अथ षोडशं प्रकरणम् ।
व्यासेनौषधिरूपा अप्युपाया उक्ताः–
“अङ्कोलमूलकल्कं तु चूर्णयेद्गुडसय्ँयुतम् ।
काकाण्डमितमश्नीयात्पुत्रिणी सहसा भवेत् ॥
क्षीरवृक्षाङ्कुरं गृह्य पेषयित्वा पयः पिबेत् ।
देवोदरकृतो दोषो विनश्यति शुभं लभेत् ॥
उत्तमं कर्णिकामूलं पेषयित्वा पयः पिबेत् ।
सा पायसान्नं नाश्नीयात्पुत्रिणी सहसा भवेत्” इति ॥
क्षीरवृक्षाङ्कुरो वटाङ्कुरः । कर्णिका गोकर्णी ।
“नागकेशरसय्ँयुक्तं जीरकं गोघृतेन च ।
त्रिदिनं या पिबेन्नारी सा गर्भं लभते ध्रुवम्” इति ॥
तीर्थरूपमुपायमाह पराशरः–
“महातीर्थे महायोगे महानद्यां तु सङ्गमे ।
पलाशस्य दलैः स्नानं कुर्यात्पुत्रसुखार्थिनी” इति ॥
देवरातश्च–
“पलाशदलसाहस्रात्सावित्रेण12 दलं प्रति ।
स्नपयेत्सपवित्रेण एकादश्यां प्रजार्थिनी” इति ॥
(बौधायनगृह्येऽपि–3
“अथ प्रजार्थहोमः पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा
नदीतीरेऽश्वत्थस्य च्छायायां वा गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा प्राच्यां
दिशि ब्रह्माणं4 प्रतिष्ठाप्य पार्श्वयोर्धातारं दक्षिणतो विधातारमुत्तरतस्तत-
स्तानर्चयेत्पूर्वं ब्रह्माणमावाहयामि प्रजापतिमावाहयामि परमेष्ठिनमावा-
हयामि हिरण्यगर्भमावाहयामीत्यावाह्य सावित्र्या पाद्यं ददाति सावित्र्या
निवेदयेत्तैरेव नामधेयैः शुक्लमन्नं ब्रह्मणे मुद्गान्नं धातुः पीतान्नं विधातु-
स्ततः सावित्र्याऽप आचमय्य5 प्रणवेनाष्टशतं हुत्वा6 ब्रह्माणमुपतिष्ठते
नमो वाचे नमो वाचस्पतय इत्यग्निमुपतिष्ठते नमो ब्रह्मणे सप्तवित्सप्तजि-
ह्वश्च सप्तधाऽग्निः प्रतिष्ठितः सप्तैव7 विश्वभूतानि को ह्यग्निः प्रतितिष्ठति
तत्त्वमसि विश्वमसि योनिरसीत्यथ स्त्रियमाहूय सावित्र्या पलाशपर्णैर-8
ष्टसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्सम्पातेन मूर्ध्नि जुहुयात्प्रणवेन
नमस्कुर्यादध्वर्युं च वस्त्रकुण्डलाभ्यामलं करोति ततः सा गर्भिणी भवती-
त्याह भगवान्बौधायनः” इति ।
पार्श्वयोर्ब्रह्मणः । तान्ब्रह्मधातृविधातॄन् । धातारमावाहयामीत्येवं धातृवि धात्रोरावाहनादि । निवेदनं नैवेद्यस्य । अष्टसहस्रैरष्टाधिकसहस्रैः । अन्यत्स्पष्टार्थम् ।)
नीचमेहनस्य वाजीकरणमुक्तं वडवाचार्येण–
“वाजीवातिबलो येन यात्यप्रतिहतो यतः ।
तद्वाजीकरणं नाम देहस्यौजस्करं परम्” इति ॥
तत्प्रयोगश्च तेनैवोक्तः–
“भल्लातकबृहतीफलदाडिमकल्कप्रसाधितं कुरुते ।
लिङ्गोन्मर्दनं वि(नवि)धिना कटुतैलं वाजिलिङ्गाभम्” इति ॥
वैद्यकग्रन्थे–
" सिताश्वगन्धासिन्धूत्थच्छागक्षीरैघृतं पचेत् ।
तल्लेपान्मर्दनाल्लिङ्गवृद्धिः सञ्जायते परा" इति ॥
सिता शर्करा । अश्वगन्धाऽऽस्कन्दः । सिन्धूत्थं सैन्धवम् । एवमन्येऽप्युपाया वैद्यकग्रन्थपञ्चसायकादौ द्रष्टव्याः । एवमपि फलाप्राप्तौ दत्तकपुत्रस्वीकारं कुर्यात् ।
दत्तपुत्रविधानम्
अथ दत्तपुत्रविधानम् ।
तद्विधिर्बौधायनसूत्रे–
“पुत्रप्रतिग्रहविधिं व्याख्यास्यामः9 शुक्रशोणितसम्भवो मातृ(ता)पितृनिमि-
त्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ प्रभवतो न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषां न स्त्री पुत्रं
दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः प्रतिग्रहीष्यन्नुपकल्पयते द्वे
वाससी द्वे कुण्डले अङ्गुलीयकं चाऽऽचार्यं च वेदपारगं कुशमयं बर्हिः
पर्णमयमिध्ममित्यथ बन्धूनाहूय मध्ये राजनि चाऽऽवेद्य परिषदि10 चागा-
रमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याह स्वस्त्यृद्धिमिति वाचयित्वाऽथ
देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा दातुः समक्षं गत्वा पुत्रं मे
देहीति भिक्षेत ददामीतीतर आह तं परिगृह्णाति धर्माय त्वा गृह्णामि
सन्तत्यै त्वा गृह्णामीत्यथैनं वस्त्राभ्यां कुण्डलाभ्यामङ्गुलीयकेन चालं-
कृत्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वान्नु(())होति यस्त्वा हृदा
कीरिणा मन्यमान इति पुरोनुवाक्यामनूच्य यस्मै त्व सुकृते जातवेद
इति याज्यया जुहोत्यथ व्याहृतीर्हत्वा स्विष्टकृत्प्रभृति सिद्धमा धेनु-
वरप्रदानाद्दक्षिणां ददात्येते च वाससी एते कुण्डले एतच्चाङ्गुलीयकं
यद्येवं कृत्वौरसः पुत्र उत्पद्यते तुरीयभागे प्रभवतीत्याह भगवान्बौधा-
यनः” इति ।
मातापितृनिमित्तकः शुक्रशोणितसम्भव इत्यन्वयः । मातापितृनिमित्तक इत्यनेन क्षेत्रजादिव्यावृत्तिः । इदं च सम्भवविशेषणम् । शुक्रशोणितसम्भव इत्यनन्तरं यस्येति शेषः । एतेनौरसस्यैव प्रदानपरित्यागविक्रया नान्येषां दत्तकादीनामिति सूच्यते । मातापितरौ प्रभवत इति । मातापित्रोरेव दानाधिकार इत्य्-आशयः । स हि सन्तानाय पूर्वेषाम् । हि यस्मात्स एकः पुत्रः पूर्वेषां सन्तानाय भवत्यत एकं पुत्रं नैव दद्यादित्यर्थः । अङ्गुलीयकं चेत्यत्र चकारश्छत्रादिसमुच्चयार्थः । कुशमयं बर्हिरिति प्रतिनिधिर्नैवात्र भवतीति ज्ञापनार्थम् । एवं पर्णमयमिध्ममित्यत्रापि । मध्य इति । बन्धुसमक्षं राजन्यावेदनं कार्यमित्याशयः । अङ्गुलीयकमित्यनन्तरमनुषक्तेन ददातीत्यनेन पुत्रसम्बन्धिवस्त्रद्वयकुण्डलाङ्गुलीयकदानं विधीयते । स्त्रिया तु भर्त्रनुज्ञया ग्राह्यः । सा च सधवाया एव दृष्टार्थत्वात् । विधवायास्तु तां विनाऽपि पितुस्तदभावे ज्ञातीनामाज्ञया भवति ।
अत एव–
“रक्षेत्कन्यां पिता विन्नां पतिपुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः” ॥
इति याज्ञवल्क्येनावस्थाविशेष एव भर्तुः पारतन्त्र्यमुक्तम् । तदभावे वार्धकादिना तस्याक्षमतायां वा पुत्रादीनामपि ।
कात्यायनेनापि–
“नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
विफलं तद्भवेत्तस्माद्यत्करोत्यौर्ध्वदेहिकम्” ॥
इत्यवस्थाविशेष एव पितृभर्त्राद्यनुज्ञोक्ता । और्ध्वदेहिकं पारलौकिकम् । यस्यामवस्थायां भर्तुरनुज्ञा11 प्राप्ता सैवात्रानूद्यते न त्वपूर्वा विधीयतेऽतो विधवा या भर्तुरनुज्ञां विनाऽप्यधिकार इति नवीनाः । परिणीत उत्पन्नपुत्रोऽपि च दत्तको भवतीति द्वैतनिर्णये । यत्तु दत्तकमीमांसादौ वृद्धगौतमीयं,
“दत्तपुत्रे यथाजाते कदाचित्त्वौरसो भवेत् ।
पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ” ॥
इति वचनं तद्दत्तकस्य गुणवत्त्व12 औरसस्य च निर्गुणत्वे वेदितव्यम्, यथा- जात इति विशेषणात् । यथा गुणानां जातं समूहो यस्मिन्निति यथाजातो गुणसमूहवानित्यर्थः । यथाशब्दस्य गुणयोगे सादृश्ये शक्तत्वात् ।
अत एव मनुः–
“उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्तिमः ।
स हरेतैव तद्रिक्थं सम्प्राप्तोऽप्यन्यगोत्रतः”
इत्यौरसाभावे सर्वरिक्थग्रहणमुक्तवान् । तद्युक्तमेवौरसे सत्यर्धांशहरत्वम् ।
परिग्रहविध्यभावे विशेषमाह स एव–
“अविधाय विधानं यः परिगृह्णाति पुत्रकम् ।
विवाहविधिभाजं तं कुर्यान्न धनभाजनम्” इति ॥
परिग्रहविधिं विना परिगृहीतस्य विवाहमात्रं कार्यं न धनदानमित्यर्थः । किन्तु तत्र पत्न्यादय एव धनभाजः । विधिं विना तस्य पुत्रत्वानुत्पादात् ।
अत एव वृद्धगौतमः–
“स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः ।
विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते” इति ॥
विधिनैव गोत्रतां यान्तीति नियमः । दानादिविधीनां दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्वात् ।
यथोक्तम्– “यमद्भिः पुत्रमापदि” इति । आपद्ग्रहणं सकलदानविधेरुपलक्षणं, तेन च प्रतिग्रहविधिरप्याक्षिप्तो भवति । सम्प्राप्तोऽप्यन्यगोत्रत इति मानवात् । सम्यग्विधिना प्राप्तमि(प्त इ)त्यर्थः । एतदभिप्रेत्यैव13 च वसिष्ठेनापि तस्य दानविक्रयपरित्यागेषु मातापितरौ प्रभवत इत्युपक्रम्य परिग्रहविधिरभिहितः । मनुवाक्ये क्रीतादय इत्य्-आदिशब्देन कृत्रिमापविद्धस्वयन्दत्तानां ग्रहणम् । तस्मादेषां पञ्चानां पुत्राणां बौधायनाद्युक्तविधिपरिग्रहेणैव पुत्रत्वं नान्यथेति । विस्तरस्त्वन्यत्रानुसन्धेयः ।
तत्र पञ्चवार्षिकस्ततो न्यूनः पितृगोत्रेणाकृतचूडश्च प्रतिग्राह्यः । नाधिकवयस्कः कृतचूडश्च । तत्र पुत्रो भ्रातुर्ग्राह्यः । तदभावे सगोत्रः सपिण्डोऽपि यः कश्चित् । तदभावे त्वसगोत्रः सपिण्डः । तदभावे त्वसपिण्डः सगोत्रः । तदभावे त्वसपिण्डोऽसगोत्रोऽपि । तत्रापि भागिनेयदौहित्रमातृष्वस्रीयपितृष्वस्रीयवर्जं14 पुत्रत्वबुद्ध्यनर्हभ्रातृपितृव्यमातुलवर्जं च । त्रयाणां वर्णानां स्वसमानवर्ण एव । तत्रापि देशभेदप्रयुक्तगुर्जरत्वादिजात्या15 समानजातीय एव । सर्वोऽपि सभ्रातृक एव ज्येष्ठभिन्नश्चेति । अत्र प्रमाणं प्राचीननवीनग्रन्थेषु द्रष्टव्यम्, विस्तरभीत्या न प्रदर्श्यते । (16 अत्र नक्षत्रादिकमुक्तं व्यवहारसारे–
“हस्तादिपञ्चकभिषग्वसुपुष्यभेषु सूर्यक्षमाजगुरुभार्गववासरेषु ।
रिक्ताविवर्जिततिथिष्वलिकुम्भसिंहवृषेषु वै भवति दत्तपरिग्रहोऽयम्” इति ॥
हस्तादिपञ्चकं हस्तचित्रास्वातीविशाखानूराधाः । भिषगश्विनी नक्षत्रम् । वसुः श्रविष्ठाः । क्षमाजो भौमः । अन्यत्स्पष्टम् । )
प्रयोगः
अथ प्रयोगः ।
पूर्वेद्युः कृतोपवासो वाससी कुण्डले अङ्गुलीयकं छत्रमुष्णीषमाचार्यं धर्मसय्ँयुक्तं वेदपारगं कुशमयं बर्हिः पालाशमिध्ममन्यां होमसामग्रीं च सम्पाद्य17 शिष्टानिष्टाञ्ज्ञातीन्बन्धूंश्चाऽऽहूय तान्सम्पूज्य तत्समक्षं राज्ञि सभासत्सु च निवेद्य तैरनुज्ञातः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ममाप्रजत्वप्रयुक्तपैतृकर्णापाकरणसिद्धिपुनन्नामनरकत्राणसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुत्रप्रतिग्रहं करिष्य इति सङ्कल्प्य तदङ्गत्वेन गणपतिं सम्पूज्य बन्धुवर्गेभ्यो ब्राह्मणेभ्यश्चान्नदानं कृत्वा पुण्याहवाचनमातृकापूजननान्दीश्राद्धाचार्यवरणमधुपर्कार्हणानि कुर्यात् । (स्त्रीकर्तृकप्रतिग्रहे18 तु मद्भर्तुर्मम चेति सङ्कल्पवाक्ये विशेषः । गणपतिपूजनाद्याचार्यवरणान्तं ब्राह्मणद्वारा कारयेत् । ) पुत्रप्रतिग्रहाङ्गभूतहोमार्थमाचार्यं त्वामहं वृण इत्य्-आचार्यवरणवाक्ये विशेषः ।
तत आचार्य आचम्य प्राणानायम्योल्लेखनादिस्थण्डिलसंस्कारं19 विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पुत्रप्रतिग्रहाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्य्-आदि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा वैशेषिकप्रधानहोमे– अग्निं चर्वाहुत्या यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं स्विष्टकृतं चरुशेषाहुत्या यक्ष्य इत्य्-आदि । अङ्गहोमे वरुणं द्वाभ्यामित्यादि वा । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं वासोद्वयं कुण्डले अङ्गुलीयकं छत्रमुष्णीषं सम्मार्गदर्भानवज्वलनदर्भान्पर्णमयमेवेध्मं कुशमयमेव बर्हिराज्यं च सहैवाऽऽसादयेत्20 । ततः पवित्रकरणादिप्रणीताप्रणयनान्तं कृत्वा विरमति । ततः प्रतिग्रहीता ब्राह्मणैर्बन्धुवर्गैश्च सह दातुः समक्षं गत्वा तत्समीपे21 तिष्ठन्पुत्रं मे देहीति भिक्षेत्(त)।
ततो दाता ददामीत्युक्त्वाऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पुत्रदानमहं करिष्य इति सङ्कल्प्य गणपतिं सम्पूज्य यथाविभवं वस्त्रगन्धादिभिः प्रतिग्रहीतारं सम्पूज्येमं पुत्रं तव पैतृकर्णापाकरणपुन्नामनरकत्राणसिद्धिद्वाराऽऽत्मनश्च22 श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं सम्प्रददे न मम प्रतिगृह्णातु पुत्रं भवानित्यन्ते प्रतिग्रहीतृहस्ते साक्षतं सतुलसीपत्रं जलं क्षिपेत् । त्रिरिति केचित् । ( स्त्रियै23 दाने त्विमं पुत्रं त्वद्भर्तुस्तव चेति दानवाक्ये दात्रोहः कार्यः । ) ततः प्रतिग्रहीता ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां धर्माय त्वा गृह्णामि सन्तत्यै त्वा गृह्णामीति हस्तद्वयेन प्रतिगृह्य स्वाङ्क उपवेश्य मूर्ध्न्याजिघ्रेत् ।
ततो युवं वस्त्राणीत्यस्य विश्वे देवा वसवस्त्रिष्टुप् । वस्त्रपरिधाने विनियोगः । “ॐ युवं वस्त्राणि पीवसा वसाथे० सचेथे” इत्य्-आसादितयोर्वाससोर्मध्य एकं परिधाप्यैतेनैव मन्त्रेण द्वितीयमुत्तरीयं कारयित्वा तूष्णीमुष्णीषं बद्ध्वा कुङ्कुमादिना तिलकं कृत्वा कुण्डलाभ्यामङ्गुलीयकेन चालङ्कृत्य सति विभवेऽन्यैरपि भूषयित्वा छत्रेणाऽऽच्छादितं बालं नृत्यगीतवाद्यैः स्वस्ति न इन्द्रो वृद्धश्रवा अष्टौ देवा वसवः सोम्यास इति द्वाभ्यां स्वगृहमानीय 24 हस्तपादान्प्रक्षाल्याऽऽचम्याग्नेः पश्चान्मातुरुत्सङ्ग उपवेशयेत् ।
तत आचार्यः शूर्प चतुरो मुष्टीनिरू(रु)प्येत्यादिचरुकल्पेन चरुं श्रपयित्वाऽभिघार्योद्वास्य परिषेकाधन्वाधानोत्कीर्तनानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । दव्या वेणोपस्तीर्य चरुमवदानविधिना मेक्षणेनैव द्विरवदायावत्तमभिघार्य शिष्टं हविः प्रत्यज्य यस्त्वा हृदेतिद्वयोर्विश्वे देवा अग्निस्त्रिष्टुप् । पुत्रप्रतिग्रहवैशेषिकप्रधानचरुहोमे विनियोगः । “ॐ यस्त्वा हृदा कीरिणा० मश्याम्" इति पुरोनुवाक्यामनूच्य “ॐ यस्मै त्वर सुकृते जातवे ० ते स्वस्ति स्वाहा” इति याज्यया जुहोति । अग्नय ‘इदं० । अथवाऽनिद्वयसंसर्गोक्तेन पुरोनुवाक्यायाज्याधर्मेण होमः ।
तत आज्येन व्यस्तसमस्तव्याहृतिभिश्चतस्र आज्याहुतीर्जुहुयात् । एतासामृष्यादिकं तु प्रागुक्तमेव । पुत्रप्रतिग्रहवैशेषिकप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः ।
ततः स्विष्टकृदादि, अङ्गहोमादि वा होमशेषं समाप्याऽऽचार्याय धेनुं दद्यात्25 । ते एव वाससी कुण्डले अङ्गुलीयकं च26 । धेनुदानं न वा ।
ततो दश त्रीन्वा27 ब्राह्मणान्भोजयेत् ।
ततोऽग्निं सम्पूज्य कर्मणः सम्पूर्णतां वाचयित्वा कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
एवं दत्तकपुत्र्या अपि स्वीकार उक्तविधिना कार्यः । दानप्रतिग्रहविधिषूद्देश्यगतपुंस्त्वाविवक्षणात् । इतिहासपुराणेषु कुन्त्या दत्तकत्वोक्तेश्च ।
एवं भर्त्रनुज्ञया स्त्रियाऽपि रथकारवत्समन्त्रकमेव ग्रहणं कार्यमिति केचित् । अन्यत्रानुज्ञानाद्भर्तुरितिप्रतिप्रसवेन प्रधानाधिकारसिद्धावधिकृताधिकारेण28 होममन्त्रादिप्राप्तौ स्त्रीशूद्राणाममन्त्रकमिति मन्त्रपर्युदाससिद्धेरमन्त्रकप्रतिग्रहसिद्धिर्वस्त्वन्तरप्रतिग्रहवदित्यन्ये । यद्यपि मेधातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होमसाध्यमुक्तं स्त्रियाश्च होमासम्भवस्तथाऽपि व्रतादिवद्विप्रद्वारा होमादि कारयेदिति हरिनाथादयः । जीवतो भर्तुरनुज्ञां गृहीत्वा तदभिप्रायं वा ज्ञात्वा विधवयाऽपि ग्राह्य इति कौस्तुभे । दत्तकमीमांसोदाहृते “अथोढक्षेत्रजकृत्रिमपुत्रिकापुत्रस्त्रीद्वारजासुराद्यूढजदक्षिणाजानां पित्रोश्च” इति सत्याषाढसूत्रे स्त्रीद्वारजस्य गोत्रद्वयसम्बन्धोऽभिहितः “मातुरुत्तरं पितुः प्रथमम्” इति सूत्रेणेति । पितृगोत्रसम्बन्धश्च पुत्रत्वेन । पुत्रत्वं च पित्रनुज्ञानेनैव29 न परिग्रहेण, व्रतस्य तत्र स्त्रीकर्तृकत्वात् । ऊढः सहोढः । स्त्रीद्वारजः स्त्रिया याचितः स्त्रीसत्ताकः । यज्ञे दक्षिणात्वेन प्राप्तायां कन्यायां जातो दक्षिणाजः । अन्ये प्रसिद्धाः, इति शबरस्वामिनः ।
ननु सूत्रकृता " न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते" इति पुत्रप्रतिनिधिनिराकरणाद्दत्तकपुत्रस्वीकरणमनुपपन्नमिति चेन्न । तस्य “तन्तवे ज्योतिष्मतीं तामाशिषमाशासे” इत्य्-आदौ पितापुत्रीयसुब्रह्मण्याह्वानादौ च पुत्रप्रतिनिधिं कृत्वाऽऽशीराशंसनप्रवचननिवृत्त्यर्थत्वात् । अन्यथा “पुत्रप्रतिनिधीनाहुः” इत्य्-आदिबहुस्मृतिविप्लवापत्तेः । “तामाशिषमाशासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो जातः स्यात्तेजस्व्येवास्य ब्रह्मवर्चसी पुत्रो जायते” इति श्रुतिरप्याशीराशंसनं पुत्रप्रतिनिधिं कृत्वा न कर्तव्यमित्यत्र साधिकेति द्रष्टव्यम् ।
इति पुत्रप्रतिग्रहविधिः ।
पुनःसन्धानम्
अथ पुनःसन्धानम् ।
तत्र गृह्यसूत्रम्–
“द्वादशाहं विच्छिन्नः पुनराधेयः प्रतिसं-
ख्याय वा सर्वान्होमाञ्जुहुयात्” इति ।
द्वादशाहं विच्छिन्न इत्यत्र होमश्चेदिति शेषः । तथा च द्वादशाहं होमविच्छेदे पुनरग्निराधेय इत्यर्थः । अथवा तावत्सङ्ख्यान्सायम्प्रातर्होमान्प्रतिसङ्ख्याय गणयित्वा समस्यविधिना जुहुयादित्यर्थः । नात्र पुनरग्निराधेयः । अयं च पक्षः सङ्कटे ।
अन्यान्यपि निमित्तानि गृह्य उक्तानि–
“यदि पार्वणो विच्छिद्येत तस्मिन्पाथिकृतेन30 याजयेद्यदि द्वौ वैश्वानरपाथिकृतौ31 यदि बहून्पुनराधेयो यदि नाशो विनाशो वाऽन्यैरग्निभिरग्नौ संसृष्टे32 वा पुनराधेयः” इति ।
पार्वणः पर्वसु भवः स्थालीपाकः । तस्मिन्निति निमित्तसप्तमी, तन्निमित्तमित्यर्थः । नाश इत्यत्राग्नेरिति शेषः ।
“भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा ।
तस्य स्यात्पुनराधेयम्”
इत्य्-आदिवचनप्रोक्तनिमित्तानि विशब्देन ग्राह्याणीति सूच्यते । योऽग्निसत्त्वेपि तस्य नाशः स विनाशशब्देनोच्यते । वस्तुतस्तु–अधिकमेवेदं प्रयोगवैजयन्त्यामधृतत्वात् ।
शतद्वय्याम्–
“विहारकाले यदि कार्यदोषात्पत्नी तु सीमानमतीत्य गच्छेत् ।
निःसंशयोऽग्निः खलु नाशमेति गृहस्य सीमाऽत्र विवक्षिता स्यात्” इति ॥
मण्डनः–
“अग्निहोत्रेण रहितः पन्थानं शतयोजनम् ।
आहिताग्निः प्रयायाच्चेदग्निहोत्रं विनश्यति” इति ॥
अग्निहोत्रेण सहित इत्यपि केषुचित्पुस्तकेषु पाठो दृश्यते । तथा–
“अब्दं स्वयमजुह्वन्यो(द्यो) हावयेदृत्विगादिना ।
तस्य स्यात्पुनराधेयं पवित्रेष्टिरथापि वा” इति ॥
तथा–
“मन्त्रं विना समारूढोऽरण्योरात्मनि वा यदि ।
तत्र ज्वलनशान्तिः स्यादसमारूढशान्तिवत् ॥
आरूढोऽपि यथाशास्त्रमवरूढो न शास्त्रतः ।
तृतीये होमकाले तु सम्प्राप्ते पुनराहितिः” इति ॥
अरण्यात्मग्रहणं गृह्यविहितसमारोहणाधिकरणीभूतायाः समिध उपलक्षणम् । ज्वलनोऽग्निः ।
तथा–
“भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा ।
तस्य स्यात्पुनराधेयमन्ये त्वाहुरिहान्यथा ॥
ज्येष्ठा चेदग्निसय्ँयुक्ता गच्छन्त्यन्या33 यथारुचि ।
यजमानेन सहिता यद्वा ता एव केवलाः ॥
प्रोषितः स्यादधःशायी त्वस्त्र्युपायी त्वमैथुनः ।
वदन्बौधायनस्त्वित्थमेका चेदग्निसन्निधौ ॥
इतरासां यथाकामं प्रवासमनुमन्यते ।
इत्युक्तं भवभाष्येऽपि34 प्रेतश्लोकेष्वपीरितम् ॥
एकस्यामप्यतिष्ठन्त्यामग्निहोत्रसमीपतः ।
पतिस्तिष्ठति चेदग्निनाशो नेत्यपरे जगुः ॥
सन्ध्यावदन्यदाऽप्यग्नीन्हित्वा चेद्दम्पती गतौ ।
ग्रामान्तं वाऽथ सीमान्तं तत्रैकेऽग्नीन्गतान्विदुः ॥
अन्ये ग्रामान्तरं गत्वा न त्वतिक्रममात्रतः ।
सीम्नि त्वतिक्रमादेव केवलान्नाशमब्रुवन् ॥
यदोभावप्यतिक्रम्य सीमां प्रत्यागतौ पुनः ।
उदयास्तमयात्पूर्वं न नाशोऽत्रेति केचन ॥
छन्दोगपरिशिष्टोक्तहोमकालात्ययेऽनलः ।
सीमातिक्रान्तयोर्नश्येन्नोदयास्तमयादिति ॥
विनाऽग्निभिर्यदा पत्नी नदीमम्बुधिगामिनीम् ।
अतिक्रामेत्तदाऽग्नीनां विनाशः स्यादिति श्रुतिः” इति ॥
छन्दोगपरिशिष्टं कर्मप्रदीपस्तदुक्तो यो नवनाडिकात्मको होमकालस्तदत्यये सत्यनलोऽग्निर्नश्येत् । उदयास्तमयहेतुना नेति । इदमपि पक्षान्तरम् । तथा–
“पत्न्यन्तरेऽथवा पत्यौ हुताशनसमीपगे ।
तदा पत्नी यथाकाममतिक्रामेन्नदीमपि” इति ॥
असमुद्रगामिनीमिति केचित्35 । इदं च होमकालेऽनागमने ।
प्रयाणप्रकरणे त्रिकाण्डमण्डनः–
“ज्येष्ठा चेद्बहुभार्यस्य ह्यतिचारेण गच्छति ।
पुनराधानमत्रैक इच्छन्ति नयकोविदः” इति ॥
अतिचारेण भर्त्ररण्यसहायेन ।
पुनराधानप्रकरणे स एव–
“पत्नी सीमामतिक्रामेद्विना भर्त्राऽग्निभिः सह ।
तत्र नाशं परे त्वाहुर्भयाद्याने न दुष्यति ॥
विहायाग्नीन्सभार्यश्चेत्सीमामुल्लङ्घ्य गच्छति ।
होमकालात्यये तस्य पुनराधेयमिष्यते ॥
जलेन हेतुना वह्निरुपशान्तो यदा भवेत् ।
कर्तव्यं पुनराधेयमग्नावनुगते सति ॥
असमाधाय चेत्स्वामी सीमामुल्लङ्घ्य गच्छति ।
असमाधानमनुगतप्रायश्चित्तविधिनाऽनुत्पादनम् ।
सूकररासभकाकशृगालैः कुक्कुरकुक्कुटमर्कटशूद्रैः36 ।
अन्त्यजपातकिभिः कुणपैर्वा सूतकयाऽपि रजस्वलया वा ॥
रेतोमूत्रपुरीषैर्वा पूयाश्रुश्लेष्मशोणितैः ।
विष्ठास्थिमांसमज्जाभिरन्यैर्वाऽपि जुगुप्सितैः ॥
आरोपितारणीस्पर्शे कृतेऽग्नेः स्पर्शनेऽपि वा ।
आत्मारूढेषु मज्जेद्वा37 वदेद्वा पतितादिभिः ॥
अथवा योषितं गच्छेदनृतौ काममोहितः ।
वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ॥
तत्रारणीगते वह्नौ दुष्टे स्यात्पुनराहितिः ।
इतरेषु निमित्तेषु त्वग्न्याधेयं प्रचक्षते ॥
यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम्” इति ॥
गार्ह्ये कर्मणि पुनराधेयाभावात्पुनःसन्धानमेव ।
रजस्वलास्पर्शविषये गोभिलोऽपि–38
“अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रकम् ।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥
चण्डालपतितोदक्यासूतिकाकुणपादिभिः ।
संसर्गेऽपि विनाशः स्यादादधीतेति केचन” इति ॥
सर्वाग्निस्पर्श एव पुनराधानमिति व्यङ्कटेशः । ज्ञानाज्ञानकृता व्यवस्थेत्यन्ये ।
उक्तं च महाभारते–
“रजस्वला चेच्छ्रौताग्निमज्ञानात्स्पृशते यदि ।
इष्टिरष्टाकपालेन कर्तव्या शुचयेऽग्नये” इति ॥
अत्र श्रौतमित्यग्निविशेषणादज्ञानतः स्मार्ते स्पर्शेऽपि पुनःसन्धानमेव । साक्षात्परम्पराकृता व्यवस्थैव युक्तेति बहवः । चण्डालस्पर्शे पतितस्पर्शे चाऽऽधानमेवेति केशववरदराजादयः । सूतक्युपस्पर्शे शवस्पर्शे चैवमिति केचित् । मानुषास्थिस्पर्शे पुनराधानमेव । इतरास्थिस्पर्शे तु शुचीष्टिमात्रमिति केचिदिति प्रायश्चित्तसारकारादयः ।
मण्डनः–
-“रजोदोषे समुत्पन्ने सूतके मृतके तथा ।
प्रवसन्नग्निमान्विप्रः पुनराधानमर्हति ॥
बह्वीनामपि चैकस्यामुदक्यायां न तु व्रजेत् ।
शिक्येनोद्वाहयेदग्नीन्पुनराधानमर्हति” इति ॥
“एकाकिनी यदा पत्नी वह्निमादाय गच्छति ।
अग्निनाशं परे त्वाहुर्भयाद्याने न दुष्यति ॥
न रुच्यैकाकिनी पत्नी प्रयायादग्निभिः सह ।
राष्ट्रभ्रंशादिसम्प्राप्तावुदितं यानमीदृशम्39 ॥
न क्वाप्यारम्भणं केचिल्लौगाक्ष्याद्यनिबन्धनात् ।
उदक्या चेद्भवेत्पत्नी प्रसूता प्रसवन्त्यपि40 ॥
अन्वारम्भविकल्पत्वात्पुनराधिर्न तन्मतात् ।
ज्येष्ठाऽन्वारभते पत्नी बहुभार्यस्य नेतराः ॥
आपद्यग्निषु दीप्यत्सु मासार्धं चेन्न हूयते ।
सर्वहोमानतिक्रान्तापक्षान्ते पक्षहोमवत् ॥
समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् ।
न तत्र पुनराधेयमिति कौषीतकी श्रुतिः ॥
वत्सरं वत्सरार्धं वा होमलोपे मतान्तरम् ।
आपत्काले न नश्यन्ति दीप्यन्ते चेद्धुताशनाः” इति ॥
प्रायश्चित्तकुतूहले–
“खरोष्ट्रवृषभं नारी समारुह्याथवा पुमान् ।
योजने योजने कृच्छ्रमग्निश्चापि विनश्यति” इति ॥
यज्ञपार्श्वे–
“गजोष्ट्रवृषभं नारी समारुह्याथवा पुमान् ।
योजने योजने कृच्छ्रमग्निश्चापि विनश्यति” इति ॥
अयं च गजारोहणनिषेधो राजव्यतिरिक्तपरः । राज्ञो गजारोहणस्य बहुषु पुराणेषु दर्शनात् ।
“यस्यच्छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् ।
ऐन्द्रस्थानमुपासीत तस्मात्तं न विचारयेत्”
इति मार्कण्डेयपुराणाच्च । चकारात्तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयः ।
खरोष्ट्रवृषभारोहणनिषेधो निरग्नेरपि ।
“यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् ।
पुनस्तस्य क्रियाः कार्याः शिखाया वापनेन च ॥
आदौ तु विधिना त्र्यब्दं प्रायश्चित्तं समाचरेत्”
इति स्वतन्त्रनिषेधस्य सत्त्वात् । गजारोहणनिषेधस्तु तथानिषेधाभावात्तस्य न भवति । एवं च समावर्तनोत्तरमौपासनाग्न्युत्पत्तेः प्राग्गजारोहणे विप्रस्यापि निषेधो नास्तीति सिद्धं भवति । गजारोहणे तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयो न भवति । यदि चेद्वै द्विजो गच्छेदित्यनन्तरोदाहृतवचने खरोष्ट्रवृषभारोहण एव तप्तकृच्छ्रपुनःसंस्कारादिकस्य विहितत्वात् ।
यज्ञपार्श्वे–
“नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि ।
न विना च निमित्तेन क्रीडाद्यर्थं तु न व्रजेत् ॥
आहिताग्निस्तु यो लोभात्प्रवासं पर्वसन्धिषु ।
करोति पुनराधानं प्रायश्चित्तमृतावृतौ” इति ॥
तथा–41
“आहिताग्निस्तु यो मोहादनुगच्छेच्छवं यदि ।
तदाऽग्नीनां विनाशः स्यादिति प्राहुर्मनीषिणः” इति ॥
इदमन्यगोत्रविषयम् ।
“आहिताग्निः(ग्नेः) प्रमादाद्वा प्रेतानुगमनं यदि ।
अग्निनाशं विजानीयात्सपिण्डे तु न दोषकृत्” ॥
इति प्रायश्चित्तकेशवीकारोक्तेः ।
“आहिताग्नेः प्रमादाच्चेच्छवानुगमनं तदा ।
अग्निनाशं विजानीयात्सगोत्रेषु न दोषकृत्” ॥
इति प्रयोगदर्पणे स्मृतिवचनाच्च ।
वाहिनीपतावपि–“असपिण्डशवानुगमने शवस्पर्शे च पुनराधानम्” इति ।
आहिताग्निग्रहणं साग्निकोपलक्षणमिति केचित् । एवमन्यान्यपि निमित्तानि तत्रैव द्रष्टव्यानि ।
नदीशब्दप्रवृत्तिनिमित्तमपि42 तत्रैवोक्तम्–
“कूलद्वयान्तरालं तु नदीशब्देन43 नोच्यते ।
किन्तु तद्देशवर्त्येव जलसङ्घो नदी भवेत् ॥
अष्टौ धनुःसहस्राणि न संस्रवति यज्जलम् ।
नदीशब्दाभिधेयत्वं तस्येच्छन्ति न सूरयः ॥
एकेन नामधेयेन शतयोजनगामि यत् ।
उदकं तन्नदीशब्दवाच्यमित्यपरे जगुः” इति ॥
इति सङ्क्षेपेण पुनराधाननिमित्तानि ।
अग्नित्यागप्रायश्चित्तानि
अथाग्नित्यागप्रायश्चित्तानि ।
तत्र स्मृतिः–
“नास्तिक्याद्वा प्रमादाद्वा आलस्याद्वा कथञ्चन ।
विच्छेदेऽग्नेः प्रकर्तव्यं प्रायश्चित्तं तु तद्यथा” इति ॥
मनुः–
" अग्निहोत्र्यपविध्याग्निं ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्" इति ॥
अपविध्य त्यक्त्वा । मासमपविध्येत्यन्वयः ।
यत्तु हारीतः–
“सव्ँवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्याद्द्वि-
वर्षोत्सन्ने सोमायनचान्द्रायणे कुर्यात्त्रिवर्षोत्सन्ने सव्ँवत्सरं
कृच्छ्रमभ्यस्य पुनरादध्यात्” इति, तदकामतो ज्ञेयम् ।
शङ्खस्तु–" अग्न्युत्सादी सव्ँवत्सरं प्राजापत्यं चरेद्गां च दद्यात् “। इति त्रिवर्षोत्सादे गोदानमप्यधिकमाह । विष्णुरपि–
“वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी सव्ँवत्सरं भैक्षेण वर्तयेत्” इति ।
व्याघ्रः–
“मासद्वयं तयोर्वह्निं त्यजेदेवं समाचरेत् ।
नास्तिक्यात्कृच्छ्रमेकं तु होमद्रव्यं ददाति च” इति ॥
तयोः प्रमादालस्ययोः । होमद्रव्यं यावत्कालं होमो न कृतस्तावद्धोमपर्याप्तम् । तथा च भरद्वाजगृह्ये–
“यावत्कालमहोमी स्यात्तावद्द्रव्यमशेषतः ।
तद्दानं चैव विप्रेभ्यो यथा होमस्तथैव तत्” इति ॥
जातूकर्ण्योऽपि–
“अतीतकालं जुहुयादग्नौ विप्राय वा स्वयम् ।
दद्याद्वेदविदे सम्यक्कृत्वाऽऽधानं पुनर्द्विजः” इति ॥
अत्र होम इति स्थालीपाकोपलक्षणम् । यद्यप्यग्निविच्छेदे सति होमादावधिकाराभावेन दोषाभावाद्धोमलोपप्रायश्चित्तार्थस्य44 होमद्रव्यदानस्याप्राप्तिस्तथाऽपि व्याघ्रवचने नास्तिक्यादितिश्रवणान्नास्तिक्यतोऽग्निविच्छेद एव होमलोपप्रायश्चित्तार्थहोमद्रव्यदानं45 कार्यं नेतरयोरिति ज्ञेयम् । एतच्च46 होमद्रव्यदानं श्रौताग्नित्यागे न भवतीति माधवः । उभयत्यागेऽपि युक्तमिति नवीनाः ।
मासचतुष्टयत्यागे तु व्याघ्र एवाऽऽह–
“चतुष्टये तु सम्पूर्णे मासानां तु हुताशनम् ।
त्यक्त्वाऽतिकृच्छ्रं कुर्वीत ततः पापात्प्रमुच्यते” इति ॥
स्मृत्यन्तरेऽपि–
“योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्द्विजः ।
मासद्वये तथा कुर्यादतिकृच्छ्रं चतुष्टये” इति ॥
मासचतुष्टयेऽतिकृच्छ्रमित्यर्थः । षण्मासत्यागे पराकः । अत ऊर्ध्वमब्दपर्यन्तं पयोव्रतम् ।
तथाऽऽहोशना–
“षण्मासांस्त्यजते यो वै पराकं तु समाचरेत् ।
उर्ध्वं पयोव्रतं कुर्यान्मासमेकं समाहितः ॥
वर्षपर्यन्तमेवाऽऽहुर्मुनयः शंसितव्रताः” इति ॥
मासषट्कादूर्ध्वं यावत्सव्ँवत्सरं याज्ञवल्क्योक्तान्युपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योजनीयानि । सव्ँवत्सरादूर्ध्वं तु मनुः–
“ऊर्ध्वं सव्ँवत्सरादग्निं यस्त्यजेत्स पयोव्रतम् ।
द्वैमासिकं ततः कुर्यात्त्रैमासिकमथापि वा” इति ॥
अत्र द्वैमासिकत्रैमासिकयोः कालाल्पत्वमहत्त्वापेक्षया विकल्पः । एतानि च सर्वाणि प्रायश्चित्तानि नास्तिक्यादग्निपरित्यागे । यदा तु प्रमादात्त्यजति तदा भरद्वाजगृह्ये विशेषः–
“प्राणायामशतमा त्रिरात्रादुपवासः स्यादा विंशतिरात्रादत ऊर्ध्वमा
षष्टिरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वमा सव्ँवत्सरात्प्राजापत्यं चरेदत
ऊर्ध्वं कालबहुत्वे दोषबहुत्वम्” इति ।
इदमेवाकामतो गृह्याग्नित्याग इत्यपरार्के ।
अत्रैव विषये स्कान्दे–
“हुताशनं तु यो विप्रः प्रमादात्त्यजति प्रभो ।
प्राणायामशतं कुर्यादुपवासमथापि वा” इति ॥
कूर्मपुराणे–
“षष्टिरात्रिं त्यजेदग्निं प्रमादाच्छृणु मे प्रभो ।
उपवासं ततः कुर्यात्प्राजापत्यं ततः परम्” इति ॥
तत इत्यनेन त्रिरात्रमुच्यते । मासद्वयमग्नित्यागे त्रिरात्रमुपवासः सव्ँवत्सरमग्नित्यागे प्राजापत्यमिति । स्कान्दे तु द्वादशाह्वातिक्रमे त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । सव्ँवत्सरातिक्रमे मासमुपवासः पयोभक्षणं वा कुश्माण्डीभिर्होमः क्रमेणोभयं वेत्युक्तम् । इदं च कामतः । उपवासाशक्तौ मासं पयोभक्षणम् । सव्ँवत्सरानन्तरमधिककालातिक्रम उभयमिति मदनपारिजाते47 ।
आलस्यादग्निपरित्यागे स्मृत्यन्तरम्–
“आलस्येन यदा वह्निं द्वादशाहात्परं तदा ।
उपवासत्रयं कुर्यात्पश्चान्मासात्तथैव च ॥
उपवासो द्वादशाहं षण्मासातिक्रमे तथा ।
मासं पयोव्रतं कुर्याद्वत्सरातिक्रमे तथा ॥
मासोपवासः कर्तव्यः पयो वा भक्षयेत्तथा ।
कूश्माण्डहोमः कर्तव्यः क्रमेणोभयमेव वा ॥
द्विमासं वा त्रिमासं वा कालाल्पत्वमहत्त्वतः ।
पयोव्रतं चात ऊर्ध्वं बहुकालात्यये सति ॥
प्रायश्चित्तबहुत्वं स्यादेवमा वत्सरत्रयात् ।
त्रिवर्षे वर्षमेकं तु प्राजापत्यं चरेद्व्रतम् ॥
एवमेवाधिकेऽपि स्यात्काले चैव ततोऽधिकम् " इति ।
कृच्छ्रादीनि
अथ प्रसङ्गात्सङ्क्षेपेण कृच्छ्रादीनां लक्षणानि ।
तत्र कृच्छ्रलक्षणं धर्मसूत्रे–
“त्र्यहमनक्ताश्यदिवाशी ततन्त्र्यहमयाचितव्रतत्र्यहं नाभाति किञ्चन " इति ।
कृच्छ्रद्वादशरात्रस्य विधिरयम् ।
" त्र्यहं प्रातन्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः” इति ॥
याज्ञवल्क्येनाप्युक्तम्–
“एकमक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन लघुकृच्छ्र उदाहृतः ॥
यथाकथञ्चित्रिगुणाः(गः) प्राजापत्यः स उच्यते " इति ।
लघुकच्छू उदाहृत इत्यत्र पादकृच्छ्रः प्रकीर्तित इति पाठान्तरम् । लघुकच्छूस्यैव शिशुकच्छ इति सञ्ज्ञान्तरम् । यथाकथञ्चिदित्यनेनानुलोमः प्रतिलोमो दण्डकलितवदावृत्तः स्वस्थानविश्रद्धो वेति स्मृत्यन्तरसिद्धं पक्षचतुष्टयं सङ्गृह्यते।
ग्राससङ्ख्यापरिमाणे आहाऽऽपस्तम्ब:-
" सायं द्वाविंशतिसाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विशतिरायाच्याः परे निरशनास्त्रयः॥
कुक्कुटाण्डप्रमाणाः स्युर्यथा वाऽऽस्यं विशेत्सुखम् " इति ।
अनयोः पक्षयोः शक्ताशक्तपरत्वेन व्यवस्था । पाराशरे तु-
" सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः” इति पूर्वार्धं पठितम् ।
चतुर्विंशतिमते तु-
“प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु ।
अयाचिते तु द्वावष्टौ परं वै मारुताशनः” इति ॥
आसां च सङ्ख्यानां शक्ताशक्तपरत्वेन व्यवस्था।
कृच्छ्रसव्ँवत्सरलक्षणमुक्तं धर्मसूत्रे-
एवमेवाभ्यस्येत्सव्ँवत्सरं स कृच्छूसव्ँवत्सरः” इति ।
पूर्वसूत्रे कृच्छ्रद्वादशरात्रविधेषक्तत्वात्तस्यैवंशब्देन ग्रहणम् । अभोज्यभोजनाभ्यासेऽयम् ।
अतिकृच्छूलक्षणमाह याज्ञवल्क्यः-
“एष एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः” इति ।
अत्र येषु नवदिनेषु भोजनं प्राप्तं तत्र पाणिपूरानं नियम्यते50 । पाणिपूरमेकग्रासपरिमितमन्नम् ।
“एकैकं ग्रासमश्नीयाच्यहाणि(दहानि ) त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रे चरन्द्विजः” इति मनूक्तेः।
कच्छ्रलक्षणमपि तेनैवोक्तम्-
“कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिः(म्)" इति ।
पत्रपुटकादिना ग्रासपरिमाणं कृत्वैकग्रासपर्याप्तं दुग्धमेकविंशतिदिनेष्वश्नीयात् ।
प्राजापत्योक्तद्वाविंशत्यादिसङ्ख्यया वा यावता प्राणधारणं भवति तावद्वेति मदनपारिजातः । पयोऽत्र जलम् ।
“चरेत्कृच्छ्रातिकृच्छ्रे तु पिबेत्तोयं तु शीतलम् " इति ब्रह्माण्डपुराणात् ।
अभक्षः कृच्छ्रातिकृच्छ्र इति गौतमोक्तेश्चेति भवदेवः ।
पराकलक्षणमाह याज्ञवल्क्यः-
“द्वादशाहोपवासेन पराकः परिकीर्तितः” इति ।
मासोपवासकृच्छ्रमाह जाबालि:-
" अनश्नन्मासमेकं तु महापातकनाशनम् ’ इति ।
यविककृच्छ्रमाह शङ्खः-
" गोपुरीपाद्यवानश्नन्मासमेकं समाहितः ।
व्रतं तु यावकं कुर्यात्सर्वपापापनुत्तये " इति ॥
तप्तकृच्छ्रमाह मनु:-
" तप्तकृच्छ् चरन्विप्रो जलक्षीरघृतानिलान् ।
प्रतिव्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः" इति ॥
स्मृत्यन्तरे तु-
" तप्तक्षीरवृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छू उदाहृतः” इत्युक्तम् ॥
क्षीरादीनां परिमाणमुक्तं पराशरेण-
" षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् ।
पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रो विधीयते " इति ॥
तप्तकृच्छ्रमुक्त्वा शङ्कलिखितौ-" एष एव शीतैः शीतकृच्छ्रः" इति ।
सान्तपनमाह शङ्ख:-
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रे सान्तपनं स्मृतम् " इति ।
यतिसान्तपनमाह स एव–
“एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्” इति ।
यतिसान्तपनमिति सञ्ज्ञामात्रम् । तेन न यतिमात्रस्यैवाधिकारः किं तु सर्वेषाम् ।
महासान्तपनमाह याज्ञवल्क्यः–
“पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन51 तु कृच्छ्रोऽयं महासान्तपनः स्मृतः” इति ॥
यमः–
“एतान्येव च पेयानि एकैकं च द्व्यहं द्व्यहम् ।
अतिसान्तपनं नाम श्वपाकमपि शोधयेत्” इति । द्वादशाहोऽयम् ।
“त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः” [इति] ॥
(पञ्चदशाहोऽयम्52 ।
जाबालः–
“षण्णामेकैकमेतेषां53 त्रिरात्रमुपयोजयेत् ।
त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः” ) इति ॥
एकविंशत्यहोऽयम् ।
तुलापुरुषकृच्छ्रमाह शङ्खः–
" पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
उपवासान्तराभ्यासात्तुलापुरुष उच्यते” इति ॥
आचाम ओदननिस्रावो मण्ड इति यावत् ।
वज्रकृच्छ्रमाहाङ्गिराः–
“गोमूत्रेण समायुक्तं यावकं54 वोपयोजयेत् ।
एकाहेन तु कृच्छ्रोऽयमुक्तस्त्वङ्गिरसा स्वयम् ॥
सर्वपापहरो दिव्यो नाम्ना वज्र इति स्मृतः” इति ।
पूर्वप्रक्रान्तदधितक्रापेक्षया विकल्पः ।
चान्द्रायणमाह यमः–
“वर्धयेत्पिण्डमेकैकं शुक्ले कृष्णे च ह्रासयेत् ।
एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् ॥
एकैकं ह्रासयेत्पिडं शुक्ले कृष्णे च वर्धयेत् ।
एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ॥
त्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः ।
हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम् ॥
चतुरः प्रातरश्नीयाच्चतुरः सायमेव च ।
पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् ॥
पिण्डानष्टौ समश्नीयान्मासं मध्यन्दिने रवौ ।
यतिचान्द्रायणं ह्येतत्सर्वकल्मषनाशनम्” इति ॥
शिशुचान्द्रायणमिति सञ्ज्ञामात्रम् । एवं यतिचान्द्रायणमित्यपि। यवपिपीलिकामध्ययोस्तिथिवृद्धौ ह्रासे वा ग्रासानामपि ह्रासवृद्धी ।
तथा च विष्णुः–
" ग्रासानास्याविकारमश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण
वर्धयेद्धानौ च ह्रासयेदमावास्यायां च नाश्नीयात्" इति ।
सामान्यचान्द्रायणमाह विष्णुः–
“यथाकथञ्चित्पिण्डानां तिस्रोऽशीतीरश्नीयात्सामान्यचान्द्रायणे” इति ।
प्रतिदिनं सङ्ख्यानियमादरेण मासेन चत्वारिंशदुत्तरशतद्वयं ग्रासानश्नीयादित्यर्थः । पिपीलिकामध्ययवमध्यभिन्नचान्द्रायणेषु दिनान्तरेऽप्यारम्भो न प्रतिपद्येव ।
ग्रासपरिमाणमाह याज्ञवल्क्यः–
“तिथिवृद्ध्या चरेपिण्डाञ्छुक्ले शिख्यण्डसम्मितान्” इति । शिखी मयूरः ।
चान्द्रायणं प्रकृत्य पराशरस्तु–“कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत्” इति ।
शङ्खस्तु–“आर्द्रामलकमात्रास्तु ग्रासा इन्दुव्रते स्मृताः” इति ।
इन्दुव्रतं चान्द्रायणम् । एतेषां च परिमाणानां शक्ताशक्तपरत्वेन व्यवस्था । एकादश्यादौ नित्यप्राप्त उपवासश्चान्द्रायणविधिना बाध्यते । एतस्य “धर्मार्थं च चरेदेतच्चन्द्रस्येति सलोकताम्” इति काम्यत्वात् । लशुनभक्षणादिनिमित्ते विहितत्वेन नैमित्तिकत्वाच्च । काम्यस्त्वेकादश्याद्युपवासोऽन्यद्वारा कारणीयः । प्रतिनिधिना कृतेऽपि फलप्राप्तेः कात्यायनादिभिरुक्तत्वात् । अयं चैकादश्याद्युपवासबाधो न सामान्यचान्द्रायणे, तत्र प्रतिदिनं ग्रासग्रहणनियमाभावात् ।
सङ्क्षेपेण प्रत्याम्नायाः
अथ सङ्क्षेपेण प्रत्याम्नायाः ।
चतुर्विंशतिमते–
“कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदपारायणं तथा ॥
विप्रा द्वादश वा भोज्याः पावकेष्टिस्तथैव च ।
अन्या वा पावमानेष्टिः समान्याहुर्मनीषिणः” इति ॥
पराशरः–
“कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
पुण्यतीर्थेऽनार्द्रशिरःस्नानं द्वादशसङ्ख्यया” इति ।
अनार्द्रशिरःस्नानमिति पदच्छेदः ।
अपरार्के स्मृत्यन्तरे–
“समिद्घृतं हविर्धान्यं तिलान्वा मारुताशनः ।
हुत्वा द्वादशसाहस्रं गायत्र्या कृच्छ्रमाप्नुयात् ॥
द्वादशैव सहस्राणि जपेद्देवीमुपोषितः ।
जलान्ते विधिवन्मौनी प्राजापत्योऽयमुच्यते” इति ॥
द्वादशसाहस्रं द्वादशसङ्ख्यसाहस्रं द्वादशाधिकसाहस्रमिति केचित् । जलान्ते जलसमीपे ।
याज्ञवल्क्योऽपि–
“यत्र यत्र च सङ्कीर्णमात्मानं मन्यते जनः ।
तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा” इति ॥
सङ्कीर्णं पापयुक्तम् ।
अपरार्केः–
“उपोष्य श्रद्धया युक्तस्तिलपात्राणि धर्मतः ।
द्वादशब्रह्मवादिभ्यः प्राजापत्येन तत्समम् ॥
स्वयमाहृत्य यो मूर्ध्ना तृणभारानुपोषितः ।
दद्याद्गोमण्डले कृच्छ्रे द्वादशैव न संशयः ॥
अन्नदानहिरण्येन द्वादश ब्राह्मणाञ्शुचीन् ।
तर्पयेन्मारुताशी च श्रोत्रियान्कृच्छ्र उच्यते ॥
प्राणायामशतं कृत्वा द्वात्रिंशोत्तरमार्तिषु ।
अहोरात्रोषितस्तिष्ठेत्प्राङ्मुखः कृच्छ्र उच्यते ॥
नमस्कारसहस्राणि द्वादशैव दृढव्रतः ।
गोविप्रपितृदेवेषु कुर्यात्कृच्छ्रत्रयं भवेत्” इति ॥
तिलपात्राण्युक्तानि कौर्मे–
“तिलपात्रं त्रिधा प्रोक्तं कनिष्ठोत्तममध्यमम् ।
ताम्रपात्रं दशपलं जघन्यं परिकीर्तितम् ॥
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं तूत्तमं स्मृतम्” इति ।
भारो द्विसहस्रपलपरिमितः ।
वसिष्ठः–
“गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् ।
कृच्छ्रमैकाहिकं प्रोक्तं दृष्टमङ्गिरसा स्वयम् ।
निश्यासीनो दिवा तिष्ठेत्त्रिरात्रं मारुताशनः ।
प्राजापत्यं विजानीयात्कूश्माण्डैर्जुहुयाघृतम्” इति ॥
माधवीये स्मृत्यन्तरे–
“प्राजापत्यं चरन्विप्रो यद्यशक्तः कथञ्चन ।
अहानि पञ्च विप्राग्र्यान्भोजयेत्सम्यगीप्सितान्” इति ॥
अत्र कपिञ्जलाधिकरणन्यायेन पञ्चस्वप्यहःसु त्रयस्त्रयो विप्रा भोज्या इति केचित् । पञ्चसङ्ख्याया देहलीदीपन्यायेनोभयत्रान्वयः । तेन पञ्च विप्रा भोजनीया इत्यन्ये ।
स्मृत्यर्थसारे–
“रुद्रैकादशिनी कृच्छ्रो55 द्वादशांशो निवर्तनात् ।
योजनं सिन्धुगातीरे56 घृतहोमशतद्वयम्” इति ॥
निवर्तनलक्षणं तु–“दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम्” इति ।
निवर्तनद्वादशांशभूमिदानेन कृच्छ्र इत्यर्थः ।
माधवीये–
" प्राजापत्यक्रियाशक्तौ धेनुं दद्यात्पयस्विनीम् ।
धेनोरभावे दातव्यं57 तुल्यं मूल्यं न संशयः" इति ॥
मदनरत्ने ब्राह्मे–“गवामभावे निष्कः स्यात्तदर्धं पादमेव58 वा” इति ।
चतुर्विंशतिमते–
“प्राजापत्ये तु गामेकामतिकृच्छ्रे तथा द्वयम् ।
पराके तप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु ताः स्मृताः ॥
अष्टौ चान्द्रायणे59 ज्ञेयास्तिस्रो वा शक्त्यपेक्षया” इति ॥
स्मृत्यर्थसारे तु– “षडुपवासाः प्राजापत्यप्रत्याम्नायः । एकविप्रभोजनमुपवासस्येति च”
इति । पक्षिवधे नक्तं रूप्यमाषकं वा दद्यादिति हारीतोक्ते रूप्यमाषकदानं नक्तस्येति शूलपाणिः ।
शूलपाणिरेव–“चान्द्रायणं तु कुर्वाणाः कुर्युः कृच्छ्रचतुष्टयम्” इति ।
तथा–
" चान्द्रायणपराकाभ्यां निष्कृतिं यो न शक्नुयात् ।
स करोत्यात्मशुद्ध्यर्थं प्राजापत्यस्य पञ्चकम्" इति ॥
कृच्छ्रातिकृच्छ्रे धेनुचतुष्टयमिति भवदेवः । अत्र गुरुलघुपक्षाणां शक्ताशक्तपरत्वेन व्यवस्था । इति प्रत्याम्नायाः ।
पुनःसन्धानम्
अथ पुनःसन्धानम् ।
तत्र नक्षत्राणि–
“कृत्तिका रोहिणी मृगशीर्ष पुनर्वसू फल्गुन्यौ हस्तश्चित्रा विशाखे
अनूराधाः श्रोणा प्रोष्ठपदाश्चोत्तरेऽग्न्याधेयनक्षत्राणि” इति ।
कृत्तिकाबहुवचनान्तेनैकमेव नक्षत्रम् । अनूराधाः, प्रोष्ठपदाः, पुनर्वसू, पुल्ँलिङ्गाः । फल्गुन्यौ विशाखे स्त्रीलिङ्गे । स्पष्टान्यन्यानि । “अमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रे” इति । आपूर्यमाणः पक्षः पूर्वः पक्षः । आपूर्यमाणपक्ष इत्यनेन पूर्णमासग्रहणे पुनरुपादानमतिशयार्थं तत्प्रतिपद्ग्रहणार्थं च । आपूर्यमाणपक्ष इत्यनेन पुण्ये नक्षत्र इति समुच्चीयते । वाशब्दस्यात्रानन्वयात् । आषाढे मासि पुनःसन्धानं न कर्तव्यम् ।
“आदधीतानलान्विप्रो नाऽऽषाढे मासि कर्हिचित् ।
भाद्रे मासि न राजन्यो नाऽऽश्विनेऽप्यूरुजः क्वचित्” इति कात्यायनोक्तेः ।
ऊरुजो वैश्यः । विस्तरस्तु श्रौताज्ज्ञेयः60 । विच्छिन्नसन्धानस्य नैमित्तिकत्वान्निमित्तानन्तरमधिमासेऽपि करणमुचितं नातिपन्नस्य जातेष्टिवत् ।
अमुनैवाऽऽशयेन दीपिकायामुक्तम्–
“यन्नैमित्तिकमग्निनष्ट्यनुगताग्न्याधानमर्चासु वा
संस्कारादिविलोपने सति पुनः प्रोक्तं प्रतिष्ठादिकम् ।
दाहेष्ट्यादि च यत्स्वकालविगमे गौणं विधानात्परं
लुप्येताधिकमासि तद्वितनुयात्” इति ॥
अथवा विवाहोक्तान्येव नक्षत्रादीनि ग्राह्याणि । अस्मिन्पक्षे विवाहहोमीयप्रधानाज्याहुतिषट्कं लाजाहुतित्रयं चायाश्चेत्याहुत्योपवासेन वा समुच्चितं द्रष्टव्यम् । न्यायतोऽप्येवम् । यदि तु सर्वथा पुत्राद्यभावस्तदा मन्त्रलिङ्गविरोधादाज्याहुतिषट्काभाव एव । लाजाहुतित्रयमात्रं कर्तव्यम् । पूर्ववदाहुत्या उपवासस्य वा समुच्चयोऽत्राप्यस्त्येव । वस्तुतस्तु शुभकर्मानुकूलानि सामान्यनक्षत्रादीन्यत्र ज्ञेयानि । अस्मिन्कल्पे विवाहहोमीयाहुतिषट्कं लाजाहुतित्रयं च न । असङ्करात्सर्वत्रेदमेव युक्तम् । सर्वपक्षेषु निमित्तानन्तरकरणपक्षे न नक्षत्राद्यपेक्षेति द्रष्टव्यम् ।
पुनःसन्धानप्रयोगः
अथ पुनःसन्धानप्रयोगः ।
कर्ताऽऽदौ होमसामग्रीं स्थालीपाकार्थं चरुस्थाल्यादिकमग्न्यायतनस्य61 समन्तात्परिश्रयणार्थानि62 च्छदींषि, उदुम्बरशाखाः प्लक्षशाखा वा सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्कराहिरण्यशकलरजतशकलपुष्करपर्णाश्वस्थोदुम्बरपलाशशमीविकङ्कतपल्लवानशनिहतवृक्षकाष्ठं चोपकल्पयेत् । सिकताः प्रसिद्धाः । ऊषाः(षः) क्षारमृत् । आखूत्करं वन्याऽऽखूत्कीर्णा मृत् । अभाव उत्कीर्णा ग्राम्या । वल्मीकशब्देन वरोलम्63 । तस्य वपा वपाकारा मृदुच्यते । सूदो हृदमृत् । तदभावे कुलीरमृत् । वराहविहत आरण्यवराहोत्कीर्णा मृत् । शर्कराः क्षुद्रपाषाणाः । भाषया काङ्कर इति प्रसिद्धाः । शकलस्वरूपं तु स्मृतौ–“यवार्धं64 त्रुटिरित्युक्ता द्वे त्रुटी शकलं स्मृतम्” इति ॥
पुष्करपर्णं कमलिनीपर्णम् । अश्वत्थादयश्चत्वारः प्रसिद्धाः । विकङ्कतः सकण्टकवृक्षः। भाषया सुतवी इति प्रसिद्धः । अशनिहतो विद्युद्धतः। अभावे वातहतः । एवं सामग्रीं सम्भारांश्च परिकल्प्य समिन्नाशादिनिमित्तानन्तरं रात्रौ चेत्समिन्नाशादिनिमित्तं तदा द्वितीयदिने प्रातस्तस्यातिक्रमे शुभे दिने कृत्तिकारोहिणीमृर्गशीर्षपुनर्वसू(सु)पूर्वा(र्व)फल्गुन्युत्तरा(र)फल्गुनीहस्तचित्राविशाखानूराधाश्रवणोत्तरा(र)प्रोष्ठपदान्यतम आधानोक्तनक्षत्रे शुभकर्मानुकूलसामान्यनक्षत्रान्यतमनक्षत्रे वा पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य मम नास्तिक्यादेतावत्कालपर्यन्तं गृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमेतावत्प्रायश्चित्तमहमाचरिष्य इति सङ्कल्पं कुर्यात् । प्रमादेन विच्छेदे तु मम प्रमादादेतावत्कालपर्यन्तमिति । ममाऽऽलस्यादेतावत्पर्यन्तमित्यालस्येन विच्छेदे । एवं सङ्कल्प्याग्निविच्छेदकालगणनया प्रायश्चित्तं दम्पती सह कुरुतः । अशक्तौ प्रत्याम्नायद्वारा ।
तत्र नास्तिक्याद्द्वादशाहपर्यन्तं पराकः । ततोऽब्दपर्यन्तं मासं पयोव्रतम् । अब्दे पूर्णे द्वैमासिकं त्रैमासिकं वा व्रतम् । ततः प्रतिवर्षमेतस्यैवाऽऽवृत्तिरिति ।
प्रमादात्त्रिरात्रमग्निविच्छेदे प्राणायामशतम् । द्वाविंशतिरात्रपर्यन्तमेकदिनमुपवासः । मासद्वयपर्यन्तं त्रिरात्रमुपवासः । अब्दे प्राजापत्य इति ।
आलस्याद्द्वादशाहं विच्छेदे तु त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । षण्मासातिक्रमे मासं पयोव्रतम् । सव्ँवत्सरातिक्रमे मासमुपवासः पयोभक्षणं कूश्माण्डहोमो वा, समुच्चयो वैतेषाम् ।
प्रयोगपारिजाते त्वत्राधिकमुक्तम्–द्वादशाहपर्यन्तं त्र्यहमुपवासः । मासपर्यन्तं द्वादशाहमुपवासः । अब्दपर्यन्तं65 मासं पयोव्रतम्66 । द्विवर्षपर्यन्तं मासं पयोव्रतं चान्द्रायणं च । अब्दपर्यन्तं चान्द्रायणं सोमायनं67 च । तदूर्ध्वमब्दकृच्छ्रं धनिनो गोदानं चेति ।
नास्तिक्यादग्निविच्छेदवशेन लुप्तानां सायम्प्रातर्होमानां दर्शपूर्णमासस्था लीपाकानां68 च पर्याप्तमिदं व्रीह्याद्यन्यतमं होमद्रव्यमाज्यं च तन्निष्क्रयद्रव्यं वाऽमुकेभ्यो ब्राह्मणेभ्यः सम्प्रदद इति सङ्कल्प्याग्निविच्छेदकालगणनया दद्यात् । आग्रयणकरणपक्षे दर्शपूर्णमासस्थालीपाकानामित्यनन्तरमाग्रयणस्थालीपाकस्य69 चेत्यूहः । एतच्च प्रायश्चित्तं विच्छेदोत्तरं कालविलम्बे यद्यकृताग्निद्वयसंसर्गो7071 यजमानस्तदाऽग्निद्वयविच्छेदस्यापि तत्तत्कालगणनया प्रायश्चित्तं कार्यम् । नास्तिक्याद्विच्छेदश्चेद्धोमद्रव्यदानं72 स्थालीपाकद्रव्यदानं च । अनारब्धस्थालीपाकस्य यजमानस्य विभ्रष्टस्थालीपाकमात्रं न लुप्तस्थालीपाकद्रव्यदानम् । अनारब्धत्वात्तेषाम् । सङ्कल्पवाक्ये दर्शपूर्णमासाग्रयणस्थालीपाकोल्लेखोऽपि न ।
ततः सपत्नीकः पुनराचमनप्राणायामदेशकालसङ्कीर्तनानि कृत्वाऽमुकन्निमित्तेन विच्छिन्नस्य गृह्याग्नेः पुनःसन्धानं करिष्य इति सङ्कल्प्य गणेशं सम्पूज्य कृतभस्मोत्सर्गोपलेपनमग्न्यायतनं परिश्रित्य फलाद्यन्यतमेन ताम्रशकलयुक्तेन73 पूर्ववदुल्लिख्यावोक्षणोत्सेचनोदकनिधानानि कृत्वाऽभ्यादिनोद्धत्यावोक्ष्य सिकता न्युप्योदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्करा इति भौमान्, हिरण्यरजतशकलपुष्करपर्णाश्वत्थोदुम्बरपलाशशमीविकङ्कताशनिहता इति वानस्पत्यान्सम्भारांस्तूष्णीमग्न्यायतने प्रक्षिपेत् । सर्वेषां भौमानामलाभे सिकताग्रहणं, वानस्पत्यानामलाभे त्वश्वत्थग्रहणम् । एवं सम्भारांस्तूष्णीं प्रक्षिप्य स्वयोनित उत्पन्नमग्निमाहृत्य भूर्भुवः सुवरोमित्यग्न्यायतने प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा विच्छिन्नगृह्याग्निपुनःसन्धानहोमकर्मणि या यक्ष्यमाणा इत्य्-आदिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे–मिन्दवन्तमग्निमाज्याहुत्या यक्ष्ये । अग्निमिन्द्रं बृहस्पतिमश्विनौ चाऽऽज्याहुत्या यक्ष्ये । तन्तुमन्तमग्निं तिसृभिराज्याहुतिभिर्यक्ष्ये । अग्निमभ्यावर्तिनमा० । अग्निमङ्गिरसमा० । अग्निं द्वाभ्यामा० । अग्निमा० । वायुमा० । सूर्यमा० । प्रजापतिमा० । अयासमग्निमा० । मनस्वन्तमग्निमा० । प्रजापतिमा० । सप्तवन्तमग्निमा० । वाचस्पतिं ब्रह्माणमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादिव्याहृतिहोमान्तं कृत्वा वैशेषिकप्रधानहोमं कुर्यात् ।
यन्म आत्मनः पुनरग्निरिति द्वयोर्मन्त्रयोः सोम ऋषिः । प्रथमस्य मिन्दवान ग्निर्देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च देवताः । प्रथमस्य गायत्री छन्दः । द्वितीयस्यानुष्टुप्छन्दः । विच्छिन्नगृह्याग्निपुनःसन्धानवैशेषिकप्रधानाज्यहोमे विनियोगः । “ॐ यन्म आत्मनो मिन्दा० विचर्षणिः स्वाहा” मिन्दवतेऽग्नय इदं० । “ॐ पुनरग्निश्चक्षु० मक्ष्योः स्वाहा” अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० ।
तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रि शत्तन्तव इति मन्त्रत्रयस्याग्निर्ऋषिः । तन्तुमानग्निर्देवता । प्रथमस्य जगती छन्दः । द्वितीयस्य त्रिष्टुप्छन्दः । तृतीयस्य जगती छन्दः । विच्छिन्नगृह्याग्निपुनःसन्धानवैशेषिकप्रधानाज्यहोमे विनियोगः । “ॐ तन्तुं तन्वन्रजसो० जन स्वाहा” तन्तुमतेऽग्नय इदं० । “ॐ उद्बुध्यस्वाग्ने० मेत स्वाहा” तन्तुमतेऽग्नय इदं० । “ॐ त्रयस्त्रि शत्तन्त० स्वाहा” तन्तुमतेऽग्नय इदं० ।
अग्नेऽभ्यावर्तिन्नित्यादीनां चतुर्णां मन्त्राणामग्निर्ऋषिः । प्रथमस्याग्निरभ्यावर्ती देवता । द्वितीयस्याग्निरङ्गिराः । तृतीयचतुर्थयोरग्निः । प्रथमस्य74 पञ्चपदोष्णिक् । द्वितीयस्य75 पञ्चपदा महाबृहती । तृतीयचतुर्थयोर्गायत्री । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः– “ॐ अग्नेऽभ्यावर्ति० धनेन स्वाहा” अग्नयेऽभ्यावर्तिन इदं० । “ॐ अग्ने अङ्गिरः० मा कृधि स्वाहा” अग्नयेऽङ्गिरस इदं० । “ॐ पुनरूर्जा० विश्वतः स्वाहा” अग्नय इदं० । “ॐ सह रय्या नि० स्परि स्वाहा” अग्नय इदं ।
व्यस्तसमस्तव्याहृतीनां पूर्ववदृष्यादि, विच्छिन्नेत्यादि विनियोगवाक्यम् । “ॐ भूः स्वाहा” अग्नय इदं० । “ॐ भुवः स्वाहा” वायव इदं० । “ॐ सुवः स्वाहा” सूर्यायेदं० । “ॐ भूर्भुवः सुवः स्वाहा” प्रजापतय इदं० । अयाश्चाग्न इत्यस्य वामदेवोऽया अग्निः पङ्क्तिः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । “ॐ अयाश्चाग्ने० भेषज स्वाहा” अयसेऽग्नय इदं० ।
मनोज्योतिर्जुषतामित्यस्याग्निर्मनस्वानग्निस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । “ॐ मनोज्योति० घृतेन स्वाहा” मनस्वतेऽग्नय इदं ।
प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । ‘ॐ प्रजापते न त्वदे० रयीणा स्वाहा’ प्रजापतय इदं० । सप्त ते अग्न इत्यस्याग्निः सप्तवानग्निर्जगती । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । ‘ॐ सप्त ते अग्ने० घृतेन स्वाहा’ सप्तवतेऽग्नय इदं० ।
चित्तिः स्रुगिति दशहोतृसञ्ज्ञकस्य वाचस्पते विधे नामन्नित्यादिग्रहसञ्ज्ञकभागसहितस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । ॐ चित्तिः स्रुक्० नृम्णं धात्स्वाहा’ वाचस्पतये ब्रह्मण इदं० । इत्यष्टादशाऽऽहुतीर्हुत्वा, इमं मे वरुणेत्यादिसंस्थाजपान्तं कृत्वोक्तरीत्या त्रिवृदन्नहोमं कृत्वा पुण्याहस्वस्त्ययनर्द्धिवाचनं विधायाग्निः प्रीयतामिति वदेत् ।
ततः पार्वणस्थालीपाकवदाग्नेयस्थालीपाकं सद्य एव कृत्वा वाससी धेनुमनड्वाहं तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दक्षिणां दद्यात् ।
ततो यथाविभवं ब्राह्मणान्सम्भोज्य भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
“प्रातर्होमोऽङ्गभूतत्वादकालेऽपि विधीयते ।
इति केचिद्गृह्यविदो नाङ्गत्वमिति केचन” ॥
इति प्रातरौपासनहोमस्य पुनःसन्धानाङ्गभूतत्वेन विहितकालासत्त्वेऽपि क्रियेति केचिद्गृह्यकारा आहुः ।
अन्ये तु प्रातरौपासनहोमस्य पुनःसन्धानाङ्गभूतत्वे प्रमाणाभावान्नाविहितकाले क्रियेति । येषां मतेऽङ्गत्वं तन्मत आग्नेयस्थालीपाकात्पूर्वमेव कर्तव्यः । येषां मतेऽङ्गत्वं नास्ति तन्मतेऽन्तःपाती प्रथमो होमो नास्त्येव । नित्यस्य कालप्राप्तस्य प्रातर्होमस्यानुष्ठाने76 विकल्पः ।
तत्र कारिकाद्वयम्–
“आधाने पुनराधाने सायङ्काल उपक्रमः ।
स्थालीपाकं पौर्णमास्यामारभेत विचक्षणः” इति ॥
“पुनराधानदिवसे हूयेते प्रातराहुती ।
ततस्तु सायमारभ्य होमान्काले तमाचरेत्” इति ॥
इदानीं प्रचुराचारः सायमुपक्रमविषय एव । यदि संसर्गविधेः प्राग्द्वावप्यग्नी विच्छिन्नौ तदा प्राणानायम्य मम विच्छिन्नस्य प्रथमगृह्याग्नेः पुनःसन्धानं करिष्य इति सङ्कल्प्य तदीयविच्छेदप्रायश्चित्तपूर्वकं ज्येष्ठपत्न्या सह तदीयमग्निं सन्धायैवमेव कनिष्ठया तदीयमग्निं सन्दध्यात् । तत्र प्रथमगृह्याग्नेरित्यत्र द्वितीयगृह्याग्नेरिति विशेषः । वस्तुतस्तूपवासाहुत्यात्मकमेव प्रायश्चित्तं युक्तं, सूत्रोक्तत्वात् । पाणिग्रहणादिरित्येतत्खण्डं तु क्षेपकमव्याख्यानात् । अनुगते भार्यायाः पत्युर्वेत्येतत्सूत्रस्थभाष्यलिङ्गात् । तस्यौपासनेनाऽऽहिताग्नित्वं77 पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति कश्चिद्वक्ष्यत्याचार्य इत्य्-आधानप्रकरणे कश्चिदिति वैजयन्तीकारोक्तेश्च । स चोपवासो दिवाकर्मत्वादासायं द्रष्टव्यः78 । आहुतिस्त्वयाश्चाग्न इति ।
इति संस्काररत्नमालायां पुनःसन्धानम् ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां षोडशं प्रकरणम् ॥ १६ ॥
-
ड. च. स्ना सावि । ↩︎
-
ङ. वित्र्यै यद । च. वित्र्ययद । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः । ↩︎
-
ङ. च. ब्राह्मणं । ↩︎
-
ङ. आचम्य । ↩︎
-
ग. ङ. त्वा ब्राह्मण । ↩︎
-
ग. ङ. व द्विश्व । ↩︎
-
ग. ङ. शभ्यर्णै । ↩︎
-
क. स्याम एकः शु । ग. स्याम एव शु । च. स्यामः शोणितशुक्रसं । ↩︎
-
च. दि वाऽगा । ↩︎
-
क. ज्ञा प्रमाणैवा । ↩︎
-
च. वत्त्वे वे । ↩︎
-
क. ग. व व । ↩︎
-
क. ख. त्रव । ↩︎
-
क. रत्वजा । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः । ↩︎
-
क. ख. द्य ज्ञाती । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः । ↩︎
-
ख. ग. ङ. च. दिसं । ↩︎
-
ग. ङ. च. हैव सा । ↩︎
-
क. मीपं ति । ↩︎
-
ख. ङ. च. सिद्ध्यर्थमात्म । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः । ↩︎
-
हस्तपादमिति तूचितम् । ↩︎
-
क. ख. त् । कु । ↩︎
-
क. ख. ग. च । त । ↩︎
-
ग. च. त्रीन्ब्राह्म । ↩︎
-
च. धिका । ↩︎
-
क. ग. व.प । ↩︎
-
ख. ग. स्मिन्पथि । ↩︎
-
ग. रपथि । ↩︎
-
ख. ग. संस्पृष्टे । ↩︎
-
ग. च. च्छत्यन्या । ↩︎
-
क. भाष्ये च प्रे । ↩︎
-
ख. ग. ङ. च. त् । प्र । ↩︎
-
अत्र क. पुस्तके कुक्कुभेति पाठः । तदुपरि “कुक्कुभो लावा इति प्रसिद्धः” इति टिप्पणी च । ↩︎
-
क. द्वा वोदक्याप । ↩︎
-
क.ख. गोपालोऽ । ↩︎
-
क. म् । नात्वान्वा । ↩︎
-
क. पुस्तके “प्रवसत्यपि” इति शोधितः पाठः । ↩︎
-
क. प्रायश्चित्तदीपि(धि)तौ । ↩︎
-
च. शब्दे प्र । ↩︎
-
क. न चोच्य । ↩︎
-
क. स्य हौम्यद्र । ख. ङ. च. स्य हौम । ↩︎
-
क. ख. च. र्थहौम्यद्र । ड. र्थहाम । ↩︎
-
क.ख. च. च्च हौम्यद्र । ङ.च हौम । ↩︎
-
क. जातः । आलस्ये । ↩︎
-
ङ. च. म्- ए । ↩︎
-
क. नुनोक्तः । व्य । ↩︎
-
क. ख. ग. नियम्य । ↩︎
-
ख. ग. ङ. च. तप्ताहेन । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति । ↩︎
-
अत्र क. पुस्तके “षट्त्वं कुशोदकसाहित्येनेति प्रायश्चित्तेन्दुशेखर उक्तम्” इति टिप्पणी । ↩︎
-
ग. ङ. कं चोप । ↩︎
-
च. कृच्छ्रे द्वा । ↩︎
-
क. न्धुमाती । ↩︎
-
क. व्यं मूल्यं तुल्यं न । ↩︎
-
क. व च" इ । ↩︎
-
क. णे देया । ↩︎
-
क. ताग्निनाशे । वि । ↩︎
-
क. मन्यान्याय । ↩︎
-
ग. ङ. च. र्थादीनि । ↩︎
-
क. वारोळम् । ↩︎
-
च. तौ–यावा । ↩︎
-
ग. न्तं चान्द्रायणं सो । ↩︎
-
क. व्रतं चा ↩︎
-
अत्र क. पुस्तके टिप्पन्याम् “गोक्षीरं सप्तरात्र तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् । स्तनत्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनमिति प्रायश्चित्तेन्दुशेखर उक्तम्” इति । ↩︎
-
ग. ङ. च. कादीनां । ↩︎
-
क. कान । ↩︎
-
क. ख. सर्गको य । ↩︎
-
ड. च. द्यग्निकृ । ↩︎
-
क. ख. श्चेद्धौम्यद्र । ↩︎
-
ग. ड. च. म्रकलशयु । ↩︎
-
ख. स्य निचृदनुष्टुप् । द्वि । ↩︎
-
ख. स्य पङ्क्तिः । तृ । ↩︎
-
क. र्होमानु । ↩︎
-
क. त्वं तथा पा । ↩︎
-
क. व्य । अशक्तस्त्व । ↩︎