ इति | काव्यप्रकाशे ] || १४ || भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः । यद्वायुरन्विष्टमृगैः किरातै- रासेव्यते भिन्नशिखण्डिबर्हः ॥ १५ ॥ प्रकाशिका भागीरथीति। मुहुः सद्यः । ‘पौनःपुन्ये भृशार्थे च सद्योर्थे स्यान्मुहुः पदम्’ इत्यजयः। अत्रेदं च प्रमाणं ‘भित्त्वा सद्यः किसलयपुटं देवदारुद्रुमाणाम्’ (१०५) इति प्रयोगः । यद्वायुर्यत्सम्बन्धी वायुः। अन्विष्टमृगैरिति श्रमस्य विभावः, वायुसेवनमनुभावः । भिन्न इतस्ततो विकीर्णः शिरोभूषणं शिखण्डिबर्हो यैः ॥ १५ ॥ प्रथमः सर्गः २३ विवरणम् हिमवति वायोरपि गुणोत्कर्षमाह- भागीरथीति । यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते । यद्वायुर्यत्सम्बन्धी वायुः अन्विष्टा मृगा यैस्तैः । मृगान्वेषणार्थमितस्ततः कृतावधानैरित्यर्थः । अनेन श्रमस्य विभाव उक्तः । किरातैः शबरैः आसेव्यते आभीक्ष्ण्येन सेव्यत इति श्रमस्यानुभावः । वायोः श्रमहरत्वद्योतकानि विशेषणान्याह — भागीरथीत्यादिना । तत्र शैत्यमाह — भागीरथीनिर्झरशीकराणां वोढा इति । भारीरथ्यां गङ्गायामेव निर्झरे. वारिप्रवाहे । ‘वारिप्रवाहो निर्झरो झर’ इति सिंहः । हिमवति निर्झरो गङ्गैव । तत्र ये शीकरा जलकणाः। ‘शीकरोऽम्बुकणा स्मृता’ इत्यमरः । तेषां वोढा वाहकः । सौरभ्यमाह – मुहुः कम्पितदेवदारुरिति । मुहुः पुनः पुनः कम्पिता देवदारवो वृक्षविशेषा येन । देवदारूणां सौरभ्यातिशयः प्रसिद्धः । मुहुः पदेन सौरभ्यस्यानन्त्यमुक्तम्। मुहुः पदस्य सद्य इति वार्थः । ’ पौनःपुन्ये भृशार्थे च सद्यार्थे स्यान्मुहुः पदम्’ इत्यजयः । ’ भित्त्वा सद्यः किसलयपुटं देवदारुद्रुमाणाम्’ (१०५) इति मेघसन्देशप्रयोगश्चास्मिन्नर्थे प्रमाणम् । मान्द्यमाह – ‘भिन्नशिखण्डिबर्ह’ इति । भिन्ना इतस्ततो विकीर्णाः शिखण्डिनां वनप्रदेशेषु वर्तमानानां बर्हिणां बर्हा पिच्छाः येन स तथा शिखण्डिबर्हैर्निरुद्धवेगप्रसरत्वाद् वायोर्मान्द्यम्। ‘भिन्नशिखण्डिबर्हैरि’ति पाठे वायोः सकलशरीरस्पर्शार्थं स्वकराभ्यामितस्ततो विक्षिप्ता निजशिरोमण्डनशिखण्डिबर्हा यैरित्यर्थः । अस्मिन्नर्थे वायुसेवनस्वभावोक्त्या स्वाभावोक्तिरलङ्कारः । ’ स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्’ इति [ काव्यप्रकाशे] अत्र तमः प्रकृतीनां मृगवधलालसानां किरातानामप्यनवरतगङ्गाजलसेवनप्रतिपादनेन प्रारब्धभोगक्षये तत्रत्यानां मुक्तिरेव ध्वन्यये ॥ १५ ॥ सप्तर्षिहस्तावचितावशेषा- तल्लक्षणम्। ण्यधो विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ १६ ॥ प्रकाशिका सप्तर्षीति । अवशिष्यत इत्यवशेषः । कर्मणि घञ्। ‘त्रिष्वन्यत्रोपयुक्तत’ इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेषशब्दस्य विशेष्यलिङ्गत्वमवसेयम् । हस्तशब्दः स्वयङ्ग्रहणेनादरं द्योतयति । सप्तर्षीत्यादिपदेन विशिष्टोपयोगित्वमुक्तम् ।२४ कुमारसम्भवे अथवा सप्तर्षिहस्तावचिताविति निमित्तसप्तमी । अशेषाणीति बोधनस्य प्रायत्निकत्वं ध्वनितम्। सप्तर्षिस्थानस्य सूर्यादुपरिवर्तित्वादियमुक्तिः । वक्ष्यति च नित्यमर्काच्च सोमाच्च परमध्यास्महे पदम्’ (कुस. ६.१९) इत्यादि ॥ १६ ॥ औन्नत्यमाह- विवरणम् सप्तर्षीति । विवस्वान् यस्य अग्रसरोरुहाणि पद्मानि ऊर्ध्वमुखैः मयूखैः प्रबोधयति । विवस्वान् आदित्यः यस्य हिमवतः अग्रसरोरुहाणि अग्रसरस्सु अधित्यकावर्तिषु सरस्सु कमलिनीषु (कमलाकरेषु) रोहन्ति उद्भवन्तीति तथा पद्मानि कमलानि ऊर्ध्वमुखैः ऊर्ध्वं मुखानि अग्रभागा येषां तैः मयूखैः रश्मिभिः प्रबोधयति उन्मीलयति । सविता यस्य शिरः पुष्करिणीषु प्ररूढानि कमलानि बिम्बस्य पृष्ठभागादूर्ध्वं गतैरेव मयूखैरुन्मीलयतीत्यर्थः । तत्र हेतुमाह - अधः परिवर्तमान इति। अधित्यकापेक्षयात्यन्तमधोभाग एव परितो वर्तमानः । तत्रत्यानां पद्मानां विशिष्टोपयोगित्वमाह - सप्तर्षिहस्तावचितावशेषाणीति । सप्तर्षिभिरादरातिशयात् स्वहस्तैरेवावचितानि लूनानि । अवशिष्यत इत्यवशेषः । कर्मणि घञ् । ‘त्रिष्वन्यत्रोपयुक्ततः’ इति केशवस्वामिवचनं शेषशब्दस्याभिधेयवल्लिङ्गत्वे प्रमाणम् । सप्तर्षिभिर्देवतार्चनाद्यर्थं यानि कानिचिदवचितानि पुनश्च पद्मानां बहुत्वात् सरस्स्वेवावशिष्टानि पद्मानीत्यर्थः । सप्तर्षिहस्तावचिताविति वा पदच्छेदः । निमित्तसप्तमी चेयम्। अशेषाणि समस्तानि । यत्र सूर्यः सप्तर्षीणामुपयोगार्थं समस्तानि पद्मानि प्रबोधयतीत्यर्थः । सप्तर्षीणां सूर्यमार्गादुपरि वर्तमानत्वादित्थमुक्तम् । उक्तं च वसिष्ठसिद्धान्ते– औत्तानपादिरखिलग्रहकारकाणा- मुच्चैस्तरे वसति धाम्नि ततोऽप्यधस्तात् । सप्तर्षिमण्डलमवस्थितमप्यमुष्मात् तिष्ठन्त्यधो नभसि च ग्रहतारकाद्याः । इति । वक्ष्यति च ‘नित्यकमर्काच्च सोमाच्च परमध्यास्महे पदम् ’ (६.१९) इति । अत्र हिमवतः सूर्यमार्गोल्लङ्घित्वकथनादौन्नत्यं भङ्गयन्तरेणोक्तमिति पर्यायोक्तमलङ्कारः । ‘गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्’ [ अलङ्कारसर्वस्वसूत्र] इति । अग्रसरोरुहाणि पद्मानीत्यत्र पुनरुक्तवदाभासोऽलङ्कारः । ’ पुनरुक्तवदाभासो विभिन्नाकारशब्दगः एकार्थतेव’ [काव्यप्रकाशः ] इति ॥ १६ ॥ प्रथमः सर्गः यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च। प्रजापतिः कल्पितयज्ञभागः शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १७ ॥ प्रकाशिका यज्ञाङ्गेति । यज्ञाङ्गानि सोमलताप्रभृतीनि । अत्र पुराणवचनं ज्ञापकं - हिरण्यगर्भो भगवान् व्याजहार हरिं प्रति । देवतानां मुनीनां च समक्षं सर्वसाक्षिणम् ॥ अस्य देवस्य वामाङ्गाज्जातस्त्वमनया सह । दक्षिणाङ्गात् समुद्भूत सृष्ट्यर्थं जगतामहम् ॥ यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः । इति । २५ सारो बलम् । कल्पितो हस्तिरूपो यज्ञभागो येन । अत्र किल श्रुतिः प्रमाणम् । स्वयं आत्मना। अन्वतिष्ठद् अन्तर्भावितण्यर्थः प्रयोगः । ‘अनुष्ठितानन्तरजाविवाहः ’ (रघु. ७.३२) इतिवत्। यज्ञाङ्गयोनित्वाद् यज्ञभागं कल्पयित्वा तस्य साराधिकत्वाच्छैलाधिपत्यं प्रजापतिः स्वयमनुष्ठापितवानित्यर्थः । हिमवन्तमधिष्ठाय प्रजापतिः स्वयं शैलाधिपत्यमनुष्ठितवानिति पुराणवचनविरुद्धम् । तद् तथा ब्रह्माण्डे — शैलानां हिमवन्तं च नदानामथ सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः ॥ इति । अत्र प्रकरणे ‘यं सर्वे’ त्यादिना स्वजातिश्रेष्ठत्वम्, ‘अनन्तरत्ने’- लाङ्गूले त्यादिना च रत्नसम्पद्, ‘आमेखलमि’ त्यादिना सर्वकालसुखत्वं, ‘दिवाकरादि त्यादिना संश्रितरक्षणं, त्यादिनाभिगम्यत्वं ‘पदं तुषारे’ त्यादिना ‘सप्तर्षी’ त्यादिना तुङ्गत्वं, ‘यज्ञाङ्गे’ त्यादिना देवत्वमैश्वर्यं च इतरैस्तु श्लोकैर्यथासम्भवं शृङ्गाराङ्गभूतपदार्थवत्तया रमणीयत्वं चोक्तम्॥ १७॥ देवत्वमैश्वर्यं चाह- विवरणम् यज्ञेति । प्रजापतिः यस्य यज्ञाङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अवेक्ष्य कल्पितयज्ञभागः शैलाधिपत्यं स्वयम् अन्वतिष्ठत् । प्रजापतिर्ब्रह्मा यस्य हिमवतो यज्ञाङ्गानां सोमलताप्रभृतीनां योनित्वम् उद्भवस्थानत्वम् । एतच्च पुराणप्रसिद्धं - २६ कुमारसम्भवे हिरण्यगर्भो भगवान् व्याजहार हरिं प्रति । देवतानां मुनीनां च समक्षं सर्वसाक्षिणाम्॥ अस्य देवस्य वामाङ्गाज्जातस्त्वमनया सह । दक्षिणाङ्गात् समुद्भूतः सृष्ट्यर्थं जगतामहम्॥ यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वर । इति । धरित्रीधरणक्षमं धरित्र्याः भूमेः धरणे धारणे क्षमं शक्तं सारं बलं च अवेक्ष्य सम्यगवलोक्य कल्पितयज्ञभागः कल्पितो यज्ञेषु यागेषु भागो हस्तिरूपोंऽशो येन तथाभूतः सन्, इन्द्राद्यैस्तुल्यमेवास्य हविर्भागं कल्पयित्वेत्यर्थः । हिमवतो हस्ती यज्ञभाग इति श्रुतिप्रसिद्धिः । शैलाधिपत्यं पर्वताधिपतित्वं स्वयमन्वतिष्ठत् स्वयमेवानुष्ठापितवान्। अन्तर्भूतण्यर्थोऽयं प्रयोगः । ’ अनुष्ठितानन्तरजाविवाहः’ (रघु. ७.३२) इतिवत् । प्रजापतिः स्वयमेव हिमवन्तमधिष्ठाय शैलाधिपतित्वमनुष्ठितवानिति कैश्चिद् व्याख्यातम् । तत्तु पुराणविरुद्धम् । यथोक्तं ब्रह्माण्डे- शैलानां हिमवन्तं च नदानामथ सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः । इति । अत्र यज्ञाङ्गयोनित्वमित्यादिना क्रमेणोद्दिष्टयोरर्थयोः कल्पितयज्ञभाग इत्यादिना पश्चान्निर्देशाद् यथासङ्ख्यमलङ्कारः । ‘उद्दिष्टानामर्थानां क्रमेणानूद्देशो यथासङ्ख्यम्’ [ अलङ्कारसर्व] इति ॥ १७ ॥ स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे ॥ १८ ॥ प्रकाशिका स इति । मुनीनामपि माननीयां ब्रह्मवादयोगवत्तया । अत्र श्रीविष्णुपुराणवचनं - पितरौ ब्रह्मणा सृष्टां व्याख्याता ये मया तव। अग्निष्वात्ता बर्हिषदो नाग्नयः साग्नयश्च ये ॥ तेभ्यः स्वधासुता जज्ञे मेना वैतरणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ! ॥ इति । तस्या मानसीत्वे ब्रह्माण्डवचनं- प्रथमः सर्गः तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥ इति । २७ कुलस्य स्थितये, न तु कामाय । अनेनातिसत्त्वोत्तरत्वादस्य शान्तनायकत्वम् अस्याश्च मुनीनामपि माननीयत्वेन द्योतितम्। अत एवात्मानुरूपामित्युक्तिः । स्थितिर्मर्यादा, गृहीतविद्येन गुरुकुलनिवृत्तेन गार्हस्थ्यमङ्गीकार्यमिति या शास्त्रमर्यादा तस्या अभिज्ञः । विधिना शास्त्रतः । एवञ्च सदपत्येन कुलस्थितिः स्यात् । मेरुसख इत्यनेन वरणसंविधानादिषु तत्सहायत्वमुक्तम्॥ १८॥ विवरणम् इत्थमुपवर्णितस्य हिमवतो जगदेकनायिकायाः प्रबन्धनायिकाया उत्पत्तिहेतुभूतं विवाहं वर्णयति- स इति । सः मेनां विधिना उपयेमे । सः हिमवान् मेनां नाम्ना मेनेति प्रसिद्धां विधिना शास्त्रतः । शास्त्रसिद्धेन विधिना स्वीकृतायां हि भार्यायां सदपत्येन कुलस्थितिर्भवेदिति भावः । उपयेमे परिणीतवान्। ननु पूर्वोक्तसकलगुणविशिष्टः स किमर्थ कामोपभोगे मनः कृतवानित्यत्राह — कुलस्य स्थितये इति । कुलस्य वंशपरम्परायाः स्थितये स्थिरत्वाय न कामार्थमित्यर्थः । अनेनातिसत्त्वोत्तरत्वादस्य शान्तनायकत्वमुक्तम्। तेन च पार्वतीजन्मयोग्यत्वं ध्वनितम्। मेनायाः कुलशुद्धिमाह - पितॄणां मानसीं कन्यामिति । पितॄणां अग्निष्वात्तादीनां मानसीं मनसो जाताम्। अनेनायोनिजत्वमुक्तम् । तेन च दिव्यत्वं ध्वन्यते। उक्तञ्च मेनाया मानसीत्वं ब्रह्माण्डे- तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते । इति । अत्र तेषामिति पुराणे प्रकृतानां पितॄणामुपादानम् । बहुसहायसाध्ये विवाहे हिमवतः सहायसम्पत्तिं दर्शयति - मेरुसख इति । मेरोः सुमेरोः सखा । अनेन वरणादिष्वपि तत्सहायत्वं द्रष्टव्यम् । हिमवतः शास्त्रीयविवाहप्रवृत्तौ हेतुमाहस्थितिज्ञ इति । स्थितिर्मर्यादा, तां जानातीति स्थितिज्ञः । विद्याग्रहणानन्तरं गुरुसकाशान्निवृत्तेन गार्हस्थ्यमङ्गीकार्यं, पुनश्चाग्न्याधानादिकर्म कर्तव्यमिति शास्त्र - मर्यादा जानन्नित्यर्थः । मेनाया उत्तमनायिकात्वमाह - मुनीनामपि माननीयामिति । मुनीनां मुनिभिः । कृत्यानां कर्तरि वा’ (२.३.७१ ) इति षष्ठी। सर्वमाननीयैमुनिभिरपि माननीयामित्यपिशब्दार्थः । मुनिमाननीयत्वं ब्रह्मवादवत्तया योगवत्तया च । . तदुक्तं श्रीविष्णुपराणे- २८ कुमारसम्भवे पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । अग्निष्वात्ता बर्हिषदो नाग्नयः साग्नयश्च ये ॥ तेभ्यः स्वधासुता जज्ञे मेना वैतरणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ! ॥ इति । अत एव प्रागुक्तस्य नायकगुणविशिष्टस्य हिमवतः सदृशी भार्या चेयमित्याह — आत्मानुरूपामिति । आत्मनोऽनूरूपां सदृशीम् । ‘कुलाद्यैः सदृशीं भार्यां विन्देत स्नातको द्विजः’ इत्यादिस्मृतेरिति भावः । अत्र कामव्यपोहाय कुलस्य स्थितय इत्युक्तमिति परिसङ्ख्यालङ्कारः । किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते। तादृगन्यव्यपोहाय परिसङ्ख्या तु सा स्मृता ॥ [ काव्यप्रकाशः ] इति ॥ १८ ॥ असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा - ववेदनाज्ञं कुलिशक्षतानाम्॥१९॥ प्रकाशिका असूतेति। नागवधूपभोग्यत्वं तत्परिणयनादिति दक्षिणावर्तः । वयं तु समुद्रमग्नस्य नागलोकसन्निकर्षादिति मन्यामहे । तत्सख्यस्य फलमाह - क्रुद्धेऽपीति । अत्रेतिहासः सुलभः । ननु किमनेन मैनाकोत्पत्तिकथनेन कथानुपकारिणा । न। देव्याः सभ्रातृकत्वेन परिणेयत्वात् । अत्र मनुः - इति ॥ १९ ॥ यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया॥ (३.११) विवरणम् ‘यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता’ नोपयच्छेत तां प्राज्ञः’ इति मनुवचनेनाभ्रातृकाणां स्त्रीणां परिणेयत्वनिरासाद् भवान्याः सभ्रातृकत्वं प्रतिपादयितुं मेनायां पुत्रोत्पत्तिं दर्शयति- असूतेति । सा मैनाकम् असूत । सा मेना मैनाकं नाम पर्वतम् असूत प्रथमः सर्गः २९ प्रसूतवती । मेनातनूजस्य सौभाग्यातिशयमाह — नागवधूपभोग्यमिति । नागवधूभिः सर्पस्त्रीभिः उपभोग्यम् उपभोक्तुं योग्यम् । नागवधूपभोग्यत्वे हेतुमाह — अम्भोनिधिबद्धसख्यमिति । अम्भोनिधिना समुद्रेण सह बद्धं स्थिरीकृतं सख्यं बन्धुत्वं येन तं, सदा समुद्रस्थमित्यर्थः । समुद्रस्य नागलोकसन्निकर्षाद् भुजङ्गाङ्गनोपभोग्यमिति भावः । समुद्रसख्यस्य फलमाह – वृत्रशत्रौ पक्षच्छिदि क्रुद्धेऽपि कुलिशक्षतानामवेदनाज्ञमिति । वृत्रशत्रौ वृत्राभिधानस्यासुरस्य शत्रौ । अनेनास्य दुरभिभवत्वमुक्तम्। तेन च महाजनसख्यस्य फलपरिपूर्तिर्ध्वन्यते । पक्षौ छिनत्तीति पक्षच्छिद् तस्मिन्, पक्षच्छेदोद्युक्ते सतीत्यर्थः । न केवलमुद्युक्तः, कुपितश्चेत्याह - क्रुद्ध इति । अपिशब्देन पक्षच्छेदस्य कारणपौष्कल्यं दर्शयति । कुलिशक्षतानां वज्रप्रहारजनितानां व्रणानाम् अवेदनाज्ञं वेदनां पीडां जानातीति वेदनाज्ञः वेदनाज्ञो न भवतीत्यवेदनाज्ञः तम् । महेन्द्रे पक्षच्छेदोद्युक्ते रुष्टेऽपि महासत्त्वस्य समुद्रस्य सख्यादद्यापि कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सर्वेऽपि पर्वताः पूर्वं पक्षवन्तः किलाभवन् । ततस्तेषामवस्थानैर्वेगैः पक्षसमीरणैः ॥ चूर्णीभूतान् जनपदानवलोक्याथ वृत्रहा । क्रुद्धः कुलिशमादाय पक्षच्छेदेन पर्वतान् ॥ क्षणेन स्थावरीचक्रे मैनाकस्तरसा ततः । अम्भोधिमतिगम्भीरं महासत्त्वमुपाश्रितः । समुद्रसख्यादद्यापि तत्पत्रौ नाहृतौ । इति कथाऽनेन श्लोकेन दर्शिता ॥ १९ ॥ अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगाविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥ २० ॥ प्रकाशिका एवमाधिकारिकस्य पीठिकात्वेन प्रासङ्गिकमुपवर्ण्याधिकारिकं प्रस्तौति- अथेति । अथशब्दः प्रकरणान्तरोपक्रमद्योतकः । अवमानेन स्वभर्तुर्हविर्भागाप्रदानादिकृतेन प्रयुक्ता प्रेरिता । पितुरिति पितुः परमगुरुत्वात् तद्विषये प्रकारान्तरेण कोपप्रतीकारः कर्तुमनुचित इति द्योत्यते । सती इदं दक्षसुतात्वे नाम | सती भवन्ती । ३० कुमारसम्भवे योगविसृष्टदेहा सतीत्यन्वयः । शैलवधूमिति स्त्रीजनने स्त्रियाः प्राधान्यात्। अत्र भवपूर्वपत्नीत्यनेन परशक्तिरूपत्वं ध्वनयता भुवनैकमातुः स्वेच्छया विग्रहत्यागस्वीकारावुपपादितौ ॥ २०॥ विवरणम् इत्थं पीठप्रतिष्ठामुपपाद्याधिकारिकं वृत्तमेव प्रस्तुवन् नायिकाया उत्पत्तिं वर्णयति श्लोकद्वयेन । तत्रादौ देव्याः पूर्वजन्मवृत्तान्तसंक्षेपकथनेन नित्याया एव तस्या उत्पत्तौ हेतुं वदन्नुत्पत्तेः पूर्वावस्थामाह- दक्षस्य अथेति । अथ दक्षस्य कन्या भवपूर्वपत्नी पितुः अवमानेन प्रयुक्ता योगविसृष्टदेहा सती सती जन्मने तां शैलवधूं प्रपेदे । अथशब्दोऽयं प्रकरणान्तरोपक्रमद्योतकः । ‘मङ्गलानन्तरारम्भप्रश्नकात्स्र्येष्वथो अथ’ इत्यमरः ।. दक्षप्रजापतेः कन्या पुत्री भवपूर्वपत्नी भवस्य परमशिवस्य पूर्वपत्नी प्राचीनभार्या । अनेन नित्यायाः परमशक्तिरूपाया देव्याः स्वेच्छयैव शरीरत्यागस्वीकारसामर्थ्यं दर्शितम्। पितुः आत्मनो जनकभूतस्य दक्षस्य अवमानेन स्वभर्तुर्हविर्भागाप्रदानादिरूपया निन्दया प्रयुक्ता प्रेरिता देहत्यागायेति शेषः । परमगुरौ पितरि विषये प्रकारान्तरेण कोपप्रतीकारोपायादर्शनात् तदवमानेन शरीरत्यागायैव प्रेरितेत्यर्थः । योगविसृष्टदेहा जीवात्मनः परमात्मनि योजनं योग इत्युच्यते, तेन विसृष्टः परित्यक्तो देहो यया । सती भवन्ती । सती दक्षसुतात्वे देव्या नाम। जन्मने स्वोत्पत्तये तां पूर्वोक्तसकलगुणविशिष्टां शैलवधूं मेनां प्रपेदे प्राप्ताभूत्। हिमवत्प्राप्तिद्वारेणेत्यर्थात् सिध्यति । स्त्रीजन्मनि स्त्रीणामेव प्राधान्याच्छैलवधूं प्रपेद इत्युक्तम्। पितुरवमानेन शरीरत्यागाय प्रेरिता योगाग्निना निर्दग्धशरीरा भवन्ती सतीदेवी स्वजन्मलाभाय लोकोत्तरगुणविशिष्टां मेनां प्राप्तवतीत्यर्थः । अनेन स्वेच्छयैव देव्याः शरीरपरित्यागस्वीकाराविति दर्शितम् । पुरा किल पुराराताववमानं प्रकाशयन् । अनाहूयैव तं देवं देवानन्यानुपानयत्॥ मोहान्धो यज्ञमारेभे दक्षो दाक्षायणी तदा । अनाहूता स्वपित्रापि प्रतिषिद्धापि शम्भुना ॥ जगाम स्वपितुर्गेहं यज्ञदर्शनलालसा । अनादृतापि पित्रा सा दृष्ट्वा च सकलाः क्रियाः ॥ रुद्रभागविनिर्मुक्ता कोपेनापाटलेक्षणा। तत्याज योगमास्थाय दक्षेणोत्पादितं वपुः || इति श्रीभागवतादिप्रसिद्धायाः कथायाः सङ्क्षेपः ॥ २० ॥ प्रथमः सर्गः सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या । सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन सम्पद् ॥ २१ ॥ प्रकाशिका ३१ सेति । समाधिमत्यां तपस्विन्याम् । वक्ष्यति च ‘अलं समाधिना’ (५.४५) इति । कथमन्यथा परमेश्वरीजन्माधिकरणतेति भावः । उदपादि अजनि । कर्मण्ययं प्रयोगः । उत्पत्तिश्चात्र- सुराणां कार्यसिद्ध्यर्थमाविर्भवति सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ इति दुर्गासप्तशतीन्यायेन द्रष्टव्या । भव्या कल्याणी । अपरिक्षतायाम् अविहतायाम्। नीतौ सन्ध्यादिप्रयोगे । उत्साहस्य गुणेनासंमोहाध्यवसायादिस्वकारणसामग्रीलक्षणेन । कर्मधारयपक्षे गुणशब्दो गतार्थः । अत्रोपमायामधिकरणयोर्विशेषणे बिम्बप्रतिबिम्बभावेन स्थिते । भव्येति तु कर्मणोः साधारणम्। उपमया च तल्लाभेन मेनाहिमवतोः कृतार्थता द्योत्यते ॥ २१ ॥ अथ देव्या उत्पत्तिं वर्णयति- विवरणम् सेति । सा भूधराणाम् अधिपेन समाधिमत्यां तस्याम् उदपादि । सा दाक्षायणी भूधराणां पर्वतानाम् अधिपेन श्रेष्ठेन हिमवता समाधिमत्यां समाधिस्तपः । वक्ष्यति दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विच्छति मृग्यते हि तत् ॥ इति ( ५.४५ ) तद्वत्यां तपस्विन्यामित्यर्थः । अनेन परमेश्वरीजन्माधिकरणत्वयोग्यता दर्शिता । तस्यां मेनायाम् उदपादि । कर्मण्ययं प्रयोगः । गर्भसंस्कारादिपुरस्सरं जनिताभूदित्यर्थः । उत्पत्तिश्चात्र नित्याया भगवत्या देवकार्यसिद्ध्यर्थं स्वेच्छया शरीरस्वीकार एव। तदुक्तं देवीमाहात्म्ये— देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ इति । ३२ कुमारसम्भवे अत्र तारकासुरनिग्रहार्थं कुमारोत्पादनं देवकार्यमित्यवसेयम्। अत्रोपमामाह— सम्यक्प्रयोगाद् अपरिक्षतायां नीतौ उत्साहगुणेन संपद् इवेति । अत्र प्रयोगस्य सम्यक्त्वं नाम परात्मनोः प्राबल्यदौर्बल्यादिविवेकपूर्वकत्वम् । यथोक्तं रघुवंशे- परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । इति । ययावेभिर्विशिष्टश्चेत् परस्मादास्त सोऽन्यथा ॥ (१७.५९) सम्यक्प्रयोगाद्धेतोरपरिक्षतायाम् अविहतायां नीतौ सन्ध्यादिप्रयोगे । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयभेदेन षड्विधा या राजनीतिः, सा तत्तदुचिते प्रयुक्ता सती न विहन्यत इति तादृश्यां नीत्यामित्यर्थः । उत्साहगुणेन उत्साहस्य गुणेन । तस्य गुणश्च सम्मोहाभावादिरूपः । असम्मोहसावधानत्वादिलक्षणगुणसामग्रीसहितेनोत्साहेनेत्यर्थः । उत्साह एव गुण उत्साहगुण इति कर्मधारयसमासस्तु गुणशब्दस्य निरुपयोगत्वप्रसङ्गादयुक्तः । सम्पत् समृद्धिरिव । यथा सम्यक्प्रयोगादपरिक्षतायां नीतावुत्साहगुणेन सम्पदुत्पाद्यते, तथा समाधिमत्यां मेनायां भूधराणामधिपेन देवी समुत्पादिताभूदित्यर्थः । अत्र समाधिमत्यामिति मेनाविशेषणं सम्यक्प्रयोगादपरिक्षतायामिति नीतिविशेषणं च परस्परं बिम्बप्रतिबिम्बत्वमनुभवतः । देवीसम्पदोः साधारणं विशेषणमाहभव्येति । भव्या कल्याणी । उपमानोपमेयसाधारणधर्माणामिवशब्दस्य चोपादानात् पूर्णोपमेयम् । तया चात्र देवीलाभेन मेनाया हिमवतश्च कृतकृत्यता द्योत्यते ॥ २१ ॥ प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥ २२ ॥ प्रकाशिका प्रसन्नदिगिति । विविक्तो रहितः । शङ्खस्वनेति । उत्सवशङ्खस्वनं श्रुत्वा देवैर्भक्त्या कृतपुष्पवर्षमित्यर्थः । भवो हि लोकाभ्युदयाय तादृशाम् ’ (रघु. ३.१४) इतिवन्नात्रोपपादनं, तज्जन्मेतिविशेषणबलादेव तदनपेक्षत्वात् । या सर्वस्यात्मभूता, सा हि भगवती जन्मावलम्बते ॥ २२ ॥ विवरणम् इत्थमुत्पन्नाया देव्या जन्मदिनं वर्णयति— प्रसन्नेति । तज्जन्मदिनं स्थावरजङ्गमानां शरीरिणां सुखाय बभूव । तज्जन्मदिनं प्रथमः सर्गः ३३ स्थावराणां स्थावरजङ्गमानां जन्मदिनं जननदिवसः तस्याः भगवत्याः महीरुहमहीधरप्रभृतीनां जङ्गमानां जरायुजाण्डजस्वेदजभेदेन त्रिविधानां नरतिर्यगादीनां च शरीरिणां सुखायाभूत् । सुखकारणान्याह – प्रसन्न दिगित्यादिना विशेषणत्रयेण । प्रसन्नाः क्रूरातपमेघावरणराहित्यान्मनोहरा दिशो यस्मिंस्तत् । अनेन नेत्रसुखमुक्तम्। त्वगिन्द्रियसुखमाह - पांसुविविक्तवातमिति । मन्दत्वात् पांसुभी रजोभिः विविक्ताः विरहिताः वाता वायवो यस्मिंस्तत् । श्रोत्रेन्द्रियस्य घ्राणेन्द्रियस्य च प्रीतिमाहशङ्खस्वनानन्तरपुष्पवृष्टीति । शङ्खस्वनस्य शङ्खनादस्यानन्तरं पुष्पवृष्टिः पुष्पवर्षं यस्मिस्तत्। उत्सवशङ्खस्वनश्रवणानन्तरं भक्त्या दैवैः पुष्पवृष्टिः कृतेत्यवसेयम्। अथवा आदौ देवैर्मङ्गलार्थः शङ्खनादः कृतः । पुनः प्रसादातिशयात् पुष्पवृष्टिरपि कृतेत्यर्थः । आकाशदेशाद् दिव्यकुसुमेषु पतत्सु किमिदमित्यूर्ध्वमवलोकयतां जनानामास्ये दिव्यमकरन्दबिन्दुपतनाज्जिह्वेन्द्रियस्यापि प्रीतिरर्थादनेनैवोक्तेति माधवः । स्थावराणां तु पत्रपुष्पफलादीनां सातिशयोत्पत्तिदर्शनेन सुखं जातमित्यवसेयम् । उक्तञ्च श्रीकृष्णविलासे— अत्र तद्वंशनालच्युतमच्युतस्य गीतामृतं साधु निषेव्य वृक्षाः । चिरं जराजर्जरितत्वचोऽपि बाला इवासन् नवपल्लवाढ्याः ॥ इति । स्थावरजङ्गमानामिति बहुवचनेन हिमवतीत्यादिविशेषानुपादानाच्च तज्जन्माजानतामपि कोऽप्यानन्दातिशयः सञ्जात इत्युक्तं भवति । नात्र कश्चिद् विस्मयः, सर्वात्मिकापि भगवती जन्मावलम्बत इति समर्थनस्य तज्जन्मदिनमित्यनेनैवोक्तत्वादत्र ‘भवो हि लोकाभ्युदयाय तादृशाम् ’ ( ३.१४) इत्यनेन रघुवंश इवार्थान्तरन्यासो न कृत इत्यवसेयम् ॥ २२ ॥ तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशे । विदूरभूमिर्नवमेघशब्दा- दुद्भिन्नया रत्नशलाकयेव ॥२३॥ प्रकाशिका तयेति । विदूरो नाम पर्वतः । मेघशब्दाद् वैदूर्यमुत्पद्यत इति प्रसिद्धम्। यथाह माघकविः - उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः । अभवन् यदङ्गणभुवः समुल्लसन्नववालवायजमणिस्थलाङ्कुराः ॥’ (१३.५८) इति ॥ २३ ॥ L३४ कुमारसम्भवे विवरणम् जातमात्राया देव्या नैसर्गिकीं शरीरसुषमामाह- तयेति । सवित्री तया दुहित्रा सुतरां चकाशे । सवित्री माता तया दुहित्रा पुत्र्या सुतराम् अत्यर्थं चकाशे शोभते स्म । जातमात्रायामेव देव्यां मातुः पूर्वावस्थातः शोभाधिक्यं जातमित्यर्थः । अत्रोपमामाह - विदूरभूमिः नवमेघशब्दाद् उद्भिन्नया रत्नशलाकयेवेति । विदूरभूमिः विदूरो नाम रत्नोद्भवस्थानभूतः पर्वतविशेषः, यदुद्भूतं रत्नं वैदूर्यमित्युच्यते । घनगर्जिताद् उद्भिन्नया स्थली भित्त्वोद्गतया रत्नशलाकया शलाकारूपेण रत्नेन, रत्नाङ्कुरेणेत्यर्थ । विदूरभूमेर्मेघशब्दाद् वैदूर्योत्पत्तिः । यदाह भोज ः- अस्ति शैलो विदूराख्यः पर्यन्ते तत्र काचन । मही रत्नाकरीभूता वैदूर्यं तत्र जायते ॥ मेघशब्देन जायन्ते तत्र रत्ननवाङ्कुराः । क्रमात् परिणतास्ते स्युर्मणयो राजपूजिताः । इति । उपमानोपमेययोः साधारणं धर्ममाह - स्फुरत्प्रभामण्डलयेति । स्फुरत् शोभमानं प्रभामण्डलं मण्डलाकारा प्रभा यस्यां सा तथा । अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशान्तदीपाः सहसा हतत्विषो वभूवुरालेख्यसमर्पिता इव ॥ ( ३.१५ ) इति रघुवंशोक्तप्रकारोऽनेन दर्शितः ॥ २३ ॥ दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव रेखा । पुपोष लावण्यमयान् विशेषा- ज्योत्स्नान्तराणीव कलान्तराणि ॥ २४ ॥ प्रकाशिका दिने दिन इति । लब्ध उदयः सूर्यात् पृथगुपलम्भो यया प्रतिपदि । लावण्यमयान् लावण्योत्तरान् । लावण्यं हि नामावयवसंस्थानाभिव्यङ्ग्यं निखिलावयवव्यतिरिक्तं किञ्चिदेव तत्त्वान्तरमिति [१.४. ध्वन्यालोकलोचने] ध्वनिकारः [अभिनवः ]। विशेषान् अवयवान्। ‘विशेषोऽवयवे व्यक्तौ पुण्ये शेषविवर्जिते’ इत्युत्पलमालायाम् । ज्योत्स्नया अन्तरं व्यवधानं येषामिति विग्रहः । कलान्तराणि कलाविशेषान् । अत्र हलायुधः- प्रथमः सर्गः मध्ये वस्त्रे तथा छिद्रे व्यवधानेऽन्तरात्मनि । ३५ अवकाशे बहिर्योगे विशेषेऽवयवेऽन्तरम्॥ इति । दक्षिणावर्त ः - मयटोऽन्तरशब्दस्य चावयवार्थत्वं तु न युक्तम्। नन्वत्रैकेनैवेवशब्देन किं न चरितार्थत्वम्, न प्रतिपदार्थमुपमितिविवक्षणात् । वाक्यार्थोपमाव्यवहारस्त्वीदृशे विषये, वाक्यार्थव्यापित्वात् । ज्योत्स्नालावण्ययोस्तु वृत्त्यन्तर्भावान्नेवशब्दस्तद्विषयः । अर्थतस्तूपमितिः । तदेवमन्वयः - लब्धोदया चान्द्रमसी रेखेव दिने दिने परिवर्धमाना सा ज्योत्स्नान्तराणि कलान्तराणीव लावण्यमयान् विशेषान् पुपोषेति ॥ २४ ॥ विवरणम् उत्पन्नाया देव्याः शरीरपरिपोषानुरूपां लावण्यवृद्धिमाह- दिने दिन इति । लब्धोदया चान्द्रमसी रेखेव दिने दिने परिवर्धमाना सा ज्योत्स्नान्तराणि कलान्तराणीव लावण्यमयान् विशेषान् पुपोष । लब्धोदया लब्ध उदय आविर्भाव सूर्यात् पृथग्भावश्च यया । अमावास्यायां सूर्यं प्रविष्टस्येन्दोः पूर्वपक्षारम्भे यस्तस्मात् पृथग्भावः, स एवोदयशब्देनोच्यते। यथोक्तं ज्योतिःशास्त्रे- भानोः समासन्नतया ग्रहाणामदर्शनं यत् तदिहास्तमुक्तम्। ततश्च तेषां रविदूरगत्या यद् दर्शनं स्यादुदयं तदाहुः ॥ इति । चान्द्रमसी चन्द्रमःसम्बन्धिनी । ‘हिमांशुश्चन्द्रमाश्चन्द्र’ इत्यमरः । रेखा कलेव, प्रतिपच्चन्द्रकलेवेत्यर्थः। दिने दिने अहन्यहनि परिवर्धमाना वर्धनमुपयान्ती सा पार्वती ज्योत्स्नान्तराणि ज्योत्स्नया चन्द्रिकया अन्तरं व्यवधानम् आच्छादनं येषां तानि, ज्योत्स्नामयानीत्यर्थः । कलान्तराणि कलारूपानवयवानिव । मध्ये वस्त्रे तथा छिद्रे व्यवधानेऽन्तरात्मनि । अवकाशे बहियोंगे विशेषेऽवयवेऽन्तरम् ॥ इति हलायुधः । लावण्यमयान् लावण्योत्तरान्। प्राचुर्यार्थे मयट् । विशेषान् अवयवान्। ‘विशेषोऽवयवे व्यक्तौ’ इत्युत्पलमाला । पुपोष प्राप । यथा पूर्वपक्षप्रतिपदुदिता शशिकला प्रतिदिनमधिकाधिकज्योत्स्नान् कलारूपानवयवान् प्राप्नोति, तथेयमपि जन्मलाभानन्तरमनुदिनं लावण्यप्रचुरानवयवानुपलेभ इत्यर्थः । अवयवसंस्थानविशेषाभिव्यङ्गयं निखिलावयवेभ्यो व्यतिरिक्तं यत्किञ्चित् तत्त्वान्तरं लावण्यमिति [ १.४ लोचने] ध्वनिकारः [ अभिनवः ] । अत्र प्रतिपदार्थमुपमिते- ३६ कुमारसम्भवे र्विवक्षणादिवशब्दद्वयोपादानमिति द्रष्टव्यम्। ज्योत्स्नालावण्ययोस्तूपमानोपमेयभावे सत्यपि तयोः समासान्तर्भावात् तत्रेवशब्दो न प्रयुक्तः ॥ २४ ॥ ४ तां पार्वतीत्याभिजेनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा ॥ पश्चादुमाख्यां सुमुखी जगाम ॥ २५ ॥ प्रकाशिका तां पार्वतीति । आभिजनेनाभिजनमिमित्तेन । जुहाव आकारितवान् । उ इति तपोवाचकमव्ययम्। मा निषेधे । तपसे मा भवेति निषिद्धेत्यर्थः ॥ २५ ॥ नामकरणप्रकारमाह-

विवरणम्

तामिति । बन्धुजनः ताम् आभिजनेन नाम्ना पार्वतीति जुहाव । बन्धुजनः महामेरुप्रभृतयो बन्धवः तां गौरीम् आभिजनेन अभिजन आभिजात्यं तन्निमित्तम् आभिजनम् आभिजात्यनिमित्तेन नाम्नेत्यर्थः । जुहाव ‘ह्वेञ् स्पर्धायां शब्दे च’इत्यस्माद्धातोर्लिटि रूपम्। धातूनामुपसर्गेण येऽर्थाः प्रतीयन्ते ते सर्वेऽपि तेषां स्वार्था एव। उपसर्गाणां पुनरभिव्यञ्जकत्वम् । यदाह माघ ः - धातुलीनमुपसर्ग इवार्थम् (१०.१५) इति । तस्माद् युक्त एवात्रोपसर्गेण विनापि प्रयोगः । देवतात्मकत्वादभिजनसम्पन्नस्य पर्वतस्यापत्यमिति व्युत्पत्त्या बन्धवस्तां पार्वतीत्याहूतवन्त इत्यर्थः । बन्धुजनस्य तद्विषयां प्रीतिमाह — बन्धुप्रियामिति । बन्धूनां प्रियामिष्टाम्। अनेनाह्वाने तेषामादरातिशयो द्योत्यते । एवं नामान्तराण्यपि सञ्जातानीति दर्शयन्नाह - सुमुखी मात्रा उ मा इति तपसः निषिद्धा पश्चाद् उमाख्यां जगाम। शोभनं मुखं यस्याः सा सुमुखी। अनेन स्मितपूर्वभाषित्वादिरूपो महागुणो दर्शितः । मात्रा मेनया उशब्दस्तपोवाचकमव्ययम् । ‘उ तापेऽव्ययमीशे ना’ इति यादवः । माशब्दो निषेधवाचकमव्ययम् । ’ मा स्म मालं च वारण’ इत्यमरः । तपो मा भवेदिति तपसः सकाशान्निषिद्धा वारिता सती पश्चात् तपश्चरणारम्भकाले उमाख्याम् उमेत्याख्यां च जगाम प्राप्तवती । मृदुशरीरा कठिनतरं तपः कर्तुकामा रोगभीतया जनन्या ‘मनीषितायार्च’ (५.४) इत्यादिवक्ष्यमाणप्रकारेण तपसः सकाशान्निषिद्धा सती सा पश्चादुमेति नाम च जगामेत्यर्थः । एवं देव्या गुणकर्मानुरूपाणि नामान्तराण्यपि बभूवुरिति भावः ॥ २५ ॥ प्रथमः सर्गः महीभृतः पुत्रवतोऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम्। अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ २६ ॥ प्रकाशिका एक -म ३७. महीभृत इति । अत्र पर्यायप्रक्रमभङ्गदोषं पश्यन् काव्यप्रकाशकृदुक्तवान्अपत्यवतोऽपीति युक्तम्। अत्र सत्यपि पुत्रे कन्यारूपेऽपत्ये सस्नेहोऽभूदिति केचित् ’ समर्थयन्त इति । तस्य चान्यदीयं समर्थनमपि नानुमतम्। अनुमतत्वे पाठान्तरं न दद्यात् । दत्त्वा वा यद्वेत्यादि विकल्पवाचि पदमनन्तरवाक्ये प्रयुञ्जीत । न च केचिदित्येकीयमतत्वेन निर्दिशेत्। युक्तं चैतत् । तथाहि – प्रतिवस्त्वलङ्कारे दृष्टान्तदाष्टन्तिकयोर्वाक्यार्थयोर्बिम्बप्रतिबिम्बभावेन भाव्यम् । अन्यथा तद्भावासंभवात् तदसम्भवे च भवत्येकवाक्यता न स्यात् । एवं स्थितेऽत्र दृष्टान्ते पुष्पशब्देन सामान्यवाचिनोपक्रमे चूतशब्देन विशेषवाचिनोपसंहारः । दाष्टन्तिके पुत्रशब्देन विशेषवाचिनोपक्रमे अपत्यशब्देन सामान्यवाचिनोपसंहारः, सर्वनामवशाद्वा विशेषान्तरवाचिनोपसंहारः । ततश्च न बिम्बप्रतिबिम्बभाव इति । ननु - आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी। आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॥ इत्यमरसिंहवचनाद् विशेषवाचिनः पुत्रशब्दस्य कथमपत्यपर्यायत्वम् । भिन्नव्युत्पत्तिनिमित्तयोः प्रवृत्तिनिमित्तैक्ये हि पर्यायत्वम् । नैवम्। सामान्यवाच्यपि पुत्रशब्दोऽस्ति । तथाश्वलायनगृह्ये दर्शनाद् ‘यदि कामयते पुमांस एव मे पुत्रा जायेरन्निति । एवञ्च सामान्यविशेषरूपोभयार्थवाचिनः पुत्रशब्दस्य सामान्यार्थत्वे पर्यायप्रक्रमभङ्गः । तत्परिहाराय तु विशेषार्थत्वे वाक्यार्थयोरनन्वयः । तत्रानन्वयात् पर्यायप्रक्रमभेदो वरम्। तदपेक्षयाल्पदोषत्वात् । महाकविप्रयोगे चासंभावनीयस्तादृशो वाक्यार्थदोषः । न हि मन्दचक्षुरपि पुरःस्थं द्विरदवरं न पश्येत् किमुत चक्षुष्मान् । अनयैव खलु युक्त्या व्यक्तिविवेककाव्यप्रकाशकारौ महामती प्रक्रमभेदमेवाङ्गीचक्रतुः ॥ २६॥ पितुस्तस्यां स्नेहातिशयमाह- विवरणम् महीभृत इति । महीभृतः दृष्टिः तस्मिन् अपत्ये तृप्ति न जगाम । महीभृतो हिमवतो दृष्टिर्नेत्रद्वयी तस्मिन् पार्वतीरूपे अपत्ये । । ३८ कुमारसम्भवे आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी। आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ॥ इत्यमरः । तृप्तिम् अलम्भावं न जगाम न प्राप्ताभूत् । हिमवतो दृष्टिः पार्वत्यामेव सस्पृहं सक्ताभूदित्यर्थः । ननु किमपत्यान्तरराहित्यं तत्र हेतुः, नेत्याह – पुत्रवतोऽपीति । स्त्रीरूपे पुरुषरूपे चापत्यान्तरे सत्यपीत्यर्थः । तत्र स्त्रीरूपमपत्यान्तरं गङ्गा । तदुक्तं श्रीकृष्णविलासे- अधीशितुः सानुमताममुष्य कः स्तोतुमीष्टे कमलाक्ष ! कन्ये ।

ययोः स देवः स्मरशत्रुरेकां धत्ते जटायामपरां शरीरे ॥ इति । सामान्यवाच्यपि पुत्रशब्दोऽस्ति । तदुक्तमाश्वलायनगृह्ये ‘यदि कामयते पुमांस एव मे पुत्रा जायेरन् ’ (१.७.३ ) इति । अत्र प्रतिवस्तूपमामाह – अनन्तपुष्पस्य मधोः द्विरेफमाला चूते सविशेषसङ्गा हीति । अनन्तानि निरवधिकानि पुष्पाणि कमलादीनि यस्य, तस्य मधोर्वसन्तस्य द्विरेफमाला भ्रमरसन्ततिः चूते सहकारकुसुमे सविशेषसङ्गा सविशेषं विशेषसहितं यथा भवति तथा सङ्गः सक्तिर्यस्याः सा तथा । हिशब्दः प्रसिद्धौ। उक्तञ्च रघुवंशे ‘न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली’ (६.६९) इति । अत्र महीभृद्वसन्तौ दृष्टिद्विरेफमाले पुत्रान्तरपुष्पान्तराणि पार्वतीरूपापत्यचूतकुसुमे च परस्परं बिम्बप्रतिबिम्बभावमनुभवन्ति । अत एव पुत्रशब्दः ‘आत्मजस्तनयः सूनुरि’ त्याद्यमर सिंहवचनमतिक्रम्याश्वलायनमतेन सामान्यवाचित्वेन व्याख्यातः । अन्यथा सामान्यवाचिनः पुष्पशब्दस्यैतत्प्रतिबिम्बत्वाभावप्रसङ्गात्। बिम्बप्रतिबिम्बभावाभावे च प्रतिवस्तुत्वमपि विरुध्यत एव। प्रतिवस्तुत्वाभावे पुनरेकवाक्यता न स्यादित्य - लमनेन । यत् पुनरत्र पुत्रवतोऽपीत्युपक्रम्य पर्यायान्तरेणापत्यशब्देनोपसंहार इति पर्यायप्रक्रमभेददोष इति, तत्तु महाकविप्रयोगस्य महनीयगुणान्तरास्पदत्वात् सहनीयम्। पर्यायप्रक्रमभेदभयाद् महीभृतोऽपत्यवतोऽपीति पाठान्तरं दत्त, यत्तु तदपि तादृशगुणाभावादेवोपेक्षणीयम्। अत्रात्यासङ्गः साधारणो धर्मः शब्दभेदेन वाक्यद्वयेऽप्युपात्त इति प्रतिवस्तूपमालङ्कारः । वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमेति । नात्रार्थान्तरन्यासत्वं शङ्कनीयं, सामान्यविशेषनापि दृष्टान्तालङ्कारत्वं साधारणधर्मस्यापि बिम्बप्रतिबिम्ब- भावाभावात्। भावाभावात् ॥ २६ ॥ प्रथमः सर्गः प्रभामहत्या शिखयेव दीप- स्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च भूषितश्च ॥ २७॥ प्रकाशिका ३९ प्रभेति । दीपो नाम स्निग्धवर्त्यादिगतो वह्निः । शिखा तु तस्य • क्षणनश्वरोऽवयवप्रसरः । त्रिदिवस्य मार्ग आकाशः । संस्कारवत्या लक्षणानुसारिण्या । दीपस्य पूतत्वमवतमसमेलनाभावः । आकाशस्य तच्छीकरादिसम्पर्कात् तत्रत्यानां दुरितक्षयः । मनीषिणः पुण्यलाभः । तदुक्तम्— ‘एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवतीति । महीभृतस्त्वनुग्रहोन्मुखया तया मलमायाकर्मतत्कार्याणां दग्धप्रायता । विभूषितत्वं तु सर्वत्र जनितशोभत्वम् । अत्र व्यङ्ग्येनापि केनचित् साधारणधर्मेण प्रत्युपमानं भिन्नेनावश्यं भवितव्यमिति केचिन्मन्वते। न तदलङ्कारकृतामनुमतम् । अनुमतं चेन्मालोपमाप्रस्तावेऽभिदध्युः । ते तु प्रत्युतास्या अभिन्नभिन्नधर्मत्वेन द्वैविध्यमूचुः । अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् । अज्ञस्येव प्रगल्भत्वमकवेः शास्त्रवेदनम् || इत्यत्र त्वश्रूयमाणत्वात् साधारणधर्मस्याक्षेपे कर्तव्ये औचित्यादनेक आक्षिप्यते, न तु व्यज्यते । यत्र तु महाकविप्रयोगे क्वचिद् व्यङ्गयेनापि भूयेत तत्राधिकं चारुत्वमस्तु। न त्वेतावता तन्नियमः । न चैकस्मिन्नुपमान उपात्ते उपमानान्तरवैयर्थ्यशङ्कया यव्यङ्ग्यधर्मभेदो मृग्यः । उपमानान्तरम्य सौन्दर्यातिशयहेतुत्वात् । यथालङ्कारान्तरस्य चन्द्र इव वदनकमलमस्या इति ॥ २७॥ चाह- विवरणम् अथानुग्रहोन्मुखया भगवत्या हिमाचलस्य मायातत्कार्याणां दग्धप्रायत्वं जनितशोभत्वं प्रभेति । सः तया पूतश्च विभूषितश्च । सः हिमवान् तया निजानुग्रहार्थमेव निजपुत्रीत्वमनुभवन्त्या देव्या पूतः संसारप्रवर्तकाज्ञानविनाशनवशाद्विशुद्धान्तःकरणः विभूषितः इतस्ततः सञ्चरन्त्या तया जनितशोभश्च बभूवेति शेषः । अत्रोपमात्रयमाह - प्रभेत्यादि । दीपः प्रभामहत्या शिखयेव । स्निग्धवर्त्यादिद्रव्यवर्ती वह्निर्दीप इत्युच्यते । प्रदीपात् प्रतिक्षणमुद्गच्छन्नालोकप्रसरः शिखेत्युच्यते। प्रभया शोभया ४० कुमारसम्भवे महती प्रभामहती । यथा दीपः प्रभामहत्या शिखया पूतश्च विभूषितश्च भवति, तथायमपि तयेत्यर्थः । शिखया दीपस्य पूतत्वं तमोऽनभिभवनीयत्वं, विभूषितत्वं तु स्पष्टमेव । अनेनोपमानेन लोकान्तरेऽप्यज्ञानाभिभवो न भविष्यतीति द्योत्यते । उपमानान्तरमाह — त्रिदिवस्य मार्गः त्रिमार्गया इव। त्रिदिवस्य मार्ग आकाशः । पातालभूतलाकाशवाहिनीत्वात् त्रयो मार्गा यस्याः सा त्रिमार्गा गङ्गा, आकाशस्य गङ्गया पूतत्वं तच्छीकरादिसम्पर्कात् तत्रत्यानां दुरितनिवृत्तिः । विभूषितत्वं दर्शनीयत्वम्। अनेनोपमानेन हिमवतः समीपवर्तिनामपि जनानां शुद्धिर्दर्शिता । उपमानान्तरमप्याह — मनीषी संस्कारवत्या गिरेवेति । मनीषी विद्वान् संस्कारवत्या व्याकरणादिलक्षणानुसारिण्या गिरा वाचेव । अत्र मनीषिणः पूतत्वं सुकृतलाभः । तदुक्तं- यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥ इति । विभूषितत्वं जनबहुमानास्पदत्वम् । अनेनोपमानेन हिमवतः पङ्क्तिपावनत्वं द्योत्यते। अत्र मनुः - इति ॥ २७ ॥ यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पङ्क्तिपावनपावनौ ॥ मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसान्निर्विशतीव बाल्यम् ॥ २८ ॥ प्रकाशिका मन्दाकिनीति । क्रीडारसादिति पाठः । निर्विशतीति हेत्वर्थे शता । यथा राजानमाराधयन् धनं विन्देतेति । यथा क्रीडारसहेतुकमस्या बाल्यग्रहणं तद्धेतुकं च रमणमित्युत्प्रेक्ष्यते, तथा सातिशयं रेम इत्यर्थः । ननु बाल्यग्रहणस्य रमणे हेतुत्वं नोत्प्रेक्ष्यं, वास्तवत्वात्। न क्रीडारसहेतुकस्य तस्य तदसिद्धेः । लोकानुजिघृक्षया हि सर्वो व्यापारो भगवत्याः । तर्हि तदेवोत्प्रेक्ष्यं, न तु बाल्यग्रहणस्य रमणे हेतुत्वमपि । नैवम्। बाल्यग्रहणस्यैवासिद्धायमानत्वात् । यथा विधिवाक्ये चारेण पश्येदित्यादौ प्रधानभूतदर्शनादिक्रियाभिनिर्वर्तकस्वक्रियाभिसंवन्धाच्चारादेः साध्याय- प्रथमः सर्गः ४१ मानता, तथेहाप्यसिद्धक्रीडारसहेतुकत्वान्वयाद् बाल्यग्रहणस्यासिद्धायमानता । तत्र च यथा चारादेः करणत्वादिमात्रं विधेयं, तथात्र बाल्यग्रहणस्य हेतुत्वमात्रम् । यथा च प्रमाणान्तरसिद्धत्वाद् दर्शनादेर्न विधेयत्वं, तथा प्रकृतत्वाद् रमणस्य नोत्प्रेक्ष्यत्वम् । न चानैकान्तिकः प्रकृतत्वहेतुः । प्रकृतस्य ह्यतिशयाधानाय तत्राप्रकृतमुत्प्रेक्ष्यते । प्रकृतं तु तस्य विषयत्वेनावतिष्ठते। तस्येहोत्प्रेक्ष्यत्वे मिथ्यात्वंमनलङ्कारत्वं च स्यात्। अलङ्कारान्तरेष्वप्ययं न्यायोऽनुसन्धेयः । तर्हि ‘त्वन्मुखमिव कमलमि’ त्यत्र कथं प्रकृतस्योपमानत्वम्। न तत्रोपमानत्वं वास्तवम् । इह तूत्प्रेक्ष्यत्वं वास्तवमेवेति विशेषः । एवञ्चोक्तन्यायेन रमणस्याप्यसिद्धायमानत्वं स्यादिति चोद्यमपि परिहृतम् । अथवा क्रीडारसहेतुकत्वविशिष्टस्य बाल्यग्रहणस्यासिद्धत्वं यथा ‘कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवेत्यत्र कपालोन्मुक्तत्वविशिष्टस्याङ्करस्य । क्रीडारसमिति पाठे क्रीडया क्रीडारसेन रसो यत्रेति विग्रहेऽप्ययमेवार्थनिर्वाहः ॥ २८ ॥ विवरणम् क्रमेण सम्पन्नबाल्यावस्थाया देव्याः क्रीडाप्रकारानाह- , मन्दाकिनीति । सा सखीनां मध्यगता मन्दाकिनीसैकतवेदिकाभिः कन्दुकैः कृत्रिमपुत्रकैश्च मुहुः रेमे । सा पार्वती सखीनां मध्यं मध्यभागं गता सती । अनेन सखीनां तद्दर्शनमात्रकौतुकं ध्वनितम्। मन्दाकिनीसैकतवेदिकाभिः मन्दाकिन्या गङ्गायाः सैकते पुलिने । ‘तोयोत्थितं तत् पुलिनं सैकतं सिकतामयमित्यमरः । या वेदिकाः कौतुकात् स्वेनैव रचिता इत्यर्थात् सिध्यति । ताभिः मन्दाकिनीतटे स्वेनैव रचितैः सिकतासन्निवेशमयैः मण्डपविशेषैरित्यर्थः । कन्दुकैः कन्दुकाघातैः कृत्रिमपुत्रकैः कृत्रिमैः करणनिर्वृत्तैः पुत्रकैः । अल्पार्थे कः । बालपुत्रैः पुत्रत्वेन कल्पितैर्दारुविशेषैरित्यर्थः । मुहुः पुनः पुनः, अनवरतमित्यर्थः । भृशार्थे वा मुहुश्शब्दः । चकारोऽनुक्तानामपि समुच्चयार्थः । अनुक्ताश्च तेऽर्था बालस्वभावादेवावसेयाः । रेमे चिक्रीड । ‘रमु क्रीडायाम्’ इति धातुः । इत्थं देव्याः सखीभिः सह सततं विहितायां क्रीडायां हेतुमुत्प्रेक्षते – क्रीडारसाद् बाल्यं निर्विशतीवेति । क्रीडारसात् क्रीडायां यो रसः रागः, तस्माद्धेतोः बाल्यं बालभावं निर्विशती अनुभवन्ती सतीव । निर्विशतीति हेतौ शता। क्रीडारसादेव बाल्यमवलम्ब्यावस्थितत्वादिवेत्यर्थः । ‘कृष्णमाराधयन्नपवर्गं लभत’ इतिवत् । अत्रातिमहत्येवंविधे रमणे बाल्यानुभवरूपो हेतुरुत्प्रेक्ष्यते, बाल्यानुभवे च क्रीडारस इति विवेकः । यथा नित्याया भगवत्याः क्रीडारसहेतुकं बाल्यग्रहणं, बाल्यग्रहणहेतुकं च रमणमित्युत्प्रेक्ष्यते, तथा सातिशयं रेम अत्यर्थः । जगदुपकृतिमात्रव्यापाराया देव्या बाल्यग्रहणादिव लोकोत्तरं रमणमित्येकोत्प्रेक्षा, क्रीडारसादिव क्रीडारसादिव बाल्यग्रहण- मित्यन्या ॥ २८ ॥ ४२ कुमारसम्भवे तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥२९॥ प्रकाशिका तामिति । स्थिरो वासनारूपेण उपदेशः पूर्वजन्मकृतो यस्याः । उपदेश आचार्यैः कृतः, तस्य काले यौवनादर्वाचि वयसि । यदाह मुनिः प्राग् यौवनाद् युवतिरि’ति । न च विद्यासु स्त्रिया नाधिकारः । तस्यापि मुनिना समर्थितत्वात् । अत्र स्थिरोपदेशामिति उपदेशकाल इति च विद्याविनयस्य स्वाभाविकः कृतकश्चेति यावंशावुक्तौ तयोः प्रत्येकं प्रतिविम्बनायोपमानद्वयं दत्तमित्यवसेयम्। आचार्याणामनतियत्नश्च द्योत्यते ॥ २९ ॥ , अथ देव्या विद्याग्रहणप्रकारमाह- विवरणम् — तामिति । प्राक्तनजन्मविद्याः उपदेशकाले तां प्रेपदिरे। प्राक्तनजन्मविद्याः प्राक्तने प्राचीने जन्मनि दक्षसुतात्वावस्थायां या विद्यास्ताः सर्वा अपि उपदेशकाले आचार्यैः क्रियमाणस्योपदेशस्य काले समये । स च यौवनोत्पत्तेः पूर्वकालः । यदाह मुनिः ‘प्राग् यौवनाद् युवतिरि’ति । विद्यां ग्राहयितव्येति शेषः । तां पार्वतीं प्रपेदिरे संप्रापुः । प्राक्तनजन्मविद्याः आचार्योपदेशमात्रं निमित्तीकृत्य देवीं प्रतिपेदिर इत्यर्थः । तत्र हेतुमाह — स्थिरोपदेशामिति । स्थिरा ः वासनारूपेण पूर्वमेव वर्तमानाः उपदेशाः पूर्वजन्मकृताः यस्यां ताम् । अनेन स्वाभाविको विद्याविनय उक्तः, उपदेशकाल इत्यनेन कृतकः । द्विविधो विद्याविनयः । यदाह विष्णुगुप्तः - ’ कृतकः स्वाभाविकश्च विनयः’ (कौटि. अर्थ. १.५.२ ) इति । तत्र कृतके विद्याविनये प्रथममुपमानं दर्शयति — हंसमालाः शरदि गङ्गामिवेति । हंसमाला ः हंसपङ्क्तयः शरदि शरत्काले गङ्गामिव। हंसानां वर्षासु मानसे स्थितिः, पुनश्च शरदारम्भे स्वाभिमतेषु भागीरथीप्रदेशादिष्विति प्रसिद्धिः । स्वाभाविके विद्याविनयेऽप्युपमानमाहआत्मभासः नक्तं महौषधिमिवेति । आत्मभासः दिवसेषु सूर्यप्रभाभिभूता निजा एव भासः प्रभाः । नक्तमिति रात्रिवाचकमव्ययम् । ‘दोषा च नक्तं च रजनौ’ इत्यमरः । महौषधिं रात्रावुज्ज्वलं वृक्षविशेषमिव । यथा सूर्यप्रभाभिभूता निजा एव प्रभाः सूर्यप्रभातिरोभावे महौषधिं प्राप्नुवन्ति, तथा बाल्यादप्रकाशमाना वासनारूपेण पूर्वमपि विद्यमाना विद्यास्तामपीत्यर्थः । अत्रोपमाद्वयेनाचार्याणामनतिप्रयासो व्यज्यते ॥ २९ ॥ प्रथमः सर्गः- असम्भृतं मण्डनमङ्गयष्टे- रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साथ वयः प्रपेदे ॥३०॥ प्रकाशिका ४३ असम्भृतमिति । असंभृतमसंपादितं मण्डनमलङ्क्रियासाधनम्। अनासवाख्यं आसवत्वशून्यमित्यर्थ । अस्त्रं जयसाधनम् । अथानन्तरं, कालक्रमेणेत्यर्थः । अत्र संभृतत्वादिर्मण्डनादेः प्रसिद्धो हेतुर्व्यावर्त्यते, हेत्वन्तरं च स्तनोद्भेदधातूपचयलावण्यलक्ष्मीलाभादिर्विभाव्यत इति विभावनात्रालङ्गार इति भोजः । कश्चित् तु विभावनायाममुं श्लोकमुदाहृत्य ‘अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृत’ इति योजनां कृत्वा ‘असंभृतं मण्डनमिति कामस्य पुष्पव्यतिरिक्तमस्त्रमिति चात्र विवदन्ते - इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं च प्रत्यकारणत्वाद् वार्तमेतद्’ इति पादद्वये विभावनां निराकृतवान् । तत्र च रूपकमुत्कटत्वेन प्रतीयते ॥ ३०॥ विवरणम् अथ यौवनावस्थां वर्णयितुमुपक्रमते-

असम्भृतमिति । अथ सा बाल्यात् परं वयः प्रपेदे । अथ विद्याग्रहणानन्तरं, कालक्रमेणेत्यर्थः सा यौवनारम्भात् पूर्वमपि लोकोत्तरशरीरलावण्या पार्वती । अनेन शरीरसामान्यमपि यौवनारम्भे मनोहरं भवति, किं पुनः शरीरविशेष इति दर्शितम् । तेन च वक्ष्यमाणानां गुणानामुपपत्तिर्ध्वन्यते । बाल्यात् परं वयः यौवनं प्रपेदे प्राप्तवती । कीदृशं पुनस्तदित्यत्राह – असम्भृतमित्यादिना विशेषणत्रयेण । तत्रादौ नेत्रानन्दकरत्वमाह – अङ्गयष्टेः असम्भृतं मण्डनमिति । अङ्गयष्टेः प्रशस्ताङ्गस्य, ‘हस्तयष्टिलतादयः प्रशंसावचना’ इत्युक्तत्वात्। अत्राङ्गविशेषानुपादानादस्य सर्वाङ्गीणत्वमुक्तम् । असम्भृतम् असम्पादितं मण्डनम् अलङ्क्रियासाधनम्। शरीरशोभापादनद्वारा अप्रयाससाध्यं नयनानन्दनजनकमलङ्कारसाधनमित्यर्थ । नयनानन्दकारित्वं मण्डनत्वरूपणे हेतुः । दर्शनानन्तरभवस्य चित्तविकारस्यापि हेतुत्वमाह-मदस्य अनासवाख्यं करणमिति। मदस्य अन्तःकरणविभ्रमस्य । ‘सम्मोहानन्दसम्भेदो मदिरादिकृतो मदः’ इति भोजः । अनासवाख्यम् आसवो मद्यम् आसव इत्याख्या यस्य नास्ति तदनासवाख्यम् । करणं साधकतमम् । ‘करणं साधकतमे क्षेत्रगात्रेन्द्रियेष्वपि’ इति सिंहः । आसवव्यतिरिक्तं मदकारणमित्यर्थः ।४४ कुमारसम्भवे

अनेन मदकरेभ्यो द्रव्यान्तरेभ्यो व्यतिरेक उक्तः । मनोहरवस्तुदर्शनं मदकारणमित्युक्तं रघुवंशे ‘अमदयन् सहकारलता मनः सकलिकाः कलिकामजितामपि’ (९.३३) इति, ‘किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः’ ( ९.२८) इति च। चित्तविकारानन्तरभवस्य कामविकारस्यापि हेतुत्वमाह — कामस्य पुष्पव्यतिरिक्तम् अस्त्रमिति । कामस्य मदनस्य पुष्पव्यतिरिक्तं पुष्पाद् व्यतिरिक्तं पुष्पादन्यत् पुष्पादत्यन्तोत्कृष्टमिति च प्रतीयते । ‘व्यतिरिक्तः समधिक’ इत्यमरः । अस्त्रं जयसाधनम्। अथास्यैव श्लोकस्यापरा व्याख्या - बाल्यात् परं साथ वयः प्रपेदे इत्यत्र नार्थलाभः । यौवनस्य नैसर्गिकं शरीरशोभाहेतुत्वमाह – अङ्गयष्टरसम्भृतं मण्डनमिति। अत्र यौवनस्य मण्डनत्वरूपणेन मण्डनवच्छोभाहेतुत्वमुक्तम्। तेन च देव्याः शरीरे तद्धेतु कोऽपि शोभाविशेषो जात इति व्यज्यते । सविलासगमनादिनिदानभूतस्य मदस्यापि हेतुत्वमाह — मदस्य अनासवाख्यं करणमिति । यौवनस्य मदकारणत्वं प्रसिद्धम् । यथोक्तम् ‘उपदिशति कामिनीनां यौवनमद एव ललितानि’ इति । विशेषणद्वयेनोक्तस्यार्थस्य फलमाह — कामस्य पुष्पव्यतिरिक्तमस्त्रमिति । मदनस्य त्रैलोक्यजयसाधनमित्यर्थः । केचित् तु देवीजयस्यैव साधनमिति व्याचक्षते । अस्य श्लोकस्यालङ्कारनिर्णये भोजराजप्रभृतिभिरनेकधा विवादः कृतः । सर्वत्र विभावनेति भोजराजः । द्वितीयपाद एव विभावनेति मङ्खुकः । वामनः पुनः ‘एकगुणहानकल्पनायां साम्यदार्यं विशेषोक्तिः’ इति लक्षणमाश्रित्य विशेषोक्तिरलङ्कार इत्युक्तवान्। यौवनस्य मण्डनत्वादिरूपणाद् रूपकालङ्कार एव स्फुटः । सव्यतिरेकं चेदं रूपकमित्यस्मद्गुरोरुपदेशः ॥ ३० ॥

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्त्रशोभं वपुर्विभक्तं नवयौवनेन ॥ ३१ ॥ प्रकाशिका उन्मीलितमिति । उन्मीलितं स्फुटीकृतम् । तूलिकया चित्रलेखनशलाकया। भिन्नं विकासितम्। चतुरस्रा शोभा यस्य । चतुरस्रब्दोऽयं निरूढलक्षणया समग्रार्थः । चतुरस्रशोभीति पाठे चतुरस्रं शोभितुं शीलमस्येति णिनिरिति वामनः । विभक्तं व्यक्तीकृतस्तनजघनादिसंस्थानमित्यर्थः । तूलिकयोन्मीलितं चित्रमिव सूर्यांशुभिर्भिन्नमरविन्दमिव च नवयौवनेन विभक्तं तस्या वपुश्चतुरश्रशोभं बभूवेत्यन्वयः । अत्रोन्मीलितभिन्नत्वे विभक्तत्वं च दृष्टान्तलङ्कारवदन्योन्यं बिम्बप्रतिबिम्बभावेन प्रथमः सर्गः ४५ स्थितानि यथास्वं धर्मिणि साधारणधर्मभूतस्य चतुरश्रशोभत्वस्य हेतवः । प्रथमेनोपमानेन सातिशयचमत्कारहेतुत्वं द्वितीयेन तु विशिष्टोपयोगयोग्यत्वं च वपुषः प्रत्याय्यते । नवशब्देन त्वापातत एवेदृशकार्यकारि यौवनं लब्धप्रतिष्ठत्वे किं किं न कुर्यादिति द्योत्पते । ननु लिङ्गवचनकालभेददोषाः कथमत्र न स्युः । उच्यते। दष्टताहेतोः साधारणधर्मभेदस्याभावादाद्ययोर्न दुष्टत्वम् । तृतीयस्तु कविप्रभावेण निराक्रियते ॥ ३१ ॥ विवरणम् तादृशावस्थायास्तस्याः शरीरसुषमां वर्णयति — उन्मीलितमिति । नवयौवनेन विभक्तं तस्या वपुस्तूलिकया उन्मीलितं चित्रमिव सूर्यांशुभिर्भिन्नमरविन्दमिव चतुरश्रशोभं बभूव । नवयौवनेन नवेन यौवनेन। अत्र नवशब्देन यौवनमिदमारम्भावस्थायामेवैतादृशं कार्यं चकार, लब्धप्रतिष्ठं पुनः किं किं न कुर्यादिति द्योत्यते। विभक्तं कृतविभागं, व्यक्तीकृतस्तनजघनाद्यवयवसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुः शरीरं तूलिकया चित्रलेखनशलाकया उन्मीलितं स्फुटीकृतं चित्रमिव । अनेनोपमानेन सातिशयचमत्कारहेतुत्वं वपुषः प्रतिपादितम्। सूर्यांशुभिः सूर्यस्यांशुभिः भिन्नं विकासितमरविन्दमिव। अनेन विशिष्टोपयोगयोग्यत्वम् । चकारोऽध्याहार्यः । चतुरश्रशोभं चतुरश्रा समग्रा शोभा यस्य तत् तथा। चतुरश्रशब्दोऽयं निरूढलक्षणया समग्रार्थवाचकः । सम्पूर्णशोभमित्यर्थः । बभूव सञ्जातम् । अत्र चतुरस्रशोभत्वम् उपमानद्वयस्योपमेयस्य च साधारणो धर्मः । अत्र तूलिकोन्मीलितत्वसूर्यांशुभिन्नत्वे यौवनविभक्तावयवत्वं च दृष्टान्तालङ्कारवत् परम्परं बिम्बप्रतिबिम्बभावमनुभवन्ति, चतुरश्रशोभत्वस्य हेतुभावमप्यनुभवन्ति ॥ ३१ ॥ अभ्युन्नताङ्गुष्ठनखप्रभाभि- विक्षेपणाद् रागमिवोद्गिरन्तौ । आजहतुस्तच्चरणौ पृथिव्यां अभ्युन्नतेति । स्थलारविन्दश्रियमव्यवस्थाम्॥३२॥ प्रकाशिका यस्या रक्तनखौ पादावुन्नताग्री तलस्पृशौ । निगूढगुल्फौ निचितौ सा स्यान्नृपतिसम्मता ॥ साधारणधर्मभूतस्य T ४६ कुमारसम्भवे इति सामुद्रिकवचनाद् अभ्युन्नतत्वविशेषणम् । स्त्रीनखानां रक्तत्वमुचितम्। तथा चास्यान्यः प्रयोगः ‘अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोरि’[विक्रमोर्व. २.७ ]ति । विक्षेपणात् सवेगप्रेरणात्, तज्जनितात् खेदादित्यर्थः । रागं लाक्षाम् । ‘रागोऽनुरागे लाक्षायामिति यादवः । अव्यवस्थां सञ्चारिणीम्। अतः सविशेषेयं निदर्शना। ‘हस्ती हि जङ्गमं दुर्गमिति सशिषरूपकवत् ॥ ३२ ॥ विवरणम् अथ षोडशभिः श्लोकैर्देव्या अवयवान् वर्णयति । तत्रादौ अङ्गुष्ठयोः शोभातिशयं चरणयोः शोभां चाह- अभ्युन्नतेति । तच्चरणौ स्थलारविन्दश्रियमाजहतुः । तच्चरणौ तस्या देव्याश्चरणौ पादारविन्दे स्थलारविन्दश्रियं स्थलारविन्दस्य स्थलपद्मस्य श्रीः शोभा या ताम् आजह्रतुराहृतवन्तौ । तत्र हेतुमुत्प्रेक्षते - पृथिव्यां विक्षेपणादभ्युन्नताङ्गुष्ठनखप्रभाभी रागमुद्गिरन्ताविवेति । पृथिव्यां भूम्यां विक्षेपणात् पदविन्यासाद्धेतुना। अभ्युन्नताङ्गुष्ठनखप्रभाभिः अभ्युन्नतयोस्तलस्पर्शनसमयेऽधिकमुन्नताग्रयोरिति यावत् । तयोरङ्गुष्ठयोर्यौ नखौ तयोः प्रभाभिः करणभूताभिः रागं लाक्षाम्। ‘रागाऽनुरागे लाक्षायाम्’ इति यादवः । उद्गिरन्तौ उद्वमन्ताविव । पूर्वसेवितं लाक्षारसं स्वभावारुणैर्नखमयूखैरुद्वमन्ताविवेत्यर्थः । खेदाकुला हि पूर्वसेवितमुद्वमन्तीति भावः । तत्राहरणहेतुं श्रीविशेषणमाहअव्यवस्थामिति । सञ्चारिणीमिति यावत्। अनेनारविन्दश्रीविशेषणेन तन्नखश्रीः सर्वदैवेति द्योतितं, न तलस्पर्शनसमय एवेति भावः। अत्र नखमयूखानां रागातिशय उत्प्रेक्षाहेतुः । चरणाग्रस्याभ्युन्नतत्वं रक्तनखत्वं च महाभाग्यद्योतकम् । यथोक्तं सामुद्रिके - इति ॥ ३२ ॥ यस्या रक्तनखौ पादावुन्नताग्रौ तलस्पृशौ । निगूढगुल्फौ निचितौ सा स्यान्नृपतिसम्मता ॥ सा राजहंसैरिव सन्नतांसा गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धै- रादित्सुभिर्नूपुरशिञ्जितानि ॥३३॥ प्रकाशिका सा राजहंसैरिति । सन्नतांसेति राजहंससाम्यप्रतिपत्त्यर्थम् । ते हि तथा प्रसिद्धाः प्रथमः सर्गः ४७ प्रयोगेषु यथा— ‘स्मर्तव्याः शिथिलांसहंसरुचयो गोदावरीवीचयः ‘इति । यथा वा ‘वक! यदि तथा वेत्सि किञ्चिच्छ्लथांसस्तूष्णीमेवासितुमपि सखे! त्वं कथं मे न हंस’ इति । अञ्चितः पूजितः विक्रमः पदविन्यासः । इदं तदीयगतसाम्यसिद्ध्यर्थम्। अत्र देव्या गतेषु विषयभूतेषु राजहंसकर्तृकं विनयनं तद्धेतुतया प्रत्युपदेशलोभः, तद्धेतुतया नूपूरशिञ्जितादित्सा चोत्प्रेक्ष्यते । तत्र च तद्गमनसंवादिनो देव्यास्तथाविधस्य गमनस्य, तन्नूपुरशिञ्जितसंवादिनस्तद्रुतस्य चोपलम्भो हेतुः । प्रत्युपदेशश्चार्थादादित्सासमानविषयोऽवसेयः ॥ ३३ ॥ विवरणम् अथ चरणगतं सविलासगमनं वर्णयति- , सेति । सा राजहंसैर्व्यनीयतेव । सा पार्वती राजहंसैर्हंसविशेषैः । हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः । राजहंसास्तु ते चञ्चचरणैर्लोहितैः सिताः ॥ इति सिंहः । गतेषु गमनेषु व्यनीयत विनीताभूत् । पार्वती गमनविषये राजहंसैः शिक्षिताभूदिवेत्युत्प्रेक्षा । देव्यास्तादृशगमनशिक्षणे योग्यत्वमाह – सन्नतांसेति । सन्नतौ सम्यङ्नतावंसौ यस्याः सा तथा । ‘सन्नतांसाः स्त्रियः पूज्या उन्नतांसास्तु पूरुषाः ’ इति सामुद्रिकप्रसिद्धिः । अनेन स्वरूपतोऽपि देव्या राजहंससाम्यं प्रतीयते । हंसा हि सन्नतांसतया प्रसिद्धाः ‘स्मर्तव्याः शिथिलांसहंसरुचयो गोदावरीवीचयः’ इत्यादिषु । ननु हंसविनीतत्वोत्प्रेक्षायां को हेतुरित्यत्र गमनविशेषणमाह – लीलाञ्चितविक्रमेष्विति । लीलया विलासेन अञ्चिताः पूजिताः विक्रमाः पदविन्यासा येषु तेषु । हंसगमनानामपि तथात्वमुत्प्रेक्षाहेतुरिति भावः । किमर्थमेते देवीमशिक्षयन्नित्यत्राह— प्रत्युपदेशलुब्धैरिति । प्रत्युपदेशे लुब्धैः सश्रद्धैः । गुरुशुश्रूषया वापि पुष्कलेन धनेन वा । अथवा विद्यया विद्या तुरीयं नोपपद्यते ॥ इति न्यायेन प्रत्युपदेशलोभादिति भावः । ननु किमेतेषामभिलषितमित्यत्राहनूपुरशिञ्जितान्यादित्सुभिरिति । नूपुरयोः मञ्जीरयोः । ’ पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियामित्यमरः । शिञ्जितानि शब्दान् । ‘भूषणानां तु शिञ्जितमित्यमरः । अत्र देव्याः सविलासगमने राजहंसकर्तृकं विनयनमुत्प्रेक्ष्यते । विनयने तु प्रत्युपदेशलोभो हेतुत्वेनोत्प्रेक्ष्यते । लोभे तु नूपुरशिञ्जितादित्सेति सर्वोऽप्युत्प्रेक्षित एवायं वाक्यार्थः । देव्यां तद्मनसंवादिनो गमनस्य, हंसेषु नूपुरशिञ्जितसंवादिनो रुतस्य च दर्शनमुत्प्रेक्षाहेतुः । ३३ ॥ ४८ भद्रे, कुमारसम्भवे वृत्तानुपूर्वे च न चातिदीर्घे जंघे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातु- लवण्यमुत्पत्तमिवास यत्नः ॥ ३४ ॥ प्रकाशिका वृत्तेति । वृत्ते अनुपूर्वे अनुगतपूर्वे पूर्वानुरूपे च ये भवतः, ते तथा । शुभे लावण्यमय्यावित्यर्थः । शेषाङ्गनिर्माणविधौ ‘निमित्तात् कर्मसंयोगे - (वा. २.३.३६) इति सप्तमी, ‘चर्मणि द्वीपिनं हन्तीतिवत् । शेषाङ्गनिर्माणेन हि निमित्तेन लावण्यमुत्पाद्यते । अनादरे सप्तमीति तु न युक्तं, निमित्तस्य रमणीयत्वात्। अत्रासेति प्रयोगं समर्थयितुं वामनसूत्रम् ‘आसेत्यसतेः’ ( ५.२.२७) । वृत्तिश्चास्य सूत्रस्य ‘लावण्यमुत्पाद्यमिवास यत्न इत्यत्रासेत्यसतेर्धातोः अस गतिदीप्त्यादानेष्विति प्रयोगः, नास्तेः, भू-भावविधानाद्’ इति । दक्षिणावर्तेन तु धातुप्रदीपकारमतमनुसरता ‘लावण्य उत्पाद्य इवास यत्न’ इति पाठोऽङ्गीकृतः, गत्यर्थत्वं च । तत्र विसन्धिदोषोऽर्थासङ्गतिश्च, गत्यर्थयोगे कर्मणोऽपेक्षितत्वात् । उत्पत्तुमिति पाठेऽप्यन्तर्भावितण्यर्थत्वेन धातोर्दीप्त्यर्थत्वेन च निर्वाहः शक्य इव प्रतिभाति । नातिदीर्घे इति प्रसज्यप्रतिषेधो न युक्तः । तत्र हि क्रियापदसम्बद्धेन नञा भाव्यम्। तदा च विवक्षितार्थवैपरीत्यं स्यात् । पर्युदासेन तु भाव्यम् । यतस्तत्र प्रतिषेधवाचिनः समासे गुणीभावात् क्रियाया न निषेधः । इत्थञ्च प्रसज्यप्रतिषेधपर्युदासयोर्नैकविषयत्वम्। तयोश्च लक्षणं कृतं भर्तृहरिणा- इति ॥ ३४ ॥ प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥ जङ्घाद्वयं वर्णयति- विवरणम् वृत्तेति । तदीये शुभे जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ लावण्यमुत्पत्तुं यत्न आस इव। तदीये तत्सम्बन्धिन्यौ शुभे भद्रे लावण्यमय्यावित्यर्थः । जङ्घ जङ्घाद्वयं सृष्टवतो निर्मितवतो विधातुर्ब्रह्मणः शेषाङ्गनिर्माणविधौ शेषाणामवशिष्टा- प्रथमः सर्गः ४९ नामङ्गानामवयवानां निर्माण एव विधौ विधाने । ‘विधिर्विधाने दैवेऽपीत्यमरः । ‘निमित्तात् कर्मसंयोगे’ (वा. २.३.३६ ) इति सप्तमी । चर्मणि द्वीपिनं हन्तीतिवत् । शेषाङ्गनिर्माणमेव लावण्योत्पादने निमित्तम् । अर्थात् तस्या इति लभ्यते । लावण्यं सौन्दर्यम् उत्पत्तुमुत्पादयितुम् । अन्तर्भूतण्यर्थोऽयं प्रयोगः । यत्नः प्रयासः आस बभूवेव । नायमस्तिधातोरुत्पन्नः शब्दः, तस्य ‘अस्तेर्भूः ’ (२.४.५२ ) इति भूभावविधानात्। ‘अस गतिदीप्त्यादानेष्विति धातोर्लिटि दीप्त्यर्थोऽयं शब्दः । दिदीपे यत्नोऽतीव बभूवेत्यर्थः । तथाच वामनसूत्रम् ‘आसेत्यसतेः’ (५.२.२७) इति । तदीयाङ्गनिर्माणार्थं सम्पादितेषु लावण्यद्रव्येषु सर्वेष्वपि जङ्घाद्वयनिर्माणकर्मण्येवोपक्षीणेषु पुनर्महता प्रयासेन लावण्यपुञ्जं सम्पाद्य तदनुरूपमवयवान्तरं निर्मितवानिव विधातेत्युत्प्रेक्ष्यते । जङ्घाद्वये जङ्घाद्वये लावण्यातिशयदर्शनमुत्प्रेक्षाहेतुः । लावण्यातिशयमेव विशेषणद्वयेनाह – वृत्तानुपूर्वे चेत्यादिना । अत्रातिदीर्घे न भवत इति नञः क्रियासम्बन्धानुपपत्तेर्न प्रसज्यप्रतिषेधः; किन्तु पर्युदास एव । प्रसज्यप्रतिषेधपर्युदासयोर्विशेषे भर्तृहरिः- प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥ इति। अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ इति च। तदेवमन्वयः - वृत्तानुपूर्वे चातिदीर्घे न चेति । वृत्ते चानुपूर्वे चेति वृत्तानुपूर्वे । वृत्ते वर्तुले अनुगतपूर्वे पूर्वानुरूपे पूर्ववर्णितचरणद्वयानुगुणे चेत्यर्थः । अतिदीर्घे अत्यन्तं दीर्घे च न नाप्यतिह्रस्वे चेति भावः । ‘अतिदीर्घा भृशं ह्रस्वा’, ‘दीर्घजङ्घा प्रपद्यायुर्दीर्घकालं सुखं त्यजेत्’, ‘ह्रस्वजङ्घां स्त्रियं इत्यादिसामुद्रिकोक्तस्त्रीदोषनिषेधपरमिदं विशेषणम् ||३४|| नागेन्द्रहस्तास्त्वचिकर्कशत्वा- देकान्तशैत्यात् कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥३५॥ प्रकाशिका त्यजेद’ नागेन्द्रहस्ता इति । त्वचिकर्कशत्वादिति ‘अमूर्धमस्तकात् स्वाङ्गाद् —’ ५० कुमारसम्भवे (६.३.१२) इत्यलुक्। एकान्तं नियतम् । अनेन धर्मकाल एव तदूर्वोः शीतलत्वमिति ध्वन्यते । कदलीविशेषा विशिष्टकदल्यः । यथा ‘पुरुषविशेष ईश्वर’ [ योगसूत्रे | इति । लोके लोकदृष्टौ । यथा लोकवृत्तं लोक इति । उपमानमुपमितिः, तत्र बाह्या अनुपयोगिनः, अर्थादुपमानत्वेन । लोक उपमानबाह्या जाता इत्यन्वयः । नागमात्रहस्तस्य कदलीमात्रस्य च नैतदूरुतुल्यपरिणाहिरूपत्वमपीतीन्द्रविशेषशब्दौ प्रयुक्तौ । व्यतिरेकश्चात्रालङ्कारः । तस्य चाङ्गं विरोधः । तथाहि – प्रसिद्धः साधारणधर्म उपमानत्वं प्रयोजयति। एवं स्थिते परिणाहिरूपत्वलक्षणसाधारणधर्मे सत्युपमानत्वाभावो विरुद्धः । विरोधे सत्यपि स्वधर्मनिकर्षहेतोः कर्कशत्वशीतलत्वलक्षणधर्मद्वयस्य प्राबल्यात् तत्कार्यभूतस्योपमेयाधिक्यस्य लब्धप्रतिष्ठत्वम्। आधिक्यमेव चास्मन्मते व्यतिरेकः । तं चात्र सन्नप्यसत्कल्पो विरोधः पुष्णाति । यथा बाध्यत्वेन निबद्धो रसोऽङ्गिनं रसम् । ननु तदूर्वोरिति विधेयाविमर्शदुष्टं वर्णनीयतया तदर्थस्य प्राधान्यात्, समासे च तस्य गुणीभावात् । न। ऊर्वोरिव वर्णनीयत्वेन संरम्भविषयत्वात्। न च तत्सम्बन्धनिबन्धन ऊर्वोरतिशयो विवक्षितः । यथा रामस्य बाहुरसीत्यादौ बाहोर्निर्दयत्वम् । किन्तु सम्बन्धमात्रम् । तस्मान्न विधेयत्वम् । तदुक्तं— सम्बन्धमात्रमर्थानां समासो ह्यवबोधयेत् । नोत्कर्षमपकर्षं वा वाक्यात् तूभयमप्यदः ॥ इति [व्यक्तिविवेके महिम्ना पृ. २६५ - ६ ]॥३५॥ ऊरुद्वयं वर्णयति— विवरणम् नागेन्द्रेति । नागेन्द्रहस्ताः त्वचिकर्कशत्वात् कदलीविशेषा एकान्तशैत्यात् परिणाहि रूपं लब्ध्वापि लोके तदूर्वोरुपमानबाह्या जाताः । नागेन्द्रहस्ताः नागेन्द्राणामैरावतादीनां हस्ताः शुण्डाः, न तु सामान्यगजहस्ताः तेषां परिणाहेनापि सादृश्याभावात्। त्वचिकर्कशत्वाद् ‘अमूर्धमस्तकात् स्वाङ्गादकामे’ (६.३.१२) इत्यलुक्। त्वग्गतात् कार्कश्यादित्यर्थः । कदलीविशेषाः विशिष्टाः कदल्यः, न तु सामान्यकदल्यः। नन्दनोद्यानादिप्ररूढाः कनककदलीकाण्डा इति भावः । यथोक्तं सौन्दर्यलहर्यां ‘करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीमुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती’ इति। एकान्तशैत्याद् एकान्तेन नियमेन यत् शैत्यं शीतत्वं तस्माद्धेतोः । धर्मकाल एव तदूर्वोः शीतलत्वादिति भावः । यथोक्तं ‘शीतकाले भवत्युष्णमुष्णकाले च शीतलम्, सुन्दरीणां कुचद्वन्द्वमूरुद्वन्द्वं च’ इति । परिणाहि परिणाहो विशालतास्यास्तीति परिणाहि । ‘परिणाहो विशालता’ इत्यमरः । रूपं स्वरूपं लब्ध्वापि सम्प्राप्यापि लोके लोकदृष्टावित्यर्थ । लोकवृत्तं लोक इतिवत् । प्रथमः सर्गः ५१ तदूव तस्या पार्वत्याः ऊर्वोः ऊरुप्रदेशयोः उपमानबाह्याः उपमानं उपमितिः । भावे ल्युट् । तत्र बाह्या अनुपयोगिनो जाताः । करीन्द्रशुण्डादीनां विशालत्वरूपसाधारणधर्मलाभे सत्यपि स्वरूपणावस्थायां कर्कशत्वैकान्तशैत्याभ्यामपकर्षः, उपमेयस्य तु तदभावादुत्कर्ष इत्युपमानादुपमेयस्योत्कर्षप्रतिपादनाद् व्यतिरेकोऽलङ्कारः । ‘उपमानाद् यदन्यस्य व्यतिरेकः स एव स’ [ काव्यप्रकाशे] इति । परिणाहि रूपं लब्ध्वाप्युपमानबाह्या जाता इति प्रतीयमानो विरोधस्तु व्यतिरेकस्याङ्गम् ॥ ३५ ॥ एतावता नन्वनुमेयशोभं काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यद् गिरिशेन पश्चा- दनन्यनारीकमनीयमङ्कम् ॥ ३६ ॥ प्रकाशिका , एतावतेति । एतच्छब्देन यच्छब्दं परामृश्योत्तरवाक्यार्थः प्रत्यचमृश्यते । प्रत्ययेन तु वाक्यबलात् परिमितपरिमाणवाचिनानुमितेः सौकर्यगुणो दर्शितः । ननुरवधारणे। तेन शोभावगमे वर्णनानपेक्षोच्यते । अनिन्दिताया अनवद्यायाः, सर्वाङ्गशोभिन्या इत्यर्थः । ततश्च नितम्बशोभायाः सातिशयत्वमनुमीयते न शोभामात्रमित्यवसेयम् । आरोपितं न त्वारूढम् । गिरिशेन, न तु गिरिशस्य । वर्ण्यमानावस्थापेक्षया पश्चाच्छब्दः । अनन्यनारीकमनीयम्, अत्यन्तदुरवापत्वात्। तथाविधपरमेश्वराङ्कारोपणेनैव नितम्बस्य सर्वातिशायिशोभत्वमनुमेयं, न त्वितरावयवद् वर्णनापेक्षीत्यर्थः । नन्वनेकस्यैकत्र विकल्पेन प्राप्तौ नियमः । ततश्चानेकसाधारणेन विषयेण भवितव्यम् । तदत्र लिङ्गवर्णनयोः साधारणं मेयत्वमेवोपादेयं, न तद्विशेषोऽनुमेयत्वं, तस्यामसाधारणत्वात्। सत्यम्। किन्तु मेयत्वमेवात्र विवक्षितम्। न चात्र सामान्यपरिवृत्तिर्दोषः, यतोऽनेनानुमितेरर्थाव्यभिचारित्वाद् वर्णनात् उत्कर्षो द्योत्यते । तस्मादत्र दोषस्यापि गुणत्वम् ॥ ३६ ॥ नितम्बप्रदेशं वर्णयति- विवरणम् एतावतेति । अनिन्दितायाः काञ्चीगुणस्थानमेतावता ननु अनुमेयशोभम् । अनिन्दितायाः निन्दितं दोषस्तद्रहितायाः, अनवद्याया इत्यर्थः । सर्वावयवसुन्दर्या इति यावत् । तेन च नितम्बशोभाया निरतिशयत्वमेवात्रानुमेयं, न शोभामात्रमिति व्यज्यते । काञ्चीगुणस्य रशनादाम्नः स्थानं, नितम्बप्रदेश इत्यर्थः । एतावता ५२ कुमारसम्भवे एतावन्मात्रेण। अत्र एतच्छब्देन उत्तरवाक्यार्थः परामृश्यते । परिमितपरिमाणवाचिना वतुप्रत्ययेन पुनरनुमितेः सौकर्यं दर्शितम् । ननुशब्दोऽवधारणे । एतावन्मात्रेणैवेत्यर्थ । अनुमेया अनमातुं शक्या शोभा यस्य तत् तथा। भगवत्या नितम्बशोभा वक्ष्यमाणप्रकारेणैव सुखानुमेयेति किं तद्वर्णनयेति भावः । तमेव प्रकारमाह — पश्चाद् गिरिशेनाङ्कमारोपितं यदिति । अत्र वर्ण्यमानावस्थापेक्षया पश्चाच्छब्दः । गिरिशेन न तु गिरिशस्य । अङ्कमुत्सङ्गमारोपितं, न त्वारूढम् । जगदीश्वरेण स्वमेव रागातिशयादारोपितं, न तु देव्या गिरिशस्याङ्कमारूढमिति भावः । यद् यस्मात् तस्माद्धेतोरनुमेयशोभमिति पूर्वेणान्वयः । गिरिशाङ्कस्य विशेषणमाह – अनन्यनारीकमनीयमिति । अन्याभिर्नारीभिः कामयितुं शक्यं न भवतीति तथा । न ह्यत्यन्तदुरवापेऽर्थे कामः सम्भवतीति भावः । नन्वत्रावगम्यशोभमित्येव वक्तव्यम् । अत्र हि वर्णनयावगम्यत्वं प्रतिषिध्यते, न लिङ्गान्तरेणावगम्यत्वम् । यदि लिङ्गान्तरं प्रतिषिध्य गिरिशाङ्कारोपणरूपं लिङ्गं विधीयते, तर्ह्यनेनैवानुमेयशोभमिति शक्यं वक्तुं, (न) वर्णनप्रतिषेधपरत्वे । मैवम् । अवगम्यत्वमात्रस्यैवात्रापि विवक्षितत्वात् । न चैवं सति सामान्यवाचिनावगम्यशब्देनैव वक्तव्यमिति वाच्यम्। अनुमितेरर्थाव्यभिचारित्वं, वर्णनायास्तु न तथेति विशेषप्रतिपादनपरत्वादनुमेयशब्दप्रयोगस्य । तस्मात् सामान्यपरिवर्तो नात्र दोषाय, अपितु गुणायैव॥ ३६॥ तस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवरोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥३७॥ प्रकाशिका तस्या इति । नतनाभिरन्ध्रं प्रविष्टेति रोमावल्यास्तदवधिकप्रसरत्ववचनेन नवत्वं तेन च नवयौवनस्यावस्थाविशेष प्रकाश्यते । सम्भावनाभागेऽपि नतनाभिरन्ध्रं प्रविष्टेत्यनुषज्ञ्जनीयम् । अन्यथा अतिक्रमस्य पौर्वकाल्यं किमपेक्षं स्यात् । तन्वीति प्रशस्तलक्षणार्थम् । नीवी वस्त्रग्रथनम् । ‘स्त्रीकटीवस्त्रबन्धे स्यान्नीवी’ इत्यादि केशवः। तदतिक्रमणमर्चिषोऽसम्भवदुत्प्रेक्षाङ्गम्॥ ३७॥ रोमराजिं वर्णयति- विवरणम् तस्या इति । तस्या नतनाभिरन्ध्रं प्रविष्टा नवरोमराजिः रराज । तस्याः पार्वत्या नतनाभिरन्ध्रं नतं गम्भीरं नाभिरन्ध्रं नाभिप्रदेशं प्रविष्टा प्राप्ता सती । तदानीमेव प्रथमः सर्गः ५३ नाभिरन्ध्रं प्रसृतेत्यर्थः । अत एव यौवनारम्भसम्पादिता रोमराजी रोमावलिः रराज शुशुभे । अत्र नतनाभिरन्ध्रमित्यनेन नाभिवर्णनमपि कृतम् । रोमराज्या मनोहारित्वमाह - तन्वीति । तन्वी कृशा । एतदपि प्रशस्तनारीलक्षणम् । रोमराजिमुत्प्रेक्षतेसितेतरस्य तन्मेखलामध्यमणेरर्चिर्नीवीमतिक्रम्य नतनाभिरन्ध्रं प्रविष्टेवेति । सितेतरस्य कृष्णस्य तन्मेखलामध्यमणेः तस्या पार्वत्या मेखला रशना तस्या मध्ये यो मणि रत्नम् । ‘रत्नं मणिर्द्वयोरित्यमरः । तस्यार्चिस्तेजो नीवीं वस्त्रबन्धम् । ‘स्त्रीकटीवस्त्रबन्धेऽपि’ इत्यमरः । तामतिक्रम्य तामतिक्रम्य नतनाभिरन्ध्रं प्रविष्टेव । मेखलामध्यवर्तिनो नायकमणेरर्चिरेव नीवीमतिक्रम्य नतनाभिरन्ध्रं प्रविष्टेवेत्यर्थ । वर्णसाम्यादिकमुत्प्रेक्षाहेतुः । नेयमुपमा, अर्चिषो नीव्यतिक्रमासम्भवात्॥३७॥ मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनस्य कामेन सोपानमिव प्रयुक्तम्॥३८॥ प्रकाशिका मध्येनेति । वेद्या विलयं मध्यमिव मध्यं यस्या इति विगृह्णानो दक्षिणावर्त ‘सप्तम्युपमाने’ त्यादिना समासममंस्त । वयं तु वेदिरिव विलग्नमध्येति विगृह्य ‘उपमानाति — ’ (२.१.५५ ) इति समासं मन्यामहे विलगति हसतीति विलग्नं कृशमित्यर्थः । ननु ‘अवलग्नं विलग्नं च मध्यो मध्यम इत्यपी’ति हलायुधवचनाद् वेदिविलग्नं वेदिमध्यमिव मध्यं यस्या इति विग्रहः किं नाश्रितः । तदाश्रयणे वेदिविलग्नेति वेदिमध्येति वा रूपं स्यात् । उत्तरपदलोपात् । अत्राकारसाम्याद् बलित्रये विशिष्टसोपानोत्प्रेक्षायां कामेनेति कर्तृविशेषवाचिना शब्दोपात्तस्य चारुत्वस्य लोकोत्तरता ध्वन्यते। सोपानौचित्याद् आरोहणस्य प्रयोजनत्वेन कल्पनम् । नवयौवनस्येति तत्कर्तृविशेषवाचिना प्रागेव तदागमनप्रतीक्षता कामस्य ध्वन्यते । दक्षिणावर्तस्तु — कालेनेति पठित्वा यौवनोत्पादकालेनेति कर्तृविशेषस्यानुपयोगः । कर्तृमात्रस्यान्यथापि सिद्धिः ॥ ३८ ॥ वलित्रयं वर्णयति - विवरणम् व्याचष्ट | तत्र मध्येनेति । सा बाला मध्येन बलित्रयं बभार । सा पार्वती । बालेत्यनेन बलित्रयाभिव्यक्तेः कालप्राप्तिर्ध्वन्यते । मध्येनावलग्नेन । ‘अवलग्नं विलग्नं च मध्यं५४ कुमारसम्भवे मध्यम इत्यपि’ इति हलायुधः । वलित्रयं वलीनां त्रयं त्रिवलीमित्यर्थः । बभार धृतवती । वलित्रयमुत्प्रेक्षते - नवयौवनस्यारोहणार्थं कामेन प्रयुक्तं सोपानमिवेति। नवयौवनस्य नवस्याभिनवस्य यौवनस्य । अत एवारोहणे सोपानापेक्षा । आरोहणार्थं स्तनवदनादिप्रदेशप्राप्त्यर्थमित्यर्थः । अत्र तादृशवलित्रयरूपसोपाननिर्माणकर्म तच्छिल्पिनं कल्पयति — कामेनेति । न ह्यन्येन निर्मिते तादृशं चारुत्वं सम्भवतीति भावः । प्रयुक्तं निर्मितं सोपानमिव । अत्र मदनस्य सोपानकर्तृत्वोत्प्रेक्षया तस्य प्रागेवागत्य यौवनागमप्रतीक्षणं ध्वन्यते । तेन च देव्याश्चारुत्वातिशयः । अवलग्नं वर्णयति—वेदिविलग्नमध्येति । वेदिरिव विलग्नमध्या । ‘उपमानानि सामान्यवचनैः’ (२.१.५५) इति समासः । वेदिर्यज्ञशालायां द्व्यङ्गुलनिखातो भूभागः । विलगति ह्रसतीति विलग्नं, कृशमित्यर्थः । वेदिरिव कृशमध्येत्यर्थः । वेद्याः कृशमध्यत्वं प्रसिद्धम्। वलित्रयस्य सोपनपरम्परावद् क्रमेणावस्थानं तदुत्प्रेक्षाया हेतुः । अत एव चारु सुन्दरम् ||३८|| अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम्॥३९॥ प्रकाशिका अन्योन्यमिति । उत्पीडयदुत्थाय पीडयत्। पाण्डुत्वं श्याममुखत्वं च यौवनप्रौढिकृतम्। मृणालसूत्रस्यान्तरमवकाशः | अलब्धं परीक्षकलोकेनेति शेषः । ‘मृणालसूत्रेण पदं न लब्धमिति केचित् पठन्ति । तदानीत्यर्थः सुगमः । किन्त्वपेरपेक्षितत्वान्यूनपदत्वम् । ननु उत्पीडनकर्तृभूतस्तनसमुदायरूपैकार्थवाचिस्तनद्वयशब्दसमभिव्याहारेणान्योन्यशब्दः कथं प्रयुज्यते, तस्यानेकविषयकर्मव्यतीहारवाचित्वात्। नैवम् । स हि न कर्मव्यतीहारवाची । किन्तु कर्मव्यतीहारविषयभूतसमकक्ष्यानेकपदार्थसमुदायवाची । तत्स्मात् कर्तृद्वयवाचिना स्तनद्वयशब्देन कर्मद्वयवाचिनोऽन्योन्यशब्दस्य समभिव्याहारो घटत एव ॥ ३९ ॥ स्तनद्वयं वर्णयति— विवरणम् अन्योन्यमिति । उत्पलाक्ष्याः स्तनद्वयं तथा प्रवृद्धम् । उत्पलाक्ष्याः उत्पले कुवलये इवाक्षिणी यस्यास्तस्याः । स्तनद्वयं स्तनयोः कुचयोर्द्वयं द्वन्द्वम् । तथा प्रथमः सर्गः वक्ष्यमाणप्रकारेण प्रवृद्धं प्रकर्षेण वृद्धं परिपुष्टमासीत् । तमेव प्रकारमाह — यथा श्याममुखस्य तस्य मध्ये मृणालसूत्रान्तरमपि अलभ्यमिति । यथा यादृशेन वर्धनेन श्याममुखस्य श्यामं मुखं यस्य तस्य । श्याममुखत्वं यौवनकृतम् । तस्य स्तनद्वयस्य मध्ये अन्तराले । मृणालसूत्रान्तरं मृणालस्य सूत्रं मृणालसूत्रं तस्यान्तरमवकाशः । किं पुनरन्यसूत्राणामन्तरमित्यपिशब्दार्थः । अलभ्यं लब्धुमशक्यम् । कियदन्तरमनयोरित्यवगन्तुं परीक्षाप्रसङ्गे तन्मध्यं नीयमानस्य॒ वस॒त॒न्तर॒न्तर॑म॒प यथा परीक्षकजनेन न लभ्यं, तथा प्रवृद्धमासीदित्यर्थः । ’ मृणालसूत्रान्तरमप्यलब्धमि ति पाठे कर्मणि निष्ठा । ‘मृणालसूत्रेण पदं न लब्धमिति पाठस्तु सुगमार्थोऽप्यपि - शब्दाभावेन न्यूनपदत्वदोषादुपेक्षणीयः । उक्तार्थसमर्थकं विशेषणमाहअन्योन्यमुत्पीडयदिति । अन्योन्यं परस्परम्। उत्पीडयदुत्थाय पीडयत् । अत एव चारु सुन्दरम्। पाण्ड्वति पाठे पाण्डुत्वमपि यौवनकृतम् ॥ ३९ ॥ शिरीषमालाधिकसौकुमार्यौ बाहू तदीयाविति मे प्रतर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥४०॥ प्रकाशिका शिरीषेति । प्रतर्क ऊहः । विजितविश्वो मकरध्वजो दर्पाद् देवमासादयन् पराजितो विफलीभूतसुकुमारतरपूर्वोपकरणजातः सन्नप्याभ्यामुपकरणभावमुपयद्भयां पशुमिव रज्ज्वा कण्ठे गृहीत्वा तमेव देवं यदात्मविधेयं चकार, तदनयोर्बाह्वोः सौकुमार्यं शिरीषादिना नोपमातुं शक्यमिति भावः ॥ ४० ॥ बाहुद्वयं वर्णयति— विवरणम् शिरीषेति । तदीयौ बाहू शिरीषमालाधिकसौकुमार्यौ इति मे प्रतर्कः । तदीयौ तत्सम्बन्धिनौ बाहु भुजौ । शिरीषपुष्पैः कृता माला शिरीषमाला, तदपेक्षाप्यधिकं सौकुमार्यं सुकुमारत्वं ययोस्तौ । इति उक्तप्रकारेण । प्रतर्क ऊहः । पार्वतीभुजयोः सुकुमारत्वं शिरीषमालाया अप्यधिकतरमिति वयं मन्यामह इत्यर्थः । कथमेवं प्रतर्क इत्यत्राह - यौ पराजितेनापि मकरध्वजेन हरस्य कण्ठपाशौ कृताविति । यौ बाहू पराजितेन पराजयं प्राप्तेन, विफलीभूतसुकुमारतरपूर्वोपकरणेनापीत्यर्थः । मकरो मत्स्यविशेषो ध्वजो यस्य तेन कामदेवेन । हरस्य परमेश्वरस्य कण्ठे पाशौ ५६ कुमारसम्भवे कण्ठपाशौ, स्ववशीकृत्य स्वेच्छया तत इतः कर्षणार्थं कण्ठे निक्षिप्तौ पाशावित्यर्थः । कृतौ विहितौ । यो मकरध्वजः पूर्वं दर्पाद् देवमासाद्य विफलीभूतसुकुमारतरपूर्वोपकरणो जातः, स एव याभ्यां पशुमिव रज्ज्वा कण्ठे निबध्यात्मविधेयं चकार, तयोः सौकुमार्यं कथं शिरीषकुसुमादिभिरुपमातुं शक्यमिति भावः । अत्र व्यतिरेकोऽलङ्कारः ॥४०॥ कण्ठस्य तस्यास्तनुबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥४१॥ प्रकाशिका कण्ठस्येति । ‘बन्धुरं तून्नतानतमिति, ‘कलापो भूषणे’ इति, वर्तुलं निस्तलं वृत्तमिति च सिंहः । अत्र विशेषणयोः शोभाजननं प्रति हेतुत्वम् । तत्रापि यथा निस्तलत्वं शोभाजनने हेतुः, तथा तनुबन्धुरत्वमित्युपमानोपमेयभावोऽपि द्रष्टव्यः, अन्योन्यस्मिन् शोभाप्रादुर्भावात् । अन्योन्येन शोभाजननादिति तु पक्षे भूषणभाव एव साधारणो न भूष्यभाव इति दक्षिणावर्तः । तदयुक्तम्। तथाहि — न तावदयमन्योन्यशब्द उभयपर्यायः । स हि कर्मव्यतीहारविषयवाची । तद्योगे च शोभोत्पत्तेरनपेक्षितहेतुत्वं कथं घटते । अन्योन्येनेति विग्रहे भूष्यभावोऽप्यर्थसिद्धः, भूषणभावस्तु शाब्द इत्येतावान् विशेषः । नन्वेवं भूषणभूष्यभावाविति वक्तव्यम्। एकवचनान्तनिर्देशे तु सम्बन्धस्य वाच्यत्वात् तस्य च द्विष्ठत्वात् साधारणत्वं न हेत्वपेक्षं न चातिशयप्रयोजकम् उच्यते, भूषणभूष्ययोर्भाव इति विग्रहे भावशब्दो यद्यपि सामान्यवाची यथा स्त्रीणां चक्षुषा कुवलायितानि वातायनानीत्यत्र चक्षुश्शब्दः, तथापि तस्य व्यक्तिपर्यवसायित्वात् कण्ठमुक्ताकलापविषये व्यक्तिधर्मोऽसाधारणत्वमेवोपपन्नः । तत्र चक्षुश्शब्दस्य व्यक्तिपर्यवसायित्वादनेकवातायनकुवलयनम्। अनुगतरूपाभिधाने हि तस्य सम्बन्धवाचकत्वं मन्तव्यम् ॥ ४१ ॥ कण्ठं वर्णयति- विवरणम् कण्ठस्येति । तस्याः कण्ठस्य मुक्ताकलापस्य च अन्योन्यशोभाजननाद् भूषणभूष्यभावः साधारणो बभूव। तस्याः पार्वत्याः कण्ठस्य गलस्य मुक्ताभिः मौक्तिकैः कृतः कलापो मुक्ताकलापः । कलापो भूषणम्। ‘कलापो भूषणे बहें तूणीरे प्रथमः सर्गः ५७ संहतावपी’ त्यमरः । अन्योन्येन हेतुना शोभाजननात् शोभाया जननात् प्रादुर्भावात् । ‘जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव’ इत्यमरः । यद्यप्यन्योन्येन शोभाजननादिति विग्रहे शोभाजनने हेतुभूतयोः कण्ठमुक्ताकलापयोर्भूषणभाव एव कण्ठोक्तः, न भूष्यभावः, तथापि भूष्यमाणयोः कण्ठमुक्ताकलापयोर्भूष्यभावोऽप्यर्थादायातीति न काचिदनुपपत्तिः । भूषणभूष्ययोर्भावो भूषणभूष्यभावः । द्वन्द्वात् परः श्रूयमाणी भावशब्दः प्रत्येकमभिसम्बध्यते । भूषणभावो भूष्यभावश्चेत्यर्थः । नन्वत्र भूषणभूष्यभावाविति वक्तव्यम् । एकवचनान्तनिर्देशे तु सम्बन्धस्य वाच्यत्वात् तस्य च ‘सम्बन्धो हि सम्बन्धिभ्यां भिन्नस्तावाश्रितश्चैकश्च’ ति न्यायेन स्वभावादेवोभयाश्रितत्वनियमादन्योन्यशोभाजननादिति हेतुर्निष्प्रयोजनः स्यात् । कण्ठमुक्ताकलापयोर्भूषणभूष्यभावरूपः सम्बन्धः साधारणोऽभूदित्युक्तेनापि न कश्चिदतिशयः प्रतिपादितो भवति । मैवम्। सामान्यवाचिनोऽप्यस्य भावशब्दस्य व्यक्तिद्वयपर्यवसायित्वात् । यथा स्त्रीणां चक्षुषा कुवलायितानि वातायनानीत्यत्र सामान्यवाचिनोऽपि चक्षुश्शब्दस्य सर्ववातायनगतचक्षुर्विशेषपर्यवसायित्वं, तथात्रापीति। कण्ठेन मुक्ताकलापस्य शोभाजनने हेतुमाह – तनुबन्धुरस्येति । तनुश्चासौ बन्धुरश्चेति तनुबन्धुरः । तनोः कृशस्य, नात्यन्तपीवरस्येत्यर्थः, अत एव वन्धुरस्य सुन्दरस्य । ‘बन्धुरौ नम्रसुन्दरौ’ इति वैजयन्ती । मुक्ताकलापेन कण्ठशोभाजनने हेतुमाहनिस्तलस्येति । निस्तलस्य वर्तुलस्य । ‘निस्तलं वर्तुलं वृत्तम्’ इति सिंहः । एते विशेषणे च परस्परमुपमानोपमेयभावमप्यनुभवतः । यथा निस्तलत्वं शोभाजनने हेतुस्तथा तनुबन्धुरत्वमपीति । ‘अत्रान्योन्यमलङ्कारः । ‘परस्परक्रियाजननेऽन्योन्यम्’ इति ॥ ४१ ॥ चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥४२॥ प्रकाशिका चन्द्रमिति । भुङ्क्ते अनुभवति । ‘भुजोऽनवने’ (१.३.६६) इत्यात्मनेपदम्। अभिख्यां शोभाम् । रात्रिसङ्कोचदिवानुदयलक्षणेन प्रसिद्धेन हेतुद्वयेन पद्मचन्द्रगुणान् पर्यायेणानुभवन्ती तत एव च तत्र तत्र भ्रमन्ती लक्ष्मीस्तदुभयगुणविशिष्टं देव्या वदनकमलं दैवादासाद्य तदुभयानुभवजन्यां प्रीतिं प्रापेत्यर्थः ॥ ४२ ॥ ५८ वदनं वर्णयति- कुमारसम्भवे विवरणम् ‘अभिख्या चन्द्रमिति। लक्ष्मीश्चन्द्रं गता पद्मगुणान् न भुङ्क्ते । लक्ष्मीः श्रीः चन्द्रं पूर्णचन्द्रं गता प्राप्ता सती । पद्मगुणान् पद्मे पङ्कजे ये गुणा दिवारमणीयत्वसौरभ्यादयः, तान्। न भुङ्क्ते नानुभवति । नानुभवति । ‘भुजोऽनवने’ (१.३.६६) इत्यात्मनेपदम् तर्हि पद्माश्रितैवास्त्वित्यत्राह - पद्माश्रिता चान्द्रमसीमभिख्यामिति । पद्मं पङ्कजमाश्रिता प्राप्ता सती । चान्द्रमसी चन्द्रमः सम्बन्धिनीमभिख्यां कान्तिम् । कान्तिर्द्युतिश्छविः’ इत्यमरः । अत्र चकारोऽर्थाद् द्रष्टव्यः । न भुङ्क्त इति अत्राप्यनुषञ्जनीयम्। लक्ष्मीः पद्माश्रिता सती रजनीरमणीयत्वादिकान् गुणांश्च नानुभवतीत्यर्थः । इत्थं रात्रौ चन्द्रम् अहनि पद्मं च पुनः पुनराश्रित्य भ्रमन्त्या लक्ष्म्या देवीजननानन्तरं दैववशात् कोऽप्यानन्दः सञ्जात इत्याहउमामुखं प्रतिपद्य तु द्विसंश्रयां प्रीतिमवापेति । उमामुखम् उमायाः पार्वत्या मुखम्। प्रतिपद्य प्राप्य । तुशब्दः पूर्वस्माद् विशेषमाह । ‘तु स्याद् भेदेऽवधारणे’ इत्यमरः । द्विसंश्रयां द्वौ पद्मचन्द्रौ संश्रय आश्रयो यस्यास्तादृशीं प्रीतिमवाप प्रतिपेदे । सर्वकालरमणीयस्वाभाविकसौरभ्याभिरामं देवीवदनं प्राप्य तु लक्ष्मीश्चन्द्रपद्मानुभवजन्यां प्रीतिमाससादेत्यर्थः । लक्ष्म्याः पार्वतीवदनप्राप्तेः पूर्वकालीनं विशेषणमाह – लोलेति । लोला चञ्चला रात्रौ चन्द्रप्राप्तेरहनि पद्मप्राप्तेश्च नियतावस्थानरहितेत्यर्थः ॥४२॥ पुष्पं प्रवालोपहितं यदि स्या- मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद् विशदस्य तस्या- स्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ॥४३॥ अथ मुखावयवान् वर्णयति— प्रकाशिका पुष्पमिति । अत्र यद्यर्थबलादसिद्धस्यार्थस्य कल्पनमतिशयोक्तिरलङ्कारः । असिद्धौ च तथाविधावुपमानधर्मिणौ ताभ्यामनुकारश्च॥४३॥ विवरणम् अथ मुखगतानवयवान् वर्णयिष्यन्नादौ मन्दस्मितं वर्णयति— पुष्पमिति । पुष्पं प्रवालोपहितं मुक्ताफलं स्फुटविद्रुमस्थं वा स्याद् यदि ततस्तस्याः स्मितस्यानुकुर्यात् । पुष्पम् अर्थाद् धवलपुष्पम् । प्रवालोपहितं प्रवाले प्रथमः सर्गः ५९ रक्तपल्लवे उपहितं न्यस्तम् । मुक्ताफलं मौक्तिकम् । स्फुटविद्रुमस्थं स्फुटे स्पष्टकान्तौ भद्रतर इत्यर्थः, विद्रुमे रक्तरत्नविशेषे तिष्ठतीति तथा। ‘सुपि स्थ’ (३.२.४) इति कः । वाशब्दो विकल्पे । स्यादिति सम्भावनायां लिङ् । यदिशब्दस्तथाविधस्य धर्मिणोऽभावं सूचयति । ततस्तर्हि । तस्याः पार्वत्याः । स्मितस्य मन्दहास - स्यनुकुर्यात् । अत्रापि सम्भावनायां लिङ् । अनुकरणं हि तुल्यतया वर्तनमिति ‘तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्’ (२.३.७२ ) इति षष्ठी। स्मितमनुकुयादित्यर्थः । प्रवालोपहितधवलपुष्परूपं स्फुटविद्रुमस्थमुक्ताफलरूपं वोपमानधर्मिद्वयं यदि कुत्रचिदुपलभ्येत, तर्हि तयोरन्यतरत् पार्वतीमन्दस्मितमनुकुर्यादित्यर्थः । असिद्धौ च तादृशावुपमानधर्मिणौ । ततश्च तत्कर्तृकमनुकरणमप्यसिद्धमेवेति भावः । ननु किं तादृशोरुपमानधर्मिणोरेवानुकरणसामर्थ्यं, न चन्द्रिकादीनामितीमामाशङ्कां विशेषणद्वयेन परिहरतिविशदस्येत्यादिना । विशदस्यात्यन्तधवलस्येत्यर्थः । विशेषणान्तरमाह — ताम्रोष्ठपर्यस्तरुच इति। ताम्रे रक्ततरे ओष्ठे दन्तच्छदे पर्यस्ता परितः क्षिप्ता रुक् शोभा येन तस्य । चन्द्रिकादीनां तादृशधावल्ये सत्यपि ताम्रद्रव्योपहितत्वाभावान्नानुकरणसामर्थ्यमिति भावः । अत्र यदिशब्दबलादसिद्धस्यार्थस्य कल्पनमिति ’ यद्यर्थोक्तौ च कल्पनम्’ [ काव्यप्रकाशे] इत्युक्तोऽतिशयोक्तिभेदोऽलङ्कारः ||४३|| स्वरेण तस्याममृतस्स्रुतेव सञ्जल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना॥४४॥ प्रकाशिका स्वरेणेति। सञ्जल्पितायां सञ्जल्पितुमुपक्रान्तायाम् । आदिकर्मणि क्तः । प्रजल्पितायामिति वा पाठः । अभिजातशब्दो लक्षणया सुकुमारार्थः । यथा ‘अभून्नवाम्भोजदलाभिजात’ इति । अन्यपुष्टेति ताड्यमानेति च पाठः । ‘तत्रिकुटुम्बधारण’ इति धातोः ‘अवितृस्तृतन्त्रिभ्य ईः’ ( उणा. ३.१५८) इति ईप्रत्यये तन्त्रीरिति भवति । विरुद्धा तन्त्रीर्वितन्त्रीरिति प्रादिसमासः । या तुत्पाद्यस्य स्वरादेर्विहितताडनक्रमं विना यथासम्भवं ताडिता स्यात्, तां वितन्वीरित्याहुराचार्याः । अमृतस्राविणेव स्वरेण तस्यां संल्लपितुमुपक्रान्तायां तच्छ्रोतुस्ताड्यमाना वितन्त्रीरिव कोकिलाऽप्यरम्यशब्दाऽभवदित्यर्थः । अत्रोपक्रमदशैव तावद् रम्येऽप्यरम्यप्रतिभाकारिणी, किमुत प्रसिद्धस्य तद्धेतोः परिशीलनहेतुरनिवृत्तिदशेत्युपक्रमवाचिना प्रत्ययेन द्योत्यते । ६० कुमारसम्भवे श्रोतुः श्रोतृमात्रस्यैव, न तु तद्विशेषस्य । अत्र माधुर्यसौकुमार्यसाम्ये सत्यमृतस्रुतेवेति प्रतिकूलशब्दाभिव्यङ्गयो तदतिरेकद्योतिकयोत्प्रेक्षयोपकृतः कोकिलारुताद् व्यतिरेकोऽलङ्कारः प्रतीयते ॥ ४४ ॥ वचनं वर्णयति — विवरणम् देवीसञ्जल्पितस्य स्वरेणेति। अभिजातवाचि तस्याममृतस्रुतेव स्वरेण सञ्जल्पितायामन्यपुष्टापि श्रोतुः प्रतिकूलशब्दा | अभिजातवाचि अभिजातशब्दोऽयं लक्षणया सुकुमारार्थपर्यवसायी । तथा च प्रयोगः ‘अभून्नवाम्भोजदलाभिजात’ इति । अभिजाता सुकुमारा वाग् यस्यास्तस्याम्। अथवा स्थानप्रयत्नादिगुणयोगात् सम्यगुत्पन्ना वाग् यस्यास्तस्याम्। कथ्यमानार्थसमर्थकमिदं विशेषणम् । तस्यां पार्वत्याम् । अमृतस्रुता अमृतं पीयूषं स्रावयतीमृतस्रुत् तेन स्वरेण । अन्तर्भूतण्यर्थः प्रयोगः । सञ्जल्पितायाम् ’ आदिकर्मणि क्तः कर्तरि च ’ ( ३.४.७१) । सम्यग्वक्तुमुपक्रान्तायामित्यर्थः । अनेन देवीसञ्जल्पनस्यारम्भदशायामेवैतावान् प्रभावः, किं पुन परिशीलनदशायामिति दर्शयति । यथोक्तं सौन्दर्यलहर्यां- विपञ्च्या गायन्ती विविधमपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ! | तदीयैर्माधुर्यैरपहसिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम्॥ इति । अन्यपुष्टा कोकिला। यस्याः शब्दो माधुर्यसौकुमार्यादिगुणवत्तया प्रसिद्धः, सापीत्यपिशब्दार्थः । श्रोतुः श्रोतृमात्रस्य । विशेषज्ञस्य किं पुनरिति भावः । प्रतिकूलशब्दा प्रतिकूलो विरुद्धः शब्दो यस्याः सा तथा । आसीदिति शेषः । उक्तमर्थमुपमया स्फुटयति — ताड्यमाना वितन्त्रीरिवेति । ताड्यमाना शास्त्रानभिज्ञैराहन्यमाना । विरुद्धा तन्त्रीर्वितन्त्रीरिति प्रादिसमासः । ’ तत्रि कुटुम्बधारणे’ इति धातोः ‘अवितृस्तृतन्त्र्यि ईः ’ । (उणा. ३.१५८) इति ईप्रत्यये तन्त्रीरिति पदम्। तन्त्रीरिति च वीणागुण उच्यते । उत्पाद्यानां स्वरादीनां विहितं ताडनक्रमम्। विना या ताड्यते मन्दैः सा वितन्त्रीरिहोच्यते ॥ T इत्याहुराचार्याः। देवीवचनान्तराले सञ्जल्पन्ती कोकिलापि वीणायाः समीचीनवादनवेलायामक्रमताडिता वीणागुणवल्लरीव श्रोतृजनानामरुन्तुदमेव शब्दमुत्पादयामासेति भावः । अत्रामृतस्रुतेत्युत्प्रेक्षा माधुर्यसौकुमार्यादिगुणैः परभृताविरुताद् प्रथमः सर्गः ६१ देवीसञ्जल्पितस्य व्यतिरेकं द्योतयति, प्रतिकूलशब्दश्च तमभिद्योतयतीति व्यतिरेका- लङ्कारो ध्वन्यते ॥ ४४ ॥ प्रवातनीलोत्पलनिर्विशेष- मधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्य- स्ततो गृहीतं नु मृगाङ्गनाभिः ॥४५ ॥ प्रकाशिका प्रवातेति। अधैर्यप्रतिवस्तुतया प्रवातसम्बन्ध उपात्तः । ससन्देहोऽत्रालङ्कारः । ‘ससन्देहस्तु भेदोक्तौ तदनुक्तौ तु संशय’ इति [ काव्यप्रकाशे ] । नन्वत्र नुशब्दो वितर्कद्योतकः । वितर्कश्च भोजराजेन पृथगलङ्कारत्वेनोक्तः । उच्यते । नुशब्दोऽयमुभयं द्योतयति वितर्कं संशयं च । अत्र भोजः - ‘कः पुनर्वितर्कसंशययोर्भेदः । उच्यते । निर्णयासन्नो वितर्कः । वितर्कासन्नः संशयः । संशयानो हि वितर्कस्य कोटिमारुह्य ततो विभ्रष्टस्तत्त्वं चाभिनिविशते । शब्दाश्च किंस्विदित्यादयस्तुल्यरूपा एव संशयवितर्कयोरिति दुरवबोधस्तद्विशेष’ [ सरस्वतीकण्ठाभरणालङ्कारे ४.४२ वृत्तौ ] इति । अत एवास्मदलङ्कारकृता ससन्देहात् पृथगलङ्कारत्वेन वितर्को नोक्तः । विशेषणानां संशयाङ्गत्वं द्रष्टव्यम्॥४५॥ कटाक्षं वर्णयति- विवरणम् प्रवातेति । प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाङ्गनाभ्यो गृहीतं नु मृगाङ्गनाभिस्ततो गृहीतं नु । प्रवातनीलोत्पलनिर्विशेषं प्रकृष्टोऽधिको वातो यस्मिन् देशे स प्रवातः, तत्रत्यं नीलोत्पलं प्रवातनीलोत्पलं, तेन निर्विशेषं विशेषरहितं सदृशमिति यावत् । अधीरविप्रेक्षितम् अधीरं चपलं यद् विप्रेक्षितं विलोकनम् । भावे निष्ठा । तद् आयताक्ष्या आयते विशाले अक्षिणी यस्यास्तया । अनेन नेत्रस्यापि मृगनेत्रसादृश्यं दर्शितम् । तेन च नेत्रस्वरूपवर्णनमपि कविः कृतवानित्यवसेयम् । तया पार्वत्या मृगाङ्गनाभ्यः मृगीभ्यः सकाशाद् गृहीतं स्वीकृतं नु । नुशब्दः संशयवाचकः । मृगाङ्गनाभिर्मृगस्त्रीभिः ततः पार्वतीसकाशात्। उभयत्रापि ‘आख्यातोपयोगे’ (१.४.२९) इति पञ्चमी । गृहीतं स्वीकृतं नु । चारुमारुतावधूयमानचञ्चलेन्द्रीवरसदृशं कटाक्षविक्षेपणं किं तया मृगाङ्गनासकाशाद् गृहीतम् उत मृगाङ्गनाभिस्तत्सकाशादितीमं विशेषं निपुणतरं निरूपयन्तोऽपि वयं नावगच्छाम इति भावः । प्रवातग्रहणम् । आयताक्ष्या इति विसर्गान्तपाठे आयताक्ष्याः ६२ कुमारसम्भवे प्रवातनीलोत्पलनिर्विशेषमवीरविप्रेक्षितमित्यन्वयः । सन्देहोऽत्रालङ्कारः, ‘विषयस्य । सन्दिह्यमानत्वे सन्देह’ इति । विशेषणसन्देहोऽङ्गमम्॥४५॥ तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भुवोरानतरेखयोर्या । तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ ४६ ॥ प्रकाशिका तस्या इति । शकालाग्रस्थेन हरितालद्रवादिना निर्मितस्य चित्रादेर्निर्मातमनोनुकूला शोभा भवतीति शलाकाञ्जननिर्मितत्वमुत्प्रेक्ष्यते । आनता कुटिला रेखा सन्निवेशो ययोः। लीलाभिर्विलासैश्चतुराम् । अत्रापि शोभासन्निवेशविशेषाभ्यां साम्ये सत्यनङ्गचापाद् देवीभ्रुवोर्लीलाचतुरत्वेनाधिक्येन तां वीक्ष्येत्यादिना व्यतिरेक उक्तः । अत्र सा यां वीक्ष्येति पठितव्यमिति कश्चित् सुधीः । एवं हि वाक्यस्य प्रकृतपर्यवसायित्वं भवतीति ॥ ४६ ॥ भ्रुवौ वर्णयति— विवरणम् तस्या इति । तस्याः भ्रुवोः कान्तिः सा । तस्याः पार्वत्याः भ्रुवोः भ्रूयुगलस्य कान्तिः शोभा सा तथाविधेत्यर्थः । अवाङ्मनसगोचर इति भावः । अत एवोत्प्रेक्षते - शलाकाञ्जननिर्मितेवेति । शलाका चित्रलेखनसाधनं, शलाकाग्रावस्थितमञ्जनं शलाकाञ्जनं, तेन निर्मितेव । शलाकाग्रवर्तिना हरितालद्रवादिना लिखितं हि चित्रं निर्मातृजनमनोनुकूलं भवतीति सन्निवेशविशेषसौन्दर्यमुत्प्रेक्षाफलम्। तादृशं सन्निवेशविशेषमेव विशेषणेनाह — आनतरेखयोरिति । आनता कुटिला रेखा सन्निवेशो ययोस्तयोः । भ्रूशोभाया अवाङ्मनसगोचरत्वमेव द्रढयति – अनङ्गो यां वीक्ष्य स्वचापसौन्दर्यमदं मुमोचैति । अनङ्गो मन्मथः यां भ्रूकान्ति वीक्ष्यावलोक्य स्वचापसौन्दर्यमदं स्वस्य चापस्य यत् सौन्दर्यं मनोहारित्वं तेन यो मदः आत्मश्लाघिता, तं मुमोच त्यक्तवान् । तत्र हेतुमाह - लीलाचतुरामिति । लीलया विलासेन चतुरां सुन्दरम्। ‘चतुरौ दक्षसुन्दरौ’ इति वैजयन्ती । अनेन विशेषणेन गुणान्तरसाम्ये सत्यपि देवीभ्रुवोरनङ्गचापाद् व्यतिरेकः प्रतिपादितः । ‘कान्तिर्भुवोरानतरेखयोर्या तां वीक्ष्येति पाठे पुनरेकवाक्यतया योजना । अत्र व्यतिरेकोऽलङ्कारः ॥ ४६ ॥ प्रथमः सर्गः लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः । तत् केशपाशं प्रसमीक्ष्य कुर्यु- वलप्रियत्वं शिथिलं चमर्य ॥४७॥ प्रकाशिका ६३ लज्जेति। तत् तस्मात्। अत्राप्यतिशयोक्तिभेदः प्रागुक्तोऽलङ्कारो व्यतिरेकश्च गम्यते । वाक्यार्थयोश्चात्र लोकसिद्धः लोकसिद्धः कार्यकारणभावःयोऽधिकगुणदर्शनाल्लज्जितः, स स्वगुणेषु नादरं कुर्वीतेति ॥ ४७ ॥ केशपाशं वर्णयति- विवरणम् लज्जेति । तिरश्चां चेतसि लज्जा स्याद्यदि तत् चमर्यः पर्वतराजपुत्र्याः केशपाशं प्रसमीक्ष्य वालप्रियत्वं शिथिलं कुर्युः असंशयम्। तिरश्चां तिर्यग्योनिजानां पश्वादीनां चेतसि मनसि लज्जा अपत्रपा । स्यादिति सम्भावनायां लिङ् । यदीति यच्छब्दस्य प्रतियोगिनं तच्छब्दं निर्दिशति – तदिति । तत्यर्थः । पर्वतराजपुत्र्याः पर्वतानां राज्ञः पुत्र्याः पार्वत्याः केशपाशं प्रशस्तं केशम्। ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् परे’ इत्यमरः । प्रसमीक्ष्य प्रकर्षेण सम्यक् चावलोक्य । अत्र प्रकर्षेणावलोकनं नाम देव्याश्चमरीणां च हिमवत्पार्श्ववर्तित्वादनवरतावलोकनम् । देवीकेशपाशगतानां स्वाभाविकसौरभ्यादिगुणयोगित्वादीनां स्ववालेष्वभावावगमपर्यन्तमवलोकनं सम्यगवलोकनम् । तस्मात् सम्यगवलोकनं प्रकर्षावलोकनसाध्यमिति प्रशब्दस्य पूर्वनिर्देशः । चिरपरिचयवशाद् देवीकेशपाशगतान् विशेषगुणान् विविच्यावगम्येत्यर्थः । अत्र विविच्यावलोकनमारोपितम् । वालप्रियत्वं वालो लाङ्गूलं प्रियो यासां ताः वालप्रियाः, तासां भावस्तत्त्वम्। ‘त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः’ (वा. ६.३.३५) इति पुंवद्भावादत्र टापो निवृत्तिः । शिथिलमल्पं कुर्युः । अत्रापि सम्भावनायां लिङ् । असंशयं नात्र सन्देह इत्यर्थः । यो हि गुणाधिकदर्शनेन लज्जितः, (सः) स्वगुणेषु नादरं करोतीति लोकसिद्धम् । तत्र यदि मनुष्यादीनामिव पश्वादीनामपि गुणाधिकदर्शनेन लज्जा भवेत्, तर्हि चमर्यो देवीकेशपाशदर्शनानन्तरं स्ववालेषु कदाचिदपि नादरं कुर्वीरन्नित्यर्थः । चमरीणां देवीकेशपाशदर्शने सत्यपि यदेताः स्वलाङ्गूलेष्वादरं कुर्वन्ति, तिर्यग्योनिजातानामेतासां लज्जाभाव एव तत्र हेतुरिति भावः । अत्र ‘पुष्पं प्रवालोपहितं यदि

६४ कुमारसम्भवे स्याद्’ [कु. १.४३] इत्यत्र प्रतिपादितोऽतिशयोक्तिभेदोऽलङ्कारो व्यतिरेकश्च ध्वन्यते ॥ ४७ ॥ सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्ना- देकस्थसौन्दर्यदिदृक्षयेव ॥ ४८ ॥ प्रकाशिका एवं दिङ्मात्रदर्शनाय कांश्चित् प्रधानावयवानुपवयक्तानुक्तावयवसाधारण्या वर्णनया प्रकरणमुपसंहरति— सर्वोपमेति । उपमाद्रव्यं प्रागुक्तं चन्द्रकमलादि, अनुक्तं च नासादिप्रतिवस्तुतिलकुसुमादि, तस्य समुच्चयः समाहारः समूह इत्येकोऽर्थः । तेनयथाप्रदेशं यथाशब्दः पदार्थानतिक्रमे । प्रदेशो विषयः । स्वस्वोचितप्रपदादिविषयानतिक्रमेणेत्यर्थः । विनिवेशितेन तिर्यगूर्ध्वादिविशेषतो निवेशितेन । अन्यथा परस्परसाङ्कर्यानौचित्याभ्यां सौन्दर्यव्यतिरेकाभावः स्यात् । अनेन निर्मातुरवधानातिशयो ध्वन्यते । विश्वसृजेति, तस्य किमशक्यमिति भावः । प्रयत्नात् प्रकृष्टं यत्नमवलम्ब्य । एवं निर्माणे हि तस्यापि महता यत्नेनावश्यं भाव्यमिति भावः । एकस्थस्य एकावयविस्थितस्य सौन्दर्यस्य, अर्थात् सर्वोपमाद्रव्यगतस्य सर्वस्यैव । अन्यथा त्वसमुच्चयेऽप्येकैकस्थस्य सौन्दर्यस्य खण्डशो द्रष्टुमशक्यत्वात् । अत्राखण्डसौन्दर्यदिदृक्षामूलैवंविधिनिर्माणोत्प्रेक्षयां देव्यामखण्डसौन्दर्याध्यासः प्रतीयते ॥४८ ॥ विवरणम् इत्थं दिङ्भान्नप्रदर्शनार्थं देव्याः कांश्चन प्रधानावयवानुपवर्ण्य विस्तरभिया महाकवि - रनुक्तानामुक्तानां चावयवानां साधारणवर्णनेन प्रकृतमङ्गवर्मनमुपसंहरति— सर्वोपमेति । विश्वसृजा सा एकस्थसौन्दर्यदिदृक्षया प्रयत्नाद् यथाप्रदेशं विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मितेव । विश्वसृजा विश्वं सृजतीति विश्वसृट् (तेन) सकलजगन्निर्माणकर्मठेन ब्रह्मणा । तस्य किं दुष्करमिति भावः । सा पार्वती। एकस्थसौन्दर्यदिदृक्षया एकस्थस्यैकस्मिन्नेवावयविनि वर्तमानस्य सौन्दर्यस्य सर्वोपमाद्रव्यगतस्येत्यर्थात् सिध्यति, द्रष्टुमिच्छया । हेतौ तृतीया । न हि पृथक्पृथगवस्थापने पुञ्जीकृत्यावस्थापनेऽपि सुकुमाराणां चन्द्रकमलादीनां सौन्दर्यमेकस्मिन्नेवावयविनि वर्तमानतया द्रष्टुं शक्यमिति भावः । प्रयत्नात् ल्यब्लोपे प्रथमः सर्गः ६५ पञ्चमी, प्रयत्नमवलम्ब्येत्यर्थः । यथाप्रदेशं यथाशब्दः पदार्थानतिक्रमे। प्रदेशो मुखादिस्थानं तत्तदुचितप्रदेशानतिक्रमेणे त्यर्थः । विनितेशितेन विशब्दो विशेषवाची, तिर्यगूर्ध्वादिविशेषेण निवेशितेन स्थापितेन । पदादिस्थाने पद्मादीनामधोमुखतया स्थापनं, नयनादिस्थाने कुवलयादीनां तिर्यगवस्थापनमित्यादिविशेषेणेत्यर्थः । अनेन विश्वसृजोऽपि सावधानत्वं ध्वन्यते । सर्वोपमाद्रव्यसमुच्चयेन सर्वेषां न तु केषाश्चिद्, उपमाद्रव्याणां चन्द्रकमलादीनाम्, अनुक्तानां नासादिप्रतिवस्तुभूतानां तिलकुसुमादीनामप्युपादानार्थं सर्वशब्दः समुच्चयेन समाहारेण । ‘समाहारः समुच्चय’ इत्यमरः । समूहेनेत्यर्थः । करणार्थे तृतीया । निर्मिता सृष्टेव । इत्र ततइतो विप्रकीर्णानि चन्द्रकमलाद्युपमाद्रव्याणि प्रयत्नादेकत्र समानीय पुनश्च तानि यथोचितप्रदेशं रमणीयतया विन्यस्य ब्रह्मणस्तदङ्ग-निर्माणमित्युत्प्रेक्ष्यते, एकस्थसौन्दर्यदिदृक्षा तु तत्र हेतुत्वेन । अनेनोत्प्रेक्षाद्वयेन च देवीसौन्दर्यस्य लोकोत्तरत्वं ध्वन्यते ॥ ४८ ॥ , तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ४९ ॥ प्रकाशिका अथैतत्प्रकरणमुपयोजयन् प्रकरणान्तरमारभते- तामिति । तामेवंविधगुणविशिष्टाम् । कामचर इति दर्शनस्य यादृच्छिकत्वे हेतुः । कदाचिदिति यादृच्छिकत्वम् । कन्यामिति कन्यानां दर्शने हि तत्पित्रादिप्रीतये तत्प्रवृत्तये वा भाविनमर्थमादिशन्ति सन्तः, लोकदृष्ट्यनुसारेणैव नारदस्य तद्दर्शनादिकमिति च ध्वन्यते । अन्यथा कथं शिवयोरासन्नसेवकः स तयोस्तत्त्वं न विजानीयात्। तौ हि तत्त्वतो नित्यव्यतिशक्तावेवेति सोऽन्य एव परमार्थः । किलशब्दो वार्तायाम् । पितुः समीप इति दर्शनोपपत्त्यर्थम् । आदेशो भाव्यर्थशंसनम्। एकामद्वितीयां वधूं भार्याम् । भवित्रीं भाविनीम् । अयमादेशप्रकारः । इदमेव तावन्मनोरथस्याप्यविषयः । इतोऽप्यपरमस्तीत्याह – प्रेम्णेति । प्रेम्णा, न तु दाक्षिण्यादिना । शरीरस्यार्धहरामिति विग्रहः । अन्यथा अर्धशब्दस्य समप्रविभागवाचित्वे सति ‘अर्धं नपुंसकम् (२.२.२) इति समासकरणादर्धशरीरहरामिति स्यात् । हरस्येत्यत्र तु यथाबुद्धि व्यङ्गयोऽर्थोऽनुसर्तव्यः, न तु संज्ञिमात्रम् ॥४९ ॥ ६६ कुमारसम्भवे विवरणम् अथैतत्प्रकरणोपयोगी प्रकरणान्तरमारभते- तामिति । नारदः कदाचित् तां कन्यां पितुः समीपे प्रेक्ष्य हरस्यैकवधूं भवित्रीं समादिदेश किल । नारद इत्यनेन श्रद्धेयवाक्यत्वमुक्तम् । स हि परमेश्वरस्यासन्नसेवकः । कदाचिदित्यनेन नारदस्य यादृच्छिकमागमनं प्रतिपादितम्। तां पूर्वोक्तसकलगुणविशिष्टाम् । अनेन हरयोग्यत्वमुक्तम् । कन्यामित्यनेन पितुस्तदुचितभर्तृचिन्ता व्यज्यते । तत एव नारदस्य समादेशावकाशश्च ध्वन्यते । सन्तो हि कन्यादर्शने पित्रादिप्रीतये भाविनमर्थमादिशन्ति । पितुः हिमवतः समीपे । अनेन नारदस्य देवीदर्शनोपपत्तिरुक्ता । प्रेक्ष्य सम्यगवलोक्य । अनेन नारदस्य तद्गुणावलोकनं तादृशादेशे हेतुरिति लोकदृष्ट्यनुसारो व्यज्यते । हरस्य परमेश्वरस्य एकवधूम् एकामद्वितीयाम्, अनेन पत्न्यभाव उक्तः, वधूं भार्याम् । ‘वधूर्जाया स्नुषा स्त्री चे ‘त्यमरः । भवित्रीं भाविनीम् । समादिदेश सम्यगादिदेश । अत्र भाव्यर्थकथनमादेश इत्युच्यते । तत् कृतवानित्यर्थः । एषा हरवधूर्भविष्यतीति स्पष्टमेवोक्तवानित्यर्थः । किलेत्यनेन पुराणप्रसिद्धोऽयमर्थ इति ध्वन्यते । एतावन्मात्रमपि पितुर्मनोरथस्याप्यविषयः । ततोऽप्यधिकं किञ्चिदस्तीत्याह – प्रेम्णा शरीरार्धहरामिति । प्रेम्णा स्नेहेन, न तु दाक्षिण्यादिनेति भावः । ‘प्रेम स्नेह’ इत्यमरः । शरीरार्धहरां, नन्वत्र समांशविवक्षायामर्धशरीरहरामिति वक्तव्यम्। ‘अर्धं नपुंसकम्’ (२.२.२) इति समस्यमानस्यार्धशब्दस्योपसर्जनत्वेन पूर्वनिपातस्यावश्यम्भावात्। अर्धशब्दस्य पुल्लिङ्गत्वे तु शरीरैकदेशहरामित्येवार्थः स्यात् । ‘अर्धं समेऽशक’ इत्यमरसिंहवचनात्, मैवम्, शरीरस्यार्धहरामिति विग्रहस्वीकारात् । नारदस्य यादृच्छिकदेवीदर्शने हेतुमाहकामचर इति । कामं चरतीति कामचरः ॥ ४९ ॥ गुरुः प्रगल्भेऽपि वयस्यतोऽस्या- स्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूत- मर्हन्ति तेजांस्यपराणि हव्यम् ॥५०॥ प्रकाशिका ततः किमित्याह- गुरुरिति । प्रगल्भे प्रौढे वयसि प्रकृते यौवने । अतो नारदवचनात्। तस्थौ व्याकुलतामत्यजत् । निवृत्तोऽन्यस्मिन् देवव्यतिरिक्ते वरे वोढर्यभिलाषो यस्य । अयमर्थः प्रथमं प्रौढयौवनां तां दृष्ट्वानुरूपस्य कस्यचिद्वरस्याभिलषितत्वान्निरूप्य- प्रथमः सर्गः ६७ माणस्यापि तस्यान्यस्य लोकेऽनुपलम्भादनुरूपस्य च देवस्य मनोरथानामप्यविषयत्वादसौ व्याकुलोऽभूत् । पश्चान्नारदवचनाद् देवे भाविनि वर उपलब्धे निवृत्तान्यवराभिलाष एव भूत्वा निर्व्याकुलोऽभूदिति । युक्तञ्चैतदित्याह — ऋत इति । हविषि मन्त्रपूतत्वमपरानर्हत्वे हेतुः । प्रकृते तु प्रकरणप्रतिपादितो विश्वातिशायी गुणग्रामः ॥ ५० ॥ विवरणम् नारदादेशानन्तरं पितुः प्रवृत्तिमाह- T गुरुरिति । गुरुरतोऽस्याः प्रगल्भे वयस्यपि निवृत्तान्यवराभिलाषस्तस्थौ । गुरुः * पिता हिमवान् अतो विश्वसनीयनारदादेशाद्धेतोः अस्याः पार्वत्याः प्रगल्भे प्रौढे वयसि, यौवन इत्यर्थः । अपिशब्दो दुहितुर्यौवनावस्थायां पितुस्तथावस्थानस्यासम्भवं द्योतयति । तस्य च मुनिवचनमेव हेतुरिति सूचयति - निवृत्तान्यवराभिलाषः । निवृत्तो व्यावृत्तः अन्यस्मिन् भगवद्व्यतिरिक्ते वरे विवाहकर्तरि अभिलाषो यस्य तथाविधः सन् तस्थौ । ’ ष्ठा गतिनिवृत्ताविति धातुः । मनोव्यापारनिवृत्तिरेवात्र विवक्षिता । लोकातिशायिलावण्यामारूढयौवनां च तनयामेवमवलोकयन् हिमवान् भगवद्व्यतिरिक्तस्य कस्यचिदपि देव्या असमानत्वाद्, भगवतस्तु मनोरथानामप्यविषयत्वात् को वा मे दुहितुर्भर्ता भविष्यतीति व्याकुलोऽभूत् । नारदादेशानन्तरं तु निर्व्याकुलोऽभूदिति भावः । युक्तं चैतदित्याह – मन्त्रपूतं हव्यं कृशानोर्ऋते अपराणि तेजांसि नार्हन्तीति । मन्त्रैः पूतं मन्त्रपूतम् । एतच्चान्यानर्हत्वे हेतुः । देव्याः पूर्वप्रतिपादितविश्वातिशायिगुणगणप्रतिवस्तुभूतं चेदं विशेषणम्। हव्यं हविः कृशानोर्ऋते अग्नि विना । ‘अन्यारादितरतें ’ (२.३.२९) इति पञ्चमी । अपराण्यन्यानि तेजांसि सूर्याचन्द्रमसादीनि नार्हन्ति । हिशब्दः प्रसिद्धौ । यथा मन्त्रपूतं हविः कृशानुरेवार्हति, तथा तामपि हर एवेति भावः ॥ ५० ॥ अयाचितारं न हि देवदेव- मद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधु- मध्यस्थ्यमिष्टेऽप्यवलम्बते ऽर्थे ॥५१॥ प्रकाशिका तर्हि किमसौ स्वयं कन्यया देवं नोपस्थितवानित्याह- अयाचितारमिति । अभ्यर्थनाभङ्ग, प्रत्याख्यानम् । साधुर्मानी। माध्यस्थ्यम- ६८ कुमारसम्भवे प्रवृत्तिम्। अत्र देवगतस्यायाचनस्य अद्रिगतस्य कन्याग्राहणाशक्तत्वस्य च कार्यकारणभावः अयाचितानि देयानि सर्वद्रव्याणि भारत ! | अन्नं विद्या तथा कन्या अनर्थिभ्यो न दीयते ॥ इत्यागमसिद्धः । अत्र प्रत्युपसृष्टस्य गृह्णातेः प्राप्त्यर्थत्वाद् ‘गतिबुद्धि’ (१.४.५२) इत्यादिसूत्रेण कर्मसंज्ञायां देवमिति द्वितीयेति दक्षिणावर्तः । वयं त्वनुपसृष्टस्यापि प्राप्त्यर्थत्वं मन्यामहे । तथा च ‘देवदेवमद्रिः सुतां ग्राहयितुमिति महिमा पपाठ । एवञ्च- तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात् पार्थिवकन्यानां पाणिमग्राहयत् पिता ॥ इत्यत्रोत्तरवाक्ये दक्षिणावर्तदर्शितो विभक्तिविपरिणामो न कार्यः ॥ ५१ ॥ विवरणम् ननु यदि हर एवास्याः पतिरिति नारदादेशादवगतं हिमवता तर्हि केन कारणेनासौ स्वयमेव कन्यया न देवमुपस्थितवानत आह— अयाचितारमिति । अद्रिः सुतामयाचितारं देवं प्रतिग्राहयितुं न हि शशाक । आद्रिः हिमवान् अयाचितारं याचनं करोतीति याचिता, ततोऽन्यम् अयाचितारं देवं परमेश्वरं सुतां तनयां प्रतिग्राहयितुम् । अत्र ‘गतिबुद्धि - ’ (१.४.५२) इत्यादिसूत्रे ग्रहेरनुपादानाद् देवं प्रतिग्राहयितुमिति द्वितीयानुपपत्तेः प्राप्त्यर्थत्वमेव युक्तम्। तत् तु प्रत्युपसर्गवशादिति दक्षिणावर्तः । अरुणाचलनाथस्तु — निरुपसर्गस्यापि ग्रहेः प्राप्त्यर्थत्वमुक्तवान्। सुतां देवं प्रापयितुमित्यर्थः । हिशब्दोऽवधारणे । नैव शक्तोऽभूदित्यर्थः । अयाचितानि देयानि सर्वद्रव्याणि भारत ! | अन्नं विद्या तथा कन्या अनर्थिभ्यो न दीयते ॥ इति वचनादिति भावः । अत्रार्थान्तरन्यासमाह — मानी इष्टे अर्थे अभ्यर्थनाभङ्गभयेन माध्यस्थ्यमवलम्बत इति । मान्यभिमानी जनः इष्टे स्वसाध्यभूतेऽर्थेऽपीत्यर्थः । अभ्यर्थना याचना, तस्यास्तु भङ्गः प्रत्याख्यानं, तस्माद् भयेन । न वयमस्यां सक्ता इत्यादिवचनभयादिति भावः । मध्यस्थस्य भावो माध्यस्थ्यमौदासीन्यमिति यावत् । मानिनो हि जना निजाभिलषितेऽप्यर्थे प्रत्याख्यानभिया नातीव प्रयतन्त इत्यर्थः ॥ ५१ ॥ प्रथमः सर्गः यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज । तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ ५२ ॥ प्रकाशिका F ६९ इत्थं सकलजगदेकनायिकायाः प्रबन्धनायिकायाश्चरितमुपवर्ण्य तत्प्रसङ्गेन नायकस्य वृत्तान्तमवतारयति। तत्र चायं प्रसङ्गः - एवंविधां पूर्वपत्नीं किमयं देवः स्वयं भूधरेन्द्र न याचितवानिति । यदैवेति। दक्षिणावर्तेनोक्तं ‘दक्षरोषात्तु सतीति पाठः । तुशब्दोऽवधारणे । सतीति तादात्विकं नामेति । तत्पाठे तुशब्दः प्रकरणान्तरोपक्रमद्योतको युक्तः । यथा महाभारते ‘कृत्वा विवाहं तु कुरुप्रवीरा’ इति, ‘कृतशौचं तु राजानं धर्मात्मानमि’ ति च। रामायणेऽपि ’ प्रविश्य तु महारण्यं दण्डकारण्यमिति । सती सेत्यन्वयः । सुदतीति पाठे सुदतीशब्दस्य वयोवस्थाविशेषवाचित्वान्निरुपयोगता । देवतानां वयोवस्थाया अविशेषात् । यद्वा वयोवस्थया देवं प्रति देव्या अपर्याप्तभुक्तत्वं लक्ष्यते । तच्च निर्वेदकारणम् । अपर्याप्तभुक्तस्येष्टस्य वस्तुनो झटित्यत्यन्तनाशः सत्त्ववतां सर्वतो निर्वेदाय हि भवति । सङ्गत्यागश्च निर्वेदः । अपरिग्रहो ममत्वरहितः । ममत्वं हि सङ्गस्य कार्यम् । पशूनां पतिरित्यनेन सकलचेतनप्रवृत्तिनिवृत्तिकर्णधारस्यास्य कथमपरिग्रहत्वमिति कथं वास्य मायाकार्यं परिग्रह इति वा सोत्प्राशोक्तिर्व्यज्यते। अत्र देवीदेहत्यागो देवस्य सङ्गत्यागे कारणम् । तथा हिप्रकृष्टशोकाभिभूताः सन्तः सत्त्ववन्तः प्रत्यवमर्शिकया सत्त्वात्मिकया दृष्ट्या विपयेषु दोषान् पश्यन्तः सर्वतो निर्विद्यन्ते । किञ्च जनयिता च विप्रियाचरणेन देहत्यागहेतुर्जातः । तस्मात्— यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः । इति न्यायेन सम्बन्धः सर्वतो दुःखावह इति देहत्यागस्य सङ्गत्यागहेतुत्वं समर्थयितुं प्रकरणसिद्धोऽपि दक्षरोषो हेतुरुपात्तः । तर्हि तद्देहत्यागस्य हेतुत्वमात्रे वक्तव्ये तदैव प्रभृतीति कालनियमोपक्रमवाचीनि पदानि किमर्थमुपात्तानि । उच्यते। अत्र तदेति निर्दिष्टस्य कालविशेषस्यैव शाब्दं हेतुत्वम् । अव्ययत्वात्तु विभक्त्यश्रवणम् । कालो हि सकलभावानां प्रवृत्तिनिवृत्तिहेतुत्वेनेष्टः । अत एव तस्य नैमित्तिकाधिकरणत्वं ‘मधौ माद्यन्ति कोकिला’ इत्यादाविच्छन्ति शाब्दिकाः । देहत्यागस्य ७० कुमारसम्भवे कालविशेषणत्वादार्थं हेतुत्वम् । विशेषणे हि तात्पर्यं भवति । एवशब्दस्तु तस्यैव कालस्य हेतुत्वमिति द्योतनाय । यद्यपि सर्ववाक्यानां सावधारणत्वं, तथापि व्यवच्छेद्यस्योत्कटत्वेन प्राप्ताववधारणस्य विवक्षितत्वद्योतनाय तद्वाचि पदं प्रयुज्यते। अत्र देहत्यागस्य परम्परया सङ्गत्यागं प्रति हेतुत्वे कालान्तरस्य हेतुत्वं, साक्षात्तु हेतुत्वे तद्विशिष्टस्यैव कालस्य हेतुत्वमिति विकल्पेन कालद्वयप्राप्ताववधारणस्य विवक्षितत्वम् । नन्वेवमेक एव तच्छब्दनिकटस्थ एवशब्द उपादेयः, न त्वाद्यः। अर्थाविशेषाभावात् । नैवम्। अनुवाददशायामपि कालविशेषधर्मस्यावधारणस्य वक्तृबुद्धावुद्रेकेणावभासमानत्वात्। तथा च शिष्टप्रयोगः - ‘यैव त्वं हि पुरा जाता सैव त्वं हि शिखण्डिनी ‘ति । प्रभृतिशब्दस्याभावे तु सङ्गत्यागस्याऽनुवृत्तिर्न प्रतीयेत । तस्मात् त्रितयमप्युपादेयम् । इतः प्रभृति स्वेच्छापरिगृहीतधीरोदात्तावस्थस्य देवस्य लोकानुग्रहहेतावितिवृत्त आधिकारिकतया वर्ण्यमाने दयावीरो रसोऽङ्गी । तदन्येषामङ्गत्वम्। अत्र पूर्वप्रवृत्तत्वेन सूचितस्य शृङ्गारस्य विरोधी तपश्चर्यानुभावकः शान्तो रसस्तृतीयसर्गान्तं यावदनुवर्तते । तयोश्च विरोधस्तदुभयाविरुद्धेन देवीदेहत्यागसूचितेन मध्ये पतता करुणेन प्रशमितः । तदुक्तं ध्वनिकृता- रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ [ध्वन्यालोके ३.२७] इति ॥ ५२ ॥ विवरणम् इत्थमखिललोकनायिकायाः प्रबन्धनायिकाया वृत्तमुपवर्ण्य तत्प्रसङ्गप्राप्तो नायकवृत्तान्तः प्रस्तूयते। तत्रायं प्रसङ्गप्रकारः कैश्चिदुक्तः - ननु यदि देवगतमयाचनमद्रिगतस्य कन्याग्राहणाशक्तत्वस्य हेतुस्तर्हि केन हेतुनायं देवः स्वयमेव हिमवन्तं निजपूर्वपत्नी न याचितवानित्यत्राह — यदैवेतीति । वयं तु देवीशरीरत्यागानन्तरं देव किमकरोदित्यत्राहेति ब्रूमः । सुदती सा पूर्वे जनने दक्षरोषाद् यदैव शरीरं ससर्ज पशूनां पतिस्तदाप्रभृत्येवापरिग्रहः अभूत्। शोभना दन्ता यस्याः सा सुदती । ’ वयसि दन्तस्य दतृ ’ (५.४.१४१) इति दत्रादेशः । ‘उगितश्च’ (४.१.६) इति ङीप् । शोभनदशना युवतिश्चेत्यर्थः । अनया च वयोवस्थया देवस्य देवीसम्भोगेष्वतृप्तत्वं लक्ष्यते । देवतानां वयोवस्थाया अविशेषात् । अर्धभुक्तमिष्टं विनष्टं हि वस्तु सत्त्ववतां सर्वतो निर्वेदमापादयति। अत एव विमुक्तसङ्ग इत्युक्तम्। दक्षरोषात् तु सतीति पाठे तुशब्दः प्रकरणान्तरोपक्रमद्योतकः । सतीति नाम । सा पार्वती पूर्वे जनने पूर्वस्मिन् प्रथमः सर्गः ७१ जन्मनि, दक्षपुत्रीत्वावस्थायामित्यर्थः । दक्षरोषाद् दक्षविषयाद् रोषाद् यदैव शरीरं ससर्ज विससर्ज पशूनां कर्मपाशयन्त्रितानां ब्रह्मादिस्तम्बपर्यन्तानां जीवानां पतिः अन्तर्यामितया नियन्ता । अनेन सङ्गत्यागादीनामप्यस्य लोकयात्रामूलत्वं व्यज्यते । तदाप्रभृत्येव तदानीमेवारभ्य अपरिग्रहो ममत्वरहितोऽभूत् । यदैव देवी दक्षरोषादात्मनः शरीरं विससर्ज तदानीमेव परमेश्वरोऽहम्ममाभिमानरहितोऽभूदित्यर्थः । किमत्र चित्रम् । पितापि विप्रियमाचरन् पुत्र्याः शरीरत्यागे हेतुर्जात इति द्योतयितुं प्रकरणसिद्धमपि दक्षरोषमुपात्तवान्। देवी तु— यावतः कुरुते जन्तुः सम्बन्धात् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ 2 इति न्यायमवलम्ब्य स्वशरीरमेव तत्याजेत्यर्थः । अपरिग्रहत्वावलम्बे हेतुमाहविमुक्तसङ्ग इति । विमुक्तो विशेषेण मुक्तः सङ्गः सक्तिर्येन स तथा । सङ्गो हि ममत्वाभिमाने हेतुः । ननु कुतो भगवतो ममत्वं कुतस्तरां तत्परित्यागः, सत्यम्, इष्टजनवियोगे महाजनैरेवमेव कर्तव्यं, न पुनरतिमोह इति लोकशिक्षार्थमेव देवस्यायं व्यापारः । ननु यदि देवीशरीरत्याग एव देवस्य ममत्वपरित्यागे हेतुस्तर्हि किमर्थं तदाप्रभृत्येवेति कालनिर्णयस्योपादानम् । देवीशरीरत्यागाद् देवो ममत्वरहितोऽभूदित्येव हि वक्तव्यम् । उच्यते। काल एव हि सर्वेषामपि भावानां प्रवृत्तिनिवृत्तिहेतुः, ‘मधौ माद्यन्ति कोकिला’ इत्यादिव्यवहारदर्शनात् । तस्माद् देवीशरीरत्यागविशिष्टस्य कालस्यैव सङ्गत्यागकारणत्वमिति न काचिदनुपपत्तिः ॥ ५२ ॥ स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रपातोत्थितदेवदारु । प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किञ्चित् क्वणत्किन्नरमध्युवास ॥५३॥ ततः किमित्याह — प्रकाशिका स इति । यतात्मा हिंसादिभ्यो निवृत्तचित्तः । प्रपतत्यस्मिन्निति प्रपातः । मृगनाभि कस्तूरी। क्वणत्किन्नरं किञ्चित् प्रस्थमिति विशेषानादरं द्योतयति । परमेश्वरपरिगृहीतस्यैव क्षेत्रत्वात् । अत्राद्येन विशेषणत्रयेण तपसः परिकर उक्तः । अन्त्येन विशेषणद्वयेन रमणीयत्वप्रतिपादकेन विरोधिसन्निधावप्यतिधीरत्वाद् देवस्य धैर्यलोपशङ्का नास्तीति द्योत्यते । यथा शाकुन्तले - ७२ कुमारसम्भवे प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ॥ [ ७.१२] इति ॥ ५३ ॥ विवरणम् निस्सङ्गस्य भगवतः प्रवृत्ति दर्शयति- स इति । स कृत्तिवासास्तपसे हिमाद्रेः किञ्चित् प्रस्थमध्युवास । सः य एवं निर्विण्णः स इत्यर्थः । कृत्तिवासाः कृत्तिरर्थाद् गजचर्म वासो यस्य स तथा । अनेन तपः परिकरभूतमजिनधारणमुक्तम्। तपसे तपश्चरितुं हिमाद्रेर्हिमाचलस्य किञ्चिद् यत्किञ्चित् । अनेन प्रस्थविशेषणेन देवस्य प्रस्थविशेषानादर उक्तः, परमेश्वरपरिगृहीतस्यैव पुण्यफलत्वात् । प्रस्थं सानुम्। ‘प्रस्थः सानुरस्त्रियाम्’ इत्यमरः ।. ‘पुंनपुंसकयोः प्रस्थम्’ इति शाश्वतः । अध्युवासाध्यास्त । ‘उपान्वध्याङ्कसः ’ ( १.४.४८ ) इति प्रस्थस्य कर्मसंज्ञा । तपसः परमोपकरणमाह — यतात्मा । यतः संयत आत्मा मनो येन । एतच्च बहिरिन्द्रियाणामप्युपलक्षणम्, अन्येन्द्रियप्रवृत्तिपूर्वकत्वात् । जितेन्द्रिय इत्यर्थः । तपसो बाह्योपकरणसम्पर्त्तिं दर्शयितुं प्रस्थं विशिनष्टि — गङ्गाप्रपातोत्थितदेवदारु । गङ्गायाः प्रपातो गङ्गाप्रपातः । प्रपतत्यस्मिन्निति व्युत्पत्त्या प्रपात प्रपतस्थानम् । गङ्गायाः प्रपतनस्थानमित्यर्थः । तत्रोत्थिताः प्ररूढाः देवदारवो वृक्षविशेषा यस्मिंस्तत् । अनेन प्रस्थस्य पावनत्वं, जलबाहुल्यं, छायासौख्यं चोक्तम्। प्रस्थस्य रमणीयत्वमाह - मृगनाभीत्यादिना विशेषणद्वयेन । मृगनाभिः कस्तूरी, तस्य गन्धोऽस्त्यस्मिन्निति तथा । क्वणन्तो वीणया सह गायन्त किन्नरा यस्मिंस्तत् तथा । अनेन विशेषणद्वयेन देवस्यातिधीरत्वाद् रमणीयवस्तुसन्निधावपि समाधिभङ्गशङ्का नाभूदिति द्योत्यते । उक्तं च शाकुन्तले— प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ! ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी । इति । तेन च कथानायकस्य स्वेच्छापरिगृहीतधीरोदात्तावस्था ध्वन्यते । महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः । 1 प्रथमः सर्गः ७३ इति [ दशरूपके] धीरोदात्तलक्षणमिति । अत्र काव्ये तावदाधिकारिकतया वर्ण्यमाने तारकासुरनिग्रहाय कुमारोत्पादनरूपे भगवच्चरिते दयावीरो रसोऽङ्गी । इतरेषां तु शृङ्गारादीनां तदङ्गता । नन्वत्र तृतीयसर्गान्तं यावत् तपश्चर्यानुभावभासुरः शान्तो रसोऽङ्गतया वर्ण्यते । स च पूर्ववृत्तत्त्वेनोपक्षिप्तस्य शृङ्गारस्य विरोधीति कथं तयोः समावेशः । उच्यते । तद्विरोधनिवृत्त्यर्थमेव हि महाकविना तन्मध्ये तदुभयाविरोधी देवीदेहत्यागसूचितः करुणो रस उपक्षिप्त इति नात्र कश्चिद् विरोधः । तदुक्तं ध्वनिकारेण- रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशविरोधिता ॥ [ध्वन्या ३.२७] इति ॥ ५३ ॥ गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्वसानाः । मनः शिलाविच्छुरिता निषेदुः शैलेयगन्धेषु शिलातलेषु ॥ ५४ ॥ प्रकाशिका गणा इति । नमेरुः सुरपुन्नागः । मनःशिलया विच्छुरितास्तदङ्गरागाः । शैलेयं गन्धौषधिविशेषः शिलाजतु वा । अत्र परमेश्वरोपासकानां मायागर्भनिष्क्रान्तानां सर्वज्ञत्वादिगुणयुक्तानामपि गणेश्वराणां लीलावलम्बितलोकवृत्तत्वात् तद्देशोचितोपभोगवर्णनमुपपद्यत एव। एवमुत्तरश्लोकेऽप्यवसेयम् ॥ ५४ ॥ विवरणम् इत्थं तपश्चरणोद्युक्ते परमेश्वरे तदुपासनापरिहृतमायातत्कार्याणां भूतगणानां तद्देशकालोचितमुपभोगं वर्णयति— गणा इति । गणाः शैलेयगन्धेषु शिलातलेषु निषेदुः । गणाः परमेश्वरपार्षदा भूतगणाः । शैलेयगन्धेषु, शैलेयाः गन्धौषधिविशेषाः शिलाजतु वा । शिलाजतु तु शैलेयम्’ इति वैजयन्ती । शैलेयानां गन्धो येषु तेषु शिलातलेषु शिलाप्रदेशेषु । अनेनावस्थानसौख्यमुक्तम्। निषेदुः स्थितिं चक्रुः । तेषां तद्देशकालोचितं भूषणादिकं वर्णयति विशेषणत्रयेण । तत्रादौ शिरोलङ्कारमाह - नमेरुप्रसवावतंसा इति । नमेरूणां सुरपुन्नागानां प्रसवाः पुष्पाण्यवतंसाः शिरोलङ्कारा येषां ते तथा । अनेन७४ कुमारसम्भवे नमेरुकुसुमानामतिरक्तत्वादलङ्कारसौख्यमुक्तम्। वसनसौख्यमाह – स्पर्शवतीर्भूर्जत्वचो वसाना इति । स्पर्शवतीर्विशिष्टतरस्पर्शगुणयुक्ताः, अतिमृद्वीरित्यर्थः । अनेन परिधानसौख्यमुक्तम्। भूर्जत्वचस्तद्देशसुलभान् वृक्षत्वग्विशेषान् । वसानाः परिदधानाः । अङ्गरागसौख्यमाह – मनश्शिलाविच्छुरिता इति । मनश्शिला धातुविशेषः, तया विच्छुरिता रूषिताः, तदङ्गरागा इत्यर्थः । अनेन तेषां रक्ततरत्वादितराङ्गरागेभ्यो मनोहारित्वमुक्तम्। भूतगणास्तद्देशसुलभैरुपभोगसाधनैर्भगवत्सन्नि"धावेव रेमिर इति भावः ॥ ५४ ॥ तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् । दृष्टः कथञ्चिद् गवयैर्विविग्नै- रसोढसिंहध्वनिरुन्ननाद ॥५५॥ प्रकाशिका तुषारेति। तुषारसङ्घातश्चासौ शिला चेति विग्रहः । दर्पकलः दर्पेण कलः सुन्दरः । विविग्नैर्भीतैः । गवयाः गोसदृशाकृतयो मृगाः । नित्यदृप्तत्वात् तद्देशसम्भविनं धीरधीरं सकलसत्त्वभीषणं सिंहध्वानमसहमानस्तत एव खुरविलिखिततुहिनशिलः कैलासकूटप्रख्यवपुष्मत्तया प्रलयमेघगर्जितप्रतिमध्वानतया च चकितैः सजातीयशङ्कया गवयैर्विलोक्यमानो देवस्योपवाह्यो वृषो जगर्जेत्यर्थः ॥ ५५ ॥ विवरणम् भगवद्बाहनभूतस्य ककुद्मतः प्रवृत्तिं वर्णयति — तुषारेति । ककुद्मानुन्ननाद । ककुद्मान् हरवृषभः उन्ननाद उच्चैर्ननाद । वृषभस्वभावमाह–तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन्निति । तुषाराणां तुहिनानां सङ्घाताः समूहाः तुषारसङ्घाताः, तुषारसङ्घाताश्च ताः शिलाश्चेति तुषारसङ्घातशिलाः, ताः खुराग्रैः समुल्लिखन् खुराणामयैः कर्षन् । खुराणामग्रैस्तद्देशसुलभान् हिमजालोपलाननवरतमुल्लिखन्नित्यर्थः । अयं च कुपितानां मत्तानां वृषभाणां स्वभावः । तत्र मत्तत्वमाह — दर्पकल इति । दर्पेण परिभूतसकलमृगतया जनितेनाहङ्कारेण कलः सुन्दरः । अत एव विविग्नैर्गवयैः कथञ्चिद् दृष्टः । विविग्नैर्भीतैश्चलितैश्च। ‘ओविजी भयचलनयोः’ इत्यस्माद् धातोर्निष्ठान्तोऽयं शब्दः । गवयैगसदृशाकृतिभिर्मृगविशेषैः । कथञ्चित् कथमपि दृष्टो विलोकितः । कैलासप्रतिमाङ्गतया प्रलयघनघटागर्जित-सदृशनिस्वानतया च जायमानात् त्रासात् स्वयूथ्यशङ्काजनितेन । 1 प्रथमः सर्गः 4 ७५ विश्वासलवेन च यथाकथञ्चिदवलोक्यमान इत्यर्थः । कुपितत्वमाह - असोढसिंहध्वनिरिति । सोढो मर्षितो न भवतीत्यसोढः, असोढः सिंहानां ध्वनिर्येन स तथा । तद्देशसुलभं सकलजनभयानकं सिंहध्वनिमप्यसहमान इत्यर्थः । अत्र स्वभावोक्तिरलङ्कारः । ‘स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्’ इति [ काव्यप्रकाशे ] ॥५५॥ तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार॥५६॥ प्रकाशिका तत्रेति । अग्नेः सकलवैदिकानुष्ठाने प्राधान्येन तदाधानस्य पौर्वकाल्यम् । अग्निश्चायं तपोर्थः न गार्हपत्यादिः, अपत्नीकत्वात् । समित्समिद्धमिति तत्परिचर्यायामविकलत्वं द्योत्यते । स्वमेव मूर्त्यन्तरमिति तत्स्वरूपविशेषाभिज्ञत्वम्। तपसः फलानां स्वयं विधातेति परमपरिपूर्णत्वेन स्वतन्त्रत्वेन च स्वर्गादिप्रसिद्धफलापेक्षाविरहं द्योतयता विशेषणेन केनापीति निर्दिष्टं कामस्याचिन्तनीयत्वमुपपादितम्। तपसः कामनापूर्वकत्वाद् निष्कामानामपि वा तपस्यतामन्तःकरणशुद्धेः कर्मपरिक्षयस्य वा समभिहितत्वात् फलभावानुमितिः । फलस्य चोक्तप्रकारेणाचिन्तनीयत्वम् । अभिसन्धिविशेषश्च फलं कामः । तस्मात् केनापि कामेनेत्युक्तम्। अतिशयार्थं चाचिन्तनीयत्वं कामस्योक्तम् । वस्तुतस्तु लोकानुग्रहाय कारुणिकस्य तस्य तप इति पुराणादिप्रसिद्धम्॥ ५६ ॥ विवरणम् इत्थं भगवत्पार्षदानां प्रवृत्ति प्रतिपाद्य प्रकृतस्य भगवतस्तप एव प्रस्तौतितत्रेति । अष्टमूर्तिस्तत्राग्निमाधाय केनापि कामेन तपश्चचार । सूर्यानलादिभेदेनाष्टौ मूर्तयः शरीराणि यस्य सोऽष्टमूर्तिः शिवः । यथोक्तं- सूर्यानलेन्द्वात्मधरानिलाम्बुव्योमाह्वया यस्य हि मूर्तयोऽष्टौ । तं लोकनाथं कथयन्ति सन्तः शैलेन्द्रकन्यापतिमष्टमूर्तिम्॥ इति । अनेन भगवतस्त्रैलोक्यात्मकत्वमुक्तम्। तत्र हिमवच्छिखरे अग्निमाधाय विलेखनप्रोक्षणादिना सम्पाद्य । नात्र गार्हपत्यादीनामग्नीनां श्रौतेनाधानविधिना ७६ कुमारसम्भवे सम्पादनं विवक्षितं, तत्र सपत्नीकस्यैवाधिकारात् । सकलवैदिककर्मानुष्ठानेष्वग्नेरेव प्राधान्यात् तदाधानस्य पूर्वकालत्वम् । केनापि कामेन निपुणं निरूपयतामप्यवाङ्मनसगोचरेण केनाप्यभिसन्धिविशेषेण । हेतौ तृतीया । तपश्चचार तपः कृतवान् । अग्नौ विहितानि कर्माण्यपि संक्षिप्य दर्शयति — समित्समिद्धमिति । समिद्भिः समिद्धं सम्यगिद्धम्। अनिद्धेऽग्नौ होमनिषेधादिद्धमित्युक्तम् । पुनश्च समिद्धोमानन्तरं ताभिः सम्यगिद्धमिति भावः । देवेनाराध्यस्य देवतान्तरस्याप्यभावं द्योतयन्नग्नि विशिनष्टिस्वमेव मूर्त्यन्तरमिति । स्वमात्मीयमेव मूर्त्यन्तरं मूर्तिभेदम् । अष्टमूर्तेर्भगवत एका हि मूर्तिरग्निरेव । भगवतस्तपः फलेष्वनादरं द्योतयन् भगवन्तं विशिनष्टि – स्वयं तपसः फलानां विधातेति। अत्र स्वयमित्यनेन फलप्रदाने स्वातन्त्र्यमुक्तम्। तपः फलत्वेन प्रसिद्धानां स्वर्गादीनां स्वयमेव प्रदातेत्यर्थः । अनेन देवस्य तपश्चरणे फलप्रदात्रन्तराभाव उक्तः। अखिलकर्मिणां कर्मफलप्रदस्य भगवतस्तपश्चरणे तदाराधनीयस्य देवतान्तरस्याभावात् फलप्रदात्रन्तराभावात् प्रदेयस्य स्वर्गादेः स्वानुवर्तित्वेन भगवतस्तत्र साध्यत्वाभावाच्च कथं देवकृतस्य तपसः फलविशेषानुमानोपपत्तिरिति केनापि कामेनेत्युक्तम्। नत्वकामनया तपश्चरणमस्तु । मैवम् । अकामनया तपश्चरतामपि दुरितक्षयादिभिरन्तः करणशुद्धिद्वारेण मोक्षफलार्थित्वात्। नित्यमुक्तस्य भगवतश्च तदभावात्। तस्मात् तपश्चरणदर्शनेन फलसामान्याभिलाषानुमानोदये सत्यपि तद्विशेषानुमानस्य दुष्करत्वादुपपन्नमेव केनापि कामेनेति वचनम्। कामस्याचिन्तनीयत्वप्रतिपादनमतिशयार्थमेव । परमार्थतस्तु भगवतस्तपश्चरणं लोकानुग्रहणाय। अनुग्रहश्च सर्वैरप्येवं कर्तव्यमित्युपदेशः । यथोक्तं भागवते- इति ॥ ५६ ॥ ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा । लोकानां ग्राहयञ्छीलं यथान्योऽघापनुत्तये ॥ अनर्घमर्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमग्रां समादिदेश प्रयतां तनूजाम्॥५७॥ प्रकाशिका अथ वक्ष्यमाणाधिकारिकवृत्तभागसङ्घटनाय स्वावसरे पताकादिवृत्तं किञ्चिदनुसन्धत्ते- प्रथमः सर्गः ७७ अनर्धमिति । अर्घः पूजा, तद्रहितोऽनर्घः । दवीयस्तया तदगोचरमित्यर्थः । स्वर्गीकसामर्चितं देवैरर्च्यमानम् । ‘मतिबुद्धि – ’ ( ३.२.१८८) इत्यादिना वर्तमाने क्तः । ‘क्तस्य च वर्तमाने (२.३.६७ ) इति षष्ठी। प्रयतां शुद्धाम् । तनूजामिति गृहमेधिनो ह्यतिथीनां सत्काराय कन्यका नियुञ्जन्ति । यथा दुर्वाससः कुन्तीं कुन्तिभोजः । यथा वा बलभद्रः सुभद्रां यतिवेषस्य किरीटिनः । अयमर्थःयदनुग्रहविशेषलब्धतत्तदैश्वर्या ब्रह्मादयः पुनरनावृत्ति यत्पदमावाप्तुं यमेव करणग्रामागोचरं नानाद्रव्यमयेषु लिङ्गेष्वर्चयन्तीति श्रूयते तं देवं केनापि पुण्यपरिपाकेनोपस्थितमुपलभ्य भूधरेन्द्रोऽर्ध्यादिभिरभ्यर्च्य तदविच्छेदाय श्रद्धादिगुणसमन्वितां देवीमेव तत्र नियुक्तवानिति ॥५७॥ विवरणम् इत्थमुपवर्णितवृत्तयोर्नायिकानायकयोः परस्परसंघटनार्थं प्रसङ्गागतं किमपि वृत्तं प्रस्तौति- अनर्घमिति। अद्रिनाथस्तमर्थ्येणार्चयित्वास्याराधनाय सखीसमग्रां तनूजां समादिदेश । अद्रिनाथो हिमवान् । तम् इत्थं तपश्चरन्तं भगवन्तम् । अर्येण, अर्घः पूजा तदर्थं जलमर्घ्यम्। एतच्च गन्धपुष्पादीनामप्युपलक्षणम् । अर्चयित्वा पूजयित्वा। जलगन्धादिक्रमेण पूजयित्वेत्यर्थः । अस्य भगवतः आराधनाय पूजायै सखीसमग्रां सखीभिः समग्रां सम्पूर्णां तनूजां समादिदेश सम्यगादिदेश नियुक्तवान् । गृहमेधिनो हि गृहागतानामतिथीनामाराधनाय कन्यकां नियुञ्जते । यथा दुर्वाससः परिचर्यार्थं कुन्तिभोजः कुन्तीमादिदेश, यथा वा यतिवेषधारिणः किरीटिनः परिचर्यार्थं सुभद्रां बलभद्रः । भगवतो माननीयत्वातिशयमाह - अनर्घमिति । अर्घः पूजाविधिः । ‘मूल्ये पूजाविधावर्घ’ इत्यमरः । तद्रहितोऽनर्घः, अवाङ्मनसगोचरतया पूजाविधेरगोचरमित्यर्थः । अनेन विशेषणेन हिमवतस्तदर्चनलाभस्य सुकृतपरिपाकमात्रायत्तत्वमुक्तम्। अत एवाह – स्वर्गौकसामर्चितमिति । स्वर्ग ओको गृहमेषामिति स्वर्गौकसो देवाः, तैरर्चितं पूज्यमानम्। ‘मति बुद्धिपूजार्थेभ्यश्च’ (३.२.१८८) इति वर्तमाने क्तः । ‘क्तस्य च वर्तमाने (३.२.६७ ) इति षष्ठी। भगवदनुग्रहमात्रलब्धब्रह्मादिलोका देवा अप्यनावृत्तिपदोपलब्धये वचसां मनसामप्यगोचरं यमेव देवं नानाद्रव्यनिर्मितासु प्रतिमास्वेवार्चयन्तीति श्रुतिपुराणादिषु प्रतिपाद्यते तमेव देवं साक्षादर्चयतो हिमवतः पुण्यपरिपाका मनसां वचसामप्यगोचरा एवेति भावः । तनूजायास्तदर्चननियोगे योग्यत्वमाह — प्रयतामिति । शुद्धान्तःकरणामित्यर्थः । हिमाचलमध्यासीनं भगवन्तं हिमाचलः स्वयमेवार्घ्यपाद्यादिभिरभ्यर्च्य तदविच्छेदाय परिशुद्धान्तः करणां तनूजामेवादिदेशेत्यर्थः ॥ ५७॥ 3 ७८ कुमारसम्भवे प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ ५८ ॥ प्रकाशिका प्रत्यर्थीति । प्रत्यर्थिभूतामिति वर्णितां रूपसंपदमनुस्मारयति । शुश्रूषमाणां परिचरन्तीम्। ‘ज्ञाश्रुस्मृदृशां सनः ’ (१.३.५७) इत्यात्मनेपदम् । शुश्रूषाशब्दश्च कार्यलक्षणया परिचर्यायां रूढः । एतच्च वाक्यं वक्ष्यमाणकामदहनपर्यन्त-प्रकरणावसेयस्य परमेश्वरगतस्यारूपहार्यत्वस्य बीजम् ॥ ५८ ॥ तस्यां भगवतः प्रतिपत्तिमाह- विवरणम् प्रत्यर्थीति । गिरिशस्तां शुश्रूषमाणामनुमेने । गिरिशः परमेश्वरः तां पार्वतीं। शुश्रूषमाणां परिचरन्तीम् । ‘ज्ञाश्रुस्मृदृशां सनः ’ (१.३.५७) इत्यात्मनेपदम्। शुश्रूषाशब्दश्च श्रवणेच्छायाः कार्यं लक्षयन् परिचर्यायां रूढः । परिचरन्तीं सतीम् अनुमेने अनुज्ञातवान्। नन्वस्या लावण्यसम्पदः सकलजनचित्तक्षोभकरत्वमनवगम्यैव वा किमेवमनुज्ञातवान्, नेत्याह – समाधेः प्रत्यर्थिभूतामपीति । समाधेश्चित्तैकाग्र्यस्य प्रत्यर्थिभूतां परिपन्थिभूतामपि । सर्वेषामेतद्दर्शने चित्तैकाग्र्यं दुष्करमित्यवगच्छन्नपीत्यर्थः। एतेन विशेषणेन वर्णिता रूपसम्पदनुस्मारिता । युक्तं चैतदनुमननं देवस्येत्याह— येषां चेतांसि हृदयानि विकारस्य चित्तक्षोभस्य हेतौ कारणभूते रूपादौ सत्यपि । न विक्रियन्ते विकारं न प्राप्नुवन्ति । कर्मकर्तरीदं रूपम् । त एव धीराः नान्य इत्यर्थ। अनेन वाक्येन वक्ष्यमाणकामदहनादिवृत्तान्तावगम्यस्य देवगतस्यारूपहार्यत्वस्य बीजन्यासः कृतः । अत्राप्रस्तुतस्य धीरवृत्तसामान्यस्य कथनेन प्रस्तुतं विशेषभूतं देवस्य धीरत्वं प्रतीयत इत्यप्रस्तुतप्रशंसाविशेषः । अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रणीतावप्रस्तुतप्रशंसा॥ ५८ ॥ अवचितबलिपुष्पा वेदिसम्मार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥५९॥ प्रथमः सर्गः ७९ प्रकाशिका अथोत्तरसर्गार्थप्रस्तावाय प्रस्तुतां शुश्रूषामाह- अवचितेति । वेदिरुपवेशनार्था । सम्मार्गः शोधनम्। नियमस्याचमनादेः विधिरनुष्ठानं, तदर्थानि जलानि । ‘नियमस्तु स यत् कर्म नित्यमागन्तुसाधनमिति सिंहः । अवचयादीनां शुश्रूषाप्रकारत्वादियमुक्तिः । प्रत्यहमित्यतन्द्रीकत्वमुक्तम्। तच्छिरश्शब्देन चन्द्रपादानां नित्यसुलक्षत्वमुक्तम्। कूपखनकवद् वृत्तिरिति च ध्वन्यते, सेवया जनितः श्रमस्तयैवापनुद्यत इति । अत्र परिखेदसुकेशीशब्दाभ्यां- स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा- दद्यापि स्तनवेपथुं न जहति श्वासाः प्रमाणाधिकाः । बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ [ शाकु. १.२७] इत्युक्तः श्रमावस्थासुलभः शोभाविशेषः प्रत्याय्यते। अत्र प्रकरणे कविकुलपरमेश्वरेण कामतन्त्रे कन्यासम्प्रयुक्तकाधिकरणे ‘प्रयोज्यस्योपावर्तनमिति यत् प्रकरणं तदर्थोऽनुसंहितः । तथापि — प्रयोज्यस्य प्रवर्तनीयस्योपावर्तनमभिमुखीकरणमिति सूत्रार्थः । तत्र प्रथमं भाष्यं - मन्दोपदेशा गुणवत्यपि कन्यका धनहीना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी समानैरयाच्यमाना प्राप्तयौवना स्वयमेव पाणिग्रहणं लिप्सेतेति । तत्र पाणिग्रहणस्वयंलिप्सायां प्राप्तयौवनत्वे सत्यनुरूपवरायाच्यमानत्वं नियतो हेतुः । मन्दाभिज्ञधनहीनपितृवियुक्तत्वानां चायाचनहेतूनां प्रायिकत्वम् । ते हि प्रायो लोके हेतवो भवन्ति । तस्मादिह परमेश्वरस्वभावो लोकविलक्षणो हेतुरयाचने । अयाचनं चोक्तम् ‘अयाचितारम् ’ (१.५१ ) इति । अनुरूपवरान्तराभावश्चोक्तो ‘निवृत्तान्यवराभिलाषः ’ (१.५० ) इत्यनेन । न चात्र देव्यास्तद्विषया लिप्सा नोक्तेति मन्तव्यम् । ‘भवपूर्वपत्नी’ (१.२० ) इति प्रतिपादिताया नैसर्गिक्या रतेर्यौवनेनाविस्पष्टमुद्बोधितायाः पुनर्नारदवचसा स्पष्टोद्बोधात् । प्रौढयौवनायाः स्वयंवरश्चानुमतो धर्मशास्त्रे- त्रीणि वर्षाण्युदासीत कुमार्यतुमती सती। ऊर्ध्वं तु कालादेतस्ताद् विन्देत सदृशं पतिम् ॥ इति । सदृशश्च देव एवेत्युक्तम्। माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखी कुर्यादिति चतुर्थं भाष्यम् । तत्र सखीभिः सहेति लज्जापनयनार्थम्। मातेति गुरुपलक्षणत्वात् तद्विहितमनुष्ठानं ‘सखीसमग्रां समादिदेश’ (१.५७) इत्युक्तम्। पञ्चमे च गत्वा गन्धपुष्पताम्बूलहस्ताया विजने काले च तदुपस्थानमित्या- ८० कुमारसम्भवे दिनोक्तमनुष्ठानम् ‘अवचितबलिपुष्पे ’ त्यादिना दर्शितम् । दर्शयिष्यते च परस्ताद् ‘अथोपनिन्ये गिरिशाय गौरी’ (३.६५ ) इत्यादिना ॥ ५९ । ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां प्रथमः सर्गः ॥ | १ | विवरणम् अथोत्तरसर्गे कथान्तरप्रस्तावाय प्रस्तुतशुश्रूषाप्रकारेणैव देव्याश्चिरावस्थानं दर्शयितुं शुश्रूषाप्रकारमेवाह—

अवचितेति । सा सुकेशी प्रत्यहं गिरिशमुपचचार । सा या गिरिशेन शुश्रूषायामनुमता सेत्यर्थः । सुकेशी शोभनाः केशा यस्याः सा तथा प्रत्यहमहरहः । अनेनातन्द्रितत्वं सावधानत्वं चोक्तम् । गिरिशं परमेश्वरम् उपचचार पर्यचरत् । परिचर्याप्रकारमाह— अवचितेत्यादिना विशेषणत्रयेण । तत्रादौ प्रातरेव कर्तव्यं पुष्पावचयमाह — अवचितबलिपुष्पेति । अवचितानि बल्यर्थानि पुष्पाणि यया सा तथा। पुनस्तदन्तरकर्तव्यमाह – वेदिसम्मार्गदक्षेति । वेदिरवस्थानभूमिः, तस्याः सम्मार्गे शोधने दक्षा निपुणा । अथ गिरिशागमनानन्तरं कर्तव्यमाहनियमविधिजलानां बर्हिषानां चोपनेत्रीति । नियमानामाचमनादिकर्मणाम्। ‘नियमस्तु स यत् कर्म नित्यमागन्तुसाधनम्’ इत्यमरः । तेषां विधिरनुष्ठानं, तदर्थानां जलानाम्। सर्वकर्मणामाचमनपूर्वकत्वाद् जलानां पूर्वमुपादानम् । बर्हिषां परिस्तरणाद्यर्थानां च उपनेत्री समीपप्रापणं कुर्वाणा । चकारोऽनुक्तानां प्रदीपादीनामपि समुच्चयार्थः । उपचचार । खेदप्रशमनोपायोऽपि तत्रैव सुलभ इत्याहतच्छिरश्चन्द्रपादैर्नियमितपरिखेदेति । तस्य परमेश्वरस्य शिरसि यश्चन्द्रस्तस्य पादै रश्मिभिः कर्तृभूतैः नियमिताः परिखेदाः परित खेदाः सकलशरीरव्यापिनः खेदाः पीडा यस्याः सा तथा। अत्र तच्छिरश्शब्देन पीडाहारकाणां नित्यसुलभत्वं कूपखनकवृत्तिश्च ध्वन्यते। यथा कूपखनकस्य खननोद्भवं खेदं तदुद्भूतमेव जलमपनयति, तथास्या अपि हरसेवाजनितश्रमस्तच्छिरश्चन्द्रपादैरेवापनुद्यत इति भावः । अत्र परिखेदसुकेशीशब्दाभ्यां श्रमावस्थासुलभ शोभातिशयः प्रत्याय्यते । यथोक्तं शाकुन्तले— स्रस्तांसावतिमात्रलोहिततनौ बाहू घटोत्क्षेपणाद् अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ [ १.२७] इति । एतादृशशोभाविशेषदर्शने कस्यचित्क्षोभो न भवेदिति भावः । अत्र प्रकरणे प्रथमः सर्गः ८१ कविप्रवरः कामशास्त्रे कन्यासम्प्रयुक्ताधिकरणे प्रतिपादितं सर्वमप्यर्थं यथावत् प्रतिपादितवान् । तत्र ‘प्रयोज्यस्योपावर्तनम्’ इति वात्स्यायनसूत्रम् । अस्यार्थः -प्रयोज्यस्य प्रवर्तनीयस्य स्वाभिमतस्य वरस्येत्यर्थः । उपावर्तनम् अभिमुखीकरणं, स्वानुकूलताविधानमिति यावत् । कुर्यादिति शेषः । स्वानुरूपं वरं तत्कालोचितशुश्रूषादिभिरात्मानुकूलं कुर्यादिति । न चेदं धर्मशास्त्रविरुद्धं, त्रीणि वर्षाण्युदासीत कुमार्यतुमती सती। ऊर्ध्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् ॥ इति स्मृत्या स्वयंवरस्यानूदितत्वात् । अनुरूपवरान्तरविरहिता स्वानुरूपेण वरेणायाच्यमाना गुणवती प्राप्तयौवना कन्या तत्राधिकरिणीति जयमङ्गलायामुक्तम्। तत्रानुरूपवरान्तराभावो ‘निवृत्तान्यवराभिलाषः’ (१.५०) इत्यत्रोक्तः, प्राप्तयौवनत्वं ‘बाल्यात् परं साथ वय प्रपेदे’ (१.३९) इत्यत्र, गुणवतीत्वं पुनरङ्गवर्णनादौ । ‘भवपूर्वपत्नी’ (१.२० ) त्यनेन देव्याः परमेश्वरविषयो नैसर्गिकोऽभिलाषः प्रदर्शितः । उद्बोधितश्चासावविस्पष्टं यौवनेन । नारदवाक्येन तु स्पष्टमुद्बोधित इति भगवतः प्रयोज्यत्वमपि प्रतिपादितमेव । तस्यानुकूल्यकरणोपायश्च गुरुजनानुवादपूर्वकं सखीजनैः सह तदभिमतगन्धपुष्पताम्बूलादिदानं विजने काले च तदुपस्थानमित्यपि जयमङ्गलायामुक्तम् । तदपि ‘सखीसमग्रां समादिदेश’ (१.५७) अवचितबलिपुष्पे ’ त्यादिना च प्रदर्शितम् । वक्ष्यति च ‘अथोपनिन्ये गिरिशाय गौरी (३.६५) इत्यादिनेति सर्वं सुमङ्गलम् ॥५९॥ + सर्वोऽयं प्रथमो गुणैश्च गिरिजालावण्यसारं परं यस्मिन् वर्णयति स्म कर्णमधुरैर्वर्णैः कविग्रामणीः । तत्राहं कृशधीः करोमि किमिति व्यालोलचित्तं तु मा- मित्थं किञ्जिदजल्पयद् गिरिसुतापादाब्जभक्तिः स्वयम्॥ गोविन्दाङ्गगुणौघवर्णनविधौ दक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये। व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते प्रथमः समाप्तिमगमत् सर्गे निसर्गोज्ज्वलः ॥ ॥ इति श्रीकृष्णप्रियशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे प्रथमः सर्गः ॥ १ ॥