अथ नवमं प्रकरणम् ।
सद्यःपक्षमाश्रित्य मासिकश्राद्धस्य प्रयोगः
अथ सद्यःपक्षमाश्रित्य मासिकश्राद्धस्य प्रयोगः ।
कर्ता कृतनित्यक्रियो हस्त(स्तौ)पादौ1 प्रक्षाल्योदङ्मुखो द्विराचम्य वर्गद्वयस्य तिलतर्पणं विधायाऽऽचम्य2 मासिश्राद्धोक्ते देश आसन उपविश्य सर्वदृग्दोषनिबर्हणार्थं समीपे छागं तदभावे कृष्णाजिनं बद्ध्वा तस्याप्यभावे तिलांस्तूष्णीं चतुर्दिक्षु विकीर्याऽऽचम्य ‘निहन्मि सर्वं० सर्वे’ इति3 सर्वदोषनिबर्हणार्थं सकुशान् यवान् प्रदक्षिणं श्राद्धस्थले विकिरेत् । ‘तिला रक्षन्त्वसुरा० सर्वरक्षकः’ इति तिलानप्रदक्षिणं प्राचीनावीती प्रदक्षिणं यज्ञोपवीती वा विकिरेत् ।
ततः–
(“ये4 राक्षसाः श्रिता दिक्षु श्राद्धकर्मविघातकाः ।
तिलप्रकिरणात् सर्वे तेऽपगच्छन्तु दूरतः” ॥
इति दिग्बन्धार्थं तिलांस्तथैव विकिरेत् ।) ततः प्रमादकृताशुचित्वनिवृत्त्यर्थं शुचित्वातिशयार्थं वा पुण्डरीकाक्षं स्मरेत् । ततो गयायै नमो गदाधराय नमो वस्वादिभ्यः पितृभ्यो नम इति ध्यानपूर्वकमेतान्नमस्कृत्योदङ्मुखो द्विराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य पुरूरवार्द्रवसञ्ज्ञकानां विश्वेषां देवानामित्युक्त्वा प्राचीनावीती भूत्वा दक्षिणामुखोऽस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां5 वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां6 वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थमन्नेन हविषा मासिकश्राद्धं सद्यः करिष्य इति सङ्कल्पं कुर्यात्7 ।
पितृभ्योऽन्नं संस्कृत्येत्येतज्ज्ञापकं देवप्रापकमात्रम् । स्मृत्युक्तोपसंहारोऽनावश्यक इतिपक्षे मातामहपार्वणं न । पूर्वं गोत्रोच्चारणं पश्चान्नामोच्चारणमित्येवं वा । एवं सर्वत्र ।
नामाज्ञाने पिण्डदानव्यतिरिक्तकर्मसु ब्रह्मविष्णुशिवशब्दैर्व्यवहारः । गोत्राज्ञाने काश्यपगोत्रम् । ततः स्वयमेव ब्राह्मणगृहं गत्वा दक्षिणहस्तेन ब्राह्मणस्य8 दक्षिणं जान्वालभ्य, अद्य करिष्यमाणे मत्पितुर्मासिकश्राद्धे पुरूरवसञ्ज्ञकदेवार्थं त्वां निमन्त्रय इति निमन्त्र्य दैवे क्षणः क्रियतामिति ब्रूयात् । ॐ तथेति स प्रतिजानीयात् । एवं द्वितीयं ब्राह्मणं निमन्त्रयेत् । तत्राऽऽर्द्रवसञ्ज्ञकदेवार्थं त्वां निमन्त्रये दैवे क्षणः क्रियतामिति विशेषः ।
उभयत्रापि पुरूरवार्द्रवसञ्ज्ञकदेवार्थं त्वां निमन्त्रये दैवे क्षणः क्रियतामित्येवं वा । इदं च पक्षद्वयं सर्वत्र ज्ञेयम् ।
मातामहार्थं पृथग्वैश्वदेवपक्षे तदर्थमपि द्वौ विप्रौ9 पूर्ववन्निमन्त्रयेत्10 । अत्र देवविप्रौ ‘आ ब्रह्मन्’ इत्यनुवाकं जपेताम् ।
ततः प्राचीनावीती पित्रर्थब्राह्मणगृहं गत्वा तस्य सव्यजानुन आलम्भनं कृत्वाऽद्य करिष्यमाणेऽस्मिन्मासिकश्राद्धे1112 सपत्नीकपित्रर्थं त्वां निमन्त्रय इति निमन्त्र्य पित्र्ये क्षणः क्रियतामिति13 ब्रूयात् । ॐ तथेति विप्रः । अस्मिन्मासिकश्राद्धे1415 सपत्नीकपितामहार्थं त्वां निमन्त्रये पित्र्ये क्षणः क्रियतामिति पितामहार्थविप्रनिमन्त्रणे । अस्मिन्मासिकश्राद्धे1617 सपत्नीकप्रपितामहार्थं त्वां निमन्त्रये पित्र्ये क्षणः क्रियतामिति प्रपितामहार्थविप्रनिमन्त्रणे ।
एवं मातामहपार्वण ऊहेन विप्रत्रयं निमन्त्रणीयम्18 । अत्र पितृविप्रा आ ब्रह्मन्नित्यनुवाकं जपेयुः ।
एवं च पृथग्वैश्वदेवपक्षे दश ब्राह्मणाः । तन्त्रपक्षेऽष्टौ । अत्यशक्तौ देवार्थ एकः पितृपार्वणार्थ एको मातामहपार्वणार्थ एक इत्येवं विप्रत्रयम् । पृथग्वैश्वदेवपक्षे चत्वारो ब्राह्मणाः । यदा त्वेक एव ब्राह्मणस्तदा तत्रैव पार्वणद्वयम् । देवस्थाने शालग्रामशिलादि संस्थाप्य देवकार्यं कर्तव्यम् । तदीयप्रतिवचनानि तु स्वयमेव वदेल्लोपो वा19 । श्राद्धसमाप्तौ तदीयमन्नमग्नौ प्रक्षिपेत्, ब्रह्मचारिणे वा दद्यात् । यदि सर्वथा ब्राह्मणालाभस्तदा दर्भवटूंस्तत्तत्स्थाने निधाय प्रतिवचनयुक्तं सर्वं श्राद्धं कर्तव्यम् ।
स्वस्य निमन्त्रणासामर्थ्ये सुतेन शिष्येण सजातीयेन येन केनचित्साधुनाऽऽप्तेन वा कारयेत् ।
ततो यज्ञोपवीत्येव महानसे रेखालेखनावोक्षणे कृत्वोत्तरतः20 पुरतोऽवोक्ष21 णोदकोत्सेचनं स्वसमीप उदकनिधानं च कृत्वा लौकिकाग्निं महानसे प्रतिष्ठाप्य पितृभ्यो होमभोजनार्थं तस्मिन्नग्नौ स्वयमेव पाकं कुर्यात् । स्वस्याशक्तौ पत्न्यादिभिः । स्त्रीकर्तृके पाके रेखालेखनादि न ।
तप्त उपलिप्ते श्राद्धस्थले प्रागग्रान्दर्भान्वैश्वदेवब्राह्मणासनार्थं परिकल्प्य पित्र्यब्राह्मणासनार्थं दक्षिणाग्रान्दर्भान्परिकल्पयेत् । अत्र द्वितीयं22 निमन्त्रणं पाकः सिद्ध आगम्यतां दैवे क्षणः क्रियतां पित्र्ये क्षणः क्रियतामिति यथायथं दैवपित्र्यधर्मेण पूर्ववत् ।
तत औपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा मासिकश्राद्धहोमकर्मणि या यक्ष्यमाणा इत्य्-आदि व्याहृत्यन्तमुक्त्वा प्राचीनावीती प्रधानहोमे सोमं पितृमन्तमाज्याहुत्या23 १, यममङ्गिरस्वन्तं पितृमन्तमा० २, पितरमा० ३, पितामहमा० ४, प्रपितामहमा० ५, अमुकशर्माणमा० ६, अमुकशर्माणमा० ७, अमुकशर्माणमा० ८ पितरमा० ९, पितामहमा० १०, प्रपितामहमा० ११, पितॄन्द्वाभ्यामाज्याहुतिभ्यां24 यक्ष्ये १२-१३, पितॄनाज्याहुत्या० १४, पितामहानाज्याहुत्या० १५, प्रपितामहानाज्याहु०25 १६, इति वदेत् । एवमन्नेन षोडश । तत्राऽऽज्याहुत्येत्येतस्य26 स्थानेऽन्नाहुत्येति27 वदेत् । त्रीनन्तिमान्वेतिपक्षे पितॄनन्नाहुत्या28 पितामहानन्नाहुत्या प्रपितामहानन्नाहुत्येत्येता एवोल्लिखेत्, नान्याः । सोमं पितृमन्तमाज्याहुत्या29 यममङ्गिरस्वन्तं पितृमन्तमा० मातामहमा० मातुःपितामहमा० मातुःप्रपितामहमा० । अमुकशर्माणमा० । अमुकशर्माणमा० । अमुकशर्माणमा० । मातामहमा० मातुःपितामहमा० । मातुःप्रपितामहामा० । पितॄन्द्वाभ्यामाज्याहुतिभ्यां०30 । मातामहाना० ।मातुःपितामहाना० । मातुःप्रपितामहानाज्याहुत्या31 यक्ष्य इति मातामहपार्वण उल्लेखः । एवमन्नेन षोडश । आज्याहुत्येत्यत्रान्नाहुत्येति3233 । त्रीनन्तिमान्वेतिपक्षे मातामहानन्नाहुत्या । मातुःपितामहानन्नाहुत्या । मातुःप्रपितामहानन्नाहुत्येत्येता एवोल्लिखेन्नान्याः । ततोऽग्निं कव्यवाहनं स्विष्टकृतमन्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीती–प्रायश्चित्तहोमकर्तव्यतापक्षे34 प्रायश्चित्तहोमे–अग्निं35 तिसृभिराज्याहुतिभिरित्यादि । परिस्तरणकाले पुरस्ताद्दक्षिणाग्रैर्दर्भैः परिस्तीर्य दक्षिणतः प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैरित्येवं परिस्तृणाति । अत्रोत्तरदिक्स्थाः परिस्तरणदर्भाः पूर्वपश्चिमदर्भाणामुपरि दक्षिणदिक्स्थास्तदधोभाग इति केचित् ।
ततोऽग्नेरुत्तरत एव दर्भान्संस्तीर्य तेषु युगपदेकैकशो वा पात्राणि प्रयुनक्ति–औदुम्बरीं दर्वीमौदुम्बरं स्रुवमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं ब्राह्मभोजनपात्राणि तिलान्यवांस्तैजसं मृन्मयं वाऽर्घ्यपात्रद्वयमौदुम्बरमिध्मं बर्हिः सम्मार्गदर्भानवज्वलनदर्भानाज्यमिति ।
अत्र परिधयोऽप्यौदुम्बरा एव । समूलमेव बर्हिः । एतच्चार्घ्यपात्रद्वयस्याऽऽसादनमाज्यसंस्कारोत्तरं ब्राह्मणोपवेशनादीति पक्षे । उपसमाधानात्प्राक्कर्तव्यतापक्षे तु न ।
ततो देवार्घ्यपात्रार्थं दर्भद्वयात्मकं पित्रर्घ्यपात्रार्थमेकदर्भमयमिति पवित्रद्वयं कृत्वा प्रज्ञातं निधायान्यदेकदर्भमयं पवित्रं कृत्वा तेनैव प्रणीताः संस्कृत्याग्नेरुत्तरतो निधाय प्रोक्षणीरप्येतेनैव पवित्रेण संस्कृत्य पात्राणि प्रोक्ष्य स्रुवं दर्वीं च सम्मृज्य तेनैव पवित्रेणाऽऽज्यं संस्कृत्य पवित्रमग्नावादध्यात् । अत्राप्यङ्खारनिरूहणाज्योद्वासनयोरुत्तरत एव क्रिया न दक्षिणतोऽवचनात् । पर्यग्निकरणं प्रदक्षिणमेव परिषेकवदत्र विधानाभावात् ।
ततः कुतपकाले ब्राह्मणान्प्रदक्षिणी कुर्वन् ‘समस्तसम्प० पादपांसवः’ इति श्लोकान्पठेत् ।
ततः–‘अक्रोधनैः शौच० श्राद्धकारिणा’ इति विप्रान्प्रार्थयेत् । भवामे(म इ)ति विप्राः । ततः पुरूरवसञ्ज्ञका विश्वे देवाः स्वागतम्, आर्द्रवसञ्ज्ञका विश्वे देवाः स्वागतमिति देवविप्रयोः स्वागतं कृत्वा पितः स्वागतं पितामह स्वागतं प्रपितामह स्वागतं मातामह स्वागतं मातु:पितामह स्वागतं मातुःप्रपितामह स्वागतमिति यथायथं पित्रादिविप्रस्वागतं सव्येनैव कुर्यात् । ततः पुरूरवसञ्ज्ञका विश्वे देवा इदं वः पाद्यम्, आर्द्रवसञ्ज्ञका विश्वे देवा इदं वः पाद्यम्, इति देवविप्रपादोपरि द्विवारं पाद्यं36 गृहाङ्गण एव दत्त्वा पादप्रक्षालनं कुर्यात् । ततः प्राचीनावीती पितरमुकशर्मन्नमुकगोत्र वसुरूपेदं ते पाद्यमित्याद्यूहेन पितृतीर्थेन पित्रादिविप्रपादोपरि त्रिवारं पाद्यं37 गृहाङ्गण एव दत्त्वा पादप्रक्षालनं कुर्यात् । ततो विप्रा आचमनं कुर्युः । कर्ता यज्ञोपवीती भूत्वाऽऽचमनं कुर्यात् । सर्वाण्याचमनानि सव्येनैव कार्याणि । ततः पुरूरवसञ्ज्ञका विश्वे देवाः समाध्वम्, आर्द्रवसञ्ज्ञका विश्वे देवाः समाध्वमिति देवविप्रावुक्त्वा38 सुसमास्मह इति ताभ्यां प्रतिवचने दत्त आसनसमीप उपवेश्य प्राचीनावीती पितरमुकशर्मन्नमुकगोत्र वसुरूप समास्स्वेत्याद्यूहेन पित्रादिविप्रानुक्त्वा39 सुसमास्मह इति प्रतिवचने दत्त आसनसमीप उपवेशयेत् ।
ततो यज्ञोपवीती पाकस्य पूजोपचारादीनां च गायत्र्या प्रोक्षणं कृत्वा पाकस्य40 पवित्रताऽस्त्विति ब्रूयात्41 । अस्तु पवित्रतेति विप्राः । सर्वे पदार्थाः शुचयो भवन्त्विति कर्ता वदेत् । भवन्तु शुचय इति विप्राः प्रतिब्रूयुः ।
ततो दक्षिणं जान्वाच्य पुरूरवसञ्ज्ञकानां विश्वेषां देवानामिदमासनम् । आर्द्रवसञ्ज्ञकानां विश्वेषां देवानामिदमासनम् । इत्युपक्लृप्ते आसने देवविप्राभ्यां प्रदायात्राऽऽस्यतामिति तयोरासनयोः प्राङ्मुखावाचान्तौ देवविप्रावुपवेशयेत् । धर्मोऽसीति विप्रयोः प्रतिवचनम् ।
ततः प्राचीनावीती पितुरमुशकर्मणोऽमुकगोत्रस्य वसुरूपस्येदमासनमित्याद्यूहेनोपकल्पितान्यासनानि पित्राद्यर्थविप्रेभ्यो42 यथायथं प्रदाय, अत्राऽऽस्यतामिति तेष्वासनेषूदङ्मुखानाचान्तान्पित्राद्यर्थान्विप्रानुपवेशयेत्43 । धर्मोऽसीति विप्राणां प्रतिवचनम् ।
तत आसादितार्घ्यपात्रद्वयत44 एकं पात्रं गृहीत्वा देवविप्रपुरतो निधाय तस्मिन्पूर्वकृतं दर्भद्वयात्मकं पवित्रं प्रागग्रं निधाय तत्पात्रं शुद्धोदकेन सम्पूर्य ‘यवोऽसि यवयास्मद्वेषो यवयारातीः’ इति यवान्प्रक्षिप्य45 ‘गन्धद्वाराम्’ इति गन्धम्, ‘ओषधयः प्रतिमोदध्वम्’ इति पुष्पाणि निक्षिप्याग्नेरुत्तरतस्तत्पात्रं दर्भेषु निधाय तस्मादर्घ्यार्थं सर्वमुदकमुद्धृत्य तदीयं पवित्रं देवविप्रदक्षिणहस्ते धृत्वा पुरूरवसञ्ज्ञका विश्वे देवा इदमर्घ्यं स्वाहा न ममेत्यर्धमर्घ्योदकं द्विवारं दद्यात् । अस्त्वर्घ्यमिति विप्रः । ततः शुद्धोदकं विप्रहस्ते दद्यात् । ततस्तत्पवित्रं द्वितीयदेवविप्रदक्षिणहस्ते दत्त्वाऽऽर्द्रवसञ्ज्ञका विश्वे देवा इदमर्घ्यं स्वाहा न ममेति द्वितीयविप्रहस्त उद्धृतावशिष्टमर्घ्योदकं द्विवारं दद्याच्छुद्धोदकं च । द्वितीयविप्राभावे तस्यैव हस्ते चतुर्वारं देयम् ।
ततो मध्यमयाऽङ्गुल्या ‘गन्धद्वारां दुराधर्षां० श्रियम्’ पुरूरवसञ्ज्ञका विश्वे देवा एष गन्ध इति प्रथमदेवविप्रहस्ते द्विवारं दत्त्वा, आर्द्रवसञ्ज्ञका विश्वे देवा एष वो गन्ध इति द्वितीयदेवविप्रहस्ते पूर्ववदद्यात् । ‘ओषधयः प्र० दत्’ पुरूरवसञ्ज्ञका विश्वे देवा इमानि46 वः पुष्पाणि, इति यथायथमूहेन पुष्पाणि द्विवारं दद्यात् । धूरसीति धूपम् । उद्दीप्यस्वेति दीपम् । युवा सुवासा इति वस्त्रम् । सुगन्धोऽस्तु सुपुष्पाणि47 सन्तु सुधूपोऽस्तु सुदीपोऽस्तु सुवस्त्रमस्त्विति प्रतिवचनानि । सति सम्भवेऽन्येऽप्युपचारा देयाः । प्रत्युपचारं जलदानम् । ‘ये देवा दिवि’ इति देवानुपतिष्ठते । अत्र स्थलत्रयेऽर्घ्यदानमिति भाष्यकारोक्तकल्पे तु न । सर्वस्यार्घ्यार्थमुदकोद्धरणं किं त्वन्तिमार्घ्यदान एव ।
पित्राद्यर्चनम्
अथ पित्राद्यर्चनम् ।
कर्ता प्राचीनावीती सव्यं जान्वाच्य, अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्येदमासनमस्मत्पितामहस्यामुकशर्मणोऽमुकगोत्रस्य48 रुद्ररूपस्येदमासनमस्मत्प्रपितामहस्यामुकशर्मणोऽमुकगोत्रस्याऽऽदित्यरूपस्येदमासनमित्यूहेन कृतपादशौचानाचान्तान्विप्रान्दक्षिणाग्रेष्वासनेषूदङ्मुखानुपवेशयेत् । एवमूहेन मातामहाद्यर्थविप्रांस्तद्दक्षिणभागे ।
ततः पूर्वासादितं पित्रर्थमर्घ्यपात्रं पितृविप्रपुरतो दर्भेषु निधाय तस्मिन्प्रज्ञातं निहितमेकदर्भमयं पवित्रं दक्षिणाग्रं निधाय तस्मिन्पात्रे शुद्धोदकमानीय ‘तिलोऽसि सोम० नः स्वधा नमः’ इति तिलांस्तस्मिन्निक्षिप्य, ‘गन्धद्वाराम्’ इति गन्धम्, ‘ओषधयः प्रति’ इति पुष्पाणि च निक्षिप्य तत्पात्रमग्नेर्दक्षिणतो दक्षिणाग्रेषु दर्भेषु निधाय तस्मादर्घ्योदकाद्दैवार्घ्यकल्पानुसारेण किञ्चित्सर्वं वोद्धृत्य तत्पवित्रं विप्रहस्ते दत्त्वाऽस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपायेदमर्घ्यं स्वधा49 न ममेति पितृविप्रहस्ते पितृतीर्थेन त्रिवारमेकवारं वा दद्यात् । अत्रैवार्घ्यदानपक्षे त्रिवारं स्थलत्रयेऽर्घ्यदानपक्ष एकवारमिति व्यवस्था बोध्या । अस्त्वर्घ्यमिति विप्रः । ततः कर्ता शुद्धोदकं दद्यात् । एवमितरेषु । अस्मत्पितामहायेत्याद्यूहेन तत्तन्नाम्ना रूपेण च मातामहादिषु नामगोत्ररूपोहः । यदि द्वावेव विप्रौ तदा पितृपार्वणस्थानीयविप्रदक्षिणहस्ते त्रिवारं नववारं वा दत्त्वा द्वितीयविप्रदक्षिणहस्ते तथैव दद्यात् । यदि त्वेक एव विप्रस्तदा तस्य हस्ते षड्वारमष्टादशवारं वा देयम् ।
ततो50 गन्धद्वारामित्यादिपूर्वोक्तैर्मन्त्रैरस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूपैष गन्ध इमानि पुष्पाणीत्याद्यूहेन गन्धपुष्पधूपदीपवस्त्रादि दद्यात् । पूर्ववत्पति वचनानि । तत आचम्य देवविप्रयोः पुरतो गोमयेन चतुरश्रे मण्डले कृत्वा प्राचीनावीती पित्र्यविप्राणां पुरतो गोमयेन वर्तुलानि मण्डलानि कुर्यात् । एतानि षडङ्गुलानि प्रादेशमात्राणि वा कार्याणि । ततस्तेषु मण्डलेषु दैवपित्र्यधर्मेण पितृपूर्वकं पात्राणि संस्थाप्य प्रतिपात्रं दैवपित्र्यधर्मेण पितृपूर्वकमेव परितो भस्मरेखां करशुद्धिं च कुर्यात् । ततो भोजनपात्रेषूपस्तरणं कुर्यात् । ततः प्राचीनावीत्येव51 ‘उद्धरिष्याम्यग्नौ च करिष्यामि’ इति पित्र्यविप्रानामन्त्रयते ।‘काममुद्ध्रियतां काममग्नौ च क्रियताम्’ इति विप्रा अनुज्ञां दद्युः । उद्धरणपात्रमादायाऽऽमन्त्रणमिति शिष्टाः । ततोऽन्नमुद्धृत्य पात्रान्तरे मातामहवर्गार्थमर्धं पृथक्कृत्योभयमग्निसमीपे निधाय यज्ञोपवीती परिधीन्परिदधाति । तत्र मध्यमपरिधिरुत्तराग्र एव । ततोऽन्नस्य देवपवित्रसंस्कारं विधायाग्नेः पश्चाद्बर्हिष्यासाद्य ‘अदितेऽनुमन्यस्व’ इत्य्-आदिभिः परिषेकत्रयं यथावस्थितमेव कृत्वा ‘देव सवितः’ इत्यनेन य: परिषेकस्तं प्रसव्यं परिषिच्यौदुम्बरेध्माभ्याधानादि औदुम्बर्या दर्व्याऽऽज्यभागान्तं कृत्वा ‘ये देवा० जुषध्वम्’ पुरूरवसञ्ज्ञकान्विश्वान्देवानावाहयामीति प्रथमे देवविप्र आवाह्य पुनर्मन्त्रमुक्त्वाऽऽर्द्रवसञ्ज्ञकान्विश्वान्देवानावाहयामीति द्वितीये देवविप्र आवाहयेत् । ततः प्राचीनावीती–
“आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च” ।
अस्मत्पितरमावाहयामीति दक्षिणां दिशमनुलक्षीकुर्वन्विप्र आवाहयति । एवमेवोहेनेतरेषु ।
“आपो देवीः प्रहिणुताग्निमेतं यज्ञं पितरो नो जुषन्ताम् ।
मासीमामूर्जमुत ये भजन्ते ते मो रयि सर्ववीरं नियच्छतु” ।
इति दक्षिणदिश्येव तिलसहितं जलं प्रक्षिपेत् । ततो यज्ञोपवीती युक्तो वहेत्यादि व्याहृतिहोमान्तं कृत्वा प्राचीनावीती प्रधानहोमं52 पितृतीर्थेन कुर्यात् । सोमाय पितृमते स्वधा नमः । सोमाय पितृमत इदं० । यमायाङ्गिरस्वते पितृमते स्वधा नमः । यमायाङ्गिरस्वते पितृमत इदं० ।
“याः प्राचीः सम्भवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य
धत्रीम्भिरन्तरन्यं पितुर्दधे स्वधा नमः” पित्र इदं० ।
“अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्तादिरूतिभिरन्तरन्यं
पितामहाद्दधे स्वधा नमः” पितामहायेदं० ।
“अन्तर्दध ऋतुभिरहोरात्रैः सुसन्धिभिः । अर्धमासैश्च मासैश्चान्तरन्यं
प्रपितामहाद्दधे स्वधा नमः” ।
प्रपितामहायेदं० । इति पञ्चाऽऽहुतीर्हुत्वाऽमुकशर्मणे स्वधा नम इति पितृनाम्ना जुहोति । अमुकशर्मण इदं० । अमुशर्मणे स्वधा नम इति पितामहनाम्ना । अमुकशर्मण इदं० । अमुक० प्रपितामहनाम्ना । अमुकशर्मण इदं० इत्य्-आहुतित्रयं नामधेयैर्हुत्वा–
“यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तामा भुरन्योपपद्यता स्वधा नमः” पित्र इदं० ‘यन्मे पितामही प्र० रेतः पितामहो वृ० स्वधा नमः’ पितामहायेदं० । ‘यन्मे प्रपितामही प्र० रेतः प्रपितामहो वृ० स्वधा नमः’ । प्रपितामहायेदं०53 । आभूरन्योपपद्यतामिति वा पाठः ।
“ये चेह पितरो ये च नेह या श्च विद्मा उ च न प्रविद्म ।
अग्ने तान्वेत्थ यदि ते जातवेदस्तया प्रत्त स्वधया मदन्तु स्वधा नमः”
पितृभ्य इदं न मम ।
“यद्वः क्रव्यादङ्गमदहल्लोकानयं प्रणयन्जातवेदाः । तद्वोऽहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः सम्भवत पितरः स्वधा नमः”
पितृभ्य इदं० ।
“वहाऽऽज्यं जातवेदो यत्रैतान्वेत्थ निहितान्पराके । आज्यस्य कुल्या उप
तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः” पितृभ्य इदं० ।
“वहाऽऽज्यं जातवेदः पितामहेभ्यो य० कामैः स्वधा नमः” पितामहेभ्य इदं० ।
“वहाऽऽज्यं जातवेदः प्रपितामहेभ्यो यत्रैतान्वेत्थ० कामैः स्वधा नमः” प्रपितामहेभ्य इदं० । अथ षोडशाहुतीरवदानधर्मेणाऽऽसादितेन पितृवर्गार्थान्नेन तैरेव मन्त्रैर्जुहुयात् । वहाऽऽज्यमित्यत्र वहान्नमित्यूहः । अन्त्यास्तिस्र एव वाऽन्नाहुतयः । सोमाय पितृमते० । यमायाङ्गि० । “याः प्राचीः सं० मातामहाद्दधे स्वधा नमः” मातामहायेदं० । “अन्तर्दधे पर्वतै० रन्यं मातुःपितामहाद्दधे स्वधा नमः” मातुःपितामहायेदं० । ‘अन्तर्दध ऋ० रन्यं मातुःप्रपितामहाद्दधे स्वधा नमः’ मातुःप्रपितामहायेदं० इति जुहोति । अथ तत्तन्नाममन्त्रैः पूर्ववदाहुतित्रयं हुत्वा ‘यन्मे मातामही प्र० रेतो मातामहो वृ०’ मातामहायेदं । ‘यन्मे मातुःपितामही प्र० रेतो मातुःपितामहो वृ० मातुः पितामहायेदं न मम । ‘यन्मे मातुःप्रपितामही प्र० रेतो मातुः प्रपितामहो वृ०’ मातुःप्रपितामहायेदं० । ‘ये चेह पि०’पितृभ्य इदं० ‘यद्वः क्रव्या०’ पितृभ्य इदं० ‘वहाऽऽज्यं जातवेदो मातामहेभ्यो य०’ मातामहेभ्य इदं० ‘वहाऽऽज्यं जातवेदो मातुःपितामहेभ्यो’ मातुःपितामहेभ्य० । ‘वहाऽऽज्यं जातवे० मातुःप्रपितामहेभ्यो०’ मातुःप्रपितामहेभ्य इदं० । पूर्ववत्षोडश मातामहवर्गार्थान्नस्योहेन । अन्त्यास्तिस्र एव वा ।
न प्रकृतावूहो विद्यत इति निषेधात्प्रकृतौ दर्शपूर्णमासयोरनेकपत्नीकस्यापि पत्नी सन्नह्येत्यस्मिन्प्रैषे यथा नोहस्तथा द्विपितृकस्य द्विपितृशब्दादौ नोहः ।
प्रकृतावेव द्वादशाहेऽद्य सुत्यामित्यालेखन इत्यूहदर्शनादत्राप्यूह इति केचित् । अस्मिन्पक्षे– ‘पितृभ्यां दधे पितामहाभ्यां दधे प्रपितामहाभ्यां दधे । यन्मे मातरौ प्रलुलुभतुश्चरतोऽननुव्रते तन्मे रेतः पितरौ वृञ्जाथामा० । यन्मे पितामह्यौ प्रलु० तन्मे रेतः पितामहौ वृ० यन्मे प्रपितामह्यौ प्रलु० रेतः प्रपितामहौ वृ०’ । नामधेयैर्जुहोतीत्यत्र नामद्वयमविभक्तिकमुक्त्वा शर्मभ्यां स्वधा नम इति, यथा देवदत्तयज्ञदत्तशर्मभ्यामिति ।
तत उपस्तीर्यान्नद्वयात्सकृत्सकृदवदायाभिघार्य, अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति स्विष्टकृतं जुहुयात्54 । अग्नये क० त इदं० । एवमन्नस्येत्यनुवर्तनादन्नेन स्विष्टकृतम् । आज्येनेत्येके । अत्र वारुण्यादीनामभाव एव । अथ सौविष्टकृतीं जुहोतीत्यथशब्दाज्ज्ञापकात् । ( 55 सर्वदर्विहोमाणामेष कल्प इतिसूत्रे ह्येतच्छब्देनानुक्रान्तस्यैव विधेर्ग्रहणमितिकल्पस्वीकारे तदा वारुण्यादीनामत्रार्थप्राप्तेरथशब्दस्य वारुण्याद्यभावार्थतेति वक्तुं न शक्यत इति यद्युच्यते तदाऽथशब्दोऽनेन स्विष्टकृत्कर्तव्यमित्येतादृशार्थबोधनार्थः । अस्मिन्कल्प एवमन्नस्येति नानुवर्तनीयम् ।)
ततो यज्ञोपवीती शुल्बप्रहरणादि पूर्णपात्रदानान्तं कुर्यात् । प्रसव्यमेवोत्तरोऽपि परिषेकः ।
ततो यज्ञोपवीती स्वयमन्नपरिवेषणं कुर्यात् । स्वस्याशक्तौ भार्ययाऽन्यैर्बान्धवैर्वा कारयेत् । आदौ दैवं परिवेषणं पश्चापित्र्यम् । घृतं तु पितृपूर्वकमेव परिवेषणीयमिति केचित् । प्रथमपरिवेषण एवायं नियमो न द्वितीयादिषु । हुतशेषमन्नमपि पित्र्ये परिवेषणीयम्56 । विधुरेण तु देवविप्रपात्रयोरेव । ततो यज्ञोपवीती57 विष्ण्वादिदेवताभ्यो नैवेद्यं प्रदर्शयेत् । ततो दक्षिणहस्तेन देवपात्रमालभ्य ‘सत्यं त्वर्तेन परिषिञ्चामि’ इति परिषिच्य ‘पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि० सि मा मे क्षेष्ठा अमुत्रामुष्मिँल्लोके’ इति देवपात्रस्थमन्नमभिमृशेत् । मा देवानां क्षेष्ठा इत्यूहं वदन्ति केचित् । पृथिवी समेत्यादिकस्य शेषभूतमन्त्रत्रयस्य58 लोप एवान्वयासम्भवात् । एवं द्वितीयदेवविप्रे । ततः प्राचीनावीती पूर्ववत्पात्रालम्भनं परिषेकं च कृत्वा ‘पृथिवी ते पात्रं० मा पितॄणां क्षेष्ठा अ० । पृथिवी समा० दाय’ इति पितृपात्रस्थमन्नमभिमृशेत् । एवमितरेषु । मा पितामहानां क्षेष्ठा० अन्तरिक्ष समं त० येति द्वितीये विशेषः । मा प्रपितामहानां क्षेष्ठाः० द्यौः समा तस्याऽऽदि० येतितृतीये । एवं मातामहादित्रये59 मन्त्रत्रयमूहेन । शेषभूतं60 मन्त्रत्रयं तु यथावस्थितमेव । पितृपार्वण एकविप्रपक्षे पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि० मा पितॄणां क्षेष्ठा अ० पृथिवी समा तस्याग्निरु० य । पृथिवी ते पा० मा प्रपितामहानां क्षेष्ठा० अन्तरिक्ष समं तस्य वायु० य । पृथिवी ते पा० मा प्रपितामहानां क्षेष्ठा० द्यौः समा तस्याऽऽदित्य उप० दायेति सर्वान्मन्त्रानुक्त्वाऽन्त उपस्पर्शः कार्यः । एवं मातामहपार्वणे । यदि तु पितृमातामहपार्वणार्थ एक एव विप्रस्तदोहेन षण्मन्त्रानुक्त्वाऽन्त उपस्पृशेत् । ततो यज्ञोपवीती दैवार्घ्योदकात्किञ्चिदादाय देवविप्रहस्तयोः पूर्ववदर्घ्योदकं शुद्धोदकं च दत्त्वा प्राचीनावीती पित्र्यार्घ्योदकात्किञ्चिदादाय पित्र्यविप्रहस्ते पूर्ववद्दद्यात् । शुद्धोदकं च । (61 यद्यर्घ्योदकमवशेषितं भवेत्तदैतदर्घ्यदानम् । ) ततो यज्ञोपवीती भोजनपात्रं सव्यहस्तेन धृत्वा प्राणे निविश्यामृतं जुहोमीत्यनखेन ब्राह्मणहस्ताङ्गुष्ठेनान्नमुपस्पर्शयति । पुरूरवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नं सोपस्करं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्ति, अमृतरूपेण सम्पद्यतां स्वाहा हव्यं न ममेत्युक्त्वा यवमिश्रमुदकं पात्रस्य62 दक्षिणे भागे भूमावेव क्षिपेत् । एवं द्वितीये । ततः प्राचीनावीती पित्र्यविप्राभिमुखः सव्यहस्तेन पात्रं धृत्वा प्राणे निविश्यामृतं जुहोमीत्यनखेन ब्राह्मणहस्ताङ्गुष्ठेनान्नमुपस्पर्शयति । अस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपायेदमन्नं सोप० अमृतरूपेण सम्पद्यतां स्वधा कव्यं न ममेत्युक्त्वा तिलमिश्रमुदकं पात्रस्य63 वामभागे भूमावेव क्षिपेत् । एवमितरेषु–अस्मत्पितामहायामुकशर्मण इत्य्-आद्यूहेन । ततः प्राचीनावीत्येवानेनास्मिन्मासिकश्राद्धयज्ञे ब्राह्मणभोजनेन पितृपितामहप्रपितामहसपत्नीकमातामहमातुःपितामहमातुःप्रपितामहसपत्नीकस्वरूपी परमेश्वरः प्रीयतां न ममेति जलमुत्सृजेत् । अत्र विप्रा बलीन्न दद्युः64 । परिषेकं च न कुर्युः । ततः कर्ता यज्ञोपवीती प्राणाहुतिमन्त्रान्पठेत् । विप्राः पञ्चसु स्वाहाकारान्तेषु पञ्च प्राणाहुतीर्जुहुयुः ।
ततः कर्ता ‘ब्रह्मणि म आत्माऽमृतत्वाय’ इति सर्वान्विप्रान्भुञ्जानान्समीक्षते । ‘अपेक्षितं याचित० सैः’ इति विप्रान्प्रार्थयेत्
विप्राणां भोजनकाले ‘युञ्जते मनः’ इत्य्-आदीन्पूर्वोक्तानभिश्रावणीयाननुवाकान्विप्राञ्श्रावयेत्6566 । अनुवाकाध्ययनाभावे गायत्रीजपो विप्रभोजनपर्यन्तं कर्तव्यः । देवतानामानि67 वा श्रावणीयानि । ततस्तृप्तान्विप्राञ्ज्ञात्वा मधु वाताः’ इति तिस्रः ऋचः श्रावयेत् । ततः प्राचीनावीती–‘अक्षन्नमीमदन्त’ इति श्रावयेत् । ततः पिण्डार्थमन्नं पृथक्कृत्य68 प्रज्ञातं निधायावशिष्टादन्नाद्विकिरपर्याप्तं सव्यञ्जनमन्नं गृहीत्वा देवविप्रभोजनपात्रसमीपे–69
“असोमपाश्च ये देवा यज्ञभागविवर्जिताः ।
तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम्” ॥
इति मन्त्रावृत्त्या गृहीतान्नैकदेशं विकिरेत् । तदुपरि शुद्धोदकं दद्यात् ।
ततः प्राचीनावीती पित्र्यविप्रभोजनपात्रसमीपे– ‘असंस्कृतप्रमीता ये० पैतृकम्’ इतिमन्त्रावृत्त्या गृहीतान्नैकदेशं विकिरेत् । तदुपरि शुद्धोदकं दद्यात् । ततः पितृविप्रभोजनपात्रस्य पुरतः षडङ्गुलं स्थलं विहाय तत्र दर्भं दक्षिणाग्रं निधाय तत्र तिलोदकमासिच्यान्यदुदकमुद्धृत्य समीपे स्थापयित्वा ग्रासमात्रं पायसमोदनं च मिश्रितं केवलं पायसं वाऽऽदाय ‘ये अग्निदग्धा० परां गतिम्’ अग्निदग्धेभ्योऽनग्निदग्धेभ्यश्चोच्छिष्टपिण्डोऽयं स्वधा नम70 इति दत्त्वोद्धृतमुदकमुपरि दत्त्वा71 कमपि पदार्थमस्पृशन्यज्ञोपवीती हस्तपादप्रक्षालनं कृत्वा पवित्रं72 ग्रन्थिं मुक्त्वा विसृज्याऽऽचम्यान्ये पवित्रे धृत्वा श्रद्धायां प्राणे निविश्येत्यनुवाकं श्रावयेत् । तत आचान्तेभ्यः पूर्ववदर्घ्यं दद्याच्छुद्धोदकं च । अत्र सर्वस्यैवार्घ्योदकस्य प्रतिपत्तिः73 । यदि प्रथमार्घ्येऽवशेषितं भवेत्तदैतदर्घ्यदानं नान्यथा । पित्रर्घ्योदकमर्धमवशेषणीयं74 तस्याक्षय्योदकदाने प्रतिपत्तिरिति केचित् । तत्र मूलं मृग्यम्75 ।
ततो यज्ञोपवीत्येव सर्वविप्रहस्तेष्वक्षताः पान्त्वित्यक्षतान्दत्त्वा दक्षिणाः पान्त्विति यथाशक्ति दक्षिणां दद्यात्76 । तत्र देवविप्राभ्यां सुवर्णं पित्र्यविप्रेभ्यो रजतम् । उभयत्र वस्त्रधान्यादिदानं समानम् ।
ततः प्राचीनावीती– अस्मत्पितृपितामहप्रपितामहानाममुशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां यद्दत्तं मासिकश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति पित्र्यविप्रदक्षिणहस्त उदकं दद्यात् । अस्त्वक्षय्यमिति विप्राः । ततो यज्ञोपवीती पुरूरवसञ्ज्ञकानां विश्वेषां देवानामार्द्रवसञ्ज्ञकानां विश्वेषां देवानां यद्दत्तं मासिकश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति यथायथमूहेन देवविप्रदक्षिणहस्तयोर्यवसम्मिश्रमुदकं दद्यात् । अस्त्वक्षय्यमिति विप्रौ । स्वधाऽस्त्विति प्राचीनावीती कर्ता ब्रूयात् । अस्तु स्वधेति पित्र्यविप्राः प्रतिब्रूयुः । ततो यज्ञोपवीत्येव पितृविप्रान्पूर्वमुत्थाप्य देवविप्रो पश्चादुत्थापयेत् । ततस्तानद्य मे सफलं जन्मेति प्रसाद्य पादानवमर्द्य भुक्तवतो गच्छतो विप्रानासीमान्तमष्टौ पदानि वाऽनुव्रज्य शेषमन्नमनुज्ञाप्य विप्रान्प्रदक्षिणीकृत्य प्रत्येत्योदकुम्भं दर्भमुष्टिमञ्जनादिसामग्रीं चाऽऽदायौपासनाग्नेर्दक्षिणपूर्वमवान्तरदेशं गत्वा तत्र प्राचीनावीती दक्षिणाग्रान्दर्भानास्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गं त्रिभिर्मन्त्रैस्त्रीनुदकाञ्जलीन्निनयति । ‘मार्जयन्तां पितरः सोम्यासः’ इति प्रथमम्, ‘मार्जयन्तां पितामहाः सोम्यासः’ इति द्वितीयम्, ‘मार्जयन्तां प्रपितामहाः सोम्यासः’ इति तृतीयम् । असाववनेनिङ्क्ष्वेति मन्त्रेण वा । प्रतिपिण्डं तत्तन्नामोहेन मन्त्रावृत्तिः । असावित्यत्र शर्मान्तं सम्बुद्ध्या पित्रादिनाम ग्राह्यम् । चतुर्थपिण्डदानपक्षे तदर्थमपि तृतीयपिण्डस्य पुरोभागे तूष्णीं निनयनम् । एवं मातामहादीनाम् । ततो निनयनस्थलेषु पिण्डार्थं स्थापितेन माषव्यतिरिक्तव्यञ्जनसर्पिस्तिलमिश्रेणान्नेन स्वयं कपित्थप्रमाणानशक्तावामलकप्रमाणान्वा पिण्डान्कृत्वा स्वस्याशक्तौ पत्न्याऽन्येन वा कारयित्वा तान्पिण्डानवाचीनपाणिना ददाति । एतत्ते ततामुकशर्मन्ये च त्वामन्विति पित्रे पिण्डं ददाति । एतत्ते पितामहामुकशर्मन्ये च त्वामन्विति पितामहाय । एतत्ते प्रपितामहामुकशर्मन्ये च त्वामन्विति प्रपितामहाय । तूष्णीं चतुर्थः पिण्डः प्रपितामहात्परांस्त्रीन्मनसोद्दिश्य प्रपितामहपिण्डपुरोभागे देयः । अयं च कृताकृतः । एतत्ते मातामहामुकशर्मन्नित्याद्यूहेन मातामहादिभ्यः । चतुर्थः पिण्डोऽत्रापि कृताकृतः । पित्रादिपिण्डदक्षिणतः पश्चाद्वा मातामहादिपिण्डदानम् । पित्रादिनामाज्ञाने स्वधा पितृभ्यः पृथिविषद्भ्य इति मन्त्रः पितृपिण्डदाने । स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति पितामहपिण्डदाने । स्वधा पितृभ्यो दिविषद्भ्य इति प्रपितामहपिण्डदाने । मातामहादीनां नामाज्ञानेऽप्येत एव मन्त्राः । दत्तक्रीतादिर्द्विपिता,77 एकस्मिन्पितृपिण्डे7879 द्वौ पितरौ पितामहपिण्डे द्वौ पितामहौ प्रपितामहपिण्डे द्वौ प्रपितामहाद्यूहेनोपलक्षयेत् । एतद्वां ततावमुकशर्माणौ ये च युवामनु, एतद्वां पितामहावमुकशर्माणौ ये च युवामनु, एतद्वां प्रपितामहावमुकशर्माणौ ये च युवामनु, इत्येवमूहः । अत्रापि नामाज्ञाने स्वधा पितृभ्य इत्य्-आदय एव मन्त्राः । एवं मातामहादिष्वप्यूहेन । चतुर्थपिण्डाभावपक्षे–अत्र पितरो यथाभागं मन्दध्वमिति प्रपितामहात्परांस्त्रीनुद्दिश्य बर्हिषि हस्तं निमृज्यात् ।
तत आङ्क्ष्वामुकशर्मन्निति पितृपिण्डोपरि दर्भशलाकया त्रैककुदकज्जलान्यतरद्रव्यं त्रिवारं दद्यात् । एवमितरेषूहेन । नामाज्ञाने– आङ्क्ष्व तत ब्रह्मन्, आङ्क्ष्व पितामह विष्णो, आङ्क्ष्व प्रपितामह शिव,80 आङ्क्ष्व मातामह ब्रह्मन्, आङ्क्ष्व मातुःपितामह विष्णो, आङ्क्ष्व मातुःप्रपितामह81 शिवेत्येवं दद्यात् । सूत्रे त्रिर्ग्रहणं चतुर्थपिण्ड82 आञ्जनादिनिवृत्त्यर्थमिति वैजयन्तीकृन्मतम् । अस्मिन्मते सकृदेव प्रतिपिण्डमाञ्जनम् । प्रत्येकं त्रिः, सकृन्मन्त्रेण द्विस्तूष्णीम्, एवं प्रत्येकमिति भाष्यकृन्मतम् । अस्मिन्मते चतुर्थपिण्डेऽपि त्रिवारं तूष्णीम् । एवमभ्यञ्जनेऽपि । यद्यप्येतस्मिन्प्रकरणे वैजयन्तीकृद्व्याख्यानं नास्ति तथाऽपि समानार्थत्वात्पिण्डपितृयज्ञस्थमप्यत्र ग्रहीतुं शक्यमिति । ततोऽभ्षङ्क्ष्वामुकशर्मन्निति पितृपिण्डोपरि दर्भशलाकया तैलदध्युपरितनस्नेहान्यतरद्रव्यं83 दद्यात् । एवमितरेष्वप्यूहेन । एतानि वः पि० यूढ्वम्, [इति] सकृदेव मन्त्रमुक्त्वा प्रतिपिण्डं पूर्वे वयसि वस्त्रस्य दशां छित्त्वा छित्त्वा न्यस्यति । कम्बलस्योर्णास्तुकां छित्त्वा छित्त्वा न्यस्येद्वा । सूत्रे छित्त्वेति वचनं गलितयोरेतयोर्ग्रहणं मा भूदित्येतदर्थम् । उत्तरे वयसि तु दक्षिणप्रकोष्ठस्थमुरस्थं84 वा लोमैव न दशोर्णास्तुके । पूर्वं वयः पञ्चाशद्वर्षाणि, तत ऊर्ध्वमुत्तरं वयः । तूष्णीं चतुर्थे पिण्डे ।
अथौदनं स्थालीगतं निष्काश्य प्रज्ञातं निधाय स्थालीं प्रक्षाल्य– ‘पुत्रान्पौत्रानभि० क्षरन्तु’ इति प्रसव्यं85 तेन प्रक्षालनोदकेन पिण्डान्परिषिच्य पिण्डानां पुरतस्तत्पात्रं न्युब्जं निदधाति । अत्रोपवीती पिण्डपूजनं कुर्यादिति शिष्टाः । युक्तं तु प्राचीनावीतमेव86 । ततः प्राचीनावीत्येव दक्षिणं पाणिमुत्तरमुत्तरं च दक्षिणं कृत्वैवम्भूतेनाञ्जलिना पितॄनुपतिष्ठते ‘नमो वः पितरो रसाय’ इत्येतैः षड्भिर्नमस्कारैः सानुषङ्गैः87 । सप्तभिरिति पिण्डपितृयज्ञे वैजयन्तीकारः । अस्मिन्मते यथापाठपठितः सप्तमो मन्त्रः । यथापाठ एवेति केचित् ।
तत उदकसमीपं गत्वा ‘एष ते तत मधुमा ऊर्मिः सरस्वान्यावानग्निश्च पृथिवी च तावत्यमात्रा तावानस्य महिमा तावन्तमेनं ब्रूतं ददामि यथाऽग्निरक्षितोऽनुपदस्त एवं मह्यं पित्रेऽक्षितोऽनुपदस्तः स्वधा भवता स्वधामक्षिन्तौः सहोपजीवासावृचस्ते महिमा’ इति पित्र उदकाञ्जलिं निनयति । ‘एष ते पितामह म० यावान्वायु० यजू षि ते महिमा’ इति पितामहाय । ‘एष ते प्रपितामह मधु० यावानादि० सामानि ते महिमा’ इति प्रपितामहाय । ‘एष ते मातामह मधु० यावानग्नि० चस्ते महिमा’ इति मातामहाय । ‘एष ते मातुःपितामह म० यावान्वायु० यजू षि ते महिमा’ इति मातुःपितामहाय । ‘एष ते मातुःप्रपितामह म० यावानादि० सामानि ते महिमा’ इति मातुःप्रपितामहाय ।
ततः प्रत्येत्य स्थापितं स्थालीनिष्कासमुदके प्रक्षिप्य ‘परा यात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ पुनरायात नो गृहान्हविरत्तून्सुप्रनजसः सुवीराः’ इति पिण्डानां समीपे दक्षिणापवर्गं तदुदकं निनयति । अत्र ‘अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयति’ इति पिण्डपितृयज्ञसूत्रोक्ता पिण्डप्रतिपत्तिर्ज्ञेया । स्मृतौ तु ‘गवे अजाय वा दद्यात्’ इत्यप्युक्तत्वात्तथा वा प्रतिपत्तिः कार्या ।
ततः प्रमादादिति विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत्88 । अत्राऽऽहिताग्नेर्वैश्वदेवः पिण्डपितृयज्ञात्पूर्वमेव भवति । ( 89 गृह्याग्निमता पिण्डपितृयज्ञात्पूर्वं श्राद्धान्ते वा कार्यः । ‘श्वोभूते स्थालीपाके’ इति धर्मसूत्राद्यदा पर्वदिने परि स्तरणान्तं क्रियते तदा परिस्तरणोत्तरमेव वैश्वदेवं कृत्वा पिण्डपितृयज्ञः कर्तव्य इति द्रष्टव्यम् । ) साव्ँवत्सरिकादिश्राद्धेषु वैश्वदेवो90 विधुरादिभिरग्नौकरणानन्तरमुच्छिष्टपिण्डदानोत्तरमेव वा पृथक्पाकेनैव कार्यः91 । श्रौताग्निमद्गृह्याग्निमद्भ्यां च श्राद्धारम्भात्प्रागेव पृथक्पाकेनैव कर्तव्यः । ऐकादशाह्निके त्वेतयोरप्यन्त92 एव । अग्नौकरणानन्तरं बलिदानोत्तरं वा वैश्वदेवानुष्ठानपक्षे पृथक्पाकेन93 वैश्वदेवहोममात्रं कृत्वा श्राद्धसमाप्त्यनन्तरं वैश्वदेवार्थान्नेनैव बलिहरणादि कर्तव्यम् । यदा त्वन्ते तदा श्राद्धशेषेणैव94 । स च वैश्वदेवो मासिश्राद्धमध्ये95 मासिकश्राद्धमध्ये वा कार्यः । एतदन्यतरान्ते वा । समवदायाश्नीयादित्यनेन शेषस्याशनं विहितं तच्च दिवैव कार्यं न रात्रौ । तस्मिन्दिन आवश्यकोपवासप्राप्तौ शेषाघ्राणं कार्यम् । शेषनाशे भोजनलोप इति केचित् । प्रतिनिधिभूतेनान्नेन भोजनं कार्यमित्यन्ये ।
“दन्तधावनताम्बूलं तैलाभ्यङ्गमभोजनम् ।
रत्यौषधपरान्नानि श्राद्धकर्ता विवर्जयेत् ॥
पुनर्भोजनमध्वानं भारमध्यायसङ्गमम्96 ।
दानं प्रतिग्रहो(हं) होमः(मं) श्राद्धभुग्वर्जयेद्द्विजः” ॥
इत्य्-आदयः कर्तृभोक्तृनियमाः श्राद्धरत्नमालातोऽवगन्तव्याः । अत्र भोक्तुः प्रायश्चित्तं षट्प्राणायामाः । बुद्ध्या श्राद्धलोपे प्राजापत्यं प्रायश्चित्तं प्रमादाल्लोपे तूपवास इति । इदमेव नित्यनैमित्तिकश्राद्धलोपे प्रायश्चित्तं द्रष्टव्यम् ।
इति मासिकश्राद्धप्रयोगः ।
अशक्तविषये साङ्कल्पिकविधिना दर्शश्राद्धप्रयोगः
अथाशक्तविषये साङ्कल्पिकविधिना दर्शश्राद्धप्रयोगः ।
उक्तापराह्णे यथाधिकारं कृतनित्यक्रियस्तिलतर्पणं विधाय देशकालौ सङ्कीर्त्य प्राचीनावीती पितृवर्गस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीकस्य षष्ठ्यन्तप्रयोगेणोत्कीर्तनं कृत्वा दर्शश्राद्धं साङ्कल्पिकविधिना97 करिष्य इति सङ्कल्प्य पूर्ववद्विप्रनिमन्त्रणं पादप्रक्षालनं च कृत्वा पूर्ववदुपवेश्याऽऽवाहनार्घ्यदानवर्जमासनाद्याच्छादनान्तैरुपचारैः पूजयेत् । अथवा तूष्णीमावाहनम् । ततोऽग्नौकरणवर्जमपोशा(मापोश)नदानान्तं कुर्यात् । ब्राह्मणा बलिदानवर्जं विधिना भुञ्जीयुः । भोजनान्ते तृप्तिप्रश्नं कृत्वा मधुमतीरक्षन्नमीमदन्तेति च श्रावयित्वा सम्पन्नप्रश्नं कृत्वा शेषमन्नं किं क्रियतामित्याद्युच्छिष्टभाग्भ्योऽन्नदापनान्तं कृत्वाऽऽचान्तेषु विप्रेषु शिवा आपः सन्त्वित्यादिभिर्जलादि दत्त्वा तिलोदकयवोदकाभ्यामक्षय्यं यथायथं प्रदाय ताम्बूलदक्षिणे दत्वा ‘अघोराः पितरः सन्तु’ इत्य्-आदि । नात्रोच्छिष्टपिण्डपिण्डदाने । न चात्र स्वधा सम्पद्यतामिति भवन्तो ब्रुवन्त्विति स्वधोच्यतामिति च स्वधावाचनम् । ततो वाजे वाज इत्य्-आदि, कर्मण ईश्वरार्पणान्ते सङ्कल्पात्सिद्धिरस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्प्रति वदेत् । तथाऽस्त्विति तैरुक्ते विष्णुं संस्मृत्य पवित्रे ग्रन्थिं विसृज्य त्यक्त्वाऽऽचमनं कृत्वा बन्धुभिः श्राद्धशेषं भुञ्जीत । इत्थमपि करणाशक्तौ सङ्कल्पं कृत्वा देवपितृपूजां विधायान्नत्यागमात्रं कृत्वा भुक्तवद्भ्यस्ताम्बूलं दक्षिणां च दत्त्वा सङ्कल्पात्सिद्धिरस्त्विति भवन्तो ब्रुवन्त्विति वाचयित्वा कर्मेश्वरायार्पयेत्98 । वैश्वदेवकालव्यवस्था पूर्ववदेव । इति साङ्कल्पिकप्रयोगः ।
अन्नाभावे कर्तव्य आमश्राद्धप्रयोगः
अथान्नाभावे कर्तव्य आमश्राद्धप्रयोगः ।
यथाधिकारं प्रातः कृतनित्यक्रियः श्रौताग्निमान्गृह्याग्निमान्वा चेद्येन केनचिद्द्रव्येण कृतवैश्वदेवो वर्गद्वयस्य तिलतर्पणं कृत्वा99 पूर्वाह्ण एव देशकालकथनान्ते प्राचीनावीती पितृवर्गस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीकस्य षष्ठ्यन्तमुत्कीर्तनं विधाय दर्शश्राद्धमामद्रव्येण करिष्य इति सङ्कल्प्य पूर्ववद्विश्वदेवार्थं100 पितृवर्गार्थं मातामहवर्गार्थं च विप्रान्निमन्त्र्य पादप्रक्षालनाद्याच्छादनान्तं पूर्ववत्101 ।
तत्राऽऽवाहनमन्त्र ऊहः कार्यः, यथा–‘उशन्तस्त्वा० पितॄन्हविषे स्वी कर्तवे’ इति विशेषः । अग्नौकरणकाले सकृदाच्छिन्नच्छेदनादि पिण्डपितृयज्ञवत्तण्डुलाद्यन्यतमेन सम्प्रदेयेन हविष्यद्रव्येण हुत्वा पात्रेष्वामं द्विगुणं समं वा निधाय गायत्र्या प्रोक्ष्य पृथिवी ते पात्रमित्यादिलोक इत्य्-अन्ते ‘विष्णो, आमं रक्षस्व’ इत्युक्त्वा पुरूरवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमामं सोपस्करं स्वाहा न ममेति दद्यात् । एवमार्द्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्य इत्यूहेन द्वितीयदेवविप्रे ।
ततः पितृवर्गे मातामहवर्गे चाऽऽमत्यागं तत्तन्नामाद्यूहेन कुर्यात् । ततो मधुमतीश्रावणं सम्पन्नप्रश्नं च कृत्वा पूर्ववत्पिण्डदानं कृत्वाऽऽपो देवीरित्याद्य ग्न्युपस्थानान्तं कृत्वाऽतिप्रणीताग्निमेलनादि सकृदाच्छिन्नप्रहरणान्तं कुर्यात् । ‘नमो वः पितरो रसाय’ इत्यत्राऽऽमायेत्यूहः । अङ्गुष्ठनिवेशनं यथासुखं जुषध्वमितिवचनमपोशा(मापोश)नं तृप्तिप्रश्नश्च न । ततः शिवा आपः सन्त्वित्यादि यद्दत्तममुकश्राद्धीयमाममुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्वित्यक्षय्य ऊहः । वाजे वाज इत्यस्मिन्मन्त्रे मादयध्वं तर्प्स्यथ102 यात पथिभिरित्यूहः । अन्यत्सर्वं प्रकृतिवत्103 । विधुरादिश्चेदत्र वैश्वदेवं कुर्यात् ।
आमाभावे हिरण्यश्राद्धप्रयोगः
अथामाभावे हिरण्यश्राद्धप्रयोगः ।
दर्शे प्रातः कृतनित्यक्रियो देशकालकथनान्ते वर्गद्वयस्य षष्ठ्यन्तमुत्कीर्तनं कृत्वा दर्शश्राद्धं हिरण्येन साङ्कल्पविधिना करिष्य इति सङ्कल्प्य पूर्वोक्तसाङ्कल्पिकामश्राद्धवत्सर्वं कुर्यात् । अत्र पिण्डदाने विकल्पः । ‘नमो वः पितरो रसाय’ इत्यत्र हिरण्यायेत्यूहः । अत्र श्राद्धोत्तरं तत्काल एव तिलतर्पणं कृत्वा काले वैश्वदेवादि कृत्वा भुञ्जीत । इति हिरण्यश्राद्धप्रयोगः ।
आब्दिकश्राद्धम्
अथाब्दिकश्राद्धम् ।
तत्र पितृमृताहे पितृपितामहप्रपितामहांस्त्रीनुद्दिश्य104 पार्वणविधिना श्राद्धं कुर्यात् । मातृमृताहे मातृपितामहीप्रपितामहीरुद्दिश्य कुर्यात् । सापत्नमातृमृताहे सा चेदपुत्रा तस्या अप्येकोद्दिष्टविधिना । तथाऽपुत्रमातामहस्य तन्मृताहे तद्वर्गमात्रस्य । एवं मातामह्यास्तन्मृताहे तद्वर्गमात्रस्य । तथाऽपुत्रपितृव्यमातुलभ्रातॄणां मृताहे तस्य तस्यैकोद्दिष्टविधिना । तत्रायं105 प्रयोगः–मृतदिने106 कृतनित्यक्रियः107 श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्कृतवैश्वदेवो देशकालकीर्तनान्ते–अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणामाब्दिकश्राद्धं पार्वणविधिनाऽद्य108 करिष्य इतिसङ्कल्पपूर्वकं दर्शश्राद्धोक्तविधिना तद्वर्गमात्रस्यैव कुर्यात् । अस्मिञ्श्राद्धदिने नित्यतर्पणं तिलरहितं कार्यम् । श्राद्धाङ्गतर्पणं तु परेद्युः109 स्नानं प्रातःसन्ध्यां च कृत्वा सतिलमेव110 । श्राद्धेज्यवर्गस्य तिलतर्पणं कृत्वा पुनः सर्वकर्मार्थं स्नानं कृत्वा ब्रह्मयज्ञादि कुर्यात् । एवं मात्रादीनामपि तत्तन्मृताहदिने श्राद्धं कृत्वा श्वोभूते प्रातः स्नात्वा सन्ध्यां च कृत्वा श्राद्धेज्यवर्गस्य तिलतर्पणं कृत्वा111 पुनः सर्वकर्मार्थं स्नात्वा ब्रह्मयज्ञादि कुर्यादिति । ( 112 मार्जयन्तां मातरः सोम्यासः, मार्जयन्तां पितामह्यः सोम्यासः, मार्जयन्तां प्रपितामह्यः सोम्यासः, इति बहुवचनान्तपितृपितामहप्रपितामहशब्दवन्मन्त्रेषूहः113 । एवं मार्जयन्तां मातामहाः सोम्यासो मार्जयन्तां मातामह्यः सोम्यास इत्य्-आदिर्यथायथं मातामहपार्वणमातामहीपार्वणयोरूहः । मार्जयन्तां पितृव्याः सोम्यास इत्य्-आदिरेकोद्दिष्टेषु पितृव्यादिषु) पितृव्यभ्रातृसापत्नमात्रादीनां श्राद्ध एकोद्दिष्टविधेः कर्तव्यत्वात्प्रयोगः114115 । मध्याह्न एव देशकालकीर्तनान्ते–अस्मत्पितृव्यस्य शर्मणो गोत्रस्य वसुरूपस्याऽऽब्दिकश्राद्धमेकोद्दिष्टविधिनाऽद्य करिष्य इति सङ्कल्प्य पित्रर्थमेव विप्रान्विप्रं वा निमन्त्र्य तत्पादप्रक्षालनाद्यर्घ्यपात्रासादनात्प्राक्कृत्वा,116 एकमर्घ्यपात्रं संस्थाप्यैकदर्भयुते तस्मिन्पात्रे जलमासिच्येत्याद्यावाहनवर्जमर्घ्यदानान्तं कृत्वा तत्पात्रस्थापनाद्यग्नौकरणवर्जमन्नत्यागान्तं कृत्वा यस्योद्देशस्तस्याक्षय्या117 तृप्तिरस्त्वित्युक्त्वाऽपोशा(ऽऽपोश)नोदकदानादि । पिण्डदानकाल एक एव पिण्डः । अन्यत्सर्वं पूर्ववत् । द्वितीयेऽहनि श्राद्धाङ्गं सतिलमेव तर्पणम् । एवं भ्रात्रादिष्वप्यूहेन प्रयोगो ज्ञेयः । पार्वणश्राद्धकरणपक्षेऽपराह्ण118 एव दर्शश्राद्धविधिवत्सर्वं कुर्यात् । तत्र पितृव्यश्राद्धे पितृव्यपितामहप्रपितामहानामित्येवमुच्चारणम्119 । अजीवत्पितृकस्य भ्रातृश्राद्धे भ्रातृपितृपितामहानामित्युच्चारणम्120 । जीवत्पितृकस्य त्वेकोद्दिष्टमेव121 । सापत्नमातुरपुत्रत्वे तच्छ्राद्धं चेत्पार्वणधर्मेण क्रियेत तदा सापत्नमातृपितामहीप्रपितामहीनामित्येवमुल्लेखः । मातुलस्यापुत्रत्वे122 तत्साव्ँवत्सरिकश्राद्धे पार्वणधर्मश्चेत्क्रियेत तदा मातुलमातामहमातुःपितामहानामित्येवमूहः123 । स्त्रियास्तु124 साव्ँवत्सरिकश्राद्धे पार्वणपक्षे पत्नीमातृपितामहीनामित्युच्चारणम्125 । कनिष्ठभ्रात्रादीनां ब्रह्मचारिस्नातकावस्थायां मृतौ तदाब्दिकश्राद्ध एकोद्दिष्टप्रयोग एव ।
इत्येकोद्दिष्टश्राद्धप्रयोगः ।
अन्वारोहणश्राद्धप्रयोगः
अथान्वारोहणश्राद्धप्रयोगः ।
उक्तापराह्ण ओदनवर्जं भक्ष्यादिकमेकत्रैव श्रपयित्वाऽनापन्नश्चेदेतदपि126 पृथक्कृत्वा प्राचीनावीती देशकालकथनान्ते– अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणाम्, अस्मन्मातृपितामहीप्रपितामहीनाममुकदानां गोत्राणां वसुरुद्रादित्यस्वरूपाणामेतेषां तृप्त्यर्थमाब्दिकश्राद्धं तन्त्रेण करिष्य इति सङ्कल्प्य पितृवर्गमातृवर्गाब्दिकश्राद्धद्वये पुरूरवसञ्ज्ञकदेवस्थाने क्षणः करणीय इत्य्-आदिप्रकारेण तन्त्रेणैव वैश्वदेवविप्रनिमन्त्रणं कृत्वा पितृवर्गार्थं विप्रत्रयं मातृवर्गार्थं च विप्रत्रयं प्रतिवर्गमेकैकं वा निमन्त्र्य यवमिश्रितमुदकं कृत्वेत्यादिपूजान्तं दर्शवत्कुर्यात् । सम्भवेऽत्र विप्रपङ्क्तौ मातृवर्गार्थं सुवासिनीमुपवेश्य पूजयेत् । ततो दर्शश्राद्धोक्तप्रकारेणाग्नौकरणं कृत्वा परिवेषणं विधाय पित्र्यविप्रेभ्योऽन्नदानान्तं कृत्वा, अस्मन्मात्रे दायै गोत्रायै वसुरूपाया इदमन्नं स्वधा कन्यं न ममेति सुवासिन्यै दद्यादिति विशेषः127 । तिथिभेदे पृथक्पिण्डदानम् । तिथ्यैक्ये तु द्वयोर्द्विवचनोहेनैक एव पिण्डो देयः । सम्भवेऽत्रापि पृथगेव पिण्डदानम् । अन्यत्समानम् । परेऽहनि वर्गद्वयस्य तिलतर्पणम् ।
अथ वर्गचतुष्टयस्यैकदिनमरणेन श्राद्धसम्पाते पृथक्पा-128
ककरणाशक्तावेकपाकेन तन्त्रेण श्राद्धप्रयोगः ।
(129 यद्यपि वर्गचतुष्टयस्य श्राद्धं पृथक्पृथगेव कर्तव्यं तथाऽप्येकस्मिन्दिने मुख्यकाले पृथक्पृथक्कर्तुमशक्यत्वात्तन्त्रमेव । ) देशकालकथनान्ते पितृवर्गस्य मातृवर्गस्य, अपुत्रश्चेन्मातामहस्तद्वर्गस्य मातामहीवर्गस्य च षष्ठ्यन्तमुच्चारणं कृत्वैतेषामाब्दिकश्राद्धं दर्शश्राद्धविधिनाऽद्य करिष्य इति सङ्कल्प्य वर्गचतुष्टयार्थं तन्त्रेणैव वैश्वदेवविप्रनिमन्त्रणं कृत्वा प्रतिवर्गं त्रयं त्रयमेकमेकमेव वा विप्रं निमन्त्र्य पादप्रक्षालनादि सर्वं दर्शवत्कुर्यात् । श्वोभूते तिलतर्पणम् । पितृव्यादीनामप्येतस्मिन्दिवसे चेन्मरणं तदा तेषामेकोद्दिष्टविधिपक्षे पृथगेव मरणक्रमेण तदज्ञाने सम्बन्धासत्तिक्रमेणोल्लेखं130 कृत्वा131 तन्त्रेणैव श्राद्धं मध्याह्नकालत्वात्पित्रादिश्राद्धात्पूर्वमेव कार्यम् । पार्वणपक्षे तु वर्गचतुष्टयेन सहैव132 । अत्र पित्रा दिवर्गचतुष्टयोल्लेखोत्तरमेव सर्वत्रोल्लेखः । स्त्रिया अप्येतद्दिने मरण एकोद्दिष्टपक्षे पृथगेव133 । पितृव्यादीनामप्येतस्मिन्दिने श्राद्धं चेत्तेषामप्येकोद्दिष्टपक्षे तैः साकमेव पत्न्या अप्येकोद्दिष्टं कार्यम् । पार्वणपक्षे सर्वेषां सहैवेति द्रष्टव्यम् । यदि समतन्त्राणां श्राद्धानामेकस्मिन्दिने सम्पातस्तदा तानि सर्वाण्युत्कीर्त्य तन्त्रेण करिष्य इत्युल्लिखेत् । यदि महातन्त्राल्पतन्त्रयोः समासस्तदा महातन्त्रस्यैवोल्लेखं कृत्वा श्राद्धं कुर्यात् । अल्पतन्त्रस्य तु तेनैव सिद्धिः । प्रसङ्गसिद्धस्य134 न तर्पणम् । विरोधे समसङ्ख्यत्व आदावन्ते वा विषमसङ्ख्यत्वे बह्वनुरोधः ।
इति सम्पातश्राद्धप्रयोगः ।
अतिक्रान्तश्राद्धप्रयोगः
[अथातिक्रान्तश्राद्धप्रयोगः ।]
आशौचादिना मृताहातिक्रमे तदन्ते, तत्राप्यतिक्रमे कृष्णाष्टम्यामेकादश्यां द्वादश्याममावास्यायां वाऽतिक्रान्तं श्राद्धं कुर्यात् । तस्य प्रयोगः–देशकालकथनान्ते तत्तद्वर्गस्य षष्ठ्यन्तमुच्चारणं कृत्वाऽतिक्रान्तमाब्दिकश्राद्धं करिष्य इति सङ्कल्प्य135 सर्वं पूर्वोक्तवत्कृत्वा श्वोभूते तिलतर्पणं कुर्यात् ।
इत्यतिक्रान्तश्राद्धप्रयोगः ।
अनुपनीतस्त्रीकर्तृकश्राद्धप्रयोगः
अथानुपनीतस्त्रीकर्तृकश्राद्धप्रयोगः ।
देशकालकथनान्ते–अस्मद्भर्तृतत्पितृतत्पितॄणां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणामाब्दिकश्राद्धमद्य136 करिष्य इति स्वयं सङ्कल्पं कृत्वा कञ्चिद्ब्राह्मणमृत्विक्त्वे137 परिकल्प्य तं प्रति ब्रूयात्–ममाऽऽज्ञया त्वमिदं कर्म कुर्विति । कर्तोमित्यङ्गीकृत्य सर्वमपि विधिं कुर्यात् । तत्र विशेषः–अनुज्ञात्र्या138 भर्तुः शर्मणो गोत्रस्य वसुरूपस्य, अनुज्ञात्र्या139 भर्तृपितुः शर्मणो गोत्रस्य रुद्ररूपस्य, अनुज्ञात्र्या140 भर्तृपितामहस्य शर्मणो गोत्रस्याऽऽदित्यरूपस्य, इत्य्-आदितत्तद्विभक्त्यूहेन प्रयोगः । ( 141 यत्र यत्र पितृशब्दवत्पितामहादिशब्दोऽपि बहुवचनान्तो दृश्यते तत्रैव पितृशब्देऽप्यूहो नान्यत्र । स च बहुवचनान्त एव । यथा मार्जयन्तां पितरः सोम्यास इत्य्-आदिषु142 ।) आपो देवीः स्वधया, अत्र पितरो यथाभागं मन्दध्वम्, अमीमदन्त पितरः, एतानि वः पितरः, नमो वः पितरो रसाय, ऊर्जस्वतीः स्वधया, उत्तिष्ठत पितरः,143 परेत पितरः, यन्तु पितरः, मनोऽन्वाहुवामहे,144 पुनर्नः पितरः, अभून्नो दूतः, ये समानाः समनसः पितर इत्येतेषु मन्त्रेषु तु नोहः । (बहुवचनान्तं(न्त)पितामहादिशब्दप्रयोगदर्शनाभावात्145 । एकोद्दिष्टपक्षे तद्धर्मेण श्राद्धं कुर्यात् । आचाराद्व्यवस्था )।
इति स्वनुज्ञाते विशेषः ।
अथवा स्वयमेव वैदिकमन्त्रवर्जं146 विधिं कुर्यात् । मन्त्रसाध्यकर्मापि तूष्णीं कर्तव्यमेव । ब्राह्मणद्वारा श्राद्धप्रयोगेऽपि मन्त्रवर्जमेव प्रयोग इति बहवः ।
अनुपनीतानुज्ञातेऽप्येवम् । शूद्रानुज्ञाते तु मन्त्रवर्जमेव147 विधिः । ज्वरादिना कर्तुरसामर्थेऽप्येष एव विधिः148 । श्राद्धकर्तृनियमास्तु ऋत्विग्यजमानयोरुभयोरपि समानाः । (उत्तरीयवस्त्रेण149 यज्ञोपवीतप्राचीनावीते अनुज्ञात्राऽनुपनीतेनानुज्ञात्र्या स्त्रिया च कर्तव्ये । तर्पणं त्वनुज्ञातृकर्तृकमेव । )
इत्यनुपनीताद्यनुज्ञया श्राद्धकरणप्रयोगः ।
प्रोष्ठपदीश्राद्धप्रयोगः
अथ प्रोष्ठपदीश्राद्धप्रयोगः ।
भाद्रपदपौर्णमास्यां कृतनित्यक्रिय उक्तापराह्णे प्रपितामहात्परांस्त्रींस्तिलमिश्रोदकेन तर्पयित्वा देशकालौ सङ्कीर्त्य धुरिलोचनसञ्ज्ञकानां विश्वेषां देवानामित्युत्कीर्त्य प्राचीनावीती– अस्मत्प्रपितामहपितृपितामहप्रपितामहानां150 शर्मणां गोत्राणं वसुरुद्रादित्यस्वरूपाणां प्रोष्ठपदी श्राद्धमद्य करिष्य इति सङ्कल्प्य धुरिसञ्ज्ञकविश्वदेवार्थं लोचनसञ्ज्ञकविश्वदेवार्थं च विप्रद्वयमेकं वा निमन्त्र्य, अस्मत्प्रपितामहपितुः151 शर्मणो गोत्रस्य वसुरूपस्य स्थाने त्वां 152 निमन्त्र्य इति निमन्त्र्य त्वया क्षणः करणीय इति ब्रूयात् ।अस्मत्प्रपितामहपितामहस्य153 शर्मणो गोत्रस्य रुद्ररूपस्य स्थाने त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति ब्रूयात् । अस्मत्प्रपितामहप्रपितामहस्य154 शर्मणो गोत्रस्याऽऽदित्यरूपस्य स्थाने त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति ब्रूयात् । इति विप्रत्रयमेकं वा निमन्त्रयेत् । विप्रैकत्वपक्षे धुरिलोचनसञ्ज्ञकानां विश्वेषां देवानामिति देवविप्रनिमन्त्रणे तत्तत्कर्मणि तत्तद्विभक्त्योहः । अस्मत्प्रपितामहपितृपितामहप्रपितामहानां155 शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणामित्यादि[:] पितृकर्मणि तत्तद्विभक्त्योहः । “मार्जयन्तां प्रपितामह 156 पितरः सोम्यासो मार्जयन्तां प्रपितामहपितामहाः सोम्यासो मार्जयन्तां प्रपितामहप्रपितामहाः सोम्यासः । एतत्ते प्रपितामहपितरमुकशर्मन्ये च त्वामनु । एतत्ते प्रपितामहपितामहामुकशर्मन्ये च त्वामनु । एतत्ते प्रपितामहप्रपितामहामुशर्मन्ये च त्वा मनु । आङ्क्ष्व प्रपितामहपितरमुकशर्मन् । आङ्क्ष्व प्रपितामहपितामहामुकशर्मन् । आङ्क्ष्व प्रपितामहपितामहामुकशर्मन् । अभ्यङ्क्ष्व प्रपितामहपितरमुकशर्मन् । अभ्यङ्क्ष्व प्रपितामहपितामहामुकशर्मन् । अभ्यङ्क्ष्व प्रपितामहप्रपितामहामुकशर्मन्” इति मन्त्रेषूहः । नात्र चतुर्थः पिण्डो157 लेपमार्जनं वा । अन्यत्सर्वं दर्शश्राद्धवत् । इति प्रोष्ठपदीश्राद्धप्रयोगः ।
महालयप्रयोगः
अथ महालयप्रयोगः ।
प्रोष्ठपदीश्राद्धोत्तरं प्रतिपदादि158 पञ्चाम्याद्यष्टम्यादि159 दशम्यादि वा160 चतुर्द[शीवर्जं द]र्शान्तमहरहः श्राद्धं दर्शवत्कुर्यात्161 । प्रतिपदादिदर्शान्तपक्षे न चतुर्दशीनिषेधः । एवं करणाशक्तौ मरणदिवसमात्रे162 कार्यम् । चतुर्दश्यां मृतौ163 तन्महालयश्राद्धममावास्यायां कर्तव्यम् । एवं पौर्णमास्यां164 मृतस्यापि165 । अपराह्णे श्रौताग्निमान्गृह्याग्निमान्वा कृतवैश्वदेवो देशकालकीर्तनान्ते पुरूरवार्द्रवसञ्ज्ञकानां विश्वेषां देवानामित्युक्त्वा प्राचीनावीती–अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणाम् । अस्मन्मातृपितामहीप्रपितामहीनां गोत्राणां दानां वसुरुद्रादित्यस्वरूपाणाम् । अस्मत्सापत्नमातुः, दाया गोत्राया वसुरूपायाः । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गोत्राणां वसु० । अस्मन्मातामहीमातुःपितामहीमातुःप्रपितामहीनां दानां गोत्राणां वसु० । अस्मत्पत्न्याः, दायाः, गोत्रायाः, वसुरू० । अस्मत्पुत्रस्य शर्मणो गोत्रस्य वसुरूपस्य । अस्मद्दुहितुः, दायाः, गोत्रायाः, वसुरू० । अस्मत्पितृव्यस्य शर्मणो गोत्रस्य व० सपत्नीकस्य । तत्पत्न्याः पृथगुद्देशे तु–अस्मत्पितृव्यपत्न्याः, दायाः, गोत्रायाः, वसुरूपायाः । अस्मन्मातुलस्य शर्मणो गोत्रस्य व० सपत्नीकस्य । तत्पत्न्याः166 पृथगुद्देशे तु–अस्मन्मातुलपत्न्याः, दायाः, गोत्रायाः व० । अस्मद्भ्रातुः शर्मणो गो० व० सप० । तत्पत्न्याः पृथगुद्देशे तु–अस्मद्भ्रातृपत्न्याः, दा० गो० व० । अस्मत्पितृभगिन्याः, दायाः, गोत्रायाः व० सभर्तृकायाः सापत्यायाः । अस्मन्मातृभगिन्याः, दा० गो० व० सभ० साप० । अस्मदात्मभगिन्याः, दा० गो० व० सभ० साप० । अस्मच्छ्वशुरस्य शर्मणो गो० व० सप० सापत्यस्य । अस्मद्गुरोः शर्मणो गो० व० सप० सापत्यस्य । अस्मच्छिष्यस्य शर्मणो गो० वसु० सप० । अस्मदाप्तस्य शर्मणो गो० वसु० सप० । एतेषां तृप्त्यर्थं महालयापरपक्षिकं श्राद्धं यथायथं पार्वणैकोद्दिष्टेन विधिनाऽन्नेन हविषाऽद्य167 करिष्य इति सङ्कल्पं कुर्यात् । सकृत्करणे सकृन्महालयापरपक्षिकश्राद्धमित्यूहः ।
अत्र सपत्नीकसापत्यत्वविशेषणयोर्यथायोग्यं प्रयोगः कार्यः । एवमग्रेऽपि ।
ततः–( 168 पुरूरवसञ्ज्ञकविश्वदेवार्थमेकमार्द्रवसञ्ज्ञकविश्वदेवार्थमेकमित्येवं विप्रद्वयं निमन्त्रयेत् । एकमेव वा । अस्मिन्पक्षे सहैवोत्कीर्तनम् । )
प्राचीनावीती–पितृवर्गार्थं विप्रत्रयमेकं वा मातृवर्गार्थं विप्रत्रयमेकं वा सापत्नमात्रर्थमेकं मातामहवर्गार्थं विप्रत्रयमेकं वा मातामहीवर्गार्थं विप्रत्रयमेकं वा (169 पत्न्याद्याप्तान्ता या व्यक्तयो यावत्सङ्ख्याकास्तावत्सङ्ख्यान्विप्रान्निमन्त्रयेत् ।
यदा द्वावेव विप्रौ लभ्येते तदैको देवस्थान एकः पितृस्थाने । यदा तु त्रयस्तदैको देवस्थान एकः पार्वणेषु सापत्नमातरि च । एकः पत्न्यादीनां स्थाने । यदा तु चत्वारस्तदैको देवस्थाने पितृमातृपार्वणयोः सापत्नमातरि चैकः । मातामहमातामहीपार्वणयोरेक एकोद्दिष्टेष्वेकः । पञ्चपक्षे देवस्थान एकः पितृपार्वण एको मातृपार्वणे सापत्नमातरि चैको मातामहमातामहीपार्वणयोरेकः पत्न्यादिष्वेकः । षट्पक्षे सापत्नमात्रर्थे पृथक् । सप्तपक्षे पत्न्यर्थमेकः पुत्राद्यर्थमेक इत्य्-आदि यथासम्भवं समावेशो ज्ञेयः ।
अत्र देवाद्यन्तताऽपि पक्षे । स च देवो गदाधरशब्देन व्यवह्रियत इदानीं शिष्टैः ।)
ततो यवमिश्रितमुदकं कृत्वेत्याद्याच्छादनान्तं समानम् ।
तत्रार्घ्ये विशेषः । पितृवर्गार्थं पात्रत्रयं मातृवर्गार्थं पात्रत्रयं दर्भत्रयात्मकपवित्रयुक्तं संस्थाप्य सापत्नमात्रर्थमेकदर्भमयपवित्रयुक्तमेकं पात्रं मातामहवर्गार्थं पात्रत्रयं दर्भत्रयात्मकपवित्रयुक्तं तथैव मातामहीवर्गार्थं च निधाय पत्न्याद्यर्थं170 प्रत्येकमेकैकं पात्रमेकदर्भमयपवित्रयुक्तं संस्थापयेत् । तत्क्रमेणैव पूरणादि ।
प्रतिपितृव्यक्त्यूहेनार्घ्यदानम् । एवं गन्धादिष्वपि यथायथं नामविभक्त्यूहो द्रष्टव्यः । पितृपात्र एव सर्वपात्रस्थशेषमासिच्य तदेव171 न्युब्जं स्थापयेत् । गदाधरसत्त्वे पितृपूजनोत्तरं देववत्तस्यापि पूजनम् ।
ततो वर्गचतुष्टयपितॄनभिध्यायन्सकृदाच्छिन्नच्छेदनादि होमतन्त्रं पिण्डपितृयज्ञवत्कुर्यात् । ततश्चतुर्थ्यन्ततत्तन्नामभिरन्नदानम् ।
पिण्डदाने पितृवर्गार्थं रेखां कृत्वा तत्पश्चिमतः किञ्चित्स्थलं त्यक्त्वा तत्र पितृवर्गाद्दक्षिणतो वा मातृवर्गार्थं तत्पश्चाद्दक्षिणतो वा सापत्नमात्रर्थं मातृवर्गस्य पश्चिमतो दक्षिणतो वा व्यवहिते देशे सापत्नमातुर्दक्षिणतो मातामहवर्गार्थं तद्दक्षिणतो मातामहीवर्गार्थमित्येवं रेखा लिखित्वा मातामहीवर्गाद्दक्षिणतः पत्न्यादिसर्वपितॄणां सन्निवेशो यथा भवति तथा दीर्घां रेखां लिखेत् ।
अथवा प्रत्येकोद्दिष्टपितृव्यक्तिपङ्क्त्याकारेण रेखा लेखनीयाः । तत्र सकृदाच्छिन्नं महद्बर्हिरास्तीर्य तत्तद्रेखास्थबर्हिःप्रदेशे तत्तन्नाम्ना तत्तत्पिण्डान्दद्यात् । तत्र मार्जने मातृवर्गोत्तरं मार्जयन्तां सापत्नमातरः सोम्यासः । मार्जयन्तां मातामहाः सो० । मा० मातुःपितामहाः सो० । मा० मातुःप्रपितामहाः सो० । मा० मातामह्यः सो० । मा० मातुःपितामह्यः सो० । मा० मातुःप्रपितामह्यः सो० । मा० पत्न्यः सो० । मा० पुत्राः सो० । मा० दुहि तरः सो० । 172 मा० पितृव्याः173 सो० । मन्त्रेषु सपत्नीकशब्दस्य न प्रयोगः किं त्वभिध्यानमात्रम् । एवं सर्वत्र । पितृव्यपत्न्याः पृथक्पक्षे–[मा०] पितृव्यपत्न्यः सो० । मा० मातुलाः174 सो० । पृथक्पक्षे–मा० मातुलपत्न्यः सो० । मा० भ्रातरः175 सो० । पृथक्पक्षे–मा० भ्रातृपत्न्यः सो० । मा० पितृभगिन्यः सो० । मा० मातृभगिन्यः सो० । मा० आत्मभगिन्यः सो० । मा० श्वशुराः सो० । मा० गुरवः सो० । मा० शिष्याः सो० । मा० आप्ताः सो० । सपत्नीकत्वसभर्तृकत्वसापत्यत्वविशेषणाभिध्यानं176 सम्भवानुसारेण कर्तव्यम्177 । एवमग्रेऽपि यथायथमूहो योज्यः । सर्वेऽपि पिण्डा आग्नेय्यपवर्गा दक्षिणापवर्गा वा रेखालेखनानुसारेण देयाः ।
ततः– ‘आ ब्रह्मणो० तेभ्यः स्वधा पिण्डमहं ददामि ॥ १ ॥ पितृवंशे मृता० इमं पिण्डं ददाम्यहम् ॥ २ ॥ असिपत्रे० ददाम्यहम् ॥ ३ ॥ उच्छिन्नकु० ह्यक्षय्यमुपतिष्ठतु ॥ ४ ॥’ इति चतुर्भिश्चतुर इतरान्मन्त्रलिङ्गोक्तान्पितॄनुदिश्याऽऽप्तपिण्डस्य पुरस्ताद्दद्यात् । पिण्डदान आञ्जनाभ्यञ्जनयोश्च सम्बुद्ध्यन्तानि नामानि ।
तत आपो देवीरित्यादि यथायथमूहेन सकृदाच्छिन्नप्रहरणान्तं कुर्यात् ।
अत्रापि पत्नीकर्तृकं पिण्डप्राशनं कृताकृतम् । करणपक्षे वर्गचतुष्टयमध्यपिण्डप्राशनमिति विशेषः । ततः शिवा आपः सन्त्वित्यादि समानम् । सकृन्महालये परेद्युः सर्वान्पितॄंस्तिलोदकेन तर्पयेत् । इतरत्र तु तदहरेवानुव्रज्यानन्तरम् । इति महालयश्राद्धप्रयोगः ।
विधवाकर्तृकश्राद्धप्रयोगः
अथ विधवाकर्तृकश्राद्धप्रयोगः ।
अस्मद्भर्तृसपत्नीकतत्पितृतत्पितॄणां178 शर्मणां गो० व० । अस्मत्पितृपितामहप्रपितामहानां शर्मणां गो० व० । अस्मन्मातृपितामहीप्रपितामहीनां दानां गो० व० । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गो० व० सपत्नीकानामित्युत्कीर्त्य महालयश्राद्धं करिष्य इति सङ्कल्पं कुर्यात् । विभवे सति भर्तृपार्वणोत्तरं श्वश्रूतच्छ्वश्र्वोर्दयोर्गोत्रयोर्वसुरुद्रस्वरूपयोः,179 इत्येवं पृथक्पृथगेकोद्दिष्टवद्वा180 सङ्कीर्त्य मातामहो(हपार्वणो)त्तरं मातामहीपार्वणं च सङ्कीर्तयेत्181 । भर्तुरेकोद्दिष्टत्वपक्षे182 श्वशुरादित्रयोद्देशानन्तरं श्वश्रूतच्छ्वश्रूतच्छ्वश्रूणामिति तिसृणामुद्देशः । सपत्नीकत्वोल्लेखपक्ष एवर्जुरिति स एव कर्तव्यः । अस्मिन्कल्पे183 भर्तृशब्दोत्तरं184 श्वशुरपार्वणे मातामहपार्वणे च सपत्नीकशब्दोच्चारणम्185 । ततः स्वपितृव्यादीनामपि शक्तौ सत्यां कीर्तनम् । एवं यथाधिकारं सङ्कल्पं कृत्वा कञ्चिद्ब्राह्मणमृत्विक्त्वेन विभाव्य तद्द्वारा सर्वं कारयेत् । तदभावे स्वयमेव वैदिकमन्त्रवर्जं सर्वं विधिमाचरेत्186 । स्वमात्रादिपार्वणचतुष्टयमपुत्रविषयकमिति नवीनाः । परेद्युस्तर्पणम् । इति विधवाकर्तृकश्राद्धप्रयोगः ।
नवमीश्राद्धप्रयोगः
अथ नवमीश्राद्धप्रयोगः ।
उक्तापराह्णे187 श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्पृथक्पाकेन वैश्वदेवं कृत्वाऽऽप्रकोष्ठात्प्राचीनावीतं कृत्वाऽस्मन्मातृपितामहीप्रपितामहीनां दानां गो० वसुरु०, अस्मत्सापत्नमातुः, दायाः, गोत्राया वसु० नवमीश्राद्धमहं188 करिष्य इति सङ्कल्प्य वैश्वदेवार्थं द्वावेकं वा विप्रं निमन्त्र्य मातृपार्वणार्थं विप्रत्रयं सापत्नमात्रर्थमेकं सर्वार्थमेकं वा निमन्त्र्य पादप्रक्षालनादि सर्वं मातृवर्गपार्वणवत् । सापत्नमातर्येकोद्दिष्टवत् ।
प्रपितामह्यनन्तरं सापत्नमातुः कीर्तनमासनादिपिण्डदानान्तेषु पदार्थेष्वित्येकः पक्षः ।
अपरस्तु मात्रा सहैव सापत्नमातरमुल्कीर्त्य पितामहीप्रपितामह्योरुत्कीर्तनमिति ।
अस्मिन्पक्षेऽस्मन्मात्रोरमुकामुकदयोर्गोत्रयोर्वसुरूपयोः पितामहीप्रपितामह्योर्दयोर्गोत्रयो रुद्रादित्यरूपयोरिति । अस्मन्मातृसापत्नमातृपितामहीप्रपितामहीनां दानां गोत्राणां वसुरुद्रादित्यस्वरूपाणामित्येव वोत्कीर्तनं सर्वत्र । अस्मिन्पक्षे सापत्नमातर्यपि पार्वणविधिरेव ।
अस्मन्मात्रोः स्थानं189 त्वां निमन्त्रये क्षणः करणीयः । पितामहीस्थाने प्रपितामहीस्थाने190 त्वां निमन्त्रये क्षणः करणीय इति निमन्त्रणादिषु प्रयोगः । अर्घ्यदानं तु मात्रे सापत्नमात्रे च पृथगेव ।
गन्धादिप्रदानेषु–अस्मन्मातरौ दे गोत्रे वसुरूपे एष युवां गन्ध इत्य्-आद्यूहः । अन्नदाने–अस्मन्मातृभ्यां दाभ्यां गोत्राभ्यां वसुरूपाभ्यामिदमन्नमित्याद्यूहः । पितामहीप्रपितामह्योस्तु गन्धाद्यन्नदानान्तं पूर्ववत् । एवं सुवासिनीभोजनेऽपि ।
पिण्डदाने–एतद्वामस्मन्मातरौ दे ये च युवामनु इति, याश्चेति केचिदूहमिच्छन्ति ।
आञ्जाथां मातरौ दे इत्यञ्जने । अभ्यञ्जाथां मातरौ दे इत्यभ्यञ्जने ।
बहुमातृत्वे तु–अस्मृन्मातॄणां दानां गोत्राणां वसुरूपाणाम्, अस्मत्पितामहीप्रपितामह्योश्च दयोर्गोत्रयो रुद्रादित्यरूपयोर्नवमीश्राद्धं करिष्य इति । अस्मन्मातृसापत्नमातृपितामहीप्रपितामहीनां दानां गोत्राणां वसुरुद्रादित्यस्वरूपाणामित्येव वा सङ्कल्प उत्कीर्तनम् ।
तथैवाऽऽसनक्षणयोः, गन्धादिप्रदानेषु च–अस्मन्मातरः, दाः, गोत्राः, वसुरूपा एष वो गन्ध इत्य्-आदिरूहः ।
अन्नप्रदाने मातृभ्यो दाभ्यो गोत्राभ्यो वसुरूपाभ्य इदमन्नमित्यादिरूहः । एवं सुवासिनीभोजनेऽपि । ततः पितामह्यै प्रपितामह्यै च । एतद्वोऽस्मन्मातरो दा ये च वोऽनु इति पिण्डदाने । अङ्ग्ध्वं मातरो दा इत्यञ्जने । अभ्यङ्ग्ध्वं मातरो दा इत्यभ्यञ्जने । अन्यत्समानम् ।
श्राद्धोत्तरं तदहरेव शुक्लतिलैः श्राद्धेज्यपितॄणां तर्पणं विधाय,191 अनाहिताग्निश्चेदत्र श्राद्धान्नेन वैश्वदेवं कृत्वा बन्धुभिः सह भुञ्जीतेति192 । सापत्नमात्रभावे केवलं स्वमातृवर्गस्यैवैतत्कार्यम् । अजीवत्पितृकेण तु पितुर्महालय एव मातृतृप्तेरपि सम्पादितत्वान्नैतत्कार्यमिति केचित् । इति नवमीश्राद्धप्रयोगः ।
द्वादश्यां कर्तव्यसन्न्यस्तपित्रुद्देश्यश्राद्धप्रयोगः
अथ द्वादश्यां कर्तव्यसन्न्यस्तपित्रुद्देश्यश्राद्धप्रयोगः ।
उक्तापराह्णे–अस्मत्पितृपितामहप्रपितामहानां ब्रह्मीभूतानाममुकामुकशर्मणां वसुरुद्रादित्यस्वरूपाणामित्येवमुच्चारणेन सर्वं सङ्कल्पप्रभृति सकृन्महालयवत्कुर्यात् । मन्त्रव्यतिरिक्तस्थले सर्वत्र ब्रह्मीभूतपदोच्चारणमधिकं193 मन्त्रेषु त्वभिध्यानमात्रम् । इति द्वादश्यां कर्तव्यसन्न्यस्तपित्रुद्देश्यश्राद्धप्रयोगः ।
मघात्रयोदशीश्राद्धप्रयोगः
अथ मघात्रयोदशीश्राद्धप्रयोगः ।
पितृवर्गस्य194 सपत्नीकस्य मातामहवर्गस्य सपत्नीकस्योत्कीर्तनं कृत्वा मघात्रयोदशीश्राद्धं साङ्कल्पविधिना करिष्य इति सङ्कल्प्य पूर्वोक्तसाङ्कल्पवि धानेन सर्वं कुर्यात् । ततो वर्गद्वयस्य तिलतर्पणम् । इति मघात्रयोदशीश्राद्धप्रयोगः ।
शस्त्रहतचतुर्दशीश्राद्धप्रयोगः
अथ शस्त्रहतचतुर्दशीश्राद्धप्रयोगः ।
मध्याह्ने195 श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्कृतवैश्वदेवो देशकालकीर्तनान्ते–अस्मत्पितुः शर्मणो गोत्रस्य वसुरूपस्य शस्त्रहतस्य चतुर्दश्यां श्राद्धमेकोद्दिष्टविधिनाऽद्य करिष्य इति सङ्कल्प्य वै(वि)श्वदेवार्थमेकं विप्रं निमन्त्र्य पित्रर्थमेकं निमन्त्रयेत् ।
ततः पादप्रक्षालनाद्याच्छादनान्तं वैश्वदेविकं कर्म विधायैकोद्दिष्टविधिना पित्र्यं कुर्याद्देवरहितं196197 वा । पिण्डदान एक एव पिण्डः । तदहरेव तिलरहितं198 तर्पणम् ।
पितृपितामहौ यदि शस्त्रहतौ तदा द्वयोरप्येकोद्दिष्टविधिरेव ।
यदि त्रयोऽपि शस्त्रहतास्तदा पार्वणैकोद्दिष्टयोर्विकल्पः । पार्वणपक्षेऽपराह्ण एव श्राद्धम् ।
सर्वपितृतृप्त्यर्थममावास्यायां भिन्नो महालयः कर्तव्य एव । इति शस्त्रहतचतुर्दशीश्राद्धप्रयोगः ।
दौहित्रप्रतिपच्छ्राद्धप्रयोगः
अथ दौहित्रप्रतिपच्छ्राद्धप्रयोगः ।
आश्विनशुक्लप्रतिपद्युक्तापराह्णे सङ्गवे199 वा श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्पृथक्पाकेन वैश्वदेवं कृत्वाऽस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थमाश्विनशुक्लप्रतिपच्छ्राद्धं साङ्कल्पविधिना करिष्य इति सङ्कल्प्य पूर्वोक्तसाङ्कल्पविधानेन सर्वं कृत्वा तद्वर्गमात्रस्य शुक्लतिलैस्तदहरेव तर्पणं कृत्वा,200 अनाहिताग्निश्चेद्वैश्वदेवं कृत्वा श्राद्धशेषमिष्टैः सह भुञ्जीत । इति दौहित्रप्रतिपच्छ्राद्धप्रयोगः ।
तीर्थश्राद्धप्रयोगः
अथ तीर्थश्राद्धप्रयोगः ।
काश्यादितीर्थप्राप्तौ स्नानादिकं विधाय तिलतर्पणं कृत्वा देशकालौ सङ्कीर्त्य पुरूरवार्द्र० प्राची० पित्राद्याप्तान्तान्महालयवदुच्चार्य तीर्थश्राद्धं करिष्य इति सङ्कल्प्य क्षेत्रवासिनोऽन्यान्वा ब्राह्मणान्महालयवन्निमन्त्र्यार्घ्यावाहनाङ्गुष्ठनिवेशनतृप्तिप्रश्नविकिरविसर्जनवर्जं महालयश्राद्धवत्सर्वं कुर्यात्201 । दृग्दो षदिग्बन्धावप्यत्र न स्त इति केचित् । अत्राग्नौकरणं कृताकृतम् । तत्र करणपक्षेऽग्नावेव होमः । पिण्डांस्तु तीर्थजल एव क्षिपेत्202 । महालयपदस्थाने तीर्थश्राद्धपदोच्चारणम् । एवं गयाश्राद्धादावपि यथायथमूहो द्रष्टव्यः । इति तीर्थश्राद्धप्रयोगः ।
यात्रागमनकाले घृतश्राद्धप्रयोगः
अथ यात्रागमनकाले घृतश्राद्धप्रयोगः ।
उक्तापराह्णे203 श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्पृथक्पाकेन वैश्वदेवं कृत्वा तिलतर्पणं विधाय देशकालकीर्तनान्ते महालयवत्पितॄनुद्दिश्यामुकतीर्थयात्रां कर्तुमादौ तदङ्गत्वेन विहितं समस्तपितॄनुद्दिश्य घृतश्राद्धं करिष्य इति सङ्कल्प्य क्षणाद्यर्घ्यावाहनवर्जं परिवेषणान्तं कुर्यात् ।
अग्नौकरणं204 कृताकृतम् । करणपक्षे घृतेनाग्नौकरणं तस्यैव मुख्यत्वात् ।
अत्र पात्रे घनीभूतं घृतं प्रधानं भक्ष्यभोज्यादिकं व्यञ्जनत्वेनेति द्रष्टव्यम् । अन्नशब्दस्थाने घृतशब्दप्रयोगो दाने कार्यः । अन्यत्सर्वं तीर्थश्राद्धवत् ।
ततोऽनाहिताग्निश्चेद्वैश्वदेवं205 कृत्वा बन्धून्सम्भोज्य घृतशेषमादाय ग्रामं प्रदक्षिणीकृत्य कोशमात्रं गत्वा तत्र पाकं विधाय सर्वस्मादन्नात्किञ्चित्किञ्चिद्ग्रासमात्रमवदाय घृतप्लुतमग्नौ किञ्चित्प्रक्षिप्याऽऽनीतश्राद्धशिष्टघृतेन206 सह भोजनं कुर्यात् । इति यात्रारम्भे घृतश्राद्धम् ।
यात्रोत्तरश्राद्धम्
अथ यात्रोत्तरश्राद्धम् ।
यात्रां कृत्वा गृहप्रवेशे श्राद्धं पूर्वोक्तवत्सर्वं कुर्यात् । तत्र सर्वान्पितॄनुच्चार्यामुकतीर्थप्रत्यागमननिमित्तं207 घृतश्राद्धं करिष्य इति सङ्कल्पवाक्ये विशेषः । अन्यत्समानम् । केचिद्दधिश्राद्धमित्याहुः । तत्पक्षे दधिश्राद्धं करिष्य इति सङ्कल्पः । प्राधान्यं दध्न इतरद्व्यञ्जनत्वेनेति । इति यात्रोत्तरश्राद्धम् ।
युगा[द्या]दिश्राद्धप्रयोगः
अथ युगा[द्या]दिश्राद्धप्रयोगः ।
उक्तापराह्णे208209 श्रौताग्निमान्स्मार्ताग्निमान्वा चेद्वैश्वदेवं कृत्वा सपत्नीकपितृवर्गस्य सपत्नीकमातामहवर्गस्य च तिलतर्पणं कृत्वा देशकालकीर्तनान्ते पुरूरवार्द्रव० प्राचीनावीती–अस्मत्पितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां युगा दिनिमित्तं श्राद्धं210 साङ्कल्पविधिनाऽद्य करिष्य इति सङ्कल्प्य211 पूर्वोक्तसाङ्कल्पविधिना212 सर्वं कुर्यात् ।
एवं मन्वाद्ययनद्वयसङ्क्रमणव्यतीपातवैधृत्यादिषु मन्वादिनिमित्तं श्राद्धं करिष्ये । अयननिमित्तं श्राद्धं करिष्ये । सङ्क्रमणनिमित्तं श्राद्धं करिष्ये । व्यतीपातनिमित्तं श्राद्धं करिष्ये । वैधृतिनिमित्तं श्राद्धं करिष्य इति यथायथं सङ्कल्पं कृत्वा युगादिश्राद्धवत्सर्वं कुर्यात्213 ।
एवमर्धोदयगजच्छायाकपिलाषष्ठीष्वपि–अर्धोदयनिमित्तं214215 श्राद्धं करिष्ये । गजच्छायानिमित्तं श्राद्धं करिष्ये । कपिलाषष्ठीनिमित्तं216 श्राद्धं करिष्य इति यथायथं सङ्कल्पं कृत्वा साङ्कल्पविधिना श्राद्धं कृत्वा217 तर्पणं कृत्वा भुञ्जीत ।
[इति युगाद्यादिश्राद्धप्रयोगः । ]
वृद्धिश्राद्धप्रयोगः
अथ वृद्धिश्राद्धप्रयोगः ।
तत्रायं विशेषः–सर्वं पितृकर्मापि यज्ञोपवीतिनैव । यवैस्तिलकार्यम् । प्रदक्षिणमुपचारः । अमूला एव दर्भाः । अत्र प्राङ्मुखतोदङ्मुखते एव । देवतीर्थमेव । प्रागग्रा एवाऽऽसनादिषु दर्भाः । रेखा अपि प्रागग्राः218 । न तिलोदकं न सव्यजानुनिपातनं न नामग्रहणं नास्मद्गोत्रवसुरूपादिशब्दाः219 । स्वधाशब्दस्थाने स्वाहाशब्दः । संस्कारकर्माङ्गनान्दीश्राद्धे दर्भस्थाने दूर्वाः । आधानसोमाद्यङ्गभूते नान्दीश्राद्धे तु दर्भा एव । नात्र रक्तगन्धपुष्पमालानिषेधः । आदौ मातृवर्गो220 मध्ये पितृवर्गोऽन्ते मातामहवर्गः सपत्नीकः । पूर्वाह्ण एक श्राद्धारम्भः । ‘निहन्मि सर्वं’221 । ‘यवा रक्षन्त्वसु०’ ‘ये राक्षसाः०’222 इति यवानेव विकिरेत् ।
ततः–‘अपवित्रः पवित्रो वा०’ इति पुण्डरीकाक्षं ध्यात्वा देशकालौ सङ्कीर्त्य सत्यवसुसञ्ज्ञका विश्वे देवा नान्दीमुखाः । मातृपितामहीप्रपितामह्यो नान्दीमुखाः । नान्दीमुख्य इति केचित् । पितृपितामहप्रपितामहा नान्दीमुखाः । मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका नान्दीमुखाः श्वोऽद्य वा करिष्यमाणामुककर्माङ्गत्वेन विहितं नान्दीश्राद्धमद्य223 करिष्य इति सङ्कल्पं कुर्यात्224 । जीवत्पितृकस्य तु पितुर्मातृपितामहीप्रपितामह्यो नान्दी मुखाः । पितुः पितृपितामहप्रपितामहा नान्दीमुखाः । पितुर्मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका225 नान्दीमुखा इत्येवमुल्लेखः ।
जीवदुभयादेस्तु पितामहस्य मातृपितामहप्रपितामह्य इत्य्-आदि यथायथमुल्लेखः । एवं सर्वत्रोल्लेखो द्रष्टव्यः ।
अस्मिन्नान्दीश्राद्धे सत्यसञ्ज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने226 त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति227 ब्रूयात्, इति प्रथमदेवार्थं ब्राह्मणद्वयं निमन्त्र्य वसुसञ्ज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने228 त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति द्वितीयदेवार्थं ब्राह्मणद्वयं निमन्त्रयेत्229 । सत्यवसुसञ्ज्ञकानां विश्वेषां देवानां स्थान इत्येवंरीत्या वा देवस्थानीयविप्रद्वयनिमन्त्रणं कार्यम् । एवं सर्वत्र द्रष्टव्यम् । अस्मिन्नान्दीश्राद्धे मातृपितामहीप्रपितामहीनां नान्दीमुखानां स्थाने230 त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति ब्राह्मणद्वयं निमन्त्र्य, अस्मिन्नान्दीश्राद्धे पितृपितामहप्रपितामहानां नान्दीमुखानां स्थाने231 त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति पितृवर्गार्थं ब्राह्मणद्वयम्, अस्मि० मातामहमातुःपि० हानां सपत्नीकानां नान्दीमुखानां स्थाने त्वां० इति मातामहवर्गार्थं च ब्राह्मणद्वयं निमन्त्र्य पाकसिद्ध्युत्तरं पाकः सिद्ध आगम्यतां दैवे क्षणः क्रियतामिति यथायथं यज्ञोपवीत्येव निमन्त्र्य मातः षड्घटिकानन्तरं स्नात्वाऽऽचम्य प्राणानायम्य समस्तसम्पदिति ब्राह्मणान्प्रदक्षिणीकृत्येत्याद्यग्नौकरणान्तं मासिश्राद्धवत्कुर्यात्232 । तत्र विशेषः–मासिश्राद्धशब्दस्थाने नान्दीश्राद्धशब्दः । विचरणक्षालनकाले यद्यतिथिः समागतश्चेत्तमपि चतुरश्रदेशे सर्वपितृस्थाने विनियोज्य स्वागतादिविधिना भोजयेत् । मातृपार्वणे विप्राभावे पूजनपूर्वकं स्त्रियो भोज्याः । देवपाद्यदानोत्तरं मात्रादीनामपि चतुरश्रमण्डल एव पाद्यदानम् । प्राप्नुतां भवन्तौ प्राप्नवावेति प्रश्नप्रतिवचनयोरूहः । आसन ऋजव एव दर्भाः । प्रदक्षिणमेव कुशासनम् । यवोऽसि यवयेत्यनेनैव233 यवप्रक्षेपणम् । तत्तद्युग्माद्यविप्रकराग्रं तत्तद्द्वितीयविप्रकरे संस्थाप्य कराग्रेण पवित्राग्रं तेन तेन धारयित्वा तत्र तत्र तन्त्रेणार्घ्यं देयम् । नान्दीमुखान्पितॄनावाहयिष्य इत्य्-आवाहनानुज्ञावाक्यम् । मध्यमयाऽङ्गुल्यैव गन्धदानं234 द्विर्द्विरेव । पुष्पाणि मालतीशतपत्रीमल्लिकाकुब्जकेतकीपाटलानि । मालाश्चैतेषामेव पुष्पाणामिति ।
ततश्चतुरश्राण्येव सर्वाणि मण्डलानि विधाय तेषु सर्वेष्वपि सौवर्णान्येव सर्वाणि भोजनपात्राणि,235 अलाभे मधुकपलाशग्राम्यकदल्याद्यन्यतमपात्राणि संस्थाप्य सर्वपात्राणां236 परितो बृहत्सामेति प्रदक्षिणमेव भस्ममर्यादां कृत्वा करशुद्धिं च विधायाऽऽसादितेषु पात्रेषूपस्तीर्य होमार्थान्नोद्धरणार्थं पात्रमुपस्तीर्य गृहीत्वा, उद्धरिष्याम्यग्नौ च करिष्यामीति ब्राह्मणानामन्त्रयते । काममुद्ध्रियतां काममग्नौ च क्रियतामिति विप्रा अनुज्ञां दद्युः ।
ततः कर्ता तूष्णीमेवापां237 मेध्यमितिमन्त्रेण वाऽमूलमेव महद्बर्हिराच्छिद्य तूष्णीं परिस्तरणार्थानमूलानेव दर्भानाच्छिद्योभयं बद्ध्वाऽनधो निदधाति । ततो238 दक्षिणाग्निमौपासनाग्निं वा तदभावेऽयाश्चेत्यादिविधिनोत्पादितमग्निं प्रागुदगग्रैर्दर्भैः प्रदक्षिणमेव परिस्तीर्य तूष्णीमेव प्रदक्षिणं परिषिच्य पिण्डदानार्थं पृषदाज्यं निष्पाद्य सुरक्षितं निदध्यात् ।
दधनि तदर्धमाज्यमानीय तदालोडयेत्तत्पृषदाज्यं भवति । अत्रासंस्कृतमेवाऽऽज्यम् ।
तत उत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वाऽभिघार्योद्वास्याग्नेः पश्चान्निधाय दक्षिणं जान्वाच्य मेक्षणेनोद्धृतान्नैकदेशमुपहत्य सोमाय पितृपीताय स्वाहेति प्रथमाहुतिं जुहोति । सोमाय पितृपीतायेदं० । पुनरुपहत्य यमायाङ्गिरस्वते पितृमते स्वाहेति तृतीयाहुत्यर्थं कानिचित्सिक्थान्यवशेष्य द्वितीयामाहुतिं जुहोति । यमायाङ्गिरस्वते पितृमत इदं० । अग्नये कव्यवाहनाय स्विष्टकृते स्वाहेति यानि मेक्षणे द्वितीयाहुत्यवशेषितानि सिक्थानि तैस्तृतीयामाहुतिं जुहोति । अग्नये कव्यवाहनाय स्त्रिष्टकृत इदं । ततस्तूष्णीं मेक्षणमनुप्रहरति ।
ततः पात्रेषु मधुरद्रव्यसहितमनम्लद्रव्यव्यञ्जनसहितमन्नं239 परिविष्य हुतावशिष्टं किञ्चित्पितृपात्रेषु परिविष्य देवेभ्यो नैवेद्यं समर्प्य240 सत्यं त्व० परिषिच्य पृथिवी ते पात्रमित्याद्युक्त्वा सत्यसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्य इदमन्नं सोपस्करं स्वाहा हव्यं न ममेति241 प्रथमदेवविप्रद्वयहस्तयोरुदकं दत्त्वा वसुसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्य इदमन्नं सोपस्करं स्वाहा हव्यं न ममेति द्वितीयदेवविप्रद्वयहस्तयोरुदकं दत्त्वा ये देवा दिवीत्युपतिष्ठते ।
ततः242 सत्यं त्व० परिषिच्य, ‘पृथिवी ते पा० म्यक्षि० मातृपितामहीप्रपितामहीनां नान्दीमुखानां क्षेष्ठा अमुत्रामुष्मिँल्लोके’ इति मातृवर्गीयविप्रपात्रद्वयस्थमन्नं मन्त्रावृत्त्याऽभिमृश्य, ‘इदं विष्णु०’ ‘विष्णो हव्यं रक्षस्व’ इति तयोरङ्गुष्ठमनखं मन्त्रावृत्त्या तत्तदन्ने निवेश्य मातृपितामहीप्रपितामहीभ्यो नान्दीमुखाभ्य इदमन्नं सोपस्करं स्वाहा हव्यं243 न ममेति मातृवर्गीयविप्रहस्तयोरुदकं दद्यात् । एवमूहेन पितृपार्वणे मातामहपार्वणे244 च । तत्र मातामहपार्वणे नान्दीमुखशब्दात्पूर्वं सपत्नीकशब्दप्रयोगः । एवमन्नं निवेद्य कुलदेवतां सम्पूज्य ‘यन्तु नदयः’ इति पठित्वा नान्दीमुखाः पितरः प्रीयन्तामिति वाचयित्वा प्रीयन्तां नान्दीमुखाः पितर इति तैरुक्ते तान्नमस्कृत्य ब्रह्मार्पणं कृत्वा परिविष्टान्नेषु सर्पिरासिच्यापोशा(ऽऽपोश)नोदकदानादि यथासुखं जुषध्वमित्युक्त्वा ‘अपेक्षितं याचितव्यम्’ इति विप्रप्रार्थनान्तं कुर्यात् । विप्राः245 परिषेकबलिदानवर्जं विधिना भुञ्जीयुः । तेषु भुञ्जानेषु राक्षोघ्नं246 पवमानानुवाकम् ‘आशुः शिशानः ’ इत्यनुवाकम् ‘इन्द्रं वो विश्वतस्परि हवामहे’ इत्य्-आदीनैन्द्रमन्त्रांश्चाभिश्रावयेत् । भोजनान्ते (’247 मधु वाताः’ इत्येतस्य स्थाने ‘उपास्मै गायता नरः पवमा० मधु’ इति पञ्चर्चः श्रावयेत् । ‘अक्षन्नमीमदन्त’ इति च ।
ततः ) सत्यसञ्ज्ञका विश्वे देवा नान्दीमुखा नान्दीश्राद्धं रुचितम्248 । वसुसञ्ज्ञका विश्वे देवा नान्दीमुखा नान्दीश्राद्धं रुचितम्249250 । सुरुचितमिति देवविप्रौ प्रतिब्रूयाताम् । मातृपितामहीप्रपितामह्यो नान्दीमुखा नान्दीश्राद्धं सम्पन्नं पितृपितामहप्रपितामहा नान्दीमुखा नान्दीश्राद्धं सम्पन्नं मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका नान्दीमुखा नान्दीश्राद्धं सम्पन्नमिति तत्तद्विप्रं प्रति वदेत्251 । सुसम्पन्नमिति पितृविप्राः प्रतिब्रूयुः । अयमेवात्र तृप्तिप्रश्नः ।
तत उच्छिष्टभाग्भ्योऽन्नं दीयतामित्यादिविप्राचमनान्तं समानम् ।
आचान्तेषु विप्रेषु शीघ्रमुच्छिष्टं निष्काश्य भूमिं सम्मार्ज्य पिण्डदानं कुर्यात् । तत्रायं विशेषः–मार्जयन्तां मातरो नान्दीमुखाः सोम्यासः । मार्ज० पिता मह्यो नान्दी० सो० । मार्ज० प्रपितामह्यो ना० सो० । मार्ज० पितरो ना० सो० । मार्ज० पितामहा ना० सो० । मार्ज० प्रपितामहा ना० सो० । मार्ज० मातामहा 252 ना० सो० । मार्ज० मातुःपितामहा ना० सो० । मार्ज० मातुःप्रपितामहा ना० सो० । इत्येतैर्यथायथं तत्तद्रेखायां देवतीर्थेनैवोदकाञ्जलिनिनयनम् । प्रतिपिण्डं तूष्णीं253 द्वितीयः पिण्डः । तत्तत्पिण्डसमीपे तत्तद्द्वितीयपिण्डार्थमुदकाञ्जलिदानमपि कर्तव्यम्254 । सर्वमन्त्रेषु सपत्नीकत्वाभिध्यानमात्रं न तु तच्छब्दस्योल्लेखः । एतत्ते मातर्नान्दीमुखेऽयं पिण्डः स्वाहा । एतत्ते पितामहि ना० पिण्डः स्वा० । एतत्ते प्रपितामहि ना० पिण्डः स्वा० । एतत्ते पितर्नान्दीमुखायं पिण्डः स्वाहा । एतत्ते पितामह ना० पिण्डः स्वा० । एतत्ते प्रपितामह ना० पिण्डः स्वाहा । एतत्ते मातामह 255 ना० यं पिण्डः स्वाहा । एतत्ते मातुःपितामह ना० पिण्डः स्वा० । एतत्ते मातुःप्रपितामह ना० पिण्डः स्वा० । इत्येतैर्यथायथं तत्तद्रेखास्थबर्हिषि देवतीर्थेनैव पृषदाज्यदधिवदराक्षतयवैरुद्धृतमन्नं मिश्रयित्वा तेन पिण्डान्दद्यात्256 । अत्रापि सपत्नीकत्वाभिध्यानमात्रम् । सर्वाभावे पृषदाज्ययवमात्रमिश्रणम् । प्रतिपिण्डं तूष्णीं द्वितीयपिण्डदानम्257 । आपो देवीः स्वाहया० गच्छन्तु० पितरो नान्दीमुखाः स्योनाः० तमे पितॄन्नान्दीमुखान् । अत्र पितरो नान्दीमुखा यथा० अमीमदन्त पितरो नान्दीमुखा अनुस्वाहमा० आङ्क्ष्व मातर्नान्दीमुख इत्य्-आद्यूहेनाञ्जनं दद्यात् । अभ्यङ्क्ष्व मातर्नान्दीमुख इत्य्-आद्यूहेनाभ्यञ्जनं दद्यात् । एतानि वः पितरो नान्दीमुखा वासा सीत्येवमूहितेन दशामूर्णास्तुकां वा छित्त्वा छित्त्वा पिण्डेषु क्षिपति पूर्वे वयसि । उत्तरे वयसि तु दक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्वा छित्त्वा तेनैव मन्त्रेण प्रक्षिपति न दशा नोर्णास्तुका ।
ततः पितृभ्यो नान्दीमुखेभ्यो नम इति गन्धादिभिः पूजयेत् । अत्राऽऽरक्तगन्धारक्तपुष्पाक्षतमालाद्यपि देयम् ।
ततो नमो वः पितरो रसायेत्यादिषु पितृशब्दोत्तरं नान्दीमुखशब्दप्रयोगः । (258 नमो वः पितरो नान्दीमुखा रसाय पितरो नान्दीमुखा नमो वो य ए० भूयासं न० रो ना० खाः शु० य पि० रो ना० न० रो ना० जी० न० रोना० स्वाहा०259 न० रो ना० म० न० रो ना० घो० ऊर्जस्वतीः स्वाहया व० मे पितॄन्नान्दीमुखान् । उत्तिष्ठत पितरो नान्दीमुखाः प्रेत० परेत पितरो नान्दीमुखाः सो० अथापितॄन्नान्दीमुखान्त्सु० यन्तु पितरो नान्दीमुखा मनसा० मनोन्वा० स्तोमेन पितॄणां नान्दीमुखानां च मन्मभिः पुनर्नः पितरो नान्दीमुखा मनो द० । ) पात्रोत्सर्गान्तं समानम्260 । निरग्निकस्यात्र पिण्डदानं कुलधर्मानुसारेण कृताकृतम् । साग्निकस्य तु नियतमेव ।
ततः शिवा आपः सन्त्वित्यादि,261 अस्मिञ्श्राद्धे दत्तैरन्नोदकादिभिर्नान्दीमुखाः पितरः प्रीयन्तामिति भवन्तो ब्रुवन्त्वित्यक्षय्यं दत्त्वा प्रीताः सन्त्विति तैरुक्ते सर्वेभ्यो विप्रेभ्यो द्राक्षामलकमूलयवान्निष्क्रयं262 वा दक्षिणाः पान्त्विति दक्षिणां दद्यात्ताम्बूलं च263 ।
ततो दातारो नोऽभिवर्धन्तामिति विप्रान्प्रार्थयेत् । दातारो वोऽभिवर्धन्तामिति विप्राः प्रतिब्रूयुः ।
ततो नान्दीमुखाः पितरः प्रीयन्तामिति भवन्तो ब्रुवन्त्विति कर्ता वदेत् । प्रीयन्तां नान्दीमुखाः पितर इति विप्राः । मद्गृहे सततं शोभनमस्त्विति भवन्तो ब्रुवन्त्विति कर्ता वदेत् । त्वद्गृहे सततं शोभनमस्त्विति विप्राः प्रतिब्रूयुः । अत्र सर्वान्पिण्डान् ‘त्वमू षु वाजिनम्’ इति मन्त्रेणोद्धृत्याप्सु क्षिपति ब्राह्मणं वा भोजयतीत्यादिप्रतिपत्त्यनन्तरं264 तु दर्शश्राद्धवत् । नात्र पिण्डप्राशनं पत्न्याः । ततो बर्हिरग्नौ प्रहरति265 । ये समानाः समनसः पितरो नान्दीमुखा यम० पिण्डस्थाने जलमासिच्य ‘वाजे वाजे’ इत्यस्य स्थाने ‘त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहाऽऽहवेम’ इति मन्त्रमुक्त्वा पितॄन्देवांश्च विसर्जयेत् । ततः कूर्चद्वयं विस्रस्य–‘आ मा वाजस्य प्रस० गन्तां पितरा नान्दीमुखा मातरा नान्दीमुखाश्चाऽऽमा सो० स्वादुष सदः पितरो नान्दीमुखा वयोधाः० ब्राह्मणासः पितरो नान्दीमुखाः सोम्यासः शिवे०’ इत्यूहेन मन्त्रान्वदेत् । ततो विप्राः ‘इहैव स्तं०’ ‘आयुः प्रजां० प्रीतास्तुभ्यं पितामहा नान्दीमुखाः’ इत्य्-आशिषो दद्युः ।
ततो यजमानः–
“माता पितामही चैव तथैव प्रपितामही ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥
मातामहस्तत्पिता च प्रमातामहकस्तथा ।
एते भवन्तु सुप्रीताः प्रयच्छन्तु च मङ्गलम्”
इति विप्रान्वदेत् । विप्रा मात्रादयः सुप्रीता मङ्गलं प्रयच्छन्त्विति प्रतिब्रूयुः, तत्तत्पार्वणाद्यजीवनवशेन यस्य कस्यचित्पार्वणस्य लोपे266 तत्तत्पार्वणविषयकश्लोकैकदेशलोपः । केवलमातृपार्वणकरणे–एता भवन्तु267 सुप्रीता इत्यूहः । देवा अप्यत्र न कार्याः । तत इडामग्ने० इत्यनेन मन्त्रेणाऽऽचारात्पात्रेण किञ्चिद्द्रव्यं सङ्घट्टयेत् ।
ततोऽद्य मे सफलमित्यादि यस्य स्मृत्येत्येतदन्तं कृत्वा, अनेन नान्दीश्राद्धाख्येन कर्मणा परमेश्वरः प्रीयतां न ममेति कर्म समर्प्य विष्णुं संस्मृत्य पवित्रे विसृज्याऽऽचम्य मातॄर्विसर्जयेत्268 । निरग्निकस्य पिण्डदानाकरणकल्पे साङ्कल्पिकविधिः ।
अत्र वैश्वदेव आदावन्ते वा कार्यः । यदाऽऽदौ तदा पाकान्तरेणैव कार्यः269 । विवाहोपनयनाङ्गभूते नान्दीश्राद्धे तु सायव्ँवैश्वदेवोऽपि प्रातरेव कर्तव्य इति केचित् । ( 270 नात्र तर्पणम् । न च ब्रह्मचर्यादिनियमाः । ) इति वृद्धिश्राद्धप्रयोगः ।
नित्यश्राद्धप्रयोगः
अथ नित्यश्राद्धप्रयोगः ।
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसु० सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गो० व० सपत्नीकानां तृप्त्यर्थं271 नित्यश्राद्धं करिष्य इति सङ्कल्प्य, आसने तत्तद्वर्गोद्देशेन विप्रद्वयमेकं वोपवेश्य गन्धादिभिः सम्पूज्य,272 इदं परिविष्टं परिवेक्ष्यमाणं सोपस्करमन्नं पितृपितामहप्रपितामहानां सपत्नीकानामा तृप्तेः स्वधा सम्पद्यतां कव्यं न ममेत्यान्नं निवेदयेत् । एवं मातामहवर्गे । विप्रभोजनोत्तरं यथासम्भवं दक्षिणां दत्त्वा नमस्कृत्य विसर्जयेत् । नात्र ब्रह्मचर्यादिनियमाः । न तर्पणं न विश्वे देवाः । दक्षिणादाने विकल्पः । अत्र सर्वथा विप्रालाभे किञ्चिदन्नमुद्धृत्य पितृभ्य इदमन्नं स्वधा न ममेति पित्रुद्देशेन त्यक्त्वा गोभ्यो दद्यात् । गवामलाभेऽग्नौ प्रक्षिपेत् । (273 यस्मिन्दिने पितुरमावास्यानान्दीमुखश्राद्धादिकं पतेत्तदा पित्रादीनां तृप्तत्वात्तत्र नित्यश्राद्धं न कर्तव्यं, पत्न्यादिसाव्ँवत्सरिकादिष्वेता) नेष्टा नित्यश्राद्धदेवतास्तत्र कर्तव्यमिति व्यवस्था ज्ञेया ।
इति संस्काररत्नमालायां मासिश्राद्धम् ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालाया उत्तरार्धे
नवमं प्रकरणम् ॥ ९ ॥
-
क. ङ. स्तपादान्प्रक्षा । ↩︎
-
ङ. धाय प्रसन्नमनाः श्राद्धमारभेत । निह । ↩︎
-
ङ. ति सकु। ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“जीवत्पितृकस्य प्रकोष्ठपर्यन्तं प्राचीनावीतम्” इति । ↩︎
-
ङ. मुक । ↩︎
-
ङ. मुक । ↩︎
-
ङ. त् पू । ↩︎
-
ङ. स्य जानुद्वयमाल । ↩︎
-
च. प्रौ निम । ↩︎
-
ङ. त् । ततः । ↩︎
-
ङ. द्धे पि । ↩︎
-
ङ. णेऽस्मत्पितुर्मासि । ↩︎
-
ङ. ति पित्रर्थे विप्रं निमन्त्रयेत् । ↩︎
-
ङ. द्धे पित्र्ये । ↩︎
-
ङ. अस्मत्पितामहस्य मासि । ↩︎
-
ङ. द्धे पित्र्ये । ↩︎
-
ङ. अस्मत्प्रपितामहस्य मासि । ↩︎
-
ङ. म् । ए । ↩︎
-
ङ. वा । सर्व । ↩︎
-
ङ. कृत्वा तदुत्त । ↩︎
-
ङ. क्षणशेषोत्से । ↩︎
-
ङ. च. तृतीय । ↩︎
-
अत्र ङ. पुस्तक आज्येनेति । एवमग्रेऽपि । ↩︎
-
ङ. तॄन्द्विरा । पितॄनाज्येन पितामहाना । ↩︎
-
ङ. नाज्येन यक्ष्य इ । ↩︎
-
ङ. त्राऽऽज्येनेत्येत । ↩︎
-
ङ. नेऽन्नेनेति । ↩︎
-
ङ. पुस्तकेऽन्नेनेति । एवमग्रेऽपि । ↩︎
-
ङ. पुस्तक आज्येनेति । एवमग्रेऽपि । ↩︎
-
ङ. तॄन्द्विरा । माता । ↩︎
-
ङ. नाज्येन य । ↩︎
-
ङ. पुस्तकेऽन्नेनेति । एवमग्रेऽपि । ↩︎
-
ङ. आज्येनेत्यत्राग्नेनेति । ↩︎
-
ङ. होमे । ↩︎
-
ङ. ग्निं त्रिरि । ↩︎
-
ङ. द्यं. द । ↩︎
-
ङ. द्यं द । ↩︎
-
ङ. वुक्त्वाऽऽसन । ↩︎
-
ङ. नुक्त्वाऽऽस । ↩︎
-
ङ. पाकादीनां । ↩︎
-
ङ. त् । सर्वे पाकादयः पदार्थाः शुचयो भवन्त्विति विप्राः प्र । ↩︎
-
ङ. त्रादिवि । ↩︎
-
ङ. त्रादिविप्रा । ↩︎
-
च. यमेकं वा पा । ↩︎
-
च. वाग्निक्षि । ↩︎
-
ङ. इदं वः पुष्पम्, इ । ↩︎
-
ङ. सुपुष्पमस्तु । ↩︎
-
क. नमित्याद्यूहे । ↩︎
-
क. ङ. धा नम इति । ↩︎
-
ङ. च. ततः पूर्वोक्तैरेव मन्त्रैः । ↩︎
-
च. वीती उ । ↩︎
-
ङ. म कु । ↩︎
-
ङ. दं । ये । ↩︎
-
ङ. च. त् । ए । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ पुस्तके । ↩︎
-
क. च. म् । ततो । ↩︎
-
ङ. ती नै । ↩︎
-
च. यस्यापि लो । ↩︎
-
च. दिपात्रत्र । ↩︎
-
क. च. तं य । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“न वाऽत्रार्घ्यदानम् ।” इति । ↩︎
-
ङ. स्य वामभा । ↩︎
-
ङ. स्य दक्षिणतो भू । ↩︎
-
ङ. गुः । त । ↩︎
-
क. च. त् । दे । ↩︎
-
ङ. दीन । ↩︎
-
ङ. वोच्चारणि । ↩︎
-
च. पृथक्कृत्वा ↩︎
-
एतदग्रे यज्ञोपवीतीत्यपेक्षितम् । ↩︎
-
च. न ममेति । ↩︎
-
ङ. त्वा यज्ञे । ↩︎
-
ङ. त्रे वि । ↩︎
-
ङ. तिः । पित्र । ↩︎
-
च. पित्र्यार्घ्यो । ↩︎
-
ङ. म् । न वाऽत्रार्घ्यदानम् । त । ↩︎
-
ङ. त् । ततः । ↩︎
-
द्विपितृक इति तु पठितुं युक्ततरम् । ↩︎
-
च. न्पिण्डदाने द्वौ द्वौ पित । ↩︎
-
क. एकैक । ↩︎
-
ङ. रुद्र । ↩︎
-
ङ. हृ रुद्रेत्ये । ↩︎
-
क. च. पिण्डेऽञ्ज । ↩︎
-
क. रद्दूव्यं । ↩︎
-
ङ. च. मुत्तर । ↩︎
-
ङ. व्यं पि । ↩︎
-
ङ. तश्चेत् । त । ↩︎
-
ङ. ङ्गैः । यथापाठं वा । तत । ↩︎
-
च. त् । तत्राऽऽ । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎
-
ङ देवोऽनाहिताग्निना विकिरदानोत्तरं बलिदानोत्तरं वा श्राद्धसमाप्त्यनन्तरं वा । ↩︎
-
ङ. र्यः । अ । ↩︎
-
च. न्तर ए । ↩︎
-
च. केनैव वै । ↩︎
-
ङ. व । आहिताग्निना स्वैकादशाहिकं मुक्त्वा श्राद्धारम्भात्प्रागेव पृथक्पाकेनैव कार्यः । सम । ↩︎
-
च. ध्ये का । ↩︎
-
च. मभ्याय । ↩︎
-
क. ङ. कल्पवि । ↩︎
-
ङ. त् । अनाहिताग्निश्चेद्विश्वदेवमत्र कुर्यात् । ↩︎
-
ङ. त्वा दे । ↩︎
-
ङ. च. द्विश्वेदे । ↩︎
-
एतदनन्तरं कार्यमिति शेषः । ↩︎
-
अत्र क. पुस्तकटिप्पन्याम् “मूले तृप्ता इत्यस्य सुबन्तत्वात्तर्प्स्यन्त इति सुबन्ततयैवोहस्य न्याय्यत्वेन तिङन्तपदोहश्चिन्त्य एव । तेन तर्प्स्यन्तो यात पथिभिरित्येवोहः साधुः” । इत्येवं लिखितमस्ति । ↩︎
-
ङ. त् । अनाहिताग्निश्रे । ↩︎
-
च. महानु । ↩︎
-
च. अत्रायं । ↩︎
-
ङ. तद्दिने । ↩︎
-
ङ. क्रिय आहिताग्निश्चेत्कृ । ↩︎
-
च. धिना सद्यः क । ↩︎
-
ङ. द्युः स । ↩︎
-
ङ. व । ए । ↩︎
-
ङ. त्वा नित्यस्नानादि । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎
-
च. नान्तं पि । ↩︎
-
ङ. गः । उक्तापराह्णे द्वे । ↩︎
-
ङ. च. त्वात्तत्प्र । ↩︎
-
ङ. च. दक्षा । ↩︎
-
ङ. स्योद्दिष्टं तस्या । ↩︎
-
ङ. पक्षे द । ↩︎
-
ङ. तृस्थाने पितृव्यस्योद्या । ↩︎
-
क. रणीयम् । ↩︎
-
ङ. व । मातुल । ↩︎
-
ङ. लश्राद्धे मातु । ↩︎
-
ङ. नामुच्चारणम् । पितृव्यपितामहप्रपितामहानाम् । भ्रातृपितृपितामहानाम् । सापत्नमातृपितामहीप्रपितामहीनाम् । मातुलमातामहमातुःपितामहानामित्यादिरूपो ज्ञेयः । स्त्रि । ↩︎
-
ङ. यास्त्वेकोद्दिष्टमेव । कनि । ↩︎
-
एतदनन्तरं च. पुस्तके “पितृव्यस्य साव्ँवत्सरिके श्राद्धे पार्वणपक्षे पितृव्यपितामहप्रपितामहानामिति” इत्यधिकम् । ↩︎
-
ङ. देतानपि । च. देतावपि । ↩︎
-
ङ. षः । अन्य । ↩︎
-
ङ. थक्पृथक्पाकेन पृथक्पृथक्श्राद्धकर । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎
-
ङ. च. सति क्र । ↩︎
-
ङ. त्वा श्राद्धं कार्य । ↩︎
-
ङ. व स्त्रि । ↩︎
-
ङ. व । तत्रैकोद्दिष्टस्यैव नियतत्वात् । यदि । ↩︎
-
च. स्य त । ↩︎
-
क. ल्प्य पू । ↩︎
-
च. श्राद्धं सद्यः क । ↩︎
-
ङ. क्त्वेन विभाव्य तं । ↩︎
-
ङ. यजमान्या । ↩︎
-
ङ. यजमान्या । ↩︎
-
ङ. यजमान्या । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“मार्जयन्तां(तां) यजमान्या भर्ता सोम्यः । मार्जयन्तां(तां) यजमान्या भर्तृपिता सोम्यः । मार्जयन्तां(तां) यजमान्या भर्तृपितामहः सोम्यः । इत्य्-आद्यूहस्तत्र तत्र द्रष्टव्यः । तत्र–” इति । ↩︎
-
क. षु मार्जनमन्त्रादिषु । आ । ↩︎
-
क. च. रः, यन्तु । ↩︎
-
ङ. हे, आ न एतु पु । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“एवमन्येष्वपि केवलबहुवचनान्ते पितृशब्देऽप्यूहो भवत्येव (?)” इति । ↩︎
-
ङ. र्जे सर्वे वि । ↩︎
-
क. च. वर्ज एव । ↩︎
-
एतदग्रे क. पुस्तके “ऋत्विक्करणपक्षे तस्मै हिरण्यं दक्षिणां दद्यात्” इत्यधिकम् । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎
-
ङ. हस्य पि । ↩︎
-
ङ. हस्य पि । ↩︎
-
ङ. पुस्तके “त्वां निमन्त्रय इति निमन्त्र्य” इति “इति ब्रूयात्” इति च नास्ति । एवमग्रेऽपि । ↩︎
-
ङ. हस्य पि । ↩︎
-
ङ. हस्य प्र । ↩︎
-
ङ. हस्य पि । ↩︎
-
ङ. पुस्तके प्रपितामहस्य पितर इत्य्-आदि व्यस्तमेवात्राग्रेऽपि । ↩︎
-
क. ङ. पिण्डले । ↩︎
-
ङ. दिदर्शान्तं पञ्चम्यादि वा चतुर्दशीवर्जे दर्शा । ↩︎
-
च. म्यादि । ↩︎
-
क. वा दर्शा । ↩︎
-
ङ. त् । ए । ↩︎
-
ङ. वसे का । ↩︎
-
ङ. तौ तु तदीयश्रा । ↩︎
-
ङ. स्यां मरणेऽपि । ↩︎
-
ङ. पि । उक्तापराह्ण आहिताग्निश्चेत्कृत । ↩︎
-
क. तस्य प । ↩︎
-
च. विषा सद्यः क । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“अस्मिन्महालयश्राद्धे वर्गचतुष्टयार्थं धुरिसञ्ज्ञकविश्वे(श्व)देवार्थं त्वया क्षणः करणीयः । लोचनसञ्ज्ञकविश्वे(श्व) देवार्थं त्वया क्षणः करणीयः । इति यथायथं द्वौ विप्रौ निमन्त्रयेत् । एकपक्षे धुरिलोचनसञ्ज्ञकविश्वे(श्व)देवार्थमिति सहैवोत्कीर्त्य निमन्त्रयेत्” इति । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“पत्न्यर्थं पुत्रार्थं दुहित्रर्थं पितृव्यार्थं पितृव्यपत्न्याः पृथगुद्देशे तदर्थं मातुलार्थं मातुलपत्न्याः पृथगुद्देशे तदर्थं भ्रात्रर्थं भ्रातृपत्न्याः पृथगुद्देशे तदर्थं पितृभगिन्यर्थं मातृभगिन्यर्थमात्मभगिन्यर्थं श्वशुरार्थं गुर्वर्थं शिष्यार्थमाप्तार्थं चैकैकं विप्रं निमन्त्रयेत् । यदि त्वेकोद्दिष्टार्थं चत्वार एव विप्रास्तदैकः पत्नीस्थाने द्वितीयः पुत्रदुहितृस्थाने तृतीयः पितृव्यात्मभगिन्यन्तानां स्थाने चतुर्थः श्वशुराद्याप्तान्तानां स्थाने । यदि द्वौ तदा पत्न्याः स्थान एको द्वितीयोऽवशिष्टस्थाने । यद्येकस्तदा पत्न्यादीन्सर्वेपितॄंस्तत्रैव” इति । ↩︎
-
ङ. त्न्यादिपित्रर्थं । ↩︎
-
ङ. तस्यैव न्युब्जं स्थापनं कुर्यात् । वर्ग । ↩︎
-
“मा इति क. ङ. पुस्तकयोर्नास्ति । एवमग्रेऽपि तत्र तत्र । ↩︎
-
ङ. व्याः सपत्नीकाः सो० । पितृव्यप । ↩︎
-
ङ. लाः सपत्नीकाः सो । ↩︎
-
ङ. रः सपत्नीकाः सो । ↩︎
-
ङ. णःनि सं । ↩︎
-
ङ. योज्यानि । ↩︎
-
ङ. र्तृत । ↩︎
-
ङ. तच्छ्वश्रूतच्छ्वश्रूणां दानां गो. व. इति सं । ↩︎
-
च. द्वा । भ । ↩︎
-
ङ. त् । अ । ↩︎
-
च. क्षे श्वश्रूतच्छ्वश्रूणा । ↩︎
-
ङ. ल्पे मातामहपार्वणे स । ↩︎
-
च. रं. मा । ↩︎
-
ङ । च रणं न । त । ↩︎
-
ङ त् । इ । ↩︎
-
ङ राह आ प्र । ↩︎
-
ङ. श्राद्धं क । ↩︎
-
ङ. ने क्ष । ↩︎
-
ङ. ने क्ष । ↩︎
-
क. च. य व । ↩︎
-
ङ. ति । इ । ↩︎
-
ङ. धिकम् । ↩︎
-
एतस्मात्पूर्वं ङ. पुस्तके मघात्रयोदश्यामित्यधिकम् । ↩︎
-
ङ. ध्याह्न आहिताग्निश्चेत्कृ । ↩︎
-
च. हितमेव वा । ↩︎
-
ङ. र्यात् । पि । ↩︎
-
क. सत । ↩︎
-
ङ. वे वाऽस्म । ↩︎
-
क. च. त्वा श्रा । ↩︎
-
ङ. त् । अ । ↩︎
-
ङ. त् । इ । ↩︎
-
ङ. ह्णे ति । ↩︎
-
ङ. अत्र । ↩︎
-
क. च. ततो व । ↩︎
-
ङ. पूर्वानी । ↩︎
-
च. तीर्थात्प्रत्या । ↩︎
-
ङ. राह्न आहिताग्निश्चेद्वै । ↩︎
-
ङ. च. उक्तदिनेऽप । ↩︎
-
क. च. द्धं सङ्क । ↩︎
-
च. ल्प्य सङ्क । ↩︎
-
क. क्तसङ्क । ↩︎
-
ङ. त् । अर्धो । ↩︎
-
ङ. ष्ठीषु तु–अ । ↩︎
-
क. पिलष । ↩︎
-
क. पिलष । ↩︎
-
क च त्वा भु । ↩︎
-
ङ. प्रागायताः । ↩︎
-
ङ. च. शब्दः । स्व । ↩︎
-
ङ. वर्ग: सप । ↩︎
-
ङ. र्वं । इति यवाने । च. र्वे. इति य । ↩︎
-
च. साः । “यवप्रकि” । ↩︎
-
च. श्राद्धं सद्यः कः । ↩︎
-
अत्र क. पुस्तकटिप्पन्याम्–“विधवाकर्तृकनान्दीश्राद्धे तु पूर्वं भर्त्रादित्रयमुच्चार्य पश्चान्मात्रादित्रयीप्रभृतित्रिकमिति त्रयीचतुष्टयमुच्चार्यमिति विशेषः शास्त्रान्तरे द्रष्टव्यः” इति वर्तते । ↩︎
-
च. पत्नीसहिता । ↩︎
-
ङ. ने त्वया । ↩︎
-
ङ. ति प्र । ↩︎
-
ङ. ने त्व । ↩︎
-
ङ. मन्त्र्य–अ ↩︎
-
ङ. ने त्व । ↩︎
-
ङ. ने त्व । ↩︎
-
ङ. सिकश्रा । ↩︎
-
ङ. च. व प्र । ↩︎
-
ङ. दानम् । पु । ↩︎
-
ङ. णि सं । ↩︎
-
द्वितीयान्तपाठो युक्तः । ↩︎
-
ङ. वामू । ↩︎
-
ङ. तत औपा । ↩︎
-
ङ. मम्लद्रव्यरहितं सव्यञ्जनम । ↩︎
-
ङ. र्प्य पृ । ↩︎
-
क. च. ति वि । ↩︎
-
ङ. तः पृ । ↩︎
-
ङ. कव्यं । ↩︎
-
क. च. णे ना । ↩︎
-
ङ. विप्रा ब । ↩︎
-
ङ. क्षोघ्नमैन्द्र । ↩︎
-
धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎
-
ङ. सम्पन्नम् । ↩︎
-
ङ. च. म् । मा । ↩︎
-
ङ. सम्पन्नम् । ↩︎
-
ङ. च. त् । सुरुचितमिति देवविप्रौ प्रतिब्रूयाताम् । सु । ↩︎
-
एतदग्रे ङ. पुस्तके सपत्नीका इत्यस्ति । एवमग्रेऽपि । ↩︎
-
ङ ष्णी द्वितीयपिण्डदानपक्षे त । ↩︎
-
ङ. म् । ए । ↩︎
-
एतदग्रेऽत्राग्रे च ङ. पुस्तके सपत्नीका इति वर्तते । ↩︎
-
ङ. त् । सर्वा । ↩︎
-
ङ. म् । एतच्च कृताकृतम् । आङ्क्ष्व । ↩︎
-
धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके । ↩︎
-
क. पुस्तकेऽत्र स्वधाशब्दो विद्यते । ↩︎
-
ङ. म् । ततः । ↩︎
-
ङ. दि कृत्वाऽक्षय्यं सर्वेभ्यो । ↩︎
-
ङ. यवांस्तन्नि । ↩︎
-
ङ. च । दा । ↩︎
-
ङ. त्त्यन्तरे तु । ↩︎
-
ङ. ति । पि । ↩︎
-
ङ. पे तु तत्पा । ↩︎
-
ङ. न्तु मे प्री । ↩︎
-
ङ. त् । अ । ↩︎
-
ङ. र्थः । ना । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ङ. पुस्तकयोर्विद्यमानो ग्रन्थो यथा–“न च ब्रह्मचर्यादिनियमाः । अत्र तर्पणे विशेषः । पितरं नान्दीमुखं तर्पयामि पितामहं नान्दीमुखं तर्पयामीत्येवं केवलं तर्पणं न नामग्रहणं न प्राचीनावीतम् । तर्पणाभाव एव वा । ↩︎
-
च र्थे श्रा । ↩︎
-
अत्र क. पुस्तकटिप्पन्यां गायत्र्याऽम्नं प्रोक्ष्येति वर्तते । ↩︎
-
धनश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“यत्रामावास्यानान्दीमुखश्राद्धादिषु नित्यश्राद्धदेवता इष्टा भवन्ति न तत्र नित्यश्राद्धं कर्तव्यम् । यत्र च साव्ँवत्सरिकादिषु” इति । ↩︎