अथ सप्तदशं प्रकरणम् ।
प्रयाणविधिः
अथ प्रयाणविधिः ।
तत्रेदं गृह्यम्–
“यदि प्रयायाद्व्याख्यातमात्मन्नरण्योर्वा समारोपण
समिधि वा समारोपयेदरणीकल्पेन खादिरी पालाश्यौ-
दुम्बर्याश्वत्थी वा यत्रावस्येत्तस्मिञ्श्रोत्रियागारादग्नि-
माहृत्याऽऽजुह्वान उद्बुध्यस्वेति द्वाभ्यां यस्या समा-
रूढस्तामादधाति व्याख्यातो होमकल्पः” इति ।
अस्यार्थः–यदि प्रयायात्प्रयाणं कुर्यात्तदा व्याख्यातम् “ऋते1 गृहस्य प्रवासं व्याख्यास्यामः” इतिखण्डस्थेनायं ते योनिरित्यारभ्य लौकिकमग्निमाहृत्य तस्मिन्नुपावरोहयत इत्य्-अन्तेन सूत्रेणोक्तम् । आत्मन्नरण्योर्वा समारोपणं कुर्यादित्यर्थः । यदि प्रयायात्तस्य व्याख्यातो विधिरित्येतावदुच्यमाने वास्तोष्पतिहोमावसितहोमावपि प्राप्नुतस्तन्निवृत्त्यर्थमेवं सूत्रकरणम् । अग्निना भार्यया च सह गमनं प्रयाणं ताभ्यां विनाऽन्यत्र ग्रामान्तर एकरात्रावमो वासः प्रवासः । आत्मन्नात्मनीत्यर्थः । सुपां सुलुगिति सप्तम्या लुक् । “अथो खल्वाहुर्यदरण्योः समारूढो नश्येत्” इत्य्-आदिना श्रुतावात्मसमारोपस्यैव संस्तवादात्मसमारोप उक्तः । अरण्योर्यथा समारोपकल्पस्तेन कल्पेनेत्यर्थः ।
**कल्पः प्रकारः । समिधि वा समारोपयेदित्युक्तं2 तत्र समिन्नियममाह–**खादिरीति । खदिराद्यन्यतमवृक्षस्येत्यर्थः । यत्र यस्मिन्देशेऽवस्येद्वासं कुर्यात्तस्मिन्देशे श्रोत्रियागाराच्छ्रोत्रियगृहादग्निमाहृत्याऽऽजुह्वान उद्बुध्यस्वेतिद्वाभ्यां मन्त्राभ्यां यस्यां समिधि समारूढोऽग्निस्तां समिधं तस्मिन्नग्नावादधाति । व्याख्यात उक्तः । “नित्यमत ऊर्ध्व सायम्प्रातरित्यारभ्य सौरीं पूर्वां प्रातरेके समामनन्ति” इति सूत्रेणेति शेषः । अथवा व्याख्यातः श्रुतौ होमकल्पो वास्तोष्पतिहोमकल्प इत्यर्थः । अस्मिन्पक्षेऽवसितहोमनिवृत्त्यर्थं पूर्वत्र गुरुसूत्रं द्रष्टव्यम् । एतस्य क्षेपकत्वे समित्समारोपो नास्त्येव । आत्मसमारोपारणिसमारोपावाकाङ्क्षितत्वेन श्रौतसूत्रात्प्राप्नुतः । इयं प्राप्तिस्तु श्रौतमध्ये स्मार्ताम्नानात्सिद्धा ।
कृतात्मसमारोपणस्य धर्मा उक्ता बौधायनेन–
“आत्मनि समारूढेषु न खादेन्न पिबेन्नोपरि शयीत नाप्सु निमज्ज्यान्न
मैथुनं व्रजेदिति कामं खादेत्कामं पिबेत्कामं त्वेवोपरि शयीत न
त्वेवाप्सु निमज्ज्यान्न मैथुनं व्रजेत्” इति ।
उपरि खट्वादौ । नाप्सु निमज्ज्यादिति निमज्जनस्यैव निषेधो न तु स्नानस्य । द्विविधं हि स्नानम् । निमज्जनरूपमाप्लवनरूपं च । तत्र निमज्जनमप्स्वन्तर्धानरूपम् । आप्लवनं तु शीतोष्णाभिरद्भिः स्नात्वाऽऽचम्याऽऽप्लवन्त इत्य्-आदिना विहितं शरीरप्रक्षालनरूपम् ।
अत एवावभृथेष्टौ–
“पत्नीयजमानौ स्नातावमज्जन्तावन्योन्यं पृष्ठे प्रधावतः "
इति सूत्रे मज्जनव्यतिरिक्तप्रकारकस्नानोक्तिः सङ्गच्छते । मज्जने कृते तु पुनराधानम् ।
तथा च मण्डनः–
“आत्मारूढेषु मज्जेद्वा वदेद्वा पतितादिभिः ।
अथवा योषितं गच्छेदनृतौ काममोहितः ॥
वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ।
यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम्” इति ॥
आत्मारूढेष्विति सर्वत्रानुवर्तते । अस्मिन्वाक्ये निमज्जनपतितादिसम्भाषणानृतुकालिकयोषिद्गमनैरग्निविनाशस्य पाक्षिकत्वोक्तेरितरेषु नैवाग्निविनाश इत्यर्थादवगम्यते । मैथुनमज्जने विहायान्यनियमातिक्रमे मनस्वतीमन्त्रजपः प्रायश्चित्तमिति प्रदीपाच्च । अत्र मैथुनमज्जनग्रहणं पतितादिसम्भाषणोपलक्षणं मण्डनेनैकवाक्यत्वाय । आत्मसमारोपणकौमुद्यामापस्तम्बः–
“यद्यग्न्यारूढा समिदप्सु निमज्जयेद्यद्यात्मरूढाग्निरप्सु निमज्जेच्छिरो
दक्षिणं पाणिं वा निमज्जयेत्पुनराधानकारणं भवतीत्येके” इति ।
मुखे समारोपणपक्षे शिरसो निमज्जननिषेधः । हस्ते समारोपणपक्षे हस्तनिमज्जनस्य निषेध इति व्यवस्था द्रष्टव्या ।
प्रायश्चित्तसार आत्मसमारोपं प्रकृत्य–
“जले निमज्ज्य न स्नायान्नोपेयाच्च स्त्रियं तथा ।
कृत्वा मूत्रपुरीषे तु चिरं नाऽऽसीत चाशुचिः” इति ॥
बौधायनः–
“अथ यद्यात्मसमारूढेष्वव्रत्यं चरेदरणिनाशोक्तदोषो वा भवे-
दग्न्याधेयमरणिविनाशेन3 विनाश उक्तः” इति ।
अस्यायमभिप्रायः–अरण्योरुपघाते तयोरुत्सर्ग एवोक्तस्तद्द्वाराऽग्नीनां नाशस्तत्र समारूढत्वात् । तथा पाण्योरप्यरणीसाम्यदृष्ट्याऽरणीनाशोक्तदोषो4 वा भवेदग्न्याधेयमित्युक्तम् । न त्वन्तरात्मनि दोषसम्भवः । तत्र तु यदि बुद्धिपूर्वमभक्ष्यभक्षणादिरूपमव्रत्याचरणं कुर्यात्तदाऽऽत्मनो दोषः पुनरुपनयनादिकारणरूपः स्यात् । तत्र समारूढत्वादग्नीनामपि विनाशस्तदैव पुनराधानमिति । शरीरस्य त्वायतनस्थानापन्नत्वाच्छूद्रादिस्पर्शेऽपि स्नानादिनैव शुद्धिः । अन्यथा गायत्र्यादिमन्त्राणामपि नाशः स्यात् । आत्मनः सर्वव्यापित्वे सत्यपि स्थानविशेष5 एव समारोपितेऽग्नौ सप्तभिः पञ्चभिस्त्रिभिर्वा वेष्टनैररणी समिधं वा सव्ँवेष्ट्य गच्छेत् ।
उक्तं चैतद्यज्ञपार्श्वे–
“सप्तभिः पञ्चभिर्वाऽपि त्रिभिर्वा वेष्टनैर्युते ।
अरणी न प्रदुष्येते पतितादिसमागमे” इति ॥
अरणीवत्समिधोऽपि6 ज्ञेयम् । वेष्टनद्रव्याणि तु शौनकेनोक्तानि–
“अजिनं कम्बलं दर्भा गोकेशाः शाणमेव च ।
भूर्जपत्रं तालपत्रं सप्तधा वेष्टनं स्मृतम्” इति7 ॥
पञ्चपक्षे भूर्जपत्रतालपत्रयोर्निवृत्तिः । त्रित्वपक्षे गोकेशशाणभूर्जपत्रतालपत्राणां निवृत्तिरिति ज्ञेयम् ।
प्रयोगः
अथ प्रयोगः ।
प्रयास्यन्पूर्वं स्वीकृते अरणी गृहीत्वाऽयं त इत्यस्याग्निर्जातवेदा89 अग्निस्त्रिष्टुप् । समारोपणे विनियोगः । ‘ॐ अयं ते योनि० रयिम्’ इति पत्न्यन्वारब्धस्तयोरग्निं समारोपयति । ततो निवासस्थले शुद्धदेशेऽरणी निधायाग्न्यायतनं सम्पाद्य, उपावरोहेत्यस्य विश्वे देवा जातवेदा10 अनिस्त्रिष्टुप् । उपावरोहणे विनियोगः । ‘ॐ उपावरोह जातवे० दुरोणे’ इति पत्न्यन्वारब्धः प्रागस्तमयान्मन्थनेनोपावरोह्य पुष्टं कृत्वाऽऽयतनसंस्कारं कृत्वा तमग्निं स्थापयेत् । मन्थनकालेऽन्येन मन्थने क्रियमाणे यावदग्नेर्जन्म तावदरणी संस्पृशन्नास्ते । यद्युत्पादनप्रयत्नो निष्फलस्तदा पुनर्मन्त्रमुक्त्वा यत्नः कार्यः । मन्त्रो यजमानस्यैव ।
आत्मसमारोपे तु–या ते अग्ने यज्ञियेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । आत्मसमारोपे विनियोगः । ‘ॐ या ते अग्ने यज्ञिया तनू० क्षय एहि’ इत्य्-आत्मनि समारोपयति ।
ततो निवासस्थले प्रागस्तमयाच्छुद्धे देशेऽरणी संस्थाप्य तयोरुपावरोह जातवेद इत्युपावरोहति । आत्मसमारोपो नाम दक्षिणहस्तस्याग्नौ प्रतपनमिति केचित् । हस्तद्वयप्रतापनमित्यन्ये । तूष्णीमेव प्रताप्य मन्त्रेण तमूष्माणं मुखे गृह्णीयात् । मन्त्रेण प्रताप्य तूष्णीं मुखे गृह्णीयाद्वेत्यपरे । आत्मसमारोप उपावरोहणं नाम नासिकया श्वासमोचनम् । एतच्चोष्मणो मुखे ग्रहणमिति पक्षे । हस्तप्रतपनमात्रपक्षे तु मन्त्रेण संस्पर्शनमिति ज्ञेयम् । अरण्योर्यदि न स्वीकारस्तदा श्रोत्रियगृहाल्लौकिकमग्निमाहृत्य संस्कृतायतने संस्थाप्याऽऽत्मारूढाग्नेस्तेनैव मन्त्रेण तत्रोपावरोहणं कुर्यात् ।
समित्समारोपे तु खादिरपलाशोदुम्बराश्वत्थान्यतमवृक्षस्य समिधं गृहीत्वाऽयं त इति तस्यां समारोप्य यत्र निवसेत्तत्र शुद्धे देशे श्रोत्रियागारादाहृतं लौकिकाग्निं संस्कृतायतने संस्थाप्य प्रज्वाल्य, आ जुह्वान उद्बुध्यस्वेति द्वाभ्यां समारूढाग्निकां समिधं तस्मिन्नाधाय नित्यहोमं कुर्यात् ।
व्याधिते प्रोषिते वा यजमाने समारोपार्थमृत्विजं वृत्वा तेन कारणीयः । तदलाभे भार्ययाऽपि । यजमानस्य स्वसंस्कारव्यतिरिक्तकर्मसु भवेदेव प्रतिनिधिरिति स्थापितत्वात् । तस्यामप्ययोग्यायां पुत्रादिना कार्यः । आत्मस मारोपो यजमानेन पत्न्या वा कार्यः, न तु ऋत्विक्पुत्रादिभिः । आपदि प्रयाणप्राप्तावसन्निहिते च यजमान ऋत्विजाऽरणीसमारोपः कार्यः । भार्ययाऽऽत्मसमारोपो वेत्यादि ज्ञेयम् । अरणीसमित्समारोपे–अयं ते योनिरित्ययं मन्त्रो भ्रमान्न पठितोऽन्यथा पठितो वा तदा न समारोपसिद्धिः । समारोपभ्रमेणोपेक्षितस्याग्नेरनुगमनेऽनुगतप्रायश्चित्तविधिनैवाग्निरुत्पाद्यो नावरोपविधिना । अन्यथोत्पादने पुनःसन्धानमेव । अग्न्यनुगमनिमित्तकमग्निसन्धानं प्रोषिते यजमाने पत्न्यर्त्विजा कारणीयं द्वादशाहात्प्राक् । ऊर्ध्वं तु यजमानागमनोत्तरं पुनः सन्धानमेव । तत्र सङ्कल्पत्यागौ पत्न्यैव कार्यौ । समिन्नाशादिनिमित्तकमग्निसन्धानमपि यजमानागमनोत्तरमेव । यजमाने प्रोषिते पत्न्यामृतुमत्यामप्यनुगतेऽग्नावनुगतप्रायश्चित्तार्थमग्निस्थापनादिप्रायश्चित्तमृत्विजा कार्यमेव । आशौचे समारोपावरोपौ न भवतोऽशुचित्वात् । न चर्त्विजा कारणीयावेताविति वाच्यं, मन्त्रलिङ्गात् । स्वपरसूत्रतद्व्याख्यानेभ्यश्च स्वस्यैव कर्तृतायाः11 क्लृप्तत्वात् ।
यदि तु समारूढाग्नेः पर्वण्याशौचं प्राप्नोति तदा पुनःसन्धानमेव । यदि भ्रान्त्या तस्याग्नेः पुनःसन्धानमकृत्वैव तत्र संस्काराङ्गहोमादि करोति तदा स्मरणोत्तरं सर्वप्रायश्चित्तं जुहुयान्न पुनः प्रधानक्रिया । ग्रामसीमातिक्रमसमये नद्यतिक्रमसमये च दम्पती अरण्यन्वारम्भं कुरुतः । अकरणेऽग्निर्लौकिकः । नानासीमास्वपि प्रथमान्त्ययोरिति केचित् ।
आपदि यजमानासन्निधौ भार्यैवान्वारभते । अनेकासु भार्यासु सतीषु ज्येष्ठाया एवान्वारम्भ आवश्यकः,
“ज्येष्ठाऽन्वारभते वह्निं बहुभार्यस्य नेतराः” इति सङ्ग्रहोक्तेः ।
नान्वारम्भः पत्न्या आत्मसमारोपे । अप्रोषितेऽपि यजमाने होमकाले पत्न्या ग्रामान्तरगमने नद्यतिक्रमे च लौकिकत्वमेवाग्नेरिति ज्ञेयम् ।
इति प्रयाणविधिः ।
प्रवासविधिः
अथ प्रवासविधिः ।
**तत्रेदं सूत्रम्–ऋते गृहस्य प्रवासं व्याख्यास्यामोऽग्नीन्समाधेहीत्यादि भार्यां समीक्षत इत्य्-अन्तम् । अत्र यावदुपयुक्तं सूत्रं तावत एव व्याख्या प्रदर्श्यते । मा प्रगामेति मन्त्रद्वयमुक्त्वा विहारदेशमागच्छति । अग्नीनां सकाशे12 समीपे वाचं यच्छति । असकाशे यस्मिन्प्रदेशेऽग्नीनां छदींष्यदृश्यानि भवन्ति तत्र गत्वा वाचं विसृजते । व्रतकाले व्रताचरणं कर्तव्यमित्याह–**व्रतकालेषु व्रतं चरतीति । **प्रादुष्करणप्रभृति नाश्नीयादा होमादित्यादि व्रतम् । एतच्चर्तावृतौ कार्यमित्याह–**ऋतुं प्रत्युपतिष्ठत इति । प्रवासविलम्बे प्रत्यृतु प्रवासोपस्थानं कुर्यान्मासद्वये मासद्वय इत्यर्थः । यद्यनुपस्थिताग्निं प्रति प्रवास आपद्येत प्राप्नुयात्तदेहैव सन्नित्यनेन विहाराभिमुखस्तत्रैवोपस्थाय गच्छेत् । प्रोष्य प्रवासं कृत्वाऽऽगतोऽग्नीनामसकाशे यस्मात्प्रदेशादग्रिमे प्रदेशेऽग्नीनां छदींषि दृश्यानि भवन्ति तत्र स्थितो वाचं नियम्याग्निसमीपं गत्वा वाचं विसृजेत् । कः पुरुषः श्रेयांसं महान्तं पूज्यं पुरुषं विषुप्तं विशेषेण स्वपन्तं बोधयतीति लोकप्रसिद्धिः, अतोऽग्नेस्तु सुतरां को बोधयिता । अप्रादुष्कृतस्यैव भस्मच्छन्नस्यैवाग्नेरुपस्थानमित्येकेषामाचार्याणां मतं तच्चाभयङ्कराभ्यामेव । अप्रादुष्कृतोपस्थानं प्रकृत्यैवोक्तत्वात् । अल्पोपस्थानविधिरेवात्रोपयुज्यते13 न पूर्वः । तस्य बह्वग्निविषयत्वात् । अप्रादुष्कृतानामिति बहुवचनं श्रौत उपयुज्यते, तत्राग्नीनां बहुत्वात्प्रवासं करिष्यन्नभयङ्कराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीत्युपस्थानं कुर्यात् । प्रोष्य तु–अभयङ्कराभयं मे कार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति । ततो गृहा मा बिभीतेत्यादि भार्यां समीक्षत इत्य्-अन्तं कुर्यात् ।
मौनविषये पक्षद्वयमुक्तं मण्डनन–
“अग्न्यन्तिकं समारभ्य तावन्मौनी प्रतिष्ठते ।
यावच्छदींषि दृश्यन्ते हव्यवाहनसद्मनि ॥
चक्षुर्गोचरताऽग्नीनां जायते यावदन्तरा ।
तावत्येव भवेन्मौनमिति साङ्ख्यायनाशयः” इति ॥
अरण्यारोपितेऽग्नौ प्रवासप्राप्तौ स एव–
“अरण्यारोपितोऽप्यग्निरभयङ्करमन्त्रतः ।
उपस्थेयोऽप्रणेयत्वाद्भस्मसञ्छन्नवह्निवत्” इति ॥
अस्मिन्विषये पक्षान्तरमप्युक्तं तेनैव–
“यद्वाऽरणिगते वह्नौ प्रवसेदाव्रजेत वा ।
उभयत्राप्युपस्थानं नास्ति कौषीतकिश्रुतेः”14 इति ॥
उपस्थाय प्रवासं न करोति चेत्तदाऽप्यागतोपस्थितिः कार्यैव ।
तथा च स एव–
" प्रवत्स्यामीत्युपस्थाय वह्निं न प्रवसेद्यदि ।
आगतोपस्थितिं चात्राप्याह कौषीतकी श्रुतिः” इति ॥
प्रवासनिमित्तेन प्रवत्स्यामीति सङ्कल्प्य प्रवासं यदि न करोति तदाऽप्युपस्थानं कार्यमेव ।
तदाह स एव–
“उपस्थानं हि सङ्कल्प्य प्राक्प्रवासान्निवर्तते ।
उपस्थातव्यमेवेति प्रक्रमन्यायिनो विदुः ॥
आगतोपस्थितिस्तत्रापीष्टा कौषीतकिश्रुतेः” इति ।
यदि राजादिपुरुषा उपस्थानायावसरं न दद्युस्तदेहैवेत्युपस्थानं कृत्वा गन्तव्यम् ।
तथा च स एव–
“बलाद्राजादिपुरुषा यजमानं नयन्ति चेत् ।
न प्रयच्छन्त्युपस्थानावसरं क्रूरचेष्टिताः ॥
तदा कुर्यादुपस्थानं तद्देशगत एव सन् ।
इहैवेत्यादिमन्त्रेण सर्वाग्नीनां च तन्त्रतः” इति ॥
गृह्ये तु–इहैव सन्तत्र सन्तं त्वेत्ययमेव मन्त्रो ग्राह्यः । न त्विहैव सन्तत्र सतो वो अग्नय इति । अग्नेरेकत्वात् ।
यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदाऽप्येष एव विधिः ।
तथा च मण्डनः–
“आगमिष्यामि चाद्यैवेत्यनुपस्थाय निर्गतः ।
दैवात्तत्र स्थितः कुर्यादिदमेवेति केचन” इति ।
यदि तु यत्र कुत्रापि स्थितस्य प्रवासप्राप्तौ विस्मृत्य विधिर्न कृतस्तत्राप्येष एव कार्यो विधिः ।
तथा च मण्डनः–“विस्मृतेऽपि यदा यातस्तत्राप्येष विधिर्भवेत्” इति ।
बुद्धिपूर्वं दर्पादनुपस्थाय निर्गमे स एवाऽऽह–
“बुद्धिपूर्वं यदा दर्पादनुपस्थाय निर्गतः ।
अनाज्ञातजपं कृत्वा तत्राप्येष विधिर्भवेत्” इति ॥
एषोऽनन्तरोक्तः, इहैवेत्युपस्थानरूपः ।
अत्र मनस्वतीहोमोऽपि भरद्वाजसूत्रव्याख्यातृभिरुक्तः–
“यद्युपस्थानमकृत्वा प्रवासं करोति तदा मनस्वतीं जुहोति” इति ।
आगतोपस्थितेरकरणेऽपीदमेव प्रायश्चित्तं द्रष्टव्यम् । इहेत्युपस्थानपक्षे मा प्रगामेत्यस्य लोपः ।
वाग्यमस्य विकल्पश्चोक्तो मण्डनेन–
“इहेत्युपस्थानपक्षे मा प्रगामेति लुप्यते ।
वाग्यमस्य न लोपोऽत्र भाष्यकारेण दर्शितः ॥
अन्ये त्वाहुर्मन्त्रलोपो मौनलोपोपलक्षणम् ।
इहेतिपक्षे नास्त्यन्यदिति नारायणोऽब्रवीत्” इति ॥
इहैवेत्युपस्थाय गत ऋतुनिमित्तकमुपस्थानमभयङ्करेणैव कार्यमिति केचित् । इहैवेत्यनेनैवेत्यन्ये । आगतोपस्थितिर्नेहैवेत्यनेन । तथा च मण्डनः–
“इहैवेति गतस्यापि नाऽऽगतस्य तदिष्यते” इति ।
अत्र प्रत्येत्योपस्थानं त्वभयङ्करेणैव ।
दशरात्राधिकप्रवासे मनस्वतीहोम उक्तः सूत्रे–
“मनोज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति” इति ।
मण्डनोऽपि–“प्रोष्य भूयो दशरात्राज्जुहोतीत्याश्वलायनः” इति ।
गृहाभिगमनादिकं मनस्वतीहोमोत्तरमेव कार्यम् ।
तथा च मण्डनः–“हुते मनस्वतीहोमे गृहाभिगमनादिकम्” इति ।
अयं मनस्वतीहोमः प्रादुष्कृतोपस्थानान्तर्गते(त इ )ति नाभयङ्करोपस्थाने नापीहेत्युपस्थान इति भाष्यकृत् । अन्ये तु होमार्थमुद्धृते मनस्वतीमिच्छन्ति । सूत्रक्रमोऽप्येतादृश एव । सव्ँवत्सरातिप्रवासे तु पवित्रेष्टिः ।
तथा च मण्डनः–
“सव्ँवत्सरमतिप्रोष्य पवित्रेष्ट्या यजेदिति ।
बौधायनादयः प्राहुर्नेच्छन्तीष्टिमथापरे ॥
इष्टिपक्षं यत्र कुर्यात्तत्र हुत्वा मनस्वतीम् ।
पुनर्विहृत्य कृत्वेष्टिं गृहाभिगमनादिकम् ॥
इष्टिपर्याप्तकालश्चेत्तस्मिन्नह्नि न लभ्यते ।
तदैव सर्वं कर्तव्यमिष्टिमात्रं परेऽहनि” इति ॥
गृह्ये त्विष्टिस्थाने चरुः, (“य15 आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेश्चरवः” इति शास्त्रात् । ) ऋत्वतिप्रवासे व्रातभृती कैश्चिदुक्ता । अत्रापि मनस्वत्याः समुच्चयः । ऋत्वतिप्रवासे व्रातभृती । सव्ँवत्सरातिप्रवासे पवित्रेष्टिः ।
तदुक्तं सूत्रान्तरे–
“यद्यृतुमतिप्रवसेद्व्रातभृत्या यजेत यदि सव्ँवत्सरमतिप्रवसेत्पवित्रेष्ट्या” इति ।
सूत्रान्तरे तु–“यदि सव्ँवत्सरमतिप्रवसेत्पवित्रेष्ट्या वैश्वानर्या वा यजेत” इति ।
पक्षे वैश्वानर्यप्युक्ता । सर्वत्र मनोज्योतिरिति समुच्चीयत इति व्याख्यातारः । चन्द्रिकायां पैठीनसिः–
“प्रस्खलीकृतधर्मस्य पीड्यमानस्य शक्तिभिः ।
मासद्वयं प्रवासोऽस्ति परतो नाऽऽहिताग्निवत्” इति ॥
मासद्वयस्योपर्यनाहिताग्नेराहिताग्निवत्प्रवासो नास्तीत्यर्थः ।
अत्र होमार्थं द्विजं प्रकल्प्य प्रवसेदित्युक्तं कूर्मपुराणे–
“निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत्कार्यवान्विप्रो वृथैव न चिरं वसेत्” इति ॥
अत्र कार्यवानिति धनार्थी न तु तीर्थाद्यर्थी ।
तथा च मण्डनः–
“धनमर्जयितुं युक्तः प्रवासो ह्यग्निहोत्रिणः ।
धनैर्हि सम्भवेदिज्या तीर्थाद्यर्थं तु न व्रजेत्” इति ॥
तीर्थाद्यकरणे कारणमाह स एव–
“ब्रह्मा विष्णुः शिवः सूर्यो गौर्विप्राः पितृदेवताः ।
अग्निहोत्रिगृहे सन्ति तीर्थानि च तपांसि च” इति ॥
**मध्ये तीर्थप्राप्तौ स्नानं कर्तव्यमेव, **16
“धनाद्यर्थं व्रजन्मार्गे यदि तीर्थमवाप्नुयात् ।
शालीनो लभते स्नातुं न तदर्थं पृथग्व्रजेत्” इति17 ॥
प्रयाणे मध्ये नौकाधिरोहणप्राप्तौ मृत्पूर्णं शूर्पं निधाय तत्रारणी सन्निधं वा संस्थाप्य तपतीं वाऽन्वारभ्यैश्वपारं18 (?) गच्छेतामिति विशेषः ।
प्रयोगः
अथ प्रयोगः ।
प्रवासं करिष्यन्नाचम्य प्रवासं कर्तुमुपस्थानं करिष्य इति सङ्कल्प्य, अभयङ्कराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति भस्मच्छन्नमेवाग्निमुपस्थाय ‘मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्मा उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण स सृज प्रजया च बहून्कृधि’ [इति] तस्माद्देशाद्गच्छति । इत आरभ्य वाचं यच्छति यावच्छदींष्यदृश्यानि भवन्ति, अग्निर्वा भवत्यदृश्यस्तावत्पर्यन्तमनन्तरं वाचं विसृजते ।
मध्ये वाग्यमलोपे–इदं विष्णुरिति वैष्णव्यृग्ज( वर्ग्ज)पं समस्तव्याहृतिजपं च कृत्वा पुनर्वाचं यच्छति । गृहं प्रत्यागमने यदा छदींषि दृश्यानि भवन्ति, अग्निर्वा भवेद्दृश्यस्तावत्पर्यन्तं वाचं यच्छति ।
ततो गृहगतो हस्तपादप्रक्षालनं कृत्वाऽऽचम्य वाचं विसृज्य, “अभयङ्करा भयं मे कार्षीः स्वस्ति मेऽस्तु प्रावात्स्यम्” इति भस्मच्छन्नमेवाग्निमुपतिष्ठते । एतच्च प्रवासस्थेनर्तावृतौ कर्तव्यम् । अत्र तस्माद्देशाद्गमनाभावेऽपि केवलमुपस्थानमात्रं कर्तव्यं व्रतकाले व्रताचरणं च । यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदा तत्रैव तिष्ठन्स्वाग्न्यभिमुख इहैव सन्तत्र सन्तं त्वेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । उपस्थाने विनियोगः । “ॐ इहैव सन्तत्र सन्तं त्वाऽग्ने प्रा० नरेणोपतिष्ठे” इत्युपस्थाय गच्छेत् । यदि राजादिपुरुषा बलान्नयन्ति, उपस्थानावसरं न प्रयच्छन्ति तदा तद्देशगत एवोपस्थानं कुर्यात् । प्रवासादागतं उपस्थानानन्तरं गृहा मा बिभीतेत्यादि कुर्यात्19 । तच्च वास्तुशमननिरूपणानन्तरं वक्ष्यते । उपस्थाय निर्गतस्य पुनस्तदहरेव प्रत्यागमने भवेदेवोपस्थानम् ।
प्रवासादागतस्य गृहप्रवेशोत्तरं यद्याशौचज्ञानं तदाऽप्यागतोपस्थितिर्भवत्येव ।
यथाऽऽह श्रौतग्रन्थे मण्डनः–
“रजोदोषे समुत्पन्ने सूतके मृतकेऽपि च ।
नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किञ्चन” इति ॥
अनेनैवागतिकप्रवासगमनेऽपि20 न दोषः ।
यत्तु–
“रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा ।
प्रवसन्नग्निमान्विप्रः पुनराधानमर्हति” ॥
इति तदग्नियुक्तस्य21 गमननिषेधकम् । अन्यथाऽग्निमत्पदवैयर्थ्यापत्तेः । यानि तु सूतकादौ प्रवासनिषेधकानि तानि स्मार्तविषयाणीति प्रायश्चित्तकुतूहले । केचित्तु–आत्मसमारूढाग्निकस्य गमननिषेधकमित्याहुः । वस्तुतस्तु रजोदोषे समुत्पन्न इत्येतद्वचनेऽग्निमानित्यनन्तरमपिशब्दस्यान्वयः कार्यः । तथा च यथाऽग्नियुक्तस्याऽऽत्मसमारूढाग्निकस्य च गमननिषेधकं तथाऽग्निविरहितस्यापीति । एवं च शिष्टाचारोऽप्यनुगृहीतो भवति ।
आशौच आगतोपस्थानं गृह्याग्नेर्न भवतीति केचित् । एतस्यापि श्रौतत्वाद्भवत्येवेत्यन्ये ।
अरणिपक्षेऽरण्यारूढस्याप्यग्नेर्भस्मच्छन्नवह्निवदभयङ्करमन्त्रेणोपस्थानं भवति । एवं समिदारूढस्याग्नेर्बुद्ध्योपस्थानमकृत्वैव निर्गमने प्रत्यागमनानन्तरं मनस्वतीहोमः सर्वप्रायश्चित्तं च । अमत्या गमनेऽनाज्ञातत्रयजपः सर्वप्रायश्चित्तं च । प्रत्यागमनोपस्थानाकरणेऽपीदमेव प्रायश्चित्तम् । दशरात्राधिकप्रवासे मनस्वती होतव्या । ऋत्वधिकप्रवासेऽग्नये व्रतभृते चरुः । सव्ँवत्सरातिप्रवासे पवित्रेष्टिदेवताभ्यो जुहुयात् । तत्राग्नये पवमानाय चरुः सरस्वत्यै प्रियाया आज्यम् । अग्नये पावकाय चरुः । सवित्रे सत्यप्रसवायाऽऽज्यम् । अग्नये शुचये चरुः । वायवे नियुत्वत आज्यम् । अग्नये व्रतपतये चरुः । विष्णवे शिपिविष्टायाऽऽज्यम् । अग्नये वैश्वानराय चरुः । दधिक्राव्ण आज्यम् । स्थालीपाकोक्तरीत्याऽऽघारवत्तन्त्रेणैव यथाक्रमं होमः । अथवा वैश्वानरस्थालीपाक एव कार्यः । उभयत्रापि मनस्वत्याः समुच्चयः । यस्यां दिश्यग्निर्भवति तदभिमुखः स्थित्वा होमसम्बन्ध्युपस्थानं कुर्यात् । पत्यौ प्रोषिते पत्न्यौपासनहोमपार्वणस्थालीपाकपिण्डपितृयज्ञनैमित्तिकप्रायश्चित्तान्यृत्विग्द्वारा कारणीयानि । उद्देशत्यागमात्रं स्वकर्तृकम् । स्वयं यदि रजोवती22 प्रसूता वा तदा त्याग ऋत्विजैव कारणीयः । आग्रयणं तु–अग्निहोत्रीं वै नानाऽऽदयित्वा तस्याः क्षीरेण जुहुयादित्यनुकल्पेनैव । पुनःसन्धानगृहदाहादिनिमित्तकस्थालीपाकास्तु पत्यागमनपर्यन्तं न कार्यः (र्याः)। प्रायश्चित्तार्थस्थालीपाकप्राप्तौ पूर्णाहुतिः । प्रवासस्य निमित्तं तु धनं विद्या च, न तु तीर्थादिकम् । पत्युर्धनार्जनार्थं प्रवासं कर्तुमशक्तौ पत्न्याऽपि प्रवासोपस्थानमकृत्वैव तदर्थं प्रवासः कर्तव्य एव । होमसम्बन्ध्युपस्थानं तु तया न कार्यम्23 । व्रताचरणं तु भवत्येव । सर्वोऽपि प्रवासविधिर्गार्ह्ये कृताकृतः । तत्र करणे त्वभ्युदयः । अकरणे प्रत्यवायाभाव इति ज्ञेयम् । करणपक्षे सर्वथा कर्तव्य एव । इति प्रवासविधिः ।
अन्तरित-स्थालीपाक-प्रयोगः
अथान्तरित-स्थालीपाक-प्रयोगः ।
कर्ता पाथिकृतेन स्थालीपाकेन सहामुकस्थालीपाकेन यक्ष्य इति सङ्कल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्-त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पथि-कृत्-सहितान्तरितामुक-स्थालीपाक-कर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि, अग्निं पथिकृतं चर्वाहुत्या यक्ष्ये, आग्निं चर्वाहुत्या यक्ष्ये, अग्निं स्विष्टकृतं24 हुतशेषचर्वाहुत्या यक्ष्ये, एता देवताः सद्यो यक्ष्य इत्युक्त्वाऽन्वाधानसमिधोऽग्नावभ्याधायाग्निं25 परिस्तीर्य, अग्नेरुत्तरतो दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं चरुस्थालीद्वयं मेक्षणद्वयं शूर्पं कृष्णाजिनमुलूखलं मुसलं सम्मार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् । असम्भवेन समोप्यैतं व्युद्धारं जुहुयादित्याश्वलायनोक्तपक्षान्तराङ्गीकारे26 त्वेकैव चरुस्थाली, एकमेव मेक्षणमुद्धरणपात्रद्वयमेकं वेति विशेषः ।
ततः पवित्रकरणादि चरूद्वासनान्तं समानम् । व्युद्धृत्य जुहुयादित्येतस्मिन्पक्षे–अयमग्नये पथिकृतेऽयमग्नय इति निर्देशः ।
ततोऽग्निं परिषिच्याऽऽसादितां समिधं तूष्णीमभ्याधायाऽऽसादितेन प्रथमचरुमेक्षणेन प्रथमचरोरुपहत्य, ‘ॐ अग्नये पथिकृते स्वाहा’ इति जुहोति । अग्नये पथिकृत इदं० ।
ततो द्वितीयचरुमेक्षणेन द्वितीयचरोरुपहृत्य, ‘ॐ अग्नये स्वाहा’ इति जुहोति । अग्नय इदं० ।
ततो द्वयोश्चर्वोरुत्तरार्धात्सकृत्सकृत्तत्तन्मेक्षणेन दर्व्यां गृहीत्वा, ‘ॐ अग्नये स्विष्टकृते स्वाहा’ इतीशान्यां पूर्वाहुतिभ्यामसंसक्तां जुहोति । अग्नये स्विष्टकृत इदं० ।
एकत्र श्रपणपक्ष एकमेक्षणस्यैव27 सत्त्वात्तेनैव द्वयोश्चर्वोः कौशल्येनोपह्रत्य होमः कार्यः । बहुदैवते कर्मण्यसम्भवाद्दर्व्यां मेक्षणेन गृहीत्वा तया होमः कार्यः ।
ततो मेक्षणमहरणं कृत्वाऽकृत्वा वा परिस्तरणविसर्गव्याहृतिहोमोत्तरपरिषेकाग्निपूजनसंस्थाजपोपस्थानब्राह्मणभोजनभूयसीदानविष्णुस्मरणेश्वरार्पणानि कुर्यात् । अथवा केवलं पाथिकृत एव कर्तव्यः । न त्वतिक्रान्तकाल: प्राकृतोऽपि ।
यद्ययं स्थालीपाक उत्तरपर्वण्यपि न कृतस्तदा प्रतिपदादिषु पादकृच्छ्रात्मकप्रायश्चित्तपूर्वकं वैश्वानरस्थालीपाकं केवलं वा प्राकृतेन स्थालीपाकेन समानतन्त्रं वा कृत्वाऽनन्तरमेव पाथिकृतः स्थालीपाकोऽन्तरितद्वितीयस्थालीपाकेन समानतन्त्रः केवलो वा कर्तव्यः । अथवा वैश्वानरपाथिकृतावेवासमानतन्त्रौ कर्तव्यौ ।
यद्वि द्वितीयोऽप्युत्तरपर्वणि न कृतस्तदा प्रतिपदादिष्वर्धकृच्छ्रं चरित्वा वैश्वानरपाथिकृतौ प्राकृताभ्यां स्थालीपाकाभ्यां समानतन्त्रौ केवलौ वा कृत्वैतावेव स्थालीपाकौ तृतीयेन स्थालीपाकेन समानतन्त्रौ केवलौ वा कुर्यात् ।
यदि तृतीयोऽप्युत्तरपर्वणि न कृतस्तदा पुनःसन्धानमेव ।
उत्तरस्थालीपाकपर्यन्तं पूर्वस्य गौणकालः । एतदतिक्रम एव पाथिकृतादि प्रायश्चित्तं न मुख्यकालातिक्रमे । इत्येकः पक्षः । मुख्यकालातिक्रमेऽपीदं प्रायश्चित्तमिति द्वितीयः पक्षः ।
आशौचादिमत्त्वेन भार्याया रजस्वलात्वेन वाऽप्यन्तरितस्थालीपाको द्वितीयाचतुर्थीपञ्चम्यष्टमीनवमीचतुर्दशीषु न कर्तव्यः ।
उक्तं चैतत्प्रयोगपारिजात आश्वलायनेन–
“नातीतेष्टिश्चतुर्दश्यां चतुर्थ्यां मध्यपञ्चके ।
नवम्यां च द्वितीयायां कार्या आहुतयस्तथा” इति ॥
मध्यपञ्चके, मध्ये पक्षमध्येऽष्टम्यामित्यर्थः । पञ्चके पञ्चमदिवसे पञ्चम्यामित्यर्थः । न च मध्यं च तत्पञ्चकं च मध्यपञ्चकं तत्र, तथा च षष्ठ्यादिदशम्यन्तानां निषेध इति वाच्यम् । तथा सति नवम्युपादानवैयर्थ्यापत्तेरिति केचित् ।
नवम्युपादानस्य दोषातिशयप्रतिपादनार्थत्वेन सार्थक्यसम्भवान्न28 षष्ठीसप्तम्यष्टमीदशम्यन्यतमतिथिष्वप्यसम्भवे क्रियायां न दोषः । नवम्यां तु सर्वथैवाक्रियेत्यन्ये29 । आहुतयः स्थालीपाकाहुतय इत्यर्थः ।
सायणीये प्रजापतिः–
“दर्शश्च पूर्णमासश्च लुप्तोऽथ द्वयमेव वा ।
एकस्य पादकृच्छ्रं स्याद्द्वयोरर्धं प्रकीर्तितम्” इति ॥
इत्य्-अन्तरितस्थालीपाकप्रयोगः ।
गृहस्थस्य गृहकरणम् अर्थप्राप्तं तदुच्यते
अथ गृहस्थस्य गृहकरणम् अर्थप्राप्तं तदुच्यते ।
तत्रेदं गृह्यसूत्रम्–
“शालां कारयिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां त्रिषु चोत्तरेषु” इत्य्-आदि ।
अत्र मासनियमो नारदेनोक्तः–
“सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः ।
मासाः स्युर्गृहनिर्माणे30 पुत्रारोग्यधनप्रदाः” इति । सौम्यो मार्गशीर्षः ।
वारादिकमप्युक्तं तत्रैव–
“आदित्यभौमवर्जं तु वाराः सर्वे शुभावहाः ।
चन्द्रादित्यबलं लब्ध्वा लग्ने शुभनिरीक्षिते ॥
स्तम्भोच्छ्रायादि कर्तव्यमन्यत्तु परिवर्जयेत्” इति ।
नक्षत्राणि गर्गेणोक्तानि–
“त्र्युत्तरामृगरोहिण्यः पुष्यमैत्रकरत्रयम् ।
धनिष्ठाद्वितयं पौष्णं गृहारम्भे प्रशस्यते” इति ॥
करत्रयं हस्तचित्रास्वातयः । धनिष्ठाद्वितयं धनिष्ठाशततारकानक्षत्रे । पौष्णं रेवती । विस्तरस्तु शान्तिरत्नमालायां द्रष्टव्यः ।
प्रयोगः
अथ प्रयोगः ।
कर्तोदगयने शुक्लपक्षे रोहिण्युत्तरा(र)फल्गुन्युत्तराषाढोत्तरा(र)प्रोष्ठपदान्यतमे नक्षत्रेऽसम्भवेऽन्यस्मिन्नपि ज्योतिःशास्त्रविहिते नक्षत्रे ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रिय आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य शालां कारयिष्यन्होमं करिष्य इति सङ्कल्प्य गणेशपूजनादिनान्दीश्राद्धान्तं कुर्यात् ।
अत्र शालाकरणकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिवाक्येषु वास्तोष्पतिः प्रीयतामिति पुण्याहदेवतोल्लेखवाक्ये31 च विशेषः ।
तत औपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा शालाकरणाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्य्-आदिव्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वाऽङ्गहोमजयाद्युपहोमादिसंस्थाजपान्तं कृत्वा त्रिवृदन्नहोमपुण्याहादिवाचने कुर्यात् ।
तत्र शालाकरणहोमकर्मणीत्यन्वाधानवाक्ये विशेषः32 । अत्रापि वास्तोष्पतिः प्रीयतामित्येव । नास्त्यत्र वैशेषिकहोमः । जयादयस्ते च(स्त्वत्र?) वैकल्पिकाः ।
ततोऽहतं वासः परिधाय द्विराचम्य देवस्य त्वेत्यस्य सोमोऽग्निर्वा विश्वे देवा वा सविताभ्रिर्यजुः । अभ्र्यादाने विनियोगः । ‘ॐ देवस्य त्वा सवि० माददेऽभ्रिरसि नारिरसि’ इत्यभ्रिमादाय, परिलिखितमित्यस्य सोमोऽवटो यजुः । परिलेखने विनियोगः । ‘ॐ परिलिखित र० अपि कृन्तामि’ [इति] त्रिः प्रदक्षिणमवटं परिलिखति सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्यवटं यावद्भिरवटैः प्रयोजनं तावतः खात्वा वटसम्बन्धिपांसूञ्शालाया अभ्यन्तरं प्रकिरति । उच्छ्रयणक्रमोऽवटानां क्रमः । ‘ॐ इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठति घृतमुक्षमाणा । तां त्वा शाले सुवीराः सर्ववीरा अरिष्टवीरा अनुसञ्चरेम33 ।’ इति द्वारस्थूणयोर्दक्षिणां34 स्थूणामुच्छ्रयति । उच्छ्रि[तां कृ]त्वाऽवटे स्थापयतीत्यर्थः ।
कृत्वाऽग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्षताम्रदलपुष्पफलोपशोभम् ।
दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो माङ्गल्यशान्तिनिलयं स्वगृहं विशेच्च" इति ॥
तथा–
“वास्तुपूजामकृत्वा यः प्रविशेन्नवमन्दिरम् ।
रोगान्नानाविधान्क्लेशानश्नुते सर्वसङ्कटान्” इति ॥
प्रयोगः
अथ प्रयोगः ।
“गृहा मा बिभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि ।
ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः ॥
येषामभ्येति प्रवसन्नेति सौमनसो बभुः ।
गृहानुपह्वयामहे ते नो जानन्तु जानतः ॥
उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ॥
उपहूता भूरिसखाः सखायः स्वानुसम्मुदः ।
अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ॥
ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः ।
अनश्या अतृष्या35 गृहा माऽस्मद्बिभीतन” ॥
इति धृतपूर्णकुम्भसुवासिनीपुरःसरः सेष्टदेवतः36 सकुटुम्बो गृहसमीपं गच्छति
“ॐ क्षेमाय वः शान्त्यै प्रपद्ये शिव शग्म शय्ँयोः शय्ँयोः”।
इति ज्योतिर्विदादिष्टे मुहूर्ते37 गृहं प्रविशति । प्रवेशानन्तरमस्मिन्दिने कलहं नैव करोति ।
“ॐ गृहानह सुमनसः प्रपद्येऽवीरघ्नो वीरवतः38 सुशेवान् ।
इरां वहन्तः सुमनस्यमानास्तेष्वह सुमनाः सव्ँविशामि” ॥
इति गृहमध्य उपविशति ।
“ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः” [इति] भार्यां समीक्षते । भार्याद्वित्वे त्वयेत्यत्र युवाभ्यामित्यूहः । भार्याबहुत्वे युष्माभिरिति । नैतदहरागत इत्यत्राऽऽगत इति वचनं ग्रामान्तरादागतस्यानाहिताग्नेरप्येतत्प्रवेशनविधानमितिख्यापनार्थम्39 । तस्मान्नूतनगृहप्रवेशने ग्रामान्तरादागमने चेदं विधानम् । केचिन्नूतनगृहप्रवेश एवेच्छन्ति । तन्न । गृहानीक्षेताप्यनाहिताग्निरित्याश्वलायनसूत्रेऽनाहिताग्नेरपि ग्रामान्तरादागतस्य प्रवेशनदर्श40 नात् । अन्ये तु ग्रामान्तरादागमन एवेच्छन्ति । तदपि न । उक्तं गृहप्रपदनमित्याश्वलायनसूत्रविरोधात्, तस्मादुभयार्थतैव युक्तेति ज्ञेयम् । सज्जीकृतगृहप्रवेशेऽपीदं विधानम् । एकस्याः शालाया द्वयोर्वा सज्जीकरणे तु–उक्तविधानेन तमेव देशं शमयित्वा प्रवेशः कर्तव्यः ।
ततो गणपतिपूजनं पुण्याहवाचनं च कार्यम् । अन्यदपि कुलाचारप्राप्तं चेतदपि कर्तव्यम् ।
इति संस्काररत्नमालायां वास्तुकरणवास्तुशमनवास्तुप्रवेशप्रयोगः ।
इत्योकोपाह्व श्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां सप्तदशं प्रकरणम् ॥ १७ ॥
समाप्तोऽयं गृह्यसूत्रप्रथमप्रश्नः ॥ १ ॥
। समाप्तिमगमदिदमत्र संस्काररत्नमालायाः पूर्वार्धम् ।
-
च. तेन गृ । ↩︎
-
क. क्त स । ↩︎
-
च. नाशो न । ↩︎
-
क. रर । ↩︎
-
क. स्थानोपविष्ट । ग. स्नानविशेष । ↩︎
-
ख. क. मिध्येव ज्ञे । ग. मिधेऽपि । ↩︎
-
क.ख. ति । अथ । ↩︎
-
ख. ग्निरनुष्टु । ग. ङ. च. ग्निस्त्रि । ↩︎
-
अत्राग्निपदस्थाने वामदेवपदमपेक्षितम् । ↩︎
-
ख. ग. ड. च. वेदास्त्रि । ↩︎
-
क. कर्तव्यतायाः । ↩︎
-
ग. शे यस्मि । ↩︎
-
च. अन्त्योप । ↩︎
-
क. तकी श्रुतिः " इ । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ग. च. पुस्तकयोरन्यथा पाठः स यथा–“येऽमुत्र चरवो यथादेवतं याज्यापुरोनुवाक्यवयोऽमुत्र वषट्कारः स इह स्वाहाकारपुरोडाशास्तरहित इति बौधायनगृह्यात् । अमुत्र श्रौतकर्मणि । इह गृह्ये” इति । ↩︎
-
एतदग्रे किञ्चित्त्रुटितम् । ↩︎
-
क.ख. ति । अथ । ↩︎
-
ङ. रभ्येश्व । ↩︎
-
च. त् । एत । ↩︎
-
क. ग. तिकाप्र । ↩︎
-
क. ग्निसय्ँयु । ↩︎
-
रजस्वलेति तु युक्ततरम् । ↩︎
-
क. कर्तव्यम् । ↩︎
-
ख. ग. ङ. च. तं च । ↩︎
-
ख. ग. ङ. च. धानं कृत्वाऽग्निं प । ↩︎
-
क. क्षाङ्गी । ↩︎
-
क. णस । ↩︎
-
अयं न दोष इत्यत्रत्यो वा नशब्दोऽधिकः । अयं नशब्दो नाऽऽसीत्कपुस्तके स च शोद्ध्रा पश्चात्केनचिल्लिखितोऽस्ति । ↩︎
-
क. थैव न क्रि । ↩︎
-
क. स्युर्गेहं । ↩︎
-
क. क्येषु च । ↩︎
-
ग. षः । तत्रा । ↩︎
-
क. ख. ङ. म । द्वा । ↩︎
-
क. ख. ङ. क्षिणा स्थ । ↩︎
-
ख. ग. अतृष्पा । ↩︎
-
ग. श्रेष्ठदेवतः । ङ. च. स्वेष्टदेवतः ↩︎
-
क. सुमुहूर्ते । ↩︎
-
क. ङ. वीरतमः । ↩︎
-
च. तिव्याख्या । ↩︎
-
क.शद । ↩︎