१३ गणेशस्तोत्रम्

ग्रन्थकर्तृविरचित-गणेशस्तोत्रम्

अथ ग्रन्थकर्तृविरचित-गणेशस्तोत्रम् ।

जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक ॥
जय1 सङ्कटपाशमोचन प्रणवाकार विनायकाव माम् ॥ १ ॥
तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः ॥
मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २ ॥
तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दिरम्2
न परत्र न चेह सौख्यभाङ्निजदुष्कर्मवशाद्विमोहभाक् ॥ ३ ॥
गजवक्त्र तवाङ्घ्रिपङ्कजे ध्वजवज्राङ्कयुते सदा भजे ॥
तव मूर्तिमहं परिष्वजे त्वयि हृन्मेऽस्तु सुमूषकध्वजे ॥ ४ ॥
त्वदृते हि गजानन प्रभो नहि भक्तौघसुखौघदायकः ॥
सुदृढा मम भक्तिरस्तु ते चरणाब्जे विषुधेश विश्वपाः ॥ ५ ॥
फलपूरगदेक्षुकार्मुकैर्युत रुक्चक्रधराब्जपाशधृक् ॥
अव वारिजशालिमञ्जरीरदधृग्रत्नघटाढ्यशुण्ड माम् ॥ ६ ॥
करयुग्मसुहेमशृङ्गल द्विजराजाढ्यक तुन्दिलोदर ॥
शशिसुप्रभ विद्यया युत स्तनभारानमितेड्य रक्ष माम् ॥ ७ ॥
शशिभास्करवीतिहोत्रदृक्शुभसिन्दूररुचे विनायक ॥
द्विपवक्त्र महाहिभूषण त्रिदिवेशासुरवन्द्य पाहि माम् ॥ ८ ॥
सृणिपाशवरद्विजैर्युत द्विजराजार्धक मूषकध्वज ॥
शुभलोहितचन्दनोक्षित श्रुतिवेद्याभयदायकाव माम् ॥ ९ ॥
स्मरणात्तव शम्भुविध्यजेन्द्विनशक्रादिसुराः कृतार्थताम् ॥
गणपाऽऽपुरघौघभञ्जन द्विपराजास्य सदैव पाहि माम् ॥ १० ॥
शरणं भगवान्विनायकः शरणं मे सततं च सिद्धिका ॥
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ११ ॥
गलद्दानगण्डं महाहस्तितुण्डं सुपर्वप्रचण्डं धृतार्धेन्दुखण्डम् ॥
करास्फोटिताण्डं महाहस्तदण्डं हृताढ्यारिमुण्डं भजे वक्रतुण्डम् ॥ १२ ॥
गणनाथ निबन्धसंस्तवौ कृपयाऽङ्गीकुरु मत्कृताविमौ ॥
इदमेव सदा प्रदीयतां करुणा मय्यतुलाऽस्तु सर्वदा ॥ १३ ॥

इति गणेशस्तोत्रम् ।

नत्वा नत्वा सद्द्विजान्कोविदेशान्भूयो भूयो याचते गोपिनाथः ।
अत्रानुक्तं वा दुरुक्तं निबन्धे स्यात्तत्सर्वं शोधनीयं भवद्भिः ॥ १ ॥

संस्काररत्नमालेयं गोपीनाथेन धीमता ।
विद्यागणपतेः कण्ठे योजिता राजतां सदा ॥ २ ॥
प्रीतोऽस्त्वनेन भगवान्विघ्नेशो मङ्गलालयः ।
सिद्धिबुद्धिसमायुक्तो विद्यागणपतिः सदा ॥ ३ ॥
3 श्रीमत्पार्थिवशालिवाहनशके4 सप्ताष्टभूषैर्मिते १६८७
शुक्ले श्रावणमासि5 विघ्नपतिथौ कर्काटकस्थे गुरौ6
वर्षे7 पार्थिवनामके गुणवती संस्काररत्नैर्युता
मालेयं परिपूर्णतां समगमत्सोमे8 दिने भे शुभे ॥

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयसचातुर्होत्रकाठकसर्वतोमुख-9
साग्निचित्पौण्डरीकयाजिगणेशदीक्षिततनूजभट्टगोपीनाथदी-
क्षितविरचितायाः सत्याषाढहिरण्यकेशिस्मार्तसंस्का-
ररत्नमालाया उत्तरार्धं समाप्तिमगमत् ।

समाप्तोऽयं ग्रन्थः ।


  1. एतदर्धे क. ङ. च. पुस्तके ‘जय सङ्कटसर्पदर्पभिद्गरुड श्रीगणनायकाव माम्’ इत्यर्घे बहिः पाठान्तररूपेण लिखितं वर्तते । ↩︎

  2. ङ. च. न्दिरः । न । ↩︎

  3. च. पुस्तकेऽयं श्लोको नास्ति । ↩︎

  4. क. केऽश्ब्यभ्राद्रिपृथ्वीमिते १७०२ शु । ↩︎

  5. क. सि च प्रहति । ↩︎

  6. १४१० ↩︎

  7. र्पे शार्वरिना । ↩︎

  8. क. मद्भौमे शुभे मित्रभे । ↩︎

  9. क. सचतुर्होतृका । ↩︎