अथ चतुर्दशं प्रकरणम् ।
आरम्भक्रमः
अथ पार्वणस्थालीपाकं वक्तुमादौ पर्वनिर्णय उच्यते ।
तत्र तयोः क्रमः श्रौतसूत्रे–
‘पूर्वा पौर्णमास्य् उत्तराऽमावास्या’ इति ।
सर्वत्र दर्श-पूर्णमासौ निर्दिष्टौ दर्शपूर्वौ,
तत्र पाठक्रमेणैवोभयोर् अनुष्ठाने प्राप्त इदं सूत्रमारभ्यते ।
‘अल्पाच्तरम्’ इति दर्श-शब्दस्य पूर्व-निपातेऽपि पूर्वा पौर्णमास्य् एवेत्य् अर्थः ।
श्रुताव् अप्यारम्भणीया-प्रकरणे सारस्वत-होमार्थ-वादे
‘य एनयोर् अनुलोमं च’ इत्य्-आदिना ‘तत् प्रतिलोमम्’ इत्य्-अन्तेनानुलोम-प्रतिलोमयोः स्वरूपं प्रदर्श्य
‘यत् पौर्णमासीं पूर्वाम् आलभेत प्रतिलोमम् एनाव् आलभेत’
इत्य्-आदिना पूर्णमासस्य पूर्वा[न]नुष्ठाने दोषम् अभिधाय
तद्-दोष-परिहाराय
सारस्वत-होम-विधिर् इति कृत्वा
पूर्वा पौर्णमास्य् उत्तराऽमावास्येत्य् एव क्रमः प्रदर्शितः ।
अत्रानुमन्त्रण-सूक्त-वाक-देवता-याज्यादीनि बहूनि लिङ्गान्य् अपि ।
पार्वणस्थालीपाकयोर् अप्य् एवम् एव ।
तद् उक्तं शौनक-बौधायनाभ्याम्–
“पौर्णमासी तु सम्प्राप्ता
या विवाहाद् अनन्तरम् ।
तदोपक्रम्य कुर्वीत
स्थालीपाकं तु पर्वसु ।
तत्र यद्य् अप्य् अमावास्या
विवाहानन्तरं पतेत् ।
तथाऽपि पौर्णमास्य्-आदि-
स्थालीपाकक्रिया स्मृता”
इति ।
स्मृत्यन्तरमपि–
“चतुर्थी-होमतः पूर्वं
प्राप्यते यदि पूर्णिमा ।
तत्रैव यागः कर्तव्यो
ह्यन्वाधान-पुरःसरः”
इति ।
अधिकमासः
तत्र विवाह-होमानन्तरं
स्थालीपाकारम्भात् पूर्वम् अधिमासादिकं चेत्
तत्रापि कर्तव्यतोक्ता सङ्ग्रहे–
“पार्वणेष्टिं चाऽऽग्रयणं
सन्ध्योपासन-कर्म च ।
अग्निहोत्रं पाकयज्ञान्
अन्यान्य् अपि मलिम्लुचे ।
कुर्यान् नित्यानि कर्माणि
न प्रारम्भ इति स्थितिः’
इति ।
स्मृत्यन्तरेऽपि–
“मलिम्लुचे मासि
पौषे नान्वारम्भणम् इष्यते ।
गुरु-भार्गवयोर् मौढ्ये
चन्द्रसूर्यग्रहे तथा”
इति ।
एतद्-वचन-द्वयम् आलस्यादिना स्व-कालानुपक्रान्त-स्थाली-पाकादि-प्रारम्भ-विषयम् ।
कालप्राप्तस्याऽऽरम्भे न दोषः ।
तथा च गर्गः–
“नामकर्म च दर्शेष्टिं
यथाकालं समाचरेत् ।
अतिपाते सति तयोः
प्रशस्ते मासि पुण्य-भे”
इति ।
नाम-कर्म-ग्रहणं नित्य-नैमित्तिक-स्मार्त-कर्मोपलक्षणम् ।
दर्शेष्टि-ग्रहणं नित्यनैमित्तिकश्रौतकर्मोपलक्षणमिति प्रयोगपारिजातहेमाद्यादयः ।
मण्डनस् तु–
“आधानानन्तरं पौर्ण-
मासी चेन् मल-मासगा ।
तस्याम् आरम्भणीयादि
न कुर्वीत कदाचन”
इत्य्-आह ॥
पर्व-स्वरूपम्
‘नित्यमत ऊर्ध्वं पर्वस्व् आग्नेयेन स्थालीपाकेन यजते’1
इति सूत्रेण पौर्णमास्य्-अमावास्य्-आत्मकेषु पर्वस्व्
आग्नेय-स्थाली-पाकानुष्ठानम् उक्तम् ।
तत्र तयोः पौर्णमास्य्-अमावास्ययोः स्वरूपं गोभिल आह–
“यः परमो विप्रकर्षः
सूर्याचन्द्रमसोः सा पौर्णमासी,
यः परमः सन्निकर्षः साऽमावास्या”
इति ।
दर्शः
“दर्शशब्दो दृश्यते योगिभिर् एव चन्द्रमा यत्रे"ति व्युत्पत्त्या,
“मनुष्यैर् न दृश्यते चन्द्रमा यत्रे"ति विपरीतलक्षणया वा
ऽमावास्याया एव वाचकः ।
‘दर्शः सूर्येन्दुसङ्गमः’ इति कोशात् ।
सूर्येन्द्वोः सङ्गमो यत्रेत्यर्थः ।
पूर्णिमा
तत्र पूर्णिमा-निर्वचनं मत्स्य-ब्रह्माण्ड-पुराणयोः–
“कला-क्षये व्यतिक्रान्ते,
दिवा+++(→सूर्यः पूर्णः)+++ पूर्णौ परस्-परम् ।
चन्द्रादित्यौ पराह्णे +++(→चन्द्रः पूर्णः)+++ तु
पूर्णत्वात् पूर्णिमा स्मृता”
इति ॥
पराह्णे सूर्यास्तमय-काले
यथाऽऽदित्यः सम्पूर्ण-मण्डलः सन्न् अस्तम् एति
तथोत्तर-क्षणे चन्द्रः सम्पूर्ण-मण्डलः सन्न् उदेतीति
दृष्टान्त-दार्ष्टान्तिक-भाव-विवक्षया
चन्द्रादित्ययोर् उपन्यासः ।
अमावास्या
अमावास्या-निर्वचनं मत्स्यवायुब्रह्माण्डपुराणेषु–
“अमा वसेताम् ऋक्षेषु
यदा चन्द्र-दिवाकरौ ।
एषा पञ्च-दशी रात्रिर्
अमावास्या ततस् तु सा”
इति ॥
अमा सहेत्यर्थः ।
श्रुतौ तु निर्वचनान्तरम् उक्तम्–
“अमा वै नोऽद्य वसु वसती"तीन्द्रो हि देवानां वसु,
तद् अमावास्याया अमावास्यत्वम्”
इति ।
द्वैविध्यम्
ते च पौर्णमास्य् अमावास्ये प्रत्येकं द्विविधे -
अनुमती राका च
सिनीवाली कहूश् चेति ।
एतत्स्वरूपं कठ-शाखायाम् ऐतरेय-ब्राह्मणे च–
“या पूर्वा पौर्णमासी सा ऽनुमतिर्, योत्तरा सा राका,
या पूर्वाऽमावास्या सा सिनीवाली, योत्तरा सा कुहूः”
इति ।
एतासां लक्षणमुक्तं बृहद्वसिष्ठेन–
“राका सम्पूर्णचन्द्रा स्यात्
कलोनाऽनुमतिः स्मृता ।
पौर्णमासी दिवा दृष्टे
शशिन्य् अनुमतिः स्मृता ॥
रात्रिदृष्टे पुनस् तस्मिन्
सैव राकेति कीर्तिता ।
दृष्ट-चन्द्राम् अमावास्यां
सिनीवालीं प्रचक्षते ॥
एताम् एव कुहूम् आहुर्
नष्ट-चन्द्रां महर्षयः”
इति ॥
सन्धि-कालः
तत्र कुहू-भिन्नानां तिसृणां
लघ्व्-अक्षरोच्चारण-परिमितः कालः
सन्धिर् इत्य् उच्यते ।
कुह्वास् त्व् अक्षर-द्वय-परिमितः ।
तथा च हेमाद्रौ भगवती-पुराणम्–
“अनुमत्याश् च राकायाः
सिनीवाल्याः कुहूं विना ।
एतासां द्वि-लवः कालः,
कुहूमात्रा कुहूः स्मृता”
इति ॥
लव-स्वरूपं माधवीये स्मृत्यन्तरे–
“लघ्व्-अक्षर-चतुर्भागस्
त्रुटिर् इत्य् अभिधीयते ।
त्रुटि-द्वयं लवः प्रोक्तो
निमेषस् तु लव-द्वयम्”
इति ॥
तथा च लव-द्वयं लघ्वक्षरं भवति ।
लघ्व्-अक्षरोच्चारण-परिमिते काल
एकः पर्वणो भागो,
द्वितीयः प्रतिपदस् तद् उभयं मिलितं
सन्धिर् भवति ।
कुहूप्रतिपदोः सन्धिस्तु ‘कुहू’ इत्यक्षरद्वयपरिमितः ।
तथा च मत्स्यब्रह्माण्डपुराणयोः–
“कुह्व् इति कोकिलेनोक्ते
यावान्कालः समाप्यते ।
तत्-काल-सञ्ज्ञिता चैषा
अमावास्या कुहूः स्मृता”
इति ॥
याग-कालः
इति सन्धि-स्वरूपे ज्ञाते
“सन्धौ यजेते"ति श्रुतेः सन्धौ यागः प्राप्तस्,
तस्य चाति-सूक्ष्मत्वेन कर्मानुष्ठानायोग्यत्वात्
सन्धि-शब्दः सन्धि-पार्श्वद्वयं लक्षयति ।+++(5)+++
तथा च सन्धि-पार्श्व-द्वये
“सन्धौ यजेते"ति श्रुतिर्
यागं विधत्ते ।
अत एव श्रुत्यन्तरम्–‘सन्धिम् अभितो यजेत’ इति ।
हेमाद्रौ बौधायनोऽपि–
“सूक्ष्मत्वात् सन्धि-कालस्य
सन्धेर् विषय उच्यते ।
सामीप्यं विषयं प्राहुः
पर्वेणाथ परेण च”
इति ॥
अत्र पूर्व-पर-शब्दाभ्यां
क्रमेण सन्धेः पूर्वं पर्व-दिनं, परं प्रतिपद्-दिनं च क्रमेणाभिधीयते ।
चतुर्थांशापेक्षया
तत्र कृत्स्नस्य पर्वणः प्रतिपदश् च ग्रहणे प्राप्ते
नियमम् आह वृद्ध-शातातपः–
“पर्वणो यश् चतुर्थोऽंश
आद्याः प्रतिपदस् त्रयः ।
याग-कालः स विज्ञेयः
प्रातर् उक्तो मनीषिभिः”
इति ॥
आवर्तनापेक्षया
याग-काल-विवेकम् आह गोभिलः–
“+++(सूर्यस्योद्गमनाधोगमन्योः)+++ आवर्तने यदा सन्धिः
पर्व-प्रतिपदोर् भवेत् ।
तद् अहर् याग इष्येत
परतश् चेत् परे ऽहनि”
इति ॥
तथा–
“पर्व-प्रतिपदोः सन्धिर्
अर्वाग् +++(सूर्यस्योद्गमनाधोगमन्योः)+++ आवर्तनाद् यदि ।
तस्मिन्न् अहनि यष्टव्यं
पूर्वेद्युस् तद् उपक्रमः”
इति ॥
लौगाक्षिः–
“पूर्वाह्णे वाऽथ मध्याह्ने
यदि पर्व समाप्यते ।
उपोष्य तत्र पूवेद्युस्
तद् अहर् याग इष्यते”
इति ॥
स्मृत्यन्तरेऽपि–
“आवर्तने यदा सन्धिस्
ततः पूर्वम् अथापि वा ।
तस्मिन्न् अहनि यष्टव्यं
परतश् चेत् परे ऽहनि ॥आवर्तनात् परः सन्धिर्
यदि तस्मिन्न् उपक्रमः ।
परेद्युर् इष्टिर् इत्य् एव
पर्व-द्वय-विनिर्णयः”
इति ॥
तथा–
“अपराह्णेऽथ वा रात्रौ
यदि पर्व समाप्यते ।
उपोष्य तस्मिन्न् अहनि
श्वोभूते याग इष्यते”
इति ॥
पूर्वाह्ण आवर्तने वा
सन्धौ तस्मिन्न् एवाहनि यागः ।
पूर्वेद्युर् अन्वाधानादि ।
आवर्तनाद् ऊर्ध्वं सन्धौ तु
तस्मिन्न् अहन्य् अन्वाधानादि
परेद्युर् याग
इति निष्कृष्टोऽर्थः ।
आवर्तन-शब्देनाह्नो मध्यतन-सन्धि-रूपः काल उच्यते ।
“आवर्तनात् तु पूर्वाह्णो
ह्यपराह्णस् ततः परः ।
मध्याह्नस् तु तयोः सन्धिर्
यद् आवर्तनम् उच्यते” ॥
इति मदन-रत्नोदाहृत-वचनात् ।
तयोः पूर्वाह्णापराह्णयोः ।
स च सन्धिर् मुहूर्त-परिमित इति केचित् ।
निशीथ-न्यायेनेत्य् एतेषाम् आशयः ।
श्रौत-सूत्रोक्तिः
श्रौतसूत्रेऽपि पर्वनिर्णय उक्तः–
“पूर्वां पौर्णमासीम् उपवसेत् +++(यद्य् असम्पूर्णा)+++,
सम्पूर्णां वा,
पूर्वाम् अमावास्यां,
यद् अहर् वा न दृश्यते”
इति ।
अथ तस्य सूत्रस्य स्मृति-पर्व-निर्णयानुरोधेनार्थो वर्ण्यते ।
पूर्वां चतुर्दशी-युक्ताम् उपवसेद्,
यदि परेद्युर् असम्पूर्णेत्य्
अग्रिम-सूत्र-पर्यालोचनया ऽर्थात् सिध्यति ।
सम्पूर्णां वेति -
यस्याः साम्येन विहितया प्रतिपदा सय्ँ-युक्ताम् इत्य् अर्थात् स्यात् ।
द्वेधा विभक्तस्य दिवसस्य प्रथमार्ध-व्यापित्वेन स्थिताम् इत्य् अर्थः ।
तथाचा(च) सम्पूर्णा चेत् परा ।
इतरथा पूर्वेत्य् अर्थाद् अवगम्यते ।
अत्रैवावान्तर-भेदेन सद्यस्-कालो ज्ञेयः ।
एवं पूर्वाम् अमावास्याम् इत्य् अत्रापि समानम् ।
यद् अहर् वा न दृश्यत इत्य्-अत्रापि
पूर्व-युक्ता2 यस्मिन् दिने [न] दृश्यते ऽमावास्या तत्र “सम्पूर्णाम् अमावास्याम्” इत्याकृष्य योज्यं पूर्ववत् ।
उपवासः
अत्रोपवास-शब्देन नाशनाभावः ।
“दम्पती अश्नीत” इत्यनेन विरोधात् ।
किन्तूपवास-शब्देन जाया-पत्योर् एकवारं भोजनम् उच्यते ।
धर्मे वक्ष्यमाणत्वात् ।
अथवा–
“उपावृत्तस् तु पापेभ्यो
यस् तु वासो गुणैः सह ।
उपवासः स विज्ञेयः” ॥
इति स्मृति-सिद्ध उपवास-शब्दार्थो ग्राह्य
इति वैजयन्तीकृता व्याख्यातम् ।
चतुर्थांशापेक्षया
तत्र ‘पर्वणो यश् चतुर्थांशः’ इत्-अनेन वचनेन
पर्वणश् चतुर्थोऽंशः,
प्रति-पदस् त्रयोऽंशाश् च
याग-कालत्वेन विहिताः ।
तत्र यद्य् आवर्तने, ततः पुरो वा सन्धिर् भवति
तदा पर्वणश् चतुर्थांशो याग-कालः ।
उषःकाले सन्धौ, प्रतिपदः प्रथमांशो याग-कालः।
निशीथसन्धौ द्वितीयांशः,
रात्रिप्रारम्भे सन्धौ तृतीयांश इति ।
नन्व् “अनेन न्यायेनापराह्णे सन्धौ प्रतिपच् चतुर्थांशस्यापि यागकालत्वं स्याद्” इति चेन् न ।
“न यष्टव्यं चतुर्थेऽंशे
यागैः प्रतिपदः क्वचित् ।
रक्षांसि तद् विलुम्पन्ति
श्रुतिरेषा सनातनी” ॥
इति चतुर्थांशे यागस्य निषेधात् ।
“एतादृशे विषये याग एव लुप्येते"ति चेन् “मैवम्” ।
वृद्ध-शातातपेन प्रतिप्रसवाभिधानात्–
“सन्धिर्यत्रापराह्णे स्याद्
यागं प्रातः परेऽहनि ।
कुर्वाणः प्रतिपद्-भागे
चतुर्थेऽपि न दुष्यति”
इति ॥
“एवं तर्हि प्रतिषेधो निर्विषयः स्याद्” इति चेन् “मैवम्” ।
सद्यस्-काल-विषये चरितार्थत्वात् ।
तं च विषयं दर्शयति कात्यायनः–
“सन्धिश् चेत् सङ्गवाद् ऊर्ध्वं
प्राक् पर्यावर्तनाद् रवेः ।
सा पौर्णमासी विज्ञेया
सद्यस्-काल-विधौ तिथिः”
इति ॥
सङ्गवावर्तनयोर् अन्तरा
पौर्णमासी-प्रतिपदोः सन्धौ सति
पूर्वोदाहृतैर् वचनैः सन्धि-दिनात् पूर्वेद्युर् अन्वाधानादिकं प्राप्तं
तच् च सद्यस्काल-वाक्येन
सन्धि-दिन उत्कृष्यते ।
‘सद्यो वा सर्वं करोति सद्यस्-कालायाम्’ इत्य् एतत् सूत्रम् अप्य् अत्रानुकूलं ज्ञेयम् -
वैजयन्तीकारैस् तथैव व्याख्यानात् ।
तत्र सद्यस्-काल-विधिर् अन्वय-रूपः ।
प्रतिपच्-चतुर्थांश-निषेधो व्यतिरेक-रूपः ।
एवं च सति, निषेधवाक्यं सावकाशं भवति ।
अयम् एव न्यायोऽमावास्यायाम् अपि ।
परं तु सद्यस्-कालता तत्र नास्ति ।
सन्धिश् चेद् इत्यस्मिन् वाक्ये पौर्णमास्या एव ग्रहणात् ।
चन्द्र-दर्शन-दिने याग-निषेधस् त्व्
आवर्तनात् पूर्वं, तस्मिन् वा सन्धौ सति द्रष्टव्यः ।
एतच् च यथा-श्रुत-माधव-ग्रन्थाद् वैजयन्तीकार-ग्रन्थाच् च द्रष्टव्यम् ।
हेमाद्रिस्तु–
“अपराह्ण-सन्धाव् अपि पर-दिने
प्रतिपच्-चतुर्थांशे चन्द्रोदये च सति
द्वितीयादिष्व् अत्यन्त-क्षये सति
पूर्वेद्युर् यागः”
इत्य्-आह ।
प्रायश्चित्तम्
आवर्तने तत्-पूर्वं वा सन्धौ
भ्रमाद् यदि यागो न कृतः
किन्तु शुक्ल-प्रतिपदि कृतस् तदा प्रायश्चित्तमाह कात्यायनः–
“यजनीयेऽह्नि सोमश् चेद्
वारुण्यां यदि दृश्यते ।
तत्र व्याहृतिभिर् हुत्वा
दण्डं दद्याद्द्विजातये”
इति ॥
सन्धिकल्पन-प्रकारः
सन्धिकल्पन-प्रकारस् तु माधवेनोक्तः–
“वृद्धिः प्रतिपदो याऽस्ति
तदर्धं पर्वणि क्षिपेत् ।
क्षयस्यार्धं तथा क्षिप्त्वा
सन्धिर्निर्णीयतां सदा”
इति ॥
कात्यायनोऽपि–
“परेह्नि घटिका न्यूनास्
तथैवाभ्यधिकाश् च याः ।
कृत्वा तद्-अर्धं पूर्वस्मिन्
ह्रासवृद्धी प्रकल्पयेत्”
इति ॥
यदा पूर्वेद्युर् अमावास्या,
यावद्-घटिका परेद्युः प्रतिपद् अपि तावद्-घटिका,
तत्र यथास्थित3 एव सन्धिर् ज्ञेयः ।
यदा तु प्रतिपदः क्षयः, पर्वणो वृद्धिस्
तदा वृद्ध्य्-अर्धं प्रतिपदि सय्ँयोज्य सन्धिर् ज्ञेयः ।
यदा तु पर्वणः क्षयः, प्रतिपदो वृद्धिस्,
तदा वृद्ध्य्-अर्धं पर्वणि प्रक्षिप्य सन्धिं कल्पयेत् ।
तत्र ह्रास-वृद्धि-समीकरणेनाऽऽवर्तने तत्-पूर्वं वा यदि सन्धिस्
तदा तस्मिन्न् अहन्य् एव यागः ।
परतः सन्धिश् चेत् परेऽहनि याग इति ।
प्रतिपदीष्टि-समाप्तिः
पर्व-मध्य इष्टि-समापन-निषेध उक्तो मनुना–
“प्रतिपद्य् अप्रविष्टायां
यदि त्विष्टिः समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः
कर्तव्या यागवित्तमैः”
इति ॥
विशेषो निर्णय-प्रदीपे गोभिलेनोक्तः–
“आवर्तनेऽथवा तत्-प्राग्
यदि पर्व समाप्यते ।
तन्त्रं4 पूर्वाह्ण एव स्यात्
सन्धेर् ऊर्ध्वं द्विजाशनम्”
इति ॥
एतस्माद् वचनाज् ज्ञायते - आवर्तनाद् ऊर्ध्वं सन्धौ नैतत् । तथा च पूर्वम् एव द्विजाशनं भवति ।
गृह्याग्नेर् नायं नियम इति मदन-पारिजाते ।+++(5)+++
स्थालीपाकविषये
अथ स्थालीपाकविषये गृह्यसूत्रम्–
“नित्यम् अत ऊर्ध्वं पर्वस्व् आग्नेयेन स्थालीपाकेन यजते”
इति ।
अतो गृह-प्रवेश-स्थालीपाकाद् ऊर्ध्वम् अनन्तरं नित्यं पर्वसु आग्नेयेन स्थालीपाकेन यजते ।
अत ऊर्ध्वम् इतिवचनं दीर्घत्वाद् अध्वनो ऽन्यथा वा
प्राग् आगते ऽपि पर्वणि स्थालीपाको मा भूद् इति ।
एतेनेदम् अपि ज्ञातं भवति -
प्राग् अपि चतुर्थी-होमाद् आगते,
पर्वणि तु भवेद् एवेति ।
अन्तरेणापि नित्यत्वे सिद्धे
नित्यम् इति वचनं यावज्जीवार्थं -
द्वात्रिंशद्-वर्षाणि कृत्वोत्सर्गो मा भूद् इति ।
कः प्रसङ्ग उत्सर्गस्येति चेत् -
दर्शपूर्णमास-भक्तत्वाद् अस्य [द्वा]त्रिंशद्-वर्षता यावज्-जीविकतया विकल्पत इत्य् आशङ्क्येत ।
उपवासः
एतच् च प्रज्ञापयति पर्वण्य् उपोष्य
प्रतिपदि क्रियां,
पौर्णमास्याम् आरम्भं च ।
तद् उक्तं बह्वृचैः–
“तस्य दर्शपूर्णमासाभ्याम् उपवास
इध्माबर्हिषोश् च सन्नहनम्”
इति ।
धर्मेषु चैतद् एव वक्ष्यति–
“पर्वसु चोभयोरुपवासः” इति प्रकृत्य “श्वोभूते स्थालीपाकः” इति ।
नित्यमत ऊर्ध्वम् एवं पर्वस्व् इत्य् एतावतैव सिद्ध आग्नेयेन स्थालीपाकेन यजत इति वचनम् आग्नेयेन स्थालीपाकेन यजत एव नर्षभ-दानम् इति नियमार्थम् ।
अथेतिकर्तव्यता धर्मसूत्रे–
“पर्वसु चोभयोर् उपवास
औपवस्तम् एव कालान्तरे भोजनं
तृप्तिश् चान्नस्य,
यच् चैनयोः प्रियं स्यात्,
तद् एतस्मिन्न् अहनि भुञ्जीयाताम्
अधश् च शयीयातां
मैथुन-वर्जनं च
श्वो-भूते स्थालीपाकः”
इति ।
पक्ष-सन्धिः पर्व ।
इह तद्-युक्तम् अहर् गृह्यते ।
तेषु पर्वसूभयोर् दम्पत्योर् उपवासो भोजन-लोपः ।
कालयोर् भोजनम् इत्य् एतत् पूर्वतन-सूत्रात्–
“सायं प्रातर् द्विजातीनाम् अशनं श्रुति-चोदितम्”
इति श्रुतेश् चाविशेषेणोभयोर् अपि कालयोर् भोजन-प्राप्ताव् आह– औपवस्तम् इति ।
यत् कालान्तर एक-काले भोजनं
तद् अप्य् औपवस्तम् एवोपवास एव ।
तद् अपि दिवा, न रात्रौ -
श्रौते तथा दर्शनात् - “नैतां रात्रिम् अश्नाति” इति ।
च-कारो ऽनुक्त-समुच्चयार्थः ।
पर्वसु यद् एककाले भोजनं
तत्र यावत्-तृप्त्य् अन्नं भुञ्जीयाताम् ।
धान्य-व्यञ्जनादिषु मांस-लवणादि-वर्जं
यद् एनयोर् दम्पत्योर् मनसः प्रियं स्यात्
तद् एतस्मिन्न् अहनि पर्व-दिने भुञ्जीयाताम्।
अधो भूमौ, न खट्वादौ ।
मैथुन-वर्जनम् अप्य् एतस्मिन्न् अहनि कुर्याताम् ।
श्वो-भूते द्वितीये ऽहनि पात्रासादनम् आरभ्य
स्थाली-पाकः कार्य इति व्याख्यातम् उज्ज्वलाकृता ।
पात्रासादनम् आरभ्येत्य् अनेन पात्रा-सादन-पूर्वतनं कर्म
पूर्वस्मिन्न् अहनि कर्तव्यम् इति बोध्यते ।
छान्दोग्य-गोभिल-गृह्ये विशेषः–
“न प्रवसन्न् उपवसेद् इत्य् आहुः
पत्न्या व्रतं भवतीति
यथा कामयेत तथा कुर्यात्”
इति ।
एतद् अप्य् अशक्तौ स्वीकार्यम् ।
पर्वणि वर्ज्यान् पदार्थान् आह भरद्वाजः–
“विवर्जयेद् यक्ष्यमाणः
स्त्री-तैलामिष-वृक्ष-जम् ।
कलहं विक्रयं चैव
प्रहासं बहु-भाषणम् ॥
तौर्यत्रिकं+++(=वाद्यम्)+++ वृथा-शय्यां
परान्नम् अनृतं तथा”
इति ॥
आमिषं मांसं माषादिकं च ।
वृक्षजो निर्यासः । स च श्वेतोऽप्य् अत्र निषिद्धः ।
‘य एव लोहितो यो वा
व्रश्चनान् निर्येषति
तस्य नाऽऽश्यं कामम् अन्यस्य’
इति श्रुतिस् तु
व्रतातिरिक्ताशने श्वेत-निर्यासाभ्यनुज्ञा-परा ।
तौर्यत्रिकं वाद्यम् ।
अनृत-वदनस्य सामान्यतो निषेधे सिद्धे
पुनर् निषेधः कर्माङ्गत्वार्थः ।
तेन श्रौतं प्रायश्चित्तम् अत्र कार्यम् ।
जाबालिः–
“शाकं मांसं मसूरं च
चणकान् कोद्रवांस् तथा ।
माषान् मधु परान्नं च
वर्जयेद् औपवस्तके”
इति ॥
मधु-शब्देनात्र क्षौद्रं गृह्यते-
मद्यस्य तु–“न मद्यं ब्राह्मणः पिबेत्” इत्य् अनेनैव निषेधसिद्धेः ।
औपवस्तकं पर्वदिनम् ।
कात्यायनोऽपि–
“लवणं मधु मांसं च
क्षारा येन च हूयते ।
औपवस्ते न भुञ्जीत
धान्यं रात्रौ न किञ्चन”
इति ॥ क्षार-शब्देन यस्य भक्षणे लालोत्पद्यते
तद् द्रव्यम् उच्यते ।
येन हूयत इत्यनेन याग-साधनत्वेन स्वीकृतं द्रव्यम् अपि
न भक्षणीयम् इत्य् उक्तं भवति ।
वाधूल-बौधायन-वैखानसाः–
“सर्वम् एवैतद् अहः कोशी-धान्यं वर्जयेद् अन्यत्र तिलेभ्यः”
इति । तिलवन् मुद्-गानाम् अपि ग्राह्यत्वम् उक्तं कात्यायनेन–
तिल-मुद्गाद् ऋते शैब्यं
सस्ये गोधूम-कोद्रवौ ।
चणकं देवधान्यं च
सर्वशाकं तथैक्षवम् ॥
सर्जिक्षारं यवक्षारं
टङ्कण-क्षारम् एव च ।
व्रतस्थो वर्जयेन् नित्यं
सामुद्रं लवणं तथा”
इति ॥ अत्र सामुद्रस्योपादानात्
सैन्धव-मानसादेर् अनिषेधः प्रतीयते ।
तस्य हविष्यत्वात् ।
तथा चोक्तम्–
“मुन्य्-अन्नानि पयः सोमो
मांसं यच् चानुपस्कृतम्+++(=??)+++ ।
अक्षारलवणं चैव
प्रकृत्या हविर् उच्यते”
इति ॥
अक्षारलवणं सैन्धवमिति सर्व-निबन्धकाराः ।
ब्रह्म-पुराणेऽपि–
“सैन्धवं लवणं चैव
यच् च मानस-सम्भवम् ।
पवित्रे परमे ह्य् एते
प्रत्यक्षम् अपि सर्पिषा”
इति ॥
छन्दोगपरिशिष्टे कात्यायनः–
“पूर्णमास्याम् अमायां च
अधःस्वापो विधीयते ।
अनाहिताग्नेर् अप्य् एष
पश्चाद् अग्नेर् विधीयते”
इति ॥
बौधायनः–
“पर्वसु न चाधीयीत,
न स्त्रियम् उपेयात्,
पर्वसु रक्षः-पिशाचान्य् अभिचारवन्ति भवन्ति”
इति ।
सूत्रे–
“पौर्णमास्यां प्रातर्-आशे जायापती सर्पिर्-मिश्रम् अश्नीतो
यद् अन्यन् माषेभ्यश् च,
न सुहितौ स्यातां,
प्राग् वत्सापाकरणाद् अमावास्यायां
कामं सुहितौ स्याताम्”
इति ।
सुहितौ तृप्तौ ।
पौर्णमास्यां न सुहितौ स्याताम्
अमावास्यायां तु सुहिताव् अपि स्याताम्
इतीत्थं यो विशेषः,
स न स्थालीपाके ।
तृप्तिश् चान्नस्येत्य् अविशेषेणोक्तत्वात् ।
सर्पिर्-मिश्रितम् एवाशनं कर्तुम् अशक्तेन
दधि-मिश्रितं वाऽप्य् अशितव्यम् ।
दध्ना पयसा वेत्य् आपस्तम्ब-वचनात् ।
अयं च राग-प्राप्त एव नित्येऽशने
सर्पिर्-आदि-नियमः क्रत्व्-अर्थो विधीयते ।
अशनं तु पुरुषार्थम् एव ।
तेनासामर्थ्यादिना यद्य् अशनं कर्तुं न शक्यते
तदा नियमानुग्रहार्थम् “अशनं न कर्तव्यम्” इति पितृभूतिः ।
भर्तृस्वाम्यप्य् आह–
“अशनं क्षुत्-प्रतिघातार्थं,
तस्यास्मिन्काले नियमः सत्याम् इच्छायाम्
अतो नाऽऽवर्तत इष्टि-बहुत्वे”
इति ।
पत्नी-नियमः
बह्वीनां पत्नीनाम् अमुख्या ऽनालम्भुका चेत्
तदा यागः कर्तव्य एव ।
ज्येष्ठा चेद् अनालम्भुका तदा न यागः कर्तव्यः ।
तद् उक्तं हेमाद्रौ गौतमेन–
“यजनीयेऽह्नि सम्प्राप्ते
यस्य भार्या रजस्वला ।
यागं तत्र प्रकुर्वीत
ज्येष्ठा चेन्नैवम् आचरेत्”
इति ॥ वसिष्ठोऽपि–
“बह्वीनाम् अपि पत्नीनां
ज्येष्ठा चेद् रजसाऽन्विता ।
नापरुध्य प्रकुर्वीत
यजनं हि विचक्षणः”
इति । कनिष्ठाम् अपरुध्य यागः कर्तव्य इति त्व् अर्थात्सिद्धं भवति ।
अस्ति च पाद्मं वचनम्–
“बह्वीनाम् एकपत्नीनां
कनिष्ठा रजसाऽन्विता ।
अपरुध्यापि कुर्वीत
यजनं विधिपूर्वकम्”
इति ॥ ज्येष्ठातोऽन्याः सर्वा अपि कनिष्ठ-शब्देन ग्राह्याः । न त्व् अन्तिमैव । अत एव–
“बह्वीनाम् अपि पत्नीनाम्
अमुख्या रजसान्विता ।
अपरुध्यापि कुर्वीत
यजनं विधिपूर्वकम्” ॥
इति स्मृत्यन्तरेऽमुख्येत्य् उक्तम् ।
ज्येष्ठपत्न्या मुख्यत्वं तु पाद्म उक्तम्–
“ज्येष्ठा पत्नी तु मुख्या स्याद्
यज्ञे दानेऽर्चने गृहे ।
तथा कर्माणि कुर्वत्स्तु
यथोक्त-फल-भाग्-भवेत्”
इति ॥ कौर्मेऽपि–
“ज्येष्ठपत्न्या विरहितं
कृतं यत् तु जनाधिप ।
तत् सर्वं विफलं याति
गज-भुक्त-कपित्थवत्”
इति ॥ वसिष्ठोऽपि–
“ज्येष्ठया सह कर्माणि
कुर्याद् यत्नेन भूपते ।
तया सह कृतं कर्म
सफलं जायते नृणाम्”
इति ।
ज्येष्ठपत्न्या राहित्येन कर्म-करणे यो दोष उक्तः
स तस्या विद्यमानत्वे द्रष्टव्यः ।
ज्येष्ठायां मृतायां
विद्यमानासु या ज्येष्ठा
सा मुख्यत्वेन द्रष्टव्या ।
एवं च विद्यमान-ज्येष्ठा-व्यतिरिक्ताः पत्नीर् अपरुध्यापि
यागः कर्तव्य
इति सिद्धं भवति ।
एतेन बह्वीनां पत्नीनाम् एकाऽप्य् ऋतुमती चेन्
न यागः कार्य इति परास्तम् ।
एतच् च प्रथम-प्रयोग-व्यतिरिक्ते–
“प्रक्रान्तम् अग्निहोत्रादि
कर्म यच् छ्रुति-चोदितम् ।
आर्तवाभिप्लुतां नारीं
विहाय कुरुते द्विजः”
इति कात्यायनवचने प्रक्रान्तम् इति श्रवणात् ।
“ज्येष्ठा वाऽथ कनिष्ठा वा
पत्नी यदि रजस्वला ।
प्रथमे चेत् प्रयोगे स्यान्
नोपरोधस् तदा5 मतः”
इति स्मृत्यन्तरेऽभिधानाच्च ।
प्रक्रान्तम् आरब्धम् एकवारम् अनुष्ठितम् इति व्याख्यातारः ।
ये तु प्रारब्धं सङ्कल्पादिना प्रक्रान्तम् इत्य् अर्थं वदन्ति
तन्-मते सङ्कल्पोत्तरं प्रथम-प्रयोगेऽप्य् उपरोध इति द्रष्टव्यम् ।
प्रयोगः
अथ प्रयोगः ।
कर्ता शुक्लचतुर्दश्यां प्रातरौपासनहोमानन्तरमौपासनाग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य सत्यधिकारे यावज्जीवं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति सङ्कल्पं कुर्यात् । दर्शपूर्णमासेष्ट्यारम्भोत्तरं न पार्वणस्थालीपाकावित्येतन्मतमेव स्त्री क्रियत इति निश्चिते सति सत्यधिकारे दर्शपूर्णमासेष्ट्यारम्भपूर्वतनकालपर्यन्तं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति सङ्कल्पे विशेषः ।
ततो गणपतिपूजनादिनान्दीश्राद्धान्तं कुर्यात् । अत्राग्निः प्रीयतामिति विशेषः । अथवा प्रधानसङ्कल्पात्पूर्वमेव गणपतिपूजनपुण्याहादिवाचनमातृकापूजननान्दीश्राद्धानि कृत्वाऽनन्तरं प्रधानसङ्कल्पः कार्यः ।
तत आरम्भार्थं चतुर्होतृसारस्वतहोमावन्वारम्भणस्थालीपाकं च कुर्यात् । यद्यपि चतुर्होतृहोमादिकं गृह्ये नोक्तं तथाऽपि दर्शपूर्णमासस्थालीपाकयोर्दर्शपूर्णमासेष्टिन्यायसाम्यात्केषाञ्चिद्दर्शपूर्णमासधर्माणां मातृदत्तेनोक्तत्वात्तदुपलक्षणेन चैतेषामप्यत्र प्राप्तिः । शिष्टाचारश्चाप्यत्रास्ति ।
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य दर्शपूर्णमासस्थालीपाकावारभमाणश्चतुर्होतारं सग्रहं होष्यामीति सङ्कल्प्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुचं दर्वीं वा स्रुवमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं सम्मार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निं परिस्तीर्य तूष्णीं परिषिञ्चेत् । न वा परिस्तरणपरिषेकौ ।
ततोऽग्निमलङ्कृत्य स्रुचि दर्व्यां वा सकृद्गृहीत्वाऽऽसादितां समिधमभ्याधाय, पृथिवी होतेत्यस्य चतुर्होतृमन्त्रस्य वाचस्पते वाचो वीर्येणेतिग्रहसञ्ज्ञकमन्त्रसहितस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । होमे विनियोगः । ‘ॐ पृथीवी होता० बृहस्पतिरुपवक्ता’ इति मनसोक्त्वा ‘ॐ वाचस्पते वाचो० मिन्द्रियाय स्वाहा’ इत्यग्नेर्दक्षिणतस्तिष्ठञ्जुहोति । वाचस्पतये ब्रह्मण इदं न मम ।
ततः परिस्तरणसत्त्वे तान्युत्तरे विसृजेत् । ऋष्यादिस्मरणे विकल्पः । ततः सारस्वतहोमौ दर्शपूर्णमासस्थालीपाकावारभमाणः सारस्वतौ होमौ होष्यामीति सङ्कल्प्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुचं दर्वीं वा स्रुवमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं सम्मार्गदर्भानवज्वलनदर्भान्समिद्द्वयमाज्यं चाऽऽसाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निं परिस्तीर्य तूष्णीं परिषिञ्चेत् । न वा परिस्तरणपरिषेकौ ।
ततोऽग्निमलङ्कृत्य स्रुवेण स्रुचि दर्व्यां वाऽष्टवारं द्विर्वा गृहीत्वाऽऽसादितं समिद्द्वयमग्नावभ्याधाय, पूर्णा पश्चादित्यस्य सोमः पूर्णमासस्त्रिष्टुप् । होमे विनियोगः । ‘ॐ पूर्णा प० मादयन्ता स्वाहा’ इत्यर्धाज्येनाग्नेर्दक्षिणतस्तिष्ठञ्जुहोति । पूर्णमासायेदं न मम ।
यत्ते देवा अदधुरित्यस्य सोमोऽमावास्या त्रिष्टुप् । होमे विनियोगः ।‘ॐ यत्ते देवा अ० सुवीर स्वाहा’ इत्यवशिष्टेनाऽऽज्येन तथैव जुहोति । अमावास्याया इदं न मम । ऋष्यादिस्मरणे विकल्पः । परिस्तरणसत्त्वे तान्युत्तरे विसृजेत् ।
अन्वारम्भणस्थालीपाकप्रयोगः
अथान्वारम्भणस्थालीपाकप्रयोगः ।
दर्शपूर्णमासस्थालीपाकावारभमाणोऽन्वारम्भणस्थालीपाकं करिष्य इति सङ्कल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽन्वारम्भणस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्नाविष्णू एकया चर्वाहुत्या यक्ष्ये । सरस्वतीमेकया चर्वाहुत्या यक्ष्ये । सरस्वन्तमेकया चर्वाहुत्या यक्ष्ये । अग्निं भगिनमेकया चर्वाहुत्या यक्ष्ये । वैशेषिकजयोपहोमे–चित्तं चित्तिमित्यादि प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्य्-अन्तमुक्त्वा, स्विष्टकृद्धोमे–अग्निं स्वीष्टकृतं हुतशेषेण यक्ष्य इत्य्-आदि समिदभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुवं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं हविरासादनार्थान्दर्भाञ्शूर्पं कृष्णाजिनमुलूखलं मुसलं चरुस्थालीचतुष्टयं मेक्षणचतुष्टयं सम्मार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् ।
“समोप्य व्युद्धारं जुहुयात्” इत्य्-आश्वलायनसूत्राच्छूलगवे चरुत्रयस्य पयसि स्थालीपाकं श्रपयित्वेत्येकत्रैव श्रपणदर्शनाच्चैकैव वा चरुस्थाली, एकमेव मेक्षणमुद्धरणार्थं पात्रचतुष्टयमेकमेव वा महदिति पात्रासादने विशेषः ।
ततोऽग्नेः पश्चात्स्वस्य पुरतः शूर्पं निधाय तस्मिन्पवित्रे संस्थाप्य दक्षिणहस्तेन प्रतिदैवतं तूष्णीं चतुरश्चतुरो मुष्टींस्तां तां देवतामभिध्यायन्निरुप्यान्वावापं कृत्वाऽग्नेरुत्तरतो हविः संस्थाप्य प्रोक्षणीः संस्कृत्य पवित्रेण पाणिना हविस्त्रिः प्रोक्ष्य पात्राण्युत्तानानि कृत्वा त्रिः सर्वाभिः प्रोक्षति ।
तत पत्न्यग्नेरुत्तरतः कृष्णाजिनावधूननादि फलीकरणान्तमाग्नेयस्थालीपाकवत्कुयात् ।
ततो होमकर्ता निरुप्तहविषः समं भागचतुष्टयं कृत्वाऽयमग्नाविष्णुभ्यामयं सरस्वत्यै, अयं सरस्वतेऽयमग्नये भगिने, इति क्रमेणाभिमृश्य चतसृषु स्थालीषूदकमानीय तत्र क्रमेण भागचतुष्टयमोप्याग्नौ स्थालीरधिश्रयति । यद्येकैव स्थाल्यासादिता स्यात्तदा तस्यामेव श्रपणपर्याप्तमुदकमानीय सर्वं हविस्तस्यामोप्याग्नावधिश्रयति । न वा निर्वापादि किन्तु पत्न्याऽवघातमात्रं कारणीयम् । पर्यग्निकरणं तु कर्तव्यमेवेति पक्षान्तरम् ।
ततः स्रुवं दर्वीं मेक्षणं च सम्मृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र हविवा सहाऽऽज्यस्य पर्यग्निकरणमिति विशेषः ।
तत6 आसादितान्दर्भानग्नेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शृतांश्चरून्क्रमेणाभिघार्योत्तरत उद्वास्याग्नेः7 पश्चादुदक्संस्थं बर्हिष्यासादयति । एकत्र श्रपणपक्ष एकस्यैव चरोः सत्त्वात्तमेकवारमेवाभिघार्याऽऽसादितेषु चतुर्षूद्धरणपात्रेषूपस्तीर्य तेषु तं समश उद्धृत्य, अयमग्नाविष्णुभ्याम् । अयं सरस्वत्यै । अयं सरस्वते । अयमग्नये भगिने, इति क्रमेणोदक्संस्थमिदानीं देवता निर्दिशेत् । यदा तूद्धरणपात्रमेकमेवाऽऽसादितं तदैकस्मिन्नेव पात्रे देशभेदेनोपस्तरणमुद्धरणं च ।
ततोऽदितेऽनुमन्यस्वेत्यादिभिः परिषिच्य तूष्णीं समिधमाधाय प्रधानहोमं कुर्यात् । प्रथमेन धृष्ट्याकारमेक्षणेन प्रथमचरोरुपहत्याग्नाविष्णुभ्यां स्वाहेति जुहोति । अग्नाविष्णुभ्यामिदं न मम ।
ततो द्वितीयेन मेक्षणेन द्वितीयचरोरुपहत्य सरस्वत्यै स्वाहेति प्रथमाहुतेः पुरस्ताज्जुहोति । सरस्वत्या इदं न मम ।
ततस्तृतीयेन मेक्षणेन तृतीयचरोरुपहत्य सरस्वते स्वाहेति द्वितीयाहुतेः पुरस्ताज्जुहोति । सरस्वत इदं न मम ।
ततश्चतुर्थेन मेक्षणेन चतुर्थचरोरुपहत्याग्नये भगिने स्वाहेति तृतीयाहुतेः पुरस्ताज्जुहोति । अग्नये भगिन इदं न मम । एकस्थालीपक्ष एकस्यैव मेक्षणस्याऽऽसादितत्वात्तेनैव ग्रहणम् ।
ततो दर्व्या वैशेषिकजयोपहोमं कुर्यात् । तत्र विशेषः । स्रुवेण दर्व्यां द्वादशगृहीतं गृहीत्वा द्वादश जयाञ्जुहोति । ते च सामान्यप्रयोग उक्ताः । पुनः सकृद्गृहीत्वा ‘ॐ प्रजापतिर्ज० भूव स्वाहा’ इति जुहोति । प्रजापतय इदं न मम ।
ततस्तेन तेन मेक्षणेन तस्य तस्य चरोरुत्तरार्धात्सकृदुपहत्याग्नये स्विष्टकृते स्वाहेतीशान्यामसंसक्तामितराभिराहुतिभिर्जुहोति । अग्नये स्विष्टकृत इदं न मम । एक मेक्षणं चेत्तेनैव ग्रहणम् । ततो मेक्षणप्रहरणं कृताकृतम् ।
ततः परिस्तरणानि विसृज्य समस्तव्याहृतीभिः प्रायश्चित्तहोमं कृत्वोत्तरपरिषेकं कृत्वा संस्थाजपेनोपस्थायाग्निं सम्पूज्य भस्म धृत्वाऽऽचार्याय मिथुनौ गावौ दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा ब्राह्मणान्भोजयित्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
एते च चतुर्होतृहोमसारस्वतहोमान्वारम्भणस्थालीपाकाः कृताकृताः । सूत्रेऽनुक्तत्वात् ।
इत्यन्वारम्भणस्थालीपाकप्रयोगः ।
पार्वणस्थालीपाकयोः प्रयोगः
अथ पार्वणस्थालीपाकयोः प्रयोगः ।
अन्वाधानदिनेऽनाहिताग्निरौपासनहोमानन्तरमाहिताग्निश्चोपवसथीयदिवसकर्मसमाप्त्यनन्तरं सपत्नीक आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं सत्यधिकारे यावज्जीवं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति सङ्कल्पं कुर्यात् । दर्शपूर्णमासेष्ट्यारम्भोत्तरं पार्वणस्थालीपाकौ न कार्यावित्येतन्मतमेव स्वी क्रियत इति निश्चिते सति दर्शपूर्णमासेष्ट्यारम्भपूर्वतनकालपर्यन्तं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति सङ्कल्पे विशेषः । वस्तुतस्तु करणपक्ष एव युक्तः ।
ततो गणेशं सम्पूज्य पुण्याहादि वाचयित्वाऽग्निः प्रीयतामिति वदेत् । एतदन्तं प्रथमप्रयोग एव न तु प्रतिप्रयोगम् ।
ततः पुनराचमनप्राणायामदेशकालसङ्कीर्तनानि कृत्वा श्रीपरमेश्वरप्रीत्यर्थं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्ये । तत्रेदानीं पूर्णमासस्थालीपाकेन श्वो यष्टाह इति सङ्कल्पं कुर्यात् । सद्यःपक्षे सद्यो यक्ष्य इति । दर्शे तु दर्शस्थालीपाकेन श्वो यष्टाह इत्येतावानेव सङ्कल्पः । दर्शस्थालीपाकस्तु द्व्यहकाल एव । पूर्णमासस्थालीपाकेन यष्टाहे दर्शस्थालीपाकेन यष्टाह इति भिन्नौ वा सङ्कल्पौ ।
एवं सङ्कल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पूर्णमासस्थालीपाकयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अग्निमेकया चर्वाहुत्या यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्ये । एते देवते श्वो यष्टाह इत्युक्त्वा व्याहृतिभिरन्वाधानसमिधोऽभ्यादध्यात् । सद्यःपक्षे सद्यो यक्ष्य इति । एवं दर्शे । तत्र दर्शस्थालीपाकयागकर्मणीति विशेषः ।
ततोऽग्निं परिस्तीर्य पात्रासादनाद्यर्थदर्भांश्छित्त्वा मुष्टिं बद्ध्वौपासनाग्नेरुपरि यथा न पतति तथा निदधाति । श्रौते दृष्टत्वात्सायंहोमोत्तरं वा परिस्तरणम् । अस्मिन्दिने दम्पती माषमांसलवणक्षारादिवर्जं सर्पिर्मिश्रमशक्तौ दधिमिश्रं पयोमिश्रं वा येन धान्येन यक्ष्यमाणस्तद्धान्यवर्जं चाश्नीतः । अशक्तावेतदप्यश्नीतः ।
ततः श्वोभूते प्रातरौपासनहोमानन्तरं श्रौताग्निमांश्चेदिष्ट्युत्तरमुत्तरेणाग्निं दर्भानास्तीर्य8 तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रं तण्डुलप्रस्कन्दनार्थं पात्रं शूर्पं कृष्णाजिनमुलूखलं मुसलं चरुस्थालीं मेक्षणमुपवेषं हविरासादनार्थं दर्भान्सम्मार्गदर्भानवज्वलनदर्भानाज्यं समिधमित्यासाद्य पवित्रे कृत्वाऽपरेणाग्निं शूर्पं निधाय तस्मिन्पवित्रे निधाय तूष्णीं चतुरो मुष्टीन्निरुप्योत्तरेणाग्निं व्रीहिमच्छूर्पं निधाय प्रोक्षणीः संस्कृत्य शूर्पस्थान्व्रीहीन्प्रोक्ष्य पात्राण्युत्तानानि कृत्वा प्रोक्षति ।
ततः पत्न्यग्नेरुत्तरतः कृष्णाजिनं बहिर्विशसनं त्रिरवधूय प्रत्यग्ग्रीवमुपरिष्टाल्लोम तदास्तीर्य तस्य भसत्प्रदेशमुपसमस्य तत्रोलूखलं संस्थाप्य तस्मिन्व्रीहीनोप्याऽऽसीनैव मुसलेनावहत्योलूखलस्य पुरस्ताच्छूर्पं निधायोलूखलस्थांस्तण्डुलाञ्छूर्पे निक्षिप्य कृष्णाजिनस्योत्तरतस्त्रिर्निष्पूय तुषान्प्रध्वंसयित्वा (स्य) तांस्तुषान्दक्षिणहस्तेन कृष्णाजिनस्याधस्तान्निक्षिपत्यनिरीक्षन्( माणा )। ततो दक्षिणहस्तेनैव निक्षिप्तांस्तुषान्निपीड्याप उपस्पृश्य तण्डुलान्विविच्य प्रस्कन्दनार्थ आसादिते पात्रे प्रस्कन्दयित्वा(न्द्य) तानादायोलूखले प्रक्षिप्य त्रिष्फलीकृत्य फलीकरणानि कृष्णाजिनस्योत्तरतो निक्षिप्य तण्डुलान्प्रक्षाल्याग्नेः पश्चात्प्रक्षालनोदकं निनयति ।
ततः क9 र्ता प्रक्षालितांस्तण्डुलांश्चरुस्थाल्यामोप्य मेक्षणेनाऽऽलोड्य श्रपयित्वा दर्वीं मेक्षणं च सम्मृज्याऽऽज्यविलापनादि पवित्राभ्याधानान्तं कुर्यात् । तत्राऽऽज्येन सह चरोरपि पर्यग्निकरणम् ।
तत आसादितान्दर्भानग्नेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चादास्तृते बहिष्याज्यस्योत्तरत आसाद्याग्निं परिषिञ्चेत् । अथवा पात्रासादनान्ते कृष्णाजिनमास्तीर्यानास्तीर्य वा पत्न्याऽवहननमात्रं कारयित्वा त्रिष्फलीकृत्य फलीकरणान्युत्तरतो निरस्येत् ।
ततो दर्वीसम्मार्गादि पवित्राभ्याधानान्तं दर्भास्तरणपक्षे तदपि कृत्वा शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चाद्दर्भेषु दर्भास्तरणाभावपक्षे भूमावेव निधायाग्निं परिषिञ्चेत् । एतत्प्रयोगद्वयं सर्वेषु स्थालीपाकेषु ज्ञेयम् ।
ततस्तूष्णीं सादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीप्तेऽग्नौ जुहोति । ‘ॐ अग्नये स्वाहा’ इति भार्यान्वारब्धो जुहोति । अग्नय इदं न मम । पुनर्भूय उपहत्य, ‘ॐ अग्नये स्विष्टकृते स्वाहा’ इति भार्यान्वारब्धोऽसंसक्तां पूर्वाहुत्यो त्तरार्धपूर्वार्धे जुहोति । अग्नये स्विष्टकृत इदं न मम । अन्वारम्भो न वा । ततो मेक्षणमग्नौ प्रक्षिपेत् । न वा प्रक्षेपः ।
ततः परिस्तरणानि विसृज्य व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वोत्तरं परिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं सम्पूज्य ललाटे विभूतिं धृत्वा भूयसीं दक्षिणां ब्राह्मणेभ्यो दत्त्वा ब्राह्मणान्सम्भोज्य विष्णुं संस्मरेत् । नात्रर्षभदानम् । समिदभ्याधानादिः प्रयोगः प्रदर्शितप्रयोगप्रकारद्वयेऽपि समानः । “आग्नेयेन स्थालीपाकेन यजते” इति पुनर्वचनाज्ज्ञापकात् । “अत ऊर्ध्वं दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः” इत्य्-आपस्तम्बोक्तेश्च । एवमेव दर्शे । अत्र सङ्कल्पात्पूर्वं चेत्स्त्रीरजस्वला तदा द्वितीयादिनिषिद्धव्यतिरिक्तपञ्चमादिदिवसे द्व्यहकालं सद्यस्कालं वाऽन्तरितं पौर्णमासस्थालीपाकं कुर्यात् । प्रथमदर्शपूर्णमासस्थालीपाकयोराशौच आरम्भो न भवति । न चासगोत्रेण कारणीयावेताविति वाच्यम् । प्रथमप्रयोगे मुख्यद्रव्यालाभेनानारम्भ इव मुख्यकर्तुरधिकाराभाववशेनानारम्भस्यैव युक्तत्वात् । दर्शस्थालीपाकस्त्वन्तरितोऽपि द्व्यहकाल एव कार्यः । अनेकभार्यस्य विद्यमानासु भार्यासु मध्ये ज्येष्ठा चेद्भार्या सङ्कल्पात्पूर्वं रजस्वला तदा स्थालीपाकः पञ्चमादिदिवसेष्वेव कार्यः । सङ्कल्पोत्तरं रजस्वला चेत्तदा तां गृहान्तरे संस्थाप्य स्थालीपाकः स्वकाल एव कर्तव्यः । प्रथमे प्रयोगे तु सङ्कल्पादुत्तरमपि सर्वासामसर्वासां वा पत्नीनां रजोदर्शने दर्शपूर्णमासौ नैव भवत इति केचित् । भवत इत्यन्ये ।
यदि विवाहोत्तरं दर्शपूर्णमासस्थालीपाकयोरनुष्ठानं न कृतमनन्तरमग्निविच्छेदः, बहुकालोत्तरं पुनः सन्धानं यदा क्रियते तदा दर्शपूर्णमासस्थालीपाकयोरारम्भकाले रजोदोषप्रसक्तिः । यदा वा दशवार्षिक्यादिवधूलाभे विवाहकालेऽपि रजोदोषप्रसक्तिस्तत्र प्रथमारम्भो न भवति । एवमाग्रयणस्थालीपाकादिष्वपि ।
यदि स्वकाले दर्शपूर्णमासस्थालीपाकावनारब्धौ तदा विभ्रष्टेष्टिदेवतोद्देशेन स्थालीपाकाञ्श्रपयेत् । श्रपणकाले प्रथमतृतीयचर्वोरुपरि गतं मण्डमादायैन्द्रे चरौ प्रक्षिपेत् ।
तत आपूर्विकतन्त्रेणैवाऽऽज्यसंस्कारादि परिषेकान्तं कृत्वा तूष्णीं समिधमाधाय, ‘ॐ अग्नये स्वाहा । ॐ इन्द्राय स्वाहा । ॐ सोमाय स्वाहा’ इत्य्-आहुतित्रयं हुत्वा स्विष्टकृदाद्युत्तरं तन्त्रमापूर्विकधर्मेण कुर्यात् । प्रथमे दर्शस्थालीपाकेऽतिपन्न आगामिदर्शे विभ्रष्टस्थालीपाकं कृत्वा स्वकाले स्थालीपाकं कुर्यादित्येके ।
विभ्रष्टस्थालीपाकं कृत्वा गौणकालेऽपि प्रथमदर्शस्थालीपाकानुष्ठानमित्यन्ये ।
पथिकृद्वैश्वानर्यावेव कुर्यान्न तु विभ्रष्टस्थालीपाकमित्यपरे ।
मम तु पौर्णमासस्थालीपाकारम्भेण दर्शस्थालीपाकस्याऽऽरब्धत्वान्न विभ्रष्टस्थालीपाक इति युक्तं प्रतिभाति । अन्यथा पृथगन्वारम्भणस्थालीपाकोऽप्यारम्भनिमित्तः स्यादिति ।
पिण्डपितृयज्ञारम्भात्पूर्वं यदि पत्नी रजस्वला तदाऽग्रिमदर्शे सप्तहोतारं हुत्वा पिण्डपितृयज्ञ आरब्धव्य इति शतद्वयीव्याख्यायाम् । एवमाशौचेऽपि ।
इति दर्शपूर्णमासस्थालीपाकप्रयोगः ।
आग्रयणम्
अथाऽऽग्रयणम् ।
तच्च यद्यपि गृह्ये नोक्तं तथाऽपि “चतुःशरावमोदनं पक्त्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो हुत्वा तद्व्यञ्जनं भोजयति” इतिश्रौतसूत्रोक्तानुकल्पाश्रितगृह्योक्तसामान्यस्थालीपाकविधिना कर्तव्य ए(मे)व । आचारात् । सूत्रकारेणानुक्तत्वात्कृताकृतः(म्) । करणपक्षे प्रतिसव्ँवत्सरं श्रोताग्रयणारम्भपर्यन्तं कर्तव्य ए(मे)व न तु तदनन्तरम् । अकरणपक्षे नवान्नभक्षणे दोषोऽपि नास्ति । विधानाभावात् । आचारानुरोधात्करणं वरम् ।
तस्य कालः श्रौतसूत्रे–
“यदीष्ट्या यदि पशुना यदि सोमेन तैरमावास्यायां पौर्णमास्यां वैव यजेत” इति ।
अत्रामावास्यापौर्णमासीशब्दाभ्यां तदुत्तरवर्तिन्योः प्रतिपदोरपि ग्रहणमिति वैजयन्तीकारः । एतत्समानार्थक आपस्तम्बसूत्रे रामाण्डारस्त्वमावास्यापौर्णमासीशब्दाभ्यां तदन्त्यक्षणो गृह्यते, तेन तद्वत्यहोरात्रे भवतीत्याह ।
माधवोऽपि–“इष्ट्यादिविकृतिः सर्वा पर्वण्येवेति निर्णयः” इति ।
अत्र देवनक्षत्राणि रेवतीं चाऽऽह बौधायनः–
“अपि वा देवनक्षत्रे रेवत्यां वाऽऽग्रयणेष्टिं कुर्वीत” इति ।
देवनक्षत्रे कर्मकर्तव्यताविषये श्रुतिरपि-
“यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते” इति । रेवतीनक्षत्रे कर्मकर्तव्यताविषयेऽप्यस्ति श्रुतिः–
“तस्माद्रेवत्यां पशूनां कुर्वीत । यत्किञ्चार्वाचीन सोमात्प्रैव भवति”10 इति ।
देवनक्षत्राणि कानीत्यपेक्षायां तत्रैवोक्तम्–
“कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि” इति ।
एतानि नक्षत्राण्यापूर्यमाणपक्षान्तर्वर्तीन्येव ग्राह्याणि न तु कृष्णपक्षान्तर्वर्तीन्यपि । तेन शुक्लपक्षान्तर्वर्तिनक्षत्रेष्वेव विकृतिर्भवति । तत्र पर्वणः सम्पूर्णत्वेऽपराह्णसन्धौ वा तद्दिने प्रकृतिप्रधानानुष्ठानाभावाद्विकृतिं कृत्वा प्रकृतेरुपक्रमः कार्यः । यदीष्ट्येतिवाक्यविहितकाललाभादिति मीमांसकानां याज्ञिकानां च सम्प्रतिपन्नमेव । पूर्वाह्णसन्धौ त्वौदयिकपर्वणः प्रकृत्यवरुद्धत्वात्पूर्वपर्वण्येवोपदिष्टपर्वकालत्वानुरोधेनातिदेशप्राप्तं प्रातःकालं द्व्यहकालतावद्बाधित्वा विकृत्यनुष्ठानं युक्तमिति मीमांसकाः ।
याज्ञिकास्तु–आवर्तनतत्पूर्वसन्ध्योः प्रकृत्यनुष्ठानानन्तरं सन्धिदिन एव विकृत्यनुष्ठानं कर्तव्यमिति वदन्तीति कालतत्त्वविवेचने ।
आग्रयणे विशेषः श्रुतावुक्त आग्रयणेष्टिं प्रकृत्य–
“यस्मिन्कालेऽमावास्या सपद्येत तयेष्ट्वाऽथैतया यजेत यदि
पौर्णमासी स्यात्तयेष्ट्वाऽथ पौर्णमास्या यजेत” इति ।
आवर्तनात्पूर्वमिति शेषः । सम्पद्येत प्राप्नुयात् । तयाऽमावास्यया । एतयाऽऽग्रयणेष्ट्या । यदि पौर्णमास्यावर्तनकालात्पूर्वं प्राप्नुयात्तयाऽऽग्रयणेष्ट्येष्ट्वा पौर्णमास्या यजेतेति ।
मण्डनोऽपि–
“आवर्तनात्प्राग्यदि पर्वसन्धिः कृत्वा तु तस्मिन्प्रकृतिं विकृत्याः ।
तदैव यागः परतो यदि स्यात्तस्मिन्विकृत्याः प्रकृतेः परेद्युः” इति ॥
अस्यार्थः–आवर्तनात्पूर्वं यदि पर्वसन्धिस्तस्मिन्सन्धिदिने प्रथमतः प्रकृतिं कृत्वा पश्चाद्विकृतिं कुर्यात् । यदा त्वावर्तनात्परः सन्धिस्तदा सन्धिदिने विकृतिरेव भवति प्रकृतिस्तु परेद्युरेवेति । धुर्तस्वामिकपर्दिस्वाम्यादयोऽप्येवमाहुः । तत्राऽऽग्रयणं त्रिविधं व्रीह्याग्रहणं यवाग्रयणं श्यामाकाग्रयणं चेति ।
तत्र सूत्रम्–
“व्रीहीणामग्रपाकस्य यजते तथा श्यामाकानां
यवानामग्रपाकस्य यजते” इति ।
अग्रपाकस्तत्कालपाकः । एतेषां काला वैखानसापस्तम्बभरद्वाजैरुक्ताः–
“शरदि व्रीहिभिर्वसन्ते यवैर्वर्षासु श्यामाकैः” इति ।
तत्र यवाग्रयणं कृताकृतम् । तदुक्तं वैजयन्त्यां बाह्वृच्ये–11 ‘यवाग्रयणं कृताकृतम्’ इति । एतच्च नवान्नाशनाधिकारार्थम् ।
तथा च सूत्रम्–
“आग्रयणेष्टिं व्याख्यास्यामस्तया नानिष्ट्वा नवाना-
मोषधीनां फलान्यश्नाति ग्राम्याणामारण्यानां च” इति ।
तयाऽऽग्रयणेष्ट्याऽनिष्ट्वा नवानां ग्राम्याणामारण्यानां चौषधीनां फलानि नाश्नातीत्यर्थः ।
एतत्सर्वं मण्डनेन स्पष्टमुक्तम्–
“श्यामाकान्वैणवान्व्रीहीन्यवान्वाऽऽग्रयणात्पुरा ।
न भुञ्जीतेति विस्पष्टं यज्ञपार्श्वे निरूपितम् ॥
कोशीधान्यानि शाकानि वृक्षादीनां फलानि च ।
अनिष्ट्वाऽऽग्रयणेनापि काममेतानि भक्षयेत् ॥
कोशीधान्येषु वा किञ्चिदभोज्यमवगम्यते ।
भरद्वाजादिसिद्धान्तान्मुद्गमाषतिलान्यपि ॥
नवेषु च नवान्नानि नाद्यादाग्रयणात्पुरा ।
व्रीहिश्यामाकनीवारान्यवान्वेणुयवानपि ।
शालीन्मुद्गांश्च गोधूमान्कङ्गूनिति विवर्जयेत् ।
अन्यानि कामममश्नीयादिति गर्गेण भाषितम् ॥
हरिमन्थकलायानां फलं नाश्नन्ति केचन।
यानि चान्यानि भक्ष्याणि प्रोक्तानि समनन्तरम् ॥
तान्यप्यपक्वावस्थायामश्नीयात्कामतः12 सुधीः ।
अपक्वधान्यमात्रोपलक्षणं हरिता यवाः” इति ॥
सङ्कर्षकाण्डस्य भाष्यकारेण वर्णितम्–
“धान्यान्तरं यवप्रख्यं भारद्वाजीयभाष्यकृत् ।
अब्रवीद्धरितयवं न पुनर्हीतरं यवम् ॥
तेन तद्वर्जमन्यानि फलान्यपि न भक्षयेत्” इति ।
हरितमन्थाश्चणकाः । कलायाः सतीनाः । एतासामोषधीनां फलं चणककलायरूपं केचनाऽऽचार्या नाश्नन्तीत्यर्थः । आग्रयणात्पूर्वं नवान्नाशननिषेध
उभयोः समः ।
तथा च मण्डनः–
“नवाशननिषेधोऽयं दम्पत्योरुभयोः समः” इति ।
नवस्वरूपमप्युक्तं तेनैव–
“नवस्यावध्यपेक्षत्वादधुनाऽवधिरुच्यते ।
कियद्दूरे पुराणत्वं नवत्वं कियदन्तिके ॥
सस्यानामवधिर्ज्ये(र्ज्यै)ष्ठी पौर्णमासी प्रसिद्धितः ।
आश्विनी पौर्णमासी तु भवेदत्रोत्तरावधिः ॥
तादृश्योरुभयोः पौर्णमास्योर्मध्ये यदुद्भवेत् ।
धान्यं तन्नवमित्याहुस्तकालाग्रयणं प्रति ॥
तदेव च पुराणं स्यादूर्ध्वं स्वाग्रयणेष्टितः13 ।
यथाऽऽग्रयणशास्त्रेषु नवत्वं तदपेक्षणे ॥
ये कालास्तस्य बुद्धिस्थाः स्वान्योन्यावधयो मताः ।
प्रावृट्कालात्परं पक्वं शरद्याग्रयणेन च ॥
ऊर्ध्वं वसन्तान्निष्पन्नं प्रावृडाग्रयणेन च ।
यस्मिन्नाग्रयणं कुर्यादृतौ तदृतुसम्भवम् ॥
धान्यं तन्नवमित्याहुरधः पक्वं पुरातनम्” इति ।
इदं चार्धाधानिन आहिताग्नेरपि न भवति । श्रौतेनैव सिद्धेः ।
मण्डनोऽपि–
“इति ब्रुवद्भिः सङ्कर्षकाण्डिभिर्न्यायसाम्यतः ।
अर्थादिदमपि प्रोक्तमर्धाधाने कृते सति ।
श्रोताग्रयणमेवास्य न स्मार्ताग्रयणं भवेत्” इति ।
स्वस्य करणाशक्तौ कृताग्रयणेन ऋत्विजा कारणीयः ।
तदाह मण्डनः–
“अकृताग्रयणो नास्य ऋत्विगाग्रयणे भवेत् ।
अग्निमानिति शङ्खेन धर्मशास्त्रे निरूपितम्” इति ।
नवान्नाशनाकरणेऽपि करणपक्ष इदं कार्यमेव ।
“प्रतिसव्ँवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याऽऽग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ।
एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः” इति याज्ञवल्क्योक्तेः ।
तत्र प्रथमाग्रयणं तु पर्वण्येव । द्वितीयादौ त्वनियमः ।
प्रयोगः
अथ प्रयोगः ।
उक्तकाले प्रातरौपासनं हुत्वाऽग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम सपत्नीकस्य नवानां व्रीह्यादिधान्यानां प्राशनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं व्रीह्याग्रयणस्थालीपाकं करिष्य इति सङ्कल्पं कुर्यात् । यदि तु केनापि निमित्तेन नवान्नप्राशनं न करोति तदा श्रीपरमेश्वरप्रीत्यर्थं व्रीह्याग्रयणस्थालीपाकं करिष्य इत्येवं सङ्कल्पः । यदि तु यस्मिन्वर्षे यस्य धान्यस्यानुत्पत्तिस्तदा तस्मिन्वर्षे तदीयाग्रयणस्य लोपः । प्रथमाग्रयणं गुरुशुक्रास्तमलमासादिषु न भवति । द्वितीयादिप्रयोगेष्वपि शुद्धकाललाभेऽस्तादौ न कार्यम् ।
ततो गणेशं सम्पूज्य पुण्याहादिवाचनं मातृकापूजनं नान्दीश्राद्धं च कुर्यात् । तत्रेन्द्राग्न्यादयः प्रीयन्तामिति वदेदिति प्रथमे प्रयोगे विशेषः ।
ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽऽग्रयणस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । इन्द्राग्नी विश्वान्देवान्द्यावापृथिव्यौ चैकैकया नवव्रीह्येकचर्वाहुत्या यक्ष्ये14 । स्विष्टकृद्धोमे–अग्निं स्विष्टकृतं हुतशेषचर्वाहुत्या यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरन्वाधानसमिदभ्याधानं कुर्यात् । पुरस्तात्स्विष्टकृतोऽज्यानीहोम इत्यस्मिन्पक्षेऽन्वाधाने प्रधानदेवतोल्लेखानन्तरमज्यानीहोमदेवतोल्लेखः कार्यः । स यथा । अज्यानीहोमे– इन्द्रमाज्याहुत्या यक्ष्ये । द्यावापृथिव्यावाज्याहुत्या यक्ष्ये । ग्रीष्मं हेमन्तं वसन्तं शरदं वर्षाश्चाऽऽज्याहुत्या यक्ष्ये । इदुवत्सरं परिवत्सरं सव्ँवत्सरं चाऽऽज्याहुत्या यक्ष्ये । देवान्पितुं चाऽऽज्याहुत्या यक्ष्य इत्युक्त्वाऽग्निं स्विष्टकृतं हुतशेषचर्वाहुत्या यक्ष्य इत्य्-आदि समिदभ्याधानान्तं कुर्यात् ।
ततोऽग्निं परिस्तीर्येत्यादि । पात्रासादने दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं चतुःशरावपरिमितचरुश्रपणपर्याप्तां चरुस्थालीं मेक्षणं निर्वापार्थमेकं शरावं सम्मार्गदर्भानवज्वलनदर्भानाज्यं समिधं चेत्यासादयेत् । मेक्षणप्रहरणपक्षे शरावासादनोत्तरं मेक्षणासादनम् ।
ततः पवित्रे कृत्वाऽग्नेः पश्चाच्छूर्पं निधाय तस्मिन्पवित्रे प्रागग्रे संस्थाप्याऽऽसादितं शरावमादाय व्रीहिभिः पूरयित्वा तेन शूर्पे सर्वा देवता अभिध्यायन्निर्वपति । एवं पुनस्त्रिवारम् ।
तत उत्तरेणाग्निं निरुप्तव्रीहिमच्छूर्पं निधायाज्यानीहोमं कुर्यात् । स यथा । उत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुचं स्रुवमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं सम्मार्गदर्भानवज्वलनदर्भान्होमपर्याप्तमाज्यं पञ्च समिधश्चाऽऽसाद्य पूर्वकृते एव पवित्रे गृहीत्वा प्रोक्षणीः संस्कृत्याज्यानीहोमार्थानि पात्राण्युत्तानानि कृत्वा प्रोक्ष्य स्रुवस्रुचोर्निष्टपनादि पुनराहारमाज्यं त्रिरुत्पूयेत्येतदन्तं कृत्वा पवित्रे प्रज्ञाते निदध्यात् । अन्यकरणपक्षेऽस्त्येव प्रहरणं नाग्नेः परिस्तरणं पूर्वकृतपरिस्तरणेनैव सिद्धेः ।
ततस्तूष्णीं परिषिच्य स्रुचि स्रुवेण पञ्च गृहीत्वा पञ्च समिधोऽभ्याधाय शतायुधायेत्यादीनां पञ्चानां मन्त्राणामग्निर्ऋषिः । प्रथमस्येन्द्रो देवता । द्वितीयस्य द्यावापृथिव्यौ । तृतीयस्य ग्रीष्मो हेमन्तो वसन्तः शरद्वर्षाश्च । चतुर्थस्येदुवत्सरः परिवत्सरः सव्ँवत्सरश्च । पञ्चमस्य देवाः पितुश्च । सर्वेषां जगती छन्दः । होमे विनियोगः । इत्यृष्यादि स्मरेत् । न वर्ष्यादिस्मरणमत्र । ‘ॐ शतायुधाय० विश्वा स्वाहा’ । इन्द्रायेदं न मम । ‘ॐ ये चत्वारः० सर्वे स्वाहा’ द्यावापृथिवीभ्यामिदं न मम । ‘ॐ ग्रीष्मो हेमन्त० स्याम स्वाहा’ । ग्रीष्माय हेमन्ताय वसन्ताय शरदे वर्षाभ्यश्चेदं न मम । ‘ॐ इदुवत्सराय० हताः स्याम स्वाहा’ इदुवत्सराय परिवत्सराय सव्ँवत्सराय चेदं न मम । ‘ॐ भद्रान्नः श्रेयः० स्योनः स्वाहा’ । देवभ्यः पितवे चेदं न मम । इति पञ्चाज्यानीरग्नेर्दक्षिणतस्तिष्ठन्हुत्वा स्थालीपाकपात्रतः प्रोक्षणीपात्रमादाय प्रोक्षणीः संस्कृत्य हविष्प्रोक्षणादि चतुःशरावपरिमितचरुश्रपणान्तं कुर्यात् ।
ततश्चर्वभिघारणादि बर्हिष्यासादनान्तं कृत्वाऽदित इत्य्-आदिभिरग्निं परिषिच्याऽऽसादितामेकां समिधमभ्यादध्यात् ।
ततो मेक्षणेन चरोरुपहत्य ‘ॐ इन्द्राग्निभ्या स्वाहा’ इति जुहोति । इन्द्राग्निभ्यामिदं न मम ।
ततः पुनस्तथैवोपहत्य ‘ॐ विश्वेभ्यो देवेभ्यः स्वाहा’ इति जुहोति । विश्वेभ्यो देवेभ्य इदं न मम15 । पुनस्तथैवोपहत्य ‘ॐ द्यावापृथिवीभ्या स्वाहा’ इति ।द्यावापृथिवीभ्यामिदं न मम । अत्र वाऽज्यानीहोमः । अस्मिन्पक्षे नाऽऽज्यसंस्कारः । संस्कृताज्यस्य सत्त्वात् । प्रत्याहुतिसमिदभ्याधानं भवत्येव । इध्मस्याभावात् । अज्यानीहोमस्याकरणमेव वा ।
ततो मेक्षणेनोत्तरार्धाद्भूय उपहत्य ‘ॐ अग्नये स्विष्टकृते स्वाहा’ इतीशान्यामितराहुतिभिरसंस्पृष्टां जुहोति । अग्नये स्विष्टकृत इदं न मम । ततो मेक्षणमनुप्रहरेन्न वा प्रहरणम् ।
ततः परिस्तरणानि विसृज्य दर्व्या व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वाऽदितेऽन्वम स्था इत्य्-आदिभिरुत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थायाग्निं सम्पूज्य भस्म धृत्वाऽऽचार्याय दक्षिणां दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
ततो हुतशेषमिश्रितेन सव्यञ्जनेन नवान्नेन ब्राह्मणान्सम्भोज्य स्वयं प्राणाहुतिभ्यः प्राक्,
भद्रान्न इति मन्त्रस्य विश्वे देवाः पितुस्त्रिष्टुप् । नवव्रीह्यन्नाशने विनियोगः । ‘ॐ भद्रान्नः श्रेय० स्योनः’ इति मन्त्रमुक्त्वा प्राणाहुत्यादिविधिना नवान्नमिष्टबन्ध्वादियुतो भुञ्जीत । हुतशेषमिश्रान्नस्य भुक्तस्य वमने भक्षितेडाभागवमनप्रायश्चित्तमेव कार्यम् ।
तच्चाऽऽधानदीपिकायाम्–
“इडाभागे भक्षिते तु वमनं वै भवेद्यदा ।
आभिर्गीर्भिरिमं मन्त्रं दशवारं जपेत्तदा ॥
स्नानं कृत्वा मार्जनं च तस्य दोषप्रशान्तये” इति ॥
पूर्वं स्नानं शुद्ध्यर्थं तूष्णीं कृत्वाऽऽभिर्गीर्भिरिति मन्त्रेण पुनः स्नानं मार्जनं च कृत्वा दशवारमाभिरितिमन्त्रजपः कार्यः ।
“अनेन मार्जनं कृत्वा तस्य दोषप्रशान्तये” इति पाठे तु–आभिरिति मन्त्रेण मार्जनं कृत्वैतस्यैव मन्त्रस्य दशवारं जपः कार्य इति प्रयोगो द्रष्टव्यः । पूर्वं स्नानं त्वर्थसिद्धम् । अयमेव पाठो युक्तः ।
इति व्रीह्याग्रयणस्थालीपाकः ।
यवाग्रयणम्
अथ यवाग्रयणम् ।
तच्च वसन्ते । तत्र यवाग्रयणस्थालीपाकं करिष्य इति सङ्कल्पवाक्यम् । नूत नयवमयश्चरुः । एतमु त्यं मधुना सय्ँयुतं यवम्’ इति ‘भद्रान्नः श्रेयः’ इत्यस्य स्थाने मन्त्र इति विशेषः । अन्यत्समानम् ।
एतमु त्यमित्यस्य मन्त्रस्य विश्वे देवा यवान्नं जगती । नूतनयवान्नप्राशने विनियोग इति ऋष्यादिकं ज्ञेयम् । एतच्च यवाग्रयणं कृताकृतम् ।
श्यामाकाग्रयणम्
अथ श्यामाकाग्रयणम् ।
श्यामाकाग्रयणस्थालीपाकं करिष्य इति सङ्कल्पवाक्यम् । नूतनश्यामाकमयश्चरुः । सोमो देवता । स्विष्टकृद्द्वितीयम् ।
अग्निः प्रथमः प्राश्नात्वित्यस्य मन्त्रस्य विश्वे देवाः श्यामाकान्नमनुष्टुप् । नूतनश्यामाकान्नाशने वियोगः । ‘ॐ अग्निः प्रथमः प्रा० चर्षणिः’ इति नूतनश्यामाकान्नाशनमन्त्र इति विशेषः । समानमन्यत् ।
अथवा श्यामाकाग्रयणसिद्ध्यर्थं पार्वणस्थालीपाके वा श्यामाकतृणमयं बर्हिः कर्तव्यम् । अथवा नूतनश्यामाकान्गवे दत्त्वा तस्याः क्षीरेण सायम्प्रातरौपासनहोमौ होतव्यौ । तेनैव तत्सिद्धिः । व्रीह्याग्रयणस्थालीपाककरणाशक्तौ नवैर्व्रीहिभिरेव पार्वणस्थालीपाकौ कार्यौ । अथवा नवान्व्रीहीन्गवे दत्त्वा तस्याः क्षीरेण सायम्प्रातरौपासनहोमौ होतव्यौ ।
अनुकल्पान्तरमप्याह मण्डनः–
“गृह्ये बौधायनेनोक्तं नवेष्टिश्चेन्न सम्भवेत् ।
ब्राह्मणे भोजनं दद्यात्कुर्याद्वा वैश्वदेविकम्” इति ॥
इदं च सूत्रोक्तानुकल्पासम्भवे ज्ञेयम् । इदं चाऽऽग्रयणं मलमासास्तादिषु न भवति । शुद्धकालस्य सम्भवात् । पुरातनधान्याभावे त्वत्रापि भवति । यदि दैवान्मानुषाद्वा प्रतिबन्धाच्छरत्काल आग्रयणं न जायेत तदा हेमन्ते शिशिरे वाऽतीतमाग्रयणं कुर्यात् ।
इत्य्-आग्रयणस्थालीपाकः ।
गर्भाधानम्
अथ गर्भाधानम् ।
तत्राऽऽदौ प्रथमरजोदर्शने मासपक्षादीनां फलमुच्यते ।
तत्र मासफलं विधानमालायां वाराहे–
“आद्यर्तौ विधवा नारी चैत्रमासे भवेद्ध्रुवम् ।
वैशाखे बहुपुत्रा स्याज्ज्येष्ठे रोगातुरा भवेत् ॥
आषाढे त्वनपत्या स्याच्छ्रावणे धनिनी भवेत् ।
भाद्रे तु दुर्भगा क्लीबा ह्याश्विने च तपस्विनी ॥
कार्तिके विधवा बाला मार्गशीर्षे बहुप्रजा ।
पौषे स्यात्पुंश्चली नारी माघे पुत्रसुखान्विता ॥
फाल्गुने सुखसम्पन्ना प्रथमर्तौ फलं स्मृतम्” इति ।
पक्षफलं स्मृतिचन्द्रिकायाम्–
“शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत् ।
कृष्णस्य दशमी यावन्मध्यमं फलमादिशेत् ॥
एकादश्यादिषु फलमधमं परिकीर्तितम्” इति ।
तिथिफलमपि तत्रैव–
“वैधव्यदा हि प्रतिपद्द्वितीया पुत्रवर्धिनी ।
सौभाग्यदा तृतीया च चतुर्थी सुखनाशिनी ॥
पञ्चमी सुखदा चैव षष्ठी सन्ततिनाशिनी ।
सप्तमी धननाशाय पुत्रसौभाग्यदाऽष्टमी ॥
नवमी क्लेशदा स्त्रीणां दशमी च सुखप्रदा ।
एकादश्यर्थनाशाय द्वादशी रतिवर्धिनी ॥
त्रयोदशी तु शुभदा दुर्भगा च चतुर्दशी ।
पौर्णमासी त्वमावास्या दुःखरोगविवर्धिनी” इति ॥
ज्योतिर्ग्रन्थान्तरे तु–
“आद्यर्तौ सुभगा नारी प्रतिपत्सु रजस्वला” इति । तथा– “सप्तमी धनवर्धिनी” इति । तथा–“अष्टम्यां राक्षसी नारी” इति । तथा–“एकादश्यां सुखान्विता16 । द्वादश्यां दुर्भगा नारी” इति । तथा–“पौर्णमास्यां सुपुत्रिणी” इति प्रतिपदादिद्वादश्यन्ततिथिषु विपरीतफलमुक्तम् ।
अत्र प्रतिपत्पूर्णिमासमीपस्थैव ग्राह्या । “वैधव्यदा हि प्रतिपत्” इत्यत्र त्वमासमीपस्था प्रतिपद्ग्राह्या । तस्याश्चन्द्रक्षयाविशेषेणामातुल्यत्वात् । सप्तमीनिषेधे कृष्णा ग्राह्या । एवमष्टम्येकादशीद्वादशीष्वपि ज्ञेयम् । पौर्णमासीनिषेधस्तु पौर्णमासीपूर्वार्धपरः17 । तस्य भद्रारूपत्वात् । विधिस्त्वितरांश इति ज्ञेयम् । वारफलं विधानमालायां वाराहे–
“आदित्ये विधवा नारी सोमे चैव मृतप्रजा ।
आत्मनो घातिनी भौमे बुधे कन्याप्रसूर्भवेत् ॥
गुरौ पुत्रवती नारी कन्यापुत्रप्रसूर्भृगौ ।
र्पौश्चल्यकारिणी मन्दे भर्तुरग्रे म्रियेत सा” इति ॥
सा रजोवती । नारदीये तु–
“रुग्णा पतिव्रता दुःखी पुत्रिणी भोगभागिनी ।
पतिप्रिया क्लेशभागी सूर्यवारादिषु क्रमात्” इत्युक्तम् ।
मृतप्रजेति कृष्णपक्षसोमवारविषयम् । पतिव्रतेति शुक्लसोमवारविषयम् । नातो विरोधः ।
नक्षत्रफलं वाराहे–
“अश्विनी सुखदा स्त्रीणां भरणी कामवर्धिनी ।
कृत्तिका दैन्यदा ज्ञेया रोहिणी सुखदा भवेत् ।
मृगस्तु कामभोगाय सुखदं रुद्रदैवतम् ।
अदित्यृक्षं सुखं दद्याद्गुरुभं सुखवर्धनम् ।
आश्लेषाः सुखनाशाय मघा वैधव्यदाः स्मृताः ।
पूर्वा फल्गुनिका पुत्रकन्यासुखविवर्धिनी ।
उत्तरा ह्यर्थनाशाय हस्तः पुत्रप्रवर्धनः ।
चित्रा चित्रतनुं नारीं कुरुते नात्र संशयः ।
स्वाती शुभाय नारीणां विशाखा सुखनाशिनी ।
अनूराधाऽर्थभोगाय ज्येष्ठा भर्तृवियोगदा ।
शुभं वाऽप्यशुभं मूलं पूर्वाषाढाऽर्थनाशिनी ।
सुखदा चोत्तराषाढा श्रवणः सुखवर्धनः ।
धनिष्ठापञ्चकं स्त्रीणां प्रथमर्तौ सुखप्रदम्” इति ।
रत्नमालायां तु–
“करादिपञ्चोत्तरमूलपूषविष्णुत्रयाश्वीज्यविधीन्दुभेषु ।
आद्यं रजः सौख्ययुतायुरर्थं सौभाग्यवृद्धिं कुरुतेऽङ्गनानाम् ।
पूर्वात्रये याम्यभुजङ्गधिष्ण्ये वैधव्यमस्या विदधीत नूनम् ।
मघेशयोः शोकमथादितेर्भे वन्ध्या तथैन्द्रेऽप्यनले दरिद्रिणी” इत्युक्तम् ।
करादिपञ्चकं हस्तचित्रास्वातीविशाखानूराधानक्षत्राणि । उत्तरशब्देनोत्तरात्रयम्18 । ईश आर्द्रा । ऐन्द्रं ज्येष्ठा । अनलः कृत्तिका19 ।
ग्रन्थान्तरे विशेषः–
“आद्यंशे दस्रमघामूलानां सर्पशक्रपौष्णानाम् ।
चरमे यदि पुष्पवती कुलटा वन्ध्या मृतप्रजा भवति” इति ।
दस्रावश्विनी । सर्प आश्लेषाः । शक्रो ज्येष्ठा । पोष्णं रेवती । अत्र केषुचिन्नक्षत्रेषु परस्परं फलविरोधोऽस्ति स शुक्लकृष्णपक्षान्तर्गतत्वेन व्यवस्थापनीयः । शुभं फलं शुक्लपक्षान्तर्गतनक्षत्रविषयं, निषिद्धं फलं कृष्णपक्षान्तर्गतनक्षत्रविषयम् । इति नक्षत्रफलम् ।
योगफलम्
अथ योगफलम् ।
ज्योतिर्निबन्धे वसिष्ठः–
“आद्यर्तौ दुर्भगा नारी विष्कम्भे चेद्रजस्वला ।
वन्ध्या स्यादतिगण्डे च शूले शूलवती भवेत् ।
गण्डे तु पुंश्चली नारी व्याघाते चाऽऽत्मघातिनी ।
वज्रे च स्वैरिणी प्रोक्ता पाते च पतिघातिनी ।
परिघे मृतवन्ध्या च वैधृतौ पतिमारिणी ।
शेषाः शुभावहा योगा यथानामफलप्रदाः” इति ।
ग्रन्थान्तरे विशेषः–
“अमासङ्क्रान्तिविष्ट्यादौ व्यतीपाते च वैधृतौ ।
परिघस्य तु पूर्वार्धे षट्षड्गण्डातिगण्डयोः ।
व्याघाते नव शूले च नाड्यः पञ्चर्तुदर्शने” इति ।
वर्जनीया इति शेषः ।
एतेषां फलानि तत्रैव–
“वैधव्यमर्थहानिं च सुतनाशं महद्भयम् ।
वैधव्यं शत्रुवृद्धिं च दारिद्र्यं क्षीणजीवनम् ।
तेजोहानिं दुर्भगत्वमेषु पुष्पवती क्रमात्” इति ।
इति योगफलम् ।
करणफलम्
अथ करणफलम् ।
“बवे पुष्पवती नारी वन्ध्या वा विधवा भवेत् ।
बालवे पुत्रिणी नारी कौलवे प्रमदा भवेत् ।
तैतिले सम्मतवती गरे नारी विनश्यति ।
नष्टप्रजा वणिक्सञ्ज्ञे विष्ट्यां धनविवर्जिता ।
शकुने(नौ) च चतुष्पादे नारी वैधव्यमाप्नुयात् ।
नागे न रमते नारी किंस्तुघ्ने विधवा भवेत्” इति ।
इति20 करणफलम् ।
लग्नफलम्
अथ लग्नफलम् ।
ज्योतिर्निबन्धे वसिष्ठः–
“व्यभिचारवती मेषे वृषभे परभोगिनी ।
मिथुने धनभोगाढ्या कर्कटे21 व्यभिचारिणी ॥
पुत्राढ्या सिंहराशौ स्यात्कन्यायां श्रीमती तथा ।
विचक्षणा तुलायां तु वृश्चिके तु पतिव्रता ॥
दुश्चारिणी धनुष्पूर्वे परे चैव पतिव्रता ।
मकरे मानहीना च कुम्भे निर्धनवन्ध्यता ॥
मीने विलक्षणे लग्ने ग्रहसंस्था विवाहवत्” इति ॥
धनुषः पूर्वभागे दुश्चारिणी परभागे पतिव्रतेत्यर्थः । ग्रहसंस्था ग्रहपूजा विवाहवत् । शक्त्या द्वित्रिगुणा भवतीत्यर्थः ।
ज्योतिर्निबन्धे वाराहे तु–
“आत्मघ्नी भ्रूणहा मेषे वृषे पुत्रवती भवेत् ।
द्वन्द्वे कन्या प्रसूर्नारी मृतापत्या च कर्कटे ॥
सिंहे वैधव्यमाप्नोति कन्यायां स्त्रीप्रसूर्भवेत् ।
तुलायां बहुपुत्राढ्या दुष्टकर्मरताऽलिनि ॥
चापे पुत्रधनाढ्या स्यान्मृगे दुश्चारिणी भवेत् ।
सकृत्प्रजावती कुम्भे मीने चाल्पप्रजा भवेत्” इत्युक्तम् ॥
अलिर्वृश्चिकः । अलिनीत्यार्षप्रयोगः । अत्रापि शुक्लकृष्णपक्षान्तर्गतत्वेन पूर्ववद्व्यवस्था ज्ञेया । इति लग्नफलम् ।
अथर्तुदर्शनलग्ने सप्तमस्थानस्थितग्रहाणां फलानि ।
नारसिंहीये–
“लग्नस्य सप्तमस्थाने सूर्यो वैधव्यकारकः ।
चन्द्रः सत्पुत्रदो ज्ञेयः सौभाग्यं च लभेद्ध्रुवम् ॥
पुत्रहानिकरो भौमो बुधः सत्पुत्रदो भवेत् ।
बृहस्पतिर्धनायुष्यं शुक्रः सापत्नकारकः ॥
शनैश्चरे तु वन्ध्या स्याद्राहौ तु मरणं ध्रुवम्” इति ।
इत्यृतुदर्शनलग्ने सप्तमस्थानस्थितग्रहाणां फलानि ।
वेलाफलम्
अथ वेलाफलम् ।
तत्रैव–
“प्रातकाले रजः स्त्रीणां प्रथमं शोकवर्धनम् ।
सङ्गवे सुखसन्तत्यै मध्याह्ने धनसन्तती ।
अपराह्णे धनावाप्तिः सायाह्ने मध्यमं फलम् ।
पूर्वरात्रे सुखायालं मध्यरात्रे धनक्षयः ॥
पररात्रेऽर्थनाशश्च प्रथमर्तौ फलं स्मृतम् ।
महद्भयं सन्ध्ययोः स्यादर्थहानिस्तथैव च” इति ॥
अन्यत्र तु–
“लाभं चैव तु पूर्वाह्णे मध्याह्ने मध्यमं फलम् ।
अपराह्णे तु वैधव्यं पूर्वरात्रे शुभं भवेत् ॥
मध्यरात्रे मध्यमं स्यात्पररात्रे शुभान्यकम्” इत्युक्तम् ॥
शुभान्यकमशुभम्22 । इति वेलाफलम् ।
ग्रहणफलम्
अथ ग्रहणफलम् ।
भार्गवः–
“प्रसूतिर्यदि जायेत ग्रहणे चन्द्रसूर्ययोः ।
सङ्क्रान्तौ च तदा स्त्रीणामादौ च ऋतुदर्शने ।
इत्थं सञ्जायते यस्तु तस्य मृत्युर्न संशयः ।
व्याधिः पीडा च दारिद्र्यं शोकश्च कलहो भवेत्” इति ॥
यस्य प्रसूतिस्तस्य यस्य स्त्रिया ऋतुदर्शनं तस्य चेत्यर्थः । एतन्निमित्तकशान्तिस्तु शान्तिरत्नमालायां वक्ष्यते । इति ग्रहणफलम् ।
द्रष्टृफलम्
अथ द्रष्टृफलम् ।
“पुरन्ध्र्या दृश्यते यत्तु रजः स्त्रीणां सुखाय तत् ।
विशस्तया तु यद्दृष्टं रजो वैधव्यदं स्मृतम् ॥
रजः पश्यति चेत्कन्या पुमान्वा तत्सुखं भवेत् ।
स्वयं दृष्टं तथा स्त्रीणामात्मघाताय कल्पते” इति ॥
पुरन्ध्री सौभाग्यवती स्त्री । विशस्ता विधवा । इति द्रष्टृफलम् ।
प्रष्टृफलम्
अथ प्रष्टृफलम् ।
“माता पृच्छति चेद्व्यर्थं पिता पृच्छति चेत्सुखम् ।
श्यालो दारिद्र्यमाप्नोति स्वसा चेदायुषः सुखम् ॥
पिसृष्वसा धनं याति सोदरा23 विपुलं धनम् ।
प्रष्टा भ्राताऽऽयुषः क्षण्यमित्येवं लभतेऽङ्गना” इति ॥
श्यालः पृच्छति चेत्तदा रजोवती दारिद्र्यमाप्नोतीत्यर्थः । पितृष्वसा पितृभगिनी पृच्छति चेत्तदा धनं याति धनं प्राप्नोतीत्यर्थः ।
परिहितवस्त्रफलम्
अथ परिहितवस्त्रफलम् ।
“सुभगा श्वेतवस्त्रा स्यान्नववस्त्रा पतिव्रता ।
दुर्भगा जीर्णवस्त्रा स्यात्सुभगा क्षौमवत्रिणी ॥
लोहिते तु भवेद्वन्ध्या चित्रवर्णे तु पुत्रिणी ।
कृष्णे तु विधवा नारी रजस्येतत्तु लक्षणम्” इति24 ॥
इति परिहितवस्त्रफलम् ।
रजःफलम्
अथ रजःफलम् ।
“प्रथमर्तौ फलं स्त्रीणामुच्यते रजसोऽधुना ।
सुभगा पुत्रसय्ँयुक्ता शुक्लवर्णे तथाऽऽर्तवे ॥
शशशोणितसङ्काशे यद्वाऽलक्तकसन्निभे ।
पुत्रकन्याप्रसूतिः स्यान्नीले तु स्यान्मृतप्रजा ॥
कर्पूरे म्रियते सद्यः पिङ्गले च मृतप्रजा ।
कृष्णे तु विधवा नारी रजस्येवं विनिर्दिशेत् ॥
शोणिते बिन्दुमात्रे तु स्वैरिणी त्वल्पशोणिते ।
वरा मध्यस्रवा स्यात्तु दुर्भगा बहुशोणिता ॥
रक्ते रक्ते भवेत्पुत्रः कृष्णे च मृतपुत्रिका ।
पिच्छलाभे भवेद्वन्ध्या काकवन्ध्या च पाण्डुरे ॥
पीते च स्वैरिणी प्रोक्ता सुभगा गुञ्जवर्णके ।
सिन्दूराभे भवेत्कन्या रजःशोणितलक्षणम्” इति25 ॥
रक्ते लोहिते रक्ते रक्तवर्णे सतीत्यर्थः26 । इति रजःफलम् ।
अथोत्पातफलम् ।
“सन्ध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्तवम्” इति ।
इत्युत्पातफलम्27 ।
बिन्दुसङ्ख्याफलम्
अथ बिन्दुसङ्ख्याफलम् ।
“प्राप्नोति बिन्दुनैकेन सौभाग्यं तु रजोवती ।
द्विबिन्दुना भवेद्भोगो भवेद्रोगस्त्रिबिन्दुभिः ॥
दारिद्र्यमधिकेषु स्याद्रजस्येतत्तु लक्षणम्” इति ।
इति बिन्दुफलम् ।
कार्यकरणसमयफलम्
अथ कार्यकरणसमयफलम् ।
देवरातः–
“सम्मार्जनीकाष्ठतृणाग्निशूर्पान्हस्ते दधाना कुलटा तदा स्यात् ।
तल्पोपभोगे तपसि स्थिता चेद्दृष्टं रजो भाग्यवती तदा स्यात्” इति ।
ग्रन्थान्तरे–
“शुष्ककाष्ठतुषैः शूर्पमार्जन्याद्यशुभैर्युतम्28 ।
देशे शुभे यथा29 दृष्टे तथा स्यात्प्रथमार्तवे ॥
भुक्तौ तल्पे च याने च तपनीये च धार्मिके ।
शुभोपकरणैर्युक्ते शुभैर्लग्नग्रहैर्युते ॥
शुभं स्यादनुकूलर्क्षे राशौ स्यात्खगसय्ँयुता” इति ॥
इति कार्यकरणसमयफलम् ।
स्थानफलम्
अथ स्थानफलम् ।
ज्योतिर्निबन्धे–
“गृहमध्ये सुखावाप्तिर्गृहद्वारे वियोगता ।
शय्योत्था सुखदा भूयाद्धनं चापत्यसन्ततिः ॥
पितुगृहे रजो दैन्यं विदधाति पितुः कुले ।
देवस्थाने पितुः स्थाने निन्द्यस्थानेऽन्यवेश्मनि ॥
मार्गे भर्तृवियोगं च बन्द्यागारे30 मृतप्रजा” इति ।
देवस्थानं देवालयम्(यः)। पितृस्थानं श्मशानम् । निन्द्यस्थानं कुत्सितस्थानम् । अन्यवेश्म भर्तृगृहादन्यद्गृहम् । इति स्थानफलम् । तिथ्यादिफलेषूत्तरोत्तरं विशेषमाह देवरातः–
“तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम् ।
वारस्तु षड्गुणो ज्ञेयो मासश्चाष्टगुणः स्मृतः ॥
वस्त्रं दशगुणं विद्याद्दर्शनं च ततोऽधिकम् ।
अशुभं चेद्रजः स्त्रीणां प्रथमर्तौ हि दृश्यते ॥
विधानं तत्र कर्तव्यमरिष्टघ्नं विशेषतः” इति ।
विधानं शान्तिः31 । सा च शान्तिरत्नमालायां वक्ष्यते ।
सर्वर्तुनियमाः
अथ सर्वर्तुनियमाः ।
तत्रेदं गृह्यम्–
“त्रिरात्रं मलवद्वाससा ब्राह्मणव्याख्यातानि व्रतानि चरति” इति ।
मलवद्यद्वस्त्रं तेन सहिता व्रतं चरतीत्यर्थः । अथवा मलवद्वाससा32 रजस्वला मलवद्वाससेति तृतीया प्रथमार्थे । मलवद्वासा इति पाठस्तु युक्त एव । “तस्मान्मलवद्वाससा न सव्ँवदेत” इत्य्-आदीनि ब्राह्मणोक्तानि व्रतानि चरतीत्यर्थः । मलः, रजो विद्यते यस्मिंस्तन्मलवत् । एतेनैव ज्ञायत एकवस्त्रैव रजस्वला स्नानपर्यन्तं भवेदिति । श्रुतौ पर्णेन पानस्यैव निषेधनात्पर्णे भोजनस्य निषेधो नास्तीत्यवगम्यते । एतन्मूलमग्रे प्रदर्शयिष्यते । तच्च पलाशादियज्ञियवृक्षव्यतिरिक्तमाचाराज्ज्ञेयम् ।
(33 स्मृतिमञ्जर्याम्–
“तस्मादुदक्यया सार्धमेकगेहे न सव्ँविशेत् ।
प्रतिग्रहं च सव्ँवादमस्या अन्नं च वर्जयेत् ॥
रजस्वलां पतिर्गच्छेच्चण्डालो जायते सुतः34 ।
अरण्ये तां यदा गच्छेत्तज्जः स्तेनस्तदा भवेत् ॥
पराङ्मुखीं तां गच्छेच्चेत्तज्जो(ज्जा) ह्रीतमुखी भवेत् ।
पराङ्मुख्या उदक्याया जातः सोऽप्यपगल्भकः ॥
आर्तवे यदि सा स्नाति तज्जातोऽप्सु मरिष्यति ।
तैलेनाभ्यञ्जनं कुर्यात्कुष्ठरोगी प्रजायते ॥
आर्तवे प्रलिखेद्भूमिमल्पायुर्जायते खलः ।
नेत्रयोरञ्जनं कुर्यात्काणो वाऽन्धः प्रजायते ॥
दन्तानां धावनं कुर्याज्जायते श्यावदन्तकः ।
नखानां कृन्तनं कुर्यात्कुनखी जायते सुतः35 ॥
रज्ज्वादिकच्छेदनं चेत्कुर्यात्क्लीबः प्रजायते ।
तन्तुभिः सृजते रज्जुमुद्बन्धनमृतो भवेत् ॥
ऋतौ पात्रेऽन्नमश्नीयादुन्मादी जायते सुतः ।
खर्वे शरावे भुञ्जीत वामनोऽसौ प्रजायते” इति ॥
“ऋतौ पात्रेऽपः साऽश्नीयादुन्मादी जायते सुतः ।
खर्वपात्रेऽपः साऽश्नीयाद्वामनोऽसौ प्रजायते”
इत्यपि क्वचित्पाठः । अयमेव पाठः श्रुत्यनुगुणत्वाद्युक्तः ।
एतस्माद्ब्राह्मणवाक्यात्सौभाग्यवत्या रजस्वलाया एव स्नानप्रलेखनदन्तधावननखनिकृन्तनतृणादिच्छेदनरज्जुसर्गपर्णसाधनकपानखर्वपात्रसाधनकपानरूपा धर्मा निषिद्धाः । न विधवाया रजस्वलायास्तत्र प्रजोत्पत्तेरेवाभावेन प्रजागतदोषाणामसम्भवात् ।
अभ्यङ्गादिकं तु विधवात्वेनैव निषिद्धमिति यद्यपि प्राप्तं तथाऽपि–
“विधवाया रजोवत्या अपि स्नानादयो नहि”
इति स्मृतिदर्पणस्थगालववचनात्तस्या अपि स्नानादयो धर्मा निषिद्धा एवेति ज्ञेयम् । आदिशब्देन प्रलेखनादि ।
भोजनकुतूहले भावप्रकाशे–
“आर्तवस्रावदिवसाद्भवेत्सा ब्रह्मचारिणी ।
शयीत दर्भशय्यायां पश्येदपि पतिं न च ।
करे शरावे पर्ण वा हविष्यं त्र्यहमाचरेत् ।
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ।
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम् ।
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ।
आयासं भूमिखननं प्रवासं36 च विवर्जयेत्” इति ।
)
वसिष्ठोऽपि–
“त्रिरात्रं रजस्वलाऽशुचिर्भवति सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायादधः
शयीत न दिवा स्वप्यान्नाग्निं स्पृशेन्न रज्जुं सृजेन्न दन्तान्धावयेन्न मांस-
मश्नीयान्न ग्रहान्निरीक्षेत न हसेन्नाश्लीलं किञ्चिदाचरेदखर्वेण पिबे-
दञ्जलिना वा पिबेल्लौहेनाऽऽयसेन वा विज्ञायते” इति ।
अशुचिरिति पदच्छेदः । नाप्सु स्नायात् । नैमित्तिके स्नाने प्राप्ते निमज्जनरूपं स्नानं नैव कुर्यात् ।
अत एव पराशरः–
“स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत्”
इत्युद्धृतोदकेन स्नानमाह । अखर्वेण महतेत्यर्थः । लौहेन ताम्रेण ।
दक्षः–
“अञ्जनाभ्यञ्जने स्नानं प्रवासं दन्तधावनम् ।
न कुर्यात्सार्तवा नारी ग्रहाणामीक्षणं तथा ।
दिवानिद्रां च ताम्बूलं तालवृन्तादिबन्धनम् ।
एवमुक्तप्रकारेण तिस्रो रात्रीर्व्रतं चरेत्” इति ।
(37 अत्र नित्यस्नानं निपिध्यते । )
गर्गः–
“आहारं गोरसानां च पुष्पालङ्कारधारणम् ।
अञ्जनं कङ्कतं गन्धान्पीठशय्याधिरोहणम् ।
अग्निसंस्पर्शनं चैव वर्जयेत्सा दिनत्रयम्” इति ।
कङ्कतं केशप्रसाधनम् । पीठं च शय्या च पीठशय्ये तयोरधिरोहणमिति विग्रहः । अत्र पीठशय्ययोर्ग्रहणात्सोपानारोहणे निषेधो न । सा रजस्वला ।
स्मृत्यन्तरे–
“भूमौ कार्ष्णायसे पाणौ शरावे दग्ध एव वा ।
रजस्वला तु भुञ्जीत लौहेन तु जलं पिबेत्” इति ।
अत्रिः–
“वर्जयेन्मधु मांसं च पात्रे खर्वे च भोजनम् ।
गन्धमाल्यं दिवास्वापं ताम्बूलं चाऽऽस्यशोधनम् ।
दग्धे शरावे भुञ्जीत पेयं चाञ्जलिना पिबेत्” इति ।
अखर्वमह्रस्वं पात्रम् । आस्यशोधनं मुखशोधनम् ।
“गन्धमाल्यं दिवास्वापं ताम्बूलं कांस्यभाजनम्”38 ।
इति देवरातवचनपाठः । कांस्यभाजननिषेधेन39 सौवर्णराजताद्यभ्यनुज्ञा गम्यते ।
विश्वप्रकाशे–
“दिवास्वापमलङ्कारं क्रीडां शिल्पक्रियां तथा ।
गृहकर्म च ताम्बूलमध्वानं रात्रिभोजनम् ।
ज्योतिषां दर्शनं स्पर्शं परपुंसां च दर्शनम् ।
हसनं जल्पनं चैव वर्जयेच्च रजस्वला” इति ।
जल्पनं बहुभाषणम् ।
प्रयोगपारिजातकृतरजस्वलाविशेषधर्म- प्रयोगः प्रदर्श्यते
अथ प्रयोगपारिजातकृतरजस्वलाविशेषधर्म- प्रयोगः प्रदर्श्यते ।
तैलाभ्यङ्गं दन्तधावनं नखकृन्तनं नेत्राञ्जनं तन्तुना रज्ज्वादिकरणं तच्छेदनं तालवृन्तादिबन्धनं मुक्ताफलरत्नानां मालाकरणं भुवि लेखनमल्पशरावपर्णपात्रभोजनं मधुघृतक्षारदधिचन्दनं(भक्षणं) गन्धपुष्पभूषणं(ण)धौतवस्त्रधारणं ताम्बूलसेवनं ग्रहेक्षणं दिवास्वापं चाकुर्वती शौचादिशोधनं स्नानमग्निस्पर्शनमन्यरजस्वलाशूद्रान्त्यजश्वकुक्कुटादिस्पर्शनं चाकुर्वती कांस्यपात्रे विशालमृन्मयपात्रे वा क्षीरदधिघृतवर्जितमन्नं भुञ्जाना गमनागमनकाले पादुके उपानहौ वा धृत्वाऽगच्छन्ती लौहेनाऽऽयसेन पात्रेणाञ्जलिना वा जलं पिबन्ती स्नानदिवसे षष्टिमृत्तिकाभिः शौचं दन्तधावनपूर्वकं सङ्गवे स्नानं कृत्वा पतिमुखमिष्टदेवतां वाऽवलोकयेत्, इति ।
अल्पशब्दस्य शरावपर्णशब्दयोरन्वयः । तेनाल्पपर्णस्य निषेधो न तु महतः कदल्यादिपर्णस्येति ।
प्रथमर्तौ विशेषः प्रयोगपारिजाते स्मृतिचन्द्रिकायाम्–
“उद्वाहिताङ्गनायाश्च प्रथमे त्वार्तवे ततः ।
अक्षतैरासनं कृत्वा तस्मिंस्तामुपवेशयेत् ॥
हरिद्रागन्धपुष्पादीन्दद्युस्ताम्बूलकं स्रजम् ।
आशिषो वाचयेयुस्ताः पतिपुत्रवती भव ॥
दीपैर्नीराजनं कुर्यात्सदीपे वासयेद्गृहे ।
अपूपाल्लँवणं मुद्गगुडमिश्रं40 तथा हविः ॥
दद्याद्ब्राह्मणपुत्रीभ्यस्ताभ्यो दद्यात्तु भोजनम्” इति ।
रजोदोषावधिः
अथ रजोदोषावधिः ।
मदनपारिजाते मरीचिः–
“शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति” इति ॥
उपगमनार्हा भवतीति पूर्वार्धः । इदं च रजोनिवृत्तौ ज्ञेयम् । “गम्या निवृत्ते रजसि नानिवृत्ते कथञ्चन” इत्य्-आपस्तम्बवचनात् । उत्तरार्धं तु कर्मानधिकारं प्रतिपादयति । यद्यपि मरीचिवचनेन सर्वेषु श्रौतेषु स्मार्तेषु दैवपित्र्यकर्मसु चतुर्थदिवसे रजोनिवृत्तौ सत्यामपि कर्मानर्हत्वं प्रतिपादितं तथाऽपि
“रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला” ।
इति मनुवाक्ये मदनपारिजातेन साध्वी गर्भाधानादिविहितकर्मयोग्येत्यादिपदोपादानेन प्रधानानुरोधेन तदधिकारसम्पत्त्यर्थशान्तावप्यधिकारस्य प्रदर्शितत्वात्, एवं श्रौतेषु दर्शादिषु चतुर्थेऽहन्यपि शुद्धिः ।
“चतुर्थेऽहनि गोमूत्रमिश्राभिरद्भिः स्नाता प्रक्षालितानि
तान्येव वासोयोक्त्रजालानि पुनर्मन्त्रैर्धारयेत्” ।
इति सोमप्रकरणे बौधायनवचनात्, यदा त्रिरात्रेणेतिवचनाद्रजस्वलायाः स्नानदिवसेऽपि श्रौतकर्माणि कर्तव्यान्येव न तु पञ्चमेऽहन्येवेति नियम इति भाष्यकारोक्तेश्च रजोनिवृत्तावेव चतुर्थेऽहन्यधिकार इति प्रायश्चित्तचन्द्रिकायाम् । एवमुदाहृतमदनपारिजातग्रन्थ आदिपदमुपनयनादेरपि ग्राहकं, तत्रापि वक्ष्यमाणश्रीसूक्तहोमपूर्वकाभिषेकेण चतुर्थेऽहन्यधिकारसम्भवात् । एतच्चान्यदिनाननुकूलतायाम् । तदनुकूलतायां तु शान्तिपूर्वकमेतत्पञ्चमेऽहन्येवेति बोध्यम् ।
इति रजोदोषावधिः ।
स्नानविधिः
अथ स्नानविधिः ।
स्मृत्यर्थसारे–
“ब्राह्मणी रजस्वला चतुर्थेऽह्नि षष्टिपलमृत्तिकाभिः शौचं कुर्यात् । क्षत्रियादिस्त्रियः पादन्यूनमृत्तिकाभिर्विधवा द्विगुण-
मृत्तिकाभिस्ततो मलं प्रक्षाल्य दन्तधावनपूर्वकं सचैलं
सङ्गवे स्नायात्” इति ।
अत्रिः–
“रजस्वला चतुर्थेऽह्नि मृत्तिकाषष्टिभिः पृथक् ।
शौचं कृत्वा यथान्यायं दन्तानां धावनं तथा ॥
कृत्वा तु सङ्गवेऽतीते सचैलं स्नानमाचरेत् ।
भस्मगोमयमृद्भिश्च सर्वैरन्यतमेन वा ॥
स्नात्वाऽंशुकं परिच्छाद्य गन्धपुष्पैरलङ्कृता ।
आचम्य पुष्पैरादित्यमर्चयित्वा यथोचितम् ॥
ऐन्द्रं वरं प्रभो मह्यमिदानीं दातुमर्हसि ।
इत्युक्त्वाऽऽथैन्द्रभावेन प्रार्थयेत्तु स्वकं पतिम् ॥
ऋतुस्नाता तु या नारी यं स्नेहान्नरमीक्षते ।
तादृशं जनयेत्पुत्रं पतिमेव निरीक्षयेत्” इति ॥
कात्यायनः–
“न निषेव्यमुदक्याभिः स्नानं माल्यानुलेपनम् ।
हस्ते वा मृन्मये पात्रे दिवैव लघुभोजनम् ॥
हविष्यं मधुरं चान्नं कटुतिक्तादिवर्जितम् ।
एकान्ते प्राक्शिरा भूमावास्तृतायां शयीत सा ॥
चतुर्थे दिवसे स्नायादातुरा कोष्णवारिणा ।
चतुर्थे दिवसे स्नात्वा भक्त्याऽऽदित्यं समीक्षते ॥
भर्तारं देवरं वाऽपि श्वशुरं नान्यमीक्षयेत्” इति ।
स्मृत्यन्तरे तु–
“चतुर्थेऽहनि कुर्वीत स्नानमभ्युदिते रवौ”
इत्युदयानन्तरमेव स्नानमुक्तम् । तेन विकल्पः । सूर्योदयात्पूर्वं स्नानाचरणं तु दुराचार एव ।
रजस्वलायां नैमित्तिकस्नानप्रकारमाह व्यासः–
“स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथञ्चन ।
न वस्त्रपीडनं कुर्यान्नान्यद्वासो विधारयेत्” इति ॥
ज्वरादिपीडिताया रजस्वलायाः शुद्धिप्रकारमाहो41 शना–
“ज्वराभिभूता या नारी रजसा च परिप्लुता ।
कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥
चतुर्थेऽहनि सम्प्राप्ते स्पृशेदन्या तु तां स्त्रियम् ।
सा सचैलाऽवगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ॥
दशद्वादशकृत्वो वा ह्याच(चा)मेच्च पुनः पुनः ।
अन्ते च वाससां त्यागस्ततः शुद्धा भवेत्तु सा ॥
दद्याच्छक्त्या ततो दानं पुण्याहेन विशुध्यति ।
आतुराणां च सर्वेषामेवं शुद्धिर्विधीयते” इति ॥
इति स्नानविधिः ।
प्रसङ्गाद्रजोदर्शनमध्ये पारणाप्राप्तौ विचारः
अथ प्रसङ्गाद्रजोदर्शनमध्ये पारणाप्राप्तौ विचारः ।
तत्र ऋष्यशृङ्गः–
“सम्प्रवृत्तेऽपि रजसि न त्याज्यं द्वादशीव्रतम्” इति ।
द्वादशीव्रतमित्युपलक्षणम् ।
“प्रारब्धदीर्घतपसां नारीणां यद्रजो भवेत् ।
न तत्रापि व्रतस्य स्यादुपरोधः कदाचन” इति सत्यव्रतोक्तेः ।
सत्यव्रतवचनस्यायमर्थः–नवरात्रमासोपवासादिदीर्घकालसाध्यकाम्यव्रतवती नारी मध्ये रजः पश्यति तदोपवासादि कुर्यादेव तद्दिनसाध्यपूजादिकं तु पञ्चमेऽहनि कुर्यात् ।
“पञ्चमेऽहनि शुद्धा स्याद्दैवे पित्र्ये च कर्मणि”
इति वचनादतिक्रान्तपूजादानादि पञ्चमेऽहनि कुर्यादिति माधवोक्तेः ।
हेमाद्रिस्तु–
“गर्भिणी सूतकी चैव कुमारी वाऽथ रोहिणी ।
यदाऽशुद्धा तदाऽन्येन कारयेत्प्रयता सती”
इति पाद्ममेवं व्याचख्यौ– लिङ्गस्याविवक्षितत्वात्पुमान्वा स्त्री वाऽशुद्धावुपवासपूजादियुक्ते व्रते स्वयमुपोष्य पूजाद्यन्येन कारयेदिति । तिथ्यादिनियतकालशेषविहितेष्वेवम् । अन्येषु तु कोकिलादिव्रतेषु पञ्चमेऽहनीत्यादि । किञ्चैकादश्यादौ पञ्चषाशौचपाते42 मासान्ते पारणापत्तिर्मासोपवासान्ते पञ्चषाशौचपाते43 जीवनासम्भवश्च ।
यत्तु–
“नियमस्था यदा नारी प्रपश्येदन्तरा रजः ।
उपोष्य चतुरो(तस्रो) रात्रीः स्नात्वा शेषं चरेद्व्रतम्”
इत्यङ्गिरसो वचनम् । यच्च हारीतवचनं–
“नियमस्था यदा नारी रजः पश्येत्कथञ्चन ।
त्रिरात्रं तु क्षपेदूर्ध्वं व्रतशेषं समापयेत्”
इति तद्विधवोपवासविषयं, तासां तत्र भोजननिषेधादिति केचित् ।
अन्ये तु सत्यव्रतवचने दीर्घतपसामितिविशेषणोपादानाद्द्वादशीव्रतव्यतिरिक्तसकलैकाहोपवासविषयोऽयं निषेधः । त्रिरात्रनवरात्रादिदीर्घव्रतेषु तु रजोमध्य एव पारणेत्याहुः ।
अपरे तु दीर्घतपःशब्देनैकाहोपवासस्यापि ग्रहणं, नक्ताद्यपेक्षयैतस्यापि दीर्घत्वात् । तेनैकाहोपवासस्यापि रजोमध्य एव पारणेत्याहुः ।
आशौचमध्ये तु सर्वाऽपि पारणा भवति ।
“काम्योपवासे प्रक्रान्ते त्वन्तरा मृतसूतके ।
तत्र काम्यव्रतं कुर्याद्दानार्चनविवर्जितम्”
इति माधवीये कौर्मोक्तेः ।
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम्” इति विष्णूक्तेश्च ॥
रुद्रयामले–
“सूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् ।
तदन्ते भोजयेद्विप्रान्दानं दद्याच्च शक्तितः” इति ॥
नवम्यामिति व्रतान्तरोपलक्षणम् । तदन्ते सूतकान्ते । प्रारम्भस्तु विवाहप्रकरण उक्तः–‘प्रारम्भो वरणं यज्ञे’ इतिवचनेन ।
इति पारणाविचारः ।
स्नानानन्तरमपि रजःस्रावे शुद्धिविचारः
अथ स्नानानन्तरमपि रजःस्रावे शुद्धिविचारः ।
प्रयोगपारिजाते बृहस्पतिः–
“रागजं रोगजं चैव द्रव्यजं कालजं तथा ।
यद्रागरोगद्रव्योत्थं तद्रक्तं प्राह भार्गवः ॥
कालजं तु रजःसञ्ज्ञं तस्मात्तत्रैव साऽशुचिः” इति ।
अशुचिरिति पदच्छेदः । तत्रैव कालजे रजस्येव सा स्त्री त्रिरात्रमशुचिर्भवतीत्यर्थः ।
एतेषां लक्षणानि स एवाऽऽह–
“अर्वाक्प्रसूतेरुत्पन्नं मेदो वन्ध्याङ्गनासु यत् ।
तद्रागजमति प्रोक्तं मज्जाभेदसमुद्भवम् ॥
पित्तादिदोषवैषम्यादसकृद्यत्प्रवर्तते ।
तद्रोगजं समुद्दिष्टमथ द्रव्यजमुच्यते ॥
भवेद्यद्धातुवैषम्यहेतुद्रव्योपभोगजम् ।
तद्द्रव्यजं समुद्दिष्टमथ कालजमुच्यते ॥
आरभ्य चाऽऽर्तवदिनादेकविंशतिवासरे ।
मासादूर्ध्वं रजो यत्स्यात्तत्कालजमुदाहृतम् ॥
रजस्वला यदा नारी पुनरेव रजस्वला ।
सा विंशतिदिनादूर्ध्वं त्रिरात्रमशुचिर्भवेत्” इति ॥
स्मृत्यर्थसारे विशेषः–
“सप्तदशदिनमध्ये पुना रजोदर्शने स्नानमात्रम् । अष्टादश एकरात्रम् । ऊनविंशे द्व्यहं, विंशतिप्रभृति त्रिरात्रम्” इति ।
एतच्च यस्या विंशतिदिनोत्तरमेव प्रायशो रजोदर्शनं तद्विषयम् ।
कश्यपः–
“रजस्वला यदा नारी पुनरेव रजस्वला ।
अष्टादशाहात्प्राग्वाऽपि अशुचिः स्यात्रिरात्रकम् ॥
एकादशे त्वहोरात्रं द्विरात्रं द्वादशेऽहनि ।
ऊर्ध्वं त्रिरात्रं विज्ञेयमिति कौण्डिन्यभाषितम्” इति ॥
एतच्च वचनं यस्या यौवनावस्थाभेदेन षोडशदिनात्प्रागेव प्राचुर्येण रजोदर्शनं तद्विषयम् ।
स्मृत्यर्थसारेऽपि–
“त्रयोदशदिनादूर्ध्वं प्रायो रजोवतीनामेकादशदिनादर्वागशुचित्वं नास्ति ।
एकादशदिन एकरात्रं, द्वादशे द्विरात्रमूर्ध्वं त्रिरात्रम्” इति ।
प्रयोगपारिजातेऽप्येवम् । इदमपि षोडशर्तुर्निशाः स्त्रीणामितिवचनात्स्नानदिवसात्परं ज्ञेयम् ।
रोगजे रजसि नाशुचितेत्याह बृहस्पतिः–
“रोगेण यद्रजः स्त्रीणामन्वहं हि प्रवर्तते ।
नाशुचिः स्यात्ततस्तेन यतो वैकारिकं मतम्” इति ॥
विकाराज्जातं वैकारिकम् । रोगेणेति वचनं रागजद्रव्यजयोरुपलक्षणम् । अन्वहमिति श्रवणान्मध्ये व्यवधाने यदि प्रायो विंशतिदिनोत्तरमेव सा रजोवती तदा विंशतिप्रभृति त्रिरात्रमूनविंशे द्व्यहम् , अष्टादश एकरात्रं सप्तदशदिनपर्यन्तं स्नानमात्रमिति पूर्वोक्तव्यवस्थाऽत्र ज्ञेया । यदि तु षोडशदिनात्प्रागेव प्राचुर्येण44 रजोवती तदा त्वेकादश एकरात्रं द्वादशे द्विरात्रं त्रयोदशप्रभृति त्रिरात्रमित्येषां व्यवस्था । यदि तु कदाचित्प्रथमरजोदर्शनमारभ्यैवान्वहं रजोदर्शनं तदाऽप्येष एव प्रकारः ।
रोगजे रजस्यपि कर्माधिकारस्तु रजोनिवृत्तावेव–
“साध्वाचारा न तावत्स्यात्स्नाताऽपि स्त्री रजस्वला ।
यावत्प्रवर्तमानं हि रजो नैव निवर्तते” ॥
इति श्राद्धहेमाद्रौ शङ्खोक्तेः ।
सूतिकाया रजोदर्शने विशेषमाह प्रजापतिः–
“प्रसूतिका तु या नारी स्नानतो विंशतेः परम् ।
आर्तवी रजसा प्रोक्ता प्राक्तु नैमित्तिकं रजः ॥
तत्तु नैमित्तिके न स्यादाशौचमिति सूरयः” इति ॥
बृहस्पतिः–
“निःसन्देहं परिज्ञाते आर्तवेऽशुद्धिकारणम् ।
सन्देहमात्रे शुद्धिः स्यादित्युवाच प्रजापतिः” इति ॥
पूर्वत्राशुद्धिरिति पदच्छेदः ।
(यमः–45
" व्यसनात्कार्यकरणान्निद्राविस्मरणादपि ।
रजःस्रावमविज्ञाय सा शुचिः पूर्वकर्मसु ॥
ज्ञाताज्ञातेषु दोषेषु अनुक्तेष्वशुभेषु च ।
पुण्याहवाचनं कुर्याद्विप्राणामनुशासनात्” इति ॥)
रजोदर्शनदिनव्यवस्था
अथ रजोदर्शनदिनव्यवस्था ।
तत्र कश्यपः–
“अर्धरात्रादार्धरात्रं दिनं स्यात्सूतकादिषु” इति ।
आर्धरात्रमर्धरात्रपर्यन्तमित्यर्थः । आदिपदेन ऋतुर्गृह्यते ।
याज्ञवल्क्यस्तु–
“रात्रिं कुर्यात्त्रिभागां तु द्वौ भागौ पूर्वगामिनौ ।
उत्तमोऽंशः प्रभातेन युज्यते ऋतुसूतके” इत्य्-आह ।
अत्र सन्ध्यभाव आर्षः । रात्रौ रजसि जननादौ च रात्रिं त्रिभागां कृत्वाऽऽघभागद्वये चेत्पूर्वदिनं ग्राह्यम् । परतश्चेदुत्तरं दिनमित्यर्थः । स्मृत्यन्तरे तु–
“रात्रावेव समुत्पन्ने मृते रजसि सूतके ।
पूर्वमेव दिनं ग्राह्यं यावन्नाभ्युदितो रविः” इत्युक्तम् ।
पूर्वरात्रेरन्त्यार्धमारभ्योत्तररात्रेः पूर्वार्धपर्यन्तं दिनं, त्रिधा विभक्ताया रात्रेस्तृतीयभागमारभ्योत्तररात्रेराद्यभागद्वयपर्यन्तं दिनं, सूर्योदयमारभ्य सूर्योदयपर्यन्तं दिनमित्येवं पक्षत्रयं सिद्धम् ।
सच्च देशाद्व्यवस्थितं ज्ञेयम्–
“त्रयाणामपि पक्षाणां व्यवस्था देशभेदतः” इति सङ्ग्रहोक्तेः ।
इति रजोदर्शनदिनव्यवस्था ।
प्रसङ्गादन्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च** **शुद्धिप्रकारः
अथ प्रसङ्गादन्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च** **शुद्धिप्रकारः ।
तत्र स्मृतिमञ्जर्यां वृद्धवसिष्ठः–
“उदक्ये द्वे तु संसृष्टे सवर्णे चैकभर्तृके ।
तयोः स्नानं मिथःस्पर्शे पञ्चगव्यं ततः पिबेत् ॥
सवर्णयोनिसम्बन्धे सगोत्रे च रजस्वले ।
मिथः स्पृष्टे त्वमत्या तु स्नानमात्रेण शुध्यतः ॥
मत्या त्वमु(भु)क्तिरेकाहं पञ्चगव्याशनं ततः ।
उदक्ययोर्यदाऽन्योन्यमसम्बन्धसवर्णयोः ॥
स्पर्शे त्वमत्या स्नात्वा च तस्मिन्नाद्याच्छुचिर्भवेत् ।
मत्या तु नाद्यादाशुद्धेर्भुक्ता चेत्प्रतिवासरम् ॥
उपोषणं तदा केचिदाहुस्तद्दिनसङ्ख्यया ।
उपोषणे न शक्ता चेत्समं दानं समाचरेत्” इति ॥
रूप्यमाषदानमुपवासप्रत्याम्नाय इति शूलपाणिः । नाद्यान्न भुञ्जीयात् ।
अत्र पञ्चगव्याशनमप्युक्तं कश्यपेन–
“रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति” इति ॥
एतच्चाकामतः ।
“स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मण्या ब्राह्मणी तथा ।
तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति” ॥
इति पराशरोक्तं तु कामतः ।
सपत्न्योरेकगोत्रयोश्च स्पर्शे वसिष्ठः–
“स्पृष्टे रजस्वलेऽन्योन्यं सगोत्रे चैकभर्तृके ।
कामादकामतो वाऽपि सद्यः स्नानेन शुध्यति(तः)” इति ॥
रजस्वलेऽन्योन्यमित्यत्र प्रकृतिभावाभाव आर्षः ।
असवर्णास्पर्शे पराशरः–
“स्पृष्टे रजस्वलेऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा ।
त्रिरात्रेण विशुद्धिः स्याद्व्याघ्रस्य वचनं यथा ॥
रजस्वला तु संस्पृष्टा वैश्या च ब्राह्मणी46 च या ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
रजस्वला तु संस्पृष्टा शूद्रा च ब्राह्मणी47 च या ।
षड्रात्रेण विशुद्धिः स्याद्ब्राह्मण्या(ण्याः) कामकारतः ॥
अज्ञानतश्चरेदर्धं ब्राह्मणी सर्वजातिषु” इति ॥
अत्र यथा ब्राह्मणीरजस्वलयोः स्पर्श उपवासः पञ्चगव्याशनं च तथाऽन्यासामपि सवर्णरजस्वलास्पर्शे तदेव । यथा ब्राह्मण्याः क्षत्त्रियास्पर्शे त्रिरात्रं तथा क्षत्त्रियाया वैश्यास्पर्शे वैश्यायाः शूद्रास्पर्शे ।
तथा च भवदेवनिबन्धे स्मृतिः–
“रजस्वला तु या नारी अन्योन्यमुपसंस्पृशेत् ।
सवर्णा पञ्चगव्येन त्रिरात्रमसवर्णका” इति ॥
पञ्चगव्येनोपवाससहितेनेति भवदेवः ।
तथा च शातातपः–
“रजस्वले उभे नार्यावन्योन्यं स्पृशतो यदि ।
सवर्णे तु निराहारे पञ्चगव्याशनं ततः” इति ॥
यत्तु वृद्धवसिष्ठः–48
“स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा ।
अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्रं त्वनन्तरा ॥
पूर्वा ब्राह्मण्यनन्तरा क्षत्त्रिया ।
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजा तथा ।
पादहीनं चरेत्पूर्वा पादकृच्छ्रं त्वनन्तरा ॥
पूर्वा ब्राह्मण्यनन्तरा वैश्या ।
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजा तथा ।
कृच्छ्रमेकं चरेत्पूर्वा शूद्रा दानेन शुध्यति, इति49 ॥
दानं पादकृच्छ्रसमम् ।
स्पृष्ट्वा रजस्वलाऽन्योन्यं क्षत्त्रिया शूद्रजा तथा ।
उपवासैस्त्रिभिः पूर्वा अहोरात्रेण तूत्तरा ॥
पूर्वा क्षत्त्रिया । उत्तरा शूद्रा ।
स्पृष्ट्वा रजस्वलाऽन्योन्यं क्षत्त्रिया वैश्यजा तथा ।
त्रिरात्राच्छुध्यते पूर्वा अहोरात्रेण तूत्तरा ॥
पूर्वा क्षत्त्रियोत्तरा वैश्या ।
“स्पृष्ट्वा रजस्वलाऽन्योन्यं वैश्या शुद्रा तथैव च ।
त्रिरात्राच्छुध्यते पूर्वा अहोरात्रेण तूत्तरा” [इति] ॥
पूर्वा वैश्या । उत्तरा शूद्रा ।
एतच्च कामतः स्पर्शे ।
‘वर्णानां कामतः स्पर्शे विधिरेष सनातनः’ ।
इति वाक्यशेषात् ।
पतितचण्डालादिस्पर्शे प्रायश्चित्तमाहतुर्बृहस्पतिवृद्धवसिष्ठौ–
“पतितान्त्यश्वपाकेन संस्पृष्टा चेद्रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ।
प्रथमेऽह्नि त्रिरात्रं स्याद्द्वितीये द्व्यहमेव तु ।
अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमेव तु” इति ॥
तान्यहानि रजस्वलाव्रतवन्ति अहानि व्यतिक्रम्योपवासेनेति शेषः । अत्र सर्वत्र पञ्चगव्यप्राशनमपि कर्तव्यमिति भवदेवः ।
यत्तु बौधायनवचनं–
“रजस्वला तु संस्पृष्टा चण्डालान्त्यश्ववायसैः ।
तावत्तिष्ठेन्निराहारा यावत्कालेन शुध्यति” ॥
इति, तदशक्ताया अकामे वा । यत्तु शातातपः–
“उदक्या सूतिका वाऽपि शवान्त्यं संस्पृशेद्यदि ।
त्रिरात्रेणैव शुध्येतेत्याह वार्ष्यायणिमुनिः” इति ।
तथा स्मृत्यन्तरम्–
“चण्डाल(लं)श्वपचैर्वाऽ(चं वाऽ)पि आत्रेयीं(यो) स्पृशते यदि ।
त्रिरात्रोपोषिता भूत्वा पञ्चगव्येन शुध्यति” इति ॥
तथा कात्यायनः–
“चण्डालेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
त्रिरात्रमुपवासः स्यात्पञ्चगव्येन शोधनम्” ।
इति, तदेतत्प्रथमदिनविषयम् ।
उपवासासमर्थायां त्वङ्गिराः–
“चण्डालः श्वपचो वाऽपि यद्यात्रेयीं स्पृशेद्यदि(र्तदा)।
अकालकृष्टैर्वर्तेत पञ्चगव्येन शुध्यति” इति ॥
पञ्चगव्यपानं तु स्नानानन्तरं ज्ञेयम् ।
चण्डालेन सहैकवृक्षाद्यारोहणे पराशरः–
“एकवृक्षसमारूढा चण्डालेन रजस्वला ।
अहोरात्रोषिता भूत्वा पञ्चगव्येन शुध्यति” इति ॥
श्वादिस्पर्शे विशेषमाह यमः–
“रजस्वला तु संस्पृष्टा शुना जम्बूकवायसैः50 ।
निराहारा भवेत्तावद्यावत्कालेन शुध्यति” इति ॥
एतदकामतः ।
कामतस्तु रजस्वलानुवृत्तौ बृहस्पतिः–
“शुना चोच्छिष्टयाऽशूद्रा संस्पृष्टा द्व्यहमाचरेत् ।
अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत्” इति ॥
प्रथमद्वितीयदिने श्वादिस्पर्शे द्व्यहं, तृतीये दिनेऽहोरात्रं, परतश्चतुर्थेऽह्नि नक्तमित्यर्थः । अत्रापि तान्यहानि व्यतिक्रम्येति योज्यम् ।
बौधायनः–
“रजस्वला तु संस्पृष्टा ग्राम्यकुक्कुटसूकरैः ।
श्वभिः स्नात्वा पिबेत्तावद्यावच्चन्द्रस्य दर्शनम्” इति ॥
चन्द्रदर्शनं नक्तमित्यर्थः । एतदशक्तायाश्चतुर्थदिनविषयं वा । रजकादिस्पर्श तु श्वस्पर्शसमानमेव, तयोः समानत्वादिति शूलपाणिः ।
यत्तु प्रचेताः–
“रजस्वला तु संस्पृष्टा शुना चण्डालरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति” ॥
इति, तत्कामतोऽभ्यासे । भोजनकाले श्वान्त्यजादिस्पर्शे तु बौधायनः–
“रजस्वला तु भुञ्जाना श्वान्त्यजादीन्स्पृशेद्यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥
अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वाऽथ भोजनम्” इति ॥
स्मृत्यन्तरे–
“पुष्पिणी संस्पृशेन्मोहादशुद्धं वा नरं क्वचित् ।
स्नानादर्वाङ्न भुञ्जीत भुक्त्वा कृच्छ्रं समाचरेत् ॥
स्पृष्ट्वोदक्या पञ्चनखान्द्विशफैकशफान्पशून् ।
अण्डजानि च सर्वाणि नाद्यादास्नानवासरात्” इति ॥
उच्छिष्टयोः परस्परं स्पर्शे त्वत्रिः–
“उच्छिष्टोच्छिष्टसंस्पृष्टा कदाचित्स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति” इति ॥
दानं पादकृच्छ्रसमम् । अत्र पूर्वाशब्देन ब्राह्मणक्षत्रियवैश्यस्त्रियोऽभिधीयन्ते । तेन रजस्वलयोः समानजातीययोर्ब्राह्मणीक्षत्रियावैश्यानां परस्परं स्पर्शे प्राजापत्यम् । असमानजातीययोः स्पर्शे त्वेकैकवृद्धिरूहनीया । तादृशशूद्रयोः परस्परं स्पर्शे तूपवाससहितप्राजापत्याम्नायदानेन शुद्धिः । एतच्च कामतः । अकामतस्तदर्धम् ।
शूलपाणिस्तु–
“उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ।
कृच्छ्रेण तु विशुध्येत शूद्रा दानेन शुध्यति” ॥
इति पपाठ । उच्छिष्टेन चण्डालादिनेत्यर्थः । अत्रापि दानं पादकृच्छ्रसमम् । एषु रजस्वलात्वमेव निमित्तम् । अतो न क्षत्रियावैश्ययोर्ब्राह्मण्यादि(णी)भ्यो विशेष इत्यपि शूलपाणिः ।
उच्छिष्टद्विजसंस्पर्शे तु मार्कण्डेयः–
“द्विजान्कथञ्चिदुच्छिष्टान्संस्पृशेच्चेद्रजस्वला ।
अधोच्छिष्टे त्वहोरात्रमूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत्” इति ॥
अधोच्छिष्ट इत्यत्र सन्धिरार्षः । अधोच्छिष्टक्षत्रियादिस्पर्शे ब्राह्मण्या
अधिकं कल्प्यम् । एवं हीनाया उच्छिष्टोत्तमस्पर्शे न्यूनम् ।
भोजनकाले रजस्वलान्तरं दृष्ट्वा पुनर्भोजने त्वापस्तम्बः–
“उदक्या यदि वा भुङ्क्ते दृष्ट्वाऽन्यां तु रजस्वलाम् ।
आस्नानकालं नाश्नीयात्पञ्चगव्यं ततः पिबेत्” इति ॥
एतच्च कामत इति शूलपाणिः ।
भोजनकाले चण्डालदर्शने त्वत्रिः–
“रजस्वला तु भुञ्जाना चण्डालं यदि पश्यति ।
उपवासत्रयं कुर्यात्प्राजापत्यं तु कामतः” इति ॥
रजस्वलाया आशौचिस्पर्शे शातातपः-
“आर्तवाभिप्लुता नारी स्पृशेच्चेच्छवसूतकम् ।
ऊर्ध्वं त्रिरात्रात्स्नानात्तां त्रिरात्रमुपवासयेत्” इति ॥
अत्रिः–
“आर्तवाभिप्लुता नारी मृतसूतकिनं स्पृशेत् ।
अभुक्त्वा च चरेत्कृच्छ्रं भुक्त्वा तु त्र्यहमेव तु” इति ॥
आशौचिस्पर्शे स्नानात्प्राग्रजोदर्शने मार्कण्डेयः–
“मृतसूतकिसंस्पर्श ऋतुं दृष्ट्वा कथं भवेत् ।
आस्नानकालं नाश्नीयाद्भुक्त्वा चान्द्रायणं चरेत्” इति ॥
आस्नानकालपर्यन्तं चतुर्थदिनपर्यन्तम् ।
मदनरत्ने स्मृत्यन्तरे–
“अप्रायत्ये समुत्पन्ने मलवद्वसना यदि ।
अभिषेकेण मुक्तिः51 स्याद्दिनत्रयमभोजनम्” इति ॥
अभिषेकेण मुक्तिः सद्यः स्नानेन भोजनम् । इदमशक्ताया बालापत्याविषयं वा । शक्तायास्तु त्रिरात्रमुपवासः ।
बन्धुमरणश्रवणादौ व्यासः–
“मलवद्वसनायास्तु अप्रायत्यं भवेद्यदि ।
अभिषेकेण शुद्धिः स्यादभुक्तिश्च दिनत्रयम्” इति ॥
अत्रापि पूर्ववद्व्यवस्था । दिनत्रयमित्यवशिष्टकालोपलक्षणम् । अप्रायत्यं बन्धुमरणादिना । पश्वादिस्पर्शे कश्यपः–
“स्पृष्ट्वोदक्या पञ्चनखान्द्विशफैकशफान्पशून् ।
अण्डजानि च सर्वाणि अनशः स्नानवासरात्” इति ॥
अनशोऽनशनम् ।
श्वादिदंशे पुलस्त्यः–
“रजस्वला यदा दष्टा शुना जम्बूकरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
ऊर्ध्वं तु द्विगुणं नाभेर्वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दंशेऽन्यत्राशुचिर्भवेत्” इति ॥
अन्यत्र रजस्वलावस्थाया इति शेषः । यत्र यत्र स्नानं दिनत्रयमध्ये विहितं तत्र पूर्वाक्तेन नैमित्तिकस्नानप्रकारेण कर्तव्यम् ।
इति रजस्वलायाः शुद्धिविचारः ।
प्रसङ्गाद्रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः
अथ प्रसङ्गाद्रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः ।
तत्र चेतनानां सचैलं स्नानम् । अचेतनानां पीठादीनां प्रक्षालनम् ।
रजस्वलास्पृष्टचेतनस्पर्श आचमनम् ।
“नरो रजस्वलास्पृष्टः सचैलं स्नानमाचरेत् ।
अचेतनांस्तया स्पृष्टान्क्षालयेच्छुद्धवारिणा ॥
उदक्यास्पृष्टसंस्पर्शे शुद्धिराचमनेन हि” ॥
इति स्मृत्यन्तरोक्तेः । उदक्या रजस्वला । एतच्चाकामतः ।
कामतस्तु–
" दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति” ॥
इति मनूक्तं स्नानमेव तस्यापि ।
तृतीयस्याप्याचमनमाह सव्ँवर्तः–
“तत्स्पर्शिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते ।
ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा” इति ॥
एतदप्यकामतः । कामतस्तु स्नानमेव ।
तथा च गौतमः–
“चण्डालसूतिकोदक्याशवस्पर्शिनस्तत्स्पर्श्युपस्पर्शने
सचैलस्नानाच्छुध्येत्” इति ।
एवं चतुर्थस्यापि ।
“उपस्पृश्याशुचिस्पृष्टं तृतीयं चापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याऽऽचम्य शुध्यति” इति देवलोक्तेः ।
अपिशब्दात्पञ्चमादीनामपि ग्रहणम् ।
अशुद्धस्योदक्यादिस्पर्शे तु स एवाऽऽह–
“अशुद्धः स्वयमप्येतानशुद्धांस्तु यदि स्पृशेत् ।
स शुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः” इति ॥
स्मृत्यर्थसारे–
“परिवेषणे रजोदृष्टौ तत्स्पृष्टान्नस्य त्यागः । अन्नाधारे
चण्डालसूतिकोदक्यादिस्पृष्टे रजकादिस्पृष्टे च जले निक्षि-
प्याग्निमर्कं वा स्पृशेत्” इति ।
इति रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः ।
प्रसङ्गात्सङ्क्षेपेण स्त्रीधर्माः
अथ प्रसङ्गात्सङ्क्षेपेण स्त्रीधर्माः ।
तत्र मनुः–
“बाल्ययौवनवत्या वा वृद्धया वाऽपि योषिता ।
न स्वातन्त्र्येण कर्तव्यं किञ्चित्कार्यं गृहेष्वपि ॥
पित्रा भर्त्रा सुतेनापि नेच्छेद्विरहमात्मनः ।
एषा हि विरहेण स्त्री गर्हिता स्यात्कुलद्वये ॥
सदा प्रतिष्ठया भाव्यं गृहकार्येषु दक्षया ।
संस्कृतोपस्करतया व्यये चामुक्तहस्तया” इति ॥
मनुः–
“पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥
सूक्ष्मेभ्योऽपि प्रमादेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः” इति ॥
भारते–
“यानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वापोऽन्यगेहे वासश्च स्त्रीणां वै दूषणानि षट् ॥
नैता रूपं परीप्सन्ते नाऽऽशङ्का वयसि स्थितिः ।
सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जते ॥
शय्यासनमलङ्कारं कामं क्रोधं तथाऽऽर्जवम् ।
द्रोहभावं कुकार्यं च स्त्रीभ्यो मनुरकल्पयत् ॥
न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्” इति ।
स्त्रीणां दोषा अप्युक्ताः पुराणे–
“अनृतं साहसं माया मूर्खत्वमतिलोभता ।
अशुचित्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः” इति ॥
याज्ञवल्क्यः–52
“संस्कृतोपस्करा दक्षा त्दृष्टा व्ययपराङ्मुखी ।
कुर्याच्छ्वशुरयोः पादसेवनं भर्तृतत्परा ॥
स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।
आ शुद्धेः सम्प्रतीक्ष्यो हि महापातकदूषितः” इति ॥
महापातकादिदूषितो भर्ता यावत्पर्यन्तं शुद्धो53 न भवति तावत्पर्यन्तं सङ्गमार्थं भर्त्राऽऽहूताऽपि न तद्वचोऽङ्गी कुर्यादेवं भोजने, इति तात्पर्यार्थः ।
मनुः–
“विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ।
उपचारैः स्त्रिया साध्व्या सततं देववत्पतिः ॥
पूजनीय इति शेषः ।
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
शुश्रूषयति भर्तारं तेन स्वर्गे महीयते ॥
पत्यौ जीवति या नारी उपोष्य व्रतचारिणी ।
आयुष्यं हरते भर्तुर्नरकं चाधिगच्छति” इति ॥
अयं चोपवासनिषेधो मासोपवासधारणापारणादिव्रतोपवासपरो न तु गौर्यादिव्रतकुलधर्मोपवासपर इति निबन्धकाराः । युक्तं चैतत् । अन्यथा हरितालिकादिसौभाग्यकारकव्रतकुलधर्मोपवासाचरणोच्छेदापत्तेः ।
याज्ञवल्क्यः–
“स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुध्यति ।
सुस्नाता भर्तृवदनमीक्षेन्नान्यस्य कस्यचित् ।
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥
हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा ।
कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् ॥
कूर्पासकं तालवृन्तादि ।
केशसंस्कारकबरीं करकर्णविभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूषयेन्न क्वचित्सती ॥
भर्तृविद्वेषिणीं नारीं न सम्भाषेत कर्हिचित् ।
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति वै क्वचित् ॥
नोलूखले न मुसले न वर्धन्यां दृषद्यपि ।
न यन्त्रके न देहल्यां सा स्त्री चोपविशेत्क्वचित् ॥
उक्ता प्रत्युत्तरं दद्यान्नारी क्रोधेन सय्ँयुता ।
सा शुनी जायते ग्रामे शृगाली निर्जने वने ॥
अतिवादो न कर्तव्यः कलहं दूरतस्त्यजेत् ।
गुरूणां सन्निधौ क्वापि न ब्रूयान्न च वै हसेत् ॥
ताडिता ताडितुं चेच्छेत्सा व्याघ्री54 द्विपदंशिका ।
भर्तारं या समुत्सृज्य मिष्टमश्नाति केवलम् ॥
ग्रामे सा सूकरी वा स्याच्छार्दूली वा पुरीषभुक्” इति ।
योगी–
“क्रीडाशरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका” इति ॥
देवलः–
“पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
इह कीर्तिमवाप्नोति प्रेत्य चाप्युत्तमां गतिम्” इति ॥
स्मृत्यन्तरे–
“तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ।
शङ्करादपि विष्णोर्वा पतिरेवाधिकः स्त्रियाः” इति ॥
स्कान्दे–
“प्रातःकाले तु या नारी दद्यादर्घ्यं विवस्वते ।
सप्तजन्मनि वैधव्यं सा नारी नैव पश्यति ॥
कृत्वा तु मण्डलं बाह्ये सूर्यं तत्राक्षतादिभिः ।
पूजयेत्सततं या वै तस्यास्तुष्यन्ति देवताः ॥
प्रातःकाले तु या नारी शुचिर्भूत्वा समाहिता ।
पूजयेद्द्वारदेशं तु सर्वान्कामान्समश्नुते ॥
न ददाति यदा नारी ज्येष्ठायै प्रत्यहं बलिम् ।
भोज्यान्नेन यथाशक्ति सा प्रेत्य नरकं व्रजेत् ॥
अवश्यमेव नारीभिर्ज्येष्ठाया बलिकर्मणा ।
प्रीणनं प्रत्यहं कार्यं पुत्रपौत्रधनेप्सुभिः” इति ॥
भारते–
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
वनिताः केशशूलिन्यो भविष्यन्ति कलौ युगे” इति ॥
अस्यार्थमाह परशुरामः–
“अट्टमन्नं शिवो वेदः शूलं विक्रय एव तु ।
केशश्च भगमित्याहुर्वेदतत्त्वार्थदर्शिनः” इति ॥
भविष्यन्ति कलौ युग इत्यनेन निन्द्यत्वप्रदर्शने तात्पर्यम् ।
एवं च स्त्रीभिर्व्यभिचारो वर्ज्य इति प्रकृतार्थः ।
“भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ।
पत्यौ भुङ्क्ते(क्ते) तु या भुङ्क्ते ह्यासीना चापि चाऽऽसिते ।
विनिद्रिते विनिद्राति सा स्त्री ज्ञेया पतिव्रता ॥
आर्ताऽऽर्ते मुदिते त्दृष्टा प्रोषिते मलिना कृशा ।
नम्रीभूता या मनसा सा स्त्री ज्ञेया पतिव्रता” इति ॥
शङ्खः–
“प्रेम्णा न त्वरितं व्रजेन्न परपुरुषं सम्भाषेत न हास्यं कुर्यादागु-
ल्फाद्वासः परिदध्यान्न स्तनावनावृतौ कुर्यान्न भर्तारं तद्बन्धून्वा
द्विष्यान्न गणिकाधूर्तादिभिः सहैकत्र तिष्ठेत्” इति ।
अनावृतावनाच्छन्नौ ।
स्मृत्यन्तरे–
“भुङ्क्ते भुक्ते तु या पत्यौ तस्मिंस्तिष्ठति तिष्ठति ।
निद्रिते च विनिद्राति प्रथमं परिबुध्यते ॥
अनलङ्कृतमात्मानं पत्युर्नो दर्शयेत्क्वचित् ।
कार्यार्थं प्रोषिते पत्यौ स्यादलङ्कारवर्जिता ॥
न च तन्नाम गृह्णीयात्तस्याऽऽयुष्यविवृद्धये ।
आक्रुष्टाऽपि न चाऽऽक्रोशेत्ताडिताऽपि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ।
इदं कुर्विति पत्योक्ते स्वामिन्कृतमेव मन्यतामिति या वक्ति सा पतिव्रतेत्यर्थः ।
आहूता गृहकर्माणि त्यक्त्वाऽऽगच्छति सत्वरम् ॥
आगच्छतीति पदच्छेदः ।
पूजोपकरणं सर्वमप्सु संशोधयेत्स्वयम् ।
उदकं पत्रपुष्पादि पूजार्थं सम्भरेत्स्वयम् ॥
सेवेत भर्तुरुच्छिष्टं पिष्टमन्नफलादिकम् ।
महाप्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छति” इति ॥
स्त्रीशूद्रद्विजबन्धूनां वेदश्रवणेऽनधिकारः ।
तथा च पुराणम्–
“स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
इति भारतमाख्यातं कृपया मुनिना कृतम्” इति ॥
द्विजाच्छूद्रायां जातो द्विजबन्धुः । यदीयश्रवणेऽनधिकारे किमु वक्तव्यं पठनानधिकारे ।
सूतसंहितायाम्–
“अन्ये च ब्राह्मणा विष्णो राजानश्च तथैव च ।
वैश्याश्च तारतम्येन ज्ञानाभ्यासेऽधिकारिणः ॥
द्विजस्त्रीणामपि श्रौतज्ञानाभ्यासेऽधिकारिता ।
शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने ॥
सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः” इति ॥
सिद्धान्तः स्मृत्यर्थः ।
रामायणेऽपि–
“पठन्द्विजो वागृषभत्वमीयात्सुक्षत्रियो भूपतितां समीयात् ।
वणिग्जनः पुण्यफलत्वमीयाच्छृण्वंस्तु शूद्रोऽपि महत्त्वमीयात्” इति ॥
इदमपि विप्रद्वारैव ।
तदुक्तं भविष्ये–
“देवार्चां पुरतः कृत्वा ब्राह्मणांश्च नृपोत्तम ।
श्रोतव्यमेव शूद्रेण तथाऽन्यैश्च द्विजातिभिः” इति ॥
स्मृत्यन्तरेऽपि–
“श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः” इति ।
पुराणश्रवणविधानादेव तदन्तर्गतवैदिकमन्त्रश्रवणेऽपि न दोषः ।
तदुक्तं वार्तिके–
“तानेव वैदिकान्मन्त्रान्भारतादिनिवेशितान् ।
विहाय मन्त्रनियमं लोकबुद्ध्या प्रयुञ्जते” इति ॥
यद(द्य)प्यदृष्टहेतुत्वं न वैदिकत्वं विनाऽस्ति तेन स्तोत्रादेरपि वेदे सत्त्वं कल्प्यते तथाऽपि वचनाद्दोषाभावः। एवं55 च शूद्रस्य विप्रद्वारेण पुराणश्रवणेन ज्ञानमिति । नन्वेवं श्रवणविधौ श्रावयेच्चतुरो वर्णानित्युक्तेर्द्विजानामपि मन्त्रश्रवणमेव स्यान्न पाठ इति चेत् ।
अत्र ब्रूमः–
“अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च ।
निषेकादिश्मशानान्ताः” ॥
इत्य्-आदिवचनेभ्योऽध्ययनस्यैव कर्माङ्गत्वम् ।
श्रवणं तु फलविशेषार्थम् ।
“य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किचित्सोऽमुत्रेह च मानवः” ॥
इत्य्-आदौ चण्डीपाठादौ च फलश्रुतेः ।
“य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम्” इति याज्ञवल्क्योक्तेश्च ।
पुराणाध्ययनश्रवणयोर्विधानेऽप्यध्ययनं ज्ञानद्वारा कर्मार्थत्वाद्दृष्टार्थं श्रवणं त्वदृष्टार्थमेव । शूद्राणां तु विपरीतं श्रवणं ज्ञानद्वारा कर्मार्थत्वाद्दृष्टार्थं फलार्थत्वाददृष्टार्थं च ।
अध्ययनं तु नास्त्येव ।
“श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन” इति वचनात् ।
“सुगतिमियाच्छ्रवणात्तु शूद्रजातिः” इति हरिवंशोक्तेश्च ।
एतेन पुराणविष्णुसहस्रनामचण्डीस्तोत्रादिपाठेऽधिकारोऽप्यपास्तः ।
यत्तु सहस्रनामप्रतिपादके स्तोत्रे–
“वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्” ॥
इति वचनं तदपि श्रवणपरमेव । आहुश्च श्रीमच्छङ्कराचार्या एतद्व्याख्याने–
‘शूद्रः सुखमवाप्नुयात्’ इत्यत्र शूद्रः श्रवणेनैवेति ।
गणपतिसहस्रनामप्रतिपादके स्तोत्रे तु–
“सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरपि ।
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये” ॥
इति वचनादधिकारः । एवमन्यत्रापि । किं बहुना शूद्रकर्तृकस्नानदानश्राद्धादौ द्विजस्यैव पौराणमन्त्रपाठः । शूद्रस्य तु श्रवणमात्रम् । स्त्रीणामनुपनीतानां शूद्राणां च स्थापनेऽधिकारो न ।
“स्त्रीणामनुपनीतानां शूद्राणां56 च नरेश्वर ।
स्थापने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य वा” ॥
इति वचनादिति केचित् ।
विष्ण्वादिप्रतिष्ठायां शूद्रस्य विकल्प इत्यन्ये । पूजा च स्पर्शरहिता । शिवपञ्चाक्षरादयो मन्त्रा नमोन्ता ज्ञेयाः । एतन्मूलं शूद्रप्रकाशकमलाकरादौ द्रष्टव्यम् ।
अत्र यानि शूद्रपराणि वाक्यानि तानि स्त्रीपराण्यपि ज्ञेयानि ।
“स्त्री शूद्राश्च सधर्माणः” इतिवचनात् ।
इति सङ्क्षेपेण स्त्रीधर्माः ।
गर्भाधानकालः
अथ गर्भाधानकालः ।
तत्रेदं धर्मसूत्रम्–
“ऋतौ च सन्निपातो दारेणानुव्रतम्” इति ।
रजोदर्शनदिनमारभ्य षोडशाहोरात्रपरिमित ऋतुः । तत्र सन्निपातः सय्ँयोगो दारेण कर्तव्यः । छान्दसमेकवचनम् । बहुवचनान्तो हि दारशब्दः । शास्त्रतो नियमो व्रतं तदनुरोधेनेत्यर्थः ।
ऋतुदिनसङ्ख्यामाह मनुः–
“ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सह गर्हितैः ।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थी सव्ँविशेदार्तवे स्त्रियम्” इति ॥
अत्र रात्रिग्रहणाद्दिवसप्रतिषेधः ।
तथा च शङ्खलिखितौ–
“नाऽऽर्तवेऽपि दिवा व्रजेत्” इति ।
याज्ञवल्क्यः–
“षोडशर्तुर्निशाः स्त्रीणां तस्मिन्युग्मासु सव्ँविशेत् ।
ब्रह्मचर्ये च पर्वाण्याद्याश्चतस्रो विवर्जयेत्” इति ॥
स्त्रीणां षोडश निशा ऋतुर्गर्भग्रहणयोग्यः कालः । तत्र सर्वासु युग्मासु गमनमावश्यकं, युग्मास्विति बहुवचननिर्देशात् । यत्र श्राद्धादौ ब्रह्मचर्यं विहितं तत्राप्यृतौ गच्छतो न ब्रह्मचर्यस्खलनदोषः । पर्वाणीति बहुत्वेनाष्टमीचतुर्दश्योर्ग्रहणमिति विज्ञानेश्वरः ।
यस्तु हेमाद्रौ शिवरहस्ये–
“दिवा जन्मदिने चैव न कुर्यान्मैथुनं व्रती ।
श्राद्धं दत्त्वा57 च भुक्त्वा च श्रेयोर्थी न च पर्वसु” ॥
इति श्राद्धदानभोजनदिवसे स्त्रीगमननिषेधः सोऽनृतुविषयः । दर्शादौ तु न भवत्येव । पर्वणां पर्युदस्तत्वात् ।
“ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः ।
ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि ॥
तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत्” ॥
इति पाद्मीयशिवगीतास्थवचनव्याख्यानावसरे व्यङ्कटदीक्षितास्तु–
“यत्तु ऋतौ गच्छेदेवेति नियमस्य श्राद्धादौ ब्रह्मचर्यविधानस्य च परस्पर-
परिहारेण लब्धावकाशस्य सामान्यविशेषभावानापन्नस्यैकत्र प्रसक्तौ किं
बाध्यमिति संशये गच्छतोऽपि न ब्रह्मचर्यस्य भङ्ग इत्य्-आशयेन ब्रह्मचर्ये
चेति मूलमिति विज्ञानेश्वरेण व्याख्यातं तच्चिन्त्यम् ।
‘ऋतुकालनियुक्तोऽपि नैव गच्छेत्स्त्रियं क्वचित्’ ।
इति श्राद्धप्रकरणस्थवृद्धमनुवचनविरोधात् । तस्मान्नाऽऽर्तवेऽपि दिवा
व्रजेदिति शङ्खलिखितस्मृतिं प्रति मूलतयोपन्यस्ते ‘प्राणं वा एते प्रस्क-
न्दन्ति ये दिवा रत्यां सय्ँयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ सय्ँयुज्यन्ते’
इत्य्-आथर्वणश्रुतिवाक्य इव याज्ञवल्क्यस्मृतावपि ब्रह्मचर्योक्तिरर्थवादरू-
पेति माधवाचार्यप्रभृतीनां ग्रन्था एव प्रबलाः” इत्य्-आहुः ।
षोडशदिनरूपोऽवधिः षोडशदिनावधिस्तमभिव्याप्येत्याषोडशदिनावधि । तथा च रजोदर्शनदिनमारभ्य षोडशदिनात्मक ऋतुकालो निर्दिष्टः । शास्त्रकारैरिति शेषः । एवं स्थिते नारी चतुर्थदिवस ऋतुस्नाता भवेत् । ततश्चतुर्थदिवसानन्तरं तत्रर्तावयुग्मदिने पञ्चमादौ स्त्री स्याद्युग्मदिने षष्ठादौ पुमान्भवेत् । यद्यपि रजोबाहुल्यादिकं स्त्रीत्वादौ हेतुतयोक्तं तथाऽप्ययुग्मायां रजोबाहुल्ये युग्मायां शुक्रबाहुल्ये च तावदविरोध एव । यदा त्वयुग्मायां शुक्रबाहुल्यं तदा तु पुमानेव भवति किन्तु स्त्र्याकृतिः । कालरूपनिमित्तकारणापेक्षयोपादानकार णीभूतस्य रजसः प्राबल्यादिति विज्ञानेश्वरप्रभृतयः । एवं युग्मायां रजोबाहुल्येऽपि स्त्र्येव पुरुषाकृतिर्भवतीत्यपि बोध्यम् । अत्र च षोडशदिनात्मकमृतुं निर्दिश्य चतुर्थदिवसानन्तरमेव पुत्राद्युत्पत्तिं वदताऽऽद्यचतुष्टयं वर्ज्यमिति सूचितम् ।
तथा च याज्ञवल्क्यः–
“षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु सव्ँविशेत् ।
ब्रह्मचर्ये च पर्वाण्याद्याश्चतस्रो विवर्जयेत्” इति ॥
युग्मास्वपि प्रतिषिद्धेतरास्वेव गच्छेत् ।
ताश्चोक्ता मनुना–
- “तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या ।
त्रयोदशी च शेषाः स्युः प्रशस्ता दश रात्रयः” इति ॥
एकादशीत्रयोदश्यावृतोर्न पक्षस्येति मदनपारिजाते ।
यत्तु–“चतुर्थ्यां स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषामाचम्योपह्वयते” ।
इति गृह्योक्तं चतुर्थ्यां रात्रौ गमनं, यच्चाऽऽपस्तम्बोक्तं–
“चतुर्थीप्रभृत्याषोडशीमुत्तरां युग्मां प्रजानिःश्रेयसमृतृगमनमित्युपदिशन्ति” ।
इति, यच्च हारीतोक्तं–
“चतुर्थेऽहनि स्नातायां युग्मासु च गर्भाधानं तदुपेतं ब्रह्मगर्भं संदधाति”5859 ।
इति, तद्रजोनिवृत्तौ ज्ञेयम् ।
“स्नानं रजस्वलायास्तु चतुर्थेऽहनि शस्यते ।
गम्या निवृत्ते रजसि नानिवृत्ते कथञ्चन” इत्य्-आपस्तम्बोक्तेः ।
“रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला” इति मनूक्तेश्च ।
वस्तुतस्तु स्वसूत्रे स्पष्टतयोक्तस्य चतुर्थीगमनस्य स्मृत्या सङ्कोचोऽत्यन्तानुचितः । तथा चानिवृत्तेऽपि रजसि चतुर्थ्यां गमनं भवत्येवेत्ययमेव कल्पः साधीयान् । मनुवचने साध्वी गमनार्हेति माधवः । एवं चानन्तरोक्ते मनुवचने चतुर्थीनिषेधो रजोनिवृत्तिसद्भावपरः । अनन्तरोक्ते हारीतवचने युग्मास्वित्यनेनैव चतुर्थीग्रहणे सिद्धे पृथगुपादानं मुख्यत्वद्योतनार्थमिति ज्ञेयम् । एतदपि रजोनिवृत्तावेव ।
पर्वाणि वर्जयेदिति याज्ञवल्क्येनोक्तम् । तत्र तानि कानीत्यपेक्षायां ब्रह्मपुराणे–
“चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च ॥
तैलस्त्रीमांसभोगी च सर्वेष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं नृप” इति ॥
चकारादेकादश्या ग्रहणम् । एतेषु पर्वसु ।
मनुरपि–
“अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः” इति ॥
श्रुतिरपि–
“नामावास्यायां च पौर्णमास्यां च स्त्रियमुपे-
याद्यदुपेयान्निरिन्द्रियः स्यात्” इति ।
याज्ञवल्क्यः–
“एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान्” इति ॥
क्षामा कृशा । एतच्च क्षामत्वं रजस्वलाव्रतेनैव भवति । नो चेदल्पस्निग्धभोजनादिना कार्यं रजःक्षयार्थम् ।
तथाच बृहस्पतिः–
“स्त्रियाः शुक्रेऽधिके स्त्री स्यात्पुमान्पुंसोऽधिके भवेत् ।
तस्माच्छुक्रविवृद्ध्यर्थं स्निग्धं भक्ष्यं प्रकल्पयेत् ॥
लघ्वाहारां स्त्रियं कुर्यादेवं सञ्जनयेत्सुतम्” इति ।
मनुः–
“पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्ययः” इति ॥
अपुमान्नपुंसकः । पुंस्त्रियौ वा यदि बीजविभागः ।
तदाह यमः–
“यदि सम्भोगकाले तु पुरुषो रागमोहितः ।
द्विधा समुत्सृजेच्छ्रुक्रं यमकं तत्र जायते” इति ॥
क्षीणे निःसारे, अल्पे च विपर्ययो गर्भाग्रहणम् । मघां मूलं चेति चकारः शास्त्रान्तरोक्तवर्ज्यनक्षत्राणां समुच्चयार्थः । सुस्थे शुभस्थानस्थिते । इन्दौ चन्द्रे सकृदेकस्यां रात्रौ न द्विस्त्रिर्वेत्यर्थः ।
नारदः–
“उपवीती युग्मतिथौ न नग्नः कामयेत्स्त्रियम् ।
पुत्रार्थी पुरुषस्त्यक्त्वा पर्वमूलाहिपैतृकम्” इति ॥
पुत्रार्थी पुरुष एतानि नक्षत्राणि त्यक्त्वा युग्मतिथौ गच्छेदित्यर्थः । अहिराश्लेषाः । पैतृकं मघाः ।
ग्राह्यतिथय उक्ताः श्रीधरेण–
“षष्ठ्यष्टमीं पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्र हित्वा ।
शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशाङ्कार्यसितेन्दुजानाम्” इति ॥
उभयत्र पक्षद्वये । निषेको गर्भाधानम् । शशाङ्कश्चन्द्रः । आर्यो गुरुः । सितः शुक्रः । इन्दुजो बुधः ।
नक्षत्राणि रत्नमालायाम्–
“विष्णुप्रजेशरविमित्रसमीरपौष्णमूलोत्तरावरुणभानि निषेककार्ये ।
पूज्यानि पुष्यवसुशीतकराश्विचित्रादित्याश्च मध्यमफला विफलाः
स्युरन्ये(न्याः)” इति ॥
विष्णुः श्रवणम् । प्रजेशो रोहिणी । रविर्हस्तः । मित्रोऽनुराधाः । समीरः स्वाती । पौष्णं रेवती । मूलं प्रसिद्धम् । उत्तराशब्देनोत्तरात्रयम् । वरुणभं शततारकानक्षत्रम् । निषेककार्ये गर्भाधानकार्ये, एतानि पूज्यानि । पुष्यः प्रसिद्धः । वसवयाश्रविष्ठाः । शीतकरो मृगशीर्षम् । अश्विनावश्विनीनक्षत्रम् । चित्रा प्रसिद्धा आदित्यं(त्ये) पुनर्वसू60 । एतानि मध्यमफलानि । अन्या अवशिष्टास्तारा विफला इत्यर्थः । मूलस्य विहितप्रतिषिद्धत्वाद्विकल्प इति केचित् । वस्तुतस्तु मूलस्य पूज्यत्वं चिन्त्यमेव ।
वृद्धवसिष्ठसंहितायाम्–
“पौष्णद्वये पैतृभयाम्यसार्पविष्णुद्वये नैव च जन्मभेषु ।
उत्पातपापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने” इति ॥
अनिष्टलग्नानि मेषवृश्चिकमकरकुम्भाख्यानि । श्रवणरेवत्योर्विहितप्रतिषिद्धत्वाद्विकल्पः । अत्र जन्मत्रयमपि वर्ज्यम् ।
तथा च प्रयोगपारिजाते बृहस्पतिः–
“श्राद्धं पित्र्यं चिकित्सां च मैथुनाभ्यञ्जने तथा ।
चौलोपनयनादीनि वर्जयेत्तु त्रिजन्मसु” इति ॥
त्रिजन्मानि जन्मनक्षत्रं दशमैकोनविंशे च । जन्मनक्षत्रे(त्रं) तत्पूर्वोत्तरे नक्षत्रे इति केचित् । ज्योतिर्वसिष्ठः–
“उपप्लवे वैधृतिपातयोश्च विष्ट्यादिके पारिघपूर्वभागे ।
सन्ध्यासु पर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम्” इति ॥
ज्यौतिषे–
“दिनेषु युग्मेषु च वक्ष्यमाणैर्योगैः सुतार्थी स्वसतीमुपेयात् ।
दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा तु गण्डं61 तिथिलग्नभागान्” इति ॥
मातापित्रोश्च श्राद्धदिवसपूर्वदिवसोऽपि वर्ज्य इत्युक्तं मुहूर्तमार्तण्डे ।
एतच्च गुरुशुक्रास्तादावपि कार्यम् ।
“उत्सवेषु च सर्वेषु सीमन्त ऋतुजन्मनोः ।
सुरासुरेज्ययोश्चैव मौढ्यदोषो न विद्यते” ॥
इति ज्योतिर्निबन्धे भृगूक्तेः । चकारादतिचारादीनां ग्रहणम् ।
मलमासेऽप्येतद्भवति ।
“अमासङ्क्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत् ।
गर्भाधानादिकर्माणि नाधिमासे62 विवर्जयेत्” इति गर्गोक्तेः ।
स्त्रीणामनेकत्व ऋतुयौगपद्ये गमनक्रममाह देवलः–
“यौगपद्ये तु तीर्थस्य विप्रादिक्रमशो व्रजेत् ।
रक्षणार्थमपुत्रां वा ग्रहणक्रमशोऽपि वा” इति ॥
तीर्थमृतुः । तद्योगपद्ये, अपुत्रां प्रथमं गच्छेत् । सर्वासामपुत्रत्वे पुत्रवत्त्वे वा वर्णक्रमेण ग्रहणक्रमेण वेत्यर्थः । ग्रहणक्रमः पाणिग्रहणक्रमः ।
तथा च कश्यपः–“यौगपद्ये तु तीर्थस्य विवाहक्रमशो व्रजेत् " इति ।
ऋतौ गमनं श्रुतावुक्तम्–ऋतौ भार्यामुपेयादिति ।
ऋतावगमने प्रायश्चित्तमाह बृहस्पतिः–
“आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि ।
ऋतौ न गच्छेद्यो भार्या सोऽपि कृच्छ्रार्धमाचरेत्” इति ॥
ऋतुरत्र स्नानदिनमारभ्य त्रयोदश दिनानि । पञ्चमदिनमारभ्य द्वादशदिनानि वा ।
यत्तु सव्ँवर्तः–
“ऋतौ नोपैति यो भार्यां नियतां व्रतचारिणीम् ।
नियमातिकमात्तस्य प्राणायामशतं स्मृतम्” इति, तदकामतः ॥
एतच्च समानदेशविषयम् ।
“ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः” इति पराशरोक्तेः ॥
सन्निधावित्युक्त्याऽसन्निहितस्य न दोष इत्युक्तं भवति ।
देवलः–
“यः स्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति ।
भ्रूणहत्यामवाप्नोति प्रजा प्राप्ता विनश्यति” इति ॥
स्वस्थ इति वचनादस्वस्थस्य न दोष इत्युक्तं भवति । सूतकादिषु ऋतावगच्छतो न दोषः ।
तथा च मनुः–
“सूतके बन्धने विप्रो हव्यकव्यादिवर्जितः ।
नैनसा लिप्यते तद्वदृतावगमनादपि” इति ॥ एनसा पापेन ।
व्यासः–
“व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु ।
ऋतुकाले तु नारीणां भ्रूणहत्या न युज्यते” इति ॥
ऋतुकाल इत्यनन्तरमगमन इति शेषः । योऽयमृतौ भार्यागमननियमः सोऽजातपुत्रं प्रत्येव । ‘जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इतिश्रुतिमूलकत्वेनास्योपपत्तेः श्रुत्यन्तरकल्पनाया अन्याय्यत्वात् ।
तथा च मनुः–
“ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति” इति ॥
कूर्मपुराणमपि–“ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते” इति ॥
एवं चैकपुत्रोत्पादनेन शास्त्रार्थस्य कृतत्वादानृण्ये च जाते न पुत्रान्तरोत्पादनमावश्यकम्, इति । केचित्तु ऋतोर्निमित्तत्वात्प्रतिनिमित्तं नैमित्तिक्यावृत्तिरुचिता ।
स्मरन्ति च–
“एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्” [इति] इत्य्-आहुः ।
ऋतुकाले भार्याया अपि भर्तारं प्रति गमनं नियतमन्यथा दोषः ।
तथा च सङ्ग्रहे–
“ऋतुस्नाता तु या नारी भर्तारं नानुमन्यते ।
सा मृता तु भवेन्नारी सूकरी च पुनः पुनः” इति ॥
यमोऽपि–
“ऋतुस्नाता तु या नारी भर्तारं नोपगच्छति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीमिति वासयेत्” इति ॥
भ्रूणघ्नीयमिति तां स्त्रियं ग्राममध्ये विख्याप्य प्रकटीकृत्य पृथग्वासयेदित्युत्तरार्धार्थः । अत्रापि सन्निधाविति ज्ञेयम् । प्रायश्चित्तं तु पूर्वोक्तमेव ज्ञेयम् । व्याधितादीनां स्त्रीणामपि भर्तारं प्रत्यृतावगमने न दोषः । अनन्तरोदाहृतव्यासवाक्ये पुल्ँलिङ्गस्याविवक्षितत्वात् ।
अनृतावपि गमनमाह श्रुतिः–
“ता अब्रुवन्वरं वृणामहा ऋत्वियात्प्रजां विन्दामहै काममाविजनितोः
सम्भवामेति तस्मादृत्वियात्स्त्रियः प्रजां विन्दन्ते काममाविजनितोः सम्भ-
वन्ति वारे वृत ह्यासाम्” इति ।
ऋत्वियादृतुकालिकात्पुरुषसम्बन्धात् । आविजनितोः प्रसूतिपर्यन्तम् । सम्भवन्ति मिथुनी भवन्ति ।
धर्मसूत्रेऽपि–“अ न्तरालेऽपि63 दार एव ब्राह्मणवचनाद्वा सव्ँवेशनम्” इति ।
याज्ञवल्क्योऽपि–
“यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः” इति ॥
वरमिन्द्रदत्तवरम् ।
बृहस्पतिरपि–
“ऋतुकालाभिगमनं पुम्भिः कार्यं प्रयत्नतः ।
सदैव वा पर्ववर्ज्यं स्त्रीणामभिमतं हि तत्” इति ॥
विष्णुपुराणेऽपि–
“इति मत्वा स्वदारेषु ऋतुमत्सु नरो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि” इति ॥
यस्तु–
“ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति ।
तुल्यमाहुस्तयोः पापमयोनौ यश्च सिञ्चति” ॥
इति बौधायनेनानृतौ गमननिषेध उक्तः स स्त्रियाः कामाभावे ज्ञेयः ।
कासाञ्चिन्निषेधमाह व्यासः–
“नास्नातां तु स्त्रियं गच्छेन्नाऽऽतुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां नाप्रशस्तां न गर्भिणीम् ॥
वृद्धां वन्ध्यामसद्वृत्तां मृतापत्यामपुष्पिणीम् ।
बहुपुत्रवतीं चैव गमने परिवर्जयेत्” इति ॥
छद्मवत्त्वादिदोषरहिता प्रशस्ता । न प्रशस्ताऽप्रशस्ता तां वर्जयेदित्यर्थः । वृद्धां सरजस्कामपि अशक्तां गर्भधारणे । पुष्पिणी, ऋतुमती । तदन्याऽपुष्पिणी । अप्राप्तार्तवा गतार्तवा च गमनेऽनेन निषिध्यते । बहुपुत्रवतीमित्यत्र बहुपुत्रशब्देनैकादशप्रभृतिरेव सङ्ख्या ग्राह्या ।
“दशास्यां पुत्रानाधेहि” इति लिङ्गात् ।
ऋतुविशेषेण सम्भोगनियमः कामशास्त्रे–
“पक्षान्निदाघे हेमन्ते नित्यमन्यर्तुषु त्र्यहात् ।
स्त्रियं कामयमानस्य जायते न बलक्षयः” इति ॥
यत्तु वाग्भट्टीये–
" त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षनिदाघयोः ।
सेवेत कामतः कामं हेमन्ते शिशिरे बली” ॥
इत्युक्तं, तत्र बलीत्यभिधानेन दृष्टार्थत्वोक्तेर्यथाबलं व्यवस्था ।
रतिदेशमाह पैठीनसिः–
“सव्ँवृत्ते देशे मैथुनायाऽऽह्वयीत” इति । सव्ँवृत्ते परिश्रिते ।
देशविशेषनिषेधो विष्णुपुराणे–
“देवद्विजगुरूणां च व्यवायी नाऽऽश्रमे भवेत् ।
चैत्यचत्वरसीरेषु64 न चैव च चतुष्पथे” इति ॥
देवद्विजगुरूणामाश्रमे व्यवायी न भवेदित्यन्वयः । व्यवायो मैथुनं तदस्यास्तीति व्यवायी ।
रतिसमये दीपसान्निध्यमुक्तं रतिप्रकाशे–“दीपसमीपे रतिं कुर्यात्” इति ।
ज्योतिर्निबन्धे–
“दीपेऽप्रदीप्ते यः सङ्गं करोति मनुजो यदि ।
यावज्जन्म दरिद्रत्वं लभते नात्र संशयः” इति ॥
अयं च दीपो भार्ययैव प्रज्वालनीयः ।
तदुक्तं तत्रैव–
“भार्यैव दीपं प्रज्वाल्य पत्युश्चित्तानुवर्तिनी ।
नमस्कृत्य तु भर्तारं रमयेत्सह तेन तु” इति ॥
दीपे शलाकां प्रज्वाल्य तेन दीपप्रज्वालनं कार्यं न तु साक्षाद्दीपे ।
“दीपेन दीपं प्रज्वाल्य दरिद्री(द्रो) व्याधिमान्भवेत्” ।
इति लैङ्गे दोषस्योक्तेः ।
दीपलोपनं पुरुषस्य निषिद्धम् ।
“दीपप्रलोपनं पुंसां कूश्माण्डच्छेदनं स्त्रियाः ।
अचिरेणैव कालेन वंशच्छेदो भवेद्ध्रुवम्” इति वचनात् ॥
एतच्च सार्वत्रिकं द्रष्टव्यम् । ज्योतिर्निबन्धे । (आचारप्रकाशे6566 स्मृतिसङ्ग्रहे–67
“कञ्चुकोत्थेन मरुता दीपं नैव निवारयेत् ।
आननोत्थेन वातेन हस्तसञ्जातवायुना ॥
विसृजेति समुच्चार्य लोपयेद्दीपमञ्चलात् ।
तावच्च तूष्णीं स्थातव्यं यावच्छेषः प्रशाम्यति” इति ॥
विसृजेत्यत्र दीपः सम्बोध्यः । हे दीप विसृज ज्योतिरिति विसृजेत्यस्यार्थः ।
अञ्चलादञ्चलेन । शेषो दीपशेषः ।)
“प्रदोषकाले या नारी पतिसङ्गं समाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
पादो लग्नतनुश्चैव उच्छिष्टं ताडनं तथा ।
कोपं(पो) रोषं च(पश्च) निर्भर्त्सं(र्त्सः) सय्ँयोगे न च दोषभाक् ॥
कञ्चुकेन समं नारी भर्तुः सङ्गं समाचरेत् ।
त्रिभिर्वषैश्च मध्ये वा विधवा भवति ध्रुवम् ॥
ताडपत्रमिलत्कर्णा यदि मैथुनमाचरेत् ।
पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥
कामातुरेण पतिना सय्ँयोगे यदि याचिता ।
निवारयति तं नारी बालरण्डा भवेत्सदा ॥
(ऋतुस्नातां68 तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां पितृभिः सह मज्जति ॥)
कुङ्कुमं चाञ्जनं चैव ताम्बूलं सिन्दुरं तथा ।
धौतवस्त्रं च कुसुमं सय्ँयोगे च शुभावहम् ॥
नमस्कृत्वा(त्य) भर्तृपादौ पश्चाच्छय्यां समाविशेत् ।
नारी सुखमवाप्नोति न चेद्दुःखस्य भागिनी ॥
गलत्ताम्बूलवदनां नग्नामाक्रन्दरोदनाम् ।
दुर्मुखां(खीं) च क्षुधायुक्तां सय्ँयोगे परिवर्जयेत् ॥
भर्त्रुच्छिष्टं सदा भोज्यमन्नं ताम्बूलमेव च ।
उच्छिष्टं न तु भुञ्जीत गृहस्थो ह्यधरं विना ॥
दीपेनाऽऽत्मतनुच्छायां भर्तुश्चोपरि चेत्त्यजेत् ।
तौ दम्पती दरिद्रत्वमाप्नुवीतां विनिश्चितम्” इति ॥
स्नाने तदुत्तरं च विशेष उक्तः स्मृतिसङ्ग्रहे–
“कोष्णेन वारिणा स्नायात्स्नाताऽऽदौ रविमीक्षयेत् ।
ततो भर्ता प्रेक्षितव्यः कुर्यात्तेनैव भाषणम्” इति ॥
ऋतुगमने विशेषो गृह्यसूत्रे–
“चतुर्थ्या स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषामाचम्योपह्वयते” इति ।
स्नातां कृतस्नानाम् । प्रयतवस्त्रां शुद्धवस्त्राम् । अलङ्कृतां गन्धालङ्कारैर्भूषिताम् । ब्राह्मणसम्भाषामकौटिलब्राह्मणेन69 सम्यग्भाषा भाषणं यस्याः सा ताम् । एतादृशीं स्त्रियमाचमनं कृत्वा समीपमाह्वयत इत्यर्थः ।
(ज्योतिर्ग्रन्थे–“ताम्बूलमादौ70 चर्वित्वा भार्यासङ्गं समाचरेत् " इति ।
शौनकीये–
“एकपूगं सदा श्रेष्ठं द्विपूगं निष्फलं भवेत् ।
अतिश्रेष्ठं त्रिपूगं च अधिकं नैव दृश्यते ॥
द्वात्रिंशत्पर्णकं चैव दद्यात्सर्वमहीभुजे ।
चतुर्विंशतिपर्णं च सामन्तानामुदाहृतम् ॥
दशाष्टपर्णकं ज्ञेयं जामातॄणां विशेषतः ।
द्वादशपर्णं विदुषे बन्धूनां71 दशपर्णकम् ॥
अष्टपर्णं च सर्वेषां सामान्यं तुर्यपर्णकम् ।
त्रिपर्णं तु न दातव्यमेकपर्णं तथैव च ॥
षट्पर्णं तु प्रदातव्यं रिपूणां तु विशेषतः ।
एकद्वित्रिचतुष्पञ्चषड्भिः पूगैः फलं क्रमात् ॥
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः ।
चूर्णपर्णं हरत्यायुः शिरा बुद्धिविनाशिनी ॥
ऊर्ध्वाग्रं विकटं धार्यं पर्णमेकं तथैव च ।
अङ्गुष्ठचूर्णलेपं च चर्चि(र्वि)तं धनदायकम् ॥
अनिधाय मुखे पर्णं पूगं खादति यो नरः ।
सदा जन्मदरिद्री(द्रः) स्यादन्ते न स्मरते हरिम् ॥
तर्जन्या चूर्णमादाय ताम्बूलं न तु खादयेत् ।
यदि वा खादयेन्मूढो रौरवं नरकं व्रजेत् ॥
कनिष्ठानामिकामध्यातर्जन्यङ्गुष्ठयोगतः ।
शोको हानिस्तथा मृत्युरनैश्वर्यायुषी क्रमात् ॥
अङ्गुष्ठेन तु लेपेन सर्वसिद्धिप्रदायकम् ।
जयस्त्रीवस्त्रलाभादि भविष्यति न संशयः ॥
वामहस्तेन खादेन्न स्त्रीहस्तेम तथैव च ।
यदि वा खादयेन्मूढस्तस्य लक्ष्मीर्विनश्यति ॥
दिवा खदिरसारेण ताम्बूलं तु सुशोभितम् ।
रात्रौ खदिरसारेण शक्रस्यापि श्रियं हरेत् ॥
प्रातःकाले फलाधिक्यं चूर्णाधिक्यं तु मध्यतः ।
निशि पर्णाधिकं भक्षेत्तस्य लक्ष्मीर्विवर्धते ॥
क्रमुकसारं त्रिवारं द्विवारं पर्णसारकम् ।
खादिरेण सहैकं च उत्क्षिपेत्सर्वदा बुधः” इति ॥ )
सम्भोगकाले स्त्रियमकञ्चुकां कृत्वा भोगं कुर्यात् ।
“सकञ्चुकरतिं कृत्वा सचैलं स्नानमाचरेत्”
इति रतिप्रकाशे प्रायश्चित्तश्रवणात् । मैथुनकाले तर्जन्यां रौप्यं चेत्तत्परित्याज्यं शिखा च विसर्जनीया ।
“तर्जनीं रौप्यसय्ँयुक्तां ब्रह्मग्रन्थियुतां शिखाम् ।
भोजने मैथुने मूत्रे कुर्वन्कृच्छ्रेण शुध्यति”
इति सङ्ग्रहे प्रायश्चित्तश्रवणात् ।
सम्भोगोत्तरकृत्यं धर्मसूत्रे–“उदकोपस्पर्शनम्” इति ।
उदकोपस्पर्शनं स्नानम् । एतच्चर्तुकाल इति व्याख्यातमुज्ज्वलाकृता ।
पराशरोऽपि–“ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम्” इति ।
एतच्च स्नानमशिरस्कम् । ऋतुगमननिमित्तकस्नानं प्रकृत्य–
“अशिरस्कमेव मज्जनं कुर्यात्” इति बृहद्वसिष्ठोक्तेः ।
अनृतौ तु धर्मसूत्रे–
“लेपान्प्रक्षाल्य पादौ चाऽऽचम्य प्रोक्षणमङ्गानाम्” इति ।
पराशरोऽपि–“अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत्” इति ।
स्त्रीणां तु न स्नानपादप्रक्षालने । तासामशुचित्वाभावात् ।
तथा च वृद्धशातातपः–
“उमावप्यशुची स्यातां दम्पती शयनं गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान्” इति ।
गर्भोत्पत्तावाहात्रिः–
“षण्मासान्कामयेन्मर्त्यो गर्भिणीं स्त्रियमेव हि ।
आदन्तजननादूर्ध्वमेवं धर्मो न हीयते” इति ॥
एवकारः षण्मासानित्यनन्तरमन्वेति । न चैवं ‘काममाविजनितोः सम्भवन्ति’ इत्यनया श्रुत्या प्रसवपर्यन्तं गमनस्याभ्यनुज्ञातत्वादनेन विरोध इति वाच्यम् । तत्र प्रसवापरपर्यायविजननशब्देन ‘अत ऊर्ध्वं प्रसूतिः स्यात्’ इति पारिभाषिकस्यैव विजननस्य ग्रहणान्न विरोधः । आदन्तजननादूर्ध्वं बालके जाते तस्य दन्तजननादूर्ध्वं गच्छेन्न तु ततः पूर्वमित्यर्थः ।
मात्स्यकश्यपाभ्यां वर्षद्वादशकादूर्ध्वमृतोरप्राप्तावपि गमनमुक्तम्–
“वर्षद्वादशकादूर्ध्वं यदि पुष्पं बहिर्नहि ।
अन्तः पुष्पं भवत्येव पनसोदुम्बरादिवत् ॥
अतस्तत्र प्रकुर्वीत स्त्रीसङ्गं बुद्धिमान्नरः” इति ॥
वर्षद्वादशकादितिश्रवणादर्थात्पूर्वं गमनं निषिद्धमिति ज्ञेयम् । चतुर्थीकर्मसम्बन्धिगमनं तु भवत्येव तस्य वैधत्वात् ।
आश्वलायनः–
“दीक्षितस्तु महायज्ञे72 पित्रोः प्राग्वत्सराद्द्विजः ।
नेयाद्भार्यां प्रयत्नेन ऋतावप्यर्थितो बुधः” इति ॥
नेयान्न गच्छेत् । अर्थितः प्रार्थितः । भोगार्थं भार्ययेति शेषः ।
“प्राग्रजोदर्शनात्पत्नीं नेयाद्गत्वा पतत्यधः ।
व्यर्थीकारेण शुक्रस्य ब्रह्महत्यामवाप्नुयात्” ॥
इति दक्षाश्वलायनाभ्यां निषेध उक्तः स बह्वृचादिविषयः । तैत्तिरीयैस्तु रागप्राप्तौ गमनं कार्यमेवेति सुदर्शनः ।
त्रिरात्रमध्ये रजस्वलागमने प्रायश्चित्तमाह याज्ञवल्क्यः–
“त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति” इति ।
त्रिरात्रान्त उपवासत्रयान्त इत्यर्थः ।
“रजस्वलां तु यो गच्छेदुपवासत्रयं चरेत् ।
गवां घृतं समश्नीयात्ततः पापात्स मुच्यते” इति मरीच्युक्तेः ॥
स रजस्वलागामी । एतच्चाकामतः । कामतस्त्वाह सव्ँवर्तः–
“रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा ।
तस्य पापविशुद्ध्यर्थमतिकृच्छ्रं विशोधनम्” इति ॥
अयं च गर्भिणीगमननिषेधोऽनन्तरोदाहृतात्रिवाक्यानुरोधेन सप्तममासमारभ्यैव प्रवर्तते ।
गर्भाधानाकरणे प्रायश्चित्तमाहाऽऽश्वलायनः–
“गर्भाधानस्याकरणात्तस्यां जातस्तु दुष्यति ।
अकृत्वा गां द्विजे दत्त्वा कुर्यात्पुंसवनं पतिः” इति ॥
अकृत्वेत्यनन्तरमपिशब्दोऽध्याहार्यः ।
“प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै ।
कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः” ॥
इति वचनसव्ँवादात् । गां द्विजाय दत्त्वाऽकृत्वाऽपि गर्भाधानं पतिः पुंसवनं कुर्यादित्युत्तरार्धार्थः । एतच्च प्रायश्चित्तं केवलस्य गर्भाधानस्य मुख्यकालानतिक्रान्तेन केवलेन पुंसवनेन सह क्रियायां, मुख्यकालातिक्रान्तेन पुंसवनेन सह क्रियायां तु पूर्वोक्तं कृच्छ्रात्मकं ज्ञेयम् । अथवोभयत्रापि समुच्चयः ।
एतच्च गर्भाधानं मासादिशुभाशुभफलानि विचार्य स्वल्पे दोषे पूर्वं शान्तिं कृत्वा शुभे मुहूर्ते कर्तव्यमेव न तु शुभकालिकत्वापेक्षा । प्रभूतदोषे तु प्रथमर्तौ शान्तिमेव कृत्वाऽग्रे शुभकालिक ऋतौ प्राप्ते कार्यम् ।
तथा च ज्योतिर्वसिष्ठः–
“प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शान्तिककर्म कार्यम् ।
विवर्जयेच्चैव तथैकशय्यां यावद्रजोदर्शनमुत्तमेऽह्नि” इति ॥
ऋतौ प्रभूतदोषत्वं नामानेकदोषवत्त्वं महादोषवत्त्वं वेति द्रष्टव्यम् । महादोषास्तु वैधव्यप्रदत्वकुटिलत्वसन्ततिनाशकत्वादिरूपाः ।
ज्योतिष्कश्यपोऽपि–73
“तिथिवासरधिष्ण्येषु पुष्पं दुष्टेषु दृश्यते ।
गमनं वर्जयेत्तत्र पुनः शस्तेषु दर्शनात्” इति ॥
अत्र प्रभूतदोषे शुभकालिकत्वापेक्षाया विधानादप्रभूतदोषे तस्मिन्नेवर्तौ शान्तिकर्मोत्तरं गर्भाधानानुष्ठानमभ्यनुज्ञातं भवति । तच्छान्तिकर्म शान्तिरत्नमालायां द्रष्टव्यम् ।
गर्भाधानप्रयोगः
अथ गर्भाधानप्रयोगः ।
तत्र रजोदर्शने सति त्रिरात्रं रजस्वला स्त्री, आञ्जनाभ्यञ्जननित्यस्नानदिवास्वापाग्न्यादिस्पर्शरज्जुसर्गबहिर्गमनप्रलेखनच्छेदनदन्तधावनमांसाशनग्रहवीक्षणदेवतावीक्षणाश्लीलाचरणताम्बूलभक्षणतालवृन्तादिबन्धनवस्त्रान्तरधारणपीठशय्याधिरोहणहरिद्रागन्धमाल्यादिधारणकांस्यपात्रभोजनमुखशोधनक्रीडाशिल्पक्रियागृहकर्माध्वगमनरात्रिभोजनशिरोवलेखननखनिकुन्तनपरपुरुषावेक्षणहसनबहुभाषणबहुभोजनादीनि वर्जयेत् । त्रिरात्रमशुचिस्तिष्ठेत् । दग्धे शरावे भुञ्जीयात् । पेयमञ्जलिना पिबेन्महता मृन्मयेन वा पात्रेण ताम्रेण वा । प्रथमर्तौ तु हरिद्रागन्धमाल्यादिधारणे ताम्बूलभक्षणे च न दोष इति विशेषः । अन्यत्समानम् । स्मार्तगार्ह्ययोः कर्मणोः पञ्चमेऽहनि स्नाताऽधिकारिणी भवति । श्रौते कर्मणि चतुर्थेऽहन्यपि स्नाताऽधिकारिणी ।
कर्ता रजोनिवृत्तौ सत्यां चतुर्थ्यादित्रयोदश्यन्तास्वेकादशीत्रयोदशीरहितासु रात्रिषु मध्ये, अन्यथा पञ्चम्यादिषु मध्ये यस्यां कस्याञ्चिद्रात्रौ षष्ठ्यष्टमीचतुर्थीचतुर्दश्येकादशीपूर्णिमामावास्याव्यतिरिक्तायां यस्याङ्कस्याञ्चिद्विष्ट्यादिरहितायां क्षयाहादिश्राद्धासम्बद्धायां च तिथौ रविभौमशनैश्चरव्यतिरिक्ते यस्मिन्कस्मिंश्चिद्वासरे श्रवणरोहिणीहस्तानूराधास्वातीरेवत्युत्तराशततारकाख्येषु जन्मनक्षत्रभिन्नेषु नक्षत्रेषु यस्मिन्कस्मिंश्चिन्नक्षत्र उत्पातपापग्रहैरदूषितेऽतिसङ्कटे पुष्पश्रविष्ठामृगशीर्षाश्विनीचित्रापुनर्वस्वन्यतमे नक्षत्रे वा शुभस्थानस्थिते चन्द्रे मेषवृश्चिकमकरकुम्भव्यतिरिक्ते लग्ने च गर्भाधानं कुर्यात् । तत्र युग्मासु पुत्रार्थी । अयुग्मासु कन्यार्थी । नात्र गुरुशुक्रास्तमलमासादिनिषेधः ।
कर्ता ज्योतिर्वित्प्रोक्ते सुमुहूर्ते प्रातः कृतनित्यक्रियः सभार्य आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ममैतद्भार्याधिकरणजनिष्यमाणसर्वगर्भसंस्कारातिशयसिद्धिबीजगर्भसमुद्भवैनोनिबर्हणक्षेत्रसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमस्यां गर्भाधानं करिष्य इति सङ्कल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र ब्रह्मा प्रीयतामिति विशेषः । ततो रात्रावाचाररत्नमालोक्तरीत्या74 शय्यां परिकल्प्याहतवस्त्रां75 सुगन्धानुलेपनां ताम्बूलादिना सुवासितवक्त्रां पुष्पैर्माल्यैर्भूषणैश्चालङ्कृतां सुगन्धां त्रिरात्रव्रतेनाल्पभोजनेन वा कृशां प्रथमं शिष्टेनाकुटिलेन ब्राह्मणेन शुद्धभावेन कृतसम्भाषां शय्यामारूढां स्वयमपि तथैव भूत्वाऽऽचम्य निवीती भूत्वा तर्जन्यां रौप्यं धृतं चेत्तन्निष्काश्य शिखां विस्रस्य, ‘ॐ विष्णुर्योनिं कल्पयतु० र्धेनुगा भव’ इत्येतैः सुरतार्थं समीपमाह्वयेत् । ततस्तां दीपसमीप एव वामभागे शय्यायां शाययित्वा,
“ॐ सं नाम्नः स हृदयानि सं नाभिः सं त्वचः ।
सन्त्वा कामस्य योक्रेण युञ्जाम्यविमोचनाय” इति सुरतं करोति ।
“ॐ चाक्रवाक सव्ँवननं यन्नदीभ्य उदाहृतम् ।
यद्युक्तो देवगन्धर्वस्तेन सव्ँवनिनौ स्वके” इति मुखमीप्सते ।
“ॐ भूः प्रजापतिनाऽत्यृषभेण स्कन्दयामि वीरं धत्स्वासौ” ।
“ॐ भुवः प्रजापतिनाऽत्यृषभेण स्कन्दयामि वीरं धत्स्वासौ” ॥
“ॐ सुवः प्रजापतिनाऽत्यृषभेण स्कन्दयामि वीरं धत्स्वासौ”
इत्येतैः प्रतिमन्त्रं रेतोऽवस्कन्दयेत् । अधिकं चेत्तूष्णीमेवावस्कन्दनीयम् । एतेषु मन्त्रेष्वसावितिपदं निष्काश्य तत्र भार्यायाः सम्बुद्ध्या दान्तं नाम ग्राह्यम् । यथाऽमुकद इति । नानाविधसुरतप्रकारास्तु पञ्चसायकादिकामशास्त्रग्रन्थेभ्यो द्रष्टव्याः । यदि कामयेत स्वीरित्यङ्गुलीरितिवचनात्स्त्रीणामेव जननायोपगमनं चेत्तदा लिङ्गविरोधाद्वाक्यशेषविरोधाच्च मन्त्राभाव इत्येके ।
अन्ये तु जातिनिर्देशात्पुल्ँलिङ्गस्याविवक्षितत्वाद्दुहितृपुत्रादिपुञ्जननस्य विद्यमानत्वाद्वा लिङ्गार्थवादाविरोधान्न मन्त्राभाव इत्य्-आहुः ।
ततो यज्ञोपवीत्यशिरस्कं स्नानं कृत्वा निष्काशितं तर्जनीधृतं रौप्यं पुनस्तर्जन्यां धृत्वा शिखां बद्ध्वा पौराणाचमनप्राणायामौ कृत्वा विष्णुं संस्मरेत् । ऋतुव्यतिरिक्तकाले गमने तु पादप्रक्षालनाङ्गप्रोक्षणे एव न स्नानम् । लेपप्रक्षालनं त्वत्रापि । ततः पृथक्शयनौ भवतः । भार्यायास्तूभयत्राप्यशुचिता नैवास्ति । ऋतुव्यतिरिक्तकाले स्वेच्छातो न गच्छेत् । स्त्रीच्छया गच्छंस्तु नैव दुष्यति ।
ततः श्वोभूते नित्यनिर्वर्तनानन्तरं ब्राह्मणेभ्यो भूयसीं दत्त्वा देवता विसृज्य ब्राह्मणान्भोजयेत् । अन्यदपि कुलाचारप्राप्तं चेत्तत्सर्वं कर्तव्यम् । नान्दीश्राद्धोत्तरं वा देवताविसर्जनम् । ब्राह्मणभोजनभूयसीदानादिकं तु द्वितीयदिन एव । प्रधानात्पूर्वमेतत्करणस्यात्यन्तविरुद्धत्वादेतेषां प्रधानोत्तराङ्गत्वस्यैव सर्वत्र दृष्टत्वात् । सर्वाण्युपगमनानि समन्त्राणि भवन्तीत्यात्रेयो मुनिर्मन्यते । प्रतिप्रधानं गुणावृत्तिरिति तदाशयः । बादरायणस्तु यद्विवाहोत्तरं चतुर्थ्यां राज्यामुपगमनं यच्च रजोदर्शनोत्तरं चतुर्थ्यादिषूपगमनं तदेव समन्त्रकं नान्यदिति मन्यते । प्रथमस्य स्त्रीसंस्कारार्थत्वाद्द्वितीयस्य गर्भाधानार्थत्वादित्याशयः । यदि दैवाच्चतुर्थीकर्म न कृतमृतुश्च प्राप्तस्तदा पूर्वकृच्छ्रात्मकप्रायश्चित्तपूर्वकं चतुर्थीकर्म कृत्वाऽनन्तरं गर्भाधानसंस्कारः कर्तव्यः । दुष्टमासादौ प्रथमरजोदर्शने ताम्बूलभक्षणादिमङ्गलाचारं न कुर्यात् । द्वितीयादौ शुभशान्तिपूर्वकं कुर्यादिति केचित् । प्रथमे दुष्टरजोदर्शने द्वितीयं प्रतीक्षेत्(त)। तस्मिन्नप्यशुभे विस्तारेण शान्तिं कुर्यादित्यप्यन्ये । प्रथम एव यथाशक्ति शान्तिं चरेत् । द्वितीयादावप्यशुभे विस्तारेण शान्तिं कृत्वा मङ्गलाचारं गर्भाधानं च कुर्यादित्यपरे । तृतीयेऽपि दुष्टेऽतिविस्तारेण शान्तिं कृत्वा गर्भाधानं कुर्यात् । न तु प्रथमद्वितीययोः शान्तिं कृत्वाऽपीति बहवः । तत्र युक्तं ग्राह्यम् । अत्रैकस्मिन्नप्यशुभे प्रभूते दोषे वक्ष्यमाणा शान्तिः कार्या । द्वित्राद्यशुभसन्निपाते तु तत्सूचितबह्वशुभनिरासार्थवक्ष्यमाणाहुतिसङ्ख्याविवृद्ध्या कार्या यथाशक्तीत्यादि ज्ञेयम् । इति गर्भाधानप्रयोगः ।
एवं कृतेऽपि गर्भाधाने यदा गर्भो नोत्पद्यते तदा प्रतिबन्धकीभूतप्रेतनिवृत्त्यर्थं नारायणबलिनागबली76 कार्यौ । तत्र यद्यपि बौधायनसूत्रस्यैव यजुर्वेदिनामभ्यर्हितत्वेन77 ग्राह्यत्वं तथाऽपि नागबलिसूत्रस्येदानीमत्रानुपलम्भाद्बाह्वृच7879 एव नागबलिप्रयोगः प्रदर्श्यते । बौधायनोक्तनारायणबलिविधिसत्त्वेऽपि सन्नियोगशिष्टत्वाद्बाह्वृच8081 एवोच्यते । (बौधायनसूत्रोक्तरीत्या82 क्रियमाणे त्वर्धजरतीयन्याय आपद्येतेति ।)
अथ नारायणबलिगृह्यपरिशिष्टम्–8384
“अथ नारायणबलिरर्वाक्सव्ँवत्सराच्छुद्धे काले शुक्लैकादश्यां स्नातः शुचौ
देशे विष्णुं वैवस्वतं यमं च यथावदभ्यर्च्य तदग्रे तिलमिश्रान्मधुघृतप्लु
तान्दश पिण्डान्विष्णुरूपं प्रेतं ध्यायन्काश्यपगोत्रासौ विष्णुदैवतायं ते पिण्ड इति दक्षिणाग्रेषु दर्भेषु दक्षिणामुखः प्राचीनावीती पराचीनेन पाणिना दत्त्वा पिण्डानर्घ्यादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यां क्षिपेत्, अथ रात्रावयुग्मान्ब्राह्मणान्निमन्त्र्योपोषितः श्वो मध्यन्दिने विष्णुमभ्यर्च्य प्रेतमुद्दिश्य ब्राह्मणानेकोद्दिष्टविधिना85 भोजयित्वा तृप्तेषु ब्राह्मणसमीपे पिण्डविधिना निनयनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च विष्णो अयं ते पिण्ड इत्येवं चतुरः पिण्डान्भक्तशेषेण दक्षिणसंस्थं दत्वाऽथ पञ्चमं काश्यपगोत्र देवदत्तेति प्रेतं ध्यात्वा तद्रूपाय विष्णो अयं त इति दद्यादथाऽऽचान्तान्दक्षिणया सन्तोष्यैकं तेषु गुणवन्तं विशेषतो वस्त्राभरणगोहिरण्यैः प्रेतबुद्ध्या तोषयेदथ तैः पवित्रपाणिभिः प्रेताय काश्यपगोत्राय86 ते तिलोदकाञ्जलिरिति तिलोदकं दापयित्वाऽनेन87 नारायणबलिकर्मणा भगवान्विष्णुरिमं देवदत्तं शुद्धमपापमर्हं करोत्विति वाचयित्वा विसृजेदेष नारायणबलिकल्प एवमन्यामपि स्वाभिमतदेवतां यमद्वितीयायामभ्यर्च्य विधिमिमं कुर्यात्सोऽप्येनमपापं करोति न तु पुण्यकृतोऽपि बलिमेनमकृत्वा पारलौकिकं कुर्यात्कृतं नोपतिष्ठतेऽन्तरिक्षे विनश्यति तस्माद्यथासम्भवमपि कुर्यात्” इति ।
देवदत्तेति तत्तन्नाम्न उपलक्षणम् । प्रेतस्य नामाज्ञाने काश्यपगोत्र विष्णुरूप प्रेतेत्येवं ध्यानम् ।
अथ प्रयोगः ।
कर्ता शुक्लैकादश्यां नदीतीरादिशुचौ देशे स्नानादिनित्यक्रियान्त आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मदीयकुलाभिवृद्धिप्रतिबन्धकप्रेतस्य88 प्रेतत्वनिवृत्त्यर्थं नारायणबलिं करिष्य इति सङ्कल्प्य कलशस्थापनविधिना स्थापितकलशद्वये सुवर्णनिर्मितप्रतिमयोर्विष्णुमावाहयामि89 वैवस्वतं यममावाहयामीति क्रमेणाऽऽवाह्य पुरुषसूक्तेन यमाय सोममिति90 च क्रमेण षोडशोपचारैः सम्पूज्य तत्पूर्वभागे रेखायां दक्षिणाग्रकुशास्तरणान्ते91 शुन्धतां विष्णुरूपी प्रेत इति92 दशसु93 स्थानेषु दक्षिणसंस्थमपो निनीयं94 तत्र मधुघृतप्लुतान्दश पिडान्सतिलान्काश्यप गोत्रामुकप्रेत विष्णुदैवतायं ते पिण्ड इति दक्षिणामुखः प्राचीनावीती दक्षिणाग्रेषु कुशेषु पराचीनेन पाणिना सव्यं जान्वाच्य विष्णुरूपं प्रेतं ध्यायन्दद्यात् ।
ततो गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यादौ क्षिपेत् । तस्यामेव रात्रौ श्वः करिष्यमाणश्राद्धे क्षणः क्रियतामित्येवं पञ्च त्रीनेकं वेत्येवमयुग्मान्ब्राह्मणाञ्श्राद्धोद्देशेन निमन्त्र्योपोषणं कुर्यात् । श्वोभूते मध्याह्ने विष्णुमभ्यर्च्य प्रेतं विष्णुरूपिणमुद्दिश्यैकोद्दिष्टविधिना पादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा ब्राह्मणसमीपे पिण्डपितृयज्ञवदुल्लेखनाद्युदकनिनयनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च नाममन्त्रैश्चतुरः पिण्डान्दत्त्वा विष्णो अयं ते पिण्ड इति विष्णुरूपं प्रेतं ध्यायन्पञ्चमं पिण्डं दत्त्वाऽर्चनादिप्रवाहणान्तं तूष्णीं कृत्वाऽऽचान्तान्ब्राह्मणान्दक्षिणया सन्तोष्य तेष्वेकस्मै गुणवते प्रेतबुद्ध्या वस्त्राभरणगोहिरण्यादि दत्त्वा, एकपक्षे तस्मा एव दत्त्वा, भवन्तः प्रेताय तिलोदकाञ्जलिदानं कुर्वन्त्विति वदेत् । ते च पवित्रपाणयः सकुशतुलसीपत्रतोयाञ्जलिं प्रेताय काश्यपगोत्रायामुकशर्मणे विष्णुरूपिणेऽयं तिलतोयाञ्जलिरिति दद्युः ।
ततो ब्राह्मणान्वाचयेत्, अनेन नारायणबलिकर्मणा भगवान्विष्णुरिमं प्रेतं शुद्धमपापमर्हं करोत्विति । ततो विप्रास्तथाऽस्त्विति प्रत्यूचुः (प्रतिब्रूयुः)। ततः कर्ता स्नात्वा भुञ्जीतेति । इति नारायणबलिप्रयोगः ।
नागबलिः
अथ नागबलिः ।
तत्र शौनकः–
“अथ वक्ष्यामि सर्वस्य संस्कारविधिमुत्तमम् ।
सिनीवाल्यां पौर्णमास्यां कारयेद्विधिवत्ततः ॥
पञ्चम्यामथवा कुर्यादाश्लेषासु दिनेऽथ वा ।
कृतसर्पवधो विप्रः पूर्वजन्मनि वा यदि ॥
स्नात्वाऽऽगत्य ततो ब्रह्मदण्डं दद्याद्द्विजातये ।
वधं प्रख्यापयेच्चापि चरेत्कृच्छ्रांश्चतुर्दश ॥
वधेऽस्मिञ्जन्मनि कृते लोहदण्डं द्विजातये ।
दद्यात्पापविशुद्ध्यर्थं श्रोत्रियाय कुटुम्बिने ॥
विप्राय दण्डमूल्यं वा ह्यभावे सति दापयेत् ।
साक्षाद्वधात्कर्मकर्तुरेतदेव प्रदापयेत् ॥
निष्कत्रयं द्विनिष्कं वा निष्कमेकं कनीयसम् ।
अनुमत्यादिकर्तॄणां निष्कमर्धं तदर्धकम् ॥
वित्तशाठ्यं न कुर्वीत दद्याद्वित्तानुसारतः ।
अनुज्ञां च गुरोर्लब्ध्वा संस्कुर्यात्तदनन्तरम् ॥
प्रियङ्गुव्रीहिगोधूमतिलपिष्टेन वैकतः ।
एकत एतदन्यतमेनैकेन पिष्टेन वेत्यर्थः ।
कृत्वा सर्पाकृतिं तेन नवशूर्पे निधाय च ।
अनेन वक्ष्यमाणेन मन्त्रेण प्रार्थयेदहिम् ॥
एहि पूर्वं मृतः सर्प अस्मिन्पिष्टे समाविश ।
संस्कारार्थमहं भक्त्या प्रार्थयामि समाहितः ॥
वस्त्रोपवीतगन्धाद्यैरक्षतैः कुसुमादिभिः ।
कर्ता पुष्पाञ्जलिं दत्त्वा प्रणिपत्य हरेद्बहिः ॥
प्रक्षालिताङ्घ्रिपाणिस्तु ह्याचम्योपविशेद्भुवि ।
कुर्यात्संस्कारसङ्कल्पं प्राणायामपुरःसरम् ॥
यज्ञोपवीतिना कार्यं सर्पसंस्कारकर्म तु ।
लौकिकाग्निं प्रतिष्ठाप्य समिदाधानमाचरेत् ॥
ततोऽग्नेरग्निदिग्भागे भूमिं सम्प्रोक्ष्य वारिभिः ।
चितिं कृत्वाऽथ संस्तीर्य कुशैराग्नेयकाग्रकैः ॥
पर्युक्ष्याग्निं परिस्तीर्य परिषिच्य समर्चयेत् ।
कृत्वेध्माधानपर्यन्तं षट्पात्रासादनादिकम् ॥
आघारौ चक्षुषी हुत्वा सर्पिषाऽथ यथाविधि ।
सर्पं गृहीत्वा यत्नेन चितिमारोपयेत्सुधीः ॥
अपः स्पृष्ट्वा स्पृशेच्छ्रोत्रे गत्वा चाग्निसमीपतः ।
स्रुवेण जुहुयादाज्यमग्नौ व्याहृतिभिस्त्रिभिः ॥
सर्पास्ये जुहुयादाज्यं व्याहृत्या तु समस्तया ।
आज्यशेषं स्रुवेणैव सर्पदेहे निषेचयेत् ॥
समस्ताभिर्व्यात्दृतिभिः पाणिना चमसोदकैः ।
तमभ्युक्ष्याग्ने रक्षेति चितावग्निं समर्पयेत् ॥
स्रुवं तत्र निधायाथ यज्ञपात्राणि बर्हिषा ।
चितिं प्रदक्षिणं कृत्वा प्रणिपत्य क्षमापयेत् ।
उपतिष्ठेद्दह्यमानं नमोऽस्तु सर्पमन्त्रतः ॥
ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया ।
पूर्वजन्मनि वा सर्प तत्सर्वं त्वं क्षमस्व मे ॥
इति सम्प्रार्थ्य नागेन्द्रं स्नात्वाऽऽगत्य पुनः पुनः ।
क्षीराज्येन ततश्चाग्निं प्रोक्ष्य व्याहृतिभिस्त्रिभिः ॥
हुते सर्पे जलेनाग्निमभिषिञ्चेत्ततः परम् ।
नास्थिसञ्चयनं कुर्यात्स्नात्वाऽऽचम्य गृहं व्रजेत् ॥
ब्रह्मचर्यादिकं कार्यं त्रिरात्राच्छुद्धिरिष्यते ।
चतुर्थेऽहनि सम्प्राप्ते सचैलं स्नानमाचरेत् ॥
घृतपायसभक्ष्यैश्च द्विजानष्टौ तु भोजयेत् ।
कर्ता नामपदैर्विप्रानर्चयेद्वक्ष्यमाणकैः ॥
सर्पोऽनन्तस्तथा शेषः कपिलो नाग एव च ।
कालिकः शङ्खपालश्च भूधरश्च प्रकीर्तितः ॥
पादप्रक्षालनं कुर्यादेभिर्नामपदैः पृथक् ।
गन्धपुष्पाक्षतैर्धूपदीपाद्यैरर्चयेद्द्विजान् ॥
एवं कृते विधाने वै सर्वसंस्कारकर्मणि ।
सर्पहिंसाकृतात्पापान्मुच्यते नात्र संशयः ॥
कुष्ठव्याध्यादिभिर्मुक्तः सर्वथा भेषजं त्विदम् ।
आयुरारोग्यमैश्वर्यं प्राप्य कामानवाप्नुयात्” इति ॥
अथ प्रयोगः ।
गुरुशुक्रास्तादिरहिते कालेऽयनद्वयेऽपि पौर्णमास्याममावास्यायां पञ्चम्यामाश्लेषायुक्तदिने वा कुर्यात् । तत्राधिकारार्थं चतुर्दशकृच्छ्रात्मकं प्रायश्चित्तं चरेत् । तस्य प्रयोगः–उक्तदिनात्पूर्वेद्युस्तदहरेव वा समस्तसम्पदिति पर्षदं प्रदक्षिणीकृत्य नत्वा95 निष्कत्रयं निष्कद्वयमेकं निष्कं वा पापतारतम्येन पर्षदग्रे निधाय, अनुमत्यादिकर्तृत्वे निष्कमर्धं तदर्धं वा शक्त्यनुसारेण निधायामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थमनुग्रहं कृत्वा प्रायश्चित्तमुपदिशन्तु भवन्त इति प्रार्थयेत् । ते चोपदिशाम इति प्रतिब्रूयुः ।
ततः कर्ता–
“सर्वे धर्मविवेत्तारो गोप्तारः सकला द्विजाः ।
मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥
मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् ।
प्रसादैः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥
पूज्यैः कृतः पवित्रोऽहं भवेयं द्विजसत्तमैः” ।
इति श्लोकान्पठित्वा मामनुगृह्णन्तु भवन्त इति पर्षदं प्रणमेत् ।
ततः कर्ता निबन्धपूजनं पर्षत्पूजनमनुवादकपूजनं च कुर्यात् । अनुवादकाय96 भृतिरूपां यथाशक्ति दक्षिणां दद्यात् ।
ततोऽनुवादकोऽमुकशर्मणा त्वयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य97 दोषस्य परिहारार्थं पर्षदुपदिष्टचतुर्दशकृच्छ्राचरणपूर्वकयथाविधिसर्पसंस्कारं9899 कृत्वा त्वं शुद्धो निरुपद्रवो भविष्यसीत्युपदेशस्त्रिः ।
ततः कर्ता, ओमित्यङ्गीकृत्य पर्षदं नमस्कृत्य विसर्जयेदनुवादकं च ।
तत आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य100 दोषस्य परिहारार्थं पर्षदुपदिष्टचतुर्दशकृच्छ्रात्मकं101 प्रायश्चित्तममुकप्रत्याम्नायद्वारा करिष्य इति सङ्कल्प्य,
“यानि कानि च पापानि ब्रह्महत्यासमानि च ।
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम्” ॥
इति शिखाकक्षोपस्थवर्जं केशश्मश्रुनखरोमाणि102 वापयित्वा,
“आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते” ॥
इति वनस्पतिं प्रार्थ्य तस्मात्प्रादेशमात्रं काष्ठं गृहीत्वा,–
“मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ।
ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम्” ॥
इति तेन काष्ठेन दन्तान्संशोध्य द्वादश गण्डूपान्कृत्वा वक्ष्यमाणोत्सर्जनरीत्या भस्मगोमयमृत्तिकास्नानानि विधाय पञ्चगव्यैः कुशोदकेन च तत्तन्मन्त्रैः स्नानं कृत्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैः शुद्धोदकेन स्नात्वा वक्ष्यमाणस्नानविधिना स्नानं कुर्यात् । (कर्ता103 जीवत्पित्रादिकश्चेत्तदा केशसंरक्षणार्थं पूर्वोक्तं प्रायश्चित्तं द्विगुणं कुर्यात् । तत्र क्रमः–प्रधानप्रायश्चित्तसङ्ख्येन केशसंरक्षणार्थं प्रायश्चित्तेन सह चतुर्दशकृच्छ्रात्मकं प्रायश्चित्तमहं करिष्य इति सङ्कल्प्य भस्मस्नानादि कुर्यादिति ।)
ततो विष्णुपूजनविष्णुश्राद्धगोदानव्याहृतिहोमपञ्चगव्यहोमान्कुर्यात् । तत्र विष्णुपूजनमिदं विष्णुरितिमन्त्रेण विष्णुश्राद्धसिद्ध्यर्थं विप्रानाहूय सम्पूज्य तेभ्यश्चत्वार्यामान्नानि दद्यात् ।
विष्णुश्राद्धस्य मुख्यविधिस्तु श्राद्धप्रकरणे वक्ष्यते ।
जीवत्पितृकस्य तु न विष्णुश्राद्धमिति केचित् ।
ततो विप्रं गां च सम्पूज्य तस्मै यथाविभवकल्पितोपस्कारसहितां गां दद्यात् । गोरभावे तन्मूल्यं वा ।
ततो व्याहृतिहोमः–कर्ताऽऽचम्योल्लेखनादिसंस्कृत आयतने लौकिकमग्निं विण्नामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा सर्पसंस्काराधिकारार्थप्रायश्चित्ताङ्गभूतहोमकर्मणि104 या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । प्रथमया व्याहृत्याऽग्निं सप्तभिराज्याहुतिभिः, द्वितीयया व्याहृत्या वायुं सप्तभिराज्याहुतिभिः, तृतीयया व्याहृत्या सूर्यं सप्तभिराज्याहुतिभिः, समस्तव्याहृतिभिः प्रजापतिं सप्तभिराज्याहुतिभिर्यक्ष्ये । पञ्चगव्यहोमे–अग्निमेकया105 पञ्चगव्याहुत्या सोममेकया106 पञ्चगव्याहुत्या विष्णुं तिसृभिः पञ्चगव्याहुतिभी रुद्रमेकया पञ्चगव्याहुत्या । अत्रोदकस्पर्शः । सवितारमेकया पञ्चगव्याहुत्या ब्रह्मैकया पञ्चगव्याहुत्या परमात्मानमग्निं वा प्रणवेन चतुर्थभागेन यावत्य आहुतयो भवन्ति तावतीभिराहुतिभिर्यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समिधोऽग्नावाधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु दर्वीं सप्तपत्रात्मकान्हरितान्कुशानाज्यस्थालीं पञ्चगव्यार्थं ताम्रपात्रं प्रोक्षणीपात्रमुपवेषं सम्मार्गदर्भानवज्वलनदर्भान्बर्हिरेकां समिधमाज्यं पञ्च गव्यानीत्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि पञ्च गव्यानि च प्रोक्ष्य दर्वीं सप्तपत्रात्मकान्कुशांश्च सम्मृज्य तत्तन्मन्त्रैः पञ्च गव्यानि पवित्रान्तर्हिते ताम्रपात्र एकीकृत्य देवस्य त्वेति सप्तसङ्ख्यैः कुशैरुदकं तस्मिन्स्रावयित्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैरालोडयेत् ।
तत आज्यविलेपनादि । आज्यपर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् । पवित्राभ्याधानान्तेऽग्नेः पश्चाद्बर्हिरास्तीर्य तत्राऽऽज्यस्थालीं पञ्चगव्यपात्रं च निधाय तदुत्तरतो दर्वीं सप्तपत्रात्मकान्कुशांश्च निधायादित इति परिषिच्य आसादितां समिधं तूष्णीमभ्याधाय दर्व्या सप्तवारमावृत्ताभिर्व्यस्ताभिः समस्ताभिश्च107 व्याहृतिभिराज्याहुतीर्जुहुयात् ।
ततः सप्तपत्रात्मकान्कुशानादाय तैरुद्धृत्योद्धृत्य108 जुहोति । अग्नये स्वाहा सोमाय स्वाहेतिद्वयोर्वामदेवो विश्वे देवा वा ऋषिः । अग्निसोमौ क्रमेण देवता । यजुः । इरावतीत्यस्य सोमो विष्णुस्त्रिष्टुप् । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । विष्णोर्नुकमित्यस्य सोमो विष्णुस्त्रिष्टुप् । मा नस्तोक इत्यस्याग्निर्विश्वे देवा वा रुद्रस्त्रिष्टुप् । तत्सवितुरित्यस्या गायत्र्या विश्वामित्रोऽग्निश्चर्षिः109110 सविता देवता गायत्री छन्दः । ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्म111 त्रिष्टुप् । प्रणवस्याग्निः परब्रह्मर्षिः112 परमात्माऽग्निर्वा देवता गायत्री छन्दः । सर्वेषां पञ्चगव्यहोमे विनियोगः–
‘ॐ अग्नये स्वाहा’ अग्नय इदं० । ‘ॐ सोमाय स्वाहा’ सोमायेदं० । ‘ॐ इरावती० मयूखैः स्वाहा’ **विष्णव इदं० ।’**ॐ विष्णोर्नुकं वीर्याणि० गाय स्वाहा’ विष्णव इदं० । ‘ॐ मा नस्तोके त० विधेम ते स्वाहा’ रुद्रायेदं० । अप उपस्पृश्य । ‘ॐ तत्सवितु० यात्स्वाहा’ सवित्र इदं० । ‘ॐ ब्रह्म जज्ञा० वः स्वाहा’ ब्रह्मण इदं० । “ॐ स्वाहा” इति प्रणवेन यावतीभिराहुतिभिश्चतुर्थभागहोमो113 भवति तावतीराहुतीस्तैः114 कुशैरेव जुहुयात् । परमात्मन इदं० । अग्नय इदमिति वा ।
ततोऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य व्रतग्रहणं करिष्य इति द्विजान्पृष्ट्वा115 कुरुष्वेति तैरनुज्ञात आसनाद्बहिरुपविश्य प्रणवेन सर्वं पिबेत् ।
ततो मुखहस्तपादान्प्रक्षाल्य116 द्विवारमाचम्याऽऽसन उपविश्य (ततः117 स्विष्टकृदादिहोमशेषं समाप्य) पर्षदुपदिष्टचतुर्दशकृच्छ्रात्मकप्रायश्चित्तमाचरेत् । द्रव्यदानस्य प्रत्याम्नायत्वपक्षे कृच्छ्रसङ्ख्याकगोनिष्क्रयद्रव्यमग्रे निधाय तत्सम्पूज्य विप्रान्सम्पूज्य पर्षदुपदिष्टचतुर्दशकृच्छ्रसङ्ख्याकगोनिष्क्रयद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो युष्मभ्यं सम्प्रददे दातुमहमुत्सृज्य इति वा दद्यात् ।
ततः पूर्ववद्व्याहृतिहोमविष्णुपूजनविष्णुश्राद्धगोदानानि कुर्यात् । नात्र पञ्चगव्यहोमः ।
ततो गवे ग्रासं दत्त्वा शक्तौ सत्यां गोभूतिलहिरण्याज्यवस्त्रधान्यगुडरौप्यलवणात्मकानि दश दानानि सदक्षिणानि पूजनपूर्वकं विप्रेभ्यो दत्त्वा मया यत्कृतं प्रायश्चित्तं तदच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्प्रार्थयेत् ।
ततस्तैरच्छिद्रमस्त्विति प्रयुक्ते कर्मसाद्गुण्याय विष्णुं संस्मरेत्118 ।
इह जन्मनि चेत्साक्षाद्वधे(धो) विप्राय लोहदण्डं दद्यात् । तस्य प्रयोगः । देशकालौ सङ्कीर्त्य ममैतज्जन्मकृतसर्पबधजनितदोषपरिहारार्थमिमं लोहदण्डं निष्क्रयद्रव्यं वाऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे न ममेति विप्रहस्ते जलसहितं दत्त्वा कृतस्य लोहदण्डदानस्य सम्पूर्णतासिद्धय इमां दक्षिणां सम्प्रदद इति दक्षिणां दत्त्वाऽनेन लोहदण्डदानेनानन्तः प्रीयतां न ममेति वदेत् ।
दशदानमन्त्राः
अथ दशदानमन्त्राः ।
“गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च” इति गोः ॥
“सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता ।
अनन्तसस्यफलदा मम शान्तिं प्रयच्छतु” इति भूमेः ॥
“तिलाः पापहरा नित्यं विष्णुदेहसमुद्भवाः ।
तिलदानेन सर्वं मे पापं नाशय केशव” इति तिलानाम् ॥
“हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छतु” इति हिरण्यस्य ॥
“कामधेनोः समुद्भूतं देवानामुत्तमं हविः ।
आयुर्विवर्धनकरमाज्यं पातु सदैव माम्” इत्य्-आज्यस्य ॥
“शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् ।
सुवेषधारि वस्त्र त्वं सदा शान्तिं प्रयच्छ मे” इति वस्त्रस्य ॥
“धन्यं119 करोति दातारमिह लोके परत्र च ।
तस्मात्प्रदीयते धान्यमतः शान्तिं प्रयच्छ मे” इति धान्यस्य ॥
“प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात्परां शान्तिं ददस्व गुड सर्वदा” इति गुडस्य ॥
शिवनेत्रोद्भवं रूप्यं पितॄणामतिवल्लभम् ।
मम तस्य प्रदानेन शान्तिरस्तु सदैव हि” इति रौप्यस्य ॥
“यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना ।
तस्मात्तस्य प्रदानेन शान्तिरस्तु सदा मम” इति लवणस्य ॥
इति दानमन्त्राः ।
“पयस्विनी सवत्सा गौर्दातव्योपस्करान्विता ।
निवर्तनोन्मिता भूमिस्तदर्धेनोन्मिताऽथवा ॥
तदर्धेन निवर्तनार्धेन ।
अथवा गृहपर्याप्ता प्रदातव्या सुलक्षणा ।
कृष्णा द्रोणत्रयमिता अथवाऽऽढकसम्मिताः120 ॥
प्रस्थद्वयमिता वाऽथ दाने देयास्तिलाः शुभाः ।
प्रदातव्यं निष्कमितं देयं निष्कार्धमेव वा ॥
तदर्धमथवा तस्याप्यर्धं देयं हिरण्यकम्121 ।
सप्रस्थाढकमात्रं स्याद्घृतं प्रस्थमितं तु वा ॥
प्रादेशमात्रकलशद्वयमानं घृतं शुभम् ।
एककुम्भमितं वाऽपि दाने देयं सुनिर्मलम्122 ॥
वाससां त्रितयं दद्यादेकं वस्त्रमथापि वा ।
परिधानाय पर्याप्तमहतं सुदृढं मृदु123 ।
क्षौमं कार्पासमथवा वस्त्रं दाने प्रकीर्तितम् ।
तिलद्विगुणितं धान्यं गुडः प्रस्थत्रयोन्मितः ॥
प्रदेयं हेमवद्दाने स्वमानेनैव रौप्यकम्124 ।
गुडवल्लवणोन्मानं द्रव्यमानं प्रकीर्तितम्” इति ॥
दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम् । सुलक्षणोपरवत्त्वावदिदोषरहिता । “पलं च कुडवः प्रस्थः” इति वचनतो द्रोणाढकप्रस्थलक्षणं द्रष्टव्यम् । “चतुःसौवर्णिको निष्कः” इति निष्कलक्षणम् । स्वमानेन राजतमाषमानेन ।
इत्थं पूर्वं विधायोक्तदिने सर्पसंस्कारं कुर्यात् । कर्ता प्रातः कृतनित्यक्रियः सम्भृतसम्भारः पुण्यतीर्थादिप्रशस्तदेशं गत्वा सपत्नीकः परिहितधौतवासाः प्राणानायम्य गुर्वाज्ञां लब्ध्वा मिश्रितैः प्रियङ्गुव्रीहिगोधूमतिलपिष्टैरेतदनन्यतमपिष्टेन वा सर्पाकृतिं कृत्वा शूर्पे निधाय सर्पं प्रार्थयेत्–
“एहि पूर्वं मृतः सर्प अस्मिन्पिष्टे समाविश ।
संस्कारार्थमहं भक्त्या प्रार्थयामि समासतः” इति ॥
ततः–
“ॐ भुजङ्गेशाय विद्महे सर्पराजाय धीमहि ।
तन्नो नागः प्रचोदयात्” ॥
इति भुजङ्गगायत्र्याऽऽवाहनादिषोडशोपचारैः पूजां कृत्वा पुष्पाञ्जलिं दत्त्वा प्रणिपत्य भोः सर्पेमं बलिं गृहाण ममाभ्युदयं कुर्विति बलिं समर्प्य हस्तौ पादौ प्रक्षाल्याऽऽचामेत् ।
ततः प्राणानायम्य सङ्कल्पं कुर्यात् । मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थं सर्पसंस्कारकर्म करिष्य इति सङ्कल्प्योल्लेखनादिना संस्कृते देशे लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्यसमित्त्रयमादाय125 श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा सर्पसंस्कार होमकर्मणि या यक्ष्यमाणा इत्य्-आदि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे–अग्नावग्निं वायुं सूर्यं चैकैकयाऽऽज्याहुत्या यक्ष्ये, सर्पमुखे समस्तव्याहृतिभिः प्रजापतिमेकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा समिधोऽग्नावाधायाग्नेराग्नेय्यां दिशि भूमिं जलेन प्रोक्ष्य तत्र चितिं कृत्वाऽग्निं चितिं च तूष्णीं परिषिच्याऽऽग्नेय्यग्रकैर्दर्भैः126 पिण्डपितृयज्ञवत्परिस्तीर्याग्नेरुत्तरतो दर्भानास्तीर्य तत्र पात्राण्यासादयेत् । दर्वीमाज्यस्थालीं127 प्रोक्षणीपात्रमुपवेषमिध्मं बर्हिः सम्मार्गदर्भानवज्वलनदर्भानाज्यमित्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं सम्मृज्याऽऽज्यं संस्कृत्य परिधीन्परिधायादित इति परिषिच्येध्मं मन्त्रेणाभ्याधायाऽऽघाराद्यन्वाधानोत्कीर्तनानुसारेण प्रसाधनीदेवीहोमान्नं व्याहृतिहोमान्तं वा कुर्यात् । ततः सर्पं गृहीत्वा चितावारोप्यापः स्पृष्ट्वा श्रोत्रे स्पृष्ट्वाऽप उपस्पृश्याग्निसमीपमेत्य प्रधानहोमं128 कुर्यात् । ‘ॐ भूः स्वाहा’ अग्नय इदं० । ‘ॐ भुवः स्वाहा’ वायव इदं न मम । ‘ॐ सुवः स्वाहा’ सूर्यायेदं न मम । इति दर्व्याऽग्नौ व्याहृतिभिराज्येनाऽऽहुतित्रयं जुहुयात् । ‘ॐ भूर्भुवः सुवः स्वाहा’ इति चतुर्थीं सर्पमुखे जुहुयात् । प्रजापतय इदं० । ऋष्यादिस्मरणं पूर्ववत् । व्यस्तानां व्याहृतीनां होमे विनियोगः, समस्तव्याहृतीनां सर्पमुख आज्यहोमे विनियोग इति विनियोगवाक्ये129 । न च वर्ष्यादयः । आज्यशेषं दर्व्यैव सर्पदेहे निषेचयेत् । ततः130 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । अभ्युक्षणे विनियोगः131 । न वर्ष्यादयः । हस्तगृहीतैश्चमसजलैः समस्तव्याहृतिभिः पाणिनाऽभ्युक्ष्याग्ने रक्षाण इत्यस्य विश्वे देवा रक्षोहाऽग्निर्गायत्री । चितावग्निप्रक्षेपे विनियोगः–‘ॐ अग्ने रक्षाणो० रोदह’ इत्य्-आयतनस्थमग्निं सर्वं चितौ प्रक्षिपेत्132 । न वर्ष्यादयः ।
ततो दर्वीं परिधीन्पात्राणि बर्हिश्चाग्नौ प्रहृत्य तमग्निं प्रदक्षिणीकृत्य सर्पं नमस्कृत्य सर्प क्षमस्वेति क्षमाप्यो(पयित्वो)पस्थानं कुर्यात् । नमो अस्तु सर्पेभ्य इति मन्त्रत्रयस्याग्निः सर्पा गायत्री । सर्पोपस्थाने विनियोगः । नमो अस्तु सर्पेभ्यो० इति त्रिभिर्मन्त्रैरुपतिष्ठते133 । न वर्ष्यादयः ।
“ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया ।
पूर्वजन्मनि वा सर्प तत्सर्वं त्वं क्षमस्व मे” इति प्रार्थयेत् ॥
ततः पौराणमन्त्रैः प्रार्थयेत् । ते चेत्थम्–
“कर्कोटक नमस्तेऽस्तु शङ्खपाल नमोऽस्तु ते ।
नागराज महादेव तव रूपाणि ते नमः ॥
अफणाः फणिनो ये च सविषा निर्विषाश्च ये ।
सर्वे सर्पा वटेशयाः134 पुण्यमूर्ते135 नमोऽस्तु ते ॥
त्वयेयं जगती स्वामिन्स्वफणामण्डलोपरि ।
धृतैकदेशे ह्यणुवत्तस्मै तुभ्यं नमोऽस्तु ते ॥
त्वया भगवते श्रीमद्वासुदेवाय निर्विषम् ।
स्वभोगेनैव पर्यङ्कमायस्तं भोगिनां वर ॥
त्राहि त्राहि महाभोगिन्सर्वोपद्रवदुःखतः136 ।
सन्ततिं देहि मे पुण्यां निर्दुष्टां दीर्घदेहिनीम् ॥
प्रपन्नं पाहि मां भक्त्या कृपालो दीनवत्सल ।
ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया ॥
जन्मान्तरेऽथवैतस्मिन्मत्पूर्वैरथवा विभो ।
तत्पापं नाशय क्षिप्रमपराधं क्षमस्व मे” । इति सम्प्रार्थयेत्137 ।
अफणाः सर्पा ये च फणिनो ये च सविषा निर्विषाश्च वटेशयाश्च ये सर्वे सर्पा नागराज तव रूपाणि ते तुभ्यं नम इत्यर्थः ।
ततः सचैलं स्नानं कृत्वाऽग्निसमीपमागत्य समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । चित्यग्निप्रोक्षणे विनियोगः138 । न वर्ष्यादयः । भूर्भुवः सुवरिति क्षीराज्येन तमग्निं प्रोक्ष्य सर्पे हुते जलेन तमुपशमयित्वा(य्य) जले प्रवाहयेत् । नास्थिसञ्चयनम् ।
ततः स्नात्वाऽऽचम्य गृहं व्रजेत् । त्रिरात्रमाशौचं ब्रह्मचर्यादिकं च । बौधायनमते त्वेकाहमाशौचमिति ग्रन्थकृतः । अत्र कर्तुरेवाऽऽशौचम् ।
“आशौचं पिण्डदः कुर्यान्नतु तद्बन्धुगोत्रजाः” इतिवचनात् ।
अस्मिन्कर्मणि न प्राचीनावीतम् ।
“चतुर्थेऽहनि सम्प्राप्ते सचैलं स्नानमाचरेत् ।
घृतपायसभक्ष्यैस्तु द्विजानष्टौ तु भोजयेत् ॥
कर्ता नामपदैर्विप्रान्पूजयेत्सुसमाहितः” इति ।
चतुर्थेऽहनीत्युपलक्षणम् । एकाहाशौचपक्षे द्वितीये भवेदित्यर्थः ।
अपरेद्युः प्रातः सचैलं स्नातः कृतनित्यक्रियः सुस्नातानष्टौ ब्राह्मणानाहूय सर्पस्थाने क्षणः क्रियताम् । ॐ तथा प्राप्नोतु भवान्प्राप्नवानीति । एवमग्रेऽपि । अनन्तस्थाने० शेषस्थाने० कपिलस्थाने० नागस्थाने० कालिकस्थाने० शङ्खपालस्थाने० भूधरस्थाने० इति क्षणं दत्त्वा चतुरश्रमण्डलोपरि गन्धाक्षतयुतजलेनैतैरेव नामभिः पाद्यं दद्यात् । सर्प इदं पाद्यमित्यादि ।
ततस्तेष्वाचान्तेषु स्वयमाचम्य यथाक्रमं प्राङ्मुखानुदक्संस्थानुपवेश्य भूर्भुवः139 सुवः सर्प इदमासनमास्यतामित्यादि, सर्वत्र दर्भद्वयरूपमेवाऽऽसनं दत्त्वा दर्भद्वयान्तर्हितेष्वष्टसु पात्रेष्वप आसिच्य गायत्र्या युगपदभिमन्त्र्य तूष्णीं यवान्गन्धं पुष्पं च प्रक्षिप्य स्वाहाऽर्घ्या इति निवेद्य सर्पेदं तेऽर्घ्यमित्यर्योदकं देवतीर्थेन दद्यात् । एवमनन्तेदं तेऽर्घ्यमित्यादि । सर्पैष ते गन्धोऽनन्तैष ते गन्ध इत्य्-आदि । सर्पेमानि पुष्पाणीत्यादि । सर्पैष धूप इत्य्-आदि । सर्पैष दीप इत्य्-आदि । सर्पेदं वस्त्रमित्यादि ।
ततः पात्रेष्वन्नादि परिविष्य परिवेष्य वा गायत्र्या प्रोक्ष्य कुशयवजलं गृहीत्वा सर्पायेदमन्नं परिविष्टं परिवेक्ष्यमाणं चाऽऽतृप्तेर्दास्यमानं स्वाहा संपद्यतां140 न मम । एवमनन्तादिभ्यः । ब्रह्मार्पणं० येषामन्नमुदिष्टं तेषामक्षय्या तृप्तिरस्तु । अनेन ब्राह्मणभोजनेन सर्पादयः प्रीयन्तां न मम । इति सकुशयवजलमुत्सृजेत् । ततो ब्राह्मणा भुञ्जीरन् । नात्र बलिदाननिषेधः ।
ततः कर्ताऽऽचान्तेषु विप्रेषु प्रागग्रान्दर्भान्संस्तीर्य तेषु दुग्धमिश्रौदनेन सर्पायेमं बलिं समर्पयामि, अनन्तायेमं बलिमित्यादि । ततो बलीन्गन्धपुष्पवस्त्रादिभिः पूजयेत् ।
ततो ब्राह्मणेभ्यस्ताम्बूलसुवर्णादिदक्षिणादानम् ।
ततस्तान्क्षमाप्य(पयित्वा) प्रणम्यानुव्रज्याप्रतीक्षमेत्य141 सुवर्णनागदानं कुर्यात् ।
“इति सर्पस्य संस्कारं कृत्वा नागबलिं ततः ।
दत्त्वा स्वर्णमयं नागमपराधात्प्रमुच्यते” इतिवचनात् ।
आचार्यं सम्पूज्य स्वर्णनागमावाहनादिषोडशोपचारैः सम्पूज्य प्रार्थयेत् ।
तत्र मन्त्राः–
“ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । नमोऽस्तु तेभ्यः
सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥ १ ॥ विष्णुलोके च ये सर्पा
वासुकिप्रमुखाश्च ये । नमोऽस्तु तेभ्यः सु० ॥ २ ॥ रुद्रलोके
च ये सर्पास्तक्षकप्रमुखास्तथा । नमोऽस्तु तेभ्यः सु० ॥ ३ ॥
खाण्डवस्य तथा दाहे स्वर्गं ये च समाश्रिताः । नमोऽस्तु तेभ्यः सु०
॥ ४ ॥ सर्पसत्रे च ये सर्पा आस्तीकेन च रक्षिताः । नमोऽस्तु तेभ्यः
सु० ॥ ५ ॥ मलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये । नमोऽस्तु तेभ्यः
सु० ॥ ६ ॥ धर्मलोके च ये सर्पा वैतरण्यां समाहिताः । नमोऽस्तु
तेभ्यः सु० ॥ ७ ॥ समुद्रे चैव ये सर्पाः पाताले चैव संस्थिताः ।
नमोऽस्तु तेभ्यः सु० ॥ ८ ॥ ये सर्पाः पर्वताग्रेषु दरीसन्धिषु
संस्थिताः । नमोऽस्तु तेभ्यः सु० ॥ ९ ॥ ग्रामे वा यदि वाऽरण्ये
ये सर्पाः प्रचरन्ति हि । नमोऽस्तु तेभ्यः सु० ॥ १० ॥ पृथिव्यां चैव
ये सर्पा ये सर्पा बलिसंस्थिताः । नमोऽस्तु तेभ्यः सु० ॥ ११ ॥ रसा-
तले च ये सर्पा अनन्ताद्या महाविषाः । नमोऽस्तु तेभ्यः सु० ॥ १२ ॥
एवं स्तुत्वा तु नागेन्द्रमाचार्याय निवेदयेत्” । [ इति । ]
देशकालौ सङ्कीर्त्य कृतस्य सर्पसंस्कारकर्मणः साङ्गतासिद्ध्यर्थमिमं सुवर्णमयं नागं सकलशं सवस्त्रं सदक्षिणं तुभ्यमहं सम्प्रददे न मम, इति दत्त्वाऽनेन सुवर्णनागदानेनानन्तादयो नागाः प्रीयन्तामिति वदेत् ।
तत आचार्याय गोदानं देयम् । गामाचार्य च सम्पूज्येमां सवत्सां कृष्णां गां सुवर्णशृङ्गीं रौप्यखुरीं ताम्रपृष्ठीं(ष्ठां) कांस्यदोहां सवस्त्रां सदक्षिणां वृषभयुतां तुभ्यमहं सम्प्रदद इत्य्-आचार्याय दद्यात् । अनेनानन्तादयः प्रीयन्तामिति वदेत् । गोरभावे मूल्यं देयम् । तत आचार्यः शुद्धोदकेन सकुटुम्बं यजमानमभिषिञ्चेत् ।
ततः कर्ता मया यत्कृतं कर्म तत्सर्वमच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति प्रार्थ्याच्छिद्रमस्त्विति तैः प्रत्युक्ते कृतस्य कर्मणः साङ्गतासिद्धये ब्राह्मणभोजनं भूयसीदानं च विधाय, यस्य स्मृत्या० । प्रमादात्कु० इति विष्णुं संस्मृत्य, अनेन सर्पसंस्काराख्येन(ण) कर्मणा सर्पाधिनाथोऽनन्तः प्रीयतामिति वदेत् ।
ततः सुहृद्युतो भोजनं कुर्यात्142 ।
जीवत्पितृकस्य नारायणबलिनागबली न भवतः ।
इति नागबलिप्रयोगः ।
एवमपि फलासिद्धौ महार्णवोक्तो विधिः कार्यः ।
स च वायुपुराणे–
“चतुर्विधा च या वन्ध्या भवेद्वत्सवियोजनात् ।
अनपत्या भवेद्वन्ध्या मृतवत्साऽपरा स्मृता ॥
स्रवद्गर्भा तथैवान्या काकवन्ध्याऽपरा भवेत् ।
वक्ष्ये तस्याः प्रतीकारं तत्स्वरूपं निबोधय ॥
हिरण्येन यथाशक्ति सवत्सां कारयेद्दृढाम् ।
धेनुं पलेन वत्सं च पादेन गुरुरब्रवीत् ॥
हिरण्येन यथाशक्तीति । “पलेन वा तदर्धेन तदर्धेनापि वा पुनः” ॥
इति परिभाषोक्तप्रकारेण कुर्यादित्यर्थः । धेनुं पलेन वत्सं च पादेनेति
मुख्यकल्पप्रदर्शनार्थम् ।
धेनुं रौप्यखुरां रत्नं तस्याः पुच्छे नियोजयेत् ।
घण्टां गले निबध्नीयात्सवत्सां प्राङ्मुखः सुधीः ॥
चन्दनागरुकर्पूरगन्धमाल्यैः सुशोभनैः ।
उपचारैः षोडशभिर्नैवेद्यं पायसं भवेत् ॥
मोदकांश्च तथाऽपूपान्गुडं लवणमेव च ।
जीरकं च सुविस्तीर्णे शूर्पे वेणुमये दृढे ॥
धेनोरेकं प्रदातव्यं ब्राह्मणस्त्रीषु चैव हि ।
षडष्टौ दश वा दद्यात्तदनन्तरमेव च ॥
उपचारैः षोडशभिरित्यत्र पूजयेदिति शेषः । मोदकादिभिः परिपूरितमेक शूर्पं धेनोः पुरतः स्थापयित्वोक्तद्रव्यपरिपूरितानि शूर्पाणि दशाष्टौ षड्वा सभर्तृकाभ्यो ब्राह्मणीभ्यो दद्यादित्यर्थ इति महार्णवः ।
ब्राह्मणं सर्वशास्त्रार्थकुशलं सर्ववेदिनम् ।
विद्याविनयसम्पन्नं शान्तं चैव जितेन्द्रियम् ॥
अलोलुपं सर्वजनप्रियं कल्मषवर्जितम् ।
आहूय भक्त्या सम्पूज्य वस्त्राद्यैर्गन्धपुष्पकैः ॥
तेनैव कारयेत्पूजामादितो धेनुवत्सयोः ।
होमं च कारयेत्तत्र समिदाज्यचरूत्कटम् ॥
सोमो धेनुमिति मन्त्रं समुच्चार्य ततः पुनः ।
पूजायामप्ययमेव मन्त्रः । अत्र सय्ँयोगपृथक्त्वन्यायेन धेनुरपि देवतेति महार्णवः । अत्र समिदादिभिः प्रत्येकमष्टोत्तरसहस्रहोमं कुर्यात् , उत्कटं कारयेदित्यभिधानादित्यपि सः ।
प्राङ्मुखायोपविष्टाय प्रदद्यात्तामुदङ्मुखः ।
मन्त्रेण तस्य विधिवत्पुच्छं हस्ते निधाय च ॥
धेनुर्याऽङ्गिरसां सत्रे प्रविष्टा सुरभेश्च या ।
दुहिता या मया भानोरग्नेश्च वरुणस्य च ॥
या वै गावः प्रवर्तन्ते वनेषूपवनेषु च ।
प्रीणन्तु तामनुगृहं पुत्रपौत्रप्रदाः सुखम् ॥
प्रयच्छन्तु दिवारात्रमविच्छेदं तथाऽन्वये ।
एवं दत्त्वा तु तद्दानं प्रणिपत्य विसर्जयेत्” इति ॥
इति वन्ध्यात्वहरं सुवर्णधेनुदानम् ।
उपायान्तरमपि–
“निक्षेपाहरणाच्चैवानपत्यस्तु प्रजायते” इत्युपक्रम्य–
“अरुण उवाच–
वृथा गृहं धनं धान्यमपुत्रं जन्म निष्फलम् ।
ममोपरि दयां कृत्वा प्रायश्चित्तं वदस्व मे ॥
सूर्य उवाच–
तीर्थयात्र प्रकर्तव्या रेवातापीसमुद्भवा ।
एकेनापि तु वस्त्रेण दम्पतीस्नानमुत्तमम् ॥
श्रवणं हरिवंशस्य ब्राह्मणोद्वाहनं खग ।
अष्टोत्तरशतं विप्रान्मिष्टान्नेन तु तर्पयेत् ॥
ईशावास्येतिमन्त्रेण जपं कुर्यात्सहस्रकम् ।
दशांशहोमसहितं कुर्याच्च विधिवत्ततः ॥
पद्मैस्तु लक्षसङ्ख्याकैः शिवं सम्पूज्य यत्नतः ॥
कलौ पार्थिवलिङ्गपूजनस्य महापुण्यजनकत्वात्तद्रूपस्य शिवस्य पद्मपूजनमतीव प्रशस्तम् ।
स्वर्णधेनुः प्रदातव्या सवत्सा सुरभिस्तथा ।
घृतकुम्भं वैनतेय ब्राह्मणाय निवेदयेत् ॥
एवं कृते वैनतेय अपत्यं जायते कलौ” इति ॥
हरिवंशश्रवणविधिः
अथ हरिवंशश्रवणविधिः ।
कर्ता ज्योतिर्विदादिष्टे मुहूर्ते विनायकशान्तिं विनायकपूजां वा स्वशक्त्यनुसारेण विधायोदगयने दक्षिणायने वा वैशाखकार्तिकाद्यन्यतमे शुभे मासे ज्योतिर्विदादिष्टे143 शुभे मुहूर्त आरम्भात्पूर्वं यथाशक्ति गोहिरण्यदानतीर्थयात्राद्यन्यतमप्रत्याम्नायद्वारा प्रायश्चित्तं विधाय देशकालौ सङ्कीर्त्य पूर्वजन्मोपार्जितपापजन्यानपत्यत्वदोषपरिहारपूर्वकनीरोगदीर्घायुरक्षय्यसुगुणपुत्रप्राप्तिकामावावां दम्पती हरिवंशं श्रोष्याव इति सङ्कल्पं कुर्यात् । अनया पत्न्या सह हरिवंशं श्रोष्य इत्येवं वा सङ्कल्पः ।
यदि त्वेकस्या भार्यायाः पुत्रोऽस्ति, एकस्या नास्ति, तदा ममैतस्याः पत्न्या दीर्घायुर्नीरोगाक्षय्यसुगुणपुत्रप्राप्तयेऽनया पत्न्या सह हरिवंशं श्रोष्य इति सङ्कल्पः कार्यः ।
ततो गणेशपूजनपुण्याहादिवाचने कृत्वा हिरण्यताम्बूलपूगीफलसहितकरोऽमुकगोत्रममुकशर्माणं त्वां हरिवंशश्रावयितृत्वेन वृण इति वृत्वा वृतोऽस्मीति तेनोक्ते चरणक्षालनार्घ्यवस्त्रद्वयोपवीतद्वयमुद्रिकाकुण्डलाद्याभरणचन्दनाक्षतपुष्पादिभिस्तमभ्यर्च्य तद्दक्षिणकरमूले बृहत्सामेति रक्षाबन्धनं कुर्यात् ।
ततः श्रावयित्रैवमेव दम्पतीहस्तयो रक्षाबन्धनं कार्यम् । स्त्रियास्तु वामहस्ते रक्षाबन्धनम् ।
ततः प्रतिदिनं त्रायन्तामित्याद्यैरापो हि ष्ठादिभिश्च वैदिकैर्मन्त्रैः सुरास्त्वेत्याद्यैः पौराणमन्त्रैश्च सुस्नातौ स्वलङ्कृतौ दम्पती आचम्य,–
“नमस्ते भगवन्व्यास सर्वशास्त्रार्थकोविद ।
ब्रह्मविष्णुमहेशानां मूर्ते सत्यवतीसुत” ॥
इति व्यासं नमस्कृत्य शुचौ देश आसनयोः प्राङ्मुखावुपविश्य परमेश्वरं ध्यायन्तौ तदेकचित्तौ ब्रह्मचर्यादिनियमपूर्वकं शृणुयाताम् । वाचकोऽपि नियमपूर्वकं प्रतिदिनं नारायणं नमस्कृत्येत्यादिमङ्गलश्लोकान्पठित्वा–नारायणाय नमः, नरोत्तमाय नमः, सरस्वत्यै देव्यै नमः, व्यासाय नमः, गणपतये नमः, ब्रह्मणे नमः, विष्णवे नमः, शिवाय नमः, गुरुभ्यो नम इति नमस्कृत्य वाचयेत् । दम्पती प्रतिदिनं वाचकं पुस्तकं च पूजयेताम् । ग्रन्थसमाप्तौ वाचकाय सुवर्णं क्षौमं वस्त्रं गोदानोक्तविधिना स्वलङ्कृतां सोपस्करां सवस्त्रां सवत्सां पयस्विनीं गां च दद्यात् ।
ततः श्रोता विष्णुगायत्र्याऽष्टोत्तरसहस्रं घृताक्ततिलहोमं कुर्यात् ।
तस्य प्रयोगः ।
आचम्य प्राणानायम्याग्न्यायतनोल्लेपनाद्यग्निप्रतिष्ठापनान्तं144 कुर्यात् । अत्र बलवर्धननामाऽग्निः । ततोऽन्वाधानम् । समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा हरिवंशश्रवणाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्य्-आदि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा, प्रधानहोमे विष्णुं नारायणाय विद्मह इति विष्णुगायत्र्याऽष्टोत्तरसहस्रसङ्ख्याभिर्घृताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वा, अङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यामित्यादि, अग्निं स्विष्टकृतं145 हुतशेषघृता क्ततिलाहुत्या यक्ष्य इत्य्-आदि वा । पात्रासादन आज्येन सह तिलानामप्यासादनम् । आज्यपर्यग्निकरणकाले घृताक्ततिलानामपि पर्यग्निकरणम् ।
तत आज्योद्वासनादि व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वाऽन्वाधानोत्कीर्तनानुसारेण कृत्वा प्रधानहोमं कुर्यात् । नारायणायेत्यस्या विष्णुगायत्र्या याज्ञिक्यो देवता उपनिषदो विष्णुरनुष्टुप्, होमे विनियोगः, इत्यृष्यादि स्मृत्वोक्तसङ्ख्यया घृताक्तैस्तिलैर्होमः कार्यः ।
ततोऽन्वाधानोत्कीर्तनानुसारेणाङ्गहोमादि स्विष्टकृदादि वा सर्वं होमशेषं समापयेत् ।
तत एकं मिथुनं श्रावयितारं च भोजयित्वा न्यूनं सम्पूर्णमस्त्विति श्रावयितारं वदेत् । तथाऽस्त्विति श्रावयिता । ततो दम्पती रक्षाबन्धनं विस्रस्य दुग्धाक्तं कृत्वा शुद्धोदके निक्षिपेताम् । श्रावयिताऽपि रक्षाबन्धनं विस्रस्य दुग्धाक्तं कृत्वा शुद्धोदके निक्षिपेत् ।
ततः श्रावयितृसुहृद्युतौ दम्पती भुञ्जीयाताम् । ततः सर्वे यथार्थं गच्छेयुः ।
इति हरिवंशश्रवणविधिः ।
सङ्क्षेपेण पार्थिवलिङ्गपूजनविधिः
अथ सङ्क्षेपेण पार्थिवलिङ्गपूजनविधिः ।
तत्र तिथितत्त्वे भविष्यपुराणे–
“मृद्भस्मगोशकृत्पिण्डताम्रकांस्यमयं तथा ।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि” इति ॥
नन्दिपुराणे–
" आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ।
वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समर्चयेत् ॥
तस्मात्तु पार्थिवं ज्ञेयं लिङ्गं सर्वार्थसाधकम्” इति ।
शिवधर्मे–
“वालुकानि च लिङ्गानि कारयेत्पार्थिवानि च ।
सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम्” इति ॥
तत्रैव कालकौमुद्याम्–
“अक्षादल्पप्रमाणं तु न लिङ्गं कुत्रचिन्नरः ।
कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचित्समाचरेत्” इति ॥
अक्षोऽशीतिरक्तिकाः । “ते षोडशाक्षः” इत्यमरात् । अङ्गुष्ठशब्देनाङ्गुष्ठबृहत्पर्वग्रन्थिरुच्यते ।
“अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा” इति च्छन्दोगपरिशिष्टात् ।
अङ्गुष्ठमानमङ्गुलिमानं चेत्यर्थः ।
तत्रैव गौतमः–
“रात्रावुदङ्मुखः कुर्याद्देवकार्यं सदैव हि ।
शिवार्चनं सदाऽप्यवं शुचिः कुर्यादुदङ्मुखः” इति ॥
सदा दिवा रात्रौ चेत्यर्थः ।
तत्रैव लैङ्गे–
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥
तस्मान्मृदाऽपि कर्तव्यं ललाटे वै त्रिपुण्ड्रकम्” इति146 ॥
ॐ हूं नम इति रुद्राक्षान्प्रत्येकमभिमन्त्र्य मालां धारयेदित्यप्युक्तं तत्रैव ।
तत्राधिकारार्थं तत्रैव पञ्चाक्षरमन्त्र उक्तः–
“अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
महापातकयुक्तो वा मन्त्रस्यास्य जपे सदा ॥
अधिकारी भवेत्सर्व इति देवोऽब्रवीच्छिवः” इति ।
मृद्ग्रहणविधिः शिवपुराणे–
(“शुचिदेशसमुद्भूतां147 मृदमाहारयेत्ततः ।
श्रीअष्टमूर्तये148 नमः–
इत्येतेन च मन्त्रेण मृदमादाय यत्नतः ।
संशोध्य मृत्तिकां तत्र स्थापयेद्विधिवत्पुमान् ।
अथवा कृष्णपक्षस्य चतुर्दश्यां समानयेत् ॥
पुनश्च मासमात्रेण ह्याहरेत्तावदेव हि” इति ।)
पूजाविधिर्देवीपुराणे–
“मृदाहरणसङ्घट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव विसर्जनमतः परम् ॥
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश्चैव महादेव इति क्रमात्” इति ॥
नामक्रमेणानन्तरोक्तानि कर्माणि कार्याणित्यर्थः । यद्यप्यत्र नामान्येव विनियुक्तानि तथाऽपि–
“ध्यात्वा प्रणवपूर्वं तु ततस्तस्मात्समाहितः ।
नमस्कारेण पुष्पादि विन्यसेच्च पृथक्पृथक्” ॥
इति सामान्यवाक्यान्नमोन्तता ज्ञेया ।
नन्दिपुराणे–
" गोभूहिरण्यवस्त्रादिबलिपुष्पनिवेदने ।
ज्ञेयो नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥
सर्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः” इति ।
वस्त्रादीत्यादिपदेनेतरोपचारग्रहणम् ।
विसर्जनात्पूर्वं वामावर्तेनाष्टमूर्तिपूजोक्ता भविष्ये–
“पूज्या अष्टौ हरस्यैताः पूर्वादिक्रमयोगतः ।
आग्नेय्यन्ताः प्रपूज्यास्तु वेद्यां लिङ्गे शिवं यजेत्” इति ॥
एता वेद्यां, लिङ्गे शिवं यजेदित्यर्थः ।
अत्र प्रसिद्धैव प्राची । “न प्राचीमग्रतः शम्भोः” इति रुद्रयामले निषेधात् ।
(ततो149 जपं कुर्यात् । स चोक्तः शिवपुराणे–
“यथाशक्ति जपं कृत्वा तर्पणं तद्दशांशकम् ।
मार्जनं च दशांशं च कुर्याच्छिवहितेच्छया” इति ॥
तर्पणमार्जनयोरसम्भवे चतुर्गुणो द्विगुणो वा जप इति सामान्यतः ) ।
लैङ्गे–
“लिङ्गद्वयं प्रतिदिनं मल्लिकाभिः प्रपूजयेत् ।
अर्पयेद्गुडनैवेद्यमेवं सव्ँवत्सरं सुधीः ॥
लिङ्गस्य पूजनं कुर्यात्पुत्र उत्पद्यते शुभः” इति ॥
अथैतत्पूजाप्रकारः ।
देशकालौ सङ्कीर्त्य श्रीसाम्बसदाशिवप्रीत्यर्थं पार्थिवलिङ्गद्वयपूजनमहं करिष्य इति सङ्कल्प्य पूजासामग्रीं स्वसमीपे निधाय विभूतिरुद्राक्षधारणं कृत्वाऽऽसनविध्यादि विधाय, नमः शिवायेति पञ्चाक्षरेण, ॐ नमः शिवायेति षडक्षरेण वा करषडङ्गन्यासान्कृत्वा,150
“सर्वाधारे धरे देवि त्वद्रूपां मृत्तिकामिमाम् ।
लिङ्गार्थं वै प्रगृह्णामि शोभना भव सर्वदा” ॥
इति भूमिं प्रार्थ्य, (ॐ151 हराय नम इति शोधितां शुद्धदेशस्थां मृदं ततो गृहीत्वा) जलं निक्षिप्य, ॐ महेश्वराय नम इति घट्टयित्वा मूलेन लिङ्गं कृत्वा झटिति तन्मस्तकेऽक्षतान्निधाय, ॐ शूलपाणये नम इति प्रतिष्ठाप्य प्राणप्रतिष्ठां विधाय ध्यायेन्नित्यं महेशमिति152 शारदोक्तरीत्या शिवं ध्यात्वा, ॐ पिनाकधृषे नमः श्रीसाम्बसदाशिवेहाऽऽगच्छेह सन्निहितो भवेत्यावाहयेत् । सर्वत्र मूलमन्त्रसमुच्चयः । मूलमन्त्रेणैवाऽऽसनं पाद्यमर्घ्यमाचमनीयं च दत्त्वा, ॐ पशुपतये नम इति स्नापनीयं दत्त्वा शिवाय नम इति वस्त्रादिगन्धान्तानुपचारान्दत्त्वा
मल्लिकापुष्पाणि दत्त्वा बिल्वपत्राणि समर्प्य धूपदीपौ दत्त्वा नानोपहारादीन्गुडं च निवेद्य फलताम्बूलदक्षिणा दत्त्वा नीराज्य पुष्पाञ्जलिं दद्यात् । शर्वाय क्षितिमूर्तये नमः । भवाय जलमूर्तये नमः । रुद्राय तेजोमूर्तये नमः । उग्राय वायुमूर्तये नमः । भीमायाऽऽकाशमूर्तये नमः । पशुपतये यजमानमूर्तये नमः । महादेवाय सोममूर्तये नमः । ईशानाय सूर्यमूर्तये नमः । इत्यष्टभिर्लिङ्गवेद्यां प्रसिद्धप्रागादिदिक्ष्वप्रदक्षिणमष्टमूर्तीः पूजयित्वा यथाशक्ति मूलमन्त्रं जप्त्वा(जपित्वा) (तद्दशांशतर्पणं153 मार्जनं च कुर्यात् । असम्भवे तत्स्थाने चतुर्गुणो द्विगुणो वा जपः केवलं जपमात्रमेव वा ।)
ततः पूर्ववत्करषडङ्गन्यासान्कृत्वा ध्यायेन्नित्यमिति154 पूर्ववद्ध्यात्वा,
“गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा” ॥
इति जपं निवेद्य स्तोत्रैः स्तुत्वा,
( “तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं155 सदा मृड ।
कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शङ्कर ॥
अहं पापी महान्नाथ पावनश्च महान्भवान् ।
इति विज्ञाय देवेश यदिच्छसि तथा कुरु” ॥
इति सम्प्रार्थ्य ) वक्ष्यमाणमभिलाषाष्टकं पुत्रप्राप्त्यर्थं पठित्वा प्रदक्षिणानमस्कारान्कुर्यात् ।
ततः –156
“यथेदानीं च देवेश कृपार्थं समुपागतः ।
तथा त्वया पुनर्देव समागन्तव्यमेव च ॥
ॐ महादेवाय नमः” इति विसृज्य कर्मेश्वरायार्पयेत् । एतच्चैकसव्ँवत्सरपर्यन्तं ब्रह्मचर्ययुक्तः पतिस्तथाभूता पत्नी वा प्रतिदिनमविच्छेदेन पूर्वं पार्थिवगणपतिपूजनं पार्थिवस्कन्दपूजनं च विधाय कुर्यात् । पूजनान्तेऽभिलाषाष्टकपाठाः सव्ँवत्सरपर्यन्तं कार्यः ।
स च पाठ इत्थम्–“विश्वानर उवाच–
एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किञ्चित् ।
एको देवो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ १ ॥
एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपोऽप्येकरूपोऽप्यरूपः ।
यद्वत्प्रत्यम्ब्वर्क एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥
रज्जौ सर्पः शुक्तिकायां च रूप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।
यद्वत्तद्वद्विष्वगेष प्रपञ्चो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ॥ ३ ॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४ ॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिलेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ।
व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ ५ ॥
नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ।
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ६ ॥
नो ते गोत्रं नापि जन्मापि नाऽऽख्या नो वा रूपं नैव शील न देशः ।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥ ७ ॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽस्मि ॥ ८ ॥
स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः ।
तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ ९ ॥
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १० ॥
सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् ।
याञ्चा प्रति नियुक्ता मां किमीशे दैन्यकारिणीम्(णी) ॥ ११ ॥
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छुचिः157 ॥ १२ ॥
बाल उवाच–
त्वया शुचेः(चे) शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥ १३ ॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ १४ ॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥ १५ ॥
एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् ।
सर्वशान्तिकरं वाऽपि सर्वोपत्परिना(णा)शनम् ॥ १६ ॥
स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः ।
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥ १७ ॥
वर्षं158159 जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥ १८ ॥
य पठेत्स्नानसमये लभते सकलं फलम् ।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ १९ ॥
तव पुत्रत्वमेष्यामि160 यस्त्वन्यस्तत्पठिष्यति ।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ २० ॥
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ।
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥ २१ ॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।
इत्युक्त्वाऽन्तर्दधे बालः सोऽपि विप्रो गृहं गतः” ॥
इति श्रीस्कन्दपुराणे काशीखण्डे वीरेश्वरस्तोत्रं सम्पूर्णम् ।
सन्तानगोपालमन्त्रविधिः
अथ161 सन्तानगोपालमन्त्रविधिः ।
तत्राऽऽदौ सङ्क्षेपेण गुरुलक्षणं नारदपञ्चरात्रे–
“ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ।
तदभावाद्द्विजश्रेष्ठः शान्तात्मा भगवन्मयः ॥
भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः ।
सिद्धित्रयसमायुक्त आचार्यत्वेऽभिषेचितः” इति ॥
तत्त्वसारे रुद्रयामले–
(”162 न पत्नीं दीक्षयेद्भर्ता न पिता दीक्षयेत्सुताम्163 ।
न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत्" इति ॥
अन्यच्च तत्रान्तरे–)
“बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः ।
हेतुवादरतो दुष्टो वाग्वादी गुणनिन्दकः ॥
अरोमा बहुरोमा च निन्दिताश्रमसेवकः ।
कालदन्तोऽसितोष्ठश्च दुर्गन्धिश्वासवाहकः164 ॥
दुष्टलक्षणसम्पन्नो यद्यपि स्वयमीश्वरः ।
बहुप्रतिग्रहासक्त आचार्यः श्रीक्षयावहः” इति ॥
तन्त्रराजे–
" (सुन्दरः165 सुमुखः स्वच्छः सुलभो बहुतन्त्रवित् ।
असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः ॥
सौन्दर्यमनवद्यत्वं रूपे सुमुखता पुनः ।
स्मेरपूर्वाभिभाषित्वं स्वच्छताऽजिह्मवृत्तिता ॥
सौलभ्यमप्यगर्वत्वं सन्तोषो बहुतन्त्रता ।
असंशयस्तत्त्वबोधस्तच्छित्तत्प्रतिपादनात् ॥
नैरपेक्ष्यमविच्छेत्ता गुरुत्वं हितवेदिता ।
एवव्ँविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः" इति ॥
अजिह्मवृत्तितेति च्छेदः । बहुतन्त्रता बहुतन्त्रवित्तेत्यर्थः166 ।
तथा–
“चतुर्भिराद्यैः सहितः श्रद्धावान्सुस्थिराशयः ।
अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः ॥
आस्तिकी दृढभक्तिश्च गुरौ मन्त्रे सदैवते ।
एवव्ँविधो भवेच्छिष्य इतरो दुःखकृद्गुरोः” इति ॥
चतुर्भिराद्यैरिति सुन्दरत्वादिभिः ।
शिष्यपरीक्षाकालस्तत्रैव–
“एकद्वित्रिचतुष्पञ्चवर्षाण्यालोच्य योग्यताम् ।
भक्तियुक्तान्गुणांश्चापि क्रमाद्वर्णे ससङ्करे ॥
पश्चादुक्तकमेणैव वदेद्विद्यामनन्यधीः” इति ।
ससङ्करेऽनुलोमजातिसहिते167 वर्णे । ब्राह्मणादिवर्णेष्वित्यर्थः । एकवर्षं ब्राह्मणस्य योग्यतापरीक्षा क्षत्रियादिषु तु द्व्यादिवत्सरपरीक्षेत्यर्थः ।
शिष्यधर्माः
अथ शिष्यधर्माः ।
मुख्यतया स्वप्रकाशम् आत्मानम् अनुसन्दध्यात् पूज्येषु पराङ्मुखो न भवेत् । शरीरमर्थमसूंश्च गुर्वर्थं धारयेत् । तदुक्तं168 कुर्यात् । तद्वचसि युक्तायुक्तं न विचारयेत् । परधने स्पृहां न कुर्यात् । आत्मस्तुतिं परनिन्दां मर्मस्पृग्वचनं परिहासं धिक्कारमाकोशं त्रासोत्पादनं च न विदध्यात् । गुरुपरमगुर्वोः सममागमने प्रथमं परमगुरुं प्रणमेत् । तदग्रे गुर्वनुमत्या तन्नतिं ( तदनुमत्या गुरुनतिं ) कलयेत्169 । एतानन्यांश्चान्त(ऽऽचा)राननुतिष्ठेत् । इति सङ्क्षेपेण शिष्यधर्माः ।)
ज्ञानोनयने-
“निवार्य तु पितुर्मन्त्रं तथा मातामहस्य च ।
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥
प्रमादाद्यदि वाऽज्ञानात्पितुर्दीक्षां समाचरेत् ।
प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत्” इति ॥
पितुरित्युपलक्षणं मातामहादीनामपि । प्रायश्चित्तं त्वयुतगायत्रीजपः सर्वत्र तथा दर्शनात् । सिद्धमन्त्रग्रहणे तु नायं निषेधः ।
तथा च सिद्धयामले–
“यदि भाग्यवशेनैव सिद्धविद्यां लभेत्प्रिये ।
तदैव तां तु दीक्षेत त्यक्त्वा गुरुविचारणाम्” इति ॥
सिद्धमन्त्रे न दुष्यतीति तत्रान्तरवचनाच्च ।
पुण्यतीर्थ उपरागे सति पित्रादेरपीष्टमन्त्रो ग्राह्य एव । तथा च वैशम्पायनसंहितायां व्यासवचनं शौनकं प्रति–
“प्रसन्नहृदयः स्वस्थः पिता मे करुणानिधिः ।
कुरुक्षेत्रे महातीर्थे सूर्यपर्वणि दत्तवान्” इति ॥
प्रकरणान्मन्त्रमिति सम्बध्यते । कनिष्ठस्य स्वापेक्षया न्यूनवयस्कस्य कस्यापि ।
तथा शैवागमे–
“भिक्षुभ्यश्च वनस्थेभ्यो वर्णिभ्यश्च महेश्वरि ।
गृहस्थो भोगमन्त्रा(मोक्षा)र्थी मन्त्रदीक्षां न चाऽऽचरेत् ॥
त्यक्ताग्नयः क्रियाहीना यतयो ह्यपरिग्रहाः ।
वनस्थास्तादृशा एव वर्णी न्यूनाश्रमी यतः ।
अतस्तेषां नाधिकारो मन्त्रदाने महेश्वरि” इति ॥
न्यूनाश्रमी गृहस्थापेक्षया गार्हस्थ्यस्य द्वितीयाश्रमत्वात् । एतेन गृहस्थाद्यतिभिरपि मन्त्रग्रहणं न कार्यमित्यवगम्यते ।
अत एव सारसङ्ग्रहे–
“तपस्वी सत्यवादी च गृहस्थः स्वस्थमानसः” इति गुरुलक्षणमुक्तम् ।
शिवसद्भावेऽपि–
“दीक्षायां न गुरुत्वेन यतीन्वैखानसान्प्रिये ।
वृणुयाद्भोगमोक्षार्थी गृहस्थो वर्णिनं तथा” इति ॥
वैखानसा वानप्रस्थाः । वर्णी ब्रह्मचारी ।
अत्र स्त्रीणामप्यधिकारः ।
“वैदिको मिश्रितो वाऽपि विप्रादीनां विधीयते ।
तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥
स्वागमोक्तेन मार्गेण स्त्रीशूद्रैश्चापि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि ॥
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी” ॥ इति170 पद्मपुराणवचनात् ।
“न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन ।
नमोन्तं(न्तः) शिवमन्त्रं(न्त्रो) वा वैष्णवं(वो) वेष्यते बुधैः”
इति याज्ञवल्क्यवचनात् ।
“लघुश्यामा कालरात्रिर्गोपालो जानकीपतिः ।
छिन्नमस्ता च मातङ्गी त्रिपुरा कालिका शिवः ॥
उग्रतारा भैरवश्च देया वर्णचतुष्टये ।
मृगीदृशां विशेषेण मन्त्रा एते सुसिद्धिदाः” ॥ इति मन्त्रप्रकाशादिवचनाच्च ।
(अथात्र171 प्रसङ्गाद्बालयौवनवार्धक्येषु सिद्धिप्रदा मन्त्राः क्रमेण प्रदर्श्यन्ते–
“बीजमन्त्रास्तथा मन्त्रा मालामन्त्रा इति त्रिधा ।
बीजमन्त्रा दशार्णान्तास्ततो मन्त्रा नखावधि ॥
विंशत्यधिकवर्णा ये मालामन्त्रास्तु ते स्मृताः” इति ॥
एत एवावस्थान्तरेष्वपि द्विगुणजपात्सिध्यन्ति ।
अथ प्रसङ्गान्मन्त्राणां व्यक्तिविशेषः–
“वषडन्ताः फडन्ताश्च पुमांसो मनवः स्मृताः ।
वौषट्स्वाहान्तिमा नार्यो हुन्नमोन्ता नपुंसकाः” इति ॥
एतेषां विनियोगस्तु–
“वश्योच्चाटनरोधेषु पुमांसः सिद्धिदायकाः ।
क्षुद्रकर्मरुजां नाशे स्त्रीमन्त्राः शीघ्रसिद्धिदाः ॥
अभिचारे स्मृताः क्लीबा इत्येवं मन्त्रयोजना” इति ॥)
अथ गुरोरलाभे मन्त्रग्रहणप्रकारः शारदातिलकादिषु–
“गुरोरलाभे मन्त्राणां ग्रहणक्रम उच्यते ।
कृष्णपक्षे त्रयोदश्यां दक्षिणामूर्तिसन्निधौ ॥
लिखित्वा राजते पात्रे तालपत्रेऽथवा पुनः ।
मन्त्रं तं स्थण्डिले स्थाप्य पूजयित्वा महेश्वरम् ॥
पायसादि निवेद्यं च दत्त्वा तं प्रणिपत्य च ।
शतकृत्वः पठेन्मन्त्रं दक्षिणामूर्तिसन्निधौ ॥
सर्वेषां चैव मन्त्राणामेवं ग्रहणमिष्यते” इति ॥
अथवा–
“नद्यास्तु सिन्धुगामिन्यास्तीरे चोत्तरतः स्थिते ।
स्थण्डिलं कारयेत्तत्र शुचौ देशे शुभे दिने ॥
तालपत्रे लिखित्वाऽथ मन्त्रं तत्र निधाय च ।
आवाह्य भास्करं तत्र यथाविधि सुपूजयेत् ॥
तत्सन्निधावष्टशतं पठेद्देशिकतो यथा ।
एवं गृह्णीयान्मतिमानपूर्वोऽयं विधिः स्मृतः” इति ॥
कालः
अथ कालः ।
“मन्त्रारम्भस्तु चैत्रे स्यात्समस्तपुरुषार्थदः ।
वैशाखे रत्नकामः172 स्याज्ज्येष्ठे च मरणं भवेत् ॥
आषाढे बन्धुनाशः स्यात्पूर्णार्थः श्रावणे भवेत् ।
प्रजानाशो भवेद्भाद्र आश्विने रत्नसञ्चयः ॥
कार्तिके मन्त्रसिद्धिः स्यान्मार्गशीर्षे तथा भवेत् ।
पौषे तु शत्रुपीडा स्यान्मा****घो173 मेधाविवर्धनः ॥
फाल्गुने सर्वकामाः स्युर्मलमासं विवर्जयेत्” इति ।
मलमासग्रहणं क्षयमासो(सस्याप्यु)पलक्षणम् ।
“प्रतिपदि द्वितीयां तृतीयायां च वै शुचिः ।
चतुर्थ्यां वित्तनाशः स्यात्पञ्चम्यां बुद्धिवर्धनम् ॥
षष्ठ्यां ज्ञानक्षयः सौख्यं लभते सप्तमीदिने ।
अष्टम्यां बुद्धिनाशः स्यान्नवम्यां वपुषः क्षयः ॥
दशम्यां राजसौभाग्यमेकादश्यां शुचिर्भवेत् ।
द्वादश्यां सर्वसिद्धिः स्यात्त्रयोदश्यां दरिद्रता ॥
तिर्यग्योनिश्चतुर्दश्यां हानिर्मासावसानके ।
मासावसानकममावास्या ।
पूर्णिमायांधर्मवृद्धिर्मन्त्राणां174 ग्रहणे स्मृताः ।
पूर्णिमाशब्देन पूर्णिमोत्तरार्धमेव ग्राह्यं न तु पूर्वार्धम् । तस्य भद्रात्वेन सामान्यतः सर्वकर्मसु निषिद्धत्वात् ।
रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत्किल ।
आयुरङ्गारको हन्ति सौन्दर्यं सौम्यवासरे ॥
गुरुवारे भवेज्ज्ञानं शुक्रे सौभाग्यमीरितम् ।
शनैश्चरे यशोहानिरिति वाराः प्रकीर्तिताः ॥
अश्विन्योः सुखमाप्नोति भरणीषु मृतिर्भवेत् ।
कृत्तिकासु भवेदुःखी रोहिण्यां वाक्पतिर्भवेत् ॥
मृगशीर्षे सुखावाप्तिराद्रायां बन्धुनाशनम् ।
पुनर्वस्वोर्धनाढ्यः स्यात्पुष्ये शत्रुविनाशनम् ॥
आश्लेषासु भवेन्मृत्युर्दुःखान्मुक्तिर्मघासु च ।
सौन्दर्यं पूर्वफल्गुन्योः प्राप्नोति च न संशयः ॥
ज्ञानमुत्तरफल्गुन्योर्हस्ते च धनवान्भवेत् ।
चित्रायां ज्ञानसिद्धिः स्यात्स्वात्यां शत्रुविनाशनम् ॥
विशाखयोः सुखं चानुराधास्विष्टविवर्धनम् ।
ज्येष्ठायां सुतहानिः स्यान्मूले कीर्तिविवर्धनम् ॥
पूर्वाषाढाः कीर्तिदाः स्युरुत्तरा अपि कीर्तिदाः ।
श्रवणे च भवेद्दुःखी धनिष्ठासु दरिद्रता ॥
बुद्धिः शतभिषग्भे स्यात्पूर्वा(र्व)भाद्रपदे सुखी ।
उत्तरासु भवेत्सौख्यं रेवत्यां कीर्तिवर्धनम् ॥
शुभः सिद्धिस्तथाऽऽयुष्मान्ध्रुवयोगस्ततः परम् ।
प्रीतिः सौभाग्ययोगश्च वृद्धियोगश्च हर्षणः ॥
सुकर्मा च धृतिः सिद्धो ब्रह्मा ऐन्द्रश्च शोभनः ।
वर्याणश्च शिवश्चैव मन्त्राणां ग्रहणे शुभाः ॥
मन्त्राणां ग्रहणे175 शेषा अशुभाः परिकीर्तिताः ।
बवबालवतैतिला(ल) कौलवं वणिजं तथा ॥
करणानि शुभान्येव सर्वतन्त्रेषु भामिनि” इति ॥
वैशम्पायनसंहितायाम्–
“मन्त्राद्यारम्भणं मेषे धनधान्यप्रदं भवेत् ।
कर्कटे सर्वसिद्धिः स्यात्कन्या लक्ष्मीप्रदा नृणाम् ॥
तुलायां सर्वसिद्धिः स्यात्सर्वलाभश्च वृश्चिके ।
मकरं पुत्रदं प्राहुः कुम्भो धनसमृद्धिदः ॥
इतराणि तु लग्नानि स्युरनिष्टफलानि हि ।
शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्यापञ्चमीदिनात् ॥
भूतिकामैः सिते पक्षे मुक्तिकामैः सितेतरे” इति ।
अत्र गुरुभार्गवमौढ्यं चन्द्रतारानुकूल्यं लग्नस्य ग्रहबलादिकं च विचार्यम् ।
ग्रहबलं तु–
“त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
दीक्षायां तु शुभाः सर्वे रन्ध्रस्थाः सर्वनाशकाः” इति ॥
आय एकादशस्थानम् । पापाः पापग्रहा रविभौमशनिराहुकेतुक्षीणेन्दवः पापयुक्ताः सौम्याश्च । शुभाः शुभग्रहाः, अक्षीणेन्दुपापयोगरहितबुधगुरुभृगवः । केन्द्राणि प्रथमचतुर्थसप्तमदशमस्थानानि । त्रिकोणे नवमपञ्चमस्थाने । सर्वे पापाः शुभाश्च ग्रहा उक्तस्थानगता दीक्षायां शुभा एव । अत एव रन्ध्रेऽष्टमस्थाने स्थिता यदि सर्वे नाशका इति योजना ।
अथोक्तकालमन्तरेणापि दीक्षार्हः कालस्तन्त्रान्तरे–
“विषुवेऽप्ययनद्वन्द्वे सङ्क्रान्त्यां दमनोत्सवे ।
दीक्षा कार्या त्वकालेऽपि पवित्रे गुरुपर्वणि” इति ॥
विषुवे तुलामेषसङ्क्रमयोः । अयनद्वन्द्वे कर्कमकरसङ्क्रान्त्योः । सङ्क्रान्त्यां तदन्यसङ्क्रान्तिषु । दमनोत्सवे चैत्रपौर्णिमादिषु दमनकरणकपूजादिने । पवित्रे श्रावणपूर्णिमायाम् । गुरुपर्वणि गुरोर्जन्मव्याप्तिदिनयोः ।
अन्यत्रापि–
“सत्तीर्थार्कविधुग्रासे पुण्यारण्यवनेषु च ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत्” इति ॥
प्रकारान्तरं च–
“सर्वे वारा ग्रहाः सर्वे नक्षत्राणि च राशयः ।
यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः ॥
सन्तुष्टे च गुरौ तस्य सन्तुष्टाः सर्वदेवताः ।
गुरुं सन्तोषयेद्भक्त्या द्वयमेव तदा भवेत्” इति ॥
द्वयं भोगमोक्षौ । एवकारोऽप्यर्थः ।
अधिकारिभेदेन कालो यथा–
“मुमुक्षूणां सदा कालः स्त्रीणां कालस्तु सर्वदा” इति ॥
अथर्णधनचक्रम्–
“नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
गणयेन्मातृकावर्णक्रमेण गुणयेत्त्रिभिः ॥
विभक्ते सप्तभिः शिष्टो नामराशिरुदीरितः ।
एवं मन्त्रार्णमारभ्य यावन्नामादिमाक्षरम् ॥
गणयित्वा त्रिभिर्हत्वा विभजेत्सप्तभिः सुधीः ।
मन्त्रराशिः स्मृतः शिष्टः पूर्ववद्धनिता(त)र्णिता ॥
यद्वा मन्त्राक्षराणीह खरव्यञ्जनरूपतः ।
पृथक्कृत्य द्विगुणयेद्योजयेत्साधकाक्षरैः ॥
तादृशैरष्टभिर्भक्ते मन्त्रराशिरुदाहृतः ।
एवं नामार्णसङ्घोऽपि द्विगुणीकृत्य योजितः ॥
मन्त्रवर्णैरष्टभक्तो नामराशिः स्मृतो बुधैः ।
ऋणिता धनिता चात्र पूर्ववत्परिकीर्तिता ॥
उक्तान्यतरमार्गेण शोधनीयमृणं धनम्” इति ।
सिद्धारिशोधनप्रकारः
(अथ176177 प्रसङ्गात् सिद्धारिशोधनप्रकारः ।
“ऊर्ध्वाभिश्च तिरश्चीभी रेखाभिः पञ्चपञ्चभिः ।
कोष्ठषोडशकं कृत्वा मातृकार्णैः प्रपूरयेत्” ॥
यथा–
“एक१त्रि३रुद्र११नव९दृङ्२ निगमा४र्क१२पङ्क्ति१०ष६
ण्नाग८भूप१६मनु१४बाण५हये७षु५तिथ्याम् १५ ।
कामे १३ क्रमादकथहप्रभृतीन्मनीषी वर्णान्समालिखतु
षोडश [केषु च]त्रीन्” इति ।
अस्यार्थः–रुद्र एकादशं कोष्ठम् । दृग्द्वितीयम् । निगमाश्चतुर्थम् । अर्का द्वादशम् । पङ्क्तिर्दशमम् । नागोऽष्टमम् । भूपाः षोडशम् । कामस्त्रयोदशम् । एकादिकामान्तेषु प्रथमं क्रमादकारादीन्स्वरान्, ततः कादितान्तान्, ततस्थादिसान्तान्वर्णान्विलिख्य ततः प्रथमकोष्ठे तृतीय एकादशे च हळक्षान्विलिखेदिति ।
“विदिग्गतेषु कोष्ठानां चतुष्केषु चतुर्ष्विह ।
यत्र साधकनामादिवर्णस्तत्सिद्धिसञ्ज्ञकम्178 ॥
प्रादक्षिण्यक्रमेणास्माच्चतुष्कत्रितयं परम् ।
साध्यं तथा सुसिद्धं च शत्रुश्चेत्यभिधीयते ॥
एकैकस्मिंश्चतुष्केऽपि यस्मिन्कोष्ठे यदक्षरम् ।
तदाद्युक्तक्रमेणैव सिद्धसाध्यादिकल्पना ॥
एवं साध्यचतुष्कादौ तत्तुल्यस्थानकोष्ठतः ।
साध्यसिद्धः साध्यसाध्य इत्य्-आद्याख्याः क्रमान्मताः” ॥
सिद्धसिद्धप्रभृत्यपर्यन्तं(?) षोडशसप्तसु यत्र यस्य मनोराद्यो वर्णः सोऽपि तदाह्वय इति स्पष्टोऽर्थः ।
अथैतेषां फलानि ।
“सिद्धः सिध्यति कालेन साध्यः सिध्यति वा न वा ।
सुसिद्धस्तत्क्षणादेव अरिर्मूलं निकृन्तति” इति ॥
तन्त्रराजे–
“सिद्धसिद्धो जपात्सिध्येद्द्विगुणात्सिद्धसाध्यकः ।
सिद्धः ससिद्धः सम्प्राप्तेः सिद्धारिर्हन्ति गोत्रजान् ।
साध्यसिद्धोऽतिसङ्क्लेशात्साध्यसाध्योऽतिदुःखकृत् ॥
साध्यः सुसिद्धो भजनात्साध्यारिः स्वस्त्रियं हरेत् ।
सुसिद्धसिद्धोऽर्धजपात्फलं दद्याद्यथेप्सितम् ॥
सुसिद्धसाध्यो जापाद्यैः सिद्धये स्यादतोऽन्यथा ।
सुसिद्धे च सुसिद्धस्तु पूर्वजन्मकृतश्रमः ॥
तस्मात्तं सर्वसिद्धीनां साधने योजयेन्मनुम् ।
सुसिद्धारिरशेषेण स्वकुलं मारयेद्धृवम् ॥
अरिसिद्धः सुतं हन्यादरिसाध्यस्तु कन्यकाम् ।
तत्सुसिद्धस्तु पत्नीं स्वामर्यरिः साधकापहः” इति ॥
सम्प्राप्तेः प्राप्तिमात्रात् । जापाद्यैरित्याद्यशब्देन होमतर्पणब्राह्मणभोजनानि गृह्यन्ते ।
प्रकारान्तरेण ऋणधनशोधनम्
अथ प्रकारान्तरेण ऋणधनशोधनम् ।
“द्विगुणीकृत्य साध्यस्थं स्वरव्यञ्जनमण्डलम् ।
साधनाख्याजुषा तेन मेलयित्वाऽष्टभिर्हरेत् ॥
शेषः साध्यस्य राशिः स्याद्योजयेत्साधकोऽन्यथा ।
साधिकाधिकशेषस्तु ऋणी साध्यः शुभावहः ॥
शोधितो न्यूनशेषः स्याद्वर्णलक्षजपाच्छुभः” इति ।
साध्यो मन्त्रः । तेन स्वरव्यञ्जनसमुदायेन । अन्यथेति । साधकनामगतं स्वरव्यञ्जनसमूहं द्विगुणीकृत्य साध्यगतस्वरव्यञ्जननिकरेण सम्मेल्याष्टभिर्हरेत् । शेषं साधकराशिं जानीयादित्यर्थः । शोधित इत्युक्तेन सिद्धारिक्रमेण शोधितोऽनुकूलो मन्त्रो यदि साधकान्न्यूनशेषः स्यात्तदा यावत्या वर्णसङ्ख्यया न्यूनता तावल्लक्षजपादिनर्णमपाकृत्य पुरश्चरणादिकं कुर्यादित्यर्थः । यस्य मन्त्रराशिरधिकः स ऋणी ज्ञेयः । ग्राह्य एवायम् । यस्य मनराशिर्न्यूनः स धनी त्याज्योऽयम् । प्रकारान्तराणि चान्यतोऽवगन्तव्यानि । अथैतदपवादः सीमसिद्धान्तरत्नाङ्गसाररुद्रयामलागस्तिसंहितासिद्धान्तशेखरादिवचनगतोऽपुनरुक्तः सङ्गृह्यते–
“एकाक्षरे तथा कूटे त्रैपुरे स्त्रीसमर्पिते ।
स्वप्नलब्धे नृसिंहार्कवराहाणां मनुष्वपि ॥
प्रासादे प्रणवे तद्वत्सपिण्डाक्षरमन्त्रके ।
मृत्युञ्जये च पाशाद्ये वैष्णवे चण्डनायके179 ॥
व्योमव्यापिनि मायायां मालामन्त्रेष्वघोरके ।
एकत्रिपञ्चषट्सप्तेभाङ्करुद्राक्षरेषु च ।
नपुंसके च दन्तार्णे कालिकाश्यामलामनौ ।
सिद्धकालीचण्डिकयोर्मन्त्रे राममनुष्वपि ॥
गोपालमातृकामन्त्रे हरवल्लभया सह ।
श्रीविद्या सिद्धविद्या च मातङ्गी भुवनेश्वरी ॥
पद्मावती मधुमती दत्तात्रेयश्च पार्वती ।
मित्रेशोड्डीशषष्ठीशचर्यानन्दमनुष्वपि180 ॥
सप्तप्रणवमन्त्राणां हरिद्रोच्छिष्टयोरपि ।
आसुरी सुमुखी चैव रेणुका181 च सरस्वती ॥
कुम्भोद्भयाऽर्णवश्चैव मतङ्गगणिकस्य च ।
शाबराणां च मन्त्राणां वृद्धजप्तमनुष्वपि ॥
कुलागतानां मन्त्राणां सिद्धादीन्नैव शोधयेत् ।
बहुरूपाह्वये मन्त्रे जैनबौद्धमनुष्वपि ॥
सिद्धारित्वादिधनितामृणितां च न शोधयेत्” इति ।
कूटे कूटाक्षरे मन्त्रे । स्त्रीसमर्पिते स्त्रीविशेषसमर्पित इत्यर्थः ।
तथा च तन्त्रान्तरे–
“साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ।
सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता ।
गुरुयोग्या भवेत्सा हि विधवा परिवर्जिता ।
स्त्रियो(या) दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता” इति ॥
स्वप्नलब्धे कर्तव्यताविशेषो यथा-
" स्वप्नलब्धे तु कलशे गुरोः प्राणं निवेश्य च ।
कलशे गुरोः प्राणं निवेशितं भावयेत् । गुरुभावनां कलशे कुर्यादिति यावत् ।
वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम् ।
ततः शुद्धिमवाप्नोति अन्यथा विफलं भवेत्" इति ॥
इदं तु सद्गुरोरभावे । तत्सम्भवे तु तत एव गृह्णीयादिति । प्रासादे प्रासादबीजाढ्ये । पाश(शो)बीजम् । व्योमव्यापिनि हकारादौ । मायायां हृल्लेखायाम् । अङ्के नवाक्षरे । दन्तार्णे द्वात्रिंशदक्षरे । हरिद्रोच्छिष्टयोस्तद्गणपत्योः । अणु(मनु)र्मन्त्र इति ।
केषाञ्चिन्मन्त्राणां182 शापाभाव उक्तो वातुलागमे–
“पुरा शापविहीनं च वर्तते मन्त्रपञ्चकम् ।
श्रीविद्यासालुवं मन्त्रं नृसिंहार्कवराहकम्” इति ॥
तत्रान्तरे तु–
“मन्त्रादिषु सर्वेषु हृल्लेखाकामबीजकम् ।
श्रीबीजं वा विनिक्षिप्य जपेन्मन्त्रस्य सिद्धये ॥
तारसम्पुटितो वाऽपि दुष्टमन्त्रोऽपि सिध्यति” इति ।
हिरण्यगर्भसंहितायां च–
“स्वनामादिवर्णैः स्वमित्राक्षरैर्वा मनुं सम्पुटीकृत्य येऽनुस्मरन्ति” इति ।
स मन्त्रस्तेषां सिध्यतीति शेषः । अनुस्मरणं जपः ।
मन्त्राणां संस्कारादिकं तु शारदातिलकसौभाग्यरत्नाकरादिग्रन्थेषु द्रष्टव्यव्यम् ।)
आदौ मन्त्रसिद्धये पुरश्चरणमवश्यं कर्तव्यम् । तथा च वैशम्पायनः–
“पुरश्चरणसम्पन्नो मन्त्रो हि फलदायकः ।
किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः ॥
रहस्यानां हि मन्त्राणां यदि न स्यात्पुरस्क्रिया ।
पुरस्क्रिया हि मन्त्राणां प्रधानं बीजमुच्यते ॥
वीर्यहीनो यथा देवि सर्वकर्मसु न क्षमः ।
पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः” इति ॥
पुरश्चरणशब्दनिरुक्तिर्वायवीयसंहितायाम्–
“साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणाम् ॥
पुरतो विनियोगस्य चरणाद्वा तथोदितम्” इति ।
विनियोगलक्षणं तु मन्त्रतन्त्रप्रकाशे–
“धर्मार्थकाममोक्षाणां शास्त्रमार्गेण योजनम् ।
सिद्धमन्त्रस्य सम्प्रोक्तो विनियोगो विचक्षणैः ॥
पुरश्चणपूर्वोऽसौ विनियोगो विनिर्मितः ।
फलाय मन्त्रसेवा वा राजसेवा यथा तथा ॥
चरणात्पूर्वमेवासौ पुरश्चरणमुच्यते” इति ।
एतेन विनियोगाख्यकर्मसामर्थ्यजनकक्रिया, ऐहिकामुष्मिकमन्त्रात्मशुद्धिहेतुक्रिया वा पुरश्चरणमित्युक्तम् ।
अथ मूलमन्त्रोद्धारो मन्त्रस्यर्ष्यादिन्यासो ध्यानं जपसङ्ख्या पूजाविधिश्चोच्यते–
“अथ पुत्रप्रदं वच्मि कृष्णमन्त्रमनुष्टुभम् ।
देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत् ॥
वासुदेवपदं प्रोच्य सम्बुद्ध्यन्तं जगत्पतिम् ।
देहि मे तनयं प्रोच्य कृष्ण त्वामहमीरयेत् ॥
शरणं गत इत्य्-अन्तो मन्त्रो द्वात्रिंशदक्षरः ।
नारदो मुनिरस्योक्तोऽनुष्टुप्छन्दः समीरितम् ॥
देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम् ।
विजयेन युतो रथस्थितः प्रप्तमानीय समुद्रमध्यतः ॥
अददत्तनयान्द्विजन्मने स्मरणीयो वसुदेवनन्दनः ।
लक्षं जपोऽयुतं होमस्तिलैर्मधुरसप्लुतैः183 ॥
अर्चा पूर्वोदिता चैवं मन्त्रः पुत्रप्रदो नृणाम्” । इति ।
मन्त्रकौमुद्यामादौ कामबीजयोगोऽप्युक्तः । तत्रान्तरे त्वन्तेऽपि ।
अत्र तर्पणमार्जनब्राह्मणभोजनान्यऽपि कार्याणि–
“जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् ।
मन्त्रविद्भिस्तु पञ्चाङ्गं पुरश्चरणमीरितम्” ॥ इति मन्त्रकौमुद्याद्युक्तेः ।
एतत्सङ्ख्याऽप्युक्ता तत्रैव–
“होमो जपदशांशेन तद्दशांशेन तर्पणम् ।
मार्जनं तद्दशांशेन तद्दशांशेन भोजनम्” इति ॥
अङ्गन्यासचक्रादिकं तु गोपालदशाक्षरमन्त्रविधानवत् । तद्यथा–
“आचक्राय हृदाख्यातं विचक्राय शिरोऽपि च ।
सुचक्राय शिखा पश्चात्त्रैलोक्यरक्षणं ततः ॥
चक्राय कवचं प्रोक्तमसुरान्तकशब्दतः ।
चक्रायास्त्रमिदं कुर्यादङ्गानां पञ्चकं मनोः” इति ॥
तन्त्रान्तरे तु–“असुरान्तकचक्राय नेत्रद्वयं सुदर्शनचक्रायास्त्रम् “। इत्येवमङ्गषट्कमुक्तम् ।
चक्रम्
अथ चक्रम् ।
“अग्न्यादिकोणेष्वभ्यर्च्य त्दृदाद्यङ्गचतुष्टयम् ।
दिशास्वस्त्रं184 दलेष्वष्टौ महिषीः परिपूजयेत् ॥
रुक्मिणी सत्यभामा च नग्नजित्तनयार्कजा ।
मित्रविन्दा लक्ष्मणा च जाम्बवती सुशीलिका ॥
महिष्योऽष्टौ सुवर्णाभा विचित्राभरणस्रजः ।
दलाग्ने वसुदेवं च देवकीनन्दगोपतिम् ॥
यशोदां बलभद्रं च सुभद्रां गोपगोपिकाः ।
इन्द्रादीनपि वज्रादीन्पूजयेत्तदनन्तरम् ॥
मन्त्रेष्वेषु दशार्णोक्तान्प्रयोगान्विदधीत च” इति ॥
अङ्गषट्कपक्षे सन्निवेशस्तन्त्रान्तर एवोक्तः–
“अग्न्यादिकोणेष्वभ्यर्च्य185 हृदाद्यङ्गचतुष्टयम् ।
दिशासु नेत्रमभ्यर्च्य186 सर्वदिक्ष्वस्त्रमर्चयेत्” इति ॥
सङ्क्षेपेण पुरश्चरणकर्तृधर्माः
अथ सङ्क्षेपेण पुरश्चरणकर्तृधर्माः ।
तन्त्रसारे–
“अधःशायी हविष्याशी मौनी चैव जितेन्द्रियः ।
असूयादम्भरहितः पुरश्चरणमाचरेत्” इति ॥
व्यासः–
“क्षीराहारी फलाशी वा शाकाहारी हविष्यभुक्187 ।
भिक्षाशी वा जपं कुर्याज्जपं188 चा(पंश्चा)न्द्रायणादिकम् ॥
लवणं क्षारमम्लं189 च गृञ्जनं कांस्यभोजनम् ।
ताम्बूलं च द्विभुक्तं च दुःसव्ँवासं प्रमत्तताम् ॥
श्रुतिस्मृतिविरुद्धं च जपं रात्रौ च वर्जयेत्” इति ।
दुःसव्ँवासो दुष्टैः सह सव्ँवासः ।
मन्त्रतन्त्रप्रकाशे–
“भूशय्या ब्रह्मचारित्वं मौनचर्याऽनसूयता190 ।
नित्यं त्रिषवणं191 स्नानं क्षुद्रकर्मविवर्जनम् ॥
नित्यपूजा नित्यदानं देवतास्तुतिकीर्तनम् ।
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः इति192 ।
एवमादौ(दीं)श्च193 नियमान्पुरश्चरणकृच्चरेत् । [इति । ]
ब्रह्मचर्यमष्टविधमैथुननिवृत्तिः ।
तदुक्तं दक्षेण–
“स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्” इति ॥
अभिलाषा(ष)पूर्वकं स्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिबाह्यचेष्टा । गुह्यभाषणं सम्भोगार्थं रहोमन्त्रणम् । सङ्कल्पो मानसं कर्म । अध्यवसायः सम्भोगनिश्चयः । क्रियानिवृत्तिः क्रियानिष्पत्तिः ।
त्रिषवणस्नानं तु शक्तपरम् ।
“स्नानं त्रिषवणं प्रोक्तमशक्तौ द्विः सकृच्चरेत्” इति वैशम्पायनवचनात् ।
क्षुद्रकर्म तु–
“दम्भद्वेषौ तथोत्साद उच्चाटे भ्रममारणे ।
व्याधिश्चेति स्मृतं क्षुद्रम्” इति नारायणीयोक्तम् ।
नित्यं पूजा तत्पूर्वकमेव जपविधानात् । नैमित्तिकार्चनमयनादौ विशेषपूजा ।
सा चोक्ता मन्त्रतन्त्रप्रकाशे–
“अष्टोत्तरसहस्रं तु कृत्वाऽन्तर्यागमादरात् ।
जपेत्प्रतिदिनं यत्तु नित्य एष जपः स्मृतः ॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
द्वादश्यां पौर्णमास्यां तु तेषु नैमित्तिको जपः ॥
नित्यात्त्रिगुणितः सोऽथ पूजा चैव हरेस्तथा” इति ।
हरेरिति स्वेष्टदेवतोपलक्षणम् । आरब्धे पुरश्चरणे मध्य आशौचेऽपि न जपबाधस्तदुक्तं विष्णुना–
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने194 जपे195 ।
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम्” इति ॥
प्रारम्भशब्दार्थस्तु विष्णुनोक्तः–
“प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया” इति ॥
मन्त्रमहोदधौ–
“आदौ देवं वशीकर्तुं पुरश्चरणमाचरेत् ।
तीर्थादौ निर्जने स्थाने भूमिग्रहणपूर्वकम् ॥
नवधा तां धरां कृत्वा पूर्वादिषु समालिखेत् ।
कोष्ठेषु सप्त वर्गांश्च ळक्षो मध्ये तथा स्वरान् ॥
क्षेत्रनामादिमो वर्णो यत्र कोष्ठे भवेत्ततः ॥
उपविश्य जपं कुर्यान्नान्यस्मिन्दुःखदे स्थले ।
आमध्याह्नं जपं कुयोदुपांशुं वाऽथ मानसम् ॥
हविष्यं निशि भुञ्जीत त्रिःस्नाप्य(य्य)चलनस्तथा ।
व्यग्रतालस्यनिष्ठीवक्रोधपादप्रसारणम् ॥
अन्यभाषान्त्यजेक्षे च जपकाले त्यजेत्सुधीः ।
अन्यभाषा चान्त्यजश्चाण्डालस्तस्येक्षा चान्यभाषान्त्यजेक्षे । अन्येन सह भाषणमन्त्यजस्येक्षणं च वर्जयेदित्यर्थः ।
स्त्रीशूद्वभाषणं निन्दां ताम्बूलं शयनं दिवा ।
प्रतिग्रहं नृत्यगीते कौटिल्यं वर्जयेत्सदा ॥
भूशय्यां ब्रह्मचर्यं च त्रिकालं देवतार्चनम् ।
नैमित्तिकार्चनं देवस्तुतिं विश्वासमाश्रयेत् ॥
प्रत्यहं प्रत्यहं तावन्नैवं196 न्यूनाधिकं क्वचित्” इति ।
नवकोष्ठकं चतुरश्रं कृत्वा तस्मिन्पूर्वदिशमारभ्य कादीन्सप्त वर्गानन्ते ळं क्षं च विलिखेत् । एवं मध्यकोष्ठे नव कोष्ठान्कृत्वा पूर्वादितः स्वरयुग्मं लिखेत् । क्षेत्रनामाद्यवर्णो यस्मिन्कोष्ठे भवेत्तत्र मुखं तदधस्तात्क्रमेण हस्तपार्श्वपादपुच्छादिकं ज्ञेयम् । तत्र मुख उपविश्य जपं कुर्यात् । नान्यस्मिन्हस्तपार्श्वादिषु । तत्र–
“उदङ्मुखः सकामस्तु निष्कामः प्राङ्मुखो जपेत् ।
अभिचारादिकं यामे नैर्ऋत्ये(ते) मारणं स्मृतम्”
इति वचनाद्यथाकामम् ।
प्रकारान्तरेण कूर्मचक्रम्
अथ प्रकारान्तरेण कूर्मचक्रम् ।
समीकृते197 भूतले प्राक्प्रत्यगायता दक्षिणोत्तरायताश्चतस्रश्चतस्रो लेखा विलिख्य नव कोष्ठानि विधाय तत्र पूर्वादिप्रादक्षिण्येन क्रमेणाष्टसु कोणेषु कचटतपयशला(ळा ?)ख्यानष्ट वर्गानकारादिस्वरद्वयं198199 च विलिख्य मध्यकोष्ठे श्रीकारं विलिखेत् । अथवा मध्यकोष्ठे स्वराः प्रागादिक्रमेण । इदं च कूर्मचक्रं क्षेत्रग्रामगृहभेदात्त्रिविधम् । तत्र क्षेत्रग्रामयोस्तत्तन्नामाद्यक्षरयुक्तं कोष्ठं मुखं कूर्मस्य । एतदेव दीपस्थानमुच्यते । गृहे तु गृहपतिनामाद्यक्षरयुक्कोष्ठं मुखम् । तत्पार्श्वद्वयगतं कोष्ठद्वयं हस्तौ, तदधः स्थितं कुक्षी, तदधः स्थितं तु चरणौ, कुक्षिमध्यगतं कोष्ठं पृष्ठं, चरणमध्यगतं कोष्ठं पुच्छमिति विवेकः । एवमुक्तप्रकारस्य क्षेत्रादौ विभावितस्य कूर्मस्य मुखे पृष्ठे वा जपे होमे च सर्वार्थसिद्धिः । करयोः स्तनौ (?) । कोष्ठान्तराण्यनुपयुक्तानीति । कूर्मचक्रानावश्यकतोक्ता कतिपयेषु स्थलेषु ।
यथा–
“कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे ।
महाकाले च काश्यां च दीपस्थानं न चिन्तयेत्” इति ॥
दीपस्थानोपलक्षितत्वात्कूर्मचक्रमपि दीपस्थानमित्युक्तम् ।
इह चक्रे चोक्तेषु कोष्ठेषु रिपुस्थानं विचिन्त्य तत्त्यागपूर्वमवशिष्टमित्रस्थानमुपादेयम् ।
अरिमित्रविचारो यथा–
“अद्वयस्य थकारेण ठकारस्यापि तेन च200 ।
लृद्वयस्य प्र(प)कारेण पकारस्यापि तेन च ॥
औद्वयस्य षकारेण षकारस्यौयुगेन च ।
जकारस्य टकारेण ज्ञकारस्य खकारतः ॥
उकारस्य लकारेण फकारस्य201 धकारतः ।
भकारस्य तु रेफेण यकारस्य सकारतः ॥
अरित्वमेषां वर्णानामन्येषां मित्रभावना” इति ।
पुरश्चरप्पारम्भात्प्राङ्मन्त्रसिद्ध्यर्थमयुतत्रयं गायत्रीजपः कार्यः ।
तदुक्तं मन्त्रकौमुद्याम्–
“सर्वमन्त्रप्रसिद्ध्यर्थं गायत्रीं त्र्ययुतं जपेत्” इति ।
आसनविधेरावश्यकत्वमुक्तं सिद्धान्तशेखरादौ–
“आसनं प्रोक्ष्य सम्पूज्य जपं तत्र समाचरेत्” इति ।
तत्र तस्मिन्नासने ।
आसनमाह नारदः–
“कुशाजिनाम्बरैर्युक्तं चतुरङ्गुलमूर्ध्वतः ।
चतुरश्रं द्विहस्तं च सुदृढं मृदु निर्मलम् ॥
आसनं कल्पयित्वा तु जपकर्म समारभेत्” इति ।
अजिनान्याह वैशम्पायनः–
“सर्वसिद्ध्यै व्याघ्रचर्म ज्ञानसिद्ध्यै मृगाजिनम् ।
वस्त्रासनं रोगहरं वेत्रजं श्रीविवर्धनम् ॥
कौशेयं पौष्टिकं प्रोक्तं कम्बलं दुःखमोचनम्” इति ।
वस्त्रमाविकं न तु कार्पासमयम् ।
“आसने कार्पासमये जपो भवति निष्फलः” ।
इति ब्रह्मयामले [कार्पासमय]वस्त्रासने दोषश्रवणात् ।
भूतशुद्धिरप्यवश्यं कर्तव्या ।
“भूतशुद्धिविहीनेन कृता पूजाऽभिचारवत् ।
विपरीतं फलं दद्यादभक्त्या पूजने यथा” ॥
इति कुम्भसम्भवेन तदकरणे दोषस्योक्तत्वात् ।
प्राणप्रतिष्ठापनमप्युक्तं सारसङ्ग्रहे–
“भूतशुद्धिं विधायेत्थं ततो वै स्थापयेदसून्” इति ।
असून्प्राणान् ।
अन्तर्मातृकाबहिर्मातृकान्यासावपि तत्रैव–
“कृत्वाऽन्तर्मातृकान्यासं बहिर्न्यासं ततश्चरेत्” इति ।
बहिर्न्यासो बहिर्मातृकान्यासः ।
न्यासस्याऽऽवश्यकत्वमुक्तं गौतमीये–
“ध्यानं जपार्चनाहोमाः202 सिद्धमन्त्रकृता अपि ।
अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी” इति ॥
कपिलपञ्चरात्रे–
“ऋषिच्छन्दोदेवतानां विन्यासेन विना यदा ।
जपः संसाधितोऽप्येष तत्र तुच्छफलं भवेत्” इति ॥
मुद्राः
अथ मुद्राः ।
तत्र बहिर्न्यासमुद्रा दक्षिणामूर्तिसंहितायाम्–
“पुष्पैरनामया वाऽपि मनसा वा न्यसेदणून्” इति ॥
अत्रैवं व्यवस्था । पुष्पैर्देवतामूर्तौ । अनामया स्वदेहे । मनसा मूलाधारादिचक्रेषु, तत्र करस्पर्शासम्भवात् ।
अनामया साङ्गुष्ठया–“अङ्गुष्ठानामिकाभ्यां तु न्यासः सर्वत्र सम्मतः” ।
इति पद्यवाहिनीवचनात् ।
अङ्गन्यासमुद्रास्तु तन्त्रराजादौ–
“प्रसारितमनङ्गुष्ठं तर्जन्यादिचतुष्टयम् ।
हृदि मूर्धनि चाङ्गुष्ठहीनो मुष्टिः शिखातले ॥
चकाराद्धृदये देवमूर्धनि ।
स्कन्धमारभ्य नाभ्यन्ताद्दशाङ्गुल्यस्तु वर्मणि ।
तर्जन्यादित्रयं नेत्रत्रये नेत्रद्वये द्वयम् ॥
प्रसारिताभ्यां हस्ताभ्यां कृत्वा तालत्रयं सुधीः ।
तर्जन्यङ्गुष्ठयोरग्रे स्फालयन्बन्धयन्दिशः ॥
एषाऽस्त्रमुद्रा सम्प्रोक्ता विष्णोरेताः प्रकीर्तिताः” इति ।
ऋष्यादिन्यासमुद्रा अपि तत्रैव–
“ऋषिच्छन्दोदेवतानां न्यासे त्वङ्गुलयः स्मृताः ।
चतस्रोऽङ्गुष्ठरहिता इति विद्वत्प्रभाषितम्” इति ॥
अथाऽऽवाहन्यादिमुद्राः–
“हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणोः ।
अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा त्वावाहनो मता ॥
अधोमुखी त्वियं चेत्स्यात्स्थापनीति निगद्यते ।
इयमावाहनी मुद्राऽधोमुखी चेत्स्थापनी मुद्रा भवेदित्यर्थः । एतेनैव ज्ञायते आवाहनी मुद्रोत्तानहस्तेति ।
उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु सय्ँयोगात्सन्निधापनी ।
अन्तः प्रवेशिताङ्गुष्ठा सैव संरोधिनी मता ॥
अङ्गुष्ठगर्भमुष्टिद्वयं संरोधिनीत्यर्थः ।
उत्तानमुष्टियुगुला सम्मुखीकरणी भवेत् ।
उत्तानौ मुष्टी सम्मुखीकरणी मुद्रेत्यर्थः ।
देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृतिः ।
सकलीकरणी मुद्रेत्यर्थः ।
सन्निरोधेन मुद्रायास्तर्जन्यौ सरले यदा ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता मता ॥
अन्योन्यग्रथिताङ्गुष्ठा प्रप्तारितपराङ्गुलिः ।
महामुद्रेयमुदिता परमीकरणी प्रिये ॥
करयोरङ्गुष्ठौ सङ्ग्रथ्येतराङ्गुलीः प्रसारयेदिति महामुद्रेत्यर्थः ।
इयमेव परमीकरणीत्युच्यते ।
वामाङ्गुलीनां मध्येषु दक्षिणा अङ्गुलीरथ ।
नियोज्य तर्जनीं दक्षां मध्यया वामया तथा ॥
दक्षमध्यमया वामां तर्जनीं च नियोजयेत् ।
वामयाऽनामया दक्षां कनिष्ठां विनियोजयेत् ॥
दक्षयाऽनामया वामां कनिष्ठां च नियोजयेत् ।
विहिताऽधोमुखी चैषा धेनुमुद्रा प्रकीर्तिता ॥
इयमेवामृतीकरणीत्युच्यते ।
कनिष्ठानामयोः पृष्ठे स्यादङ्गुष्ठस्तु तर्जनी ।
कुटिला मध्यमा त्वृज्वी मुद्राऽसावङ्कुशाभिधा ॥
ऋज्वीं मध्यमां कृत्वा तर्जनीं मध्यम(मा)पर्वणि सय्ँयोज्याऽऽकुञ्चयेदित्यर्थः ।
वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना ।
कृत्वोत्तानं तथा मुष्टिमङ्गुष्ठं तु प्रसाद(र)येत्203 ॥
वामाङ्गुल्यस्तथाऽऽश्लिष्टाः सय्ँयुक्ताः सुप्रसारिताः ।
दक्षिणाङ्गुष्ठके लग्ना मुद्रा शङ्खस्य भूतिदा” इति ॥
“दक्षस्यानामिकाङ्गुष्ठमध्यमाग्राणि योजयेत् ।
शिष्टे द्वे उत्थिते कुर्यान्मृगमुद्रेयमीरिता” इति ॥
मुद्राशब्दार्थस्तन्त्रसारे–
“मुदं स्वरूपलाभाय देहद्वारेण चाऽऽत्मनः ।
या ह्यर्पयन्त्ययत्नेन मुद्रास्ताः शक्तयो मताः ॥
मोचयन्ति ग्रहादिभ्यः पापौघं द्रावयन्ति च ।
मोचनं द्रावणं यस्मान्मुद्रा शास्त्रेषु वर्णिता” इति ॥
जपदेशो वायवीयसंहितायाम्–
“सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य ज्वलितस्य वा ।
विप्राणां वा गवां वाऽपि सन्निधौ शस्यते जपः ॥
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ।
गृहे जपः समः प्रोक्तो गोष्ठे दशगुणस्तु सः ॥
आरामे च तथाऽरण्ये सहस्रगुण उच्यते ॥
अयुतं पर्वते पुण्ये नद्यां लक्षगुणस्तु सः ।
कोटिं देवालये प्राहुरनन्तं शिवसन्निधौ” इति ॥
शिवग्रहणं204 स्वेष्टदेवोपलक्षणम् ।
योगयाज्ञवल्क्योऽपि–
“अग्न्यगारे जलान्ते वा जपेद्देवालयेऽपि वा ।
पुण्यतीर्थे गवां गोष्ठे द्विजक्षेत्रेऽथवा गृहे” इति ॥
शङ्खोऽपि–
“गृहे त्वेकगुणं जप्यं नद्यादौ द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणमग्न्यगारे शताधिकम् ॥
सिद्धतीर्थेषु क्षेत्रेषु देवतायाश्च सन्निधौ ।
सहस्रशतकोटीनामनन्तं विष्णुसन्निधौ” इति ॥
विष्णुरिति स्वेष्टदेवोपलक्षणम् ।
कूर्मपुराणेऽपि–
“गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते तु शुभे देशे तस्माज्जप्यं सदा चरेत्” इति ॥
जपमाला
अथ जपमाला ।
सा त्रिविधा । मातृकाक्षरमयी, रुद्राक्षादिमणिमयी, दक्षिणकरपर्वमयी चेति ।
तत्र प्रथमामाह सारसङ्ग्रहकारः–
“अकारादिक्षकारान्तैर्बिन्दुवन्मातृकाक्षरैः ।
अनुलोमविलोमस्थैः क्लृप्तया वर्णमालया ॥
प्रत्येकं वर्णयुङ्मन्त्रा205 जप्ताः स्युः क्षिप्रसिद्धिदाः ।
वैरिमन्त्रा अपि नॄणां206 सुसिद्धाद्यास्तु किं पुनः” इति ॥
तत्प्रकारस्तन्त्रप्रकाशे–
" ब्रह्मनाडीगतानादिक्षान्तवर्णान्विभाव्य च ।
अर्णं बिन्दुयुतं कृत्वा स्वेष्टमन्त्रं जपेत्सुधीः ॥
अकारादिषु सय्ँयोज्य तथा कादिषु च क्रमात् ।
क्षार्णं मेरुमथो तत्र कल्पयेज्जगदीश्वरि ॥
तदा लिपिर्भवेदक्षमालार्धशतसङ्ख्यया ।
अनया सर्वमन्त्राणां जपः सर्वार्थसाधकः ॥
क्षकारं मेरुसन्धाने लकारादिविलोमतः ।
एकैकान्तरितं मन्त्रैर्जपेदेवं207 फलप्रदम्” इति ॥
यदा208 प्रात्या(त्य)हिकोऽष्टोत्तरसहस्रमष्टोत्तरशतं वा जपः कार्यस्तदा–
“वर्गाष्टकविभेदेन भवेदष्टोत्तरं शतम्” ।
इति प्रकारो ज्ञेयः । अक्षमालाशब्दस्त्वत्रैव मुख्यः ।
उक्तं च शारदातिलके–
“आदिक्षान्तार्णयोगित्वादक्षमालेति कीर्तिता” इति ।
ज्ञानार्णवेऽपि–
" अकारः प्रथमो देवि क्षकारोऽन्त्यस्ततः परम् ।
अक्षमालेति विख्याता मातृकावर्णरूपिणी” इति ॥
वर्गाष्टकजपस्तूद्दिष्टशतादिसङ्ख्यावसाने209 कार्यः ।
तदुक्तं मातृकार्णवे–
“आरभ्याकारमादौ मनसि परिजपेन्मातृकां210 सावसानां
धृत्वा तच्चावसानं पुनरपि च पठेदान्तमेवावरोहे211 ।
ळान्तानष्टौ च वर्गास्तदनु परिजपेद्भूय एवावसाने
ह्यान्तं संहारमुक्तं पशुपतिगदिता यामले मालिकेयम्” इति ॥
धृत्वा मेरुस्थाने । अवसानं क्षकारः212 । ळान्तान्कचटतपयशळाख्यान्213 । तदनूद्दिष्टसङ्ख्यासमाप्त्यनन्तरम् । अवसाने, उद्दिष्टशतादिसङ्ख्यावसाने । एवोऽवधारणे । द्वितीया तु सारसङ्ग्रहे–
“अथ वक्ष्येऽक्षमालाया विधानं मन्त्रिकाम्यया ।
पञ्चविंशतिभिः प्रोक्ता मणिभिर्मुक्तिदायिनी ॥
त्रिंशद्भिर्धनदा सप्तविंशत्यक्षैस्तु सर्वदा ।
अभिचारकरी पञ्चदशभिः कल्पिता तु सा ॥
चतुष्पञ्चाशदक्षैः सा काम्यकर्मसु सिद्धिदा ।
अष्टोत्तरशतैः क्लृप्ता सर्वाभीष्टप्रदा मता ॥
मणयः शङ्खसम्भूताः प्रोक्ता लक्ष्मीप्रदायकाः ।
भुक्तिमुक्तिप्रदाः स्फटिकजा पद्माक्षाः पुष्टिवर्धनाः ॥
भुक्तिमुक्तिप्रदाः प्रोक्ता रुद्राक्षाः सर्वसिद्धिदाः ।
पुत्रजीवभवाः पुत्रपशुधान्यसमृद्धिदाः ॥
विद्रुमोत्थास्तु मणयो धनसौभाग्यवश्यदाः ।
मौक्तिका मुक्तिदाः प्रोक्ताः सर्वसम्पत्समृद्धिदाः ॥
पापापहाः कुशमयाः कामदाः स्वर्णरूप्यजाः” इति ।
हारीतः–214
“शङ्खरूप्यमयी माला काञ्चनी वनजोत्पलैः ।
पद्माक्षकैश्च रुद्राक्षैर्विद्रुमैर्मणिमौक्तिकैः ॥
राजतेन्द्राक्षकैर्माला तथैवाङ्गुलिपर्वभिः ।
पुत्रजीवमयी माला शस्ता वै जपकर्मणि” इति ॥
गौतमोऽपि–
“अङ्गुल्या जपसङ्ख्यानमेकमेकमुदाहृतम् ।
रेखयाऽष्टगुणं पुत्रजीवैर्दशगुणाधिकम् ॥
शतं स्याच्छङ्खमणिभिः प्रवालैश्च सहस्रकम् ।
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या च रुद्राक्षैरनन्तफलमुच्यते” इति ॥
गोपालस्य तु पद्माक्षमालाऽतीव प्रशस्ता ।
“मौनी शान्तः शुचिर्दान्तः पद्मबीजाक्षमालया ।
जपेत्समाहितमना गोपालस्य मनुं सदा” इति गौतमोक्तेः ।
मिश्रणे निषेध उत्तरतन्त्रे–
“इन्द्राक्षैर्यदि जप्येत रुद्राक्षैः स्फाटिकैस्तथा ।
नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं च यत् ॥
यद्यन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ।
तस्य कामं च मोक्षं च न ददाति प्रियङ्करि ॥
जन्मान्तरे जायतेऽसौ वेदवेदाङ्गपारगः ।
मिश्रीभावं ततो याति चण्डालैः पापकर्मभिः” इति ॥
मणिसङ्ख्यामाह प्रजापतिः–
“अष्टोत्तरशतं कुर्याच्चतुष्पञ्चाशिका215 तथा ।
सप्तविंशतिका216 कार्या ततो नैवाधिका हिता ॥
अष्टोत्तरशता माला उत्तमा सा प्रकीर्तिता ।
चतुष्पञ्चाशिका वत्स मध्यमा सा प्रकीर्तिता ॥
अधमा प्रोच्यते नित्यं सप्तविंशतिसङ्ख्यया” इति ।
अयुतादिसङ्ख्यजपे तु– “न खण्डां कारयेन्मालां जपकर्मणि मानवः” ।
इति मालाखण्डननिषेधादेतासां मालानां जपसाधनत्वासम्भवेन शतसङ्ख्यमणिघटितमालाया विधानाभावेऽप्यनायत्या(पत्त्या) शतसङ्ख्यमणिघटितैव मालाऽत्र कल्पनीया ।
“अयुतादिजपे प्रोक्ता मालाऽक्षैः शतसङ्ख्यकैः” इति वचनादिति केचित् ।
अन्ये तु–अयुतादिसङ्ख्यजपे शतसङ्ख्यवर्णमालैव द्रष्टव्या न तु मणिमयी । एतस्या मालाया अखण्डाया अत्रासम्भवात् । शतसङ्ख्यमणिमालाप्रतिपादकवचनस्य निर्मूलत्वाच्चेत्याहुः । अष्टोत्तरसहस्रजपे तु वर्णमयी करमयी वा मालेति । सा चाग्रे वक्ष्यते ।
गौतमः–
<poem"अङ्गुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशनी । मध्यमा धनकामायानामिका पौष्टिकी तथा ॥ कनिष्ठा रमणी प्रोक्ता जपकर्मणि शोभना । अङ्गुष्ठेन जपञ्ज(पेज्ज)प्यमन्यैरङ्गुलिभिः सह ॥ अङ्गुष्ठेन विना जप्यं कृतं तदफलं भवेत्” इति ।</poem>
शैवागमे–
“तर्जन्या न स्पृशेत्सूत्रं कम्पयेन्न च घर्षयेत् ।
न स्पृशेद्वामहस्तेन करभ्रष्टां न कारयेत् ॥
अक्षाणां चालनेऽङ्गुष्ठेनान्यमक्षं न संस्पृशेत् ।
जपकाले सदा विद्वान्मेरुं217 नैव विलङ्घयेत् ॥
परिवर्तनकाले च सङ्घट्टं नैव कारयेत् ।
कलिः खटखटाशब्दे दोलमाने चलन्मतिः ॥
चलिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः ।
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनश्यति” इति ॥
चलिते मध्यमातोऽङ्गुल्यन्तरगते । स्फुटिते मणौ । सूत्रच्छेदे गुणच्छेदेऽपीत्यर्थः ।
तथा–
“कांसे क्षुते च जृम्भायामेकमावर्तनं त्यजेत् ।
प्रमादात्तर्जनीस्पर्शो भवेदावर्तनं त्यजेत्218 ॥
आवर्तनं मन्त्रस्य ।
जपे निषिद्धसंस्पर्शे क्षालयित्वा पुनर्जपेत्” इति ।
अन्यच्च–
“उल्लङ्घिते तथा मेरौ पतिते वाऽक्षसूत्रके ।
प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति” इति ॥
(अन्यच्च–219
“गलिता चेत्करान्माला छिन्ना स्पृष्टाऽथवा भवेत् ।
प्रक्षाल्य तां पञ्चगव्यैरभिमृश्य ततस्तु ताम् ॥
अष्टोत्तरशतं मूलमन्त्रस्य जपमाचरेत्” इति । )
अथैतस्या मालायाः संस्कारकालः ।
स च योगिनीतन्त्रे–
“द्वादश्यां वैष्णवी माला कर्तव्या साधकोत्तमैः ।
मन्त्रज्ञैर्विष्णुभक्तैस्तु दिव्यभागे प्रयत्नतः” इति ॥
दिव्यभागः पूर्वाह्णः ।
सूत्रमपि तत्रैव–“कार्पासैर्वैष्णवी माला पट्टसूत्रैरथापि वा” इति ॥
कार्पाससूत्रे विशेषस्तत्रैव–
“ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् ।
त्रिगुणं त्रिगुणीकृत्य सूत्रं प्रक्षाल्य यत्नतः” इति ।
(तन्त्रान्तरे–220
“ब्राह्मण्या च सुवासिन्या तदभावेऽन्यवर्णया ।
कार्पासनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ॥
प्रक्षाल्य तत्र मालायां मणीन्युक्त्या नियोजयेत्” इति ॥
अन्यच्च–“सूत्रान्तरेषु तु स्थौल्यमानयोर्नियमो221 न हि” इति ।
कार्पासव्यतिरिक्तेषु सूत्रेषु222 ।
मालासंस्कारः
अथैतस्या मालायाः संस्कारः ।
मालारचनाप्रकारः पाद्मे–
“गोपुच्छावयवाकारामक्षमालां विधाय च ।
मेर्वाख्यं योजयेदक्षमेकमूलाग्रसूत्रके ॥
ग्रन्थिं कुर्यात्तदग्रेण कीर्तिता चाक्षमालिका” इति ॥
वाराहसंहितायाम्–
" अक्षान्यथोक्तान्संहृत्य विविधान्दोषवर्जितान् ।
क्षालितान्पञ्चगव्येन पञ्चवेदान्तविद्यया ॥
सद्योजाताद्यैः पञ्चब्रह्ममन्त्ररित्यर्थः ।
आरोपयेद्धेमसूत्रे द्विगुणत्रिगुणीकृते ।
सूत्रे वा राजते क्षौमे शणकेशादिवर्जिते ।
कार्पासे वा यथालाभं क्षालिते परिशोधिते ।
पृष्ठेन पृष्ठभागं च मुखेन मुखमेव च ॥
परस्परं तु सन्नद्धा मणयः सदृशाः शुभाः ।
सूत्रेण वा सुवर्णस्य मध्ये मध्ये च सान्तराः" इति ॥
तन्त्रचिन्तामणौ–
“कुशोदकैः पञ्चगव्यैर्मालां प्रक्षालयेत्सुधीः ।
अश्वत्थपत्रनवके मालां संस्थापयेत्ततः ॥
मातृकास्तत्र विन्यस्य सद्योजातादिपञ्चभिः ।
अभिमन्त्र्य ततो मालां पञ्चगव्येन वारिभिः ॥
प्रथमेन तु मन्त्रेण तां मालां क्षालयेत्पुनः ।
उद्वर्तयेद्द्वितीयेन चन्दनेन सुगन्धिना ॥
गुग्गुल्वगरुभिर्मालां तृतीयेन सुधूपयेत् ।
कस्तूरीचन्दनाद्यैस्तु चतुर्थेनानुलेपयेत् ॥
सर्वान्मणीन्पञ्चमेन मन्त्रेण त्वभिमन्त्रयेत् ।
तृतीयेन ततो मेरुं शतवारं हि मन्त्रयेत् ॥
ततस्तैः पञ्चभिर्मन्त्रैर्मालां सम्यक्प्रपूजयेत्” इति ।
अन्यत्रापि–
“मणिमेकैकमादाय सूत्रे तत्र नियोजयेत् ।
मुखे मुखं तु सय्ँयोज्य पृष्ठे पृष्ठं तु योजयेत् ॥
प्रोक्तसङ्ख्यान्यमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ।
एकैकमणिमध्ये तु ग्रन्थिबन्धं प्रकल्पयेत् ॥
मातृकास्तत्र विन्यस्य पञ्चगव्यैः समाहितः ।
गायत्र्या मूलमन्त्रेण सद्योजातादिभिस्तथा ॥
प्रक्षाल्य223 तैरेव मन्त्रैरभिमन्त्र्य सुधूपयेत्” इति ॥
(ग्रन्थान्तरे224 तु विशेषान्तरमुक्तं मालासंस्कारे–
“प्राणानां स्थापनं कुर्यात्तत्राऽऽवाह्येष्टदेवताम् ।
इष्टदेवतां यदीयमन्त्रजपस्ताम् ।
मूलेनाभ्यर्च्याभिमन्त्र्य मातृकार्णैश्च मूलतः ।
मातृकावर्णैर्मूलेन च मालामभिमन्त्र्येत्यर्थः ।
आज्याहुतीरष्टशतं मूलेन जुहुयात्ततः ।
सम्पाताज्यं तु मालायां प्रत्याहुति विनिक्षिपेत् ॥
होमाशक्तौ तु मूलेन मालाया अभिमन्त्रणम् ।
होमसङ्ख्याद्विगुणितसङ्ख्यया225 साधकश्चरेत्” इति ॥ )
तन्त्रान्तरे–
“जपकाले प्रयोक्तव्या नियमेन सुमेधसा ।
परदृष्टिगता माला निष्फला जपकर्मणि ।
जपकालेऽक्षमालां तु गुरवेऽपि न दर्शयेत् ।
मध्यमानामिकाङ्गुष्ठैर्गृहीत्वा जपमाचरेत्” इति ॥
उत्तरतन्त्रे–
“जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा ।
इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥
ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे ।
बीजं गाणपतं पूर्वमुच्चार्य तदनन्तरम् ॥
अविघ्नं कुरु माले त्वमिति तां प्रार्थयेद्द्विजः ।
मालां स्वत्दृदयासन्ने धृत्वा दक्षिणपाणिना ॥
देवीं विचिन्तयञ्जाप्यं कुर्याद्वामेन न स्पृशेत् ।
जपान्ते तां नमस्कृत्य निदध्यान्मस्तके ततः ॥
त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।
शिवं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा ॥
पुष्करं शिखिबीजस्थं सूक्ष्मसूक्ष्मान्वितं226 भवेत् ।
आकाशशशिसय्ँयुक्तं सिद्ध्यै227 हृदयसय्ँयुतम् ॥
एष पञ्चाक्षरो मन्त्रो मालायाः परिकीर्तितः ।
ग्रहणे स्थापने चैव पूजने विनियोजयेत्” इति ॥
पुष्करं हकारः । शिखी रेफः । सूक्ष्मसूक्ष्मा “ईकारः” । आकाशशशिभ्यां बिन्द्वर्धचन्द्राभ्यां युतम् । सिद्ध्यै स्वरूपम् । हृदयं नम इति । (228 जपान्ते तां मालां न धारयेत् ।
तदुक्तं तत्रैव–
“न धारयेत्करे मूर्ध्नि कण्ठे वा जपमालिकाम् ।
जपकाले जपं कृत्वा सदा शुद्धस्थले क्षिपेत्” इति ॥
अन्यच्च(श्च)विशेषस्तन्त्रान्तरे–
“यन्मन्त्रस्य जपार्थं सा(स्या)द्या माला संस्कृता तया ।
तन्मन्त्रस्यैव कुर्वीत जपं नान्यस्य कस्यचित्” इति ।
अन्योऽपि तन्त्रान्तरे विशेषः–
“शिवमन्त्रेण सङ्ग्रथ्य शक्तिमन्त्रं जपेदपि ।
शक्तिमन्त्रेण सङ्ग्रथ्य शिवमन्त्रं जपेच्छिवे ॥
ध्रुवेण मातृकाभिर्वा ग्रथ्यन्ते मणयो यदि ।
तदा सर्वेऽभिजप्तव्या मनवो मालया तया” इति । ध्रुवः प्रणवः ।
“प्रमादाद्गलिता हस्तान्माला छिन्नाऽथवा भवेत् ।
स्पृष्टा वा स्यानिषिद्धेन मूलमष्टशतं जपेत्” इति ॥ )
तृतीया करमाला
अथ तृतीया करमाला ।
“मध्यमाया मध्यमूलपर्वणी त्रिदशेश्वरि ।
मेरुं कृत्वा जपं कुर्यात्तर्जनीमूलकावधि ॥
अनामामध्यपर्वादि प्रादक्षिण्यक्रमेण वै” इति ।
(229 अष्टोत्तरशताष्टोत्तरसहस्रादिसङ्ख्योपयुक्ता करमाला भैरवीतन्त्रे–
“अनामामध्यमारभ्य कनिष्ठानुक्रमेण तु ।
मध्यमामूलपर्यन्ता करमाला प्रकीर्तिता” इति ॥
गौतमोऽप्याह– “कनिष्ठानामिकाङ्गुष्ठमध्यमाभिर्जपेत्सदा” इति । अनामामध्यमूलकनिष्ठामूलमध्याग्रानामाग्रमध्यमाग्रमध्यमूलपर्यन्तमिति नवसु पर्वसु गणनायां कृतायां नववारं मन्त्रजपो भवति । एवं द्वादशवारं पुनः पुनरावर्तनेनाष्टोत्तरशतजपो भवति । द्वादशोत्तरशतावृत्त्याऽष्टोत्तरसहस्रजपो भवति । इत्थमयुतादिष्वप्यूहनीयम् ।)
जपविधिः
अथ जपविधिः ।
कपिलपञ्चरात्रे–
“एकचित्तः प्रशान्तात्माऽप्यक्षसूत्रकरः शुचिः ।
भुग्नग्रीवोन्नतः शान्तः कण्डून्मीलनवर्जितः ॥
सविसर्गं समात्रं च सबिन्दुं साक्षरं स्फुटम् ।
न द्रुतं नापि विश्रान्तं क्रमान्मन्त्रं जपेत्सुधीः” इति ॥
व्यासः–
“न च क्रामन्न च हसन्न पार्श्वमवलोकयन् ।
नापाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदा पादमाक्रम्य न चैव हि तथा करौ ।
न चासमाहितमना न च संश्रावयञ्जपेत्” इति ॥
बौधायनोऽपि–230 “नाभेरधस्तु संस्पर्शं कर्मयुक्तो हि वर्जयेत्” इति ।
व्यासोऽपि–
“जपकाले न भाषेत व्रतहोमादिकेषु च ।
एतेष्वेवावसक्तस्तु231 यथा गच्छन्द्विजोत्तमः ॥
अभिवाद्य ततो विप्रं योगं क्षेमं च कीर्तयेत्” इति ।
गौतमोऽपि-
“क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भणे ।
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि” इति ॥
नृसिंहपुराणे–
“त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ।
वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः ॥
त्रयाणां जपयज्ञानां श्रेयान्स्यादुत्तरोत्तरः” इति ।
वाचिकोपांशुत्वयोर्लक्षणं पुराणेऽभिहितम्–
“यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
अपरैरश्रुतः किञ्चित्स उपांशुजपः स्मृतः” इति ॥
विश्वामित्रेण मानसस्य लक्षणमुक्तम्–232
“धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः” इति ॥
त्रयाणां तारतम्यं च तेनैवोक्तम्–
“उत्तमं मानसं जप्यमुपांशु मध्यमं स्मृतम् ।
अधमं वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजः(जाः) ॥ .
वाचिकस्यैकमेकं स्यादुपांशु शतमुच्यते ।
सहस्रं मानसः प्रोक्तो मन्वत्रिभृगुनारदैः” इति ॥
जपलक्षणमाह कुम्भसम्भवः–
“गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्तनं हि यत् ।
अन्तरङ्गाक्षराणां च न्यासपूर्वो जपः स्मृतः” इति ॥
अङ्गेति सुतीक्ष्णसम्बोधनम् । अक्षराणामन्तरावर्तनं जप इति सम्बन्धः ।
वायवीयसंहितायाम्–
“एवमुक्तविधानेन विलम्बत्वरितं विना ।
उक्तसङ्ख्यं जपं कुर्यात्पुरश्चरणसिद्धये ॥
देवतागुरुमन्त्राणामैक्यं सम्भावयन्धिया ।
जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि ॥
यत्सङ्ख्यया समारब्धं तत्कर्तव्यं दिने दिने ।
यदि न्यूनाधिकं कुर्याद्व्रतभ्रष्टो भवेन्नरः” इति ॥
अयं च जपो दिवैव कार्यः ।
“दिवा चैव जपं कुर्यात्पौरश्चरणिको विधिः” ।
इति फेत्कारिणीतन्त्रे दिवापदाभिधानात् । ‘जपं रात्रौ विवर्जयेत् ।’ इति कुम्भसम्भवेन रात्रिजपनिषेधाच्च ।
देशकालाद्युपद्रवसम्भावनायां नायं नियमः ।
“यत्सङ्ख्यया समारब्धं प्रत्यहं तावदेव हि ।
जपकर्म प्रकुर्वीतोपप्लवे नियमो नहि” इति तन्त्रान्तरवचनात् ॥
तत्रापि चतुर्थभागपर्यन्तमेव जप्त(पित)233 व्यं न पञ्चमभागे234 ।
“राक्षसी नाम वेला सा गर्हिता सर्वकर्मसु” ॥
इति मत्स्यपुराणे निन्दितत्वात् ।
वैशम्पायनः–
“नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात्पुंसो मन्त्रसिद्धिर्भवेन्न हि ॥
यावत्सङ्ख्यं जपेदह्नि पूर्वस्मिंस्तावदेव तु ।
दिनान्तरेऽपि प्रजपेदन्यथा सिद्धिरोधकृत्” इति ॥
फेत्कारिणीतन्त्रे–
“जपकाले यदा पश्येदशुचिं मन्त्रवित्तमः ।
प्राणायामं ततः कृत्वा जपशेषं समापयेत् ॥
यदा चैवं भवेन्मन्त्री स्वयमप्यशुचिः पुनः ।
स्नात्वाऽऽचम्य यथापूर्वं न्यासं कृत्वा पुनर्जपेत्” इति ॥
न्यासोऽधिकारसम्पादकः । एतेन मूत्रोत्सर्गादावशुचित्वसम्भवश्चेत्स्नानमन्यथा प्राणायामकरषडङ्गन्यासान्कृत्वा शेषं समापयेदिति प्रतीयते ।
कपिलपञ्चरात्रे–
“विक्षेपादथवाऽऽलस्याज्जपहोमार्चनान्तरा ।
उत्तिष्ठति तदा न्यासं235 षडङ्गं विन्यसेत्पुनः” इति ॥
गौतमः–
“ध्यानार्चनजपानां च प्राणायामास्त्रयस्त्रयः ।
आद्यन्तयोर्विधीयन्ते नासिकापुटचारिणः” इति ॥
योगयाज्ञवल्क्यः–
“यदि वाग्यमलोपः स्याज्जपादिषु कदाचन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम्” इति ॥
वैष्णव मन्त्र इदं विष्णुरिति ।
सव्ँवर्तोऽपि–
“लोकवार्तादिकं श्रुत्वा श्रुत्वा च पु(प)रुषं वचः ।
सङ्ख्यां विना च यज्जप्तं तत्सर्वं निष्फलं भवेत्” इति ॥
(गौतमोऽपि–236
“गच्छतस्तिष्ठतो वाऽपि स्वेच्छया कर्म कुर्वतः ।
अशुचेर्वा विना सङ्ख्यां तत्सर्वं निष्फलं भवेत्” इति ॥)
नारदः–
“सङ्ख्यापूर्तौ निजैर्द्रव्यैर्जपसङ्ख्यादशांशतः ।
यथोक्तकुण्डे जुहुयाद्यथाविधि समाहितः ॥
अथवा प्रत्यहं जप्त्वा जुहुयात्तु दशांशतः” इति ।
(लक्षान्ते237238 लक्षान्ते होमादि, इत्यपि तन्त्रान्तरे । होमाशक्तौ ब्राह्मणानां पुरश्चरणजपसङ्ख्याद्विगुणो जप इति मुख्यः पक्षः । होमसङ्ख्याद्विगुणो जप इति गौणः । क्षत्त्रियादीनां त्रिगुणादिजपः । एवं तर्पणेऽपि । द्विजभक्तस्य शूद्रस्य द्विजस्त्रीणां च होमप्रतिनिधिर्जप एव । तेषां होमे तु नाधिकारः । ब्राह्मणभोजनस्य तु न क्वापि प्रतिनिधिरिति कल्पसूत्रे द्रष्टव्यम् । ) होमानन्तरं तर्पणादि कार्यम् ।
तदुक्तं मन्त्रतन्त्रप्रकाशे–239
“एवं होमं समाप्याथ तर्पयेद्देवतां जले ।
आवाह्य तद्दशांशेन तर्पणादभिषेचनम् ॥
तर्पयामि नमश्चेति द्वितीयान्तेष्टपूर्वकम्
द्वितीयान्तमिष्टं प्रकृतकर्मण इष्टदेवताया नाम गृहीत्वा तर्पयामि नम इति तर्पयेदित्यर्थः ।
मूलान्ते तु पदं देयं सिञ्चामीत्यभिषेचने ।
ततो नानाविधैरन्नैस्तर्पयेद्द्विजसत्तमान् ॥
इष्टरूपान्समाराध्य तेभ्यो दद्याच्च दक्षिणाम् ।
न्यूनं सम्पूर्णतामेति ब्राह्मणाराधनान्नृणाम् ॥
देवताश्च प्रसीदन्ति सम्पद्यन्ते मनोरथाः” इति ।
( सर्वेऽपि240 मन्त्रा गुरुमुखादवगम्यैव जप्तव्या नान्यथा ।
“पुस्तके लिखितान्मन्त्रानवलोक्य जपेत्तु यः ।
स जीवन्नेव चाण्डालो मृतः श्वा वै भविष्यति”
इति साङ्ख्यायनतन्त्रे गुरुमुखावगमं विना जपस्य निषेधात् । )
प्रयोगः
अथ241 प्रयोगः ।
कर्ता सपत्नीकः सुस्नातः कृतनित्यक्रिय आदौ शरीरशुद्ध्यर्थमेनसो गुरुलाघवानुसारेण242 सर्वप्रायश्चित्तं विधाय निर्विघ्नतासिद्ध्यर्थं विनायकशान्तिं ग्रहानुकूल्यार्थं ग्रहयज्ञं मन्त्रसिद्ध्यर्थमयुतत्रयं गायत्रीजपं च कृत्वा शुभे दिने शुचीन्मन्त्रवतो विप्रानाहूय तैरनुज्ञातो देशकालौ सङ्कीर्त्य श्रीसन्तानप्रदगोपालकृष्णप्रीतिपूर्वकमन्त्रसिद्ध्यर्थं243 पुरश्चरणमहं करिष्य244 इत्येवं श्रीसन्तानप्रदगोपालकृष्णदेवतामन्त्रसिद्धिद्वारा सन्तानप्रदगोपालकृष्णदेवताप्रीत्यर्थं पुरश्चरणमहं करिष्य इत्येवं वा सङ्कल्प्य निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पुण्याहवाचनं245 मातृकापूजनं नान्दीश्राद्धं246 चोक्तरीत्या कुर्यात् ।
तत आचम्य प्राणानायम्य शुचौ देशे ‘नवधा तां धरां कृत्वा’ इत्य्-आदिविधिना कल्पिते स्थल आसनार्थं कुशा अजिनं चैलमिति क्रमादुपर्युपर्यास्तीर्य गायत्र्या मूलमन्त्रेण चाभ्युक्ष्य पृथ्वीतिमन्त्रस्य मेरुपृष्ठ ऋषिः कूर्मपृष्ठो247 देवता सुतलं छन्दः । आसनापेवेशने विनियोगः । ॐ पृथ्वि त्वया धृता लोका० चाऽऽसनम् । अनन्तासनाय नमः । विमलासनाय नमः । पद्मासनाय नमः । कूर्मासनाय नमः । योगासनाय नमः । आधारशक्तिकमलासनाय नमः । मध्ये परमसुखासनाय नमः । इत्य्-आसने प्राङ्मुख उपविश्य स्वस्तिकपद्मान्यतरासनं बध्नीयात् ।
तल्लक्षणे गौतमीतन्त्रे–
“जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे ।
ऋजुकायो वसेद्योगी स्वस्तिकं तत्प्रचक्षते ॥
ऊर्वोरुपरि विन्यस्य तथा पादतले उभे ।
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम्” इति ॥
ततः–
“ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने ।
तिष्ठ देवि शिखाबन्धे248 चामुण्डे ह्यपराजिते” ॥
इति चामुण्डां सम्प्रार्थ्य । स्वशिरसि–गुं गुरुभ्यो नमः ।दक्षिणांसे–गं गणपतये नमः । वामे(वामांसे)–दुं दुर्गायै नमः । दक्षिणजानुनि–क्षं क्षेत्रपालाय नमः । वामजानुनि–सं249 सरस्वत्यै नमः, इति नमस्कृत्य250 । अम्, आत्मने नमः । सं सत्त्वात्मने नमः । रं रजआत्मने नमः । तं तमआत्मने नमः ।
“नमोऽस्त्वनन्ताय नमोऽस्तु वेधसे नमो वसिष्ठाय नमोऽस्तु शक्तये ।
पराशरायाथ नमोऽस्तु शाश्वते नमोऽस्तु ते सत्यवतीसुताय ।
नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ।
आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ।
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमावृक्षि देवाः” इति नमस्कुर्यात् ।
“अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे”
इत्यनेन वामपादपार्ष्णिघातत्रयेण पार्थिवान्विघ्नांस्तालत्रयेणाऽऽन्तरिक्षान्दिव्यदृष्ट्यवलोकनेन दिव्यान्विघ्नांश्चोत्सार्य “सर्वभूतनिवारणाय सशराय सशार्ङ्गाय सुदर्शनायास्त्रराजाय हुं फुट्” इति दिग्बन्धं विधाय परितोऽग्निप्राकारं विचिन्त्य भूतशुद्धिं कुर्यात् ।
सा यथा–मूलाधारस्थितां विसतन्तुनिभां विद्युत्प्रभां प्रसुप्तभुजगाकारां सार्धत्रिवलयां स्वयम्भूलिङ्गवेष्टिनीं कुण्डलिनीं ध्यात्वा मूलाधारात्प्रणवेन भुजङ्गीमिव तामुत्थाप्य प्रणवेनोर्ध्वमुखं विकसितं हृत्पद्मं कृत्वा तत्रत्यं जीवात्मानं षट्चक्रभेदक्रमेण ब्रह्मरन्ध्रं नीत्वा सहस्रदलगतबिन्दुरूपे परमात्मनि सय्ँयोज्य हंसः सोऽहमितिमन्त्रेण परमात्मनैक्यभावमापादयेत् ।
पादादिजानुपर्यन्तं पृथिवीमण्डलं चतुरश्रं स्वर्णवर्णं वज्रलाञ्छितं निवृत्तिकलं ब्रह्मदैवत्यं लम्बीजयुक्तं ध्यायेत् ।
स्योनेत्यस्य मन्त्रस्य याज्ञिक्यो देवता उपनिषदो भूमिर्गायत्री । भूमिनमस्कारे विनियोगः । “ॐ स्योना पृथिवि भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः” । लं भूम्यै नम इति नमस्कुर्यात् । ऋग्वेदिनां251 तु स्योना मेधातिथिभूमिर्गायत्री । भूमिनमस्कारे विनियोगः । “ॐ स्योना पृथिवि भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः” । लं भूम्यै नमः ।
जान्वादिनाभिपर्यन्तमम्बुमण्डलमर्धचन्द्राकारं शुभ्रवर्णं पद्मद्वयलाञ्छितं प्रतिष्ठाकलं विष्णुदैवत्यं वम्बीजयुक्तं ध्यायेत् । अप्सु म इत्यस्य विश्वे देवा आपोऽनुष्टुप् । अम्बुनमस्कारे विनियोगः । “ॐ अप्सु मे सोमो० भेषजी” । वम्, अम्बुने नमः । ऋग्वेदिनां तु–अप्सु252 मेधातिथिरापोऽनुष्टुप् । अम्बुनमस्कारे विनियोगः । “ॐ अप्सु मे सोमो० भेषजीः” । वम्, अम्बुने नम इति ।
नाभ्यादि हृदयपर्यन्तं तेजोमण्डलं त्रिकोणं रक्तवर्णं स्वस्तिकलाञ्छितं विद्याकलं शिवदैवत्यं रम्बीजयुक्तं ध्यायेत् । अग्निं दूतमित्यस्य प्रजापतिरग्नि र्गायत्री । तेजोनमस्कारे विनियोगः । “ॐ अग्निं दूतं वृणी० यज्ञस्य सुक्रतुम्” । रं तेजसे नमः । ऋग्वेदिनां तु–अग्निं दूतं काण्वो मेधातिथिरग्निर्गायत्री । तेजोनमस्कारे विनियोगः । “ॐ अग्निं दूतं वृणीमहे० सुक्रतुम्” । रं तेजसे नम इति ।
हृदयादि भ्रूमध्यपर्यन्तं वायुमण्डलं वृत्तं धूम्रवर्णं षड्बिन्दुलाञ्छितं शान्तिकलमीशानदैवत्यं यम्बीजयुक्तं ध्यायेत् । वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । वायुनमस्कारे विनियोगः । “ॐ वायो शत ० पाजसा” । यं वायवे नमः । ऋग्वेदिनां तु–तव वायो व्यश्व आङ्गिरसो वायुर्गायत्री । वायुनमस्कारे विनियोगः । “ॐ तव वायवृ० वृणीमहे” । यं वायवे नम इति ।
भ्रूमध्यादाब्रह्मरन्ध्रमाकाशमण्डलं253254 वृत्तं शुक्लवर्णं विधुलाञ्छितं शान्त्यतीतकलं सदाशिवदैवत्यं हम्बीजयुक्तं ध्यायेत् । घृतं घृतपावान इत्यस्य सोम आकाशो यजुः । आकाशनमस्कारे विनियोगः । “ॐ घृतं घृतपावा० त्वाऽन्तरिक्षाय” । हम्, आकाशाय नमः । ऋग्वेदिनां तु, आदिद्वत्स आकाशो गायत्री । आकाशनमस्कारे विनियोगः ।“ॐ आदित्प्रत्नस्य० ते दिवा” । हम्, आकाशाय नम इति ।
पद्धस्तपायूपस्थवाचः क्रमात्पृथिव्यादिषु न्यसामि । गमनादानरेचनानन्दवचनानि क्रमा० । घ्राणरसनचक्षुःस्पर्शनश्रोत्राणि क्रमा० । गन्धरसरूपस्पर्शशब्दान्क्रमा० । समानोदानव्यानापानप्राणान्क्रमा० । एवं विन्यस्य पञ्चगुणां[ पृथिवीं ] षडुद्घातप्रयोगेण लं ६ अम्बुनि प्रविलापयामि । अम्बु255 चतुर्गुणं पञ्चोद्घातप्रयोगेण वं ५ अग्नौ प्रविलापयामि । अग्निं त्रिगुणं चतुरुद्घातप्रयोगेण रं ४ वायौ प्रविलापयामि । वायुं द्विगुणं त्रिरुद्घातप्रयोगेण यं ३ आकाशे प्रविलापयामि । आकाशमेकगुणं द्विरुद्घातप्रयोगेण हं २ अहङ्कारे प्रविलापयामि । तमहङ्कारं महत्तत्त्वे प्रविलापयामि । तन्महत्तत्त्वं प्रकृतौ प्रविलापयामि । तां प्रकृतिं परब्रह्मणि प्रविलापयामि । इति प्रविलापयेत् ।
ततः–
“ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ।
सुरापानत्दृदा युक्तं गुरुतल्पकटिद्वयम् ॥
तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ।
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥
अधोमुखं कृष्णवर्णमङ्गुष्ठपरिमाणकम् ।
खड्गचर्मधरं क्रुद्धं वामकुक्षौ विचिन्तयेत्” इति ॥
ततो यमितिवायुबीजेन षोडशवारमावृत्तेन पापपुरुषं संशोष्य रमित्यग्निबीजेन चतुःषष्टिवारमावृत्तेन सन्दह्य यमितिवायुबीजेन द्वात्रिंशद्वारमावृत्तेन तद्भस्म दक्षिणनासापुटेन बहिर्निःसार्य वमित्यमृतबीजेन षोडशवारमावृत्तेन तद्भस्मामृतेन सम्प्लाव्य लमितिभूमिबीजेन षोडशवारमावृत्तेन घनीभूतं देहं विभाव्य हमित्याकाशबीजेन षोडशवारमावृत्तेन देवताराधनयोग्यतां विभाव्य ब्रह्मणः सकाशात्प्रकृतिः प्रकृतेर्महत्त्वं महत्तत्वादहङ्कारोऽहङ्कारादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी पृथिव्या ओषधय ओषधीभ्योऽन्नमन्नाद्रेतो रेतसः पुरुषः स वा एष पुरुषोऽन्नरसमय इति सृष्टिक्रमं विभाव्य प्रणवेन हृत्पद्ममूर्ध्वमुखं विभाव्य हंसः सोऽहमिति मन्त्रेण जीवात्मानं हृत्पद्मे समागतं विभाव्य कुण्डलिनीं स्वस्थानगतां विभावयेत् ।
प्राणप्रतिष्ठा
अथ प्राणप्रतिष्ठा ।
अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुशिवा ऋषयः । ऋग्यजुःसामानि च्छन्दांसि । चैतन्यरूपा256 प्राणशक्तिर्देवता । आं बीजम् । ह्रीं शक्तिः । क्रों257 कीलकम्258 । प्राणप्रतिष्ठापने विनियोगः । ब्रह्मविष्णुशिवेभ्य ऋषिभ्यो नमः शिरसि । ऋग्यजुःसामभ्यश्छन्दोभ्यो नमो मुखे । चैतन्यरूपायै259 प्राणशक्तिदेवतायै नमो हृदये । आं बीजाय नमो गुह्ये । ह्रीं शक्तये नमः पादयोः । क्रों260 कीलकाय261 नमो नाभौ । प्राणप्रतिष्ठापने विनियोगाय नमः सर्वाङ्गे । ॐ आं ह्रीं क्रों262 अं कं खं गं घं ङं263 । आकाशवाय्वग्निसलिलपृथिव्यात्मन आं हृदयाय नमः । ॐ आं ह्रीं क्रों264 इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा । ॐ आं ह्रीं क्रों265 उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मन ऊं शिखायै वषट् । ॐ आं ह्रीं क्रों266 एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मन267 ऐं कवचाय हुं । ॐ आं ह्रीं क्रों268 ओं पं फं बं भं मं वचनादानविसर्गगमनानन्दात्मन269 औं नेत्रत्रयाय वौषट् । ॐ आं ह्रीं क्रों270 अं यं रं लं वं शं षं सं हं ळं क्षं मनोबुद्ध्यहङ्कारचित्तानन्दात्मने, अः अस्त्रायफट् । इति षडङ्गेषु तत्तन्मु द्राभिर्विन्यस्य नाभ्यादिपादद्वयाग्रान्तम्, आं नमः । कण्ठादिनाभ्यन्तं ह्रीं नमः । मूर्धादिकण्ठान्तं क्रों271 नमः ।
ततो हृद्येव272 यं, त्वगात्मने नमः । रं, असृगात्मने नमः । मांसात्मने नमः । वं मेदआत्मने नमः । शं, अस्थ्यात्मने नमः । पं मज्जात्मने नमः । सं शुक्रात्मने नमः । हं, ओजआत्मने नमः । ळं जीवात्मने नमः । क्षं परमात्मने नमः ।
ततो हृदयकमले यं नमः । आग्नेये रं नमः । (273 पूर्वे लं नमः । पश्चिमे वं नमः । ईशाने शं नमः । नैर्ऋते षं नमः । उत्तरे सं नमः । दक्षिणे हं नमः ।) कर्णिकायां क्षं नमः । इति विन्यसेत् ।
ततः समस्तमातृकाभिर्मूर्धादिचरणावधिव्यापकन्यासं विधाय,
“रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराग्रे रक्तां त्रिनेत्रां प्रणमामि देवीम्” इति ध्यायेत् ।
वामाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये तदाद्यधःस्थयोरपरे इत्य्-आयुधस्थितिः । शरासो धनुः ।
ततो हृदि दक्षहस्ततलं निधाय, ॐ आं ह्रीं क्रों यं रं लं वं शं षं ओं क्षं सं हं ळं क्षं सः, ह्रीं ओं हंसः, मम प्राणा274 इह प्राणाः, पुनरोमित्याद्यजपान्तमुक्त्वा–मम जीव इह स्थितः, पुनस्तथैवोक्त्वा–मम सर्वेन्द्रियाणि, पुनस्तथैवोक्त्वा–मम वाङ्मनश्चक्षुःश्रोत्रत्वग्घ्राणप्राणा इहाऽऽगत्य सुखं चिरं तिष्ठन्तु स्वाहेति प्राणप्रतिष्ठां कुर्यात् ।
मम सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रत्वग्घ्राणप्राणा इत्येकमेव वा ।
ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हों हंसः सोऽहमित्येवं वा प्राणप्रतिष्ठापनमन्त्रः ।
“ॐ असुनीते पुनरस्मासु च० मृळया नः स्वस्ति” इति पठेत् ।
ज्ञानार्णवे तु–आं सोऽहमित्येतावतैव प्राणप्रतिष्ठोक्ता । गर्भाधानादिपञ्चदशसंस्कारसिद्ध्यर्थं पञ्चदशवारं प्रणवं जपेत् । इति प्राणप्रतिष्ठा ।
अन्तर्मातृकान्यासः
अथान्तर्मातृकान्यासः ।
तत्र मातृकाभिः प्राणायामत्रयं कृत्वा मातृकान्यासं कुर्यात् । तत्र स्वरैः । पूरकः कादिभिः कुम्भको यादिभी रेचक इति प्राणायामक्रमः । इत्थं प्राणायामत्रयं कृत्वा, अस्य श्रीमातृकामन्त्रस्य275 ब्रह्मण ऋषये नमः शिरसि । गायत्र्यै छन्दसे नमो मुखे । मातृकासरस्वत्यै देवतायै नमो हृदये । हल्भ्यो बीजेभ्यो नमो गुह्ये । स्वरेभ्यः शक्तिभ्यो नमः पादयोः । व्यक्तये कि(की)लकाय नमो नाभौ । मातृकान्यासे विनियोगाय नमः सर्वाङ्गे । ॐ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट्276 । ॐ एं तं थं दं धं नं ऐं अनामिकाभ्यां हुम्277 । ॐ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां वौषट्278 । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठेभ्यः फट्279 । ॐ अं कं खं गं घं ङं आं हृदयाय नमः । ॐ इं चं छं जं झं ञं ईं शिरसे स्वाहा । ॐ उं टं ठं डं ढं णं ऊं शिखायै वषट् । ॐ एं तं थं दं धं नं ऐं कवचाय हुं । ॐ ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् । सर्वाभिर्मातृकाभिस्त्रिर्व्यापकम् ।
अथ ध्यानम्–
“पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादहृत्कुक्षिवक्षो-
देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था-
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि” ।
दक्षिणोर्ध्वकरमारभ्य दक्षाधःकरपर्यन्तमायुधस्थितिः । चिन्तालिखितं पुस्तकम् । एवं ध्यात्वाऽन्तमार्तृकान्यासं कुर्यात् । तत्राऽऽदौ कण्ठस्थे विशुद्ध(द्धि)चक्रे षोडशदले पूर्वादिप्रादक्षिण्येन । ॐ अं नमः । ॐ आं नमः । ॐ अः नमः । इति विन्यस्य हृदयस्थेऽनाहतचक्रे द्वादशदले पूर्वादिप्रादक्षिण्येन । ॐ कं नमः । ॐ खं नमः । ॐ गं नमः । ॐ घं नमः । ॐ ङं नमः । ॐ चं नमः । ॐ छं नमः । ॐ जं नमः । ॐ झं नमः । ॐ ञं नमः। ॐ टं नमः । ॐ ठं नमः । इति विन्यस्य, नाभिमण्डलस्थे मणिपूरचक्रे दशदले पूर्वादिप्रादक्षिण्येन280 । ॐ डं नमः । ॐ ढं नमः । ॐ णं नमः । ॐ तं नमः । ॐ थं नमः । ॐ दं नमः । ॐ धं नमः । ॐ नं नमः । ॐ पं नमः । ॐ फं नमः । इति विन्यस्य लिङ्गमूलस्थे स्वाधिष्ठानचक्रे षड्दले पूर्वादिप्रादक्षिण्येन । ॐ बं नमः । ॐ भं नमः । ॐ मं नमः । ॐ यं नमः । ॐ रं नमः । ॐ लं नमः । इति विन्यस्य मूलाधारस्थे281 मूलाधारचक्रे चतुर्दले पूर्वादिप्रादक्षिण्येन । ॐ वं नमः । ॐ शं नमः । ॐ षं नमः । ॐ सं नमः । इति विन्यस्य भ्रूमध्यस्थ आज्ञाचक्रे द्विदले दक्षिणवामक्रमेण । ॐ हं नमः । ॐ क्षं नमः । इति विन्यस्य बहिर्मातृकान्यासं कुर्यात् ।
“पञ्चाशल्लिपिभिर्विभक्तमुखदोःषन्मध्यवक्षस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजै-
र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ।
इति ध्यात्वा, ॐ नमः, शिरसि । सर्वत्राऽऽदौ तारः । आं नमः, मुखवृत्ते । इं नमः, दक्षिणनेत्रे । ईं नमः, वामनेत्रे । उं नमः, दक्षिणश्रोत्रे । ऊं नमः, वामश्रोत्रे । ऋं नमः, दक्षिणनासापुटे । ऋं नमः, वामनासापुटे । लृं नमः, दक्षिणगण्डे । लृं नमः, वामगण्डे । एं नमः, ऊर्ध्वोष्ठे । ऐं नमः, अधरोष्ठे । ओं नमः, ऊर्ध्वदन्तपङ्क्तौ । औं नमः, अधरदन्तपङ्क्तौ । अं नमः, शिरसि । अः नमः, ग्रीवायाम् । कं नमः, दक्षिणबाहुमूले । खं नमः, दक्षिणकूर्परे । गं नमः, दक्षिणमणिबन्धे । घं नमः, दक्षिणकराङ्गुलिमूलेषु । ङं नमः, दक्षिणकराङ्गुल्यग्रेषु । चं नमः, वामबाहुमूले । छं नमः, वामकूपरे । जं नमः, वाममणिबन्धे । झं नमः, वामकराङ्गुलिमूलेषु । ञं नमः, वामकराङ्गुल्यग्रेषु । टं नमः, दक्षिणपादमूले । ठं नमः, दक्षिणजानुनि । डं नमः, दक्षिणगुल्फे । ढं नमः, दक्षिणपादाङ्गुलिमूलेषु । णं नमः, दक्षिणपादाङ्गुल्यग्रेषु । तं नमः, वामपादमूले । थं नमः, वामजानुनि । दं नमः, वामगुल्फे । धं नमः, वामपादाङ्गुलिमूलेषु । नं नमः, वामपादाङ्गुल्यग्रेषु । पं नमः, दक्षिणपार्श्वे । फं नमः, वामपार्श्वे । बं नमः, पृष्ठे । भं नमः, नाभौ । मं नमः, जठरे । यं नमः, हृदि । रं नमः, दक्षिणांसे । लं नमः, ककुदि । वं नमः, वामांसे । शं नमः, हृदादिदक्षिणकराग्रान्तम् । पं नमः, हृदादिवामकराग्रान्तम् । सं नमः, हृदादिदक्षिणपादाग्रान्तम् । हं नमः, हृदादिवामपादाग्रान्तम् । ळं नमः, हृदादिगुह्यान्तम् । क्षं नमः, हृदादिमूर्धान्तम् । अङ्गुष्ठानामिकाभ्यामयं न्यासः । आचक्राय हृदयाय नमः । विचक्राय शिरसे स्वाहा । सुचक्राय शिखायै वषट् । त्रैलोक्यरक्षणचक्राय कवचाय हुम् । आसुरान्तकचक्रायास्त्राय282 फट् । अङ्गषट्कपक्षेऽसुरान्तकचक्राय283 नेत्रत्रयाय वौषट् । सुदर्शनचक्रायास्त्राय फट् । इति प्रयोगः ।
मूलमन्त्रन्यासः
अथ मूलमन्त्रन्यासः ।
“ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः”
इत्येतेन मूलमन्त्रेण प्राणायामं कृत्वा, अस्य श्रीसुतप्रदगोपालकृष्णमन्त्रस्य नारद ऋषिः । अनुष्टुप्छन्दः । सुतप्रदो गोपालकृष्णो देवता । पूजाजपादौ विनियोगः । ॐक्लीं देवकीसुत गोविन्दाङ्गुष्ठाभ्यां नमः । ॐ वासुदेव जगत्पते तर्जनीभ्यां नमः । ॐ देहि मे तनयं कृष्ण मध्यमाभ्यां नमः । ॐ त्वामहं शरणं गतोऽनामिकाभ्यां नमः । ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः कनिष्ठिकाभ्यां नमः । ॐ284 क्लीं देवकीसुत गोविन्द हृदयाय नमः । ॐ वासुदेव जगत्पते शिरसे स्वाहा । ॐ देहि मे तनयं कृष्ण शिखायै वषट् । ॐ त्वामहं शरणं गतः कवचाय हुं । ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः, अस्त्राय फट् ।
अस्य श्रीसुतप्रदगोपालकृष्णमन्त्रस्य नारदाय ऋषये नमः शिरसि । अनुष्टुप्छन्दसे285 नमो मुखे । सुतप्रदाय गोपालकृष्णाय देवतायै नमो हृदये । पूजाजपादौ विनियोगाय नमः सर्वाङ्गे । इति तत्तन्मुद्राभिर्विन्यस्य मूलेन त्रिर्व्यापकं कृत्वा,
“विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः ।
अदद(दा)त्तनयान्द्विजन्मने स्मरणीयो वसुदेवनन्दनः” इति ध्यायेत् ॥
तन्त्रान्तरे तु प्रकारान्तरेण ध्यानमुक्तम्–
“स्तनं धयन्तं जननीमुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।
स्पृशन्तमन्यं स्तनमङ्गुलीभ्यां वन्दे यशोदाङ्कगतं मुकुन्दम्” इति ।
“शङ्खचक्रगदापद्मधरं श्यामं चतुर्भुजम् ।
देवकीतनयं कृष्णं पीतवाससमच्युतम् ॥
समर्पयन्तं विप्राय नष्टानानीय बालकान् ।
मयूरबर्हिशिरसं ध्याये सौदामिनीनिभम्” इत्यप्यन्यत्र ॥
एतेषामन्यतमेन यथाकामं ध्यात्वा मानसोपचारैः सम्पूज्य कलशाराधनं कुर्यात् । शुद्धजलपूरितं कलशं स्ववामभागे संस्थाप्य कलशस्य मुखे विष्णुरित्यादिना तस्मिन्कुम्भेऽङ्कुशमुद्रया तीर्थान्यावाहयेत्286 । कलशं गन्धपुष्पाक्षतैः
सम्पूज्य तद्दक्षिणतः प्रक्षालितं शङ्खमाधारपात्रे संस्थाप्य कलशोदकेन शङ्खं पूरयित्वा शङ्खमुद्रां प्रदर्श्य,
“ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि ।
तन्नः शङ्खः प्रचोदयात्”
इति शङ्खगायत्र्या तं गन्धपुष्पाक्षतैः सम्पूज्य तदुदकं किञ्चित्कलशे प्रक्षिप्य शङ्खात्किञ्चिदुदकं पात्रान्तरे गृहीत्वा तेन जलेन पूजाद्रव्याणि भूमिमात्मानं च प्रोक्ष्य जगद्ध्वनिमन्त्रमातः स्वाहेति घण्टां सम्पूज्य,
“आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
कुरु घण्टे शुभं नादं देवताह्वानलाञ्छनम्” इति वादयेत् ॥
ततो मही द्यौरित्यादिविधिना कलशं संस्थाप्य शुद्धजलेन पूरणादिपूर्णपात्रनिधानान्तं कृत्वा तत्र वरुणमावाह्य287 सम्पूजयेत् ।
ततस्तदुपरि288 पीतं वस्त्रमास्तीर्य, (289 उशीरवालकचन्दनकेशरकुष्ठागुरुमुस्ताजटामांस्यात्मकेनाष्टगन्धेन ) कस्तूरीचन्दनकेशरागरुमांसीमुक्ताकर्पूरकुष्ठात्मकेनाष्टगन्धेन290 वा सकर्णिकमष्टदलं विलिख्य देवता आवाहयेत् । तत्राऽऽवाहनप्रकारो यथा–पद्माधः । (पूर्वादिदिक्षु291 ।) आधाररूपिण्यै शक्तये नमः । कूर्माय नमः । शेषाय नमः । वराहाय नमः । मण्डूकाय नमः । कालाग्निरुद्राय नमः । धरण्यै नमः । वृन्दावनाय नमः । इति पद्माधः ।
अथ मञ्चके–आग्नेयादिचतुर्दिक्षु । धर्माय नमः । ज्ञानाय नमः । वैराग्याय नमः । ऐश्वर्याय नमः । ततः पूर्वादिचतुर्दिक्षु । अधर्माय नमः । अज्ञानाय नमः । अवैराग्याय नमः । अनैश्वर्याय नमः ।
तदुपरि पद्मदेवताः–कन्दाय नमः । नालाय नमः । कर्णिकायै नमः । पत्रेभ्यो नमः ।
ततः कर्णिकायाम्–सूर्याय नमः । सोमाय नमः । द्वयोर्मध्येऽग्नये नमः । पत्रेषु पूर्वादिक्रमेण । विमलायै नमः । उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्व्यै नमः । सत्यायै नमः । ईशानायै नमः ।
देवस्य पुरतः-अनुग्रहायै नमः । इति पीठदेवता आवाह्य मध्ये वह्निमण्डले श्रीगोपालकृष्णमावाहयेत् । तद्यथा–ध्यानोक्तलक्षणोपेतां यथाशक्ति सुवर्णादिधातुनिर्मितां गोपालकृष्णप्रतिमां विधाय मूर्तेः सन्ततदुग्धोदकधाराभ्यां यथाशाखमग्न्युत्तारणं कृत्वा पूर्वोक्तरीत्या प्राणप्रतिष्ठां विधाय प्रतिमाया दक्षिणपार्श्वे स्थित्वा देवस्य पुरतो नानोपहारबलिं संस्थाप्य तैजसे पात्रे गव्यं घृतं निक्षिप्य सुवर्णशलाकाभ्यां तच्चक्षुर्देव हितमित्यनेन चित्रं देवानामित्यनेन वा देवस्य नेत्रे उन्मील्य “ॐ अञ्जन्ति त्वामध्वरे० उपस्थे” इत्यनेन द्वाभ्यां मध्यमाङ्गुलिभ्यामुभे सहैव मधुनाऽभ्यज्य पञ्चामृतैः शुद्धोदकेन च स्नापयित्वा स्वाभिमुखीं प्रतिमां वह्निमण्डले संस्थाप्याधोमुखं हृत्पद्मं वायुबीजेनोन्मुखं ज्ञानार्केण विकसितं च भावयित्वा हंसः सोऽहमिति हृत्पद्मस्थं श्रीकृष्णमात्मानं वहन्नासारन्ध्रमार्गेण स्वाञ्जलिस्थपुष्पे समागतं विभाव्य मूलमन्त्रमुच्चार्य तत्पुष्पं प्रतिमायां विनिक्षिप्य, आवाहनी स्थापनी सन्निधापनी सन्निरोधिनी सम्मुखीकरणी सङ्कलीकरण्यवगुण्ठनी परमीकरण्यमृतीकरणीति नव मुद्राः प्रदर्शयेत् । ततो नर्य प्रजामिति प्रतिष्ठाप्य नमस्कुर्यात् ।
अथाऽऽवरणदेवताः–आग्नेयादिकोणेषु प्रादक्षिण्येन–आचक्राय नम आचक्रमावाहयामि । विचक्राय नमो विचक्रमावाहयामि । सुचक्राय नमः सुचक्रमावाहयामि । त्रैलोक्यरक्षणचक्राय नमः, त्रैलोक्यरक्षणचक्रमावाहयामि ।
ततः पूर्वादिचतुर्दिक्षु प्रादक्षिण्येन–असुरान्तकचक्राय नमोऽसुरान्तकचक्रमावाहयामि । षट्पक्षे–असुरान्तकचक्रानन्तरं सुदर्शनचक्राय नमः सुदर्शनचक्रमिति सर्वदिक्ष्विति विशेषः ।
ततः पत्रेषु पूर्वादिप्रादक्षिण्येन–रुक्मिण्यै नमो रुक्मिणीमावाहयामि । सत्यभामायै नमः सत्यभामामावाहयामि । नाग्नजित्यै नमो नाग्नजितीमावाहयामि । अर्कजायै नमोऽर्कजामावाहयामि । मित्रविन्दायै नमो मित्रविन्दामावाहयामि । लक्ष्मणायै नमो लक्ष्मणामावाहयामि । जाम्बवत्यै नमो जाम्बवतीमावाहयामि । सुशीलायै नमः सुशीलामावाहयामि ।
ततो दलाग्रेषु पूर्वादिक्रमेण प्रदक्षिणम्–वसुदेवाय नमो वसुदेवमावाहयामि । देवक्यै नमो देवकीमावाहयामि । नन्दगोपतये नमो नन्दगोपतिमावाहयामि । यशोदायै नमो यशोदामावाहयामि । बलभद्राय नमो बलभद्र मावाहयामि । सुभद्रायै नमः सुभद्रामावाहयामि । गोपेभ्यो नमो गोपानावाहयामि । गोपिकाभ्यो नमो गोपिका आवाहयामि ।
ततः प्रागादिक्रमेण स्वस्वदिक्षु–इन्द्राय नम इन्द्रमावाहयामि । अग्नये नमोऽग्निमावाहयामि । यमाय नमो यममावाहयामि । निर्ऋतये नमो निर्ऋतिमावाहयामि । वरुणाय नमो वरुणमावाहयामि । वायवे नमो वायुमावाहयामि । कुबेराय नमः कुबेरमावाहयामि । ईशानाय नम ईशानमितीन्द्राद्यष्टौ लोकपालानावाहयेत् ।
ततस्तत्तत्सन्निधौ वज्राय नमो वज्रमावाहयामि । शक्तये नमः शक्तिमावाहयामि । दण्डाय नमो दण्डमावाहयामि । खड्गाय नमः खड्गमावाहयामि । पाशाय नमः पाशमावाहयामि । अङ्कुशाय नमोऽङ्कुशमावाहयामि । गदायै नमो गदामावाहयामि । त्रिशूलाय नमस्त्रिशूलमावाहयामि । इति वज्रादीन्यायुधानि ।
इत्य्-आवरणदेवता आवाह्य नर्य प्रजामिति प्रतिष्ठाप्य मूलमन्त्रेण पीठावरणदेवतासहितं देवं षोडशोपचारैर्भक्त्या पूजयित्वा मालासंस्कारं कुर्यात् ।
स यथा–कुशोदकेन पञ्चगव्यैश्च गायत्र्या सद्योजाताद्यैः पञ्चभिर्मन्त्रैर्मूलेन च मालां प्रक्षाल्य पद्माकारवत्संस्थापितेऽश्वत्थपत्रनवके मालां निधाय, अं आं इं ईं इत्य्-आदिमातृका विन्यस्य पुनर्गायत्र्या सद्योजाताद्यैः पञ्चभिर्मन्त्रैर्मूलेन पञ्चगव्यैः प्रक्षाल्यैतैरेवाभिमन्त्र्य सद्योजातमितिमान्त्रेण पञ्चगव्यैः शुद्धोदकेन च मन्त्रावृत्त्या पुनः प्रक्षाल्य वामदेवायेति सुगन्धिचन्दनेन विधृष्य, अघोरेभ्य इति कृष्णागुरुगुग्गुल्वाद्यैर्धूपयित्वा तत्पुरुषायेति कस्तूरीकुङ्कुमाद्यैरनुलिप्य, ईशान इति सर्वान्मणीनभिमन्त्रयेत् । प्रतिमणि मन्त्रावृत्तिः । ततोऽघोरेभ्य इत्यनेन मेरुं शतवारमभिमन्त्र्य, ॐ आं ह्रीं क्रों यमित्यादि सोऽहमित्यन्तमुक्त्वा मालायाः प्राणा इत्य्-आद्यूहेन प्राणप्रतिष्ठां कृत्वा मन्त्रदेवतां गोपालं तत्राऽऽवाह्य मूलेनैव सम्पूज्य मूलेन मातृकाभिश्चाभिमन्त्रयेत् ।
मालासंस्कारहोमविधिः
अथ292 मालासंस्कारहोमविधिः ।
आचम्य प्राणानायम्य स्थण्डिलकरणादि कृत्वा बलवर्धननामानं लौकिकाग्निं स्थण्डिले प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा मालासंस्कारहोमकर्मणि या यक्ष्यमाणा देवता तां परिग्रहीष्यामि । मूलमन्त्रेण मन्त्रदेवतामष्टोत्तरशतसङ्ख्याकाभिराज्याहुतिभि र्यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्युक्त्वाऽन्वाधानसमिदभ्याधानाद्यापूर्विकतन्त्रेण प्रधानहोमात्पूर्वतनं कर्म कुर्यात्293 ।
ततः–
“ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः स्वाहा” ॥
इति मूलमन्त्रेणाष्टोत्तरशतमाज्याहुतीर्जुहुयात् । प्रत्याहुति सम्पाताज्यं मालायां निक्षिपेत् । अग्नये स्विष्टकृते स्वाहेत्येकां हुतशेषाज्याहुतिं हुत्वोत्तरपरिषेकाद्यापूर्विकतन्त्रेणोत्तराङ्गानि(णि) कुर्यात् । होमाशक्तौ होमसङ्ख्याद्विगुणसङ्ख्यया मूलेन मालाभिमन्त्रणम् । ततः–ह्रीं सिद्ध्यै नम इति मन्त्रेण मालां देवताभावनया सम्पूजयेत् । इति मालासंस्कारः ।
ततः–
“ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव, ह्रीं सिद्ध्यै नमः” ॥
इति मालां नमस्कृत्य ह्रीं सिद्ध्यै नम इति दक्षिणकरे गृहीत्वा गणपतिबीजमुच्चार्य,294 अविघ्नं कुरु माले त्वमिति सम्प्रार्थ्य वस्त्रादिनाऽऽच्छादितां मालां स्वहृदयसमीपे धृत्वाऽङ्गुष्ठमध्यमाभ्यां मणीनावर्तयन्यथोक्तब्रह्मचर्यादिनियमवानुन्नतगात्रो मनसोपांशु वा मध्याह्नपर्यन्तं यथाशक्ति जपं कुर्यात् । आरम्भदिवसे यावत्सङ्ख्यं जपः कृतस्तावत्सङ्ख्य एव प्रत्यहं कार्यः । उपद्रवसम्भावनायां दिवसचतुर्थभागपर्यन्तमपि जपः कर्तव्यः । न तत्र सङ्ख्यातिक्रमदोषः । जपसमाप्तौ तां मालां ह्रीं सिद्ध्यै नम इति नमस्कृत्य,
“त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।
शिवं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा, ह्रीं सिद्ध्यै नमः”
इति मालां शिरसि निधाय सुगुप्तस्थले निदध्यात् ।
ततो मूलेन प्राणानायम्य पूर्ववत्करन्यासाङ्गन्यासान्कृत्वा पूर्ववद्ध्यात्वा देवं पञ्चोपचारैः सम्पूज्य,
“गुह्यातिगृह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा” ॥
इति जलधारया देवस्य दक्षिणहस्ते जपं निवेदयेत् ।
यद्यन्यदीयं जपं करोति तदा मयीत्यत्र यजमान इत्यूहः । एवं पुरश्चरण समाप्तिपर्यन्तं प्रत्यहं देवं सम्पूज्याऽऽसनविध्यादि मूर्तिसंस्कारावाहनमालासंस्कारवर्जं जपनिवेदनान्तं कर्म कुर्यात् । समाप्ते पुरश्चरणे होमं कुर्यात् ।
स यथा–आचम्य प्राणानायम्य गणेशं सम्पूज्य ब्रह्मादीन्वृत्वा पूजयेत् । अत्र पुण्याहवाचनमपि केचित्कुर्वन्ति ।
ततो देवस्य पूजां विधाय कुण्डकरणोल्लेपनाद्यग्निस्थापनान्तं कुर्यात् । अत्र बलवर्धननामाऽग्निः ।
ततोऽन्वाधानम् । समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा सुतप्रदगोपालकृष्णमन्त्रजपदशांशहोमकर्मणि या इत्य्-आदि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे–सुतप्रदगोपालकृष्णं मूलमन्त्रेण जपदशांशसङ्ख्याभिराज्यक्षीरमध्वक्ततिलाहुतिभिर्यक्ष्ये । पीठदेवता आवरणदेवताश्चैकैकयाऽऽज्यक्षीरमध्वक्ततिलाहुत्याऽऽज्याहुत्या वा यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषद्रव्याहुत्या यक्ष्य इत्य्-आदि । अङ्गहोमे वरुणं द्वाभ्यामित्यादि295 वा । पात्रासादन आज्येन सह296 क्षीरमधुतिलानासादयेत् । ततो ब्रह्मोपवेशनादि । आज्यपर्यग्निकरणकाले तिलानाज्यक्षीरमधुभिरभ्यक्तान्कृत्वा तेषामप्याज्येन सह पर्यग्निकरणं कुर्यात् ।
ततः परिधिपरिधानाद्यन्वाधानोत्कीर्तनानुसारेण प्रसाधनीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोममृत्विग्भिः कारयेत् ।
ऋत्विजो द्विराचम्य कृतन्यग्जानुकाः कृतप्राणायामासनविधिभूतशुद्ध्याद्यृष्यादिन्यासाः प्राङ्मुखा उदङ्मुखा वा मृगीमुद्रया सावधानमनसो होमं कुर्युः । तिलाश्चुलकमिताः शतसङ्ख्या वा । आज्यं कर्षप्रमाणम् । कर्षस्तु दशगुञ्जामितमाषषोडशकप्रमाणः । अन्नं ग्रासमितम् । अनेकदिनसाध्ये होमे तु प्रतिदिवसं297 कयाचित्सङ्ख्यया298299 वह्निरक्षणपूर्वकं शुभदिने समाप्तिं कुर्यात् । प्रतिदिनं होमाद्यन्तयोः प्रधानदेवताङ्गदेवताः पूजयेत् । आरम्भे समाप्तिदिनेऽग्निं मूलमन्त्रेण स्वाहास्वधासहितं पूजयेत् । समाप्ते प्रधानहोमे स्वयमेव पीठदेवताभ्य आवरणदेवताभ्यश्चैकैकमाज्यक्षीरमध्वक्ततिलाहुतिमाज्याहुतिं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण हुत्वा हुतशेषेण स्विष्टकृदाद्यङ्गहोमादि वाऽन्वाधानोत्कीर्तनानुसारेण कुर्यात् । प्रायश्चित्तहोमाकरणपक्षे स्विष्टकृदन्ते तत्करणपक्षे तदन्ते वा पूर्णाहुतिं हुत्वा होमशेषं समाप्य देवस्योत्तरपूजां कुर्यात् । तत ऋत्विजः सपत्नीकं यजमानं कलशोदकेनाऽऽपो हि ष्ठाद्यैर्मन्त्रैरभिषिञ्चेयुः ।
ततो यजमान ऋत्विग्भ्यो हिरण्यं तन्निष्क्रयं वा यथाविभवं दक्षिणां दत्त्वा गुरवे पीठसहितां प्रतिमां दत्त्वा होमकर्मेश्वरायार्पयेत् ।
ततो मूलमन्त्रमुक्त्वा सुतप्रदं गोपालकृष्णं तर्पयामि नम इति होमदशांशेन300 दुग्धेन जलेन वा तर्पणं कृत्वा मूलमन्त्रान्ते सुतप्रदं गोपालकृष्णमभिषिञ्चामि नम इति तर्पणदशांशेन मार्जनं विधाय मार्जनदशांशेन ब्राह्मणान्भोजयेत् । स्वस्य पुरश्चरणकरणाशक्तावेतत्प्रयोगाभिज्ञेनाऽऽचार्येण कारयेत् । तस्मा एव प्रतिमां दद्यात् । यत्र होम एव प्रयोगविशेषे फलप्रदत्वात्प्रधानं न पुनर्जपाङ्गं तत्र ब्राह्मणभोजनसङ्ख्या तन्त्रे विशेषानुक्ता स्मृत्युक्ता ग्राह्या । तत्र लक्षहोमे षष्ट्यधिका नवशती मुख्यः पक्षः । विंशत्यधिका पञ्चशती मध्यमः । दशाधिका त्रिशत्यधमः । यत्र प्रधानदेवताङ्गत्वेन स्मृतितन्त्रोक्तयोरविरोधे समुच्चयपक्षमाश्रित्य ग्रहा अपि पूज्यन्ते तत्र तदङ्गब्राह्मणभोजनमपि301 कार्यम् । तत्रोत्तमे पक्षे विंशत्यधिका सप्तशती ब्राह्मणानां भोजनीया । मध्यमपक्षे चत्वारिंशदुत्तरं शतत्रयम् । अधमपक्षे दशाधिकं शतमिति । कलौ चतुर्गुणं प्रोक्तमितिवचनाच्चतुर्लक्षात्मकं पुरश्चरणं कृत्वा काम्यप्रयोगं कुर्यात् । तत्र ममापत्योत्पत्तिबन्धकीभूतसकलदोषनिवृत्तिसन्ततिक्षेमसुपुत्रप्राप्तिद्वारा सुतप्रदगोपालकृष्णप्रीत्यर्थं चतुर्लक्षं सुतप्रदगोपालकृष्णमन्त्रजपमहं करिष्य इति सङ्कल्पवाक्ये विशेषः । आचार्यपक्ष आचार्यद्वारा करिष्य इति सङ्कल्प ऊहेत् । स्त्रीकर्तृकजपपक्षे होमादिकमाचार्यादिद्वारैव । अत्राष्टोत्तरशतसङ्ख्याकान्विप्रान्भोजयेत् । अन्यत्समानं पुरश्चरणवत् । तान्त्रिकहोमविधिस्तु मत्कृते सामान्यहोमविधौ द्रष्टव्यः ।
(302 अथ पुरश्चरणकाले303 विहितानि–मनःस्थैर्यशौचमौनमन्त्रार्थचिन्तनानिर्वेदश्रद्धोत्साहसन्तोषेन्द्रियनिग्रहब्रह्मचर्यगुरु-प्रणतित्रिकालदेवतार्चनपर्वविशेषनिमित्तकविशेषार्चनदेवस्तुतिदेवविश्वासगुरुविश्वास-मध्यपत्रवर्जपलाशपत्रावलीभोजनमितैकवारहविष्यभोजनरात्रिभोजनप्रक्षालितदर्भास्तीर्णधौतवस्त्रशयनत्रिषवणस्नानादीनि304 । अशक्तौ तु प्रातःस्नानमात्रम् । अथ निषिद्धानि–अप्रियानृतभाषणदम्भोन्मादचलनव्यग्रतालस्यनिष्ठीवनक्रोधपादप्रसारणताम्बूलवपनदिवास्वापकरञ्जविभीतकार्कस्नुहि(ही)च्छायाक्रमणकौटिल्यनृत्यगीत-प्रतिग्रहादीक्षितस्त्रीशूद्रपतितनास्तिकादिसम्भाषणचण्डालादीक्षणबह्वेकमलिनवस्त्रधारण-काम्यकर्माविहितकर्मकांस्यपात्रभोजनासत्सङ्गोष्णजलस्नानकञ्चुकोष्णीषधारणप्राणि-हिंसापादुकायानशय्यारोहणनग्नत्वकुशरहितकरत्वातिभोजनादीनि305 । विभीतको बेहडा इति । स्नुहि(ही) निग(व)डुङ्ग306 इति । कांस्यपात्रभोजननिषेधात्सौवर्णादीनामन्येनानुपभुक्तानामभ्यनुज्ञा गम्यते । भोज्यभक्ष्याणि तु शुक्लैकविधान्नहैमन्तनीवारकङ्गुषष्टिका307308 यवाः शूद्रानवहता309 गुडवर्जितमैक्षवं कृष्णतिलमुद्गकलायकन्दविशेषनालिकेरकदलीलवलीपनसाम्रामलकार्द्रकसामुद्रलवणानुद्धृतसारगव्यपिप्पलीजीरकनारङ्गादीनि ।
निषिद्धानि तु–गुडकृत्रिमलवणपर्युषितनिःस्नेहकीटादिदूषितकाञ्जिकगृञ्जनवृन्ताकशिग्रुबिल्वकरञ्जलशुनपलाण्डुमूलकादीनि । तैलपक्वमाषमसूरचणकगोधूमदेवधान्यादीनि च ।)
इति संस्काररत्नमालायामनपत्यत्वहरविधानहरिवंशश्रवणविधि-
पार्थिवपूजनविधिसन्तानगोपालकृष्णमन्त्रविधयः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालायां
पञ्चदशं प्रकरणम् ॥ १५ ॥
-
ग. यजेत । ↩︎
-
क. ग. पूर्वायु । ↩︎
-
ख. ग. ङ. च. थावस्थि । ↩︎
-
ग. ङ. च. तत्र । ↩︎
-
ग. स्यान्नाप । ↩︎
-
ख. ग. ङ. च. ततः शृ । ↩︎
-
ख. ग. ङ. च. द्वास्योद । ↩︎
-
क. र्भान्सस्ती । ↩︎
-
ख. ग. ङ. च. ता स्वयमेव व्रीहीन्प्रक्षाल्य चरु । ↩︎
-
क. ख. ङ .च. भवन्ति । ↩︎
-
ग. ङ. च. बह्वृच्ये । ↩︎
-
ख. ग. ङ. च. यात्कर्मतः । ↩︎
-
च.तः । तथा । ↩︎
-
क.क्ष्ये । अ । ↩︎
-
ङ. च. म । ततः पु । ↩︎
-
ख. ग. ङ. च. सुतान्वि । ↩︎
-
ग. ङ. च रः । यदि भद्रा न जायेत दर्शे स्याच्चौरिका ध्रुवमितिवचनात् । वि । ↩︎
-
क. ङ. त्तराश । ↩︎
-
ङ. च. कृत्तिकाः । ↩︎
-
ङ. च. ति । अथ तिथिनक्षत्रादिसन्धिफलम् ‘दुर्भगा सर्वसन्धिषु’ इति । अथ लग्न । ↩︎
-
ग, कर्के च । ↩︎
-
ग. ङ. च. म् । अत्रापि शुक्लपक्षकृष्णपक्षपरत्वेन व्यवस्था द्रष्टव्या । इ । ↩︎
-
ख. ङ. च. सौदरी । ↩︎
-
क. ख. ग. ति । अन्यच्च ग्रन्थान्तरे–प्र । ↩︎
-
ङ. च. ति । इ । ↩︎
-
क. ख. ग. र्थः । अ । ↩︎
-
क. ख. ग. म् । इति परिहितवस्त्रादिफलम् । अ । ↩︎
-
क. ग. र्यताम् । ↩︎
-
ङ. यदा । ↩︎
-
ङ. बन्धागारे । ↩︎
-
क. ग. शान्तिः, र । ↩︎
-
क. ग. द्वासा । ↩︎
-
धनुश्चिह्नान्तर्गतोऽयं ग्रन्थो ङ. च. पुस्तकयोः, वसिष्ठोऽपीत्यारभ्य–तिस्रो रात्रीर्व्रतं चरेदितीत्यन्तग्रन्थादनन्तरं वर्तते । ↩︎
-
क. ग. पुनः । ↩︎
-
ख. ङ. च. तः । ऋतौ रज्ज्वादिकच्छेदं कुर्य । ↩︎
-
क. ग. प्रहासं । ↩︎
-
धनुश्चिह्नान्तर्गतं ड. च. पुस्तकयोर्नास्ति । ↩︎
-
क.स्यभोज । ↩︎
-
क. स्यभोज । ↩︎
-
ग. ड. च. मुद्गान्गुड । ↩︎
-
ड. च. हो पराशरः–आतुरे स्नानमु(उ)त्पन्ने दशकृत्वो ह्यनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत्स आतुर इति । तत्र प्रतिस्नानमातुरस्य वासो विपरिवर्तनीयम् । तदाहात्रिः–आतुरे स्नानमु(उ)त्पन्ने दशकृत्वो ह्यनातुरः । वासोभिर्दशभिश्चैव परिधाय यथाक्रमम् । दद्यात्तु शक्तितो दानं पुण्याहेन विशुध्यतीति । उश । एतादृश एव ग. पुस्तके पाठः । परं तु आहो पराशर इतिस्थाने, आह पराशर इति वर्तते । ↩︎
-
क. ञ्चधाशौ । ↩︎
-
क. ञ्चधाशौ । ↩︎
-
ङ. च. प्रायेण । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तके नास्ति । ↩︎
-
च. णी तथा । प । ↩︎
-
च. णी तथा । ष । ↩︎
-
ख. ग. बृहद्वसिष्ठः । ↩︎
-
अयमितिशब्दोऽनपेक्षितः । ↩︎
-
च. जम्बुक । ↩︎
-
मुक्तिरित्यत्र भुक्तिरित्यपि पाठः सभवेत् । ↩︎
-
ख. ग. ड. च. वल्क्योऽपि–सं । ↩︎
-
ग. द्धो भ । ↩︎
-
क. ख. च. घ्री द्वीप । ↩︎
-
क. वं सिद्धं शू । ↩︎
-
ग. णां चामरे । ↩︎
-
ग. कृत्वा । ↩︎
-
क. ख. च. दधति । ↩︎
-
ड. सम्भवति । ↩︎
-
ग. ङ. च. ↩︎
-
ख. ङ. च. गण्डांस्तिथि । ↩︎
-
क. ख. ग. ङ. मासं वि । ↩︎
-
ङ. अनन्त । ↩︎
-
ग. सीतेषु । ↩︎
-
ग. शे–क । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोर्नास्ति । ↩︎
-
च. स्मृत्यर्थस । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थः ख. ङ. च. पुस्तकेषु नास्ति । ↩︎
-
ख. ड. च. टिल्येनाकुटिल । ↩︎
-
धनश्चिह्नान्तर्गतो ग्रन्थः क. ग. पुस्तकयोरेव । ↩︎
-
ग. वधूनां । ↩︎
-
ख. ग. ड. च. यज्ञैः पि । ↩︎
-
ग. ज्योतिष्प्रकाशे कश्य ↩︎
-
क. रत्नोक्त । ↩︎
-
ग. लप्यासंह । ↩︎
-
क. णना । ↩︎
-
क. ख. जुषाम । ↩︎
-
ख. ङ. च. ह्वृच्य ए । ↩︎
-
क.म्भाद्बह्वृ । ↩︎
-
ख. ड. ह्वृच्य ए । ↩︎
-
क. त्नाद्बह्वृ । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तकेऽन्यथा ग्रन्थः स यथा–“बौधायनसूत्रोक्तस्येदानीमतीव प्रचाराभावान” इति । ↩︎
-
ग. शिष्टे । अ । ↩︎
-
ग. लिर्गृह्य । ↩︎
-
ग. ह्मणमेको । ↩︎
-
क. त्रायेति ति । ↩︎
-
ग. ड. त्वा तेन । ↩︎
-
ग. च. करूपप्रे । ↩︎
-
ख. ग. ड. च. °मि य । ↩︎
-
ग. ड. ति क्र । ↩︎
-
ख. ग. ड. च. णाग्रे कु । ↩︎
-
ग. ति कुशस्थाने द । ↩︎
-
क. शस्थाने द । ↩︎
-
ख. ग. ड. च. य म । ↩︎
-
क. ख. त्वा तदग्रे निष्कं तदर्ध वा निधाया । ↩︎
-
ग. दकप्रभृति य । ↩︎
-
ख. स्य सन्ततिप्रतिबन्धकीभूतस्य दो । ↩︎
-
क. र्वकं य । ↩︎
-
क. दिष्टं च । ↩︎
-
ख. स्य सन्ततिप्रतिबन्धकीभूतस्य दो । ↩︎
-
क. दिष्टं च । ↩︎
-
क. पुस्तकातिरिक्तपुस्तकेषु श्मश्रुशब्दो नास्ति । क. पुस्तकेऽपि स बहिर्लिखितो दृश्यते । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थः ख. ङ. च. पुस्तकेषु नास्ति । ↩︎
-
क. रार्थ प्रा । ↩︎
-
क. अग्निं प । ↩︎
-
क. सोमं प । ↩︎
-
क. भिर्व्याहृ । ↩︎
-
च. द्धृत्य । ↩︎
-
च. ग्निर्ऋषिः स ↩︎
-
क. मित्र ऋषिः स । ↩︎
-
ग. च. र्ब्रह्मा त्रि । ↩︎
-
ग. ह्म प । ↩︎
-
ग. राज्याहु । ↩︎
-
ग. राज्याहु । ↩︎
-
ग. ड. च. जान्स्पृष्टा । ↩︎
-
मध्यपदलोपिसमासेन साधुत्वम् । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तके बहिर्लिखितोऽस्ति तद्व्यतिरिक्तपुस्तकेषु तु नास्त्येव । ↩︎
-
ड. च. त् । अस्मिञ्जन्म । ↩︎
-
ग. ङ. च. धान्यं । ↩︎
-
अत्र “अथवा द्रोणसम्मिताः” इति क. पुस्तके शोधितः पाठोऽस्ति । ↩︎
-
ख. ड. च. म् । प्रा । ↩︎
-
ख. ङ. च. म् । परि । ↩︎
-
ङ. नवम् । च. मधु । ↩︎
-
क. रूप्यकम् । ↩︎
-
च. ल्य ध्यात्वा स । ↩︎
-
ङ. च. षिच्य दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य । ↩︎
-
ग. लीं प्रणीतानां प्रो । ↩︎
-
ग. होमान्तं कु । ↩︎
-
ख. क्ये विशेषः । ऋष्यादयो न वा । आ । ङ. च. क्ये । आ । ↩︎
-
क. ततोऽस । ↩︎
-
ख. गः । ऋष्यादयो न वा । ह । ङ. च. गः । ह । ↩︎
-
ङ. च. त् । त । ↩︎
-
ख. ते । ऋष्यादयो न वा । ज्ञा । ड. च. ते । ज्ञा । ↩︎
-
ख. वटश । ↩︎
-
ङ. च. पुष्पमू । ↩︎
-
ख. ग. ड. च. दुःखितः । ↩︎
-
सम्प्रार्थयेदित्यधिकम् । ↩︎
-
ड. च. गः । भू । ↩︎
-
ख. ग. च. वः स । ↩︎
-
ख. ड. च. सम्पद्यन्तां । ↩︎
-
ग. क्षन्नेत्य । ↩︎
-
क. ख. त् । इ । ↩︎
-
क. ष्टे मु । ↩︎
-
ग. च. ल्लेखना । ↩︎
-
ड. च. कृतमेकया हु । ↩︎
-
ङ. च. ति । हूं । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ड. च. पुस्तकयोः । ↩︎
-
सन्धियुक्तः । आर्षो वाऽसन्धिः । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. च. पुस्तकयोः ↩︎
-
क. न्यासौ कृत्वा ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ग. पुस्तकयोरन्यथा पाठः स यथा–“ॐ शिवायाङ्गुष्ठाभ्यां नमः । ॐ भवाय तर्जनीभ्यां । ॐ शर्वाय मध्यमाभ्यां ।ॐ पशुपतयेऽनामिकाभ्यां । महादेवाय कनिष्ठिकाभ्यां । ॐ ईशानाय करतलकरपृष्ठाभ्यां । एव हृदयादिषु । एवं न्यासौ कुर्यात् । ततः श्रीअष्टमूर्तये नम इति सुष्ठु शोभिता शुद्धदेशस्थां मृदं गृहीत्वा, ॐ हराय नम इति तामाहृत्य” इति । ↩︎
-
क. ग. हेशं । कर्पूरगौर । कैलासपीठासनमध्यसंस्थं भक्तैर्नन्द्यादिभिः सेव्यमानं भक्तार्तिदावानलमप्रमेयं देव ध्यायामीति शिव । ↩︎
-
धनुश्चिह्नान्तर्गत ड. च. पुस्तकयोर्नास्ति । ↩︎
-
ङ. च. ति ध्यात्वा । ↩︎
-
धनुश्चिह्नान्तर्गतं ख. ड. च. पुस्तकेषु नास्ति । ↩︎
-
ङ. च. तः–ॐ । ↩︎
-
क. वीद्वचः । बा । ↩︎
-
क. र्षे पठन्नि । ↩︎
-
ग. वर्षमेकमिदं । ↩︎
-
क. मि त्वत्तोऽन्य । ↩︎
-
एतदारभ्याथ प्रयोग इत्येतस्मात्प्राग्विद्यमानो ग्रन्थो नास्ति च. पुस्तके । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎
-
ग. त्सुतम् । ↩︎
-
क. र्गन्धश्वा । ↩︎
-
धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति । ↩︎
-
क. न्त्रवत्ते । ग. न्त्रवेत्ते । ↩︎
-
क. ग.तिस्वहि । ↩︎
-
एतदादिप्रतिपदि द्वितीयायामित्यतः प्राक्तनग्रन्थो नास्ति ख. पुस्तके । ↩︎
-
ग. कल्पयेत् । ↩︎
-
ङ. ति ब्रह्मपु । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति । ↩︎
-
क. रतिका । ↩︎
-
ग. ङ. न्माघे मे । ↩︎
-
ग. धनवृ । ↩︎
-
ख. ग. ड. णे योगाः शुभदाः प । ↩︎
-
ख. ग. अत्र । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने ड. पुस्तकेऽन्यथा ग्रन्थः स यथा–“नात्र सिद्धारिचक्रविचारः । तदुक्तं सिद्धान्तशेखरे–एकत्रिपञ्चसप्तार्णनवरुद्राक्षरान्विते । द्वात्रिंशदक्षरे मन्त्रं सिद्धारीन्नैव शोधयेत् । ये च बौद्धाश्च जैनाश्च गोपाला वैष्णवाश्च ये । सिद्धसाध्यसुसिद्धारिविचारपरिवर्जिता इति” इति । ↩︎
-
क. ख. दिर्वर्ण । ↩︎
-
ग. नायिके । ↩︎
-
क ष्ठी च शर्या । ↩︎
-
ग. वेणुका । ↩︎
-
अत्र पूर्वापरसङ्गत्यभावात्किञ्चित्रुटितमिति भाति । ↩︎
-
ख. ग. ङ. रसम्प्लु । ↩︎
-
ग. शाशस्त्रं । ↩︎
-
ग. भ्यर्च्य हृ । ↩︎
-
ग. भ्यर्च्य स । ↩︎
-
ग. ष्यभाक् । ↩︎
-
ख ज्जपचा । ↩︎
-
क. मलबुं गृ । ↩︎
-
ख. ग. मौनं चार्याऽ । ↩︎
-
ग. वणस्ना । ↩︎
-
इतिशब्दोऽधिकः । ↩︎
-
क. दौ च नि । ↩︎
-
ख. होमार्च । ↩︎
-
ग. पे । आर । ↩︎
-
क. वन्न तन्न्यूना । ↩︎
-
क. कृततले । ↩︎
-
क. यं द्वयं च । ↩︎
-
क. र्गानष्ट वर्गान । ↩︎
-
ख. च । लद्व । ↩︎
-
ख. स्य घका । ↩︎
-
क. र्चनहो । ↩︎
-
ङ. प्रसाचरेत् । ↩︎
-
ख. ग. वग्रह[:] स्वे । ↩︎
-
क. वर्णायु । ↩︎
-
ग. नृणां । ↩︎
-
ङ. मन्त्रं जपे ↩︎
-
ङ. दाऽष्टो । ↩︎
-
क. ष्टकाजप उद्दि । ↩︎
-
क. ख. ग. पे मातृ । ↩︎
-
ख. ग. हे । लान्ता । ↩︎
-
क. ख. ग. रः । लान्ता । ↩︎
-
क. ख. ग. शलाख्या । ↩︎
-
ङ. हारितः । ↩︎
-
ङ. शिकां त । ↩︎
-
ड. तिकां का । ↩︎
-
क. ख. ग. विद्यान्मे । ↩︎
-
ख. त् । ज । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति । ↩︎
-
क. यमा न । ↩︎
-
ख. षु । मालार । ↩︎
-
ख. ङ. क्षाल्यैते । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थस्त्रुटितो ङ. पुस्तके । ↩︎
-
ख. णितं सं । ग. णितः सं । ↩︎
-
ङ. क्ष्माञ्चितं । ↩︎
-
ड. सिद्धौ । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति । ↩︎
-
क. यनस्तु–ना । ↩︎
-
ड. ‘वशक्त । ↩︎
-
ख. ग. म्–विया य । ङ. म्–विधाय । ↩︎
-
ख. ग. ङ. प्तव्यम् । प । ↩︎
-
ख. ग. ङ. भागस्य रा । ↩︎
-
क. ग. न्यासष । ↩︎
-
एतच्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तकातिरिक्तपुस्तकेषु नास्ति । ↩︎
-
क. ग. क्षान्तलक्षान्तहो । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति । ↩︎
-
ङ. न्त्रप्र । ↩︎
-
धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎
-
ङ च थ सन्तानप्रदगोपालमन्त्रप्र । ↩︎
-
गौरवलाघवेत्यादि तु युक्तं पठितुम् । ↩︎
-
ङ. च. ष्णदेवताम ↩︎
-
ङ. रिष्ये । तत्राऽऽदौ निर्वि । ↩︎
-
ग. नं ना । ↩︎
-
ङ. द्धं च करिष्य इति सङ्कल्पोक्त । ↩︎
-
क. कर्मो । ↩︎
-
ग. ङ. बद्धे चा । ↩︎
-
ख. ग. ङ. च. वामे । ↩︎
-
ङ. मस्कुर्यात् । अं । ↩︎
-
ऋग्वेदिविषयकविशेषदर्शको ग्रन्थो नास्ति ङ. पुस्तके । एवमग्रेऽपि । ↩︎
-
ख. प्सु मे मे । ↩︎
-
ग. न्ध्रपर्यन्तमा । ↩︎
-
ग. ध्यादिव्र । ↩︎
-
ख. ग. च. म्बु द्विगुणं त्रिरुद्घा । ↩︎
-
ङ. पा परा प्रा । ↩︎
-
ग कौ । ↩︎
-
क. ड. किलकम् । ↩︎
-
ड. ये परायै प्रा । ↩︎
-
ग. क्रौं । ↩︎
-
ख. ङ. किलकाय । ↩︎
-
ग. क्रों । ↩︎
-
क. ग. ङं क्रौ ह्र्रीं आं ओं । आ । ↩︎
-
ग. क्रौं । ↩︎
-
ग. क्रौं । ↩︎
-
ग. क्रौं । ↩︎
-
क. ङ. णिपायू । ↩︎
-
ग. क्रौ । ↩︎
-
गमनविसर्गेत्यादिव्यत्यासेन पाठो युक्तः ↩︎
-
ग. क्रौं । ↩︎
-
ग. क्रौं । ↩︎
-
ड. हृदये यं । ↩︎
-
धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. पुस्तके शोधितो ग्रन्थोऽन्यथा वर्तते. स यथा–“वायव्ये लं नमः । पूर्वे वं नमः । पश्चिमे शं नमः । ईशाने षं नमः । नेर्ऋते सं नमः । उत्तरे हं नमः । दक्षिणे ळं नमः” इति । तत्र युक्ततरो ग्राह्यः सुधीभिः । ↩︎
-
ड. च. प्राण । ↩︎
-
एतस्मात्परं विनियोगवाक्यं त्रुटितमित्यनुमीयते । ↩︎
-
क. नमः । ↩︎
-
क. नमः । क. ड. हुम् । ↩︎
-
क. नमः । ↩︎
-
क. नमः । ↩︎
-
क. दिक्रमेण । ॐ । ↩︎
-
च. मूलाधारे । ↩︎
-
क. ख. च. न्तच । ↩︎
-
क. च. न्तच । ↩︎
-
ख. ङ. च. ॐ दे । ↩︎
-
च ष्टुभे छ । ↩︎
-
ख. ङ. च. वाह्य क । ↩︎
-
क. ह्य तं पू । ↩︎
-
क. पर्यहतं । ↩︎
-
धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति । ↩︎
-
ग. ङ. च. न स । ↩︎
-
धनुश्चिह्नान्तर्गतं शोधितं नूतनमेव क. पुस्तक एवास्ति । ↩︎
-
क. ख. ग. च.थ हो । ↩︎
-
ख. ग. ङ, च. त् । ॐ । ↩︎
-
अत्र क. पुस्तकटिप्पन्याम् “ॐ गं गणपतये नमः” इत्यस्ति । ↩︎
-
क. दि । पा । ↩︎
-
ख. ग. च. ह म । ↩︎
-
ग. स केषाञ्चि । ↩︎
-
क. ग. ङ. च. या संस्थाप्य य । ↩︎
-
क. कतिचि । ↩︎
-
ख. ग. ङ. च. जपदशांशेन । ↩︎
-
क. तन्त्रेण ब्रा । ↩︎
-
धनुश्चिह्नान्तर्गतं ख. पुस्तके त्रुटितम् । ↩︎
-
क.ग. कालवि । ↩︎
-
ग. नप्र । ↩︎
-
क. ग. लचर्वणदि । ↩︎
-
ड. च. निगडग । ↩︎
-
क. धानान्न । ↩︎
-
ग. शुष्कैक । ↩︎
-
ग. शूद्रन । ↩︎