०२ सम्पादकीयम्

अथेदं प्रस्तूयते भगवदनुग्रहपवित्रवागिति महामाहेश्वरैरभिनवगुप्तपादैः सम्भावितस्य केवलेन कवीश्वर इत्यपि परिचायितस्य माकिं २०७० वर्षेभ्यः पूर्वं प्रियमाणस्य कालदासाऽपरपर्यायस्य कालदासाऽपरपर्यायस्य कालिदासस्य कालिदासस्य रघुवंशाग्रजं सर्गबन्धं. कुमारसम्भवमिति । अयमत्र विशेषो यदत्र शिवदासापरनाम्नाऽरुणाचलनाथेन या ‘प्रकाशिका’ नाम्नी नितान्तं हृद्या टीका व्यरचि, व्यरचि च तस्या विशकलनरूपं विवरणं नारायणेन तदुभयमपि दीयते । मूलं च ताभ्यां स्वीकृतचरमेव गृह्यते । उभे अपीमे त्रिवेन्द्रमसंस्कृतग्रन्थमालायां तस्या विश्रुतनामधेयैरध्यक्षैः श्रीमद्भिर्गणपतिशास्त्रिभिः १९१३ - १४ ख्रीष्टाब्दाभ्यां प्रकाशितचरे । आस्तामिमे बहुभ्यो वर्षेभ्यः सुदुर्लभे इति भूयोऽपि प्रकाश्येते काश्या गौरवभूतेन सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेनास्माकमनुरोधं पालयता । अष्टावेव सर्गाः विज्ञेयमिदं यट्टीकयोरनयोः कुमारसम्भवस्याद्या कालिदासकृतत्वेन स्वीकृताः । यथा चेदं तत् प्रथमस्य पद्यस्यान्तिमस्य च ‘समदिवसे ‘ति पद्यस्य टीकयोः प्रत्यपाद्येव विद्वद्भ्यामाभ्यामिति नोद्धरणपौनरुक्त्यमाद्रियामहे । ये चाष्टमसर्गतः परमपि नव सर्गाः केषुचित् पाण्डुलेखेषु दृश्यन्ते, दृश्यन्ते च निर्णयसागरादिभ्यो मुद्रितप्रकाशितास्ते हि न कालिदासप्रतिभाप्रसूताः । अत एव नोद्धृताः काव्यशास्त्रकृतां सुमहत्या पारम्पर्या । भाषाऽपि तत्रासंस्कृतप्रायैव । वस्त्वपि १-८ सर्गीयेण वस्तुना न केवलं न समन्वेति यावदशिष्टतामपि न परिहरति । त इमे सर्वेऽपि हेतवोऽस्माभिः कालिदासग्रन्थावल्या द्वितयेऽपि संस्करणे प्रदर्शिताः, प्रदर्शिताश्च सद्यस्तरां प्रकाशितस्याऽस्माकं कुमारविजयमहाकाव्यस्य पीठिकायाम् । कालिदाससंस्थानस्याऽस्य सचिवेन डॉ. सदाशिवेन द्विवेदिना च स्वकीये पीएच्.डी. शोधप्रबन्धे, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेनैव प्रकाश्यमाने । अथ प्रश्नो यद् यदि न कालिदासेन तर्हि केन वाऽपरेणेमे विरच्य योजिता इति तत्रोत्तरं पश्यामः कुमारसम्भवस्यैव - अहो अहो देवगणाः सुरेन्द्रमुख्याः शृणुध्वं वचनं ममैते । विचेष्टते शङ्करदेव एष कार्याय सज्जो भवतां सुताद्यैः ॥१२.५४ ॥ इत्यस्मिन् पद्यार्थे । प्रसिद्ध एव हि उत्कलदेशीयः शङ्करदेवः । आसीदसौ विरक्तो भक्तकविरिति, तस्यैवासावनामग्रहो योग इति । सन्दिग्धमिदमिति प्रतिप्रश्ने पुनब्रूमहे ( ८ ) कालिदास एव कुमारसम्भवस्य कवयितेत्यत्राऽपि सन्देहमेव पश्यामः कृतपदम्। ऋते सर्गान्तपुष्पिका नास्त्येतेषु कुत्रापि कालिदासस्योल्लेखः कवित्वेनेति । येन च कर्त्रा स्वकीयं नामैवाऽगोपि तस्याऽस्य कूर्चे तृणमपीदं बहु । अथ कथन्नाम दद्यादसौ स्वकीयं नाम यस्य प्रतिपद्यमेव महती स्खलना पदसङ्घटनायामपि । प्रमाणार्थं नवभ्य एभ्यः सर्गेभ्यः किमप्येकमाददतु पद्यं विचारयत च तद्रचनाकौशलम् । ननु सप्तदशस्य सर्गस्य पद्यमिदम्- जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता बाणाः शिताः / शितान् दनुज/असुर-नायकबाणसङ्घान्। अह्नाय तार्क्ष्यनिवहा इव नागपूगान् सद्योविचिच्छिदुरलं कणशो रणान्ते ॥ ( १७.७३ ) अत्र या पदावलिः सा छन्दोमात्रपूर्तिप्रयोजनैव । न भवन्त्यत्र सङ्गपूगनिवहशब्दानां बहुवचनान्ताः प्रयोगाः समर्थनीयाः । तार्येण सह शराणामौपम्यमप्यत्रासदृशमेव । तार्क्ष्यस्य विततच्छदत्वायाऽपि विद्यते प्रसिद्धिः, केवलं तीव्रवेगत्वमेव नास्ति तत्र कारणम् । ‘मज़ा किरकिरा हो गया’ इति या हिन्दीभाषाया लोकोक्तिरियमस्मिन्नेवार्थे सर्गेष्वेषु त्रिः प्रयुज्यमाना दृश्यते ९.१४ इत्यादिषु । अत्र खलु पद्ये ‘मन्मथरङ्गभङ्ग’पदमस्मिन्नेव हि तात्पर्ये प्रयुज्यमानं दृश्यते । न च संस्कृतभाषायामस्मिन्नर्थे शब्द एष कुत्राप्यन्यत्र प्राचीने संस्कृतसाहित्ये प्रायोज्यत । कुमारः कार्तिकेय उत्पन्नः कृत्तिकासु, किन्तु भागेऽस्मिन् स एष गिरीशगौर्योः पुत्रत्वेन कीर्त्तितः- एवं त्वमेव तनयोऽसि गिरीशगौर्योः ‘अङ्कतलं किं यासि कालविषयं विषमैः शरैर्मे । सङ्ग्रामतोऽपसर जीव पितुर्जनन्या- स्तूर्णं प्रविश्य वरमङ्कतलं विधेहि ॥ (१७.१४) वरं विधेही ‘ति वचनमत्र विशेषणविहीनत्वावच्छिन्नमेव । शोभयेत्यादिवचनान्तरस्यैष विषयः । पितुर्जनन्या इति विपरीतमर्थं ददाति पितामहीरूपम् । नास्ति च प्रसिद्धा माता भगवतः शिवस्य । अस्ति चात्र विवक्षितः ‘पितुर्जनन्याश्चे’ ति समुच्चयः । तथा चोपस्थितोऽत्रैकशेषः ‘पित्रोः’ इति ‘जगतः पितरौ वन्दे ( र. १. १ ) इत्यादिवत् । सोऽयं न्यूनपदत्वरूपो दोषः । स्त्रीपुंसयोः ‘कौतुकागार’ पदम्। सप्तमसर्गान्ते कालिदासस्तदेव प्रयुङ्क्ते ‘क्षितिविरचितशय्यं कौतुकागारमागात्’ (७.९४) इति । नवमस्य सर्गस्य प्रथम एव पद्ये तदिदं पदमसौ न स्मरति । एतस्य कृते प्रयुज्यतेऽत्र सम्भोगवेश्मेत्यशिष्टप्रायं पदम् । तथा हि- प्रथमसमागमापवरकस्य कृते निरूढमेव ( ९ ) तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः । सम्भोगवेश्म प्रविशन्तमन्तर्ददर्श पारावतमेकमीशः ॥९.१ ॥ वस्तुतस्तु पारावत एष कामिनोर्हृद्गतः स्मरानलः । पर्यायशतैरप्यप्रशान्त एष रतानामनयोरिति ‘समदिवसनिशीथं सङ्गिनः’ इत्यष्टमसर्गान्तपद्येनार्थस्यास्य कविनैवोपनिबद्धत्वात्। कथमत्र पारावतस्यैवोपस्थापनमिति चेत् सुरतपर्यायशताय पारावतस्यैव प्रसिद्धेः । नासौ वस्तुतः पारावतः, पारापतः खल्वेषः, परापतति कपोतीष्विति कृत्वा। सोऽयमवितृप्तिपर्यायस्य कामस्यैव प्रतीकः । एवोक्तमस्माभिः कुमारविजये- स्मरवह्निकषायितौ शिवौ पृथिवीभावमवापतुर्यदा । भगवत्यभवन्मही तदा भगवाँश्चाप्यभिसंविवेश ताम् ॥ १.३ ॥ स हि बिन्दु पुष्क ईश्वरो गिरिपुत्रीस्मरवह्निमाविशत् । कृतवान् स हि विघ्नमेतयोर्निभृतं तत्र कपोतवर्ष्मणा ॥ १.४ ॥ इति। प्रपञ्चित एष एवाभिप्रायस्तत्रैवैवम्— अत शिवयोरभिदैव भिन्नतामुपयाता स हि षण्मुखः सुतः । इयमेव सृतिर्मनीषिणां शिवशृङ्गाररसः स लौकिकः ॥ शिवया खलु रस्यते शिवः शिव एष स्वदते शिवामिमाम् । अनयो रसनैव सा परा प्रसरीसति सिसर्ति वा मृतौ ॥ इति, (कुमारविजये, १.९-१० ) इति च। प्रारब्धं चेदं काव्यममुमेवाश्रित्य भूमिकाम्— शिवयो रमणोत्सवो य आसीद् रमणार्थं न स केवलं बभूव । मरणार्थमिदं तु तारकस्य विधिमार्गेण सनातनात्मना ॥ विधिमार्गत एषका सृतिर्नरनारीशिवयोः स्मरागमः ॥१.१२ ॥ इति । अत्र विधिपदं श्लिष्टम्, विधिर्ब्रह्मा, धर्मश्चेति । धर्मश्चात्र सनातनः सार्वदिकः शाश्वतिको वा । त इमे रहस्यदिग्धा विषया नास्फुरन्नेतेषां सर्गाणां कर्तुः प्रज्ञाकोशे । अत एव विमुखावत्रारुणगिरिनाथनारायणौ वल्लभदक्षिणावर्त्ताविवैव । उचितं च तत्। मल्लिनाथोऽपि सप्तमं सर्गं यावदेव निबबन्ध तस्य सञ्जीविनीम् । या चाष्टमसर्गेऽपि मल्लिनाथसञ्जीविनीनाम्ना टीकैका निर्णयसागरीये १९४६ यीशुवर्षीये संवत्सरे प्रकाशिते कुमारसम्भवसंस्करणे परिशिष्टतयाऽयोजि तत्रास्ति प्रकृतिभेदः पूर्ववर्त्तिसर्गगतसञ्जीविनीतः। ततस्तत्रापि जागर्त्ति प्रश्नचिह्नं मल्लिनाथसूरिनिर्मितत्वे। योऽयमष्टमः सर्गस्तस्य भावमाधुरीं रचनाकौशलीं च रसयतां कालिदासैकरचितत्वं सूपपादम् । नान्यः कवयितुं प्रभवेत् — ( १० ) पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोऽम्भसा । विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते॥८.६१॥ एवंविधं काव्यबन्धम् । प्रकृतोभयोपमाऽत्रालङ्कारः । हिमांशुबिम्बद्वयमिव उभयत्रापि चक्रवाकमिथुनमपि विप्रकृष्टविवरम्, पक्वफलिनीफलत्विट् च। कालसामानाधिकरण्यं जागरूकमेव । ‘यदा हिमांशुबिम्बयोर्विप्रकर्षस्तदैव चक्रवाकयोरपि । देशसामानाधिकरण्येनापि प्रवर्त्तते महाकवेरस्य प्रतिभा प्रकृतोभयौपम्यमुपनिबन्धुम् । तथा हि रघुवंशस्य चतुर्थे सर्गे- आपादपद्मप्रणताः कलमा इव ते रघुम्। फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥४.३७॥ इत्यस्मिन् वङ्गानन्तरीयाणां सुह्मदेश्यानां वर्णने । यस्मिन् क्षेत्रे ऋतौ च कलमपदवाच्याः शालयः फलभारानता दृश्यन्ते तस्मिन्नेव तद्राजानोऽपि रघुं फलैः संवर्धयन्ते । उत्खातप्रतिरोपितत्वमप्युभयत्र समानम् । रघुणा सुह्मगता राजानस्तथैवोत्खाय तत्रैव प्रतिरोपिता यथा कलमा उत्खाय प्रतिरोप्यमाणा अदृश्यन्तेति तत्रार्थद्वयसङ्गतिः । ऐतिह्यमप्यष्टमसर्गस्य कुमारसम्भवघटकत्वे प्रमाणति । तथा हि तत्तेषां कवीनामुदाहरणैरात्मनः सिद्धान्तसूत्राणि प्रमाणयतां काव्यशास्त्राचार्याणां प्रथमः ८०० यीशुसंवत्सरे काव्यालङ्कारसूत्रवृत्तिग्रन्थस्य कर्त्ता तत्रभवाञ्जयापीडनाम्नः शारदादेशीयस्य राज्ञो मन्त्री वामनः । स हि कुमारसम्भवस्यास्याष्टमस्य सर्गस्य पद्यान्युद्दधे । तेषु ८.३१ सीकरव्यतिकरमित्यादिकमेकम्, ८.६२ ‘शक्यमोषधिपतेरिति द्वितीयं, ८.६३ ’ अङ्गुलीभिरिवेति च तृतीयं वामनेनोद्धृतं पद्यम् । अस्ति च ध्वन्यालोककृताऽऽनन्दवर्धनोऽस्यैव सर्गस्य विषये दर्शितवाननौचित्यदोषम् । सोऽयं नवमशतकीयः । मम्मटोऽप्यमुमेव दोषमुदाजहार, उदाहजहार चामुं सर्गं मम्मटपूर्ववर्ती महिमभट्टो ‘निम्नमुन्नतमवस्थितमिति । तदेवमेकादशे शतके महिमभट्ट इव द्वादशशतकपूर्वार्द्ध मम्मटोऽप्यस्य सर्गस्य कुमारसम्भवीयत्वे समानरूपेणैवाऽविसंवाद्येव । अनौचित्यमिदमत्र प्रस्तुताभ्यां टीकाकृद्भ्यां पुनर्निपुणं निराकारि । युगनद्धभावमुद्रा खलु भगवद्भक्तानधिकतमं प्रत्याहतेन्द्रियान् करोति । भगवतोश्चेष्टाशतान्तरवत् तोषजनकमेव सुरतव्यापृतिवर्णनम् । भगवत्या भवान्या यौवनोद्भेदस्य प्रथमसर्गमारभ्यान्तिमं सर्गं यावद् यत् खलु वर्त्तिकयेवोन्मीलनं सोऽपि कवितुः चित्रकारस्य मूर्त्तिकारस्य च महानेव जपध्यानयोगः । या चाऽत्र पित्रोः स्मृतिः सा केवलाऽभावप्रतियोगिन्येव, तां भूमिकामारूढस्य स्वमालिन्यस्यैवानुभविकत्वात् । न स्मर्यतेऽत्र स्वभिन्नं किमपि । येषु च स्मृतिरियं वस्तुभूता तैः परिसरेऽत्र न ह्येव प्रवेष्टव्यम्। अनधिकृतास्तेऽस्य सर्गस्यानुभवे । ( ११ ) ऐतिह्यानि अथेदानीमवधेयान्यैतिह्यानि कुमारसम्भवकर्तुः कालिदासस्य, प्रकाशिका - कर्तुररुणगिरिनाथस्य, विवरणकर्त्तुर्नारायणस्य च । तत्र- ९. कालिदासः कालिदासो नाम स महान् कविर्यस्य नाम्ना प्रणीतानि निम्नलिखितनामानि काव्यनाट्यानि— १. मेघदूत / सन्देशम् २. कुमारसम्भवम् ३. रघुवंशम् १११ मन्दाक्रान्तामयं शृङ्गारकाव्यम् । १ - ८ सर्गात्मकं महाकाव्यम् । १ - १९ सर्गात्मकं महाकाव्यम् । ४. मालविकाग्निमित्रम् १-५ अङ्कात्मकं नाटकम् । ५. विक्रमोर्वशीयम् १-५ अङ्कात्मकं नाटकम् । ६. अभिज्ञानशाकुन्तलम् १-७ अङ्कात्मकं नाटकम् । ऋतुसंहारनामकमपि षडृतुकाव्यं कालिदासकृतत्वेनैव प्राप्तप्रसिद्धिकम् । एवमेव ज्योतिर्विदाभरणमिति ज्योतिश्शास्त्रप्रकरणमपि रघुवंशकृतः कवेरेव कृतित्वेन प्रसिद्धम्, शृङ्गारतिलकम्, नलोदययमकम्, श्रुतबोधनामकं छन्दःशास्त्रमपि कालिदासकृतित्वेनैव प्रख्यातिमापादितम् । एतानि सर्वाणि सन्दर्भरत्नान्याश्रित्य गवेषकैर्बहुधा कल्पितं जल्पितं च । तत्र ‘ए हिस्ट्री आफ् क्लासिकल संस्कृतलिटरेचर’ इति आङ्ग्लभाषया निबद्धे ग्रन्थरत्ने तद्रचयितुः कृष्णमाचार्यमहोदयस्य प्रतिपत्तिः (पृ. ११३) भिन्नभिन्ना मा किं नव भवन्ति कालिदासा इति । तेषु - १. रघुवंशम्, कुमारसम्भवम्, मेघदूतम्, ज्योतिर्विदाभरणञ्चेत्येतेषां रचयिता कालिदास एकः । स हि विक्रमसंवत्सरप्रवर्त्तकस्य विक्रमादित्यस्य नवरत्नेष्वन्यतमं रत्नमिति । मेधारुद्र इत्यस्य द्वितीयं नामेति । २. मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलञ्चेति नाटकत्रयम् सेतुबन्धनामकं प्राकृतमहाकाव्यञ्चेत्येतेषां कविर्मातृगुप्तः खलु द्वितीयः कालिदासः । अस्याश्रयदाता विक्रमादित्यः कश्मीराणां शासको हर्षः । ३. तृतीयश्च कालिदासः १३४७-१४३० यीशुसंवत्सरान्तरालभावी काञ्चीकामकोटिकवेर्मूकस्य शिष्यः । ऋतुसंहारम्, शृङ्गारतिलकम्, श्यामलादण्डकम्, नवरत्नमाला, श्रुतबोधश्चेति ग्रन्थपञ्चकस्यासावेव रचयितेति ।( १२ ) अन्येऽपि षट् कालिदासास्तेनैव महोदयेनैवमत्रैवोल्लिखिताः १. नवसाहसाङ्कचरितस्य निबन्धा पद्मगुप्तपरिमलकालिदासः । २. नलोदययमकस्य कर्त्ता कालिदासः । नलोदयस्य सुबोधिनीनाम्या संस्कृतटीकया सहितमतीव सुमुद्रणं संस्करणम् १८३० यीशुसंवत्सरे बरोलिनीनगरतः प्रकाशितमासीत् । ३. चम्पूभारतकारो नवकालिदासः । ४. अकबरसभारत्नभूतः समस्यापूर्त्तिकविः कालिदासः । ५. लम्बोदरप्रहसनस्य रचयिता कालिदासः । ६. सङ्क्षेपशङ्करविजयस्य कर्त्ता माधवनामाऽभिनवकालिदास इति । एवमाहत्य कालिदासत्वं कृष्णमाचारीतिहासे नवत्वव्याप्यजातिकं जातमित्यहो नः क्षोदनिपुणिमा । ईदृश्येव प्रतिपत्तिः साकेतकस्य डॉ. रमाशङ्करतिवारिमहोदयस्य’ । कालिदासस्य नामान्तराणि योऽयं महाकविरिदानीं केवलेन कालिदास इति नाम्ना प्रतीतस्तस्य मिलन्ति नामान्तराण्यपि तानि चेमानि- १. कालदास इति २. मातृगुप्त इति ३. भर्तृमेण्ठ इति ४. चन्द्रमौलिरिति ५. ईश्वरकृष्ण इति ६. प्रवरसेन इति ७. कुमारदास इति ८. दीपशिखेति ९. कालिदास इति च । एतेषां कालिदास इति पूर्वोक्तानां रघुवंशादीनां सर्गान्तपुष्पिकासु, नाटकप्रस्तावनासु च प्राप्यते । रघुवंशगतास्वेव सप्तमाष्टमनवमदशमादिसर्गपुष्पिकासु कालिदास एव कालदास इति लिखितो लभ्यते । पाटणादिभ्यः प्राप्तासु रघुवंशमातृकासु त इमे लेखा इति स्पष्टमेवास्माकं कालिदासग्रन्थावल्या द्वितीये १९८६ ख्रीष्टाब्दे प्रकाशिते. संस्करणे । केयं काली कीदृशश्चासौ कविस्तस्या दास इति कुतूहलेषु विविधमुत्प्रेक्षन्ते सहृदयाः । अस्माकं पुनरियं प्रतिपत्तिः यत् कालीयं कालिदासयुगस्य स्थितिः । प्रस्तुता चेयं कुमारसम्भवस्यैवाष्टमे सर्गे- नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः । लोक एव तिमिरौघवेष्टितो गर्भवास इव वर्त्तते निशि ॥८.५६ ॥ १. ‘नाटककार कालिदास और काव्यकार कालिदास’ पृष्ठ १४, परिमलपब्लिकेशन, दिल्ली, २००१ ई. । अन्येऽपि डाक्टरप्रभाकरनारायणकवठेकरमहोदयप्रभृतयोऽमुमेव पक्षं पोषयन्ति, नवीना दाममित्रादीनां सद्यः प्राप्ताः प्राचीनाः शासनादेशाश्च । ( १३ ) इति नितान्तं सूक्ष्मेक्षिकया चित्रितेयं स्थितिः । बौद्धा हि वैनाशिकाः । तेषामनुयायिनां नन्दानां शासने समाज ईदृशीमेवावापद् दुर्दशाम् । तमिममुद्दधे बैम्बिकः सेनापतिः पुष्यमित्रः, बृहद्रथं विशस्याधिगृहीतमौर्यशासनः प्रसह्य । पुष्यमित्रश्च ब्राह्मणः । वर्णाश्रमव्यवस्थामसौ भूयोऽपि रूढमूलां व्यधादिति पुराविदां शासनम्। व्याकरणमहाभाष्यकारो भगवान् पतञ्जलिः कथयति —‘इह पुष्यमित्रान् याजयामः’ इति । अस्ति चाभिलेख ः ‘पुष्यमित्रो द्विरयष्टाश्वमेधेने ‘ति । सर्वदा सङ्क्रान्तिकाल एष भारतानामितिहासे । तथा चासीदस्य प्रभावो यद् वैदेशिका अपि वैष्णवाः समजायन्त । सेयं भगवती महाकाली। अस्या दासः सेवकः । सेवा चेयं वाङ्मयौपयिकी । प्रीता चानया भगवत्येषा । सहस्रशः खलु लेखाः प्रतिलेखाश्च साधितास्तत्तासु लिपिषु सम्पूर्णेऽपि भारतीये वसुन्धरावलये, सिंहलेषु च । एतेषामसौ पञ्चमः पञ्चशतीपर्यायः । कालिदासस्य स्थितिकालः ननु यदि पञ्चम एष पर्यायः पञ्चशताब्दीनां कालिदाससाहित्यलिपिकर्मणि तर्हि कस्तावत् प्रथम इति प्रश्ने २०७० वर्षेभ्यः प्रागित्यत्रास्माकीना प्रतिपत्तिः । मूलमंत्र निम्नाङ्कितानि तथ्यानि- उल्लेखः केवलस्य बैम्बिकवंशीयस्य शासकत्रयस्य- १. पुष्यमित्रस्य तत्पुत्रस्य २. अग्निमित्रस्य तत्पुत्रस्य च ३. वसुमित्रस्य २४. वसुमित्रकृतस्य सिन्धुतीरे यवनजयस्य ५. विदिशाया राजधानीत्वेन प्रसिद्धेः ६. उरगपुरस्य च पाण्ड्यदेशराजधानीत्वस्य ७. निष्कनाम्न्याः सुवर्णमुद्रायाः । इतिहाससिद्धानीमानि । अनुल्लेखः १. संवत्प्रवर्त्तकस्य विक्रमादित्यस्य २. विक्रमादित्यप्रवर्त्तितस्य संवत्सरस्य ३. विक्रमादित्यपरवर्त्तिषु शककुषाणकनिष्कगुप्तानाम् ४. चतुर्णामपि धाम्नाम् ५. प्रयागे समुद्रगुप्तप्रशस्तेः, महाकुम्भस्य च । उद्धरणम् व्याकरणमहाभाष्यस्य ऋलृक्सूत्रे चतुष्टयी शब्दानां प्रवृत्तिरिति वचनस्य- ( १४ ) पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी । | (कुमारसं. २.१७) इति । अनुद्धरणम् – बुद्धस्य, तदीयानां धाम्नाञ्च सॉचीप्रभृतीनाम् । परिहरति स खलु प्रसङ्गपतितानपीमान् प्रसङ्गान् । अत एव नासौ स्मरति ‘हेलियोदर ’ निर्मितं गरुडध्वजमवन्तिकामार्गे, नापि च काशीं पार्श्ववर्त्तिसारनाथक्षेत्रपरिजिहीर्षुः । एतैरन्यैश्चैवंविधैः साधकबाधकप्रमाणैः स्थितमिदं यन्नास्पृशत् कालिदासः २०७० तमादर्वाचीनां समयसीमाम् । विक्रमादित्यकोलाहलः ननु योऽयं महान् कोलाहलो यदुत कालिदासः खलु विक्रमादित्यसभारत्नेष्वन्यतम इति तस्य मूलं किमिति प्रश्ने ब्रूमः निम्नलिखिता उक्तयस्तत्र मूलमिति — १. ’ ख्यातिं कामपि कालिदासकृतयो नीताः शकारातिने ‘ति । २. अभिज्ञानशाकुन्तलपाण्डुग्रन्थानां कतिपयेषु प्रस्तावनागतं वचनम् ‘अभिरूपभूयिष्ठा परिषदियं रसभावविशेषदीक्षागुरोर्विक्रमादित्यस्य साहसाङ्कस्ये’ति । ३. कालकाचार्यकथादिकञ्चेति । अत्रास्माकं प्रतिपत्तिः ‘शकारातिना विक्रमादित्येन तदानीमुपलब्धाः सनातनधर्मप्रचारानुकूलाः कालिदासकृतयो भृशमादृताः’ इति हि ततो निष्कर्षो ग्राह्यः, न तु कालिदासो विक्रमादित्यसभाकविरिति । एवमेव शाकुन्तलप्रस्तावनायां यो विक्रमादित्यस्य समुल्लेखः स प्रयोगकालप्रभावः, यथा काशीहिन्दूविश्वविद्यालयस्य हीरकोत्सवे प्रयुज्यमानस्य शाकुन्तलस्य प्रस्तावनायां तादृशस्योत्सवस्य, यथा वोज्जयिन्यां सम्पद्यमाने कालिदासमहोत्सवे तादृशस्य महोत्सवस्य । किञ्च योऽयं शाकुन्तलप्रस्तावनायां ‘विक्रमादित्य’ पदस्योल्लेखस्तत्र तस्य नामशब्दत्वं सिद्ध्यति, साहसाङ्क इत्युपाधेः प्रयोगात् । तथा च नाऽत्र समापतति गुप्तवंशीयानां विक्रमादित्योपाधिभृतां चन्द्रगुप्तस्कन्दगुप्तादीनां प्राप्तिप्रसङ्गः । ततश्चापहस्तिता नाम समूलमेवाधुनिकानां गुप्तशासने बहुमानभृतां विदुषां ते ते कल्पाः, तत्समकालिकः कालिदास इति सिद्धान्तयितुं सचेष्टानाम् । ये च पुरातत्त्वेतिहाससङ्ग्राहकाः फर्गुसनप्रभृतयस्ते हि भारतीयेषु घटनाचक्रेषु न स्वच्छचित्ता इति तेषां कल्पना (१५) दूरतोऽपि भारतीयैः प्रामाण्यप्रियैर्विद्वद्भिः कथमप्याद न शक्यन्ते । विक्रमसंवत्सरस्योल्लेखमपश्यद्भिरेभिः कल्प्यते यस्मिन् काले समुल्लेखस्तस्मिन्नेव हि काले विक्रमसंवत्सरस्य प्रारम्भः, किन्तु ६०० वर्षाणां प्राचीनतां कल्पयित्वेति । प्रतितर्कस्त्वत्र बलवान् ’ न जानाम्यहं नामानि मम वृद्धप्रपितामहादीनाम्, ततो निष्क्रष्टुं शक्यते किं नाभूवँस्ते’ इति । सोऽयमुपहासास्पदं ग्रहः यावज्जीवमहं मौनीति वदतो वचनमिव । ’ पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम्’ इति यत् सुभाषितं तदेवाऽत्र चरितार्थम् ‘पाश्चात्त्येषु हि संवत्सरस्य बहोः कालात् पश्चादपि प्रवर्त्तितस्य बहोः कालात् पूर्वप्रवर्त्तितत्वस्य प्रचारात् । प्रश्नान्तरमिदं • ‘विक्रमादित्य आसीन्नवेति एतत्तु सिद्धं कालिदासस्तं न वेत्ती ‘ति । यदि वा ‘मित्र आदित्य’ इत्यनर्थान्तरमेव । ततश्च शक्योन्नयस्त्वेष कल्पो यत् शुङ्गेष्वेव केनापि विक्रमेणापि भाव्यं यस्य नामनि आदित्य इति मित्रपर्यायो योजितो विक्रमादित्य इति प्रवर्त्तितश्च तेनैव संवत्सर इति । भावसंवादाः काव्यगतानां भावानां चित्रमूर्त्यादिषु ये संवादाः गुप्तकाले दृश्यन्ते, तत्र मूलं कालिदासस्य साहित्यमेव कल्पनीयं, न तु वैपरीत्येन कालिदाससाहित्यगते संवादे प्राचीनानां चित्रमूर्त्यादीनां प्रभावः । यदि वा संवादेषु संवादमात्रं कल्प्यम्, न तु प्रभावः । अन्यथा भिन्नराष्ट्रगतानां कवीनां विभिन्नकालिकत्वेनान्योन्याऽपरिचितत्वेन च यो मतिसंवादस्तत्रापि प्रभाव एष कल्प्येत । कल्प्यमाने तु प्रभावे दुः शकनिर्णयोऽत्रानुयोगिप्रतियोगिभावः कस्य कुत्र प्रभाव इति । ततश्चैतिह्यविदां संवादेन यः पूर्वापरीभूतत्वभावविकल्पः स खल्वाश्रयासिद्धिदोषकवलितः । चरमा सीमा कालिदासो हि हर्षवर्धनसमकालिकेन बाणभट्टेन सादरं स्मर्यते हर्षचरिते रविकीर्त्तिनेव अयहोलाभिलेखे ६३४ यीशाब्दीये- येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म । स विजयतां रविकीर्त्तिः कविताश्रितकालिदास भारविकीर्त्तिः ॥ इति । अत्र जिनवेश्मपदस्य सभङ्गश्लेषं पूर्वार्धे, रविकीर्तिपदस्य चोत्तरार्धे याऽऽवृत्तिः सा यमकविधानं स्मारयति कालिदासस्य रघुवंशीये नवमे सर्गे विद्यमानम् । ततोऽप्यधिकमत्र कौशलमिति कविताश्रितपदे कविताऽश्रितेति योगोऽपि कल्पयितुं शक्यते । सेयं कालिदाससमयस्य चरमा सीमा । प्रथमा तु सीमा पुष्यमित्रस्तस्याश्वमेधे आचार्यपदं बिभ्राणस्य महर्षेः पतञ्जलेः । पुष्यमित्रपुत्रस्य ( १६ ) विदिशास्थस्याग्निमित्रस्य कृते मालविकाग्निमित्रनाटकं रचयितुरस्य भूयोऽपि समयसङ्कोचः । संवत्सरप्रवर्त्तकस्य विक्रमादित्यस्याऽनुल्लेखाच्च ततोऽप्यधिकः समयसीमासङ्कोचः । पुष्यमित्रोऽश्वमेधेऽग्निमित्रमाह्वयति ‘आगन्तव्यं यत् विगतरोषचेतसे ‘ति । उल्लेख एष नातीवोपयुक्तो नाटकप्रयोगे । तथापि लिङ्गमिदं कालिदासस्याग्निमित्रसमकालिकत्वे । एवं च निर्णेतुं शक्यते कालिदासस्तदाऽजायत यदा शास्ति स्म बैम्बिको राजा भारतीयां वसुधां विदिशां राजधानीकृत्य। अत्यन्तमल्पीयानेष कालावधिः । अत एवाऽस्माकं निश्चयः २०७० वर्षाणि जातानि जातस्य कालिदासस्येति । विरुद्धास्तर्काः रघुवंशे हूणानां वंक्षुनदक्षेत्रे स्मरणं, समुल्लेखश्च ग्रीकपरिभाषाया ‘जामित्र’ इत्यस्या पार्वतीविवाहमुहूर्त्तत्वेन कालिदासं चन्द्रगुप्तविक्रमादित्यसमकालिकं साधयतीति यैः कीथादिभिरन्तिमत्वेनानुल्लङ्घनीयत्वेन च निर्धारितो विरुद्धस्तर्कस्तस्यापि न लभामहे क्षोदक्षमत्वम् । तथा हि हूणाः कालिदासेन महाभारताद् गृहीताः, महाभारतं च यीशादपि वर्षपञ्चशतीप्राचीनं पश्चात्त्यैरेव स्वीकृतम् । हूणा अपि नैकविधाः श्वेतहूणाः ताम्रहूणाश्चेति । तत्र श्वेतहूणा नैकवारं भारतानाचक्रमिरे । यच्च जामित्रपदं तद्धि ज्यौतिषे शास्त्रे सप्तमस्य भावस्य ग्रहशून्यत्वाय प्रसिद्धमित्यरुणगिरिनाथादयः । ततस्तस्याऽस्य ग्रीकपदप्रसवत्वं कल्पनैकपरम् । एवं तत्रापि न वीक्षामहे विरुद्धान् विदुषः कृतार्थान् । एवं हि बाधकद्वयमपीदं न सिद्ध्यति बाधाव्यभिचरितम् । या च कुन्तलेश्वरदौत्यादीनां कथा तद्धि कथामात्रमेव । न पश्यामस्तत्र पारमार्थिकत्वम्, खण्डितं चैतत् डॉ. वे. राघवन्महोदयेन स्वकीये शृङ्गारप्रकाशे पृ. ७७८ । अन्ये प्रकल्पाः कालिदासस्य वंशः कः, पितरौ कौ, धर्मपत्नी केत्यादयो ये प्रश्नास्तेष्वपि कल्पनयैव प्रवृत्तिर्विदुषाम्। तथापि मातुर्नाम पार्वतीति कल्पयितुं शक्यम् पितुश्च परमेश्वर इति । तत एव रघुवंशमङ्गलस्यानुरूपत्वसिद्धिः । धर्मपत्नी केषाञ्चन मते विद्योत्तमेति, केषाञ्चन मते भारतीति केषाञ्चन च मते कमलेति कल्प्यते । आत्मबलिदानेन विद्यामार्जीदसाविति नन्दिनीवृत्तान्तेन शक्यमुन्नेतुम् । रामदासमहात्मनोऽपि विषये समानैव कथा श्रूयते शिष्यपरीक्षणे । ‘विश्वसिमि गुरुचरणयोरिति वादिनं शिष्यं रामदास स्वामी कूपोदरे लम्बमानं शाखाग्रमारोहेति व्यादिदेश । आरुक्षच्छिष्यस्तथैव । अथ कृपाणमुत्थाप्य स्वामी कथयति मूलमस्याः ( १७ ) कर्त्तयामीति । तथा सति कूपे निपतेदेव शिष्यस्तथापि प्रत्युवाच यथा रोचते गुरुभ्य इति । गुरुश्च कृपाणमचालयत् । शाखा छिन्ना । पतति सम्प्रति शिष्यः कूपोदरे, किन्तु तन्मुखान्निर्यान्ति शब्दाः ‘श्रीगुरुः शरणम्’ इति । अथ स पश्यति नास्ति तत्र कूपः । अस्ति तु तत्र केवलः स्मयमानमुखकमलः श्रीगुरुरिति । सिद्ध एष शिष्यः । सैव च कथा कालिदासेन योजनीया दिलीपवृत्तान्तेन । सोऽयं प्राणपणेन विद्याभ्यासः । विद्योत्तमापदवाच्या, भारतीपदवाच्या वाऽस्य धर्मपत्न्येव वस्तुतो गुरुः । सैव च कमलापि । सोऽयमनन्यसाधारणः श्रीसरस्वत्योः समागमः । उदलिखदमुं विक्रमोर्वशीयभरतवाक्ये स्वयमसावेव सुकविः - परस्परविरोधिन्योरेकसंश्रयदुर्लभम् । सङ्गतं श्रीसरस्वत्योर्भूतयेऽस्तु सदा सताम् ॥५. २४ वि. ॥ इति । अयमेवार्थ इन्दुमतीस्वयंवरेऽपि निबद्धः सुकविनाऽनेन- निसर्गभिन्नास्पदमेकसंस्थमस्मिन् द्वयं श्रीश्च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥६.२९ रघु । अङ्गनाथस्येदं वर्णनम्। आचारवती नृपकन्या मूर्खपत्नी जाता चेद् धैर्येण किमन्यत् कुर्वीत ऋते पत्युः प्रशिक्षणम् । ‘ज्ञातरहस्या राजकुमारी वातायनान्मूर्खमिममधोऽपातयत् । पतश्चासौ जिह्वां प्रालम्बयत् । सा च मध्ये स्थिताया भद्रकाल्याः प्रलम्बया जिह्वया सघर्ष न्यकृत्यत च । जिह्वारक्तमास्वाद्य भगवती भद्रकाली प्रकटिता बभूव प्रोवाच च वरं ब्रूहीति । सर्वशास्त्रसमृद्धां विद्यां त्वसौ वव्रे । जातश्च प्रतिभानवान् महाकविरिति या वृत्तकल्पना नाऽत्र पश्यामः कमप्यन्यमर्थम्। कालिदाससमये विद्यास्थानानां संख्या १४ आसीदिति- निर्बन्धसञ्जातरुषाऽर्थकार्यमचिन्तयित्वा गुरुणाऽहमुक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्त्रो दश चाहरेति ॥ रघु. ५.२१॥ स्पष्टमेतस्य साहित्येन सर्वेष्वपि विद्यास्थानेषु पारदृश्वतामानर्ज महाकविरसाविति । कौटिलीयमर्थशास्त्रमप्यस्य कण्ठे विरराज मनुशास्त्रमिव । आनिषेकादौर्ध्वदेहिकं यावत् समग्रमपि वैदिकमार्गोपदिष्टं कर्म्मकाण्डमसौ महाभाष्यकारः पतञ्जलिरिव तथैवाभ्यस्यद् यथा तन्त्रमार्गोपदिष्टं तत् तत्रभवान् महामाहेश्वर आचार्योऽभिनवगुप्तः । अथापि काव्येष्वसौ कर्मकाण्डमिदं नाम्रेडयामास श्रीधर इव शिवराज्योदयकाव्ये । वर्णेकरोपाह्वः श्रीधरो हि राज्याभिषेकमन्त्रानपि शिवाजीराज्याभिषेकप्रसङ्गे काव्याङ्गीचकार । कर्मकाण्डेन मन्त्रसहितेनैव भाव्यमिति ( १८ ) कालिदासो वेद । तथा हि ‘तत्रेश्वरो.. सर्वममन्त्रवर्जम्’ इति वचनमस्य कवेरत्रैव काव्ये ( ७.७२) । रघुवंशे तत्र तत्र कृतराज्याभिषेकोल्लेखोऽपि नायोजयताभिषेकमन्त्रानसौ काव्यकुक्षौ । श्रीधरस्तु काव्यमर्यादामिमां नाऽपालयत, केनापि हेतुना । परिचितनागरकाचारोऽप्यसावारण्यकानां चर्यामपि काव्यार्थममन्यत । मानुषीयां संस्क्रियामिव विक्रियामपि नितान्तं सूक्ष्मतयाऽसौ वेद । विक्रियास्वभिनिवेशमपि वेदैषः, वेद चैष रजोनिमीलितानां परिणतिमपथे पदार्पणरूपां व्यसनजननीम् । उक्तमेवैतेन’अपदे / थे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः’ (रघु. ९.७४) इति । मेलयत्यसौ विपुलपरिणाहिवक्षोजयुगलानताङ्गीभिर्व्यूढोरस्कान् वीरान् प्रयच्छति च राष्ट्रियान् विनीतान् सर्व्वदमनानपि भरतान् नायकोत्तमान्। एवं स्वस्तिवचनमेवास्य कवित्वं समग्रायै मानवीयायै वसुमत्यै । वीरेष्वसौ धीरत्वमपि संस्काररूपेण धित्सति । धीरता चास्य मतेन विकारहेतावुपस्थितेऽपि चेतोधातोरविक्रियैव ‘विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ’ (कुमा. १.५९) इति । कुशोऽर्धरात्रे शयनागारं प्रविष्टां वनितामेकां पश्यति । प्रोषितपतिकावेषा पा न दुर्गमा । किन्तु कुशो नितान्तं धीरः । विस्मितः स तामपृच्छत्- का त्वं शुभे ! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते। आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ इति । संस्कृतकाव्यशास्त्रे काव्यमिदं (रघु. १६.८) सुभाषितोत्तमत्वेन सम्पूर्णेऽपि कण्ठाभरणतामवाप। आगते प्रसङ्गे युद्धमप्यसावभिनन्दत्यदर्शितपृष्ठतयैव, किन्तु नास्त्यस्य प्रियो मानुषरक्तपातः । अस्त्यस्य मन्त्रो ‘न चारिहिंसा विजयश्च हस्ते ’ (रघु.५.५७) इति। मृगयायामप्यसौ दृप्तानां दर्पशृङ्गमात्रमुच्छिनत्ति, न प्राणान् ‘शृङ्गं स दृप्त विनयाधिकृतः परेषामत्युच्छ्रितं न ममृशे, न तु दीर्घमायुः’ (रघु. ९.६२) इति । सनियमा यमा एवास्य समाजधारणकृद् धर्मः । अमुमसौ कुत्र न स्मरति ? न ह्येव विस्मरत्यसाविमान् क्षणार्धायापि । न जानाति चासौ धर्मलिङ्गानि चन्दनललाटिकादिरूपाणि । ऊर्ध्वपुण्ड्रकोऽसौ वैष्णवः, भस्मललाट एष शैव इति या क्षीणतमानां नृणां कथास्तत्राऽनभ्यन्तर एवासौ महाकविः । सौन्दर्यं यदि न मारजित् तर्हि पर्यन्ते नातिक्रामति नयनाश्रूणि । पार्वती तदैव भगवता स्वीचक्रे यदा पञ्चमसर्गदर्शितेन पथा तपश्चर्यया पञ्चस्वपि क्षरणमरणधर्मेषु महाभूतेष्वक्षरणाऽमरणशीलत्वमसावशानाऽमृतत्वम् — ‘अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति ( कु. सं. ५.८६ ) । शतं शकुन्तलाः सहस्रं मालविका ः अयुतं चौर्व्वश्यो नीराजयेयुरिमां भगवतीमपर्णाम् । , ( १९ ) चित्रकरत्वं मूर्त्तिकृत्त्वं वा दर्शयत्यसौं पार्वतीवर्णनेषु, किन्तु प्रथमं तस्यै प्रणामाञ्जलिं समर्प्य - ‘अभ्युन्नताङ्गुष्ठनखप्रभाभि’ रित्यत आरभ्य ‘लज्जा तिरश्चां यदि इति पर्यन्तम् । अतिशयेन सम्भावनेन सादृश्यगतेन मालात्वेन वाऽसौ अनुक्तानपि विशेषानुपश्लेषयतीव चेतश्चक्षुषा । व्यतिरेकविधि वा क्वचिदाश्रयति ‘नागेन्द्रहस्तास्त्वचि-रुपमानबाह्या’ इति । भेदकथेयं स्मारयत्याक्षेपशरोरम् । सेयं २०७० वर्ष प्राचीना कालिदासकविता सुबहून् परिवर्त्तानशान लिप्यन्तरैः । अथापि सम्पादनस्य ‘एक्लिक्टिक’ – संज्ञकेन मार्गेण कथञ्चिदुपमूलमानीतापि प्रकाशितापि च तन्निर्वृत्तेन रूपेण कालिदासग्रन्थावल्या १९८६ संवत्सरे प्रकाशिते काशीहिन्दूविश्वविद्यालयीयेऽस्मत्संस्करणे ग्रन्थेऽत्र तेनैव रूपेणोपस्थापयामो यद्धि टीकाकृतोरनयोरभिमतम् । द्वयोरन्तरं च परिशिष्टे दीयते । ‘पराजितेनापि कृतौ हरस्य यौ कण्ठपाशो ( न तु कण्ठपाशौ ) मकरध्वजेन ’ (१.४१ ) इत्यत्र, ‘तदिच्छामो विभोः सृष्टम् ( न तु स्रष्टुम् ), ( २.५१) इत्यत्र च स एष विशेषः स्पष्टः । कालिदासकाव्यानां नामान्तराण्यपि लभ्यन्ते । तथाहि रघुवंशस्य नामान्तरं गभीरकाव्यमिति, मेघदूतस्य मेघसन्देशमिति । कुमारसम्भवस्यापि भवितव्यमेव केनापि नामान्तरेण, न तु तल्लभ्यते। ततः कालिदासग्रन्थावल्या द्वितीये संस्करणेऽस्माभिस्तत् प्रकल्पितम् — ‘अष्टमूर्त्तिकाव्यमिति, दर्शिताश्च सर्गाणामन्ते सम्बद्धानां पृथिव्यादिमूर्त्तीनां नामानि रचितं च तमेव भावं विशकलयद्भिः कुमारविजयं नाम महाकाव्यम् । , कालिदासस्य कविकर्मणो ये विशेषास्तानुल्लिखितवन्ति एव प्राचीनानि संवत्सरशतकानि ‘आबाणादा च भवभूतेः ’ । साम्प्रतिकेष्वपि शर्मण्यदेशीयं महाकवि गेटेमारभ्य रवीन्द्रनाथप्रभृतीन् यावत्, यावच्च ‘कामायनी’ कर्त्तारं वाराणसेयं कविवरं जयशङ्करप्रसादम्। कामायन्या ‘हिमगिरि के’ इत्यस्मिन् १.१ पद्ये यत् ‘एकपुरुष भीगे नयनो से’ इति ‘एकपुरुष’ – पदं तद्धि न न स्मारयति ‘वेदान्तेषु यमाहुरेकपुरुषमि ति कालिदासस्य वचनम् । श्रूयते च प्रसादः कालिदाससाहित्यस्यापि आवृत्तिं करोति स्म ध्वन्यालोकस्येवेति । यदि च नैषधीयचरितादिषु कालिदाससाहित्यस्य च्छाया गवेष्येत विपुलकायः सन्दर्भग्रन्थः सम्पद्येत। छाया हि द्विविधा भवति साक्षादनुहरणरूपा वैधर्म्येण पूर्वोक्तिप्रतिक्षेपरूपा च व्यतिरेकावलम्बिनी । अनयोरपरमेव मार्गं श्रयति श्रीश्रीहर्षः ‘अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे’ इत्यादिषूक्तिशतेषु । परा हि काष्ठा मार्गस्यास्य- सरोरुहं तस्य दृशैव निर्जितं जिताः स्मितेनैव विधोरपिच्छटाः । अतद्द्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ इत्यत्र । ( २० ) अत्र यस्तृतीयश्चरणस्तत्रापुष्टिमनुभवामः । दृक्स्मिते हि., मुखरूपस्यावयविनोऽवयवौ। यदाङ्गाभ्यामेव कमलचन्द्रौ पराजितौ तदाऽङ्गिनो मुखबिम्बस्य कृते किं नु गवेष्येत प्रतिमल्लतायै इति तु काव्यार्थस्योत्तरार्धमुपस्थितं भवति, न तु कमलेन्दुद्वन्द्वभिन्नसुन्दराभावपदार्थस्य तत्रापि च जित्वरत्वस्य । न हि अङ्गेषु जित्वरस्य सादृश्यमङ्गिना परिणमेत् । इयमेव तु दुःस्थितिर्नैषधस्य नितान्तं गाढेष्वपि बन्धान्तरेषु ‘अस्य क्षोणिपते’ (नैषध. १२ ) इत्यादिषु । एवंविधाऽवद्यशतीकवलितापि नैषधकविता न भवत्यकविता, कवितात्वं यद्यपि तत्र गवेषणैकलभ्यम् । कालिदास इव श्रीश्रीहर्षे नास्ति प्रसादगुणप्लावितो बन्धः । माघः शाब्दिकेन श्लेषेणैव व्यामोहित-मतिरुपमानगतामनौचितीं न पश्यति भगवतो नारदस्य वर्णने, अत एव सुरापं बलदेवमप्युपमानीकरोति नारदाय देवर्षये, उपमिमीते च तमेनं भगवन्तं गजेन ‘कुथेन नागेन्द्रमिवेन्द्रवाहनमिति कालिदासः पुनरमुमेव प्रसङ्गं प्रस्तौति विक्रमोर्वशीये किन्तु तावन्मात्रं ब्रूते यावदपरीहार्यम् — ‘गोरोचनानिकषे’ - ति पद्येन (५.१९) अमोघदर्शनाः खलु महात्मानः, अत एव जङ्गमकल्पवृक्षा एव ते इति कालिदासस्योक्तिः । चरितार्था चात्र नायकयोरवियोगसिद्धेः । अलमेतया प्रसक्तानुप्रसक्तया कथया । सर्वथाऽत्र भवान् कालिदास औचित्यमात्रदर्शी । स हि संयमं परिपालयितुं चेष्टतेतरां यथाशक्ति । तत्रभवन्तः श्रीश्रीहर्षप्रभृतयः पाण्डित्यशौण्डीर्यकषायितशेमुषीकाः । ते हि अनौचित्येऽपि त्याज्यत्वं न पश्यन्ति । अत एवोच्यत एतेन — ‘तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम्’ इति ( नैषधारम्भे ) । अत एवास्माकं श्लोको यत्र नृत्यलग्नाऽस्ति शारदाम्बा- बाणो वाण्याश्चरणरणितं नूपुरं दण्डपादो माघो दण्डी कटितटरटत् किङ्किणीचक्रवालम् । पिण्डीबन्धश्चलतरलयोर्हस्तयोर्हीींरपुत्रः क्रीडाशैलद्वयमुरसि यत् तत् तु नः कालिदासः ॥ इति । सर्वथा कालिदासस्य सौन्दर्यं शिवाय, शिवश्च सौन्दर्यायेति कुमारसम्भवे कालिदासस्यैदम्पर्यम्। अथ टीकिताराविमौ पश्यामः । तत्रारुणाचलनाथं प्राक् । २. अरुणाचल / णगिरिनाथः कुमारसम्भवात् पूर्वं रघुवंशे प्रकाशिकामारचितवांस्तत्रभवान् अरुणगिरिनाथोऽरुणाचलनाथनाम्नापि व्यपदिश्यते । नाम्न्येते सम्प्रदायविशेषेण दत्ते, वस्तुतस्तु ‘शिवदास’ इति विदुषोऽस्य मुख्यं नाम । रघुवंशप्रकाशिकायां स्वयमरुणगिरिनाथस्यैवाधोदत्तं वचनम् प्रमाणमत्रास्ति ( २१ ) अरुणाचलनाथेन द्विजपादाब्जसेविना । शिवदासाऽपराख्येन मया टीका वितन्यते ॥ इति । येयमत्र विवरणनाम्नी द्वितीया टीका तन्निर्माता तत्रभवान् नारायणोऽप्यरुणगिरिनाथममुं शिवदासनाम्नैव परामृशति । बह्वीषु कुमारसम्भवटीकास्वसौ प्रकाशिकामेवादर्शत्वेन वृणुते ब्रूते च- व्याख्यान्तरेषु दृष्टेषु विमृष्टेष्वपि तत्त्वतः । सुभगः शिवदासोक्तो मार्ग एवाऽनुगम्यते ॥’ इति । १.१ विवरणारम्भे दशमः श्लोक एषः । एतेन स्पष्टं यदरुणगिरिनाथः ‘शिवदास’नाम्नैवासीद् व्यवह्रियमाणः । अत्र सुभग इति यो मार्गस्य विशेषो यश्च स्वगतोऽनुगमनात्मा सह ताभ्यां स्पष्टभूयिष्ठैवारुणगिरिनाथप्रकाशिकां प्रति नारायणस्य श्रद्धा । नास्ति परः कश्चिच्छिवदासः । अरुणगिरिनाथ एव प्रथमस्य सर्गस्य प्रारम्भे पञ्च अष्टमस्य सर्गस्य चान्त एकं श्लोकं निबबन्ध | चूलीन्यायेनान्तिमः श्लोक एषः- ये वाक्यार्थविचारकर्कशधियो ये वा रसस्रोतसि स्वेच्छामज्जनकेलिषु व्यसनिनो ये वा शिवौ संश्रिताः । ते निर्मत्सरसावधानमनसो मत्कां मनोहारिणीं सङ्गृह्णन्तु कुमारसम्भवसमुद्बोधाय टीकामिमाम् ॥ प्रथमसर्गारम्भे च ये श्लोकास्तेऽमी सर्वारम्भत एवावसेयाः । अनयाऽरुणगिरिनाथस्य व्यापिकी शास्त्रव्युत्पत्तिः संस्तवं भजति । अस्त्यस्मिन् व्याकरणपूर्वमीमांसयोरनवद्यहृद्योऽवगमः, आगमिता ह्यत्रालङ्क्रियाः, विश्वस्य वैचित्रीचित्रे व्यवहारेऽप्यस्त्यस्य मतिः प्राप्तप्रतिष्ठा, निपुणश्चैष रसभावसम्मिश्रणे गुणप्राधान्यनिर्णीताविति नियतमेवास्य शास्त्रव्युत्पत्तिर्नितान्तं प्रौढा । प्रौढिमिमां शिवे दृढभक्तिरेष भवपादपङ्कजरजःसम्पर्कप्रसूतां प्रतिजानीते। सोऽस्य विनयः । रघुवंशे प्रकाशिकां विरच्याऽसौ कुमारसम्भवप्रकाशिकां रचयितुमारभतेत्यपि चास्मादेव सन्दर्भात् सुखोन्नेयम्। रघुवंशप्रकाशिकायामेषा भवत्यरुणगिरिनाथस्य श्लोकानां द्वाविंशतिः - नमस्तस्मै गणेशाय यत्प्रसादान्महीयसाम् । आरम्भाः फलपर्यन्ताः परानुग्रहहेतवः ॥ १ ॥ नमामि निखिलातङ्कनिर्वापणमहौषधिम् । मातरं जगतामेकां चन्द्रशेखरवल्लभाम् ॥२॥ कृतिर्या कालिदासस्य सर्वार्थसुरपादपः । तस्याऽस्य रघुवंशस्य बहुमार्गावगाहिनः ॥ ३ ॥( २२ ) अरुणाचलनाथेन द्विजपादाब्जसेविना । शिवदासाऽपराख्येन मया टीका वितन्यते ॥४॥ आलोच्य पूर्वटीकाश्च लक्षणानि च धीमताम् । विनिर्मिता मया सेयं सोपयोगा भविष्यति ॥५॥ न चेह पूर्वटीकाभिः कैमर्थक्यं प्रतीयताम् । यतो विद्वन्मता ‘सर्वो न सर्वं पश्यतीति वाक् ॥६॥ सर्वविद्यासतत्त्वानामादर्शे चाऽत्र लक्ष्यते । प्रबन्धेऽस्य कवीन्द्रस्य सर्वलोकातिशायिता ॥७॥ शतं प्रकरणानां यत् साशीति कृतवान् मुनिः । विष्णुगुप्तोऽर्थशास्त्राब्धेस्तत् प्रायोऽत्र निदर्शितम् ॥८॥ चतुर्वर्गाभिधानेऽपि भूयसाऽर्थोपदेशकृत्। इत्युक्तवान् भामहो हि सर्गबन्धस्य लक्षणे ॥ ९ ॥ ( किन्तु ) रसानुगुणशब्दार्थव्यवहारे नियामिका । भारतीया स्थितिश्चाऽत्र सम्यक् सर्वा समर्पिता ॥१०॥ कामसूत्रार्थतत्त्वं च कलाशास्त्रविनिश्चयः । देवतापारमार्थ्यं च धर्मशास्त्रगतिस्तथा ॥ ११ ॥ इतिहासप्रमेयाणि मोक्षशास्त्रस्थितिस्तथा । एतत् सर्व्वमथाऽन्यच्च कवीन्द्रेणाऽत्र दर्शितम् ॥१२॥ अभिप्रायेण चैतेन धीरोदात्तादिभेदिनाम् । अनेकेषां नरेन्द्राणां वृत्तं वर्ण्यतयाश्रितम् ॥१३॥ तादृशोऽस्य प्रबन्धाब्धेः कस्तलं गन्तुमर्हति । यथामति विचारे तु कस्य वा नाऽस्ति योग्यता ॥१४॥ वाक्यार्थतत्त्वावगमो नालङ्कारगतिं विना । ततो मयाऽर्थालङ्कारा बाहुल्येनाऽत्र दर्शिताः ॥ १५॥ आलस्यादपरिज्ञानादतिविस्तरभीतितः । अनुल्लेखितया चात्र क्वचित् केचिन्न वर्णिताः ॥१६॥ क्रियते च प्रदेशेषु रसभावनिरूपणम् । यतो निर्जीवतां याति काव्यं तेन विनाकृतम् ॥१७॥ ( २३.) अनुप्रासादिरूपं च क्वचित् किञ्चिन्निरूप्यते । यतः शब्दविशेषाणां लोके सिद्धा रसाङ्गता ॥ १८ ॥ गुणादर्शतया व्याप्ता वाणी यद्यपि सत्कवेः । तथापि दुष्करे (रं) तत्र प्रतिपत्प्रतिपादने (नम् ) ॥१९॥ तादृगन्यच्च काव्याङ्गं स्वयमूह्यं मनीषिभिः । को वा सर्वविशेषाणामुन्मेषं कर्तुमर्हति ॥ २० ॥ तत् प्रसन्नेन मनसा गुणलेशेऽपि सादराः । सन्तः शृण्वन्त्विमां टीकां रघुवंशप्रकाशिकाम् ॥ २१ ॥ इति । इत्थं विचित्रसरसेऽत्र मया प्रबन्धे सन्दर्शितं विविधकाव्यनयप्रपञ्चम् । आलोच्य साधु परिबृंहितशेमुषीकाः सर्वत्र काव्यविषये विहरन्तु सन्तः ॥ २२॥ एतत्प्रबन्धविवृतिव्यपदेशतो य- च्छब्दार्थतत्त्वविततप्रविवेचनं नः । तत् सर्वमस्तु पदपङ्कजयोः सपर्य्या ( १.१ पद्यटीकारम्भे) सर्वात्मनः सकललोकगुरोः शिवस्य ॥ २३ ॥ इति । ( १९.५७ टीकान्ते) मध्ये त्रयोदशस्य सर्गस्यारम्भेऽपि प्रकाशिकायां निम्नलिखितः प्रक्षेपो दृश्यते- जागर्त्ति वाङ्मयीतीरे देवता कापि वाङ्मयी । । तथा चाऽर्थमयी कापि स्यातां ते मे विभूतये ॥ इति । स्पष्टमेतैः पद्यैर्यदरुणगिरिनाथः स्वविषयके विवरणे तूष्णीमेव तिष्ठति । रघुवंशप्रकाशिकापेक्षया स्वविषयेऽसावधिकं मुखर इह कुमारसम्भवप्रकाशिकायाम् । रघुवंशप्रकाशिकायामिवाऽत्राप्यसौ द्विजपादाब्जसेवित्वमात्मन उल्लिखति । अस्त्यत्र सहृदयेषु प्रणयः पूर्वं रघुवंशप्रकाशिकामनुशीलयन्तु ततः परमिमामिति। अस्ति चास्यात्मनष्टीकां प्रति प्ररोचना- वर्ण्यते शिवयोर्वृत्तं कालिदासस्य सूक्तयः । व्याख्यातारो वयं चेति मन्ये कोऽप्युत्सवः सताम् ॥ इति । ( २४ ) अक्षरशश्च सत्य एष समुद्गारः । काऽस्य माता, कः पिता, को गुरुः, गृहस्थो वा विरक्तो वा, सर्वमिदमेतद्विषये कल्पनैकशरणम् । दाक्षिणात्त्य इत्येतदेव तु विषयेऽस्य निश्चितम् । अथास्य स्थितिकालः क इति प्रश्नः । अत्रास्माकमुत्प्रेक्षाकाव्यप्रकाशमुद्धृतवानेषोऽनुल्लिखितालङ्कार सर्वस्वस्त्रयोदशस्ख्रीष्टसंवत्सरारम्भ उदभूदिति । तदैव चाजायत मल्लिनाथः । अन्योन्याऽविदिताविमौ । यदि वा मल्लिनाथादरुणाचलनाथः प्राचीनः ‘नाऽनपेक्षितमुच्यत’ इति प्रतिजानान एष कदाचिदरुणगिरिनाथमेव लक्षयति । ‘नाथ’ पदेन यं हि टीकितारं मल्लिनाथः परामृशति दक्षिणावर्त्तनाथः सः, न पुनररुणगिरिनाथ इति प्रसाधितचरमेव रघुवंशप्रकाशिकाप्रकाशयितृभिः श्रीमद्भिरैयरवंशकरीरै रामचन्द्रमहोदयैः [T.K. - Ramachandra Aiyer, Principal, Sanskrit College, Tripunithura, Keral, 24.11963]। इदमत्र सविशेषमुल्लेख्यं यदरुणगिरिनाथो भामहस्य साहित्यसम्प्रदायाद् वैमुख्यं दर्शयति, न त्वानन्दवर्धनादिवच्छ्रद्धातिशयम् । अरुणगिरिनाथस्य यः साहित्यशास्त्रसम्प्रदायस्तत्र प्रतिबिम्बितो दृश्यते धाराधीशो महाराजो भोजः । तस्यानेके सन्दर्भा अनेन समुल्लिखिताः । सहृदयता चास्य तथा मेदुरमेदुरात्मा यथाऽतिशेत इवासौ महाराजमिमं भोजम्, स्पृशति च पेशलतां कुन्तकाचार्यस्य । अस्ति चास्य कालिदाससाहित्येऽपि स्वकीयः सम्प्रदायो यत्र कतिपये श्लोका न पठ्यन्ते । तथा च १८.०२ प्रकाशिकायां रघुवंशेऽस्य स्पष्टोक्तिः - ‘तेनोरुकार्येणे’ ति पद्ये ‘अयन्तु श्लोको वल्लभपाठ एवं दृष्टत्वाल्लिख्यते तेनोरुकार्येण - ‘फलात्मकेने ‘ति । अत्रैव नारायणोऽपि टीकते’तेनेति’ । तेनोरुवीर्येण - ‘फलात्मकेने ‘ति । अस्मद्गुरोः परम्परायामसौ श्लोको न पठ्यते । अरुणाचलनाथेन तु वल्लभपाठमाश्रित्य व्याख्यातम् ॥’ इति । ३. नारायणः रघुवंशे पदार्थदीपिकामिव कुमारसम्भवेऽत्र विवरणं रचितवानेष नारायणो नूनमेवारुणगिरिनाथापेक्षया माकिं वर्षशतकानन्तरमजायत । अनेन कुमारसम्भवस्य बह्व्यष्टीका अनुशीलिताः, अनुसृता तु अरुणगिरिनाथस्य रीतिः । शिवदास १. (क) लिख्यत इत्यस्यायमभिप्रायो यदिमे टीकाकृतः पूर्वं पूर्णं श्लोकमपि लिखन्ति स्म । न तु प्रतीकमात्रेण तुष्यन्ति स्म । (ख) इदमपि च नारायणस्य वचनात् स्पष्टं यदनयोर्द्वयोष्टीकित्रो ः गुरुपारम्पर्यमपि भित्रमभूत् । नारायणस्य गुरुस्तस्य मातुलः श्रीकृष्णो यमसौ प्रतिसर्गपुष्पिकं स्मरति । (ग) एतदपि सम्भवदुद्भावनं यदनयोर्मध्ये प्रायेणासीदन्तरालं वर्षशतकस्य । नारायणो नैषधीयचरितमप्युद्धरतितरामसकृदेव । अरुणस्तु श्रीहर्षं न वेदेति । इत्यरुणगिरिनाथस्यैवाऽपरं कालिदासपाठपरम्परातो (२५) नामेति प्रत्यपाद्येवानुपदमेव । नामेति प्रत्यपाद्येवानुपदमेव । अरुणगिरिनाथस्य नारायणस्य कालिदासपाठपरम्परा भिन्नेति प्रत्यपाद्येवाऽत्रैवाऽस्माभिः । अनुसरन्नप्यरुणगिरिनाथमसौ विरुणद्ध्यपि दक्षिणावर्त्तमिवारुणाचलनाथः। नारायण एषोऽलङ्कारसूत्रनाम्नाऽलङ्कारसर्वस्वमप्यलङ्कारनिर्णये प्रमाणीकरोति, न तु वेत्ति तदीयां जयरथकृतां भाष्योपमां विमर्शिनीम् । एवं स्थितमेतद् यन्नारायणोऽलङ्कारसर्वस्वतद्विमर्शिनीकृतोर्मध्यवर्त्तीति। समय एष प्रायेण त्रयोदशस्य यीशुसंवत्सरस्यान्तिमश्चरणश्चतुर्द्दशस्य यीशुसंवत्सरस्य प्रथमं चरणं स्पृशन्निव । नारायणस्य मानमेयोदयनाम्नी मीमांसासु प्रसिद्धैव रचना । विवरणस्यास्य पर्यवसानिकैः पद्यैरिव मानमेयोदयोपोद्घातपद्यैर्ज्ञायते यत् ‘काली’ति मातुरस्य संज्ञा, श्रीनीलकण्ठ इति पितुः, कुमार इति भ्रातुः, मातामहस्य नाम पुरुषोत्तम इति । मातामह एष श्वेतग्रामस्य शङ्करारामे लब्धजनुः कविग्रामणीरभूत्, अभूच्च तादृश एव तस्य मातुलः श्रीकृष्णः । अस्मादेव श्रीकृष्णान्नारायणः सर्वाण्यपि शास्त्राण्यध्यगीष्ट। काव्यकर्मण्यपि स एवास्य दीक्षिता । अस्मादेव मातुलात् कुमारतन्त्राम्भोधिमवाप नारायणः । तत्र ‘कुमारतन्त्र’ पदं श्लिष्टतया नेयम्, येनैकतो वैद्यशास्त्रे विदितं कौमारभृत्यनामकं प्रकरणमपि गृह्येतान्यतश्च कुमारसम्भवनामकमिदं कालिदासकाव्यमपि । सम्पूर्णमपि कार्त्तिकेयोपासनातन्त्रमपि शक्यग्रहं ततः । श्रीकृष्णस्य विषये नारायणस्य विशेषणमस्ति ‘आलक्षितसर्वलक्षण’ इति । अत्र लक्षणपदं नूनमेव लक्षणशास्त्रपरम् । लक्ष्यतयाऽत्र तन्त्रान्तरमिव काव्यतन्त्रमपि सुखग्रहम् । काव्यशास्त्रे हि प्रथमेनाचार्येण सुकविना दण्डिना स्वकीयं यत् स्वतन्त्रं काव्यशास्त्रं व्यरचि तस्य मुख्यमभिधानमस्ति ‘लक्षणमि’ त्येव । काव्यादर्श इति तस्य साम्प्रतं प्रसिद्धिः । एतच्च तथैव यथा भामहग्रन्थस्य मुख्यं नाम भामहालङ्कार इति विषयाश्रितं च प्रसिद्धं तत्तु काव्यालङ्कार इति, यदि वा आनन्दवर्धनग्रन्थस्य मुख्यं नाम ‘काव्यालोक’ इति, किन्तु ध्वनिस्तत्र मुख्यतया प्रतिपाद्य इति कालान्तरे प्रसिद्ध एष ध्वन्यालोक इति । एवं च नारायणस्य गुरुः श्रीकृष्णः सर्वेष्वपि विद्यास्थानेषु स्वभ्यस्तलक्षण इत्यस्माद् विशेषणादायातम् । काव्यशास्त्रे या लक्षणग्रन्थकाराणां पारम्परी तस्याः प्रभवः षट्साहस्रीति नामान्तरं बिभ्राणस्य नाट्यशास्त्रस्य कर्त्ता महान् मुनिर्भरतः । तस्य प्रथमोऽनुसर्त्ता वैदिकः कविवरस्तत्रभवान् दण्डी । ततः परं सौगतो भामहः, तदनुसर्त्तृषु च उद्भटः वामनः, रुद्रटः, आनन्दवर्धनः, कुन्तकः, राजशेखरः, अभिनवगुप्तः, क्षेमेन्द्रः, महिमभट्टः, भोजराजः, जयदेवः, रुय्यकः, मङ्गः, विश्वनाथः, अप्पय्यदीक्षितः, विश्वनाथदेवः पण्डितराजो जगन्नाथश्चेति स्वतन्त्रमतयो लक्षणकाराः । एतेषु ( २६ ) रुद्रटानन्दवर्धनाविव, दण्डिभामहौ प्रायेण समकालौ उद्भटवामनाविव, महिमभट्टभोजाविव, भोजाभिनवगुप्ताविव कुन्तकाभिनगुप्ताविव वा । साहित्यमार्गे पथिकृत्स्वेषु महात्मसु ‘भरतः, वामनः, आनन्दवर्धनः, अभिनवगुप्तः, कुन्तकः, महिमभट्टः, भोज, मम्मटो रुय्यकश्चेति नाम्न एवाचार्यानिमौ स्मरतः उल्लिखतश्च टीकितारौ । यथा चैतत् तद् ग्रन्थकृत्परिशिष्टे द्रष्टव्यम् । नारायणोऽरुणगिरिनाथापेक्षया पुनरधिकं संरम्भवान् दृश्यते । एवं च नारायणेन स्वगुरवे यदिदमालक्षितसर्वलक्षण इति विशेषणं प्रायोजि तद्धि प्रत्यक्षरमन्वर्थकमेव । अयञ्चास्य अर्थः ‘आ समन्तात् कणेहत्य नु लक्षिता उपक्रमोपसंहारसङ्गत्या अभ्यस्ता सर्वेषां शास्त्राणां सर्वे लक्षणग्रन्था येनेति । यथार्थश्चासौ । अलङ्कारनिर्णये नारायणोऽलङ्कारसूत्रनाम्ना रुय्यककृतमलङ्कारसूत्रं स्मरति, स्मरति च ‘सर्वस्वनाम्ना तत्रैवोपनिबद्धमलङ्कारसर्वस्वमपि मङ्खकृतम्। न तु स्मरति जयरथकृतामलङ्कारविमर्शिनीम् । अर्थशास्त्रमिव कामशास्त्रमपि निपुणमभ्यस्तवानेष वात्स्यायनरचितम्। आगते प्रसङ्गे दर्शयति संरम्भमेष कामशास्त्रस्यापि दुर्लभेषु सन्दर्भेषु। तत्रैव मतिसंवादाय प्रत्युपस्थापयति रत्नावलीवेणीसंहारादीनि यदृच्छयैव । जामित्रयोगेऽनयोर्व्याख्यानं ग्रीसदेशभवेभ्यो ज्योतिर्विद्भ्य आहतस्य इति पाश्चात्त्यानां विकल्पमुत्थातुमेव न ददात्यवसरम्। एतदुभयमते यथा पूर्वमप्युक्तं जामित्रत्वं नाम सप्तमस्य भावस्य सर्वग्रहशून्यत्वम् । ‘ड्यामिद्रियस’ – पदस्यापभ्रंश तत्र नारायणो हि परममुत्कृष्टः कविः । विपुलमस्य रचनाजातम् । स्वरचना इमा नारायणेन तत्तेषु श्लोकेषु संस्मृताः । तथा हि- १. आश्लेषाशतकम् ४.४६.२ २. ऊढाभोगनृसिंहचम्पूः ६.८४.२, ६.९४.२ ३. गोविन्दाङ्गगुणौघवर्णनम् १.५९.२ ४. मानमेयोदयम् २.६३.२ ५. वैदेहीनवसङ्गमचम्पूः ८.९१.२ ६. श्रीमद्भागवतप्रबन्धः ५.८६.२ ७. श्रीमासोत्सवचम्पूः ३.७६.१ विवरण-पदार्थदीपिकयोरस्य गणेशवन्दना समानैव ‘षट्पदमुखरितगण्डम्’ इत्यादिरूपा। अतः परं निध्येयरचनासौष्ठवास्तत्रास्यामी श्लोकाः- पान्तु वो नरसिंहस्य नखा बालेन्दुकोमलाः । दैत्यवर्गतमः स्तोमविदारणसुदारुणाः ॥२॥ ( २७ ) भाति ब्रह्मखले काचित् करुणा शरणार्थिनाम् । भवनाशकरी गौरीकुचकुङ्कुमपङ्किला ॥ ३ ॥ रघुवंशे महाकाव्ये पदार्थान्वयशालिनी । वाक्यांर्थालङङ्क्रियोपेता मिता व्याख्या विलिख्यते ॥ ४॥ विद्वांसोऽपि समत्सरा नृपतयः कार्येषु पर्याकुलाः ३ मूढाः प्रौढतमः प्ररोहमलिनाः किं तैरलं चिन्तया । एषा स्यात् फलशालिनी न रचना नूनं तथाऽप्यत्र ये सन्तः सन्ति परोपकारनिरताः शृण्वन्तु ते मे गिरम् ॥५॥ 15-sm अत्र येऽभिप्रायास्त एव कुमारसम्भवविवरणारम्भेऽपि दशभिः श्लोकैरुपनिबद्धाः, किन्तु कुमारसम्भवविवरणश्लोकेषु प्रौढिरधिकेति मन्ये नारायणेनाप्यनन्तरमेव निरमायि विवरणमत्र पदार्थदीपिकानिर्मितेः । टीकान्तरतो वैलक्षण्यम् प्रकाशिका विवरणश्चेति ये द्वे टीके अनयोः प्रकाशिका केषुचित् पद्येषु न लभ्यते । येषु लभ्यते तेष्वपि क्वचिदतिसङ्क्षिप्ता, क्वचिच्चातिविस्तृता । विवरणं पुनः सर्वेष्वेव पद्येषु सुलभं सर्वत्रैव च वितत्य विद्यमानमेव । प्रकाशिका प्रायेण निगीर्णसर्वस्वेव नारायणविवरणेन । अनयोष्टीकयोर्वल्लभस्य पञ्जिकया, दक्षिणावर्त्तनाथस्य, मल्लिनाथस्य वा टीकया साम्यवैषम्यपर्यालोचनेन स्फुटो जायते विशेषः । तत्र काव्यस्य कुमारसम्भवमिति नपुंसकलिङ्गान्तं नाम सर्वैः प्रचारितम् । इमौ पुनष्टीकितारौ ‘कुमारसम्भवः’ इति तस्य पुंलिङ्गान्तत्वं साधयतः, तथैव चायं त्रिवेन्द्रमसंस्कृतग्रन्थमालायां दत्तशीर्षको मुद्रितः । अथ प्रश्न ः ‘सम्भव’ पदमत्र किमर्थकमिति, तत्रापीमौ कृतशास्त्रार्थी दृश्येते साधयन्तौ चाष्टमसर्गपर्यन्तकत्वमेवाऽस्य काव्यस्य । वल्लभोऽपि दृश्यतेऽस्पृष्टाष्टमसर्गकः । मल्लिनाथस्य स्थितिरष्टमसर्गे सन्दिग्धैव । अथ येयं काव्यस्यास्याष्टमसर्गमात्रपर्याप्ता तनुरस्यामपि २०७० वर्षाणामन्तरालेन ये समुत्पादिताः परिवर्त्तनावर्त्तास्तित्राऽनवहितावपीमौ शास्त्रान्तरप्रमाणोपन्यासैः शतशो विशदयन्ति निभृतनिभृतानर्थान् । यथा चैतत् तदाद्यस्यैव १. ब्रह्मखलो नाम तीर्थविशेषोऽत्रापि विवरणारम्भे तुरीये पद्ये स्मर्यमाणः । अत्र भवस्यैव भवनाशकृत्त्वेन विरोधाभासः । गौरीकुचकुङ्कुमपङ्किलत्वस्य भव एव सम्भवात्। २. उपमादीनां वाक्यार्थधर्मत्वेनाऽवाच्यत्वमेव तथाप्यधन्य एव ध्वनिवादिनां वाच्यत्वप्रचारः । ३. नृपतिविशेषणमिदमित्यहो धैर्यं कवेः । नेति प्रश्नकाकुः । । ( २८ ) ‘अस्त्युत्तरस्या’ मिति पद्यस्य टीकाभ्यां स्पष्टम् । अत्र प्रश्नः काव्यस्यास्य नायकौ भगवन्तौ परमशिवौ विहाय हिमाचलस्मरणेनारम्भे का नु साधिका युक्तिरिति । उत्तरमनयोरत्र शास्त्रसमर्थितमेव। हिमाचलोऽपि न नास्त्यत्र नायकः, पताकानायकत्वेन तस्यापि दूरविसर्पिवर्णनात् । न चास्ति निर्बन्धो मुख्येनैवाऽत्र भवितव्यं नायकेनेति । अस्ति च प्रतिज्ञाऽनयोर्भवे भक्तिरेवास्य प्रतिपाद्यं महाकाव्यस्येति । इदं च विस्पष्टं प्रथमसर्गस्यैवान्तिमाभ्यां मङ्गलपद्याभ्याम् — ‘नारायणक्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिवृद्धोदय’ इति, ‘गिरिसुतापादाब्जभक्तिः’ इति च। प्रथमस्य सर्गस्य सारसर्वस्वं कियता कौशलेन नारायणो न्यबन्धनादिति तस्य ‘सर्गोऽयं प्रथमो गुणैश्च गिरिजालावण्यसारं परं यस्मिन् वर्णयति स्म कर्णमधुरैर्वर्णैः कविग्रामणी’ रिति पद्येन स्पष्टम्। एवमेव प्रत्येकं सर्गस्यान्ते नारायणस्येयमेव भक्तिमती वाक् । ८.९१ टीकयोस्तु भक्तिरियं विवृततमत्वेनोपास्थापि द्वाभ्यामपि सहृदयशिरोमणिभ्यां टीकितृभ्याम्। अयञ्चात्र विशेषो यद् भगवती पार्वत्येव कुमारं जनयितुं हिमाचलगेहे जनिमगृह्णादिति । अरुणाचलनाथापेक्षया नारायणमत्राधिकश्रमं लभामहे । धन्यताप्रकाशः एतस्य विपुलकायस्य महतो ग्रन्थस्य प्रकाशनार्थं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिना प्रो. राममूर्तिशर्मणा, वर्त्तमानेन च कुलपतिना कविवरेण प्रो. राजेन्द्र मिश्रेण दर्शितः समानमान उत्साहः । तेनैव चोत्साहेन परिपूरिता पूर्वप्रक्रियाऽस्यैव विश्वविद्यालयस्य प्रकाशननिदेशकेनाचार्येण डॉ. हरिश्चन्द्रमणित्रिपाठिमहोदयेन । एते सर्व्वेऽपि ‘धन्या’ इति वक्तुमुत्सहते मे चेतोधातुः । अथ- रेवाप्रसादेन सनातनेन शृङ्गारभक्तेः प्रतिपादनं यत् । कुमारकाव्ये विवृतिद्वयं तत् सम्पाद्य विद्भ्यः प्रतिपाद्यतेऽद्य ॥ इति शमिति विनयः । रेवाप्रसादस्य द्विवेदिनः ०९.१०.२००२, बुधः काशी। मर ॥ श्रीः ॥ महाकविकालिदासप्रणीतं कुमारसम्भवम्