१२ उपाकरणोत्सर्जने नित्यस्नानातर्पणे

अथ द्वादशं प्रकरणम्

अथोपाकरणम् ।

तत्र गृह्यम्–

“अथात उपाकरणोत्सर्जने व्याख्यास्यामः श्रवणापक्ष ओषधीषु
जातासु हस्तेन पौर्णमास्यां वाऽध्यायोपाकर्म” इति ।

अत्राथशब्दः पूर्वेण कर्मणा तुल्यत्वज्ञापनार्थः । यथाऽऽग्रहायणी नित्या तथैते नित्ये इति । तेन कदाचिद्वर्षर्तौ सर्वथौषधिजननाभावस्तदाऽपि कर्तव्यमिति सिद्धं भवति । ‘एतद्वार्षिकमित्याचक्षते’ इत्य्-आश्वलायनसूत्रसव्ँवादात् ।

“ओषधीनां प्रादुर्भावे श्रावणस्य पौर्णमास्यां हस्तेन वाऽध्यायमुपाकुर्याद्यदि प्रादुर्भावः प्रोष्ठपदे तदा प्रौष्ठपद्यां तत्राप्रादुर्भावे प्रौष्ठपदीं नैवातीयाद्वर्षाकर्म ह्येतदित्याचक्षते”

इति खादिरादिसूत्रसव्ँवादाचायमर्थो लभ्यते । खादिरसूत्रसव्ँवादादाश्वलायनसूत्रे वर्षासु भवं वार्षिकमित्येव वार्षिकशब्दार्थो द्रष्टव्यः ।

अथशब्दस्याऽऽनन्तर्यार्थत्वे–आनन्तर्यस्य पाठादेव सिद्धत्वाद्वैयर्थ्यापत्तिरतोऽत्र सोऽर्थो न विवक्षितः ।

अतःशब्दो हेत्वर्थे, यत उपाकरणोत्सर्जने वेदशुद्धिसम्पादके अकरणे दोषश्रवणान्नित्ये चात इत्यर्थः । अत्र प्रमाणमग्रे वक्ष्यते । अभ्यर्हितत्वादुपाकरणशब्दस्य पूर्वनिपातः । युगपत्प्रतिज्ञानमुभयोः सय्ँयुक्तत्वख्यापनार्थं, तेनासम्भवादकृत उपाकरण उत्सर्गस्याप्यभावः । पारायण उत्सर्गस्य भावादुपाकरण मपि स्यादिति । केचिदपूर्वाध्ययनार्थे उपाकरणोत्सर्जने मन्यन्ते तेषां गृहीतस्यापि स्मरणार्थेऽभ्यासे न स्यातामिति । ओषधीषु जातास्विति वचनमोषधिप्रादुर्भाव एव श्रावणपक्ष उपाकर्मानुष्ठानं प्रोष्ठपद ओषधिप्रादुर्भावे प्रोष्ठपद्यां पौर्णमास्यां प्रोष्ठपदान्तर्गते हस्ते वेतिकालान्तरसङ्ग्रहार्थम् । उक्तौ च प्रोष्ठपदीहस्तौ बौधायनेन–

“श्रावण्यां पौर्णमास्यां हस्ते वाऽध्यायोपाकर्म
प्रोष्ठपद्यां हस्ते वा” इति ।

अत्र हस्तस्य द्विर्वचनं श्रावणप्रोष्ठपदहस्तग्रहणार्थम् । ओषधीषु जातासु श्रावणस्य हस्तेन पौर्णमास्यां वेत्यन्वयः । यथाश्रुतान्वये तु श्रावणपक्ष ओषधिजनने सत्येव श्रावणपक्षान्तर्गतयोर्हस्तपौर्णमास्योरुपाकर्म, आषाढ ओषधिजनन आषाढशुक्लपक्षान्तर्गतयोर्हस्तपौर्णमास्योरिति1 स्यात्, तच्छ्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेतिधर्मसूत्रे श्रावण्याः पौर्णमास्या एवानुवादान्मुख्यत्वप्रतीतेः सूत्रविहितकालपूर्वतनकालग्रहणस्यायुक्तत्वाच्चानिष्टम् । ओषधीषु जातासु प्ररूढासु । श्रावण्या पौर्णमास्या युक्तः पक्षः श्रवणापक्षः श्रावणपूर्वपक्ष इति यावत्2 “विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः” इति निपातनाच्छ्रवणाशब्दः साधुः । तदन्तर्गते हस्ते तदन्तर्गतायां पौर्णमास्यां वा, अधीयन्त इत्यध्याया वेदास्तेषामुपाकरणमारम्भः कर्तव्य इत्यर्थः । ओषधीषु जातास्विति हस्ते पौर्णमास्यां च सम्बध्यते । हस्तेनेति तृतीयाऽधिकरणे3 मूलेनाऽऽवाहयेद्देवीमितिवत् । श्रावण ओषधिप्रादुर्भावाभावे प्रोष्ठपद्याम् । यथौषधिप्रादुर्भावाभावः श्रावणातिक्रमनिमित्तं तथाऽऽशौचादीन्यपि, तेन येन केनचिन्निमित्तेन श्रावणातिक्रमेऽपि, अपेक्षितविधिलाभादेवात्रापि प्रोष्ठपदीकालः । तत्राप्याशौचादिसत्त्व आशौचान्ते कर्तव्यमिति केचित् । लोप एवेत्यन्ये । प्रथमोपाकरणोत्सर्जनयोस्तु लोप एव । (प्रथमोपाकरणं4 तु मुख्यकाल एव कार्यम् । एवमुत्सर्जनमपि । उत्सर्जन उपाकर्मदिनेऽथवेतिविशेषकालान्तरस्य विहितत्वात्तत्रापि प्रथमोत्सर्जनं भवत्येवेति केचित् ।) सूत्रे यद्यपि कालद्वयस्य साम्यं हस्तस्य प्रथमोपादानान्मुख्यत्वं वा प्रतीयते तथाऽपि–

“धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रर्क्षेण समन्वितम् ।
श्रावणं कर्म कुर्वीरन्नृग्यजुःसामपाठकाः”

इति स्मृतितः श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेति धर्मसूत्राच्च पौर्णमास्या एव मुख्यत्वप्रतीतेः सैव मुख्यः कालः । तस्याः सदोषत्वे हस्त इति ज्ञेयम् । तत्र तैत्तिरीयैरियमौदयिकी ग्राह्या ।

“पर्वण्यौदयिके कुर्युः श्रावणं तैत्तिरीयकाः ।
बह्वृचाः श्रवणे कुर्युर्ग्रहसङ्क्रान्तिवर्जिते” इति गर्गोक्तेः ।

धनिष्ठाप्रतिपद्युक्तमित्यनन्तरोदाहृतस्मृतितः,

“सम्प्राप्तवाश्रुतीर्ब्रह्मा पर्वण्यौदयिके यतः ।
अतो भूतयुते तस्मिन्नोपाकरणमिष्यते”

इति कालिकापुराणाच्च ।

तत्रोपाकरणकालः पूर्वाह्ण एव दैवत्वात् ।

“भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्ण एव तु ।
ब्राह्मणान्भोजयेत्तत्र पितॄनुद्दिश्य देवताः”

इति ब्रार्हत्प्रचेतसाच्च ।

यत्तु–

“अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्णके ।
पूर्वाह्णे तु विसर्गः स्यादिति वेदविदो विदुः”

इति हेमाद्रौ गोभिलवचनं5 तत्सामगविषयं नेषामपराह्ण एवोक्तेः, (इति6 नवीनाः । उत्सर्जनं तु सर्वेषामपि पूर्वाह्ण एव । श्रौताग्निमता स्मार्ताग्निमता वोपाकर्मोत्सर्जने7 वा कृत्वैवान्वाधानं कार्यं न तु पूर्वम् । अन्यथोपाकर्मोत्सर्जनयोः पौर्णमासेष्टिस्थालीपाकतन्त्रमध्येऽनुष्ठानापत्तेः । न चेष्टापत्तिः, न हि कर्मणि कर्मारम्भ इतिन्यायबाधापत्तेः । सन्ध्यावन्दनादौ त्वनायत्या बाधः । न च प्रातरग्निहोत्रं हुत्वोदित आदित्ये गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधातीत्यग्निहोमान्वाधानयोरव्यवहितानन्तर्यस्य क्त्वाप्रत्ययेन बोधितत्वाद्वैपरीत्यमेवास्तु । तेन न हि कर्मणि कर्मारम्भ इति न्यायस्य सन्ध्यावन्दनादिष्विवानायत्या बाध इति वाच्यम् । हुत्वेति क्त्वाप्रत्ययस्यैव केवलमानन्तर्यमात्रार्थकत्वस्य कल्पनेन बाधापत्त्यभावात् ।

एवं सद्यस्कालेष्टिरप्युपाकर्मोत्सर्जने कृत्वैव, प्रतिपद्येव तस्याः समापनीय त्वेन पूर्वाह्णकालस्यावरुद्धत्वेन तन्मध्यपातस्य तादवस्थ्यापाते प्रतिपत्सापेक्षेष्टेः पूर्वमेव पर्वमात्रसापेक्षोपाकरणोत्सर्जनानुष्ठानस्य युक्तत्वात् । ) तत्र यदा सूर्योदयमारभ्य पौर्णमासी प्रवृत्ता तदा सन्देह एव नास्ति । यदा तु पूर्वदिने मुहूर्तत्रयानन्तरं प्रवृत्ता द्वितीयदिने सङ्गवात्परतो न भवति तदा–

“श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि ।
तदैवोदयिकी ग्राह्या नान्या त्वौदयिकी भवेत्”

इति वचनेन सङ्गवात्परतो विद्यमानाया एवौदयिक्या ग्राह्यत्वोक्तेः प्रकृते तादृश्या अभावात्पूर्वैव । सम्प्राप्तवाञ्श्रुतीर्ब्रह्मेति निषेधस्तु परदिने सङ्गवात्परतः सत्त्व एवेति द्रष्टव्यम् ॥

यदा तु पूर्वदिने मुहूर्तत्रयानन्तरं8 प्रवृत्ता द्वितीयदिने सङ्गवात्परतो9 यदि भवति तदा ‘पर्वण्यौदयिके कुर्युः’ ‘धनिष्ठाप्रतिपद्युक्तं’ ‘सम्प्राप्तवाञ्श्रुतीर्ब्रह्मा’ इतिवाक्येभ्यः ‘श्रावणी पौर्णमासी तु’ इतिवाक्याच्च परैव ।

यत्तु–10

“श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत् ।
तदैवौदयिकं ग्राह्यं नान्यदौदयिकं भवेत्”

इति सिङ्गाभट्टीयं वचनं तदपि सङ्गवं सङ्गवकालं सर्वं स्पृशतीति सङ्गवस्पृक्, सङ्गवमभिव्याप्याग्रे विद्यमानमित्यनायत्या11 लक्षणाध्याहारनिष्पन्नमर्थं स्वीकृत्य ‘श्रावणी पौर्णमासी तु’ इत्येतत्समानार्थकं कार्यम् ।

पर्वनिर्णयवदेव हस्तनिर्णयोऽपि द्रष्टव्यः ।

पौर्णमास्यां सङ्क्रान्तिग्रहणादिसत्त्वे तु–

“उपाकर्म प्रकुर्वन्ति क्रमात्सामर्ग्यजुर्विदः ।
ग्रहसङ्क्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु” इति स्मृत्यन्तरवचनेन,
“सङ्क्रान्तौ ग्रहणे चैव सूतके मृतके तथा ।
गणस्नानं न कुर्वीत नारदस्य वचो यथा ॥
अथ चेद्दोषसय्ँयुक्ते पर्वणि स्यादुपाक्रिया ।
दुःखशोकामयग्रस्ता12 राष्ट्रे तस्मिन्द्विजातयः”

इति मदनपारिजातोदाहृतवचनेन च निषेधाद्धस्ते कार्यम् । तत्रापि दोषसत्त्वे प्रौष्ठपद्यां, तत्रापि प्रतिबन्धसद्भावे भाद्रपदान्तर्गतहस्ते कार्यम् ।

अत्र विशेषो गार्ग्येणोक्तः–

“यद्यर्धरात्रादर्वाक्तु ग्रहः सङ्क्रम एव वा ।
नोपाकर्म तदा कुर्याच्छ्रावण्यां श्रवणेऽपि वा” इति ॥

अत्र श्रावणीग्रहणं हस्ताप्रोष्ठपद्युपलक्षणम् ।

कात्यायनवृद्धमनू अपि–

“अर्धरात्रादधस्ताच्चेत्सङ्क्रान्तिर्ग्रहणं तदा ।
उपाकर्म न कुर्वीत परतश्चेन्न दोषभाक्” इति13

अर्धरात्रादधः प्रतिपदि सङ्क्रान्तिसत्त्वे तु नैवोपाकर्मनिषेधः ।

“ग्रहसङ्क्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु” इतिवचनात् ।

यदा तु श्रावणोऽधिको भवति तदा शुद्धे श्रावणमास एव कर्तव्यम् ।

तथा च कात्यायनः–

“उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि ।
अभिषेकादिवृद्धीनां न तूत्कर्षो युगादिषु” इति ॥

ज्योतिष्पराशरोऽपि–

“उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः ।
मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम्” इति ॥

यत्तु ऋष्यशृङ्गवचनम्

“दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।
उपाकर्मणि चोत्सर्गे” इति, तच्छन्दोगविषयं,

तेषां सिंहार्क एवोक्तेः ।

“वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ ।
उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके” इति,

(14 बृहस्पतिरपि–

“नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके ।
कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे”

इति, सामगविषय एव व्यवस्थापके एते वचने । वार्त्रघ्नी पूर्णमासेऽनू च्ये(च्य)ते वृधन्वत्यमावास्यायामितिवत् । अन्यथा वाक्यभेदो दुष्परिहरः स्यात् । अतो नर्मदोत्तरभागे सामगैः सिंहस्थे रवौ कर्तव्यं नर्मदादक्षिणभागे सामगैः कर्कटस्थे रवौ कर्तव्यमितिव्यवस्थापरत्वमेवैतयोर्वचनयोर्युक्तमिति द्रष्टव्यम् । ) अत्र गुरुशुक्रास्तादि निषिद्धम् ।

तथा च मनुः–

“शुक्रे मूढेऽप्युपाकृत्य विद्यावित्तविनाशनम् ।
आयुष्क्षयमवाप्नोति तस्मात्तत्कर्म15 वर्जयेत्” इति ।

कश्यपोऽपि–

“गुरुशुक्रतिरोधाने वर्जयेच्छ्रुतिचोदनात् ।
इत्य्-आह भगवानत्रिः श्रावणं तु विशेषतः” इति ॥

तिरोधानमस्तम् । एतच्च मलमासाद्युपलक्षणम् ।

( 16 महेशभट्टो–भद्राव्यतीपातावपि प्रथमे प्रयोगे निषेधति मलमासादिषु द्विजेत्यादिशब्देन भद्राव्यतीपातयोरपि ग्रहणात् ।

“अमासङ्क्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्”

इतिवचनेन सामान्यतस्तन्निषेधात् ।

“भद्रायां द्वे न कर्तव्ये श्रावणी चैव फाल्गुनी ।
श्रावणी हन्ति राजानं ग्रामं दहति फाल्गुनी”

इति विशेषतोऽपि श्रावणीविषये भद्रानिषेधाच्च ।

विष्ट्यादावित्यन्नत्यादिपदेन व्यतीपातस्य ग्रहणम् । श्रावणीशब्देन श्रावण्यां पौर्णमास्यां यद्यत्तद्दिवसविहितं कर्म तत्सर्वं न कर्तव्यमिति तदाशयः ।

श्रावणीशब्दस्य रक्षाबन्धनमात्रविषयत्वादुपाकर्मश्रवणाकर्मणोरसङ्ग्रहस्यार्थतः प्रदर्शनादुपाकर्मश्रवणाकर्मणोर्भद्रानिषेधो नास्तीति धर्मशास्त्रनिबन्धकाराशयो गम्यते । दिनक्षयस्यापि ग्रहणमत्रेति केचित् ।)

अयं च निषेधः प्रथमोपाकरणविषयः–

“गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा ।
तथाऽधिमाससंसर्पमलमासादिषु द्विज ॥
प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत्”

इति कश्यपोक्तेः । आदिशब्देन सिंहस्थगुरुवक्रातिचारग्रहणम् ।

“उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि” इति,
“उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः”

इति वचनाभ्यां प्रथमोपाकरणादावपि निषेधे सिद्धे पुनः प्रथमोपाकरणनिषेधादिदं ज्ञायते । मले प्रोष्टपदे मास ओषधिप्रादुर्भावः, अथ च शुद्धप्रोष्ठपद्यामर्धरात्रादर्वाग्ग्रहणादिसत्त्वं तदा मलमासेऽपि द्वितीयाद्युपाकर्मकर्तव्यताऽस्तीति17 । एवमुत्सर्जनेऽपि । (18 गुरुभार्गवयोर्मौढ्य इति वचनं सङ्ग्रहनाम्ना पठित्वा, एतद्वचनप्रतिपाद्यप्रथमोपाकरणविषयनिषेधरूपार्थस्याऽऽर्षवचनानुपलम्भहेतुना निर्मूलत्वं परिकल्प्य शुद्धकाललाभे द्वितीयादिप्रयोगेऽपि गुरुशुक्रास्तवक्रातिचारादिदोषान्वर्जयन्ति ।)

सिंहकर्कटयोर्मध्ये नद्यां स्नाने दोषमाहात्रिः–

“सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।
(19 न स्नानादीनि कर्माणि तासु कुर्वीत मानवः” इति ।

महानदीषु भविष्य उक्तम्–

“आदौ तु कर्कटे देवि महानद्यो रजस्वलाः ।)
त्रिदिनं तु चतुर्थेऽह्नि शुद्धाः स्युर्जाह्नवी सदा” इति ॥

जाह्नवी सर्वदा शुद्धेत्यर्थः ।

महानद्यस्तु ब्राह्मे–

“गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।
तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥
भागीरथी नर्मदा च यमुना च सरस्वती ।
विशोका च विपाशा च विन्ध्यस्योत्तरतः स्थिताः ॥
द्वादशैता महानद्यो देवर्षिक्षेत्रसम्भवाः” इति ।

मदनरत्ने पुराणान्तरे–

“महानद्यो देविका च कावेरी वञ्जुला तथा ।
रजसा तु प्रदष्टाः स्युः कर्कटादौ त्र्यहं नृप” इति ॥

कात्यापनः–

कर्कटादौ रजोदुष्टा गोमती वासरत्रयम् ।
चन्द्रभागा सती सिन्धुः शरयूर्नर्मदा तथा ॥
गङ्गा च यमुना चैव प्लक्षजाता सरस्वती ।
रजसा नाभिभूयन्ते ये चान्ये नदसञ्ज्ञिताः ॥
शोणसिन्धुहिरण्याख्याः कोकलोहितघर्घशाः ।
शतद्रूश्चेति वै सप्त पावनाः परिकीर्तिताः" इति ॥

(चन्द्रभागेति20 बहुपुस्तकेषु दृश्यते पीयूषाभिधायाममरव्याख्यायां तु चान्द्रभागेति दीर्घादिशब्दः, चान्द्रभागीतीबन्तोऽपीत्येतद्द्वयमुक्तं तच्चिन्त्यम् । )

यत्तु–“प्रथमं कर्कटे देवि त्र्यहं गङ्गा रजस्वला”

इत्य्-आदिवचनं [ तत्तु ] जाह्नवीभिन्नगोदावर्यादिगङ्गान्तरविषयमिति मदनरत्ने ।

सर्वथा वापीकूपतडागाद्यभावे सर्वनदीष्वपि रजोदोषो नास्ति ।

तदुक्तं व्याघ्रपादेन–

“अभावे कूपवापीनां तडागसरसां तथा ।
रजोदुष्टेऽपि पयसि ग्रामभोगो न रुध्यते” इति ॥

उपाकर्मादिष्वपि निषेधो नास्ति । तथा च कात्यायनः–

“उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते” इति ॥

अत्राऽऽदौ ब्रह्मकूर्चविधिना पञ्चगव्याशनमपि कार्यम् । तदुक्तं विधानमालायाम्–

“ब्रह्मशुद्धौ गृहारम्भे सूतके मृतके तथा ।
यज्ञारम्भे धनप्राप्तौ प्रायश्चित्ते विशेषतः ॥
रोगमुक्तौ च सम्पर्के क्षुद्रपापापनुत्तिषु ।
विदध्याद्ब्रह्मकूर्चं च मासि मास्यथवा द्विजः” इति ॥

ब्रह्मशुद्धावित्यत्रोपाकर्मोत्सर्जनाभ्यां क्रियमाणायामिति शेषः ।

उपाकर्मोत्सर्जनाभ्यां ब्रह्मशब्दवाच्यस्य वेदस्य शुद्धिः कात्यायनेनोक्ता–

“अस्थानोच्छ्वासविच्छेदो21 घोषणाध्यापनादिषु ।
प्रामादिकः श्रुतौ यः स्याद्यातयामत्वकारि सः22ह्रस्वत्वमार्षम् ॥
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवद्द्विजैः ।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥
अयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः ।
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम्” इति ॥

गृहारम्भनिमित्तमादावधिकारार्थत्वात्23 । (24 सूतके मृतके च सूतकमृतकनिमित्तं, तदपगमे, प्रातःसन्ध्योपासनानन्तरम् । यद्यप्यत्र सन्ध्योपासनं पूर्वं पञ्च गव्याशनमनन्तरं पञ्चागव्याशनं पूर्वं सन्ध्योपासनमनन्तरं वेत्यत्र विनिगमनाविरहादुभयमपि सम्भाव्यते तथाऽपि–

‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु’ इति वचनेन सन्ध्योपासनस्य सर्वाधिकारार्थत्वप्रतिपादनात्, सन्ध्याया नित्यत्वाच्च, पूर्वं सन्ध्योपासनमेव । ) यज्ञारम्भ इत्यत्राप्यादावधिकारार्थत्वात् । एवं धनप्राप्तावित्यत्रापि । प्रायश्चित्ते विशेषत इतिश्रवणात्तत्रैव ब्रह्मकूर्चस्याऽऽवश्यकत्वं नेतरत्र । रोगमुक्तौ सत्यां तदनन्तरम् । सम्पर्कोऽस्पृश्यस्पर्शस्तन्निमित्तं25 स्नानोत्तरम् । क्षुद्रपापापनुत्तिः क्षुद्रपापनाशस्तदर्थम् ।

स च विधिर्बौधायनसूत्रे–

“ब्रह्मकूर्चं प्रवक्ष्यामि कायशोधनमुत्तमम् ।
शूद्राणां भाजने भुक्त्वा वेदानां विक्रये तथा ।
होमातिक्रमकाले तु पर्वहीनमसंस्कृतम् ।
एतेषां चैव शुद्ध्यर्थं पञ्चगव्यं प्रशस्यते ॥
कपिला ताम्रवर्णी श्वेता नीला तथा कृष्णा ।
कपिलाया घृतं ग्राह्यं ताम्रवर्ण्याः पयः स्मृतम् ॥
श्वेतायास्तु दधि ग्राह्यं नीलाया गोमूत्रं कृष्णाया गोमयमुद्धरेत् ।
गोमूत्रं तु पलं दद्यादङ्गुष्ठार्धं तु गोमयम् ॥
क्षीरं सप्तपलं दद्याद्दधि26 त्रिपलमुच्यते ।
पलमेकं घृतं ग्राह्यं पलमेकं कुशोदकम् ॥
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णोऽथ वै दधि ॥
शुक्रमसि ज्योतिरसि तेनोऽसीत्याज्यं देवस्य त्वेति कुशोदकमापो
हि ष्ठेति मन्थेत् ।
नदीप्रस्रवणे तीर्थे रहस्ये निर्जने देशे ॥
यज्ञागारे गवां गोष्ठे देवतायतनेषु वा ।
तत्र स्नात्वा शुचिर्भूत्वा शुक्लवासा जितेन्द्रियः ॥
पालाशं पद्मपत्रं वा ताम्रभाजनमेव वा ।
उदुम्बरमयं पात्रं श्रीवृक्षस्य तथैव च ॥
सप्तपत्राः शुभा दर्भा अक्षताश्चैव सय्ँयुताः ।

तैरेवोद्धृत्य होतव्यमग्नये स्वाहा सोमाय स्वाहा । इरावती इदं विष्णुर्विष्णोर्नुकं मा नस्तोके च गायत्री ब्रह्म अज्ञानमिति तस्य चतुर्भाग हुत्वा प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य प्रणवेन पिबेत्प्रणवेन तु–

ब्रह्मणा निर्मितो ह्येष सत्यशौचात्मको27 विधिः ।
ऋषिभिर्बालखिल्यानां शौचार्थं समुदाहृतः ॥

मासि मासि प्रयुञ्जानो विरजा भवत्यर्धमासेऽर्धमासे प्रयुञ्जान ऋषिलोकमवाप्नोति षड्रात्रे षड्रात्रे स्वर्गलोकमवाप्नोति सव्ँवत्सरमहरहः परं ब्रह्माधिगच्छति ।

त्वगस्थिगतैर्मलिनैर्देहैस्तिष्ठति मानवः ।
ब्रह्मकूर्चो दहेत्तस्य यथा अग्निरिवेन्धनम्” इति ॥

(28 आपो हि ष्ठेतिमन्थेदित्यन्तं पालाशं पद्मपत्रं वेत्येतत्पूर्वं ज्ञेयं, पाठक्रमादर्थक्रमस्य बलीयस्त्वात् । प्रकरणात्प्राशनार्थपञ्चगव्य एव गायत्र्या गृह्य गोमूत्रमित्यादिविधिः स्यात्, प्रोक्षणार्थे पञ्चगव्ये न स्यात्तन्मा भूत् । तत्रापि मन्थेदित्यन्तो विधिर्यथा स्पादित्येतदर्थं क्रमपरित्याग इति द्रष्टव्यम् ।)

यद्यप्यमरेण–

“कृष्णे नीलासितश्यामकालश्यामलमेचकाः” इति कृष्णनीलयोरभेद उक्तस्तथाऽपि नीलशब्देन हरिद्वर्णमिश्रितः कृष्णवर्णो ग्राह्यः । सूत्रकृद्वचनलब्धभेदबलात् ।

“दशार्थगुञ्जं प्रवदन्ति माषं माषैस्तथा षोडशभिश्च कर्षम् ।
कर्षैश्चतुर्भिश्च पलं तुलाज्ञाः कर्षं सुवर्णस्य सुवर्णसञ्ज्ञम्”

इति लीलावतीवाक्याच्चतुःषष्टिमाषात्मकं पलं ज्ञेयम् ।

कपिलास्वरूपं हेमाद्रौ–

“सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला ।
तृतीया चैव रक्ताक्षी चतुर्थी गुडपिङ्गला ।
पञ्चमी बहुवर्णा स्यात्षष्ठी च श्वेतपिङ्गला ।
सप्तमी श्वेतपिङ्गाक्षी अष्टमी कृष्णपिङ्गला ।
नवमी पाटला ज्ञेया दशमी पुच्छपाटला” इति ।

सुवर्णा सुवर्णवर्णा ।

स्मृत्यन्तरे–“एकवर्णा तु कपिला” इत्यपि कपिलालक्षणमुक्तम् । ‘कांस्यपात्रस्थितविलीनघृतसमानवर्णा कपिला’ इत्यपि कुत्रचित् । 29 अक्षता अखण्डिताः सय्ँयुताः सम्यगेकीभूता मिलिता30 इति यावत्31 । त्वगस्थिगतैर्मलिनैर्देहैर्मलयुक्तैरिति शेषः(?) । उपाकर्म यदि सशिष्यः करोति तदा लौकिकाग्नौ । यद्यशिष्यस्तदौपासने । यद्यपि सूत्रेऽन्वारम्भविधानं स्पष्टं नास्ति तथाऽपि ज्ञापकसिद्धं विधानमस्त्येव । तच्च हुत्वेति वचनम् । तथा च मातृदत्तः– “होमाधिकारे पुनर्हुत्वेति वचनमध्येतॄणां सर्वेषां होमेऽस्त्यधिकार इतिज्ञापनार्थं तेनोक्तमन्वारम्भणं सर्वेषां शिष्याणामिति । गृह्यसूत्रे–अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा32 काण्डर्षीञ्जुहोति काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेद, सामवेदमथर्ववेद सदसस्पतिमिति हुत्वा त्रीनादितोऽनुवाकानधीयन्ते (ते) काण्डादीन्वा सर्वाञ्जयादि प्रतिपद्यते स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति” इति ।

अग्निमुपसमाधाय शिष्यैरन्वारब्धो व्याहृतिपर्यन्तं कृत्वा नव षट्पञ्च चतुरो वा काण्डर्षीञ्जुहोति । व्याख्याताः काण्डर्षयः प्रजापतये काण्डर्षये स्वाहेत्यादि स्वयम्भुवे काण्डर्षये स्वाहेति काण्डर्षय इत्य्-अन्तं सूत्रं क्षेपकं ज्ञेयमसङ्गतत्वाद्भाष्यकृताऽधृतत्वाच्च । काण्डनामान्यपि नव षट्पञ्च चत्वारि वा प्राजापत्यं सौम्यमाग्नेयं वैश्वदेवमिति चत्वारि । पञ्चपक्षे स्वायम्भुवं पञ्चमम् । षट्पक्ष आरुणं षष्ठम् । नवपक्षे सांहितीदेवतोपनिषदादित्रयं च । सावित्र्यादिपदैः सर्वैश्चतुर्थ्यन्तैर्होमः । सदसस्पतिमित्यत्रेतिकरणात्काण्डोपाकरणविसर्गयोश्च दर्शनात् । सदसस्पतिमद्भुतमित्येतस्य प्रतीकग्रहणं वा । सावित्रीमित्यत्राप्येकामृचं केचिन्मन्यन्ते । अधीयन्त(त) इति बहुवचनात्सर्वेषामध्ययनम् । आदित इत्यत्र वेदस्येति शेषः । काण्डानि नव षट्पञ्च चत्वारि वा काण्डानुक्रमणिकोक्तानि । तेषामादिभूताननुवाकान्मन्त्रान्वाऽधीयन्त(त) इत्यर्थः । जयादि प्रतिपद्यत इति वचनं जयाद्युपहोमा33 अत्र नित्या इतिबोधनार्थम् । जयो34 जयोपहोम आदिर्यस्य तज्जयादि । एतादृशं होमसम्बन्धि यदुत्तरं तन्त्रं तत्प्रतिपद्यत इत्यर्थः । अस्मिन्व्याख्याने सन्त्येव वारुण्यादयः । जयादीन्प्रतिपद्यत इतिपाठे तु वारुण्यादिसत्त्वं सुगममेव । प्रतिपद्यत इत्युभयत्र सम्बध्यते । तथा च जयादि प्रतिपद्यते स्विष्ट कृत्प्रतिपद्यत इत्येवमर्थः सम्पन्नो भवति । अन्तं कृत्वेति भिन्नमेव सूत्रम् । अन्तं कर्मणोऽन्तं कृत्वा कर्मशेषं समाप्येत्यर्थः । स्विष्टकृदन्तं कृत्वेत्येकसूत्रकरण उत्तरकर्मलोपापत्तिः । यदि स्विष्टकृदुत्तरभाविकर्मानुष्ठानमावश्यकत्वात्प्रतिपत्तिरूपत्वाच्च कर्तव्यमित्युच्यते तदा स्विष्टकृदन्तं कृत्वेत्यस्यावधिप्रदर्शकसूत्रस्य वैयर्थ्यापत्तिः । न च भवतु स्विष्टकृदुत्तरभाविकर्मलोप इति वाच्यम् । अलोपानुगुण्येनैव सूत्रार्थनिर्वाहेऽन्यथावर्णनस्यानुचितत्वात् । जयादि प्रतिपद्यत इत्यनेनैव कृत्स्नोत्तरतन्त्रप्राप्तौ स्विष्टकृद्ग्रहणमाघारवत्तन्त्रे35 वारुण्यादिहोमाभावेऽपि स्विष्टकृद्धोमो भवत्येवेतिज्ञापनार्थम् । अन्तं कृत्वेति वचनमसति विशेषविधौ स्विष्टकृदनन्तरमेव कर्मसमाप्तिर्यथा स्यात्, न तु कृत्स्नसमाप्त्यनन्तरमितिज्ञापनार्थम् । उपनयने समिदभ्याधानानन्तरमुत्तरपरिषेकस्य विहितत्वाद्विशेषविधिसत्त्वमेवेति तत्रैवं न भवति । काण्डव्रतोपाकरणविसर्गादिषु तु विशेषविध्यभावात्स्विष्टकृदनन्तरमेव कर्मसमाप्तिरिति । क्षम्य, अध्ययनाद्विरम्येत्यर्थः । यथाध्यायमितिवचनं कृतान्तादारभ्यैवाध्येतव्यं न पुनरादितस्त्रीननुवाकानधीत्याध्येतव्यमित्येतदर्थम् । वदन्तीतिवचनं केषाञ्चिदाचार्याणां मते त्रीननुवाकानधीत्यैवाध्ययनमस्तीतिपक्षान्तरसूचनार्थम् ।

ब्रह्मचारिविषये विशेष उक्तः कालादर्शे कार्ष्णाजिनिना–36

“मौञ्जीं यज्ञोपवीतं च नवं दण्डं च धारयेत् ।
कटिसूत्रं चैव नवं नवं वस्त्रं तथैव च” इति ॥

स्मृत्यन्तरेऽपि–

“दण्डाजिनोपवीतानि मेखलां कटिसूत्रकम् ।
धृत्वोपाकरणं कृत्वा ततः स्वाध्यायमारभेत् ॥
पुराणानि विसृज्याथ पुनः पुनरुपक्रमेत्” इति ॥

स्मृतिभामत्यां व्यासोऽपि–

“उपवीतं नवं वस्त्रं कटिसूत्रं च मेखलाम् ।
धारयेदजिनं दण्डं पुराणान्यप्सु निक्षिपेत्” इति ॥

यज्ञोपवीतस्य होमदानधारणान्याह गालवः–

“कृत्वा यज्ञोपवीतानि नवानि वसुधाधिप ।
हुत्वाऽग्नौ गुरवे दत्त्वा पितृभ्यो धारयेत्स्वयम्” इति ॥

सत्यव्रतोऽपि–“नूतनान्युपवीतानि हुत्वा दत्त्वा च धारयेत्” इति । एतच्च गृहस्थवानप्रस्थयोरपि–

“गृहस्थो ब्रह्मचारी वा वनस्थो वाऽपि सूत्रकम् ।
हुत्वाऽग्नौ गुरवे दत्त्वा पितृभ्यो धारयेत्स्वयम्”

इति स्मृतिदर्पणे बैजवापोक्तेः ।

स्मृतौ–

“यज्ञोपवीतमन्त्रेण हुत्वाऽग्नावुपवीतकम् ।
दत्त्वा तु गुरवे नूत्नं37 धृत्वा स्वाध्यायमारभेत्” इति ॥

नूत्नं38 नूतनम् । (39 हुत्वा दत्त्वा च धारयेदितिशास्त्रान्तराद्यज्ञोपवीतहोमस्यापि प्रधानत्वेन कर्तव्यत्वं कैश्चिदुक्तं तत्तुच्छं, हुत्वा दत्त्वा च धारयेदितिक्त्वाप्रत्ययाद्धोमदानयोरुपाकरणोत्सर्जनाङ्गभूतयज्ञोपवीतधारणाङ्ग[त्व]स्यैव प्रतीतेः प्रधानत्वाभावात् । होमदानधारणानि शास्त्रान्तरप्रोक्तत्वात्कृताकृतानि । करणेऽभ्युदयः, अकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । हुत्वेति क्त्वाप्रत्ययः पूर्वकालतामात्रं बोधयति न त्वङ्गत्वं तेन यज्ञोपवीतहोमस्य प्रधानत्वमेवेति यद्युच्यते तदा यज्ञोपवीतहोमाननुष्ठानमेव प्रधानोपसंहारस्यानिष्टत्वात् । अन्यथोपनयनादिष्वपि शास्त्रान्तरोक्तप्रधानहोमकरणापत्तेः40 । न चैवं हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तरोक्तस्य यज्ञोपवीतहोमस्य निरवकाशत्वापत्तिरिति वाच्यम् । यस्मिन्सूत्रे कारिकासु वा यज्ञोपवीतहोमो विहितो भवेत्तत्रैतस्य सावकाशत्वसम्भवात् । अस्ति चायं होमो विहित आश्वलायनगृह्यकारिकासु । दानधारणयोस्तु प्रधानत्वाभावादुपसंहारः शक्तौ सत्यां न विरुद्धः ।)

दानफलमुक्तं वायुपुराणे–

“उपाकर्मणि चोत्सर्गे यो दद्यादुपवीतकम् ।
आयुष्माञ्जायते तेन कर्मणा मानवो भुवि” इति ॥

स्मृतिभामत्यां गोभिलः–

“उपाकर्मोत्सर्जनं च वनस्थानामपीष्यते ।
धारणाध्ययनाङ्गत्वाद्गृहिणां ब्रह्मचारिणाम् ॥
उत्सर्जनं च वेदानामुपाकरणकर्म च ।
अकृत्वा वेदजाप्येन फलं नाऽऽप्नोति मानवः” इति ।

एतत्किञ्चिदध्ययनवतोऽप्यावश्यकम्–

“अकृतोपाकृतिर्विप्रो दानहोमजपादिकम् ।
यद्यत्करोति तत्सर्वं निष्फलं तस्य वै भवेत्”

इति संस्कारमञ्जर्यां सङ्ग्रहवचनात् । आदिशब्देनार्चनादि ज्ञेयम् ।

विश्वप्रकाशे–

“उपाकर्मोत्सर्जनयोः श्रौतानां कर्मणां तथा ।
प्रथमानुष्ठितावेव स्वस्तिवाचनमिष्यते” इति ।

स्वस्तिवाचनग्रहणं मातृकापूजनवृद्धिश्राद्धयोरुपलक्षणम् ।

(41 श्रावण्यामभ्यङ्गोऽप्युक्तो मानवसूत्रानुसारिपद्धतौ–

“श्रावण्यां बलिराज्ये च वसन्तदर्शने तथा ।
तैलाभ्यङ्गमकुर्वाणो नरकं प्रतिपद्यते” इति ॥)

ब्रह्मकूर्चहोमप्रयोगः

अथ ब्रह्मकूर्चहोमप्रयोगः ।

कर्ता नदीप्रस्रावो यस्मिन्देशे तत्र तीर्थे यज्ञागारे गवां गोष्ठे देवतायतने निर्जनेऽरण्ये4243 देशे रहस्ये ग्रामेऽप्येकान्ते44 देशे वा स्नातः शुक्लवासा जितेन्द्रियः शुचिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्योपाकर्म कर्तुमादौ शरीरशुद्ध्यर्थं ब्रह्मकूर्चहोमं पञ्चगव्याशनं च करिष्य इति सङ्कल्पं कुर्यात् । उत्सर्जनस्याप्यस्मिन्दिने क्रियायाम्–उत्सर्जनोपाकर्मणी कर्तुमादाविति सङ्कल्पवाक्य ऊहः कार्यः ।

ततः स्थण्डिलं कृत्वा तद्गोमयेनोपलिप्योद्धननादिसंस्कारं विधाय तत्र विण्नामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा इत्य्-आदि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा, प्रधानहोमे–अग्निं पञ्चगव्याहुत्या45 यक्ष्ये । सोमं पञ्चगव्याहुत्या यक्ष्ये । विष्णुं तिसृभिः46 पञ्चगव्याहुतिभिर्यक्ष्ये । रुद्रं पञ्चगव्याहुत्या यक्ष्ये । अत्रोदकस्पर्शः । सवितारं पञ्च० । ब्रह्म पञ्च० । परमात्मानमग्निं वा प्रणवेन पञ्चगव्यचतुर्थभागेन47 यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणं48 द्वाभ्यामाज्याहुतिभ्यामित्यादि, अग्निं स्विष्टकृतं49 हुतशेषाज्याहुत्या यक्ष्य इत्य्-आदि वा, समिदभ्याधानान्तं कृत्वा,50 पात्रासादने दर्वीं सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धान्दर्भानाज्यस्थालीं51 पञ्चगव्यार्थं पाद्मं पालाशमुदुम्बरवृक्षनिर्मितं बिल्ववृक्षनिर्मितं वा ताम्रमयं वा पात्रं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं सम्मार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं पञ्चगव्यानि चाऽऽसाद्य ब्रह्मवरणादि, तत्र52 दर्वीसम्मार्गानन्तरं होमार्थदर्भाणामपि दर्वीवत्सम्मार्गः । तत आज्यविलापात्पूर्वमेवापरेणाग्निं दर्भेषु पञ्चगव्यार्थमासादितं पात्रं निधाय तस्मिन्पवित्रे निधाय तत्सवितुरित्यस्य विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । पञ्चगव्यार्थं गोमूत्रादाने विनियोगः– ‘तत्सवितुर्व० यात्’ इति नीलवर्णाया गोः पलपरिमितं मूत्रं पञ्चगव्यार्थ आसादिते पात्रे गृहीत्वा, गन्धद्वारामित्यस्य53 याज्ञिक्यो देवता उपनिषद ऋषिः श्रीर्देवता । अनुष्टुप्छन्दः । गोमयादाने विनियोगः– ‘गन्धद्वारां० श्रियम्’ इति तस्मिन्गोमूत्रे कृष्णाया गोरङ्गुष्ठापरिमितं54 शकृद्गृहीत्वा, आप्यायस्वेत्यस्य सोमोऽग्निर्वा ऋषिः सोमो देवता गायत्रीच्छन्दः क्षीरादाने विनियोगः– ‘आप्यायस्व स० सङ्गथे’ इति ताम्रवर्णाया गोः सप्तपलपरिमितं क्षीरं तस्मिन्नेव गृहीत्वा, दधिक्राव्ण इत्यस्य विश्वे देवा ऋषयः । दधिक्रावा देवताऽनुष्टुप्छन्दः, दध्यादाने विनियोगः–दधिक्राव्णो अ० तारिषत्" इति श्वेताया गोः पलत्रयपरिमितं दधि तस्मिन्नेव गृहीत्वा, शुक्रमसीत्यस्य प्रजापतिर्ऋषिः, आज्यं देवता, यजुः, आज्यादाने विनियोगः–‘शुक्रमसि ज्योतिरसि तेजोऽसि’ इति कपिलाया गोरेकपलमितमाज्यं तस्मिन्नेव गृहीत्वा, देवस्य त्वेत्यस्य प्रजापतिरग्निः55 सोमो वा ऋषिः । उदकं देवता, यजुः । कुशोदकादाने विनियोगः– ‘देवस्य त्वा सवितुः० हस्ताभ्यां गृह्णामि’ इत्येकपलपरिमितं सप्तभिः कुशैः स्रावितमुदकं तस्मिन्नेव गृह्णीयात् । देवस्य त्वेत्यस्मिन्मन्त्रेऽभिषिञ्चामीति वाक्यशेषं केचिदाहुः ।

तत आपो हि ष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा56 वा ऋषयः । आपो देवता, गायत्रीछन्दः । पञ्चगव्यमन्थने विनियोगः–‘आपो हि ष्ठा० था च नः’ इति57 तैरेव सप्तभिः कुशैरन्यैर्वा मन्थेत् ।

तत आज्यं विलाप्येत्यादि पर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणं, बर्हिष्याज्यासादनानन्तरमाज्यस्योत्तरतो बर्हिषि पञ्चगव्यपात्रासादनम् । आज्योत्पवनानन्तरं पञ्चगव्यस्याप्युत्पवनमिति केचित् ।

ततः पवित्रप्रहरणादि, अन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा पञ्चगव्यहोमं कुर्यात् ।

स यथा–आसादितान्सप्त दर्भान्गृहीत्वा तैरुद्धृत्योद्धृत्य जुहोति । (58 अशक्यत्वाद्दर्भेषु दर्वी सहायार्थं ग्राह्या । अग्नये स्वाहा सोमाय स्वाहेत्यनयोर्वामदेवो विश्वे देवा ऋषयः । अग्नीषोमौ क्रमेण देवते यजुः पञ्चगव्यहोमे विनियोगः ।) ‘अग्नये स्वाहा’ अग्नय इदं० । ‘सोमाय स्वाहा’ सोमायेदं० । इरावतीमितिमन्त्रस्य सोमो विष्णुस्त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः–‘इरावती धेनु० मयूखैः स्वाहा’ विष्णव इदं० । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । पञ्चगव्यहोमे विनियोगः– इदं विष्णुर्विचक्रमे० पा सुरे स्वाहा’ विष्णव इदं० । विष्णोर्नुकमित्यस्य सोमो विष्णुस्त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः– ‘विष्णोर्नुक० गायः स्वाहा’ विष्णव इदं० । मा नस्तोक इत्यस्याग्नी रुद्रो59 जगती । पञ्चगव्यहोमे विनियोगः–‘मा नस्तोके तनये० विधेम ते स्वाहा’ रुद्रायेदं० । अप उपस्पृश्य, तत्सवितुरिति गायत्र्या विश्वामित्र ऋषिः । सविता देवता गायत्री छन्दः । पञ्चगव्यहोमे विनियोगः– ‘तत्सवितुर्वरेण्यं भर्गो० यात्स्वाहा’सवित्र इदं० । ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा60 त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः– ‘ब्रह्म जज्ञानं० विवः स्वाहा’ ब्रह्मण इदं०61 अवशिष्टपञ्चगव्यस्य चतुर्थभागं पालाशपत्र उद्धृत्य, प्रणवस्य परब्रह्मर्षिः परमात्मा देवता गायत्री छन्दः । पञ्चगव्यचतुर्थभागहोमे विनियोगः । ‘ॐ स्वाहा’ इत्य्-आवृत्तेन प्रणवमन्त्रेण यावतीभिराहुतीभिश्चतुर्थभागहोमो भवति तावतीराहुतीर्दर्भैरेव जुहुयात् । परमात्मन इदं० । अन्वाधाने यद्यग्नेरुत्कीर्तनं कृतं भवति तदा प्रणवस्य देवतोत्कीर्तनेऽग्निरुत्कीर्तनीयः । अस्मिन्कल्पेऽग्नय इदमिति त्यागः ।

ततोऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य तेनैवाभिमन्त्र्याऽऽसनाद्बहिरुपविश्य प्रणवेन62 हस्तेनाऽऽदौ किञ्चित्पीत्वाऽवशिष्टं सर्वं हस्तेन पात्रान्तरेण वा तूष्णीमेव पिबेत् । अत्रापि पूर्ववदृष्यादिस्मरणम् । पञ्चगव्यालोडने विनि योगः । पञ्चगव्याभिमन्त्रणे विनियोगः । पञ्चगव्यपाने विनियोगः । इति विनियोगवाक्येषु विशेषः ।

ततो हस्तपादमुखप्रक्षालनं63 कृत्वा पवित्रे त्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा स्वासन उपविश्य64 स्विष्टकृदाद्यङ्गहोमादि वा पूर्वान्तानुसारेण होमशेषं समापयेत् । अयं च सर्वैरपि पृथक्पृथगेव कार्यः । एतच्च कृताकृतम् ।

आपूर्विकतन्त्रेण प्रयोगः

अथापूर्विकतन्त्रेण प्रयोगः ।

कर्ताऽऽचमनाद्यन्वाधानाङ्गभूतप्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा65 इत्य्-आदि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा, प्रधानहोमे, अग्निं पञ्चगव्येन यक्ष्य इत्य्-आदि पञ्चगव्यचतुर्थभागेन66 यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्य इत्य्-अन्तमुक्त्वा समिधोऽग्नावाधायाग्निं परिस्तीर्य दर्वीं सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धान्दर्भानाज्यस्थालीं पञ्चगव्यार्थं पाद्माद्यन्यतमं पात्रमुपवेषं67 सम्मार्गदर्भानिध्मं68 बर्हिरवज्वलनदर्भानाज्यं पञ्च गव्यानि समिधं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं दर्भांश्च सम्मृज्य पञ्चगव्यं निष्पाद्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् । पर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् ।

ततः–“अदितेऽनुमन्यस्व” इति परिषेकं कृत्वाऽऽसादितां समिधमाधाय पूर्ववत्प्रधानाहुतीर्हुत्वाऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य प्रणवेन सर्वं69 पूर्ववत्पिबेत् ।

ततो हस्तपादमुखप्रक्षालनं70 कृत्वा पवित्रे त्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा व्यस्तसमस्तव्याहृतिभिश्चतस्र आहुतीर्जुहुयात् । एतद्धोमाकरणे नाऽऽज्यसंस्कारः । पञ्चगव्यस्य पर्यग्निकरणं भवत्येव । ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कुर्यात् । इति ब्रह्मकूर्चहोमप्रयोगः ।

अथोपाकरणप्रयोगः ।

कर्ता कृतनित्यक्रियः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, अध्येष्यमाणानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिद्वारा71 श्रीपरमेश्वरप्रीत्यर्थं वेदोपाकरणाख्यं कर्म करिष्य इति सङ्कल्पं कुर्यात् । (72 अयं73 सङ्कल्पः प्रथमोपाकरणोत्तरं वेदारम्भ इति पक्षे । तत्पूर्वं वेदाध्ययनारम्भ74 इति पक्षे तु– अधीतानां छन्दसामध्येष्यमाणानां चास्थानोच्छ्वासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिपुनर्वेदग्रहणाधिकारसिद्धिद्वारेत्येवं सङ्कल्पः । द्वितीयाद्युपाकर्मणि तु–अध्येष्यमाणानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिपुनर्वेदग्रहणाधिकारसिद्धिद्वारेत्येवं सङ्कल्पः ।) यदा तु स्वस्यान्तेवासिनः शिष्याः स्युस्तदा75 श्रीपरमेश्वरप्रीत्यर्थमित्यनन्तरमेभिः शिष्यैः सह वेदोपाकरणाख्यं कर्म करिष्य इत्येवमूहेन सङ्कल्पः कार्यः । उपाकरणकर्मसङ्कल्पः सर्वैरपि कार्य इति76 सम्प्रदायः । कृतविवाहैः शिष्यैस्तु केनचिन्निमित्तेन गुरुसान्निध्येऽपि पृथगेवोपाकर्म कार्यम्77 । उपाकर्मप्रथमप्रयोगाङ्गभूतं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च प्रधानसङ्कल्पोत्तरं तत्पूर्वं वा तत्पित्रा तदभावे तत्पितामहादिभिः कारयेत् । सर्वेषामप्यभाव78 आचार्य एव कुर्यात् । तत्र संस्कार्यस्य पितॄणामुत्कीर्तनम्79 । यदि पितैवाऽऽचार्यस्तदा प्रथमोपाकर्मप्रयुक्तं गणपतिपूजनादि स्वयमेव कुर्यात् । प्रथमोपाकर्म भद्राव्यतीपाताधिमासास्तादिषु न भवति । अत्रोक्तं सम्भवद्दिनं ग्राह्यम् । द्वितीयादिष्वपि80 शुद्धकालान्तरसम्भवे भद्राव्यतीपाताधिमासास्तादिनिषेधोऽस्त्येवेति केचित् । तत आचार्य उपाकर्माङ्गभूतहोमार्थस्य81 स्थण्डिलस्य गोमयोपलेपनोद्धननादिसंस्कारं विधाय बलवर्धननामानमग्निं प्रतिष्ठापयामीति लौकिकाग्निं तत्र प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । यदि शिष्या न स्युस्तदौपासनाग्निमेव बलवर्धननामाऽयमग्निरिति ध्यायन्प्रज्वाल्य ध्यायेत् । नोद्धननादिप्रतिष्ठापनान्तमत्र । ततोऽन्वाधानम् । समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्य्-आदिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिं चाऽऽज्येन यक्ष्ये । यज्ञोपवीतधारणाङ्गभूतयज्ञोपवीतहोमे परमात्मानं यज्ञोपवीतेन यक्ष्ये । जयोपहोमे चित्तं चित्तिमित्यादि । स्वायम्भुवकाण्डस्य वैश्वदेवकाण्डानन्तर्भावपक्षे विश्वान्देवान्काण्डर्षीनित्येतदनन्तरं स्वयम्भुवं काण्डर्षिमित्युक्त्वा सावित्रीमित्यादि वदेत् । आरुणकाण्डस्याप्यनन्तर्भावपक्षे स्वयं

भुवं काण्डर्षिमित्यनन्तरमरुणान्काण्डर्षीनित्युक्त्वा सावित्रीमित्यादि वदेत् । सांहितीदेवतोपनिषदादीनामप्यनन्तर्भावपक्षेऽरुणान्काण्डर्षीनित्यनन्तरं सांहितीर्देवता उपनिषदो वारुणीर्देवता उपनिषदो याज्ञिकीर्देवता उपनिषद

इत्युक्त्वा सावित्रीमित्यादि वदेत् । तत्सवितुरित्यनेन होमपक्षे सावित्रीमित्येतस्य स्थाने सवितारमित्युत्कीर्तयेत् । काण्डनामभिर्होमपक्षे प्रधानहोमे प्राजापत्यं काण्डं सौम्यं काण्डमाग्नेयं काण्डं वैश्वदेवं काण्डं सावित्रीमृग्वेदमित्यादि । स्वायम्भुवकाण्डस्यानन्तर्भावपक्षे वैश्वदेवं काण्डमित्येतदनन्तरं स्वायम्भुवं काण्डमित्युक्त्वा सावित्रीमित्यादि समानम् । आरुणकाण्डस्याप्यनन्तर्भावपक्षे स्वायम्भुवं काण्डमित्येतदनन्तरमरुणं काण्डमित्युक्त्वा सावित्रीमित्यादि । सांहितीदेवतोपनिषदादीनामप्यनन्तर्भावपक्ष आरुणं काण्डमित्येतदनन्तरं सांहितीदेवतोपनिषत्काण्डं वारुणीदेवतोपनिषत्काण्डं याज्ञिकीदेवतोपनिषत्काण्डमित्युक्त्वा सावित्रीमित्यादि समानम् । पात्रासादन आज्यासादनोत्तरमुपवीतासादनम् । व्याहृतिहोमान्ते ‘प्रजापतये काण्डर्षये स्वाहा’ प्रजापतये काण्डर्षय इदं न मम । ‘सोमाय काण्डर्षये स्वाहा’ सोमाय काण्डर्षय इदं न मम । ‘अग्नये काण्डर्षये स्वाहा’ अग्नये काण्डर्षय इदं न मम । ‘विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा’ विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं न मम । ‘स्वयम्भुवे काण्डर्षये स्वाहा’ स्वयम्भुवे काण्डर्षय इदं न मम इत्यन्वाधानोत्कीर्तनानुसारेण चतुरः पञ्च वा काण्डर्षीञ्जुहुयात् । अन्वाधाने षण्णामुत्कीर्तने–अरुणेभ्यः काण्डर्षिभ्यः स्वाहेति षष्ठीं जुहुयात् । नवानामुत्कीर्तने सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेति सप्तमीम्, वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेत्यष्टमीं, याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेति नवमीं जुहुयात् । यथालिङ्गं त्यागः । अन्वाधाने काण्डनामोत्कीर्तने ‘प्राजापत्याय काण्डाय स्वाहा, प्राजापत्याय काण्डायेदं न मम । सौम्याय काण्डाय स्वाहा, सौम्याय काण्डायेदं न मम । आग्नेयाय काण्डाय स्वाहा । आग्नेयाय काण्डायेदं न मम । वैश्वदेवाय काण्डाय स्वाहा । वैश्वदेवाय काण्डायेदं न मम । स्वायम्भुवाय काण्डाय स्वाहा । स्वायम्भुवाय काण्डायेदं न मम’ इत्यन्वाधानोत्कीर्तितपक्षानुसारेण चतुर्भिः पञ्चभिर्वा काण्डनामभिर्होमः । अन्वाधाने षण्णामुत्कीर्तने–आरुणाय काण्डाय स्वाहेति षष्ठ्याहुतिः । नवानामुत्कीर्तने सांहितीदेवतोपनिषत्काण्डाय स्वाहा । वारुणीदे० त्काण्डाय स्वाहा । याज्ञिकीदे० त्काण्डाय स्वाहेत्यारुणकाण्डाहुतेरनन्तरमेतास्तिस्रो होतव्याः । यथालिङ्गं त्यागः । ततः सावित्र्यै स्वाहा । सावित्र्या इदं० । अन्वाधाने सवितुरुत्कीर्तने तत्सवितुरिति गायत्र्या स्वाहान्तया होमः । एतस्या ऋष्यादि पूर्ववत् । उपाकर्मप्रधानाज्यहोमे विनियोग इति विनियोगे विशेषः । सवित्र इदमिति त्यागः । तत ऋग्वेदाय स्वाहा । ऋग्वेदायेदं न मम । यजुर्वेदाय स्वाहा । यजुर्वेदायेदं न मम । सामवेदाय स्वाहा । सामवेदायेदं न मम । अथर्ववेदाय स्वाहा । अथर्ववेदायेदं न मम । सदसस्पतये स्वाहा । सदसस्पतय इदं न मम । अथवा ‘सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिष स्वाहा’ इति मन्त्रेण होमः । एतस्यर्ष्यादिकाण्डव्रतप्रकरण उक्तम् । उपाकर्मप्रधानाज्यहोमे विनियोग इति विनियोगे विशेषः । त्यागस्तु स एव । ततो दर्व्यां यज्ञोपवीतं गृहीत्वा यज्ञोपवीतं परममित्यस्य परब्रह्म82 परमात्मा देवता त्रिष्टुप् । यज्ञोपवीतधारणाङ्गभूतहोमे विनियोगः । ‘यज्ञोपवीतं० तेजः स्वाहा’ इत्यग्नौ जुहोति । परमात्मन इदमिति त्यागः । अत्राऽऽचाराद्ब्रह्मचारिणे यज्ञोपवीतं मेखलामजिनं दण्डं च तत्तत्मन्त्रेण दत्त्वा जीर्णान्यप्सु प्रक्षिपेदिति शिष्टाः । सर्वैर्यथाचारं यज्ञोपवीतानि ब्राह्मणेभ्यो दत्त्वा विधिना धार्याणि । (83 दानधारणे शास्त्रान्तरोक्तत्वात्कृताकृते । एवं तदङ्गभूतहोमोऽपि ।) ततः सर्वे ‘इमे त्वा यज्ञस्य शुन्धध्वम्’ इति त्रीननुवाकानधीयते । अथवा–इषे त्वेत्यनुवाकः । आप उन्दन्त्वित्यनुवाकः । धर्मः शिरस्तदयमग्निरित्यनुवाकः । अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीति संहिताप्रथमकाण्डस्याष्टमप्रश्नाद्यानुवाकः । सह वै देवानामिति खण्डद्वयम् । भद्रं कर्णेभिरित्यनुवाको मन्त्रद्वयं वा । शीक्षां व्याख्यास्याम इत्यनुवाकः84 । भृगुर्वै वारुणिरित्यनुवाकः । अम्भस्य पारे भुवनस्य मध्य इत्यनुवाक एकर्ग्वा85 । इत्येते काण्डादयस्तानधीयीरन् । खण्डद्वयाध्ययने पूर्वमुत्तरं च नमो ब्रह्मण इति शान्तिं पठेत् । भद्रपश्नाद्यध्ययने भद्रं कर्णेभिरिति पूर्वमुत्तरं86 च शान्तिः । शीक्षाप्रपाठकाद्यध्ययने87 शं नो मित्र इति यथायथं पूर्वोत्तरे शान्ती । इतरप्रपाठकाद्यध्ययने88 प्रतिप्रपाठकादि सह नाववत्विति पूर्वमुत्तरं89 च शान्तिः । होमानुसारेण काण्डाद्यध्ययनं90 कर्तव्यम् । एतदनुसारेणैव काण्डव्रतवेदपारायणोपाकरणोत्सर्जनयोरपि91 द्रष्टव्यम् । सर्व आरण्यकमन्त्रा उपांश्वेव वक्तव्याः । यद्यनारब्धवेदाः शिष्याः स्युस्तदाऽऽचार्यो वाचयेत् । उपाकरणात्पूर्वमेवेषेत्वेत्यनुवाकत्रयं काण्डादीन्वाऽध्यापयेदिति केचित् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य उपाकृता92 वै वेदाः । त्र्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्निं सम्पूज्य विभूतिं धृत्वा विष्णुं संस्मरेत् । नात्र त्रिवृदन्नहोमः । ततस्त्र्यहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादध्येतव्यम् । न वाऽनध्यायः । उपाकर्मदिनमारभ्य मासपर्यन्तं प्रदोषे नाध्येतव्यम् । ‘श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत’ इति धर्मसूत्रात् । व्याख्यातमेतदुज्ज्वलाकृता–

“मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रमासास्तदन्ताः स्युश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः”

तदेवं सिंहस्थे सवितरि या93 याऽमावास्या तदन्तचान्द्रमासे या मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा न वा । तस्यां श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य गृह्योक्तेन विधिनोपाकर्म कृत्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेकं प्रदोषे नाधीयीत प्रथमे रात्रिभागे नाधीयीत ग्रहणाध्ययनं धारणाध्ययनं च न कुर्यात् । प्रदोषग्रहणाद्रात्रावप्यूर्ध्वं न दोष इति । प्रदोषशब्देन पूर्वरात्रिर्विवक्षितेति माधवः ।

अस्मिन्दिने पतिमत्यो नार्यः सभादीपदानं कुर्वन्ति । एतच्चाऽऽचारप्राप्तम् । देशकालौ सङ्कीर्त्य मम सौभाग्याद्यभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सभादीपदानं करिष्य इति सङ्कल्प्य गणपतिपूजनं दीपपूजनं विप्रपूजनं च कृत्वा

“भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि मे पुत्रानवैधव्यं च देहि मे ।
श्रावणे मास्युपाकर्मप्रारम्भे विप्रसन्निधौ ।
व्रीहितण्डुलपिष्टानां पलाशीत्या विनिर्मितम् ।
घृतवर्तिसमायुक्तं विमले कांस्यभाजने ।
स्थापितं तण्डुलप्रस्थयुक्पूगीफलसय्ँयुतम् ।
मातुलिङ्गश्रीफलादिपञ्चसङ्ख्यफलैर्युतम् ।
अवैधव्यसुपुत्रत्वदीर्घायुःश्रीसुखाप्तये ।
अभीष्टस्यास्तु मे प्राप्तिर्भवेऽस्मिंश्च भवान्तरे ।
श्रावण्यां श्रवणर्क्षे च सभायामग्निसन्निधौ ।
सभादीपं प्रदास्यामि तुभ्यं विप्र सदक्षिणम्” ।

इति सदक्षिणं विप्राय दद्यात् । प्रतिगृह्णामीति विप्रः । एवं पञ्चवर्षपर्यन्तं श्रावण्यां पौर्णमास्यां दीपदानं कृत्वोद्यापनं कुर्यात् । पञ्चवर्षपर्यन्तं कृतस्य सभादीपप्रदानकर्मणः सम्पूर्णताया उद्यापनं करिष्य इति सङ्कल्प्य गणपतिं सम्पूज्य पञ्चप्रस्थसम्मितानि पञ्च धान्यानि पञ्चसु पात्रेषु भूमौ वा निधाय मध्यस्थधान्यराशौ प्रस्थपरिमिततण्डुलपूरितं पात्रं निधाय तत्र दीपं संस्थाप्य तत्समीपे यथासम्भवसुवर्णनिर्मिते रजतनिर्मिते वा दीपपात्रे यथासम्भवसुवर्णनिर्मितां वर्तिकां निधाय तत्समीपे कार्पासवर्तिकां घृताभ्यक्तां निधाय दीपद्वयं प्रज्वाल्य दीपपात्रद्वयं यज्ञोपवीतेन वेष्टयित्वा वस्त्रद्वयं समीपे संस्थाप्य दीपं विप्रं च सम्पूज्य सभादीपदानसम्पूर्णताया इमं सोपस्करं सदक्षिणं सभादीपं सम्प्रददे न ममेति दद्यात् । इत्य्-आचारप्राप्तं सभादीपप्रदानम् ।

अथोत्सर्जनम् ।

तत्रेदं गृह्यम्– ‘तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः’ इति । तिष्येण युक्ता सन्निहिता वा पौर्णमासी तैषी तया युक्तः पक्षस्तैषीपक्षः । तैषमासशुक्लपक्ष इति यावत् । पुष्यस्यैव तिष्य इति नामान्तरम् । तैषशुक्लपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः । उत्सर्जनं कर्तव्यमित्यर्थः । अध्यायस्येति शेषः । धर्मसूत्रेऽपि– ‘तैषीपक्षस्य रोहिण्यां विरमेत्’ इति । पुनरिदं वचनं रोहिण्या मुख्यत्वं द्योतयितुम् । पर्वनक्षत्रनिर्णयः पूर्ववदेवात्रापि द्रष्टव्यः । रोहिणीपौर्णमास्योरर्धरात्रात्पूर्वं सङ्क्रान्तिग्रहणसत्त्वे माघ्यां पौर्णमास्यां हस्ते वा कार्यं बौधायनसूत्रात् । अर्धरात्रोत्तरं सङ्क्रान्तिग्रहणसत्त्वे तु तस्मिन्नेव दिने कार्यम् । अस्तादिनिर्णयोऽपि पूर्ववदेव ।

अथोत्सर्जनविधिः ।

तत्र सूत्रम्–

“सगणः प्राचीनमुदीचीं वा दिशमुपनिष्क्रम्य यत्राऽऽपः सुखाः सुखावगाहास्तत्रावगाह्याऽऽधमर्षणेन त्रीप्राणायामान्कृत्वा सपवित्रैः पाणिभिरापो हि ष्ठेति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चैतेनानुवाकेन स्नात्वा” इति ।

सगणः सशिष्यगणः । सशिष्य इत्येव वक्तव्ये सगण इतिवचनं स्वसन्निधौ स्थितानामकृतविवाहानामेवात्र ग्रहणं नेतरेषामितिद्योतनार्थम् । तेन कस्यचित्कृतविवाहस्य गृहस्थाश्रमिणः शिष्यस्य पुनर्गुरुसन्निधानेऽपि पृथगेवोत्सर्जनं भवति । एवमुपाकर्मापि । प्राचीमित्यतः पूर्वं ग्रामादिति शेषः । गत्वेति परित्यज्योपनिष्क्रम्येति वचनादेवं ज्ञायते ग्रामान्निर्गमन एव प्राच्या उदीच्या वा दिशो नियमो न गमन इति । यत्र यस्मिन्देशे सुखा निर्मलाः सुखस्पर्शाश्च सुखावगाहा ग्राहादिरहितत्वेन सुखेनावगाह्यास्तत्रावगाह्य निमज्ज्य स्नात्वेतियावत् । अत्र पूर्वं भस्मगोमयमृत्तिकास्नानाख्यं कर्म, हिरण्यशृङ्गमिति तीर्थेशप्रार्थनं, नमोऽग्नयेऽप्सुमत इति देवतानमनं, सुमित्रा न इति मार्जनं, दुर्मित्रा इत्य्-आदिभिस्त्रिभिर्मन्त्रैर्द्वेष्यदिशि जलक्षेपणं, यदपां क्रूरमिति जलदोषदूरीकरणम्, अत्याशनादित्येतन्मन्त्रपठनम्, इमं मे गङ्ग इति नदीप्रार्थनं च कार्यम् । ऋतं च सत्यं चेत्येतत्तृचात्मकं सूक्तमाघमर्पणं तेन त्रीन्प्राणायामान्कुर्यात् । निमज्ज्येत्यत्रत्यक्त्वाप्रत्ययेन निमग्नः सन्नेव प्राणायामान्कुर्यादिति बोध्यते । आघमर्षणसूक्तपाठप्राणायामयोः समानकालिकत्वमेवात्र न तु सूक्तान्ते प्राणायामः । निमग्नस्य प्राणयमनं94 विना तत्पाठासम्भवात् । अयं च सूक्तपाठो मनसैव न तूपांशु यजुर्वेदेन क्रियत इतिपरिभाषाप्राप्तमुपांशुत्वं सम्भवति । तत्राप्युच्चारणस्य सत्त्वेन तदसम्भवात् । करणवदशब्दममनःप्रयोगमुपांश्विति ह्युपांशुलक्षणम् । अवगाह्याऽऽघमर्षणेन त्रीन्प्राणायामान्कृत्वेत्येतत्सूत्रम् ।

“अवगाह्य जले मग्नं ऋतं चेति तृचं पठन् ।
मनसा प्राणमायच्छत्त्रिवारमिदमीरितम्” ॥

इति स्मृतिवचनानुरोधादित्थं व्याख्यातम् । अथवाऽऽघमर्षणं सूक्तं जले घ्राणं नियोज्य पठित्वा तदन्ते प्राणायाम इति यथाश्रुत एवार्थः । तथा च स्मृतिः–

“सय्ँयोज्य वारिणि घ्राणमृतं चेति तृचेन तु ।
त्रिरावृत्तेन त्रीन्कुर्यात्प्राणायामान्सदा बुधः” इति ।

अस्मिन्कल्प उपांशुधर्मेण ऋतमिति तृचं पठित्वा तदन्ते प्राणायामः कार्यः । एवमन्यौ द्वौ प्राणायामौ, इति प्रयोगः । पूर्वकल्पे तु निमग्नः सन्नेव मनसा ऋतमिति तृचं पठन्प्राणायामं कुर्यात् । एवमन्यौ द्वौ, इति प्रयोगः । उभयकल्पेऽपि अत्राऽऽतमितोरितिवचनाभावान्न यावद्बलत्वनियमः । त्रिः प्राणमायच्छेदित्येव वक्तव्ये त्रीन्प्राणायामानित्येवं वचनं त्रिष्वपि मन्त्रवत्ता, न तु सकृन्मन्त्रेण द्विस्तूष्णीमितिज्ञापनार्थम् । त्रीनितिवचनं चतुरादिसङ्ख्यानिवृत्त्यर्थम् । स्मृतित एव सपवित्रपाणित्वे सिद्धेऽत्र वचनं पूर्वधृतपवित्रत्यागं द्योतयति । चकारः शास्त्रान्तरोक्तद्रुपदामन्त्रसमुच्चयार्थः । यत्पृथिव्या रजस्वे(जः स्वमि) त्यादिमन्त्रसाध्यानां मार्जनोत्तरकर्मणामप्यत्र सङ्ग्रहः । सपवित्रपाणय इत्येवं वक्तव्ये सपवित्रैः पाणिभिरित्येवं वचनं केवलं सोदकैः पाणिभिरेव मार्जनं न तु दर्भैरित्येवमर्थम् । स्नात्वेत्यस्य मार्जयित्वेत्यर्थः । तथा च स्मृतिः–“स्नात्वा त्रिः प्राणमायच्छेदब्लिङ्गैर्मार्जनं ततः” इति ।

एवं स्नानं कृत्वा देवर्षिपितृपूजनं कुर्यात् । तत्र सूत्रम्– ‘दर्भानन्योन्यस्मै सम्प्रयच्छन्तोऽदित्सन्त इवान्योन्यम्’ इत्य्-आदि ‘अमुष्मै नमोऽमुष्मै नमः’ इत्य्-अन्तम् । दर्भानन्योन्यस्मै सम्प्रयच्छन्त इत्यस्याऽऽसनानि कल्पयन्तीत्यत्रान्वयः । तेनाऽऽसनार्थमिदं दर्भदानम् । सम्प्रयच्छन्त इति शतृप्रत्ययाद्दानासनकल्पनयोः समकालिकता । अन्योन्यस्मै परस्परमित्यर्थः । अदित्सन्त इवान्योन्यमिति दाने विशेषोऽयमदृष्टार्थं विधीयते । अन्योन्यं परस्परमदित्सन्त इव दातुमनिच्छन्त इव दर्भान्सम्प्रयच्छन्त इत्यर्थः । अथवा सम्प्रयच्छन्त आदित्सन्त इवान्योन्यमिति पाठः । अन्योन्यं प्रत्यादित्सन्तो मुष्णन्त इव दर्भान्सम्प्रयच्छन्त इत्यर्थः । दर्भदानासनकल्पनयोर्मध्ये दर्भदानं सव्यहस्तेन तस्यामुख्यत्वात् । आसनकल्पनं तु मुख्यं कार्यं मुख्येन दक्षिणहस्तेन । एवं चोभयोर्न समानकालिकत्वासम्भवः । दर्भदानस्य प्रयोजनाकाङ्क्षायामनन्तरविहितासनकल्पनार्थत्वे सामर्थ्यादवगते सति अर्थादासनकल्पनस्य मुख्यत्वं सिध्यति । दक्षिणहस्तस्य मुख्यत्वं तु–

“यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः”

इति च्छन्दोगपरिशिष्टात्, ‘एकाङ्गवचने दक्षिणं प्रतीयादनादेशे’ इत्य्-आश्वलायनसूत्राच्च ज्ञेयम् । तत इत्यस्य तस्मिन्नित्यर्थः । समीपसप्तमीयम् । तच्च सामीप्यं पूर्वं स्नानोपक्रमाज्जलस्य ज्ञेयम् । स्मृतित एव शुचिदेशस्य प्राप्तावत्र विधानं शुद्धस्यापि देशस्य गोमयोपलेपनेनापि शुद्धिरस्मिन्नवसरेऽवश्यं कार्येतिज्ञापनार्थम् । प्राचीनप्रवण इतिवचनं समत्वोदक्प्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । प्राचीनप्रवणः प्राच्यां दिशि निम्न इत्यर्थः । उदगग्रताया अपि पक्षे प्राप्तत्वात्तद्बाधनार्थं प्रागग्रैरिति दर्भविशेषणम् । दर्भैरितिबहुवचनात्त्रयस्त्रयो दर्भा ज्ञेयाः ।

“ऋषीणामासनं दर्भैः सप्तभिः सप्तभिः स्मृतम्”

इति स्मृतितः सप्त सप्त वाऽऽसने दर्भाः । एतस्यां स्मृतावृषिग्रहणं देवपित्रुपलक्षणम् । तेन देवपित्रासनदर्भाणामपि सप्तसङ्ख्या ज्ञेया । उदगपवर्गाणीतिवचनं पक्षे प्राप्तायाः प्रागपवर्गताया बाधनार्थम् । कल्पयन्तीतिबहुवचनाच्छिष्यैरपि पृथक्पृथगासनकल्पनं कार्यं न त्वन्वारम्भमात्रेण सिद्धिः । एवमितरोपचारसमर्पणमपि । तत्र बहुवचनान्तस्यैव क्रियापदस्यानुषङ्गात् । न चाऽऽसनकल्पनमात्रं पृथक्पृथगस्तु, इतरोपचारसमर्पणं त्वाचार्येणैव कार्यमिति वाच्यम् । पूज्यै(जै)कदेशस्याऽऽसनकल्पनस्य बहुवचनेन सर्वकर्तृकत्वे सिद्ध इतरोपचारसमर्पणेऽपि सर्वकर्तृ[क]त्वस्यैव युक्तत्वात् । ब्रह्मादिभ्योऽङ्गिरोन्तेभ्यः । ब्रह्मण आसनं कल्पयामि, प्रजापतय आसनं कल्पयामीत्येवं ब्रह्मणे कल्पयामि, प्रजापतये कल्पयामीत्येवं वा तत्तन्नामभिस्तस्मै तस्मा आसनं कल्पयेयुरित्यर्थः । देवगणानामितिवचनं दैवेन तीर्थेन तर्पणार्थम् । देवानामित्येव सिद्धे गणानामिति95 ग्रहणं त्रयोविंशतिसङ्ख्याकेषु96 देवेषु मध्ये ब्रह्मादिनक्षत्रान्त एको गणः, इन्द्रराजादिवैश्रवणराजान्तो द्वितीयः पञ्चानां गणः, वस्वाद्यङ्गिरोन्तस्तृतीयो गण इति गणत्रित्वं ज्ञापयितुम् । ब्रह्मादिनक्षत्रान्तानां सल्ँलग्नान्यासनानि किञ्चिद्व्यवधानेन द्वितीयगणस्य तथैवाऽऽसनानि तथैव तृतीयस्येत्येवमनुष्ठानं गणत्रित्वस्य फलम् । इन्द्रराजादिवैश्रवणराजान्तानां राजत्वादिसमानधर्मत्वादेकगणत्वे सिद्धे ब्रह्मादिनक्षत्रान्तानामेको गणः, वस्वाद्यङ्गिरोन्तानामेको गण इत्यर्थात्सिध्यति । पञ्चसु राजत्वं तु “इन्द्रो राजा जगतश्चर्षणीनाम् । इन्द्रो राजा जगतो य ईशे । यमो राजा प्रसृणाभिः पुनातु मा । यमाय मधुमत्तम राज्ञे हव्यं जुहोतन । आपो दीक्षा, तया वरुणो राजा दीक्षया दीक्षितः । ओषधयो दीक्षा, तया सोमो राजा दीक्षया दीक्षितः । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे” इत्य्-आदिमन्त्रसिद्धमपि । विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षय इत्येतत्सूत्रं यत्र यत्र सप्तर्षिग्रहणं सप्तर्षीनुपस्थायेत्यादौ तत्रतेषामेव सम्प्रत्यय इत्येतदर्थम् । अत्र निवीतिवचनात्पूर्वत्र यज्ञोपवीतिता गम्यते97 । उत्तरत इत्यत्र देवानामिति शेषः । तेषामेव पूर्वं98 क्लृप्तत्वात् । उदीचीनप्रवण इति वचनं पक्षे प्राप्तानां समत्वप्राक्प्रवणत्वप्रागुदक्प्रवणत्वानां बाधनार्थम् । अत्रापि शुचौ देश इत्यनुवर्तते । उदगग्रैरितिवचनं पक्षे प्राप्तायाः प्रागग्रताया बाधनार्थम् । प्रागपवर्गाणीतिवचनं पक्षे प्राप्ताया उदगपवर्गताया बाधनार्थम् । एतयोरन्तरालेऽरुन्धत्या इत्येतावतैव सिद्धे वसिष्ठकश्यपयोरन्तरालेऽरुन्धत्या इति गुरुसूत्रकरणमन्यत्रापि सप्तर्षयोऽरुन्धतीसहिता एव प्रत्येतव्या इत्येतदर्थम्, वसिष्ठकश्यपान्तराल एवारुन्धतीत्येवम्भावनार्थं वा । यथोपस्थानादौ । अरुन्धत्या इत्यनन्तरं पुनः कल्पयन्तीतिवचनं विश्वामित्राद्यरुन्धत्यन्तानामेकगणत्वज्ञापनार्थम् । तेनैतेषां सल्ँलग्नान्यासनानि99 । दक्षिणत इत्यत्र देवानामिति शेषः । प्राचीनप्रवणपदसाहचर्यात् । प्राचीनप्रवण इति वचनं समत्वोदकप्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । ततोऽगस्त्यासनात्परिभाषयोत्तरतः100 पुरतो वा । एकेतिवचनं कृष्णद्वैपायनादीनामेकैव वेदिः, देवानां वेदिरेका, सप्तर्षीणामरुन्धत्याश्चैका, अगस्त्यस्यैका, पितॄणामेकेति, सर्वेषामेतेषां पृथक्पृथगेव वेद्य इत्येतदर्थम् । अथवा–एकवेद्याम्, एका केवला या वेदिस्तस्यामित्यर्थः । एकेतिवचनं तत एकवेद्यां तेभ्य इत्यत्र प्राचीनप्रवणे101 देश इत्यस्याप्यनुवृत्तिः स्यात्, अनुवृत्तौ च सत्यां प्राचीनप्रवणरूप एव देशे वेदिः कर्तव्येति नियमः स्यात्स मा भूदित्येतदर्थम् । अस्मिन्कल्प इत्तरेषां वेदिरेव नास्ति । तेभ्य इतिवचनमेकगणत्वज्ञापनार्थम् । तेन सल्ँलग्नान्येवैतेषामासनानि । तेभ्यो वक्ष्यमाणेभ्यः प्रसिद्धेभ्यः कृष्णद्वैपायनादीतिहासपुराणान्तेभ्यः । वरूथिन इत्यनन्तरं वाजिन इति केषुचित्सूत्रपुस्तकेषु पाठः । वसिष्ठायेन्द्रायेति नामद्वयमेव प्रयोगवैजयन्तीकारोक्तेः । दक्षिणतः प्राचीनावीतिन इत्यत्र कृष्णद्वैपायनादीनामेव ग्रहणं सन्निहितत्वात् । प्राचीनावीतविधानं यज्ञोपवीतनिवीतयोर्बाधनार्थम् । दक्षिणाप्रवणवचनं समत्वप्राक्प्रवणत्वोदक्प्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । दक्षिणाग्रैरितिवचनमुदगग्रन्वप्रागग्रत्वयोर्बाधनार्थम् । प्रत्यगपवर्गाणीतिवचनं प्रागपवर्गत्वोदगपवर्गत्वयोर्बाधनार्थम् । आत्रेयाय पदकारायेत्येकमेव नाम । एवं कौण्डिन्याय वृत्तिकारायेतीदमपि । यथास्वं यथायथं यथाधिकारमिति यावत् । पितृभ्य इत्यत्र पितरश्च मातरश्चेत्येकशेषः । एवं मातामहाश्च मातामह्यश्चेति । अत्र पितृमातृमातामहमातामहीशब्दैस्तत्तद्वर्गा उच्यन्ते । अत्र मातृशब्देन सपत्नमाताऽपि सङ्ग्राह्या । चकारेण स्त्र्यादिसमस्तपितृसमुच्चयः । अन्यथा नित्यतर्पणे पार्वणचतुष्टयस्यैवातिदेशः स्यात्, अन्येषां न स्यात्, अतः समुच्चय आवश्यकः । ( 102 अथवाऽद्भिर्देवानृषीन्पितॄंश्च तर्पयन्तीत्यत्रैवमित्यतिदेशात्तत्तद्धर्मे तत्रत्यदेवर्षिपितृप्राप्तिः, अनुक्तानां स्त्र्यादीनां त्वत्रत्यचकारेणेति । अस्मिन्कल्पे नात्र स्त्र्यादिसमुच्चयः । इदानीमाचार एवमेवास्ति । ) अमुष्मै कल्पयामीत्यादिसूत्रं तत्तन्मन्त्रपाठप्रदर्शनार्थं न तूपचारान्तरनिवृत्त्यर्थम् ।

तेन–

“ऋषीणामर्चनं सर्वं कर्तव्यं च निवीतिना ।
आसनं पाद्यमर्घ्यं च स्नानं पञ्चामृतैः पृथक् ॥
वस्त्रोपवीतगन्धांश्च पुष्पाण्याभरणानि च ।
धूपदीपबलीन्दत्त्वा तर्पयेच्च यथाविधि”

इतिव्यासस्मृत्युक्ता अप्युपचाराः शक्तौ सत्यां देयाः । अस्यां स्मृतावृषिग्रहणं देवपित्रुपलक्षणम् । पितृभ्योऽपि स्वाहाशब्देनैवान्नसमर्पणं न स्वधाशब्देन । वीप्सास्वरसात् । केवलपितृकर्मत्वात्स्वधाशब्दप्राप्तिर्न भवति किन्तु स्पष्टवचनेनैव स(वे)त्येतादृशार्थस्य मासिश्राद्धस्थेन ‘अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः’ इति मन्त्रग्रहणेन ज्ञापितत्वाच्च । फलोदकेनेत्यत्र फलयुक्तमुदकं फलस्योदकमिति वाऽर्थः । अपरेण वेदिं वेद्या अदूर एव, अग्निमुपसमाधाय प्रज्वलयित्वे(ज्वाल्ये)त्यर्थः । सदसस्पतिमित्यनन्तरमुक्तस्य हुत्वेतिवचनस्य शिष्याणामन्वारम्भसिद्ध्यर्थं(र्थत्वम्) प्रथमोऽनुवाक इषे त्वेत्यनुवाकः । अत्र तृतीया द्वितीयार्थे । तेन प्रथममनुवाकमधीयन्त(त) इत्यर्थः । त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्तीति सूत्रे ब्राह्मणांस्तर्पयन्तीत्यनन्तरं103 कर्तव्ये मध्ये वचनमुत्सर्जन एवानध्याय आवश्यको नोपाकर्मणीतिज्ञापनार्थम् । तेनोपाकर्मण्यनध्यायाभावोऽपि पक्षे सिद्धो भवति । काण्डात्काण्डाद्या शतेनेतिमन्त्रद्वयान्त उदकान्त उदकमध्य उदकप्रान्ते वा दूर्वा रोपयन्ति । रोपयन्तीतिबहुवचनात्सर्वेषां कर्तृत्वम् । दूर्वा इति बहुवचनं बहुकर्त्रभिप्रायेण । तेनैकैकैव दूर्वा बह्व्यो वा दूर्वाः । उदधिं जलाशयं विलोडनादूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशं बहिर्जलाशयादातमितोर्यावद्बलमाजिं शीघ्रं धावन्ति । अत्रापि बहु वचनात्सर्वेषां कर्तृत्वम् । प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणा स्तर्पयन्ति । उत्सर्गदेशात्प्रत्येत्याकृत्वैवान्नहोमं ग्रामं प्रविश्यापूपादिभिर्ब्राह्मणांस्तर्पयन्तीत्यर्थः । अपूपैः सक्तुभिरोदनेनेति ब्राह्मणा स्तर्पयन्तीतिगुरुसूत्रकरणादेवं ज्ञायते नास्त्यत्रान्नहोम इति । यद्यत्रान्नहोम इष्टः स्याद्ब्राह्मणानन्नेन परिविष्येत्येव लाघवाद्ब्रूयात् । वृत्तिकृताऽपि तत आजिसरणात्प्रत्येत्यान्नहोमान्हुत्वाऽपूपादिभिर्ब्राह्मणांस्तर्पयन्तीत्येतस्मिन्व्याख्याने गुरुसूत्रकरणवैयर्थ्यापरिहाररूपापरितोषादेव ‘अथवोत्सर्गदेशात्प्रत्येत्याकृत्वैवान्नहोमं ग्रामं प्रविश्यापूपादिभिर्ब्राह्मणांस्तर्पयन्ति’ इत्येवं द्वितीयं व्याख्यानं कृतम् । ब्राह्मणा श्च तर्पयन्तीतिपाठे तु चकारः पूजनसमुच्चयार्थो ज्ञेयः । अत्रापूपादिग्रहणं परिवेषणक्रमार्थम् । अत्र भस्मगोमयमृत्तिकास्नानान्यपि सति सम्भवे कार्याणि ।

“सम्प्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये ।
स्नानं कुर्वीत मतिमाञ्छ्रुतिस्मृतिविधानतः”

इति भविष्यवचनस्य श्रुतिस्मृतिविधानत इति भस्मगोमयमृत्तिकास्नानप्राप्त्यर्थमिति पृथ्वीचन्द्रोदयेन व्याख्यानादाचाराच्च । यद्यप्येतस्माद्वचनादुपाकर्मार्थत्वमेतेषां प्रतीयते तथाऽपि सूत्र उत्सर्जन एव स्नानविधानात्तदर्थकत्वमेव । श्रावणस्यान्त इति तु, उपाकर्मदिनानुष्ठानाभिप्रायेण आचारश्चैवमेव । उपाकर्मदिन उत्सर्जनक्रिया तु हेमाद्रौ खादिरगृह्य उक्ता–

“पुष्ये तूत्सर्जनं कुर्यादुपाकर्मदिनेऽथ वा” इति ।

कलौ पुरुषान्दुर्मेधसः पौष उत्सर्जनं कर्तुमशक्तांश्च मन्यमाना उपाकर्मदिनानुष्ठानमेवाऽऽश्रयन्तीदानीं शिष्टाः । (104 उत्सर्जनस्यानावश्यकतोक्ता स्मृत्यर्थसारे । तत्र मूलं चिन्त्यम् ।) एतानि स्नानान्युत्सर्जनाङ्गभूतानीति केचित् । बहिर्भूतान्युत्सर्जनकर्माधिकारार्थानीत्यन्ये । आद्यपक्षे–उत्सर्जनसङ्कल्पोत्तरं कार्याणि । नात्र सङ्कल्पः । क[रो]तिधातुसमभिव्याहाराभावात् । अन्त्यपक्षे तूत्सर्जनकर्माधिकारार्थं भस्मगोमयमृत्तिकास्नानानि करिष्य इतिसङ्कल्पपूर्वकं कर्मसङ्कल्पात्पूर्वमेव कार्याणि । नात्रापि नदीरजोदोषः । उपाकर्मणि चोत्सर्ग इत्युपाकर्मप्रकरणोदाहृतवचनात् । एतदुत्सर्जनाख्यं कर्म किञ्चिदध्ययनवतोऽप्यावश्यकम् । अकृतोपाकृतिर्विप्र इत्युपाकरणप्रकरणोदाहृतसङ्ग्रहवचनात् । उपाकरणग्रहणमुत्सर्जनस्याप्युपलक्षणम् ।

प्रयोगः

अथ प्रयोगः ।

कर्ता कृतनित्यक्रियः पूर्ववद्धोमपूर्वकं पञ्चगव्याशनं कृत्वाऽकृत्वा वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यस्मिन्देशे निर्मलाः सुखस्पर्शा ग्राहादिरहिताश्चाऽऽपो भवन्ति तासां समीप आसन उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्याधीतानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासेनाऽऽप्यायनवेदोत्सर्गसिद्धिद्वारा105 श्रीपरमेश्वरप्रीत्यर्थं वेदोत्सर्जनाख्यं कर्म करिष्य इति सङ्कल्पं कुर्यात् । यदा तु स्वस्य ब्रह्मचारिणः शिष्याः स्युस्तदा तैः सहापां समीपं गत्वा, एभिः शिष्यैः सह वेदोत्सर्जनाख्यं कर्म करिष्य इत्येवमूहेन सङ्कल्पः कार्यः । होमपूर्वकपञ्चगव्याशनानुष्ठानपक्षे शिष्यैरपि तत्कार्यं शुद्ध्यर्थत्वात् । उत्सर्जनसङ्कल्पोऽपि तैः कार्य इति शिष्टाः । तत्रैभिः शिष्यैः सहेत्येतस्य लोपः । कृतविवाहैः शिष्यैस्तु केनचिन्निमित्तेन गुरुसान्निध्येऽपि पृथगेवोत्सर्जनं कार्यम्106 । उत्सर्जनप्रथमप्रयोगाङ्गभूतं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च प्रधानसङ्कल्पोत्तरं तत्पूर्वं वा तत्पिता107 तदभावे तत्पितामहादिर्वा कुर्यात् । सर्वेषामप्यभाव आचार्य एव कुर्यात् । तत्र संस्कार्यस्य पितॄणामुत्कीर्तनम्108 । यदि पितैवाऽऽचार्यस्तदा प्रथमोत्सर्जनप्रयुक्तं गणपतिपूजनादि स एव कुर्यात् । प्रथमोत्सर्जनं भद्राव्यतीपाताधिमासास्तादिषु न भवति । अत्रोक्तं सम्भवद्दिनं ग्राह्यम् । द्वितीयादिष्वपि शुद्धकालसम्भवे भद्राव्यतीपाताधिमासास्तादिनिषेधोऽस्त्येवेति केचित् । ततो जलप्रान्त उपविश्य तीरे स्थापितं भस्माऽऽदाय, ईशान इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वेशानो यजुः । तत्पुरुषायेत्यस्या याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वा तत्पुरुषो गायत्री । अघोरेभ्य इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वाऽघोरोऽनुष्टुप् । वामदेवायेत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वा वामदेवो यजुः । सद्योजातमित्यस्य याज्ञिक्यो देवता उपनिपदः स्वयम्भूर्वा सद्योजातो बृहती । क्रमेण शिरोमुखहृदयगुह्यपादेषु भस्मलिम्पने(लेपने) विनियोगः । ‘ईशानः सर्व सदाशिवोम्’ इति शिरसि भस्म विलिप्य, ‘तत्पुरुषाय० प्रचोदयात्’ इति मुखे । ’ अघोरेभ्योऽथ घोरेभ्यो० रुद्ररूपेभ्यः’ इति हृदये । ‘वामदेवाय नमो० मनोन्मनाय नमः’ इति गुह्ये । ‘सद्योजातं प्रप० भवोद्भवाय नमः’ इति पादयोः । अथवा–ईशानाय नम इति शिरसि । तत्पुरुषाय नम इति मुखे । अघोराय नम इति हृदये । वामदेवाय नम इति गुह्ये । सद्योजाताय नम इति पादयोः, इत्येवम्प्रकारेण भस्मलेपनम् । ततोऽग्निरिति भस्म । वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्व ह वा इदं भस्म । मा नस्तोक इत्यस्याग्नी रुद्रो जगती । सर्वाङ्गे भस्मलेपने विनियोगः । ‘मा नस्तोके तनये विधेम ते’ इति शिरःप्रभृत्यङ्गानि भस्मना विलिप्य स्नात्वाऽऽचामेत् । पुनर्जलप्रान्त उपविश्य, गायत्र्या विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । गोमयादाने विनियोगः । ‘तत्सवितु० यात्’ इति तीरे स्थापितं गोमयमादाय, गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वा श्रीरनुष्टुप् । अङ्गेषु गोमयलिम्प(लेप)ने विनियोगः । ‘गन्धद्वारां दुराधर्षां श्रियम्’ इति शिरःप्रभृत्यङ्गानि विलिप्य, ‘अग्रमग्रं च० सर्वदा’ इति पुनस्तथैव विलिप्य स्नात्वाऽऽचामेत् । पुनर्जलप्रान्त उपविश्य, अश्वक्रान्त इत्यस्य याज्ञि० भूर्वा भूमिरनुष्टुप् । भूमिर्धेनुरित्यस्य याज्ञि० भूर्वा भूमिरेकपदा जगती । भूम्यभिमन्त्रणे विनियोगः । ‘अश्वक्रान्ते० लोकधारिणी’ इति द्वाभ्यां भूमिमभिमन्त्र्य, सहस्रपरमेत्यस्य याज्ञि० भूर्वा दूर्वाऽनुष्टुप् । दूर्वाभिमन्त्रणे विनियोगः ।‘सहस्रपर० शिनी’ इति दूर्वामभिमन्त्र्य, उद्धृताऽसीत्यस्य याज्ञि० भूर्वा मृत्तिकाऽनुष्टुप् । मृत्तिकाग्रहणे विनियोगः । ‘उद्धृताऽसि० हुता’ [इति] अभिमन्त्रितप्रदेशान्मृत्तिकां गृहीत्वा, काण्डात्काण्डादिति द्वयोर्याज्ञि० भूर्वा दूर्वाऽनुष्टुप् । दूर्वादाने विनियोगः । ‘काण्डात्काण्डात्प्ररोहन्ती० पा वयम्’ इति द्वाभ्यां दूर्वामादाय, मृत्तिके हनेत्यस्य याज्ञि० भूर्वा मृत्तिकाऽनुष्टुप् । मृत्तिकायां दूर्वाप्रतिष्ठापने विनियोगः । ‘मृत्तिके हन मे० परमां गतिम्’ इति दूर्वा मृत्तिकायां प्रतिष्ठाप्य, यत इन्द्रेत्यस्य याज्ञि० भूर्वेन्द्रो बृहती । स्वस्तिदेत्यस्य याज्ञिक्यो० भूर्वेन्द्रोऽनुष्टुप् । स्वस्ति न इत्यस्य याज्ञिक्यो० भूर्वेन्द्रस्त्रिष्टुप् । त्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । परं मृत्यो, इत्यस्य विश्वे देवा मृत्युस्त्रिष्टुप् । स्योना पृथिवीत्यत्य याज्ञिक्यो० भूर्वा पृथिवी गायत्री । प्राच्यादिचतुर्दिक्षूर्ध्वमधश्च क्रमेण मृत्तिकाप्रक्षेपणे विनियोगः । यत इन्द्र० इति प्राच्यां मृत्तिकां प्रक्षिपति । स्वस्तिदा इति दक्षिणस्याम् । स्वस्ति न इन्द्रो० इति प्रतीच्याम् । त्रातारमि० इत्युत्तरस्याम् । परं मृत्यो० इत्यूर्ध्वम् । स्योना पृथि० इत्यधः । गन्धद्वारामित्यस्य याज्ञिक्यो० भूर्वा श्रीरनुष्टुप् । मृत्तिकाग्रहणे विनियोगः । ‘गन्धद्वारां० श्रियम्’ इत्यभिमन्त्रितप्रदेशादन्यां मृत्तिकां गृहीत्वा, उदु त्यमित्यस्य सोमः सूर्यो गायत्री । सूर्याय मृत्तिकाप्रदर्शने विनियोगः । ‘उदु त्यं जा० सूर्यम्’ इति सूर्याय गृहीतां मृत्तिकां प्रदर्शयित्वा(र्श्य), श्रीर्मे भजत्वित्यस्य याज्ञिक्यो० भूर्वा श्रीर्यजुः । शिरसि प्रदक्षिणं मृत्तिकालेपने विनियोगः । ‘श्रीर्मे भजतु | अलक्ष्मीर्मे नश्यतु’ इति शिरसि प्रदक्षिणं मृत्तिकां विलिप्य, सहस्रशीर्षेत्यस्य प्रजापतिः स्वयम्भूर्वा पुरुषो नारायणोऽनुष्टुप् । विष्णुमुखा इत्यस्य याज्ञिक्यो० भूर्वा देवा यजुः । महा इन्द्र इत्यस्य याज्ञिक्यो० भूर्वेन्द्रो बृहती । सोमानमित्यस्य याज्ञिक्यो० भूर्वा ब्रह्मणस्पतिर्गायत्री । शरीरमित्यस्य याज्ञिक्यो० भूर्वाऽऽत्मा यजुः । नाभिर्म इत्यस्य विश्वे देवा नाभिर्द्विपदा गायत्री । क्रमेण शिरोमुखबाहुकुक्षिहृदयनाभिषु मृत्तिकालेपने विनियोगः । आपान्तमन्युरित्यस्य याज्ञिक्यो० भूर्वा सोमस्त्रिष्टुप् । ब्रह्म जज्ञानमित्यस्य याज्ञिक्यो० भूर्वा ब्रह्म त्रिष्टुप् । कट्योर्मृत्तिकालेपने विनियोगः । विष्णो रराटमित्यस्य सोमो रराटी यजुः । वरुणस्य स्कम्भनमसीत्यस्य सोमो वरुणो यजुः । आनन्दनन्दावित्यस्य विश्वे देवा आत्मा द्विपदा गायत्री । ऊरुवोरोज इत्यस्याग्निरात्मा यजुः । जङ्घाभ्यामित्यस्य विश्वे देवा आत्मा द्विपदा गायत्री । चरणं पवित्रमित्यस्य याज्ञिक्यो० भूर्वा चरणात्मा त्रिष्टुप् । क्रमेण पृष्ठमेढ्राण्डोरुजङ्घाचरणेषु मृत्तिकालेपने विनियोगः । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । त्रीणि पदेत्यस्य विश्वे देवा विष्णुर्गायत्री । पादतलयोर्मृत्तिकालेपने विनियोगः । सहस्रशीर्षा० [इति] शिरसि । विष्णुमुखा० [इति] मुखे । महा इन्द्रो० इति बाह्वोर्मन्त्रावृत्त्या । सोमान० इति कुक्ष्योर्मन्त्रावृत्त्या । शरीरं य० इति शरीरे, हृदय इत्यर्थः । नाभिर्मे० सत्, इति नाभ्याम् । आपान्तमन्यु० ब्रह्म जज्ञानं० इति109 द्वाभ्यां कट्योः । द्वयोरावृत्तिः । विष्णो रराटमसीति पृष्ठे । वरुणस्य स्कम्भनमसीति मेढ्रे । आनन्दनन्दावा० पस इत्य्-आण्डयोः । ऊरुवोरोज इत्यूर्वोः । ‘जङ्घाभ्यां प० ष्ठितः । [इति] जङ्घयोः । एतेषु सकृदेव मन्त्रः । द्विवचनलिङ्गात् । चरणं पवित्रमिति चरणयोर्मन्त्रावृत्त्या । इदं विष्णुस्त्रीणि पदेति द्वाभ्यां पादतलयोः । द्वयोरावृत्तिः । सजोषा इत्यस्य स्वयम्भूरिन्द्रस्त्रिष्टुप् । दूर्वासहितस्य शेषस्य शिरसि निधाने विनियोगः । सजोषा इन्द्र० इति दूर्वासहितं शेषं शिरसि निदध्यात् । (110 बौधायनोक्तरीत्या कर्तुमसम्भवे–अश्वकान्त इति भूमिमभिमन्त्र्य भूमिर्धेनुरिति लोष्टमादाय सहस्रपरमेति दूर्वामभिमन्त्र्य काण्डात्काण्डादिति दूर्वामादाय या शतेनेति दूर्वां मृदि प्रतिष्ठाप्य मृत्तिके हन मे पापमिति मृदमभिमन्त्र्य यत इन्द्र भयामहे० १ स्वस्तिदा वि०२ स्वस्ति न इन्द्रो० ३ आपान्तमन्यु० ४ ब्रह्म जज्ञानं० ५ स्योना पृथिवि भवा० ६ इति प्राच्यादिदिक्चतुष्टय ऊर्ध्वमधश्चेति तत्तन्मन्त्रेण लोष्टमुत्क्षिप्य गन्धद्वारामित्यादित्याय दर्शयित्वा श्रीर्मे भजत्विति ललाटमालिप्यालक्ष्मीर्मे नश्यत्विति प्रदक्षिणं शिरो विलिप्य विष्णुमुखा इति मुखं महा इन्द्र इति बाहू सोमानमिति कुक्षी शरीरं यज्ञशमलमिति शरीरं चरणं पवित्रमिति चरणौ विलिप्य सजोषा इन्द्रेति मृच्छेषं शिरसि निधाय सुमित्रा न इत्यद्भिरात्मानमासिच्य दुर्मित्रा इत्य्-आदिभिर्द्वेष्यं ध्यायन्भूमौ111 क्षिपेदिति प्रयोगो द्रष्टव्यः ।) भस्मगोमयमृत्तिकास्नानानि कृताकृतानि । ततः–हिरण्यशृङ्गमिति मन्त्रस्य112 याज्ञिक्यो० भूर्वा तीर्थाधिपतिर्वरुणो बृहती । तीर्थाधिपतिप्रार्थने विनियोगः । हिरण्यशृङ्गं वरु० इति तीर्थाधिपतिं वरुणं सम्प्रार्थ्य,113 यन्मे मनसेत्यस्य याज्ञिक्यो० भूर्वा, इन्द्रो वरुणो बृहस्पतिः सविता च स्वराड्बृहती । इन्द्रादिप्रार्थने विनियोगः । ‘यन्मे मनसा० पुनः पुनः’ इतीन्द्रादिदेवताः स्वस्य पावित्र्यार्थं सम्प्रार्थ्य, नमोऽग्नयेऽप्सुमत इत्यत्य114 याज्ञिक्यो० उपनिषदोऽग्निरप्सुमानिन्द्रो वरुणो वारुण्यापश्च यजुः । नमस्कारे विनियोगः । ‘नमोऽग्नयेऽप्सुमते० नमोऽद्भ्यः’ इति मन्त्रोक्तदेवता नमस्कृत्य, सुमित्रा न इत्यस्य115 याज्ञिक्यो० भूर्वाऽऽपो यजुः । मार्जने विनियोगः । ‘सुमित्रा० सन्तु’ इत्य्-आत्मानमद्भिर्मार्जयित्वा तूष्णीमञ्जलिनोदकमादाय, दुर्मित्रा योऽस्मान्द्वेष्टि यं चेति मन्त्रत्रयस्य116 याज्ञिक्यो० भूर्वाऽऽपो यजुः । द्वेष्यनाशार्थं जलक्षेपणे विनियोगः । ‘दुर्मित्रास्त० भूयासुः’ [इति] यस्यां दिशि द्वेष्यो भवति तस्यां दिशि क्षिपति । ‘योऽस्मान्द्वेष्टि’ इति द्वितीयम् । ‘यं च वयं द्विष्मः’ इति तृतीयम् । द्वेष्याभावे पाप्मानं मनसा ध्यायन्प्राच्यामेव दिशि क्षिपेत् । अथवा सुमित्रा न इत्य्-आरभ्य वयं द्विष्म इत्य्-अन्त एक एव मन्त्रस्तेन जलाभिमन्त्रणं कार्यम्117 । अस्मिन्पक्षे जलाभिमन्त्रणे विनियोग इति विनियोगवाक्ये विशेषः । ततः–यदपां क्रूरमित्यस्य118 याज्ञिक्यो० भूर्वाऽऽपो द्विपदा त्रिष्टुप् । निमज्जनार्थं जलदोषदूरीकरणे विनियोगः । ‘यदपां क्रूरं य० तात्’ इति निमज्जनं यत्र कर्तव्यं भवति तत्रत्यजलदोषं हस्ताभ्यामवलोडनेन दूरीकृत्य, ‘सागरस्य तु निश्वासो० रेश्वर’ इति नमस्कृत्य, अत्याशनादितिमन्त्रद्वयस्य119 याज्ञिक्यो० भूर्वा वरुणोऽनुष्टुप् । पठने विनियोगः। ‘अत्याशनाद० लोकताम्’ इति मन्त्रद्वयं पठित्वा शिखां विस्रस्य120 पुरतः कृत्वा प्रवहज्जले प्रवाहाभिमुखः स्नानं कुर्यात् । नद्यभावेन जलाशयादौ स्नाने तु अर्काभिमुखः स्नायात् । सर्वत्राप्यर्काभिमुखमेव वा स्नानम् । एतत्त्रिरिति स्मृतिकाराः । यदि तु क्षुद्रनदीजलाशयादौ स्नानं तदा ‘गङ्गे च यमुने चैव० सन्निधिं कुरु । पुष्कराद्यानि० सदा मम’ इति तीर्थान्यावाह्यानन्तरमत्याशनादिति मन्त्रद्वयं पठित्वा स्नानं कार्यमिति विशेषः । तत इमं मे गङ्ग इत्यस्य121 याज्ञिक्यो० भूर्वा गङ्गादिनद्यो जगती । गङ्गादिनदीप्रार्थने विनियोगः । ‘इमं मे गङ्गे य० सुपोमया’ इति गङ्गादिनदीः सम्प्रार्थ्य, ऋतं चेति तृचस्य122 याज्ञिक्यो० भूर्वाऽघमर्षणो वरुणोऽनुष्टुप् । प्राणायामे विनियोगः । ‘ऋतं च स० सुवः’ इत्युपांशु पठित्वा तदन्ते प्राणमायच्छेत् । एवमन्यौ द्वौ प्राणायामौ । अथवा निमग्नः सन्नेव मनसा सूक्तं पठन्प्राणायामं कुर्यात् । एवमन्यौ द्वौ प्राणायामौ । इत्यन्यतरकल्पेन प्राणायामं विधाय द्विराचम्य कर्मारम्भधृते पवित्रे त्यक्त्वाऽन्ये पवित्रे धृत्वाऽऽपो हि ष्ठेति मन्त्रत्रयस्य123 याज्ञिक्यो० भूर्वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानः(न)सुवर्जनादयो देवताः । गायत्र्यनुष्टुप्त्रिष्टुबिति च्छन्दांसि । मार्जने विनियोगः । ‘आपो हि ष्ठा० च नः । हिरण्यवर्णाः शुच० धत्त । पवमानः सुवर्ज० पुनातु’ इति जलस्थः सपवित्रेण पाणिनैव तत्तन्मन्त्रसमुदायान्ते सर्वान्ते वा मार्जनं कुर्यात् । प्रतिमन्त्रं मार्जनमिति केचित् । ततो द्विराचम्य, यत्पृथिव्यामिति मन्त्रचतुष्टयस्य124 याज्ञिक्यो० भूर्वा, ऋषिः । वरुणो देवता प्रथमस्यानुष्टुप् । द्वितीयस्य यजुः । तृतीयस्य द्विपदा गायत्री । चतुर्थस्य गायत्री । स्नाने विनियोगः । ‘यत्पृथिव्या० मर्पणः १ पुनन्तु वसवो० गोप्ता २ एष पुण्य० रण्मयम् ३ द्यावापृथिव्यो० शिशाधि ४ इति सर्वमन्त्रान्ते स्नात्वा पुनर्द्विवारं तूष्णीं स्नात्वा, आर्द्रं ज्वलतीत्यस्य125 याज्ञिक्यो० भूर्वा ज्योतिर्यजुः । आचमने विनियोगः । ‘आर्द्रं ज्वलति० होमि स्वाहा’ इतिमन्त्रावृत्त्या द्विराचम्य, अकार्यकारीत्यस्य126 याज्ञिक्यो० भूर्वा वरुणोऽनुष्टुप् । रजो भूमिरित्यस्य127 याज्ञिक्यो० भूर्वा वरुणो यजुः । स्नाने विनियोगः । ‘अकार्यका० रजो भूमि०’ इति द्वाभ्यां स्नानं कृत्वा तूष्णीं द्विराचामेत् । द्वाभ्यां मन्त्राभ्यां स्नानद्वयं वा । आक्रानित्यस्य128 याज्ञिक्यो० भूर्वा परमात्मा त्रिष्टुप् । जपे विनियोगः । ‘आक्रान्समुद्रः० इन्दुः’ इति जपेत् । एतावत्कर्तुमशक्तौ तीर्थे शप्रार्थनदेवताप्रार्थनमार्जनजलावलोडनपूर्वकं129 स्नानं कृत्वाऽऽघमर्षणेन प्राणायामानापो हि ष्ठादिभिर्मार्जनं च कृत्वा यत्पृथिव्यामित्यादीन्मन्त्रान्पठेत् । ततः शिखां बद्ध्वा ( द्विराचम्य130 ‘ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । अङ्गिरसस्तर्पयामि’ इति देवतीर्थेन प्राङ्मुखो यज्ञोपवीती– एकैकाञ्जलिना देवान्सन्तर्पयेत् । अशक्तौ) ‘ब्रह्मादयो ये देवास्तान्देवांस्तर्पयामि । भूर्देवांस्तर्पयामि । भुवो131 देवांस्तर्पयामि । सुवर्देवांस्तर्पयामि । भूर्भुवः सुवर्देवांस्तर्पयामि । इत्येवं132 तर्पयेत् । ततः–‘विश्वामित्रं तर्पयामि । जमदग्निं तर्पयामि । इतिहासपुराणं तर्पयामि’ इति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषींस्तर्पयेत् । अशक्तौ ‘विश्वामित्रादयो य ऋषयस्तानृषींस्तर्पयामि । भूर्ऋषींस्तर्पयामि । भुवर्ऋषींस्तर्पयामि133 । सुवर्ऋषींस्तर्पयामि । भूर्भुवः सुवर्ऋषींस्तर्पयामि’ इत्येवं134 तर्पयेत् । ततः ‘वैशम्पायनं तर्पयामि । पलिङ्गुं तर्पयामि । एकपत्नींस्तर्पयामि’ इति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितॄंस्तर्पयेत् । अशक्तौ ‘वैशम्पायनादयो ये पितरस्तान्पितॄंस्तर्पयामि । भूः पितॄंस्तर्पयामि । भुवः पितॄंस्तर्पयामि । सुवः पितॄंस्तर्पयामि । भूर्भुवः स्वः पितॄंस्तर्पयामि’ इत्येवं135 तर्पयेत् । ततः ‘ये के चास्मत्कुले० द्धनोदकम्’ इति परिधानीय136 वस्त्रं निष्पीड्य, यज्ञोपवीती– ‘यन्मया दूषितं० तर्पयाम्यहम्’ इति यक्ष्मतर्पणं कृत्वा,137

“ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् ।
तत्क्षमस्वाखिलं देवि जगन्मातर्नमोऽस्तु ते”

इति नदीं क्षमाप्य स्वयमेव देहे शुष्के सति केशजले च स्रुते शुष्कं138 वस्त्रं त्रिरवधूयोदक्प्राग्वा विस्तार्य परिदध्यात् । परिहितमार्द्रं वस्त्रं नाभेरूर्ध्वमेवोत्तारयेत् । दक्षिणतः प्रत्यग्वा विस्तारणे तद्वस्त्रं न परिधेयम् । यदि परिधेयं प्रक्षाल्यैव परिधेयम् । ततस्तादृगेवोत्तरीयं शुष्काभाव आर्द्रमेव सप्तवारमवधूय परिधेयम् । (139 उत्तरीयवस्त्रालाभे तृतीयमुपवीतं धार्यम् । तस्यापि सर्वथाऽभावेऽधरीयवस्त्रोत्तरवर्ग140 एवोत्तरीयं वस्त्रं भवति । स्नानोत्तरं यावद्भोजनं शूर्पशय्यामार्जन्यादिस्पर्शे पुनः स्नानम् । पूजान्तर्गतोपचारभूतदीपप्रज्वालनव्यतिरिक्तकाले दीपस्पर्शेऽपि पुनः स्नानम् । ततो भस्मधारणम् । तद्विधिर्यथा–कपिलाया गोमयं गगने पतद्गृहीत्वा धरामसंस्पृशन्नेव सद्योजातमित्यानीय वामदेवाय नमो ज्येष्ठायेति मन्त्रेण धरायामसंस्थापयन्नेव पात्रे संशोष्याघोरेभ्योऽथ घोरेभ्य इति विनिर्दह्य तत्पुरुषायेति तद्भस्म समुद्धृत्य, ईशानः सर्वविद्यानामिति विशोध्य त्र्यम्बकं यजामह इत्य्-आदायाऽऽपो हि ष्ठेतित्रिभिर्जलं तत्राऽऽनीय ‘अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म, सर्व ह वा इदं भस्म, तस्माद्ब्रह्म, तदेतत्पाशुपतं पशुपाशविमोक्षायोम्’ इत्येतैरेकादशवारमभिमन्त्र्य, ‘ॐ सद्योजाताय नमः, नम्’ इति भाले तर्जनीमध्यमानामाभिर्मध्यमानामाकनिष्ठाभिर्वा भाले भ्रूप्रान्तपर्यन्तं विलिप्य, ‘ॐ वामदेवाय नमः, मम्’ इति दक्षिणांसे विलिप्य ‘ॐ अघोराय नमः, शिम्’ इति वामस्कन्धे । ‘ॐ तत्पुरुषाय नमः, वाम्’ इत्युदरे । ‘ॐ ईशानाय नमः, यम्’ इति हृदये । ‘ॐ नमः शिवाय’ इति मन्त्रेण मूर्ध्नि विलिप्य हस्तौ प्रक्षालयेत् । पञ्चाक्षरेण मन्त्रेणैव वा सर्वत्र ललाटहृदयनाभिकण्ठांसद्वयबाहुद्वयकूर्परद्वयप्रकोष्ठद्वयपृष्ठशिरःसु भस्म लेपयेत् । कपिलाया गोमयं यदि तेन प्रकारेण ग्रहीतुं तस्य च समन्त्रकप्रकारेणाऽऽनयनादि च कर्तुं न शक्यते तदा सद्योजातादिपञ्चभिर्मन्त्रैरभिमन्त्रणमात्रं कार्यम् । श्रौताग्निमानौपासनाग्निमांश्च वा भवति चेत्तदा तदग्निजमेव भस्म गृहीत्वा सद्योजाताभिमन्त्रणादिविधिना धार्यम् ।) ततो141 देवर्षिपितृपूजनं कुर्युः । तद्यथा–जलसमीप एव यज्ञोपवीतिनः प्राचीनप्रवणं देशं गोमयेनोपलिप्य परस्परं दातुमि(मनि)च्छन्त इव दर्भान्सव्यहस्तेन सम्प्रयच्छन्त उपलिप्ते प्राक्प्रवणे देशे दक्षिणहस्तेन सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मण आसनं कल्पयामि । प्र० नक्षत्रेभ्य आसनं कल्पयामि । एतदन्तेभ्यः सल्ँलग्नान्येवाऽऽसनानि कल्पयेयुः । सर्वत्राऽऽसनशब्दस्याप्रयोगो वा । ततः किञ्चिद्व्यवधानेनेन्द्राय राज्ञ आसनं कल्पयामि० वैश्रवणाय राज्ञ आसनं कल्पयामि, इत्य्-अन्तेभ्यः सल्ँलग्नान्येवाऽऽसनानि कल्पयेयुः । अयं द्वितीयो गणः । ततः किञ्चिद्व्यवधानेन वसुभ्य आसनं कल्पयामि, रुद्रेभ्य आसनं कल्पयामीति द्वयोः सल्ँलग्ने एवाऽऽसने कल्पयित्वाऽप उपस्पृश्य, आदित्येभ्य आसनं कल्पयामीत्यादित्येभ्यो रुद्रासनसल्ँलग्नमेवाऽऽसनं कल्पयित्वा विश्वेभ्यो देवेभ्य आसनं कल्पयामि० अङ्गिरोभ्य आसनं कल्पयामीत्यन्तेभ्यः परस्परसल्ँलग्नान्येवाऽऽसनानि कल्पयेयुः । विश्वे(श्व)देवासनमादित्यासनसल्ँलग्नमेव । ततो निवीतिनो देवानामुत्तरत उदीचीनप्रवणं देशं गोमयेनोपलिप्योदगग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति ‘विश्वामित्रायाऽऽसनं कल्पयामि० वसिष्ठायाऽऽसनं कल्पयामि’ इति । ततोऽरुन्धत्यर्थं स्थलमवशि(शे)ष्य कश्यपायाऽऽसनं कल्पयामीति–कश्यपायाऽऽसनं कल्पयित्वाऽवशेषिते स्थलेऽरुन्धत्या आसनं कल्पयामीत्यरुन्धत्यै वसिष्ठकश्यपासनसल्ँलग्नमेवाऽऽसनं कल्पयित्वा देवेभ्यो दक्षिणत उपलिप्ते प्राचीनप्रवणे देशेऽगस्त्यायाऽऽसनं कल्पयामीति प्रागग्रमासनं कल्पयेयुः । ततोऽगस्त्यस्य दक्षिणतः प्राचीनप्रवणाद्यन्यतमे देशे चतुरश्रायामर्थपरिमाणायां वेद्यां प्रागग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । कृष्णद्वैपायनायाऽऽसनं कल्पयामि० इतिहासपुराणायाऽऽसनं कल्पयामीति सल्ँलग्नान्येवाऽऽसनानि कल्पयन्ति । केषुचित्सूत्रपुस्तकेषु वरूथिन इत्यनन्तरं वाजिन इत्यपि पाठः । अस्मिन्पाठे द्विपञ्चाशदृषयो ज्ञेयाः । रुद्रासनकल्पनोत्तरमुदकस्पर्शः । ततः प्राचीनावीतिनः कृष्णद्वैपायनादीनां दक्षिणतो दक्षिणाप्रवणं देशं गोमयेनोपलिप्य तत्र दक्षिणाग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनायाऽऽसनं कल्पयामि० एकपत्नीभ्य आसनं कल्पयामीति सल्ँलग्नान्येवाऽऽसनानि कल्पयन्ति । अथाजीवपितृकाः– अमुकशर्मणे पित्र आसनं कल्पयामि । अमुकशर्मणे पितामहायाऽऽसनं कल्पयामि । अमुकशर्मणे प्रपितामहायाऽऽसनं कल्पयामि । अमुकदायै मात्र आसनं कल्पयामि । अमुकदायै पितामह्या आसनं कल्पयामि । अमुकदायै प्रपितामह्या आसनं कल्पयामि । अमुकदायै सापत्नमात्र आसनं कल्पयामि । अमुकशर्मणे मातामहायाऽऽसनं कल्पयामि । अमुकशर्मणे मातुःपितामहायाऽऽसनं कल्पयामि । अमुकशर्मणे मातुःप्रपितामहायाऽऽसनं कल्पयामि । अमुकदायै मातामह्या आसनं कल्पयामि । अमुकदायै मातुःपितामह्या आसनं कल्पयामि । अमुकदायै मातुःप्रपितामह्या आसनं कल्पयामि । अमुकदायै स्त्रिया आसनं कल्पयामि । सापत्यत्वेऽमुकदायै सापत्यायै स्त्रिया आसनं कल्पयामि, इत्यूहः । अमुकशर्मणे पुत्रायाऽऽसनं कल्पयामि । अमुकशर्मणे पौत्रायाऽऽसनं कल्पयामि । अमुकशर्मणे पितृव्यायाऽऽसनं कल्पयामि । अमुकदायै पितृव्यपत्न्या आसनं कल्पयामि । अमुकशर्मणे पितृव्याय सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अस्मिन्कल्पे पृथक्पितृव्यपत्न्या आसनकल्पनं न । सापत्यत्वे सापत्यायेत्यपि । एवमग्रेऽपि । अमुकशर्मणे मातुलायाऽऽसनं कल्पयामि । अमुकदायै मातुलपत्न्या आसनं कल्पयामि । अमुकशर्मणे मातुलाय सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अमुकशर्मणे भ्रात्र आसनं कल्पयामि । अमुकदायै भ्रातृपत्न्या आसनं कल्पयामि । अमुकशर्मणे भ्रात्रे सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अमुकदायै पितृष्वस्रे सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकदायै मातृष्वस्रे सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकदाया आत्मभगिन्यै सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकशर्मणे श्वशुराय सपत्नीकाय सापत्यायाऽऽसनं कल्पयामि । अमुकशर्मणे गुरवे सपत्नीकाय सापत्यायाऽऽसनं कल्पयामि, इति यथाधिकारं किञ्चिद्व्यवधानेन सल्ँलग्नान्येवाऽऽसनानि कल्पयेयुः142 । शिष्याप्तसत्त्वेऽमुकशर्मणे शिष्यायाऽऽसनं कल्पयामि । अमुकशर्मण आप्तायाऽऽसनं कल्पयामीत्येवमेतयोरप्यासने कल्पयेयुः143 । न वा स्त्र्यादयोऽत्र । ततः सर्वे–ब्रह्मणे नमः, ब्रह्माणमावाहयामीत्येवं तत्तन्नाममन्त्रैर्देवर्षिपितॄनावाहयेयुः144 । आसनकल्पनाद्युपस्थानान्तेषु पदार्थेषूपवीतं देवानां निवीतमृषीणां प्राचीनावीतं पितॄणां ज्ञेयम् । ततो ब्रह्माणं तर्पयामीत्येवमूहितैस्तत्तन्नाममन्त्रैरासनं145 समर्पयामीत्येवं कल्पितान्यासनानि समर्पयेयुः । अथ वाऽऽसनकल्पनमेव 146 वा समर्पणम् । अस्मिन्कल्प आसनकल्पनात्पूर्वमेवाऽऽवाहनं ज्ञेयम् । ततो ब्रह्मणे स्वाहेत्याद्यूहेनान्नेनार्चनम् । पितृष्वपि स्वाहाशब्द एव न स्वधाशब्दः । ततः पूर्वतर्पणवत्फलोदकेन तर्पणं कृत्वा ब्रह्मणे नमः प्रजापतये नम इत्य्-आद्यूहेन ब्रह्मादीनेकपत्न्यन्तानुपस्थाय, अमुकशर्मणे पित्रे नम इत्य्-आद्यूहेन तत्तन्नाम्ना सर्वान्पितॄनुपस्थाय सर्वान्विसर्जयेयुः । सर्वत्र रुद्रशब्द147 उदकस्पर्शः । सर्वोपचारसमर्पणाशक्तौ केवलसूत्रोक्ता एवोपचाराः समर्पणीयाः । ततोऽपरेण वेदिमुत्सर्जनाङ्गभूतहोमार्थं स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धननादिना संस्कृत्य सशिष्यत्वे श्रोत्रियागारादाहृतमग्निं बलवर्धननामानमग्निं प्रतिष्ठापयामीत्युक्तरीत्या प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । अशिष्यत्वे गृह्याग्निं गमनवेलायामेवारण्योः समारोपितं मथित्वा स्थण्डिले निधाय प्रज्वाल्य ध्यायेत् । समित्समारोपे तु श्रोत्रियागारादाहृतं लौकिकाग्निं स्थण्डिले निधाय प्रज्वाल्य ध्यायेत् पत्न्या सहैव गच्छेत् । ततः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्य्-आदियज्ञोपवीतधारणान्तमुपाकरणवत्सर्वं कुर्यात् । तत्रोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः । ततः सर्व इषे त्वेत्यनुवाकमधीयन्ते(ते) काण्डादीन्वा पूर्ववत् । यद्यनारब्धवेदाः शिष्याः स्युस्तदा तान्वाचयेत् । उत्सर्जनात्पूर्वमेवेषे त्वेत्यनुवाकं काण्डादीन्वाऽध्यापयेदिति केचित् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य उत्सृष्टा148 वै वेदाः । त्र्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्निं सम्पूज्य विभूतिं धारयेत् । ततः सर्वे जलसमीपं गत्वा, काण्डात्काण्डादितिद्वयोरग्निर्याज्ञिक्यो०149 यम्भूर्वा दूर्वाऽनुष्टुप् । दूर्वारोपणे विनियोगः । ‘काण्डात्काण्डात्प्र० वयम् । इति मन्त्रद्वयान्त एकैकां दूर्वां बह्व्यो वा(ह्वीर्वा) दूर्वा रोपयन्ति । ततो जलाशयं विलोडनेनोर्मिमन्तं कृत्वा जलाशयाद्बहिः प्राचीमुदीचीं वा दिशं यावद्बलं शीघ्रं धावनं कृत्वा गृहमागच्छेयुः । ततः सर्वेऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनै पूजनपूर्वकं ब्राह्मणान्भोजयेयुः । तत्रापूपाः प्रथमं परिवेषणीयाः । ततः सक्तवः । तत ओदनः । ततोऽन्यानि व्यञ्जनानि, इति परिवेषणे क्रमः । नैवात्र त्रिवृदन्नहोमः । ततः शिष्या आचार्याय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णुं स्मरेयुः । आचार्योऽपि यस्मै कस्मैचिद्ब्राह्मणाय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णुं स्मरेत् । आचारात्सर्वे सुवृष्ट्यर्थं पर्जन्यसूक्तानि पठेयुः । उत्सर्जनोत्तरं यावदुपाकर्म शुक्लपक्षेषु धारणाध्ययनं कृष्णपक्षेषु व्याकरणाद्यङ्गाध्ययनं च कुर्यान्न त्वपूर्ववेदाध्ययनम् । अथवा त्र्यहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादपूर्ववेदाध्ययनं कर्तव्यम् । उत्सर्जनस्योपाकरणदिवसेऽनुष्ठानेऽपि तन्त्रं नैव भवति । तयोर्ग्रहणत्यागरूपयोः स्वरूपविरोधात् । इत्युत्सर्जनप्रयोगः ।

वेदपारायणोपाकरणोत्सर्जने

अथ वेदपारायणोपाकरणोत्सर्जने150

तत्र सूत्रम्–“एवं पारायणसमाप्तौ दूर्वारोपणोदधिधावनवर्जम्” इति ।

एवमित्यतिदेशादविकृता वेदोपाकरणोत्सर्जनोक्ता धर्मा वेदपारायणोपाकरणे तत्समाप्तौ च कर्तव्याः । यद्यप्युत्सर्जनमेव सन्निहितं तथाऽपि151 ग्रहणं विना त्यागायोगात् ‘उपाकरणोत्सर्जने व्याख्यास्यामः’ इति सूत्रेणैतयोः सय्ँयुक्तत्व ख्यापनाच्चोपाकरणमप्यतिदिश्यते । तथा सति वेदोपाकरणरीत्या वेदपारायणोपाकरणं वेदोत्सर्जनरीत्या वेदपारायणसमाप्तिरिति । नन्वेवं152 पारायण इति वक्तव्ये समाप्तावितिवचनं प्रक्रान्तपारायणस्य जननमरणकृताशौचेन प्रतिबन्धेऽनध्यायदिवसे च प्राप्तेऽप्यन्वहं पाठेन समाप्तेरावश्यकत्वबोधनार्थम् । तथा च बौधायनो वेदपारायणं प्रकृत्य ‘नास्यान्तराऽनध्यायो नास्यान्तरा जननमरणे अशुची’ इति ।

अस्य पारायणकर्मणो मध्येऽनध्यायो न । न चास्य मध्ये जन्ममरणे अशुचित्वहेतुभूते भवत इत्यर्थः । हस्तरोहिणीपौर्णमास्यात्मकः कालो नात्रातिदिश्यते । पारायणस्य काम्यत्वात् । त्र्यहमेकाहं वा क्षम्येत्येतदप्यत्र न प्रवर्तते । तस्य153 क्षम्येत्यत्रत्यसमानकर्तृकक्रियार्थकक्त्वाप्रत्ययेन154 यथाध्यायमध्येतव्यमित्युत्तरवाक्यविहिताङ्गत्वमेवावगम्यते । न तूपाकरणोत्सर्जनाङ्गत्वम् । उत्सर्जने तु दूर्वारोपणमुदधावूर्मिनिष्पादनं155 च साक्षान्निषेधादेवात्र न भवति156 । उदधावूर्मिनिष्पादनसम्बन्धधावनमपि न । स च सम्बन्धः क्त्वाप्रत्ययात् । इदं पारायणं काम्यम् । पापक्षयपुत्रधनधान्यस्वर्गाद्यैहिकामुष्मिकफलार्थतया बौधायनेन विहितत्वादकरणे प्रत्यवायाश्रवणाच्च । पारायणं नामाध्ययनधर्मपूर्वकं मन्त्रब्राह्मणयोरन्वहमविच्छिन्नपाठेन पारगमनम् । आरण्यकं तु ब्राह्मणमेव । आरण्यकसञ्ज्ञा तु अरण्येऽध्येतव्यत्वाद्द्रष्टव्या । अत्र पुराणे कलशस्थापनं तत्र सविशेषं ब्रह्मपूजनं चोक्तम्–

“तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते ।
कलशं सुदृढं तत्र सुनिर्णिक्तं विभूषितम् ॥
पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः ।
मृत्तिकां यवसम्मिश्रां वेदिमध्ये क्षिपेत्ततः ॥
पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुखः स्थितः ।
वाग्युतः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥
वत्सजान्वाकृतिं वेदमुत्तराग्रैः कुशैः कृतम् ।
ब्रह्मोपधाने दत्त्वा तं ततः स्वस्त्ययनं पठेत् ॥
प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्याण्य(व्यम)थोच्यते ।
यज्ञोपवीतनैवेद्यवस्त्रचन्दनकुङ्कुमैः ॥

स्रग्धूपदीपताम्बूलैरक्षतैश्च पितामहम् ।
ब्रह्म जज्ञानमिति वा गायत्र्या वा प्रपूजयेत् ॥
ततो गुरुं च सम्पूज्य यथापाठं पठेत्ततः” इति ।

सुनिर्णिक्तः सुप्रक्षालितः । वाग्युतो वाचा सरस्वत्या युतः । ब्रह्मोपधाने ब्रह्मणः शिरस उपधानार्थं दत्त्वोपधानस्थाने स्थापयित्वेति यावत् । स्वस्त्ययनं ततः पठेत् । स्वस्तिशब्दमयतीतिव्युत्पत्त्या स्वस्तिशब्दघटितो मन्त्रः स्वस्त्ययनशब्देनोच्यते । तं मन्त्रं पठेदित्यर्थः157 । अन्यत्स्पष्टम् । बौधायनसूत्रे दक्षिणादानश्रवणादृत्विग्द्वाराऽपि पारायणं भवति । पारायणस्य केनचिदन्येन कर्मणा वाग्जल्पेन वा पाठविच्छेदश्चेत्तदा प्राणायामाचमने कृत्वा प्रणवेन प्रतिसन्धाय पठनीयम् । अनुवाकान्ते विरमणम् । पुनर्दिनान्तरे कृतनित्यक्रियः प्रणवेन प्रतिसन्धाय पठेत् । तदुक्तं बौधायनेन–‘नान्तरा व्याहरेन्नान्तरा विरमेद्यावदन्तमधीयीत यदन्तरा विरमेत्त्रीन्प्राणायामान्कृत्वाऽऽचम्य प्रणवेन प्रतिसन्धाय यावत्कालमधीयीत’ इति ।

उपक्रान्तवेदपारायणमध्ये न व्याहरेत् । नाध्यापयेत्तथा लौकिकवचनमपि न ब्रूयात् । विहितनित्यनैमित्तिककर्मानुपयुक्तामुक्तिं न कुर्यात् । नान्तरा प्रश्नमध्येऽनुवाकमध्ये वा विरमणं कुर्यात् । यद्यन्तरा कुर्यात्तदा त्रीन्प्राणायामान्कृत्वाऽऽचम्य प्रणवमुच्चार्य यत्र विरमणं कृतं तत आरभ्य पठेदिति सूत्रार्थः । अत्र पदच्छेदं कृत्वैव पठेत् । ।

‘माधुर्यमक्षरव्यक्तिः परच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः"

इति पाणिनीयशिक्षावचनात् ।

अथ संहितायामेकप्राणभाव इतिप्रातिशाख्यसूत्रे–एकप्राणेन158 भाव्यत उच्चार्यत इत्येकप्राणभावः । एकेनोच्छ्वासेन यावानुच्चार्यते वेदभागस्तावानेकप्राणभाव इत्यर्थः । अत एवावसाने पदविधिरिति159 तद्भाष्यकृतोक्तत्वाच्च । एतच्च ग्रहणाध्ययनधारणाध्ययनब्रह्मयज्ञेष्वपि ज्ञेयम् । सङ्कल्पमारभ्योत्सर्जनसमाप्त्यन्तं पारायणम् । तत्र सङ्कल्पोत्तरं कर्तुर्वरणोत्तरमृत्विजश्चास्मिन्कर्मण्याशौचादि नास्तीत्युक्तमेव । ऋत्विक्कर्तृके पारायणे सुवर्णं गां वा दक्षिणां दद्यात् । स्वकर्तृकेऽपि यथाशक्ति ब्राह्मणेभ्यो दक्षिणा देयैव । ऋत्विक्कर्तृके पारायणे होमोऽपि तत्कर्तृक एव । तस्य पारायणाङ्गत्वात् । भिन्नकर्तृकेषु बहुषु पारायणेषु होमास्तत्कर्तृका भिन्ना एव । बहूनामेकं पारायणं न भवति । कृत्स्नपारायणस्य पुरुषं प्रत्युपदेशात् । एक एव यदा फलार्थतया बहूनि करोति तदा तानि मनसाऽवधार्य पारायणोपाकरणानि तन्त्रेण करिष्य इति सङ्कल्पं कुर्यात् । एवं वेदपारायणोत्सर्जनानि तन्त्रेण करिष्य इत्युत्सर्जनसङ्कल्पोऽपि । उभयोर्होमोऽपि सकृदेव नाऽऽवृत्तिः । सम्प्रतिपन्नदेवताकत्वात् । कामनाभेदे सत्येककर्तृकाणामपि तन्त्रं160 न भवति । तत्फलार्थं साङ्गस्यैव विधानात् ।

प्रयोगः

अथ प्रयोगः ।

कर्ता कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वशाखात्मकवेदपाराय[णोपाकर]णं161 करिष्य इति सङ्कल्पं कुर्यात् । पुत्रादिकामनायां तु पुत्रकामनासिद्धिद्वारा धनकामनासिद्धिद्वारा धान्यकामनासिद्धिद्वारा स्वर्गकामनासिद्धिद्वारेत्यादि यथायथमूहः । वेदान्तरपारायणेऽपि स्वीयमेव तन्त्रम् । वेदान्तरपारायणं तु स्ववेदपारायणं विना न भवति । ततस्तदङ्गं गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च कुर्यात् । ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहममुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणं वेदपाराय[णोपाकर]णार्थमृत्विजं त्वां वृण इत्यृत्विग्वरणं मधुपर्कं च कुर्यात् । ततः पारायणकर्ताऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यामुकशर्मणा वृतोऽहमृत्विक्कर्म करिष्य इति सङ्कल्प्य स्थण्डिलकरणादि बलवर्धननामानमग्निं प्रतिष्ठापयामीति लौकिकाग्निस्थापनं कुर्यात् । यजमानकर्तृके पारायणे तु गृह्याग्निमेव बलवर्धननामाऽयमग्निरिति ध्यायन्प्रज्वालयेत् । ततोऽग्निं ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वेदपारायणोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्य्-आदिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्य्-अन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्हुत्वा जयोपहोमादि सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः । ततो मही द्यौरित्यादिविधिना सुदृढं कलशं सुप्रक्षालितं पुष्पपल्लवमालाचन्दनकुङ्कुमादिभूषितं चतुरश्रायां हस्तायामविस्तारायां हस्तोच्छ्रायायां मध्यस्थितयवसम्मिश्रमृत्तिकायां वेद्यां संस्थाप्योत्तराग्रकुशकृतं वत्सजान्वाकृतिवेदं ब्रह्मणः शिरउपधानत्वेन कलशे परिकल्प्य, स्वस्ति न इन्द्र इत्यस्य162 याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वेन्द्रादयस्त्रिष्टुप् । पठने विनियोगः । ‘स्वस्ति न इन्द्रो० तिर्दधातु’ इति पठेत् । तत ऊर्ध्वाग्रपञ्चाशत्कुशनिर्मितं कूर्चं प्रत्यगग्रं निधाय तत्र ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने विनियोगः ‘ब्रह्म जज्ञानं प्रथ० विवः’ इति सरस्वतीयुतब्रह्मावाहनं कुर्यात् । वेदात्मनायेति ब्रह्मगायत्र्या वा । अस्या163 याज्ञिक्यो देवता उपनिषदः स्वयम्भूर्वा ऋषिः । ब्रह्मा देवता । गायत्री छन्दः । इत्यृष्यादिविनियोगवाक्यं प्राग्वत् । ततो नर्य प्रजामिति प्रतिष्ठाप्याऽऽसनपाद्यार्घ्याचमनीयस्नानवस्त्रद्वययज्ञोपवीतद्वयचन्दनकुङ्कुमाक्षतालङ्कारपुष्पपुष्पमालाधूपदीपनैवेद्यफलताम्बूलदक्षिणाप्रदक्षिणानमस्कारात्मकैरुपचारैः164 समभ्यर्च्य गुरुं सम्पूज्य ब्राह्मणान्सम्पूज्य विष्णुं स्मरेत् । अत्र वा ब्रह्मपूजनम् । गुरोरसान्निध्ये तमुद्दिश्य प्रणामः कार्यः । ततो दर्भासनोपविष्टो दर्भपाणिः प्राड्मुख उपविश्याऽऽचम्य प्राणानायम्य प्रणवमुच्चार्य वाग्यत इषे त्वेत्यादिकं यथापाठं साङ्गं वेदपारायणमारभेत्(त) । प्रश्नान्तेऽनुवाकान्ते वा विरमेत् । प्रत्यहं प्रहरद्वयपर्यन्तं यावत्पारायणं भवति तावत्कर्तव्यम् । अतित्वरायां सार्धप्रहरद्वयपर्यन्तम् । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कुर्यात् । द्वितीयदिने पूर्वीं शान्तिं कृत्वा कृतान्तादारभेत्(त) । कर्मसमाप्त्यन्तं ब्रह्मचर्यमधःशयनं स्वल्पं हविष्याशनं च कार्यम् । शक्तौ सत्यामुपोषणं ब्रह्मपूजनं च प्रत्यहम् । कर्मसमाप्त्यन्तं पतितरजस्वलादिसम्भाषणं तत्समक्षमध्ययनं च न कुर्यात् । ‘आ समाप्तेर्नाश्नीयाद्यथाशक्ति वाऽपः165 पयः फलान्योदनं हविष्यमात्रमल्पं भुञ्जीत नोपरि शयीत न मैथुनं चरेत्पतिताद्यैर्न सम्भाषेत नैतत्समीपेऽधीयीत’ इतिबौधायनोक्तेः166 । ऋत्विक्कर्तृके पारायणे पारायणकारयित्राऽपि नियमाः कार्या एव । इति वेदपारायणोपाकरणप्रयोगः ।

वेदपारायणोत्सर्जनप्रयोगः

अथ वेदपारायणोत्सर्जनप्रयोगः ।

पारायणकर्ता समाप्ते पारायणे प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यापां समीपे शुचौ देश उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मया कृतस्य वेदपारायणस्य साङ्गतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदपारायणोत्सर्जनाख्यं कर्म करिष्य इति सङ्कल्पं कुर्यात् । यदा तु स्वकर्तृकमेव पारायणं तदा गृह्याग्नौ होमस्य कर्तव्यत्वात्तदर्थं गमनवेलायामेव पूर्ववदग्निं समारोप्य तेन सहैव गच्छेत् । ततस्तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं167 च कुर्यात् । तत ऋत्विक्पूर्वोक्तरीत्या स्नानविधिं देवर्षिपितृपूजनं च कुर्यात् । अत्र परस्परं दर्भप्रदानं नास्त्यन्यस्यैवाभावात् । बहुषु पारायणेषु यदि बहवः कर्तारस्तदाऽपि न दर्भदानम् । भिन्नकर्मसम्बद्धेष्वृत्विक्षु सम्प्रदानत्वायोगात् । ततोऽपरेण वेदिमग्निमुपसमाधायेत्यादि प्राणायामान्तं कृत्वा वेदपारायणोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्य्-आदि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्य्-अन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्हुत्वा जयोपहोमादि सर्वं होमशेषं समापयेत् । नैवात्र त्रिवृदन्नहोमः । दूर्वारोपणमुदधावूर्मिष्पादनमाजिधावनं च नास्ति । ततो ब्रह्माणं सम्पूज्य विसर्जयेत् । ततो यजमान ऋत्विग्द्वारा पारायण ऋत्विजे सुवर्णगोदानवस्त्ररथाद्यन्यतमां यथाविभवं दक्षिणां दत्त्वाऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनैर्ब्राह्मणान्पूजनपूर्वकं भोजयित्वा भूयसीं दक्षिणां दत्त्वाऽग्निं सम्पूज्य विभूतिं धृत्वा लौकिकाग्नौ होमश्चेत्तमग्निं गच्छ गच्छेति विसृज्य प्रमादादिति विष्णुं स्मरेत् । इति वेदपारायणोत्सर्जनप्रयोगः ।

नित्यस्नानतर्पणे

अथ नित्यस्नानतर्पणे ।

तत्र सूत्रम्–“नित्यमेवं स्नात्वाऽद्भिर्देवानृषीन्पितॄंश्च तर्पयन्ति तर्पयन्ति” इति ।

नित्यं सदा, एवमुत्सर्जनोक्तस्नानविधिना स्नात्वाऽद्भिस्तत्तत्तीर्थैर्यज्ञोपवीतित्वादिभिस्तत्तद्धर्मैर्देवानृषीन्पितॄंश्च प्रातःस्नानोत्तरं मध्याह्नस्नानोत्तरं च तर्पयन्तीत्यर्थः । एवं ब्रह्मयज्ञादनन्तरं तत्राकृतं चेन्मध्याह्नसन्ध्योत्तरं वा । तर्पयन्तीतिद्विरुक्तिः प्रश्नसमाप्तिद्योतनाय ।

तर्पणीयपितरः

अथ तर्पणीयपितरः ।

“ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं
सस्त्रि स्त्री तनयादि तातजननीस्वभ्रातरः सस्त्रि(रस्तत्स्त्रि)यः ॥
ताताम्बात्मभगिन्यपत्यधवयुग्जायापिता सद्गुरुः
शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे” इति ॥

तातत्रितयं कर्तुः पितृपितामहप्रपितामहाः । अम्बात्रितयं मातृपितामहीप्रपितामह्यः168 । सपत्नजननी सपत्नमाता । मातामहादित्रयं स्पष्टम् । सस्त्रि मातामहीमातुःपितामहीमातुःप्रपितामहीसहितम् । तेनात्र मातामहं सपत्नीकं स्वधा नमस्तर्पयामीत्यादिप्रयोगो द्रष्टव्यः । तत्स्त्रीतिपाठे पृथगेव मातामह्या दीनां तर्पणम् । स्त्री भार्या । तनयादीत्यादिपदेन पौत्रादिग्रहणम् । भ्रातृशब्दस्य तातजननीशब्दयोरप्यन्वयः । तेन तातभ्रातरो जननीभ्रातरः स्वभ्रातर इत्यर्थो भवति । तत्स्त्रियस्तेषां तातभ्रातृजननीभ्रातृस्वभ्रातॄणां स्त्रिय इत्यर्थः । सस्त्रिय इतिपाठे स्त्रीसहिता इत्यर्थः । स्त्रीति169 स्त्र्यपत्ययोरुपलक्षणम् । तेन पितृव्यं सपत्नीकं सापत्यं स्वधा नमस्तर्पयामीति प्रयोगः । एवं मातुलभ्रात्रोरपि । ताताम्बात्मभगिनी(नि) तातभगिनी, अम्बाभगिनी, आत्मभगिनी, तद्भर्तारस्तदपत्यानि च । तातभगिनीं सभर्तृकां सापत्यां स्वधा नमस्तर्पयामीति प्रयोगः । एवं मातृभगिन्यात्मभगिन्योरपि । जायापिता श्वशुरः । अन्यत्स्पष्टम् ।

तर्पणविधिः

अथ तर्पणविधिः ।

तत्र वसिष्ठः–

“ऋक्सामाथर्ववेदोक्ताञ्जप्यान्मन्त्रान्यजूंषि च ।
जप्त्वा चैवं ततः कुर्याद्देवर्षिपितृतर्पणम्” इति ॥

बृहस्पतिरपि–

“ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्यां चाऽऽध्यात्मिकीं जपेत् ।
जप्त्वाऽथ प्रणवं चापि ततस्तर्पणमाचरेत्” इति ॥

विष्णुपुराणेऽपि–

“शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ॥
तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः” इति ॥

स्नातः शुचिवस्त्रधरः इत्यन्वयः

व्यासः–

“एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस्त्रींस्त्रीन्स्त्रियश्चैकैकमञ्जलिम्” इति ॥

सनकादय इति स्वस्वशाखोक्तर्ष्युषलक्षणम् । स्त्रीष्वपि विशेषः स्मृत्यन्तरे–

“मातृमुख्याश्च यास्तिस्रस्तासामप्यञ्जलित्रयम् ।
दद्यादेकैकमन्यासां स्त्रीणां चैवाञ्जलिं बुधः” इति ।

मातामह्यादीनामप्यञ्जलित्रयं देयम् । तथा च स्मृतिः–

“मातृमुख्याश्च यास्तिस्रो मातामह्यादयश्च याः ।
अञ्जलित्रयमेतासामन्यत्रैकैकमञ्जलिम्” इति ।

आग्नेयपुराणे–

“प्रागग्रेषु सुरांस्तर्पेन्मनुष्यांश्चैव मध्यतः ॥
पितॄंस्तु दक्षिणाग्रेषु दद्याद्द्वित्रिजलाञ्जलीन्” इति ।

अत्राञ्जलिसङ्ख्या यथाशाखं व्यवतिष्ठते । यत्र सङ्ख्यानियमो न श्रूयते तत्र विकल्पः । उशना–

“द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्” इति ।

ब्रह्मपुराणे–

“कुशाग्रेषु सुरांस्तर्पेन्मनुष्यांश्चैव मध्यतः ।
पितॄंस्तु कशमूलेषु तर्पयेच्च यथाविधि” इति ।

आग्नेयपुराणे–

“सव्येन देवकार्याणि वामेन पितृतर्पणम् ।
निवीतेन मनुष्याणां तर्पणं सव्ँविधीयते” इति ।

सव्येनोपवीतेन । वामेन प्राचीनावीतेन । तथा च शङ्खलिखितौ–

“उभाभ्यामपि हस्ताभ्यां प्राङ्मुखो यज्ञोपवीती
प्रागग्रैः कुशैर्देवतातर्पणं देवतीर्थेन कुर्यात्” इति ।

विष्णुरपि–

“ततः कृत्वा निवीतं तु यज्ञसत्रमुदङ्मुखः ।
प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत्पृथक्” इति ।

मनुष्यानृषीन् । (कनिष्ठाङ्गुलेर्मूलप्रदेशः170 प्राजापत्यं तीर्थम् । अञ्जलेस्तर्पणकरणत्वकल्पे कनिष्ठाद्वयमूलप्रदेशः प्राजापत्यं तीर्थम् । स्वल्पाङ्गुल्योर्मूले कार्यमिति कोशे द्विवचननिर्देशात् ।

पुलस्त्यः–

“अन्वाच्य दक्षिणं जानुं प्रागग्रैस्तु कुशैर्द्विजः ।
देवान्सन्तर्पयेद्भक्त्या ध्यायंस्तद्गतमानसः” इति ।

गोभिलः–

“देवान्सन्तर्पयन्प्राज्ञो दक्षिणं जानु भूतले ।
निदध्यादथ वामं तु पितॄनपि विचक्षणः ।
मनुष्यतर्पणं कुर्वन्न किञ्चिज्जानु पातयेत्” ) [इति] ।

बौधायनः–

“अथ दक्षिणामुखः प्राचीनावीती
पितॄन्स्वधा नमस्तर्पयामि” इत्य्-आदि

यस्तु–171

“उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छति ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः” ।

इति व्याघ्रपादुक्तो172 निषेधः [स] श्राद्धसमयार्घ्यादिविषयः ।

अत एव कार्ष्णाजिनिः–

“श्राद्धे विवाहकाले च पाणिनैकेन दीयते ।
तर्पणे तूभयेनैव विधिरेष पुरातनः” इति ।

(173 कौर्मे तु–

“अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षींस्तर्पयेद्विद्वानुदकाञ्जलिभिः पितॄन्”

इति सव्यपाण्यन्वारब्धदक्षिणपाणिना तर्पणमुक्तम् । तेन विकल्पः ।

तथा च वसिष्ठः–

“एकेन वाऽथ हस्तेन देवर्षिपितृतर्पणम् ।
सव्यान्वारब्धेनोभाभ्यां वाऽपि कुर्यात्सदैव तु” इति ।

न क्रुद्धो नैकपाणिना’ इति गोभिलोक्तनिषेधस्त्वनन्वारब्धपाणिविषयः । एकहस्तेन तर्पणमाश्वलायनविषयम् । ‘अनादेशे दक्षिणं प्रतीयात्’ इति परिभाषासूत्रात् । अञ्जलिस्त्वन्यविषय इति केचित् । अन्ये तु–अनादेशे दक्षिणं प्रतीयादिति सूत्रोक्तकर्मसु हस्तकरणेषु हस्तानादेशे दक्षिणहस्तः करणत्वेन ज्ञेयः । तेन तर्पणे फलार्थविहितसुवर्णखड्गपात्रादिकरणत्वे हस्तस्याकरणा(णत्वा)न्न दक्षिणहस्तनियम इति तद्विषयकोऽप्यञ्जलिविधिः । एवं स्नानाङ्गश्राद्धाङ्गतर्पणविषयोऽपि । हस्तकरणकः(क) ब्रह्मयज्ञोत्तरतर्पणं तु सव्यान्वारब्धदक्षिणहस्तेनैवेत्याहुः ।) एतच्च तर्पणं स्थलस्थो न जले कुर्यात् ।

तथा च गोभिलः–

“नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत्तोयं यन्न भूमौ प्रदीयते” इति ।

अतः स्थलस्थो भूमावेव तर्पणं कुर्यान्न जलादौ ।

तथा च विष्णुः–

“स्थले स्थितो जले यस्तु प्रयच्छेदुदकं नरः ।
नोपतिष्ठति तद्वारि पितॄणां तन्निरर्थकम्” इति174

स्मृत्यन्तरे–

“आर्द्रवासा देवर्षिपितृतर्पणमम्भस्येव
कुर्यात्परिहितवासाश्चेत्तीर्थमुतीर्य” इति ।

अत्र विशेषमाह हारीतः–

“वसित्वा वसनं शुष्कं स्थले विस्तीर्णबर्हिषि ।
केशभस्मतुषाङ्गारकण्टकास्थिसमाकुलम् ।
भवेन्महीतलं यस्माद्बर्हिषाऽऽस्तरणं ततः ।
पात्राद्वा जलमादाय शुभे पात्रान्तरे क्षिपेत् ।
जलपूर्णेऽपि वा गर्ते न स्थले तु विबर्हिषि” इति ।

यत्तु कार्ष्णाजिनिनोक्तम् ‘देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम्’ इति, तदशुचिस्थलविषयम् । तदाह विष्णुः–

“यत्राशुचि स्थलं चेत्स्यादुदके देवताः पितॄन् ।
तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम्” इति ।

पात्रे विशेषमाह पितामहः–

“हेमरूप्यमयं पात्रं ताम्रकांस्यसमुद्भवम् ।
पितॄणां तर्पणे पात्रं मृन्मयं तु परित्यजेत्” इति ।

मरीचिः–

“सौवर्णेन च पात्रेण ताम्ररौप्यमयेन(ण) वा ।
औदुम्बरेण खड्गेन पितॄणां दत्तमक्षयम्” इति ।

( 175 अत्र तृतीयानिर्देशात्करणपात्राणि, पितामहवाक्ये त्वधिकरणपात्राणीति जीर्णाः । पितामहवाक्यस्य मरीचिवाक्येनोपसंहारादेतेषां करणत्वमेव । अधिकरणपात्रस्य निषेधः । अत्र स्वर्णादिपात्राणां निरपेक्षकरणत्वात् । इति नवीनाः । ब्राह्मादितीर्थबाध इति मैथिलाः । समुच्चय इति केचित् ।)

रिक्तहस्तेन न कुर्यादित्याह स एव–

“विना रौप्यसुवर्णेन विना ताम्रतिलैस्तथा ।
विना मन्त्रैश्च दर्भैश्च पितॄणां नोपतिष्ठते” इति ।

अन्यच्च स एव हेमाद्रौ–

“हिमेन सह यद्दत्तं क्षीरेण मधुनाऽथवा ।
तदप्यक्षय्यतां याति पितॄणां तु तिलोदकम्” इति ।

निहितं(हिमं) कर्पूरं चन्दनं वेति हेमाद्रिः ।

स्मृत्यन्तरे–

“खड्गमौक्तिकहस्तेन कर्तव्यं पितृतर्पणम् ।
मणिकाञ्चनदर्भैर्वा न शुद्धेन कदाचन” इति ।

(176 मणिः सौवर्णो न तु नीलादिः ।

“नीलगोमेदवज्रादिहस्तो नैव तु तर्पणम् ।
प्रकुर्वीत द्विजो धीमानन्यथा पापभाग्भवेत्” इति प्रयोगसारेऽत्र्युक्तेः ।

दर्भेषु विशेषमाह नारदः–

“तर्पणादीनि कार्याणि पितॄणां यानि कानिचित् ।
तानि स्युर्द्विगुणैर्दर्भैः सप्तपत्रैर्विशेषतः” इति ।

अत्र तर्पणाङ्गत्वेन विधानाद्धारणदर्भापेक्षात एतेषां भेदः । तेन खड्गपात्रादिभिस्तर्पणे तन्मध्ये प्रागग्रादिदर्भान्तरनिधानं तिलप्रक्षेपश्चेति सम्प्रदायविदः । नवीनास्तु मरीचिवाक्ये दर्भादिपदोत्तरतृतीयाया उपपदविभक्तितया कारकविभक्तित्वाभावान्न दर्भाणां तर्पणाङ्गत्वं किन्तु सामान्यतःप्राप्तसर्वाङ्गत्वानामशुद्धस्थलसंस्कारकत्वेन वा प्राप्तानां दर्भाणां विन्यासविशेषविधानार्थोऽयमनुवादः । तेन धारणदर्भापेक्षया दर्भान्तरग्रहणमित्याहुः । न चात्र समुच्चयः, नापि समविकल्प इत्यभिप्रेत्याऽऽह मरीचिः–

“तिलानामप्यभावे तु सुवर्णरजतान्वितम् ।
तदभावे निषिञ्चेत्तु दर्भैर्मन्त्रेण वा पुनः” इति ।

(177 अनेन मन्त्रावश्यकत्वमुक्तं भवति । अत एव जाबालिः–

“सुवर्णं रजतं दर्भान्यथालाभं प्रयोजयेत् ।
न मन्त्रेण विना कार्यं कदाऽपि तर्पणं बुधैः” इति ।

गौतमः–

“कुशानामप्यलाभे तु काशा दूर्वा अथापि वा ।
सय्ँयोज्य तर्पणं कुर्यान्न तु शून्यकरः क्वचित्” इति ।

अत्र विशेषमाह प्रजापतिः–

“तर्पणादीनि कार्याणि पितॄणां यानि कानिचित् ।
तानि स्युर्द्विगुणैर्दर्भैः सपवित्रैर्विशेषतः” इति ।

भृगुः–

“प्रागग्रैस्तर्पयेद्देवानुदगग्रैस्तु मानुषान् ।
तानेव द्विगुणीकृत्य तर्पयेत्प्रयतः पितॄन्” इति ।

तानेवेति देवतर्पणविनियुक्तानामपि तेषां पितृतर्पणयोग्यतेत्युक्तमिति हेमाद्रिः ।) तिलग्रहणे विशेषमाह योगयाज्ञवल्क्यः–

“यद्युद्धृतं निषिञ्चेत्तु शिलान्सम्मिश्रयेज्जले ।
अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः” इति ।

अन्यथाऽनुद्धृतेन तर्पणे । सव्येन तिला ग्राह्या इत्येतदलोमकप्रदेशाभिप्रायम् । तथा च देवलः–

“रोमसंस्थं तिलान्कृत्वा यस्तु तर्पयते पितॄन् ।
पितरस्तर्पितास्तेन रुधिरेण मलेन वा”इति ।

वर्णभेदेन तिलानां विनियोगविशेषं दर्शयति स एव–

“शुक्लैस्तु तर्पयेद्देवान्मनुष्याञ्छबलैस्तिलः ।
पितॄन्सन्तर्पयेत्कृष्णैस्तर्पयन्सर्वदा द्विजः” इति ।

शबलः कर्बुरवर्णश्चित्रवर्ण इति यावत् । ‘चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरात् । तेन शुक्लान्कृष्णान्धूसरांश्च तिलान्मिश्रयित्वा तैर्मनुष्यांस्तर्पयेदित्यर्थः । कूर्मपुराणे–

“देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
पितॄन्भक्त्या तिलैः कृष्णैः स्वसूत्रोक्तविधानतः” इति ॥

स्मृत्यन्तरे–

“अद्भिस्तण्डुलमिश्राभिर्देवानां तर्पणं चरेत् ।
सयवामिर्ऋषीणां स्यात्पितॄणां सतिलोदकैः” इति ॥

पितृतर्पणप्रकारमाह पैठीनसिः–

“स्वनामगोत्रग्रहणं पुरुषं पुरुषं प्रति ।
तिलोदकाञ्जलींस्त्रींस्त्रीनुच्चैरुच्चैर्विनिक्षिपेत्” इति ॥

(178 ब्रह्माण्डपुराणे–

“अञ्जलिद्वितयं दद्याद्देवान्सन्तर्पयन्बुधः ।
ऋषीणां न मनुष्याणां सकृदेव प्रदापयेत् ॥
त्रिस्त्रिः पितृभ्यो दद्यात्तु स्त्रीणां तु सकृदेव हि ।
द्वौ द्वौ मातामहानां च मातुलानां सकृत्तथा ॥
गुर्वाचार्यश्वशुराणां सुहृत्सम्बन्धिनां सकृत्” इति ।

बौधायनः–

“जलाञ्जलित्रयं दद्याद्ये चान्ये संस्कृता भुवि ।
असंस्कृतप्रमीतानामेकमेवावरे क्षिपेत्” इति ॥

अत्र यथास्वशाखं व्यवस्था वेदितव्या । येषां तु शाखिनामेवाऽऽम्नानं तेषां विकल्प इति हेमाद्रिः । ) योगयाज्ञवल्क्योऽपि–

“सवर्णेभ्यो जलं देयं नासवर्णेभ्य एव च ।
गोत्रनामस्वधाकारैस्तर्पयेदनुपूर्वशः” इति ॥

अनुपूर्वशः पित्रादिक्रमेण । अत्र मदनपारिजातः–यद्यप्यसवर्णेभ्य इत्यविशेषेणोपादानं कृतं तथाऽप्युत्तमवर्णेन हीनवर्णोद्देशेन न कार्यम् । होनवर्णेनोत्तमवर्णोद्देशेन कृते न दोषः । यतस्तद्वर्णतापत्तिर्दोषत्वेनाभिहिता स्मृतिषु । हीनस्योत्कृष्टत्वं न दुष्टम् । उत्कृष्टस्य हीनत्वं तु दुष्टमेव । सवर्णशब्दो मूर्धा भिषिक्तादिजातीनामुपलक्षणार्थः । यद्यप्यसवर्णसापत्नमातृभ्रात्रादयोऽप्यसवर्णास्तथाऽपि तर्पणं कार्यमेव ।

“पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तद्दु-
हितरश्च भगिन्यस्तदपत्यानि भागिनेयानि” इति सुमन्तुवचनात् ।

यत्र च समत्वापादनं तत्र मुख्यापेक्षया किञ्चिन्न्यूनता भवतीति नात्र तत्प्राधान्यम् । अपि तु स्वसन्निहितसवर्णतर्पणानन्तरमेव तत्तर्पणमिति विवेकः । ननु सुमन्तुवचनेऽपि सवर्णानामेव मात्रादिसाम्यं भवतु मा नाम भूदसवर्णानामिति चेन्न । तथा सति पितृपत्न्यः सर्वा मातर इति न ब्रूयात् । उपात्तश्च सर्वशब्दो न तु पितृपत्न्य एव । अतः सर्वशब्दासङ्कोचाय पूर्वोक्त एक युक्तः पक्षः । एतेन भीष्मतर्पणमपि ब्राह्मणस्य निषिद्धमित्युक्तं भवतीत्याह । (179 एतस्मादेव मदनपारिजातग्रन्थात्सपत्नभ्रातृमातुलमातृष्वसॄणामपि तर्पणोद्देश्यतायामवगतायामुपलक्षणतया सपत्नपितृव्यादीनामप्युद्देश्यता द्रष्टव्येति केचित् । सापत्नपितामह्यादीनां पितामहीत्वादिना न तर्पणम् । बन्धुत्वेन तर्पणे न दोष इति गागाभट्टाः ।) नामग्रहणे विशेषमाह बौधायनः–

“शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्त्रियस्य तु ।
गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः” इति ॥

गोत्रे विशेषमाह स एव–

“चतुर्णामपि वर्णानां पितॄणां पितृगोत्रतः ।
पितृगोत्रं कुमारीणामूढानां भर्तृगोत्रतः” इति ॥

जीवत्पितृकस्य नित्यतर्पणनिषेधमाह कार्ष्णाजिनिः–

“न जीवत्पितृकः कुर्यान्मात्रादीनां तु तर्पणम् ।
एतेषामपि कर्तव्यं श्राद्धाङ्गं तर्पणं यदि” इति ॥

जीवत्पितृककर्तृकतर्पणे विशेषमाह योगयाज्ञवल्क्यः–

“कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ।
अग्निष्वात्ताः सोमपाश्च तथा बर्हिषदोऽपि च ॥
यदि स्याज्जीवत्पितृकस्तान्विन्द्याच्च180 तथा पितॄन् ।
येभ्यो वाऽपि पिता दद्यात्तेभ्यो वाऽपि प्रदीयते ॥
एतांश्चैव प्रमीतांश्च प्रमीतपितृको द्विजः” इति ॥

तर्पयेदिति शेषः । कव्यवाडित्यादि तत्तच्छास्त्रोक्तपितॄणामुपलक्षणम् । (181 जीवत्पितृकस्यापसव्ये विशेषः स्मृतिसारे–182

“अपसख्यं द्विजाग्ज्याणां पित्र्ये सर्वत्र कीर्तितम् ।
आप्रकोष्ठात्प्रकर्तव्यं मातापित्रोस्तु जीवतोः” इति ॥)

तिथ्यादिविशेषेण तिलतर्पणं निषेधति मरीचिः–

“सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम्” इति ॥

अत्राधिकारिविशेषश्रवणाद्भृत्यपुत्रकलत्रकामस्यैवायं निषेधः, न तु विधुरापुत्रादेरिति नवीनाः ।

ब्रह्मपुराणेऽपि–“सन्ध्ययोर्निशि सप्तम्यां न कुर्यात्तिलतर्पणम्” इति ॥

बौधायनोऽपि–

“सप्तम्यां रविवारे च जन्मर्क्षदिवसेषु च ।
गृहे निषिद्धं सतिलं तर्पणं तद्बहिर्भवेत् ॥
विवाहे चोपनयने चौले चैव यथाक्रमम् ।
वर्षमर्धं तदर्धं च न कुर्यात्तिलतर्पणम् ॥
संस्कारेषु तथाऽन्येषु जातपुंसवनादिषु ।
यावन्मासः समाप्येत तावत्पिण्डान्विवर्जयेत्183
वृद्धावनन्तरं प्राज्ञस्तथैव तिलतर्पणम्” इति184

तथैव मासपर्यन्तमित्यर्थः ।

स्मृत्यन्तरे–

“नन्दायां भार्गवदिने कृत्तिकासु मघासु च ।
भरण्यां भानुवारे च गजच्छायाह्वये तथा ॥
अयनद्वितये चैव मन्वादिषु युगादिषु ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्” इति ॥

भविष्ये–

“भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
जन्मर्क्षदिवसे चैव न कुर्यात्तिलतर्पणम्” इति ॥

स्मृत्यन्तरे–185

“सप्तम्यां रविवारे च मातापित्रोः क्षयेऽहनि ।
तिलैर्यस्तर्पणं कुर्यात्स भवेत्पितृघातकः” इति186

हलायुधीये–

“द्वादश्यां निशि सप्तम्यां रविशुक्रदिने तथा ।
श्राद्धे जन्मदिने चैव न कुर्यात्तिलतर्पणम्” इति ॥

सर्वेऽपि निषेधास्तिलमात्रपरा न तु नित्यतर्पणपरा अन्यथा तिलपदवैयर्थ्यापत्तेः । (187 अत्र188 होम(महे)शादयः–सर्वे तिलतर्पणनिषेधा गृहविषयाः ।

“सप्तम्यां रविवारे च जन्मर्क्षदिवसोत्सवे ।
गृहे निषिद्धं सतिलं तर्पणं तद्वहिर्भवेत्” ॥

इति सत्यव्रतेन निषिद्धदिनेषु बहिस्तिलतर्पणविधानादित्याहुः । अन्ये तु–गृहस्य पृथगेव तिलतर्पणनिषेधनिमित्ततेति सर्वदैव सतिलं तर्पणं गृहे निषिद्धमिति व्याचक्षते । अपरे तु गृहेऽपि तिलोदकेन शिष्टानां तर्पणाचारदर्शनात्सत्यव्रतोक्तः सप्तम्यादिकालत्रय एव गृहे सतिलतर्पणनिषेधः स्वारसिको नतु सर्वदा नापि निषिद्धकालान्तरे । उपलक्ष[ण]त्वे प्रमाणाभावात् । अन्यथा प्रतिप्रसववाक्यानां गृह एव तर्पणविधानेना(ता)त्पर्यं वक्तव्यमिति महदनिष्टम् ।

तथा हि–

“अयने विषुवे चैव सङ्क्रान्तौ ग्रहणेषु च ।
उपाकर्मवृषोत्सर्गयुगादौ मृतवासरे ॥
सूर्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे” इति ।

तथा–

“उपरागे पितुः श्राद्धे पातेऽमायां च सङ्क्रमे ।
निषेधेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत्” ॥

इत्य्-आदिवचनैर्भवन्मते गृहे निषिद्धतर्पणस्य पुनः प्रापणेन सन्निहितेऽपि महातीर्थे गृह एव तर्पणं स्यात् । किञ्च जाह्नव्यादौ189 निषेधस्याप्राप्तत्वात्

“विशेषतस्तु जाह्नव्यां सर्वदा तर्पयेत्पितॄन् ।
न कालनियमस्तत्र क्रियते सर्वकर्मसु ॥
तिथितीर्थशेषे च गयायां पितृपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्” ॥

इति स्कान्दाद्युक्ता(क्त)प्रतिप्रसवोऽप्यनुपपन्नः स्यादित्याहुः ।)

तर्पणनिषेधप्रतिप्रसवमाह गोभिलः–

“सङ्क्रान्त्यादिनिमित्तेषु स्नानाङ्के तर्पणे तथा ।
तिथिवारनिषेधेऽपि तिलैस्तर्पणमाचरेत्” इति ॥

सङ्क्रान्तिरयनाभिन्नेति190 प्रयोगपारिजाते ।

मरीचिः–

“तिथितीर्थविशेषेषु गङ्गायां191 प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्” इति ॥

बौधायनोऽपि–“तिथितीर्थविशेषेषु कार्यं प्रेते च सर्वदा” इति ।

तिथिविशेषोऽष्टकाकपिलषष्ठ्यादिः । तीर्थविशेषशब्देन यस्य तीर्थस्य समीपे निवसति तद्व्यतिरिक्तं तीर्थं ग्राह्यम् । अन्यथा तीर्थ इत्येतावतैव सिद्धौ विशेषपदवैयर्थ्यापत्तेः । एतच्च गङ्गातिरिक्तपरम् । तस्याः पुनर्ग्रहणात् । गयायामितिपाठाङ्गीकारे तु गङ्गासमीपवासिनामपि निषेधोऽस्त्येव ।

जीवत्पितृकस्य कृष्णतिलतर्पणं निषेधति व्यासः–

“मुण्डनं पिण्डदानं च प्रेतकर्म च नित्यशः ॥
न जीवत्पितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम्” इति ।

पिण्डदाने प्रेतकर्मविषये च प्रतिप्रसवः श्राद्धप्रकरणे द्रष्टव्यः । सति सम्भवे काण्डर्षितर्पणमपि कार्यम् । उक्तं च काण्डानुक्रमणिकायाम्–

“अथ काण्डऋषीनेतानुदकाञ्जलिभिः शुचिः ।
अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च” इति ।

अवसानाञ्जलिमाह कात्यायनः–192

“ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत्त
उदकमर्हन्ति तांस्तर्पयामीत्यवसानाञ्जलिः” इति ।

आदित्यपुराणेऽपि-193

“यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् ।
तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम् ॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
तेषां तु दत्तमक्षय्यमिदमस्तु तिलोदकम्” इति ।

मत्स्यपुराणेऽपि–

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला194 यान्तु यश्चास्मत्तोऽम्बु वाञ्छति" इति ।

विस्तरेण कर्तुमसमर्थस्य सङ्क्षेपेण तर्पणमुक्तं स्मृत्यन्तरे–

“आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।
एकं जलाञ्जलिं दद्यात्कुर्यात्सङ्क्षिप्ततर्पणम्” इति ।

प्रकारान्तरमुक्तं विष्णुपुराणे–

“आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ।
क्षिपेत्पयोञ्जलींस्त्रींस्तु कुर्यात्सङ्क्षिप्ततर्पणम्” इति ।

यमतर्पणं तु195 वृद्धमनुनोक्तम्–

“दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम् ।
कृष्णाङ्गारचतुर्दश्यामपि कार्यं सदैव तु ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै196 नमः” इति ।

एतत्प्रकारस्तु स्कन्दपुराणे निरूपितः–

“दीपोत्सवचतुर्दश्यां सव्येन यमतर्पणम् ।
अपसव्येन वा कुर्याद्यमस्यास्ति द्विरूपता” इति ।

सव्यपक्षे प्राङ्मुखता देवतीर्थं तण्डुला यवा वा । अपसव्यपक्षे दक्षिणाभिमुखता पितृतीर्थं तिला इति द्रष्टव्यम् । एवं कुर्वतः फलमाह यमः–

“यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम् ।
सन्तर्प्य धर्मराजानं मुच्यते सर्वकिल्बिषैः” इति ।

कृष्णचतुर्दशीमित्यनन्तरं प्राप्येति शेषः । माघशुक्लाष्टम्यां भीष्मतर्पणम् । तदुक्तं व्यासेन–

“शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम् ।
सव्ँवत्सरकृतं पापं तत्क्षणादेव नश्यति” इति ।

मन्त्रस्तु प्रयोगे वक्ष्यते । एतच्च ब्राह्मणस्य न भवतीति मदनपारिजाते । तर्पणप्रशंसा पुराणे दर्शिता–

“एवं यः सर्वभूतानि तर्पयेदन्वहं द्विजः ।
स गच्छेत्परमं स्थानं तेजोमूर्तिमनामयम्” इति ।

अकरणे प्रत्यवायः पुराणे दर्शितः–

“देवताश्च पितॄंश्चैव मुनीन्वा यो न तर्पयेत् ।
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते” इति ।

योगयाज्ञवल्क्योऽपि–

“नास्तिक्याद्यो नरस्तांस्तु न तर्पयति वै पितॄन् ।
पिबन्ति देहनिस्रावं पितरोऽस्य जलार्थिनः” इति ।

हारीतोऽपि–

“देवाश्च पितरश्चैव काङ्क्षन्ति सरितां जलम् ।
अदत्ते तु निराशास्ते प्रतियान्ति यथागतम्” इति ।

कात्यायनोऽपि–

“छायां यथेच्छेच्छरदातपार्तः पयः पिपासुः क्षुधितोऽलमन्नम् ।
बालो जनित्रीं जननी च बालं योषित्पुमांसं पुरुषश्च योषाम् ।
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
पितरो जलमिच्छन्ति सर्वे ह्युदककाङ्क्षिणः ।
तस्मात्सदैव कर्तव्यमकुर्वन्महदेनसा ।
युज्यते ब्राह्मणः कुर्वन्विश्वमेतद्बिभर्ति हि” इति ।

अत्र पितृगाथा–

“अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् ।
नदीषु बहुतोयासु शीतलासु विशेषतः” इति ।

यद्यप्येतस्माद्वचनादुदके तर्पणं प्रतीयते तथाऽपि पूर्वोदाहृतगोभिलादिवचनानुरोधादशुचिस्थलविषयं द्रष्टव्यम् । यत्तु वृत्तिकृता जले तर्पणमुक्तं तदप्येतद्विषयमेव । तर्पणानन्तरं वस्त्रनिष्पीडनं कर्तव्यम् । तदाह योगयाज्ञवल्क्यः–

“यावद्देवानृषींश्चैव पितॄंश्चापि न तर्पयेत् ।
तावन्न पीडयेद्वस्त्रं यो हि स्नातो भवेद्द्विजः ।
निष्पीडयति यो वस्त्रं स्नानवस्त्रमतर्पिते ।
निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” इति ।

बृहत्पराशरोऽपि–

“निष्पीडयेत्स्नानवस्त्रं तिलदर्भसमन्वितम् ।
न पूर्वं तर्पणाद्वस्त्रं नैवाम्भसि न पादयोः” इति ।

निष्पीडनं स्थले कार्यम् । तदुक्तं स्मृत्यन्तरे–

“वस्त्रनिष्पीडितं तोयं श्राद्धे चोच्छिष्टभोजिनाम् ।
भागधेयं श्रुतिः प्राह तस्मान्निष्पीडयेत्स्थले” इति ।

स्मृतिमञ्जर्याम्–

“जलमध्ये यदा कश्चिद्ब्राह्मणो ज्ञानदुर्बलः ।
निष्पीडयति वस्त्राणि स्नानं तस्य वृथा भवेत्” इति ।

स्मृतिसङ्ग्रहे–

“द्वादश्यां पञ्चदश्यां च सङ्क्रान्तौ श्राद्धवासरे ।
वस्त्रं निष्पीडयेन्नैव न च क्षारेण योजयेत्” इति ।

भृगुः–

“एकादश्याममायां च मातापित्रोः क्षयेऽहनि ।
न पीडयेत्स्नानवस्त्रं न च क्षारेण योजयेत्” इति ।

तथा–

“धौतवस्त्रं प्रपीड्येत ऊर्ध्वपल्लवसय्ँयुतम् ।
पल्लवाधो न पीड्येत पीडिते त्वशुचिर्भवेत्” इति ।

विष्णुपुराणे–“आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम्” इति ।

एतन्मन्त्रस्तु प्रयोगे वक्ष्यते ।

प्रयोगः

अथ प्रयोगः ।

कर्ता प्रातरुत्थानादिदन्तधावनान्तं नित्यविधिं कृत्वा स्नानसामग्रीं गृहीत्वा जलसमीपं गत्वोद्धृतजलेन मुखं पाणी पादौ च प्रक्षाल्योदकं स्पृष्ट्वा मलापकर्षस्नानं कृत्वा बद्धशिखो दर्भपाणिः प्राङ्मुख आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम सकलपापक्षयपूर्वककर्माधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातःस्नानमहं करिष्य इति सङ्कल्प्योत्सर्जनोक्तरीत्या तीर्थप्रार्थनादिवस्त्रपरिधानान्तं कृत्वा सन्ध्यावन्दनं विधाय ब्रह्मयज्ञं कुर्यात् । ततो निष्पीडितं वस्त्रं स्कन्धेऽनभिप्रक्षिपन्नेव गृहमागच्छेत् । गृहे स्नानं तु गृहद्वाराभिमुखम् । गृहे स्नान आदावेव सङ्कल्पं कृत्वा शीतासूष्णा आनीय मलापकर्षस्नानादि । मांसोच्चारवर्जं सङ्कल्पोऽत्रेति197 केचित् । नाघमर्षणम् । मार्जने विकल्पः । न तर्पणम् । स्नानान्त एवाऽऽचमनम् । (198 नाभेरूर्ध्वमार्द्रवस्त्रं न । रात्रौ स्नाने तु समीपेऽग्निं प्रज्वाल्य स्नानादिति स्मृत्यर्थसारे । रात्रिस्नाने सङ्कल्पाघमर्षणमार्जनसूक्तजपजलतर्पणगोपीचन्दनधारणानि वर्जयेदित्युक्तं स्मृतिमञ्जर्याम् ।) पुत्रजनननिमित्तकस्नानमप्येवम् । आद्यान्त्ययामयोस्तु नद्यादावेव199

अथ ब्रह्मयज्ञप्रयोगः ।

कर्तोदिते सूर्ये प्रातर्होमोत्तरमकृतप्रातराशो ग्रामात्प्राच्यामुदीच्यामैशान्यां वा दिशि यावति देशे स्वग्रामच्छदींषि स्वगृहच्छदींषि वा न दृश्यन्ते तावति दूरे नदीतीरे देवखातादितीर्थेऽन्यस्मिन्नपि शुद्धे जलदेशे वा गत्वा हस्तौ पादौ च प्रक्षाल्याऽऽचम्य प्रदक्षिणमावृत्त्योपवीती भूत्वा जलं नमस्कृत्य प्रयतः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्यापः स्पृष्ट्वा देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्य इति सङ्कल्प्य हस्तौ जलेन प्रक्षाल्य त्रिराचम्य सोदकेनाङ्गुष्ठमूलेन द्विरोष्ठौ सम्मृज्याऽऽर्द्राङ्गुलिभिरोष्ठौ सदुपस्पृश्य दक्षिणहस्तेन सव्यं पाणिं पादौ च प्रोक्ष्याऽऽर्द्राङ्गुलिभिः शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमपः संस्पृश्येत्येतत्कर्माङ्गमाचमनं कृत्वा प्रभूतान्प्रागग्रान्दर्भानास्तीर्य पाण्योः पवित्रे धृत्वा दक्षिणोत्तरौ पाणी पादौ च कृत्वैवम्भूतस्तेषु दर्भेषु प्राङ्मुख एवाऽऽसीनः प्रणवमुच्चार्य भूर्भुवः स्व(सुव(?)रिति तिस्रो व्याहृतीः पठित्वा ‘भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवि० महि धियो० यात्’ इत्येवं व्याहृतिवर्जितां वा पच्छोऽर्धर्चशोऽनवानं गायत्रीमधीत्य द्यावापृथिव्योः सन्धिमीक्षमाणः सम्मील्य वा यथा युक्तमात्मानं मन्येत तथा युक्त इषे त्वेति काण्डं प्रपाठकमात्रमनुवाकमात्रं वा200 मनसा यथाशक्त्यधीत्य प्रज्ञातं निधाय नमो ब्रह्मण इति परिधानीयामृचं त्रिः पठित्वा प्रणवमुच्चारयेत् । अत्र ब्रह्म भूर्भुवः सुवः, ॐ शान्तिः शान्तिः शान्तिरिति पठन्ति केचित् ।

ततोऽप उपस्पृश्य पूर्वोक्तं कर्माङ्गमाचमनं कृत्वा प्रमादादिति विष्णुं स्मरेत् । ततो गृहमागत्य मुष्टिमात्रमन्नमपि कस्मैचिद्ब्राह्मणाय दक्षिणां दद्यात् । एवमेव दिनान्तरे विरामोत्तरवेदमारभ्य पठेत् । एवं रीत्या संहितां ब्राह्मणमारण्यकं च पठेत् । शिक्षा कल्पो व्याकरणं ज्यौतिषं छन्दो निरुक्तमित्यङ्गानि तत्तद्दिने वेदाध्ययनोत्तरमेव क्रमेण प्रज्ञातदेशादारभ्याध्येतव्यानि । पुराणेतिहासादीनां वेदार्थोपबृंहकत्वादङ्गेष्वेवान्तर्भावादेतत्पाठोऽपि प्रज्ञातप्रदेशादारभ्यैव दिनान्तरे कार्यः । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कृत्वाऽनन्तरं नमो ब्रह्मण इति परिदध्यात् । द्वितीयदिने गायत्रीपाठानन्तरं तत्तत्प्रपाठकस्य पूर्वां शान्तिं कृत्वा कृतान्तादारभेत्(त) । इत्य्-आरण्यकाध्ययने विशेषः । अनध्याये स्वल्पो ब्रह्मयज्ञः कार्यः । वेदान्तराध्ययनसत्त्वे तमपि वेदं साङ्गस्ववेदसमाप्तौ पठेत् । तत्तदङ्गानि च । व्याकरणादिकमपि तत्तद्वेदसमाप्त्युत्तरं पुनः पठेत् । एकस्मिन्नेव दिने वा स्ववेदक्रमेण प्रज्ञातप्रदेशमारभ्य पठेत् । सर्वा विकृतीरपि ब्रह्मयज्ञे पठितव्या इति केचित् । नात्र पठितव्या इत्यन्ये । पूर्वं संहितां पठित्वा तस्मिन्नेव दिनेऽधीतसंहिताविकृतिं पठेदिति201 परे । (202 मध्यन्दिन उच्चैरध्ययनं ग्रामे मनसा स्वाध्यायमधीयीतेतिविधिबलाद्ग्रामेऽप्यध्ययनमसम्भवे, तच्च मनसेति । ) इति ब्रह्मयज्ञप्रयोगः ।

एवं रीत्या ब्रह्मयज्ञं विधाय देवर्षिपितृतर्पणं कुर्यात् । मध्याह्नसन्ध्योत्तरं वा तर्पणम् । अकृतब्रह्मयज्ञस्तु मध्याह्नसन्ध्योत्तरं ब्रह्मयज्ञं कृत्वा तर्पणं कुर्यात् । तद्यथा–शुचौ देशे प्राङ्मुख उपविश्य देशकालौ सङ्कीर्त्य देवर्षिपितृतृप्त्यर्थं तर्पणं करिष्य इति सङ्कल्प्य शुद्धदेशे प्रागग्रान्दर्भानास्तीर्य ताम्रपात्रमक्षतसय्ँयुक्तं जलेन पूरयित्वाऽजलौ प्रागग्रान्दर्भान्गृहीत्वा यज्ञोपवीती देवतीर्थेनाऽऽस्तृतेषु प्रागग्रेषु कुशेष्वग्रभागे203 व्रीहितण्डुलसय्ँयुक्तेन जलेनैकैकाञ्जलिं ब्रह्माद्यङ्गिरोन्तेभ्यो देवेभ्यो दद्यात् । ताम्रादिभाजनान्तरे जले वा तर्पयेत् ।

तत उदङ्मुखो निवीती204 कनिष्ठाङ्गुलिद्वयमूलप्रदेशात्मकेन प्राजापत्येन तीर्थेनोदगग्रेष्वास्तृतेषु कुशेषु मध्यभागे यवमिश्रितजलेन विश्वामित्रादीतिहासपुराणान्तेभ्यो द्वौ द्वावञ्जली दद्यात् । प्रत्यञ्जलि नाममन्त्रावृत्तिः । सकृन्नाम्नाऽपरस्तूष्णीमित्येवं वा । अथ205 काण्डर्षितर्पणमपि सति सम्भवे कार्यम् । तद्यथा–प्रजापतिं काण्डर्षिं तर्पयामि । सोमं काण्डर्षिं त० । अग्निं काण्डर्षिं त० । विश्वान्देवान्काण्डर्षींस्तर्पयामि । स्वयम्भुवं काण्डर्षिं तर्पयामि । अरुणान्काण्डर्षींस्तर्पयामि । सांहितीर्देवता उपनिषदस्तर्पयामि । वारुणीर्देवता उपनिषदस्तर्पयामि । याज्ञिकीर्देवता उपनिषदस्तर्पयामि । सदसस्पतिं तर्पयामीति ।

ततो न्यञ्चितसव्यजानुर्दक्षिणामुखः प्राचीनावीती पितृतीर्थेन दक्षिणाग्रेष्वास्तृतेषु कुशेषु मूलभागे कृष्णतिलमिश्रितं कृष्णतिलाभावे श्वेततिलमिश्रितं जलमादाय तेन वैशम्पायनाद्येकपत्न्यन्तेभ्यस्त्रींस्त्रीनञ्जलीन्दद्यात् । प्रत्यञ्जल्यावृत्तिः । सकृन्नाम्ना द्विस्तूष्णीमित्येवं वा ।

ततः पित्रादीन्सर्वान्पितॄंस्तर्पयेत् । तत्र सापत्नमातृव्यतिरिक्तैकोद्दिष्टस्त्रीभ्य एकैक उदकाञ्जलिर्देयः । असम्भवे सर्वत्र206 सव्यान्वारब्धदक्षिणहस्तेनैव207 वा तर्पणम् । शुचिभूमिपात्रालाभे जलतीर उपविश्योक्तप्रकारेण जल एव तर्पयेत् । तत्र दक्षिणहस्तेन प्रतितर्पणमक्षतानां तण्डुलानां यवानां च ग्रहणम् । सव्यहस्तेन तिलानाम् । जीवत्पितृकेण तु एकपत्न्यन्तानामेव तर्पणं कार्यम् । तर्पणे श्वेता एव तिला ग्राह्याः । प्रकोष्ठपर्यन्तमेव तस्य प्राचीनावीतम् । ततो ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत्त उदकमर्हन्ति तांस्तर्पयामीति प्रथममवसानाञ्जलिं दत्त्वा,

“यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् ।
तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम्” इति द्वितीयमञ्जलिं दत्त्वा,
“येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला208 यान्तु यश्चास्मत्तोऽम्बु वाञ्छति” ।

इति तृतीयमञ्जलिं दद्यात् । विस्तरेण तर्पणं कर्तुमसमर्थः प्रपितामहीपर्यन्तं तर्पयित्वा ये पितृवंश्या इत्यनेन यत्र क्वचन संस्थानामित्यनेन येऽबान्धवा इत्यनेन च तर्पयेत् । एतावदपि कर्तुमसमर्थः–

“आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्” इत्यनेनैव तर्पयेत् ॥

अथवा–आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्वित्यञ्जलित्रयं दद्यात् । जीवत्पितृकस्य नैतत् ।

ततो द्विराचम्य सूर्यायोदकाञ्जलिं दद्यात् । तत्र मन्त्रः–

“नमो विवस्वते ब्रह्मन्भास्वते विष्णुतेजसे209
जगत्सवित्रे शुचये सवित्रे कर्मदायिने” इति ॥

दीपोत्सवचतुर्दश्यां दैवधर्मेण पित्र्यधर्मेण वाऽवसानाञ्जल्यन्ते यमतर्पणं कुर्यात् । तद्यथा–210 ‘यमं तर्पयामि । धर्मराजं तर्पयामि । मृत्युं तर्पयामि । अन्तकं तर्पयामि । वैवस्वतं तर्पयामि । कालं तर्पयामि । सर्वभूतक्षयं तर्पयामि । औदुम्बरं तर्पयामि । दध्नं तर्पयामि । नीलं तर्पयामि । परमेष्ठिनं तर्पयामि । वृकोदरं तर्पयामि । चित्रं तर्पयामि । चित्रगुप्तं तर्पयामि’ इति तर्पणं कृत्वा,

“यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।

वृकोदराय चित्राय चित्रगुप्ताय वै211 नमः” इति नमस्कुर्यात् ।

माघशुक्लाष्टम्यां भीष्मतर्पणम् । अवसानाञ्जल्यन्ते प्राचीनावीती–

“वैयाघ्रपादगोत्राय साङ्कृत्यप्रवराय च ।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम् ॥
अपुत्राय ददाम्येतज्जलं भीष्माय वर्मणे” ॥

इतिमन्त्रेण भीष्मतर्पणं कुर्यात् । एतच्च ब्राह्मणस्य न भवतीति मदनपारिजातः । तिलतर्पणे निषिद्धकालास्तत्प्रतिप्रसवाय पूर्वोदाहृतस्मृतिभ्यो द्रष्टव्या इति सर्वं शिवम् ।

इति संस्काररत्नमालायामुपाकर्मोत्सर्जनवेदपारायणनित्यस्नानब्रह्मय-
ज्ञतर्पणप्रयोगः ॥

इत्योकोपाह्व-श्रीमत्-साग्निचिद्-वाजपेय-पौण्डरीक-याजि-सर्वतोमुखयाजि-गणेश-दीक्षित-तनूज-भट्टगोपीनाथ-दीक्षित-विरचितायाः सत्याषाढ-हिरण्यकेशि-स्मार्त-संस्कार-रत्न-मालाया उत्तरार्धे द्वादशं प्रकरणम् ॥ १२ ॥


  1. क. स्योरेव सिद्धवदनुवादान्मुख्यत्वप्रतीतेः, एतद्वार्षिकमित्याचक्षत इति वर्षाकर्म ह्येतदाचक्षत इत्य्-आश्वलायनखादिरादिसूत्रविरोधात्सूत्र । ↩︎

  2. ङ. त् । त । ↩︎

  3. ङ. णे मैत्रेणाऽवा । ↩︎

  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  5. क. चस्तत्सा । ↩︎

  6. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  7. च. जर्न कृ । ↩︎

  8. ङ. र्तद्वया । ↩︎

  9. च. तो भा । ↩︎

  10. एतदुपरि क. पुस्तकटिप्पन्याम्–“पूर्वरार्योदयानन्तरं मुहूर्तादूर्ध्वं प्रवृत्ता पौर्णमासी द्वितीयोदयानन्तरं मुहूर्तद्वयादिपरिमिता भवति तत्र तैत्तिरीयैरुत्तरा, तैत्तिरीयान्ययाजुषैः पूर्वा ग्राह्येति सिद्धमिति पुरुषार्थचिन्तामणौ निर्गलितार्थः” इति ग्रन्थो वर्तते । ↩︎

  11. ङ. मानेत्येतादृशार्थकरणेन श्रा । ↩︎

  12. क. शोकभय । ↩︎

  13. ङ. ति । यदा । ↩︎

  14. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“एतच्च वचनं देशान्तरविषयम् । नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे । इति बृहस्पतिवचनादि प्रयोगपारिजाते पराशरमाधवीये च । सामगानां सिंहस्थरवावुक्तेस्तद्विषयमिदमिति केचित्” इति । ↩︎

  15. क. स्मात्कर्म विव । ↩︎

  16. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  17. च. व्यता नास्ती । ↩︎

  18. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–" एतच्च सङ्ग्रहवचनमनाकरम् । अतद्गुणसव्ँविज्ञानो बहुव्रीहिर्वाऽत्र द्रष्टव्यः । तेन द्वितीयाद्युपाकर्मण्यपि सति सम्भवे निषेधोऽस्त्येवेति केचित्" इति । ↩︎

  19. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. च. पुस्तकयोः । ↩︎

  20. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति । ↩︎

  21. च. च्छेदौ घो । ↩︎

  22. ङ. सः । प्र । ↩︎

  23. ङ. रम्भ आदा । ↩︎

  24. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“सूतकमृतकयोरन्ते, शुद्ध्यर्थत्वात्” इति । ↩︎

  25. ङ. स्तदनन्तरम् । ↩︎

  26. ङ. द्दध्नास्रप । ↩︎

  27. ग. सत्यः शौ । ↩︎

  28. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति । ↩︎

  29. इदं पदद्वयं नास्ति ङ. पुस्तके । ↩︎

  30. क. ङ. मीलिता । ↩︎

  31. ङ. त् । उ । ↩︎

  32. च. त्वा पञ्च का । ↩︎

  33. ङ. होमप्रापणार्थं । ↩︎

  34. ङ. च. योप । ↩︎

  35. ङ. तन्त्रेऽविहितत्वेन वा । ↩︎

  36. ङ. ना ब्रह्मचारिणं प्रकृत्य–मी । ↩︎

  37. क. च. नूनं । ↩︎

  38. क. च. नूनं । ↩︎

  39. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  40. च. होमाक ↩︎

  41. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  42. ङ. निर्जने देशे रहस्ये दे । ↩︎

  43. च. र्जन भार । ↩︎

  44. ब. कान्तदे । ↩︎

  45. ङ. पुस्तक आहुतिशब्दरहितः पञ्चगव्येनेतिपाठः । एवमग्रेऽपि । ↩︎

  46. ङ. त्रिवारं । च. त्रिः । ↩︎

  47. ङ. न यक्ष्ये । ↩︎

  48. ङ. णं द्विरित्यादि । ↩︎

  49. ङ. कृतमाज्येन यक्ष्य । ↩︎

  50. ङ. कुर्यात् । ↩︎

  51. क. द्धाना । ↩︎

  52. क. च. तत्राऽऽज्य । ↩︎

  53. ङ. स्य स्वयम्भूर्ऋषिः श्रीर्दे । ↩︎

  54. क. च. तं तद्गृ । ↩︎

  55. क. पतिः सो । ↩︎

  56. क. वा ऋ । ↩︎

  57. ङ. ति सप्तभिर्दर्भैर्मन्ये । ↩︎

  58. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  59. ङ. रुद्रस्त्रिष्टुप् । प । ↩︎

  60. ङ. र्ब्रह्म त्रि । ↩︎

  61. ङ. दं । प्र । ↩︎

  62. ङ. न सर्वं पिबेत् । ↩︎

  63. ङ. हस्तं मुखं च प्रक्षाल्य पवि । ↩︎

  64. ङ. विश्वाद्द्होमादि स्विष्टकृदादि वा होमशेषं । ↩︎

  65. ङ. णा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्नि । ↩︎

  66. ङ. न यक्ष्य । ↩︎

  67. ङ. पात्रं प्रोक्षणीपात्रमु । ↩︎

  68. ङ. भानवज्व । ↩︎

  69. ङ. पिबे । ↩︎

  70. ङ. हस्तं सुखं च प्रक्षाल्य पवि । ↩︎

  71. ङ. रासेनाऽऽप्या । ↩︎

  72. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  73. च. यं च स । ↩︎

  74. च. दार । ↩︎

  75. ङ. दा, एभिः । ↩︎

  76. ङ. ति शिष्टाः । तत्रैभिः शिष्यैः सहेत्यस्य लोपः । कृ । ↩︎

  77. ङ. म् । कस्यचिच्छिष्यस्य यदि प्रथमोपा । ↩︎

  78. ङ. भावे स्वयमेव कु । ↩︎

  79. ङ. म् । पुत्रस्य चेत्प्रथममुपा । ↩︎

  80. ङ. पि म । ↩︎

  81. क. मार्थं स्थ । ↩︎

  82. च. स्मा । ↩︎

  83. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यो ग्रन्थः स यथा–“हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तराद्यज्ञोपवीतहोमस्यापि प्रधानत्वेन कर्तव्यत्वं कैश्चिदुक्तं तत्तुच्छम् । हुत्वा दत्त्वा च धारयेदिति क्त्वाप्रत्ययाद्धोमदानयोरुपाकरणोत्सर्जनाङ्गभृतयज्ञोपवीतधारणाङ्गत्वस्यैव प्रतीतिः प्रधानत्वाभावात् । होमदानधारणानि शास्त्रान्तरप्रोक्तत्वात्कृताकृतानि । करणेऽभ्युदयेऽकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । हुत्वेति क्त्वाप्रत्ययः पूर्वकालत्वमात्रं बोधयति न त्वङ्गत्वं, तेन यज्ञोपवीतहोमस्य प्रधानत्वमेवेति यद्युच्यते तदाऽपि यज्ञोपवीतहोमा[न]नुष्ठानमेव । प्रधानोपसंहारस्यानिष्टत्वात् । अन्यथोपनयनादिष्वपि शास्त्रान्तरोक्तप्रधानहोमातिप्रसङगापत्तेः । न चैव हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तरोक्तस्य यज्ञोपवीतहोमस्य निरवकाशत्वापत्तिरिति वाच्यम् । यस्मिन्सूत्रे कारिकासु वा यज्ञोपवीतहोमो विहितो भवेत्तत्रैतस्य सावकाशत्वसम्भवात् । अस्ति चायं होमो विहित आश्वलायनगृह्यकारिकासु । दानधारणयोस्तु प्रधानत्वाभावादुपसंहारः शक्तौ सत्यां न विरुद्धः” इति । ↩︎

  84. ङ. कः । ब्रह्मविदित्यनुवाकः । भृ । ↩︎

  85. क. इर्कावरा । च एकार्वरा । ↩︎

  86. ङ. पूर्वोत्तरे शान्ती । शी । ↩︎

  87. क. काध्य । ↩︎

  88. क. काध्य । ↩︎

  89. ङ. पूर्वोतरे शान्ती । हो । ↩︎

  90. क. ण्डाध्य । ↩︎

  91. क. व्रतं वे । ↩︎

  92. क. पुस्तकटिप्पन्याम्–‘अत्र उपाकृतानि काण्डानीत्येव वक्तव्यमिति युक्त प्रतिभाति’ इति वर्तते । ↩︎

  93. क. ङ. याऽमा । ↩︎

  94. च. प्राणायामं । ↩︎

  95. ङ. गणग्र । ↩︎

  96. क. च. पु. म ↩︎

  97. क. नियम्यते । ↩︎

  98. च. पूर्वक्लृ । ↩︎

  99. ङ. च. ग्नान्येवाऽऽम । ↩︎

  100. क. च. योरुत्त । ↩︎

  101. क.च. वणदे । ↩︎

  102. धनुश्चिह्नान्तर्गत ङ. पुस्तके नास्ति ↩︎

  103. च. ह्मणा श्च तमे । ↩︎

  104. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  105. ङ नसि । ↩︎

  106. ङ. म् । यदि तु कस्यचिच्छिष्यस्य प्रथमोत्सर्जनमस्ति तदोत्स । ↩︎

  107. ङ त्पित्रा कारयेत् । तदभावे तत्पितामहादिभिस्तेषामप्यभावे स्वयमेव कुर्यात् । तत्र । ↩︎

  108. ङ. म् । पुत्रस्य चेत्प्रथमोत्सर्जनं तदा स्वयमेव गणपतिपूजनादि कर्तव्यम् । प्रथमोत्सर्जनं । ↩︎

  109. क. ति क । ↩︎

  110. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  111. च. मौ निक्षि । ↩︎

  112. ङ. न्त्रद्वयस्य । ↩︎

  113. ङ. र्थ्य, नमोऽ । ↩︎

  114. ङ. स्य स्वयम्भूरग्न्यप्सुमदादयो यजुः । मन्त्रोक्ता देवताः । न । ↩︎

  115. ङ. स्य स्वयम्भूरापो । ↩︎

  116. ङ. स्य स्वयम्भूरापो । ↩︎

  117. ङ म् । त । ↩︎

  118. ङ. स्य स्वयम्भुरापो । ↩︎

  119. ङ. स्य वरुणः स्वयम्भूरनु । ↩︎

  120. ङ. स्य केशान्पुर । ↩︎

  121. ङ. स्य स्वयम्भूर्गङ्गा । ↩︎

  122. ङ. स्य स्वयम्भूरघ । ↩︎

  123. ङ. स्य स्वयम्भूरापो । ↩︎

  124. ङ. स्य स्वयम्भूर्ऋषिः । ↩︎

  125. ङ. स्य ज्यो । ↩︎

  126. ङ. स्य स्वयभूर्वरु । ↩︎

  127. ङ. स्य स्वयम्भूर्वरु । ↩︎

  128. ङ स्य स्वयम्भूः प । ↩︎

  129. ङ. नज । ↩︎

  130. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  131. च. भुवर्देवा । ↩︎

  132. ङ. इति देवतीर्थेन प्राङ्मुखो यज्ञोपवीती–एकैकाङ्गलिना देवान्सन्तर्प्य विश्वामित्रा । ↩︎

  133. ङ. व ऋषीं । ↩︎

  134. ङ. इति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषीन्सन्तर्प्य, वैशम्पायनादयो । ↩︎

  135. ङ. इति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितॄंस्तर्प । ↩︎

  136. ङ. च. य नि । ↩︎

  137. ङ. त्वा, स्व । ↩︎

  138. ङ. शुद्धं शुष्कं । ↩︎

  139. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके ‘आर्द्रवस्त्रं चतुर्गुणमुपरिदशं स्थले निष्पीड्य द्विराचम्य तिलकं कुर्यात् । अयं च स्नानविधिः सर्वेषाम्’ इति वर्तते । ↩︎

  140. च. त्तरीयव । ↩︎

  141. ततः सर्वे दे । ↩︎

  142. क. युः । न । ↩︎

  143. ङ. युः । त । ↩︎

  144. ङ. च. वपि । ↩︎

  145. ङ. च. मन्त्रान्त आस । ↩︎

  146. अयं वाशब्दोऽधिकः । ↩︎

  147. क. शब्देनोद । ↩︎

  148. क. पुस्तकटिप्पन्याम् ‘अत्राप्युत्सृष्टानि काण्डानीति युक्तम्’ इति वर्तते । ↩︎

  149. ङ. रग्निः स्वयं । ↩︎

  150. ङ. रणप्रयोगः । त । ↩︎

  151. ङ. पि सङ्ग्र । ↩︎

  152. नन्वित्यसम्बद्धम् । ↩︎

  153. ङ. स्य यथाध्यायमध्येतव्यमित्युत्तरवाक्ये कर्तव्यत्वेन विहितस्य प्रहणधारणात्मकाध्ययनस्य क्ष । ↩︎

  154. ङ. येनाङ्ग । ↩︎

  155. ङ. दनमाजिधावनं । ↩︎

  156. ङ.ति । इ । ↩︎

  157. ङ. र्थः । बौ । ↩︎

  158. ङ. त्रे संहिताग्रहणमवसा । ↩︎

  159. ङ. भिर्भवतीत्येतदर्थमिति त । ↩︎

  160. क. च. न्प्रं भ । ↩︎

  161. क. दस्य पा । ↩︎

  162. ङ. स्य स्वयम्भूरिन्द्रा । ↩︎

  163. ङ. अस्याः स्वयम्भूर्ऋषिः । ↩︎

  164. क. च. द्यता । ↩︎

  165. क. च. पः फ । ↩︎

  166. ङ. क्तेः । इ । ↩︎

  167. ङ. द्धं यजमान एव कु । ↩︎

  168. क. च. ह्यः । माताम । ↩︎

  169. ङ. स्त्रीत्यपत्योप । ↩︎

  170. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  171. ङ. यत्तु । ↩︎

  172. ङ. घ्रवचनं तच्छ्राद्धादिविषयम् । अ । ↩︎

  173. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति । ↩︎

  174. ङ. ति । अ । ↩︎

  175. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके। ↩︎

  176. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके–‘अत्र मणिः सौवर्ण एव ग्राह्यः । वज्रादिमणीनां तर्पणे निषिद्धत्वात् । तथा च स्मृतिमञ्जर्यां सत्यव्रतः- खड्गमौक्तिकसौवर्णमणिकाञ्चनदर्भकाः । हस्ते धार्यास्तर्पणे तु हीरकादि न धारयेत् । हीरकादियुतो यस्तु कुर्वीत यदि तर्पणम् । क्रुद्धाः स्युः पितरस्तस्य शापं दत्त्वा व्रजन्ति हि’ इति । तर्पणे कण्ठे मालाधारणनिषेध उक्तो भरद्वाजेन ‘कण्ठे माला यस्तु धृत्वा कुर्वीत यदि तर्पणम् । निराशाः पितरो यान्ति शापदास्तस्य सर्वदा’ इति’ इति ग्रन्थो वर्तते । ↩︎

  177. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  178. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  179. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  180. च. न्विद्याच्च । ↩︎

  181. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  182. च. स्मृत्यन्तरे । ↩︎

  183. ङ. च. न्विसर्ज । ↩︎

  184. ङ. ति । स्मृ । ↩︎

  185. ङ. त्यर्थसारे । ↩︎

  186. ङ. ति । सर्वे । ↩︎

  187. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎

  188. च. त्र. लोमशा । ↩︎

  189. च. न्यादिनि । ↩︎

  190. क. ङ. यनभि । ↩︎

  191. च. गयायां । ↩︎

  192. ङ. च. नः-पि । ↩︎

  193. च. णे–य । ↩︎

  194. क. खिलां या । ↩︎

  195. च. तु. म । ↩︎

  196. क. च. ते । ↩︎

  197. क. कल्पसत्रे । ↩︎

  198. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके ‘नाभेरूर्ध्वमार्द्रवस्त्रमुत्तारयेदिति विशेषः । रात्रेर्द्वितीयतृतीययामयोर्मरणव्यतिरिक्तनिमित्तस्नानं चेत्पतेत्तदा गृह एव सुवर्णाङ्गुलिकरो वह्नि पश्यञ्शीतोदकेनैव कुर्यात् । वह्न्यभावे तेन विनाऽपि’ इति ग्रन्थो वर्तते । ↩︎

  199. ङ. च. व । तस्य प्र । ↩︎

  200. ङ. वा य । ↩︎

  201. ङ. दित्यपु । ↩︎

  202. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति । ↩︎

  203. ङ. गेऽक्षतव्री । च. गे यवमिश्रितत । ↩︎

  204. ङ. वीत्यञ्जलिवामभागोपलक्षितेन । ↩︎

  205. ङ. च. अत्र । ↩︎

  206. क. सव्या । ↩︎

  207. क. स्तेन वा । ↩︎

  208. क. खिलां या । ↩︎

  209. ङ. जसा । ज । ↩︎

  210. ङ. तत्रैतानि नामानि–य । ↩︎

  211. च. ते ↩︎