०१ नान्दीवाक्

कवय- तत्तुल्यकवेरभावादद्यापि कविगणनाप्रसङ्गे यो विद्योत्तमाजानिर्विक्रमार्कसभारत्नभूतः कालिदासः कनिष्ठिकाधिष्ठित एव परिलक्ष्यते, तमेवाधिकृत्य किञ्चित्प्रस्तोतुमुपक्रम्यते । सहस्रद्वयवर्षाणि व्यतीतानि । सहस्रमिताः स्सञ्जाताश्चतुर्दिक्षु भारतवर्षे । सैव रघुवंशगाथा शिवशिवाकथा वाऽन्यैरप्युट्टङ्किता । मेघदूतस्य परम्परायां प्रायेण पञ्चाशदुत्तरशतत्रयमितानि दूतकाव्यानि प्रणीतानि शैवशाक्तवैष्णवार्हतकविपुङ्गवैः । नाटकानामपि संख्या महीयसी परिलक्ष्यते । हन्त, तथापि न क्वचित्कालिदासस्य भूयोऽवतारो नवावतारो वा संलक्ष्यते । अन्ये कवयस्तु भारविमाघादयोंऽशानुकृताः पूर्णानुकृता वाऽनेके दृश्यन्ते; परन्तु व्यतीतेऽपि प्रचुरेऽनेहसि कालिदास एक एव तिष्ठति । केचन वैशारद्यभिमानिनः कालिदासद्वयं स्वीकृत्यावभृथस्नानमाचरन्ति स्वोपज्ञवादिजयाध्वरान्ते । तन्मतेन काव्यकृत्कालिदास एकः । नाट्यकारश्चान्यः । कश्चिद् देवानुग्रह एवं निर्दिशति यद्वा तेषां गहनगहनं बुधान्तरासाध्यं दिव्यमध्ययनमेव तानेवं वक्तुं नियोजयतीति कृतेऽपि प्रयत्ने नाहं वेद्मि । किञ्च, सौम्याः केचनात्मानं विवादाद् वारयन्तो राजशेखरप्रामाण्येन कालिदासत्रयमङ्गीकुर्वन्ति । ततश्च, कालिदासबहुलीकरणरसिकाः साम्प्रतिका अनेके विद्वांसस्तं काश्मीरे (बदरीनाथकल्ला), गढवालमण्डले (सदानन्दजखमोला), उज्जयिन्यां (सूर्यनारायणव्यासः), मिथिलायां (आद्याचरणझा), कलिङ्गे ( प्रफुल्लकुमारमिश्रः ) च प्रसह्य जनयन्तस्तं त्र्युत्तरं मन्वते । कालिदासविषयिणी चर्चाऽद्यापि शान्ता न जाता। अनया प्रसरत्परिचर्चया महाकवेस्तस्य महामहिमशालित्वं साधु सूच्यते । अपरिमिताभिप्राया तस्य भारती । लोकोत्तरा तस्य वासिद्धिः । वागधिष्ठात्री स्वयमेव कालिदासीभूय तदुपज्ञं वाङमयमरीरचदिति मन्ये । मन्ये चावितथवाचं कोलाचलमल्लिनाथसूरिमेवंवादिनः- कालिदासगिरां सारं कालिदासः सरस्वती । चतुर्मुखोऽथवा ब्रह्मा विदुर्नान्ये तु मादृशाः ॥ विविधशास्त्रपारङ्गतानामाचार्यमल्लिनाथानामप्येतादृशं वानीरकल्पं विनत्यति- शयं सम्प्रेक्ष्य किमपरं वक्तुमवशिनष्टि कालिदासविषये ? वस्तुतः कविकुलगुरुः( २ ) कालिदासो न विवादविषयः । संवादविषयोऽसौ । सारस्वतसंवादः, सामाजिकसंवादः, राष्ट्रियसंवादः, वैश्विकसंवादः, किञ्च यद्विधोऽपि संवादो विपश्चिद्भिः कल्पितुं शक्यते तस्य पृष्ठभूमिः साधकप्रमाणं वा कालिदाससाहित्य एव समुपलभ्यते, नान्यत्र । कालिदाससंस्थानस्य संस्थापको वाराणसेयो विद्वन्मनीषिधुर्यस्सनातनोपाह्वः काश्यप आचार्यरेवाप्रसाद द्विवेदी तयैव समञ्जसदृष्ट्या कालिदासं समीक्षितुं प्रयत्नपरो दृश्यते। आचार्यसीतारामचतुर्वेद्यनन्तरमभिनवकालिदासग्रन्थावलीं स्वोपज्ञमूलपाठसंवलितां सम्पाद्य निखिलेऽपि राष्ट्रे सम्प्राप्तसमज्ञो विद्वत्कुलमणिरयं सम्प्रति रघुवंशमहाकाव्यमरुणगिरिनाथटीकासम्भूषितं सम्पादितवान् यत्खलु रघुकारकाव्यमर्मावगमलुब्धानां सहृदयानामुपकाराय विश्वविश्रुतस्य वाराणसीस्थसम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रकाशनसंस्थानेन प्रकाश्यते । संस्कृतजगति यादृशमवदानं सन्दृश्यते श्रीमद्गणपतिशास्त्रि-रामकृष्णकविमोरेश्वररामकृष्णकाले-गजेन्द्रगडकर - सुक्थाङ्कर-करमरकर -पुसालकर-देवधर-प्रभृतीनां ग्रन्थसंस्कर्तॄणां सर्वथा तत्सजातीयमेव, किञ्च तदतिशाय्येव संलक्ष्यतेऽवदानं काश्यपमहोदयानाम्। तादृशं तत्सम्पादनवैशिष्ट्यमत्रापि द्रष्टुं शक्यते । महताऽध्यवसायेन साङ्गोपाङ्गाध्ययनेन च सम्पुष्टां तत्समीक्षापद्धतिं दृष्ट्वा महदाश्चर्यं जायते । यथाऽसौ नामान्तराणि कविकुलगुरोः कालिदासस्य कालदासमातृगुप्तभर्तृमेण्ठचन्द्रमौलिप्रवरसेनेश्वरदासकुमारदासदीपशिखादीनि समुदाहरति, यथा वा नवसाहसाङ्ककारं भोजदेवयुगीनं पद्मगुप्तपरिमलकालिदासं, नलोदययमककर्तारं कालिदासं, चम्पूभारतकारं नवकालिदासं, लम्बोदरप्रहसनकारं कालिदासं, सङ्क्षेपशङ्करविजयकर्तारं माधवाभिनवकालिदासं, समस्यापूर्तिकविमकबरसभारत्नभूतं कालिदासं परिचाययति, यथा वाऽसौ ज्योतिर्विदाभरणशृङ्गारतिलक-नलोदययमकश्रुतबोध-श्यामलादण्डक-नवरत्नमालाप्रभृतिग्रन्थकर्तृत्वसमलङ्कृतं कालिदासं विवृणोति, तत्सर्वं सारस्वततपस्सम्भारमहिमदृष्ट्या परिशील्य श्रीमद्विवेदिचरणान् प्रति समुदेति काचिद् विलक्षणैव स्वयंस्फूर्ता विनयगर्भा श्रद्धा । वस्तुतः संक्षिप्तेऽपि स्वोपज्ञे सम्पादकीयवाचिके आचार्यरेवाप्रसादद्विवेदिमहोदयाः पाश्चात्त्यपौरस्त्योभयविद्वन्निकायनिर्व्यूढं कालिदासविषयकं समग्रमप्यनुसन्धानं सम्यक् समीक्ष्य स्वाभिमतमसंस्तुतं स्वतोऽन्विष्टप्रायमिदम्प्रथमतया प्रस्तुवन्ति । कविकुलगुरोः कालिदासस्याभ्युदयकालं निश्चिन्वानो द्विवेदिमहोदयो निर्विशङ्कं लिखति - ’ एवं च निर्णेतुं शक्यते यत्कालिदासस्तदाऽजायत यदा शास्ति स्म बैम्बिको राजा भारतीयां वसुधां विदिशां राजधानीकृत्य । अत्यन्तमल्पीयानेष (३) कालावधिः । अत एवास्माकं निश्चयः २०७० वर्षाणि जातानि जातस्य कालिदासस्येति’ । प्रस्तावोऽयं मह्यमप्यतितरां रोचते । ममानुमोदने केवलमेतावन्मात्रं समधिकं यदग्निमित्रविक्रमादित्ययोरपि, वयसः केनचिदंशेन समतया, कालिदासस्य तयोरुभयोरपि युगपदेव सहचरत्वं सूच्यते । तत्सर्वमपि सविश्रम्भमवधार्य मया स्वोपज्ञनाटिकायां विद्योत्तमायां किञ्चिदभिनवमुपकल्पितम् । कुमारसम्भवादिषड्रचनाकर्तुः कालिदासस्य सम्भावना गुप्तयुगे कथमपि साधयितुं नोचिता प्रतिभाति । तदेवाचार्यद्विवेदिनामपि मतम् । विक्रमादित्यस्यैतिह्यविषये न कापि संशीतिः । एवमेव विक्रमादित्याग्निमित्रकालिदासानां समकालस्थितावपि न कश्चन सन्देहः । स्कन्दपुराणे (१.२.३९ तः ४२ तमं यावत्) स्पष्टमुक्तम् - प्रमाणेनानेन ततस्त्रिषु सहस्त्रेषु विंशत्या चाधिकेषु च । भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते ॥ ३०२० मिते कलिसंवत्सरे किञ्च विक्रमाब्दारम्भाद् प्रशीतिवर्षपूर्वम्, अर्थात् ख्रिस्तपूर्वं द्व्यशीतितमे वर्षे शकारिविक्रमार्कस्यास्तित्वमधिवसुधमासीत्। जैनवाङ्मयेऽपि महावीरनिर्वाणानन्तरं ४७० हायनेषु व्यतीतेषु सत्सु विक्रमराज्यारम्भोऽङ्गीकृतः । तद्यथा, विक्कमरज्जारम्भ परउ सिरि वीर निव्वुइ भणिया । सुन्नमुनिवेदजुतो विक्कमकालउ जिनकाली ॥ अर्थात् शून्य ( = ० ) मुनि ( =७) वेद (= ४) मिते वीरनिर्वाणसंवत्सरे विक्रमराज्यारम्भो जातः । अनेनैतदुक्तं भवति यत् ख्रिस्तपूर्वं सप्तसप्ततिमिते वर्षे विक्रमोऽस्यां पृथिव्यां प्रशशास । एवमेव ३७७ मितख्रिस्ताब्दे प्रणीतं प्रभावकचरितं ४६६ मिते वीरनिर्वाणवर्षे (अर्थात् ८१ मिते ख्रिस्तपूर्ववर्षे) विक्रमसाम्राज्यं प्रमाणयति । एवं हि मयोद्धृतेन प्रमाणत्रयेण विक्रमराज्यस्थितिः क्रमेण सप्तसप्तति - (७७) एकाशीति - (८१) द्व्यशीति - (८२) मिते ख्रिस्तपूर्ववर्षे सिद्ध्यति । आचार्यप्रवरा रेवाप्रसादद्विवेदिनोऽप्येवम्मन्वाना एव संलक्ष्यन्ते स्वोपज्ञनिर्णयेन- ‘एतैरन्यैश्चैवंविधैः साधकबाधकप्रमाणैः स्थितमिदं यन्नास्पृशत् कालिदासः २०७० तमादर्वाचीनां समयसीमाम्’ । एवमेव रविकीर्तिबाणभट्टाभ्यां स्मृतस्य कालिदासस्य चरमा स्थितिसीमा सप्तमख्रिस्ताब्दपरिमिता प्रतीयते । तत्रापि न काचिद् विप्रतिपत्तिः । तदलमेतावन्मात्रेणैव ( ४ ) कालिदासप्रसङ्गेन । तदीयं प्रथमं महाकाव्यं कुमारसम्भवाभिधमिदानीं विश्वविद्यालयेनानेन प्रकाश्यते । कोलाचलमल्लिनाथसूरिप्रणीतसञ्जीवनीटीकासंवलितं कुमारसम्भवन्तु प्रायेण सहृदयाः परिचिन्वन्त्येव पाठ्यक्रमांशभूतत्वात्; परन्तु शिवदासापरनाम्नाऽरुणगिरिनाथेन प्रणीतया प्रकाशिकाख्यया टीकया सम्भूषितमिदं महाकाव्यं विरला एव संस्कृतज्ञा जानन्ति, विरलप्रचारत्वात्तस्या उत्तरभारते । ततश्चोपटीकारूपेण विवरणं प्रणीय नारायणनामा कश्चित्कोविदो यथाऽरुणगिरिनाथाभिप्रायं समधिकतरं विशकलितवान् तद्योगदानं सारस्वतं मनसि निधाय सम्पादकप्रवर आचार्यरेवाप्रसाद द्विवेदस्सनातन उभय्याऽपि टीकया संवलितं महाकाव्यमिदं सम्पाद्य प्रकाशयितुं प्रवृत्तस्सुरभारतीसमुपासकानां सारस्वतविनोदाय । कुमारसम्भवस्य सर्वाः पूर्वटीकाः समालोच्याऽरुणगिरिनाथः कामपि विलक्षणामिमां सोपयोगां टीकां कृतवान्, टीकाविषयि कैमर्थक्यं कथं कथिकत्वञ्च शमयाञ्चकार । तद्यथाऽसौ रघुवंशप्रकाशिकायां स्वयमभिदधाति— आलोच्य पूर्वटीकाश्च लक्षणानि च धीमताम् । विनिर्मिता मया सेयं सोपयोगा भविष्यति ॥ न चेह पूर्वटीकाभिः कैमर्थक्यं प्रतीयताम् । यतो विद्वन्मता सर्वो न सर्वं पश्यतीति वाक् ॥ आत्मवृत्तप्रकाशनविषये धृतमौनस्यास्य टीकाकारस्य स्थितिमाचार्यद्विवेदी त्रयोदशख्रिस्तसंवत्सरारम्भे मम्मटरुय्यकयोर्मध्यावधावङ्गीकरोति । तन्मतेनासौ समजायत । दाक्षिणात्यत्वं तु तस्य विदितचरमेव । ततश्च विवरणकारी नारायणः काली-नीलकण्ठयोः सूनुः, पुरुषोत्तमस्य नप्ता, श्रीकृष्णस्य च भागिनेय आसीत् । मातामहोऽस्य श्वेतग्रामस्य शङ्करारामे लब्जजन्मा कविग्रामणीरभूत् । पितृपाण्डित्यप्रतियातनाकल्प एवासीत्तत्तनयः श्रीकृष्णोऽपि यस्मान्नारायणः सर्वमपि विद्याजातं जग्राह । ब्रह्मखलाभिधं कमपि तीर्थविशेषं सङ्केतयन्नयमपि दाक्षिणात्य एव प्रतिभातीति सविस्तरं ससमीक्षं निरूपितत्वादाचार्यद्विवेदिमहोदयैः प्रसङ्गोऽयमत्रैव शङ्कुसहोदरीकृत्य परिहीयते । संस्कृतवाङ्मये टीकोपटीकाभाष्योपभाष्यपञ्जिकाफक्किकादीनां यादृशं महत्त्वं तन्नाविदितं विपश्चिताम्। मूले यन्त्रोक्तं तदुक्तं टीकाकारेण, मूले यदनुन्मीलितं तदुन्मीलितं टीकाकारेण, मूले यद् गोपितं तत्प्रकाशितं टीकाकारेण, मूले यन्मुक्तं तद्योजितं टीकाकारेण, मूले यदविद्यमानं तदुत्प्रेक्षितं टीकाकारेणेति विलक्षणैव कापि सारस्वती परम्परा देववाण्यां परिलक्ष्यते । अनया परम्परया परिपुष्टमेव ( 4 ) षड्दर्शनं काव्यकदम्बकं शास्त्रवाङ्मयं वा साङ्गोपाङ्गतायाः परिपूर्णतायाश्च शिखरमधिरोहति । नेयं परम्परा क्वचिदन्यत्र परिलक्ष्यते निखिलेऽपि जगतीतले । वस्तुतः संस्कृतवाङ्मये दर्शनविशेषस्य शास्त्रविशेषस्य कविविशेषस्य वा नैकला स्थितिः । तेषामपि सन्दृश्यते कश्चित्कुटुम्बो यदङ्गभूता भवन्ति तदभिप्रायप्रकाशकाः टीकाकाराः, व्याख्याकाराः, किञ्च तदनुरागरञ्जितहृदया ः पाठकाश्च । नैकलः कालिदासः । कालिदासस्य कश्चित्सारस्वतकुटुम्बोऽपि वर्तते । स कुटुम्ब एव कालिदासकाव्यपरम्परायाः सार्थकतां साधयति । यस्य कवेः, चिन्तनसरणेः, शास्त्रस्य वा कुटुम्बो न समजनि स एव क्षीणशक्तिर्जातोऽकाले वा कवलीभूतः । सौभाग्यवन्तो जाताः केवलं कुटुम्बवन्तस्साहित्यकाराः कालिदासबाणभट्टानन्दवर्धनमम्मटादिकाः । मन्ये, प्रख्योपाख्याप्रसरसुभगं सरस्वत्यास्तत्त्वं प्रशंसन्नधिलोचनं महामाहेश्वरोऽभिनवगुप्तपादाचार्यस्तमेव सारस्वतकुटुम्बं निर्दिशति । अयमेव कुटुम्बस्सम्प्रदायोऽप्युच्यते । तादृग्गुणविशिष्ट एव कश्चित् कविकुलगुरुकालिदासस्य कुटुम्बसदस्यः आचार्यः श्रीरेवाप्रसादद्विवेदोऽपि । किञ्च — विद्यावदातहृदयं सदयं सुशीलं नित्यं दिशन्तमिह पथ्यपथं बुधेन्द्रम् । वन्दे गुणौघतुहिनाचलमात्मपूतं प्रज्ञाध्वरे सततदीक्षममेययोग्यम् ॥ द्वैपायनोपमधियं विदुषां वरेण्यं सारस्वतश्रमजकीर्तिलसच्छरीरम् । माङ्गल्यधुर्यसरणिं नवमम्मटाख्यं वन्दे सनातनकविं श्रितकालिदासम् ॥ वाणी यदीयवशगा शतपत्रमृद्वी यद्धीश्च गोमुखपतच्छतवारिधारा। यद्वैखरी प्रतिगवादिभयङ्करी तं स्वातन्त्र्यसम्भवकविं सततं नतोऽहम् ॥ प्राज्ञाश्रवो दुरभिमानकथा सहिष्णुर्वज्रं बहिर्हृदि पुनर्नवनीतकम्रः । गङ्गान्तरालतुहिनाचलचारुदेहं वन्दे सदाशिवमयं कविताविलासम् ॥ एभिरेव पद्मबन्धैः सम्पादकवैदुष्यगुणगरिमगाथामुपस्तुवन्नहं कविकुलगुरोः कालिदासस्य वाङ्मयवपुष्कल्पमिदं महाकाव्यं साऽरुणगिरिनाथनारायणटीकं सहृदयानां करकमलेषु समर्पयामि । अस्मिन्महनीये प्रकाशनकर्मणि व्यापृतस्य डॉ. हरिश्चन्द्रमणित्रिपाठिनोऽपि वर्तत एव कश्चित्कुटुम्बः कालिदासस्येव । स च तत्कुटुम्बिनश्च सर्वे मया भूयोभूयोऽभिनन्द्यन्ते । वाराणसी भैरवाष्टमी, वि.सं. २०६० विद्वद्वशंवदः मिश्रले अमिशनर कुलपतिः वेळঃ . सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य