०१ पुंसवनम्

अथ संस्काररत्नमालाया उत्तरार्धम् ।

अथात्र गृह्यसूत्रस्य द्वितीयः प्रश्न आरभ्यते ।

पुंसवनम्

तत्र पुंसवनम् ।

तच्च गृह्ये–“अथातः पुंसवनं तृतीये मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे” इति ।

सीमन्तोत्तरं पुंसवनकथनं तु कालानित्यत्वसूचनार्थं प्रतिगर्भमावृत्तिसिद्ध्यर्थं च ।

गर्गः–“व्यक्ते गर्भे भवेत्कार्यं सीमन्तेन सहाथ वा” इति

व्यक्ते गर्भेऽस्ति गर्भ इति निश्चिते । पुंसवनानुवृत्तौ नारदः–

“चतुर्थे मासि पष्ठे वाऽप्यष्टमे वा शुभे दिने” इति ।

बृहस्पतिः–

“तृतीये मासि कर्तव्यं गृष्टेरन्यत्र शोभनम् ।
गृष्टेश्चतुर्थमासे तु षष्ठे वाऽप्यथ वाऽष्टमे” इति ॥

गृष्टिः सकृत्प्रसूता । याज्ञवल्क्यः– “पुंसः सवनं स्पन्दनात्पुरा” इति ।

स्पन्दनं चलनम् ।

तस्य कालः शारीरके– “तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति” इति ।

गर्भाभिव्यक्तिकालो बृहस्पतिनोक्तः–

“गर्भो व्यक्तस्तृतीये स्याश्चतुर्थे मासि वा भवेत् " इति ।

अत्र मासः सावनो ग्राह्यः । तदुक्तं वसिष्ठेन–

“चतुर्थे सावने मासि पष्ठे वाऽप्यथ वाऽष्टमे” इति ।

सावन इत्यस्य षष्ठाष्टमयोरपि सम्बन्धः ।

“मासि प्रोक्ताः क्रिया याः स्युस्ताः सर्वाः सौरमानतः” ।

इत्यस्यापवादः । मदनरत्ने कालविधाने–

“कुर्यात्पुंसवनं प्रसिद्धिविषये गर्भे तृतीयेऽथवा
मासि स्फीततनौ तुषारकिरणे पुष्येऽथवा वैष्णवे ॥
हित्वा कर्कटकं नृयुग्ममबलामन्येष्वरिक्तातिथौ
शुद्धे नैधनधाम्नि शुक्रशशभृद्विन्मन्त्रिणां वासरे” इति ॥

प्रसिद्धिविषये व्यक्ते । गर्भविशेषणमेतत् । स्फीततनुः पूर्णबलः । एतादृशस्तुषारकिरणश्चन्द्रः । वैष्णवं श्रवणनक्षत्रम् । कर्कटकः कर्कः । नृयुग्मं मिथुनम् । अबला कन्या । अन्येषु मेषवृषसिंहतुलावृश्चिकधनुर्मकरकुम्भमीनलग्नेषु । यद्यपि “कन्यायां न प्रशंसन्ति शुभदृष्टियुतेऽपि च” इति बृहस्पतिवाक्ये कन्याया एव निषेधेनेतरयोः प्राप्तिर्गम्यते, तथाऽपि स सीमन्तेन सहानुष्ठानविषय एवेति पृथ्वीचन्द्रोदये । अरिक्तातिथाविति सामान्यतो निषेधेऽपि नवमी सर्वथैव वर्ज्या ।

“रिक्ताश्च पर्व नवमीं त्यक्त्वा पुंसवने शुभाः” ।

इति स्मृत्यन्तरे नवम्याः पुनरुपादानात् । नैधनधामाष्टमस्थानं तस्मिञ्शुद्धे ग्रहहीने । शशभृच्चन्द्रः । विद्बुधः । मन्त्री बृहस्पतिः । एतेषामन्यतमस्य वासर इत्यर्थः । पूर्णबलत्वस्य समयो लल्लेनोक्तः–

“प्रतिपत्पूर्वदशाहं मध्यबलः शीतगुः सिते पक्षे ।
सम्पूर्णबलः पूर्णः कृष्णपक्षे पञ्चमी यावत्” इति ॥

प्रतिपत्पूर्वा यस्मिन्स प्रतिपत्पूर्वः । प्रतिपदमारभ्येत्यर्थः । स चासौ दशाहश्चेति कर्मधारयः । शुक्लप्रतिपदादि शुक्लदशमीपर्यन्तं मध्यबलः । शुक्लैकादशीमारभ्य कृष्णपञ्चमीपर्यन्तं पूर्णबलः । कृष्णषष्ठीमारभ्यामावास्यान्तमधमबल इति त्वर्थात् । पारिजाते बृहस्पतिः–

“गुरुशुक्रबुधेन्दूनां द्रेष्काणा दिवसांशकाः ।
तेषामुदयहोरा च पुंसवेऽतिशुभावहा” इति ।

द्रेष्काणो राशेस्तृतीयोऽंशः । नक्षत्रान्तराण्यप्याह गर्गः–

“कुर्यात्पुंसवनाख्यं तु पुन्नामर्क्षे शुभे दिने” इति ।

पुन्नक्षत्राणि तु तेनैवोक्तानि–

“पुन्नाम श्रवणस्तिष्यो हस्तश्चैव पुनर्वसू ।
अभिजित्प्रोष्ठपाच्चैव अनुराधा तथाऽश्वयुक्” इति ॥

इदं च चन्द्रताराबले कार्यम् । पुंसवनं प्रकृत्य–

“बलोपपन्ने दम्पत्योश्चन्द्रताराबलान्विते” इति नारदोक्तेः ।

एतच्च गुरुशुक्रास्तयोरपि कार्यम् ।

“मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः ।
न दोषकृत्तदा मासलक्षणो बलवानिति”

इति बृहस्पतिस्मरणात् । तृतीये मासि कर्तव्यं चतुर्थे मासि कर्तव्यमित्यादिमासरूपो विहितः कालो गुरुशुक्रास्तनिषेधतो बलवानित्यर्थः ।

एतच्च मलमासेऽपि कर्तव्यम् ।

“वृद्धिर्दास्यं पुंसवाद्यं प्रेतकर्मानुमासिके ।
मलमासेऽपि कुर्वीत” इति जातूकर्ण्यस्मरणात् ॥
" गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे चैव नाधिमासं विवर्जयेत्” इति यमोक्तेश्च ॥

एतस्य प्रतिगर्भमावृत्तौ ज्ञापकं तु पूर्वमुक्तमेव । युक्ता चेयमावृत्तिर्गर्भसंस्कारत्वात् । सीमन्तवत्प्रथमगर्भया इति वचनाभावाच्च । अस्मिन्कर्मणि पत्युरभावे देवरादिरपि कर्ता । तथा च सत्यव्रतः–

“मृतो देशान्तरगतो भर्ता स्त्रीसंस्कृतेः पुरा ।
देवरो वाऽथवा वंश्यो गुरुर्वाऽपि समाचरेत्” इति ।

आश्वलायनोऽपि–

“पत्यौ मृते वा सन्न्यस्ते पतिते वा विदेशके ।
तद्गोत्रजेन श्रेष्ठेन कार्याः पुंसवनादयः” इति ॥

प्रयोगः

अथ प्रयोगः ।

तृतीये मासि चतुर्थादिषु वा शुक्ले पक्षे पुष्यपुनर्वसुहस्ताभिजित्प्रोष्ठपदानूराधाश्विन्याख्यान्यतमे पुन्नक्षत्रे गुरुशुक्रबुधसोमान्यतमवासरे व्यतीपातादिकुयोगरहिते दिवसे चन्द्रतारानुकूल्ये कार्यम् । नात्रास्तमलमासादिनिषेधः ।

कर्ता ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रियः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ममास्यां भार्यायां विद्यमानगर्भपुंस्त्वप्रतिपादनबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनाख्यं कर्म करिष्य इति सङ्कल्प्य गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । देवरादिभिस्तु भार्यायामित्येतस्य स्थाने भ्रातृपत्न्यां वंश्यायां शिष्यपत्न्यामिति यथार्थमूहः कार्यः ।

ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पुंसवनहोमकर्मणि या यक्ष्यमाणा इत्य्-आदि व्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे–धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि । पात्रासादने–यवं सर्षपौ धान्यमाषौ वा गोदधिद्रप्सं वटशाखाग्रं पिष्ट्वा घृतेन सम्मिश्रं तस्य रसं कौशेयवस्त्रार्थककोशकर्तारं कृमिं पिष्ट्वा प्रियं गुविकारेणौदनावस्रावितद्रव्येण मिश्रं तद्रसं वोत्तरपूर्वस्य यूपस्यागिष्ठाश्रेः सकाशाच्छकलं गृहीत्वा चूर्णीकृत्योदकेन घृतेन वा मिश्रयित्वा तद्वाऽऽसाद्य दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं सम्मार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यमित्येतान्यासादयेत् । निर्मन्थ्यस्याग्नेर्धूमस्यौष्ण्यस्य वा दक्षिणनासिकाछिद्रे प्रणयनपक्षे येन चार्थ इतिवचनादरण्योरप्यासादनं प्रोक्षणं च । लौकिकाग्निधूमप्रणयनपक्षे लौकिकाग्नेरासादनमात्रं कर्तव्यं न तु प्रोक्षणम् । अग्नेरुपरि जलपातने दोषदर्शनात् । उत्तरपूर्वो यूपो यूपैकादशिन्यामेव सम्भवति । उत्तरपूर्वत्वं चोत्तरवेद्यपेक्षया ज्ञेयम् । वचनाद्यूपस्पर्शो न दोषाय । यज्ञसमाप्तेः प्राग्वा ग्रहणम् । ततो ब्रह्मवरणादि सामान्यप्रधानान्तं कर्म समानम् ।

वैशेषिकप्रधानहोमः

अथ वैशेषिकप्रधानहोमः ।

धाता ददात्विति चतुर्णां विश्वे देवा ऋषयः । धाता देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । तृतीयस्यानुष्टुप् । चतुर्थस्य त्रिष्टुप् । पुंसवनवैशेषिकप्रधानाज्यहोमे विनियोगः ।

ॐधाता ददातु नो रयिमी० नत्स्वाहा’ धात्र इदं न मम । ‘ॐ धाता प्रजाया० धेम स्वाहा’ धात्र इदं न मम । ‘ॐ धाता ददातु नो रयिं प्रा० धसः स्वाहा’ धात्र इदं न मम । ‘ॐ धाता ददातु दा० जोषाः स्वाहा’ धात्र इदं न मम । इति चतस्र आहुतीर्हुत्वेमं मे वरुणेत्यङ्गहोमजयाद्युपहोमादि संस्थाजपान्तं कृत्वा त्रिवृदन्नहोमं पुण्याहादिवाचनं च विधाय प्रजापतिः प्रीयतामिति वदेत् ।

ततोऽपरेणाग्निमुपरिबद्धशुभ्रवर्तुलवितानस्याधस्तात्कर्मार्थत्वेन स्नातां शुद्धवस्त्रां गन्धभूषणादिभिरलङ्कृतां शिष्टाकुटिलब्राह्मणेन कृतसम्भाषणां भार्यां प्राङ्मुखीमुपवेश्य ‘वृषाऽसि’ इति तस्या दक्षिणे हस्त आसादितं यवं वितुषं प्राञ्चं निदधाति । ‘आण्डौ स्थः’ इति तस्याभित आसादितौ द्वौ सर्षपौ धान्यमाषौ वा स्थापयति । सकृदेव मन्त्रो द्विवचनलिङ्गात् । सूत्रे धान्यग्रहणं परिमाणमाषनिवृत्त्यर्थम् । ‘श्वावृत्तत्’ इति यवसर्षपोपर्यासादितं गोदधिद्रप्सं प्रक्षिपति । द्रप्सशब्देन दध्न उपरिस्थो घनीभूतोऽंश उच्यते ।

ततस्तृष्णीं प्राशयति । ततः– ‘ॐ अभि ष्ट्वाऽहं दशभिरभिमृशामि दशमास्याय सूतवै’ इति कृतशुद्धाचमनायास्तस्या उदरं हस्ताभ्यामभिमृशति । दशभिरभिमृशामीति मन्त्रलिङ्गाद्धस्तद्वयेनाभिमर्शनम् । न्यूनाङ्गुलेरधिकाङ्गुलेर्वा कर्तुर्दशभिरितिपदस्य लोपः । ऊहो वा नवभिरेकादशभिरिति । ततो घृतसम्मिश्रमासादितं वटाङ्कुररसं प्रियङ्ग्वोदननिस्रावितद्रव्यमिश्रितं कौशेयवस्त्रार्थककोशकारिक्रिमिचूर्णरसं वोदकेन घृतेन वा मिश्रितमुत्तरपूर्वयूपाग्निष्ठाश्रिशकलसूक्ष्मचूर्णं वा कृतस्वोरुमूलोपधानाया भार्याया दक्षिणनासिकाछिद्रे प्रवेशयेत् । अथवाऽऽसादितारणीभ्यामग्निं मथित्वा तस्य धूमं वा किञ्चित्प्रवेशयेत् ।

ततोऽग्निं सम्पूज्य ब्राह्मणभोजनं भूयसीदानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मरेत् । देवरादिभिस्तु लौकिकाग्नावेव पुंसवनहोमः कार्यः ।

इति संस्काररत्नमालायां पुंसवनप्रयोगः ।

इत्योकोह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालाया उत्तरार्धे
प्रथमं प्रकरणम् ॥ १ ॥