०७ ब्रह्मचर्यम् अध्ययनञ्च

अथ सप्तमं प्रकरणम् ।

सङ्क्षेपेण ब्रह्मचारिधर्माः

अथ सङ्क्षेपेण ब्रह्मचारिधर्माः ।

तत्रेदं गृह्यम्–

“एतद्व्रतम् एवात ऊर्ध्वम् आचार्य-कुल-वास्य् अश्नाति क्षारं लवणं शमी-धान्यम् इति दण्डी जटी मेखली शिखाजटो वा स्यात्
काषायम् अजिनं वा वस्ते
न स्त्रियम् उपैत्य्
अष्टाचत्वारिंशद् वर्षाणि चतुर्विंशतिं द्वादशं यावद्-ग्रहणं वा
न त्वेवाव्रतः स्यात्” इति ।

एतदित्यनेन प्रकृतं सावित्रीव्रतमक्षारलवणभोजनादि प्रतिनिर्दिश्यते । एतद्व्रतं यस्य सोऽयमेतद्व्रतः । एतद्व्रत एवात ऊर्ध्वमपि स्यात् । एवकारो वक्ष्यमाणान्यपि व्रतानि त्र्यहे स्युरित्येतदर्थम् । द्वौ ब्रह्मचारिणौ, आचार्यकुलवासी नैष्ठिकश्च । तयोर्यो विद्यार्थमेवाऽऽचार्यकुले वसति तच्छील आचार्यकुलवासी । यस्त्वाश्रमार्थ्यूर्ध्वमपि विद्याक्रियाया ब्रह्मचर्यं चरति स नैष्ठिकः । तयोराचार्यकुलवास्यश्नाति क्षारं लवणं शमीधान्यं च । इतिशब्दः समुच्चयार्थः । दण्डी मेखलीति मत्वर्थीय इनिः । जटीति नित्ययोगे । शिखैव जटा यस्य सोऽयं शिखाजटः । शिखामेव धारयेदितरान्केशान्वापयेदित्यर्थः । काषायं कषायेण रक्तं वस्त्रमजिनं वा वस्ते परिदधाति । काषायग्रहणं प्रदर्शनमात्रम् । माञ्जिष्ठं हारिद्रमिति यथावर्णं भवति । न स्त्रियमुपैति न मैथुनं चरतीत्यर्थः । कियन्तं कालमेतानि व्रतानि चरतीत्याकाङ्क्षायामष्टाचत्वारिंशद्वर्षाणीत्यादि । अष्टाचत्वारिंशत्, चतुर्विंशतिं, द्वादश, यावदध्ययनं वा व्रतचर्या भवति । यस्य नास्ति व्रतं सोऽव्रतः । अव्रतस्तु नैव भवेत् । अतिक्रान्ते सङ्कल्पिते काले विद्यायामगृहीतायां प्राक्समावर्तनादव्रतो न स्याद्व्रतवांस्त्वेवाधीयीतेत्येतदर्थं तुशब्दः । समावृत्तेनापि प्राङ्निवेशादध्येयमिति वक्ष्यति धर्मे । सोऽप्याचार्यकुलेऽधीयानो नैवाव्रतः स्यादित्येतदर्थमेवकारः । व्रती त्वेव स्यादित्येतावता सिद्धे नाव्रत इति निषेधद्वयवचनं निविष्टोऽपि कृच्छ्रापत्तौ येन केनचिद्विक्षेपेणाऽऽचार्यकुले वसन्कालाद्यपेक्षयाऽव्रतो नैव स्यादित्येतदर्थम् । धर्मसूत्रे–‘न गायेन्न रोदेन्न नृत्यदर्शी स्यात्’ इति । गानं सामव्यतिरिक्तम् । रोदनमश्रुमोचनम् । एतदुभयं न कुर्यात् । नृत्यदर्शी नृत्यदर्शनशीलो न भवेदित्यर्थः । तथा– ‘न नग्नां स्त्रियं प्रेक्षेदोषधिवनस्पतीनाच्छिद्य नोपनिघ्रेदुपानहौ छत्रं यानमिति वर्जयेत्’ इति । प्रेक्षमाणस्य मनसो विकारो भवति । अतो नग्नां स्त्रियं न प्रेक्षेत । ओषध्यः फलपाकान्ताः । वनस्पतयो ये पुष्पैर्विना फलन्ति । वीरुद्वृक्षाणामप्युपलक्षणम् । तेषां पत्रपुष्पे आच्छिद्य नोपजिघ्रेत् । आच्छिद्येतिवचनाद्यादृच्छिके गन्धग्रहणे न दोषः । उपानहौ प्रसिद्धौ(द्धे) । छत्रं प्रसिद्धम् । यानं शकटादि । हिशब्द एवम्प्रकाराणामुपलक्षणार्थः ।

यमः–

“मेखलामजिनं दण्डमुपवीतं च सर्वदा ।
कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत् ॥
अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः” इति ।

अग्नीन्धनमग्निकार्यसञ्ज्ञकं समिदभ्याधानम् । बौधायनधर्मसूत्रे–

“ब्राह्मणो वै ब्रह्मचर्यमुपायंश्चतुर्धा तानि प्रविशन्त्यग्निपादं मृत्युपादमाचार्यपादमात्मन्येवास्य चतुर्थः पादः परिशिष्यते स यदग्नौ समिधमादधाति य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदात्मानं दरिद्रीकृत्य भिक्षुर्भूत्वा भिक्षन्ब्रह्मचर्यं चरति य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदाचार्यवचः करोति य एवास्याऽऽचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यत्स्वाध्यायमधीते य एवास्याऽऽत्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति” इति ।

अन्यच्चात्रैव–

“स यदन्यो भिक्षितव्यां न विन्देतापि स्वामेवाऽऽचार्यजायां भिक्षेताथो स्वां मातरं नैन सप्तम्यभिक्षितादियाद्भैक्षस्यानाचरणे दोषः पावकस्यासमिन्धने सप्तरात्रमकृत्वैतदवकीर्णिव्रतं चरेत् । तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति यथा ह वा अग्निः समिद्धो रोचत एव ह वा एष स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं चरतीति हि ब्राह्मणमिति हि ब्राह्मणम्” इति ।

व्यासः–

“ब्राह्मणक्षत्रियविशश्चरेयुर्भैक्षमन्वहम् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा” इति ॥

भविष्ये–

“सर्वं वाऽपि चरेद्ग्रामं पूर्वोक्तानामसम्भवे ।
अन्त्यवर्जं महाबाहो इत्य्-आह भगवान्विभुः” इति ॥

अन्त्यः शूद्रः ।

धर्मसूत्रे–

सायम्प्रातरमत्रेण भिक्षाचर्यं चरेद्भिक्षमाणोऽन्यत्रापपा-त्रेभ्योऽभिशस्ताच्च" इति ।

अमत्रेण पात्रेण । अपगतानि पाकाद्यर्थानि पात्राणि चातुर्वर्ण्यैः सह तेऽपपात्राः प्रतिलोमरजकादयः । अभिशस्तः पतितः । एतेभ्योऽन्यत्र भिक्षाचर्यं चरेदित्यर्थः ।

सार्ववर्णिकसर्वग्रामपक्षयोरपि शूद्रात्पक्वमन्नं नैव ग्राह्यं, तदाहाङ्गिराः–

“आममेवाऽऽददीतास्मादवृत्तावेकरात्रकम् ।

आमं पूयति1 संस्कारो धर्म्यं तेभ्यः प्रतीच्छताम् ॥
तस्मादामं ग्रहीतव्यं शूद्रादपि समाहितैः ।
चण्डालपतितादिभ्यो न भिक्षेदाममप्यणु” इति2

पूयति पुनाति । क्वचित्तथैव पाठः ।

अविशेषेण सजातीयेष्वेव भिक्षाचरणं व्यासेनोक्तं, तत्र विशेषमाह मनुः–

“वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्” इति ॥

ये वेदैर्वेदाभ्यां वेदेन वा । एवं यज्ञैश्च हीना ये न भवन्ति । अथ च स्वेषु वर्णाश्रमविहितकर्मसु प्रशस्ताश्च भवन्ति तेषां गृहेभ्यः प्रयतो नियमवान् , ब्रह्म वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी, अन्वहं प्रत्यहं भैक्षमाहरेदित्यर्थः । भैक्षमित्यत्र समूहार्थे ‘भिक्षादिभ्योऽण्’ इत्यण्प्रत्ययः ।

क्वचिद्भिक्षानिषेधमाह स एव–

“गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वमुपाश्रयेत्” इति ॥

गुरोः कुले । गृह इति केचित् ।

यत्तु तेनैवोक्तं–

“मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत्” ॥

इति तदुपनयनाङ्गभिक्षापरमिति । प्रथमवाशब्दोऽवधारणार्थः । मात्रादयः शब्दाः प्रसिद्धार्थाः । निजा सोदर्या । अवमानोऽवज्ञानं न दीयत इति प्रत्याख्यानं या न करोति तामपि भिक्षेतेत्यर्थः ।

तथा चाऽऽश्वलायनः–

“अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा” इति ।

अन्यत्रालाभे गुर्वादिष्वपि भिक्षितव्यमित्याह गौतमः–

“आचार्यज्ञातिगुरुष्वलाभादन्यत्र” इति ।

आचार्यज्ञातिगुरुष्वपि भिक्षितव्यमन्यत्र भैक्षालाभ इत्यर्थः ।

यमः–

“आहारमात्रादधिकं न क्वचिद्भैक्षमाहरेत् ।
युज्यते स हि दोषेण कामतोऽधिकमाहरेत्” इति ॥

यः कामत इच्छातोऽधिकं भोजनपर्याप्तितोऽधिकं यद्याहरेत्तदा स दोषेण पापेन युक्तो भवेदित्युत्तरार्धार्थः । कामत इत्युक्त्याऽकामतोऽधिकाहरणे न दोषः ।

धर्मसूत्रे–

“तत्समाहृत्योपनिधाय गुरवे प्रब्रूयाद्भैक्षमिदं भो
इति तेन प्रदिष्टं भुञ्जीत” इति ।

तद्भैक्षं गुरुसमीपमाहृत्य गुरुसमीप एव संस्थाप्य तस्मै प्रब्रूयाद्भैक्षमिदं भो इति । ततस्तेन गुरुणा प्रदिष्टं भोजनायाभ्यनुज्ञातमन्नं भुञ्जीतेति व्याख्यातमुज्ज्वलाकृता ।

तथा–

“विप्रवासे गुरोराचार्यकुलायैतैर्विप्रवासेऽन्येभ्योऽपि
श्रोत्रियेभ्यो नाऽऽत्मप्रयोजनश्चरेत्प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत” इति ।

यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात्तत आचार्यकुलाय, आचार्यस्य यत्कुलं भार्यापुत्रादि तस्मै प्रब्रूयाद्भैक्षमिदं भो इति तेन प्रदिष्टं भुञ्जीत । तैः सकुल्यैः सह गुरोर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः प्रब्रूयात् । तैः प्रदिष्टं भुञ्जीतेतिवचनविपरिणामेनान्वयः ।

गौतमोऽप्याह–

“असन्निधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः” इति ।

आत्मैव प्रयोजनं यस्य स आत्मप्रयोजनः । एवम्भूतो भिक्षां न चरेत् । केवलमात्मार्थं भिक्षां न चरेदित्यर्थः । आत्मप्रयोजनपदं यदा श्रोत्रिया अपि न लभ्यन्ते तदा प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीतेति वक्ष्यमाणो विधिर्यथा स्यादित्येतदर्थम् । प्रोषितः शिष्य आचार्यप्रयोजनः स्वप्रयोजनो वाऽऽचार्यकुलश्रोत्रियाभावे भिक्षितादन्नात्किञ्चिदादायाग्नौ प्रक्षिप्य भुञ्जीतेत्यर्थः ।

तथा–

“भुक्त्वा स्वयममत्रं प्रक्षालयेन्न चोच्छिष्टं कुर्यादशक्तौ भूमौ
निखनेदप्सु वा प्रवेशयेदार्याय पर्यवदध्याद्वाऽन्तर्धिने वा शूद्राय” इति ।

अमत्रं भोजनपात्रम् । भुक्त्वेति सन्निधानाद्भोजनपात्रं स्वयमेव प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येनापि प्रक्षालने दोषो न । उभयोरपि पात्रयोर्ग्रहणमित्यन्ये । यावच्छक्नोति भोक्तुं तावदेव भोजनपात्रे कृत्वा भुञ्जीत । भोजने प्रवृत्तो यदि भोक्तुं न शक्नुयात्तदा तदन्नं भूमौ निखनेत् । अथवाऽप्सु प्रवेशयेत्प्रक्षिपेत् । आर्यस्त्रैवर्णिकस्तस्मा अनुपनीताय पर्यवदध्यात् । सर्वमेकस्मिन्पात्रेऽवधाय तत्समीपे भूमौ स्थापयेत् । अन्तर्धानमन्तर्धिः सोऽस्यास्तीत्यन्तर्धी । व्रीह्यादित्वादिनिः । अन्तर्धी दासः । अन्तर्हितं हि तस्य शूद्रत्वम् । प्रकरणात्स आचार्यस्य । आचार्यदासाय शूद्राय वा पर्यवदध्यात्प्रयच्छेदित्यर्थः । अत्रैकान्नाशित्वनिषेधमाह याज्ञवल्क्यः–

“ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि” इति ।

ब्रह्मचर्यमष्टाङ्गमैथुनत्यागः ।

तान्याह दक्षः–

“ब्रह्मचर्यं सदा रक्षेदष्टधालक्षणं पृथक् ।
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥
वैपरीत्ये ब्रह्मचर्यं नष्टं प्राह प्रजापतिः ।

नष्टमित्यत्र भवतीति शेषः।

न ध्यातव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन ।
एतैः सर्वैः सुनिष्णातो यतिर्भवति नान्यथा” इति ।

अभिलाषपूर्वकस्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिबाह्यचेष्टा । गुह्यभाषणं सम्भोगार्थं रहोमन्त्रणम् । सङ्कल्पो मानसं कर्म । अध्यवसायः सम्भोगनिश्चय इति । एकमेकस्वामिकम् ।

स्मृत्यन्तरे भिक्षाशने विशेष उक्तः–

“पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्” इति ।

पूजनं प्रणामरूपम् । कुत्रचित्प्रणमेदशनं नित्यमित्येव पाठः । अकुत्सयन्नगर्हयन् । नित्यमित्यनेनैतस्य सार्वत्रिकत्वं सूच्यते ।

धर्मसूत्रे–

“अष्टौ ग्रासा मुनेर्भक्षः3 षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्यापरिमितं ब्रह्मचारिणः” इति ॥

मुनेः सन्न्यासिनो भक्षोऽष्टौ4 ग्रासाः । अरण्यवासी वानप्रस्थस्तस्य षोडश । द्वात्रिंशद्गृहस्थस्य । ब्रह्मचारिणो विद्यार्थस्य नैष्ठिकस्य च ग्रासनियमो नास्तीत्यर्थः ।

अन्यदपि तत्रैव–

“आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम्” इति ।

आहिताग्नेरपि गृहस्थत्वेन पूर्वश्लोकेन प्राप्तस्य ग्रासनियमस्य कालयो र्भोजनमित्यस्य कालनियमस्य च नियमो नास्तीत्येतेन ज्ञायते । आहिताग्नेर्बर्हिःसमिदाहरणादेरावश्यकत्वाद्ब्रह्मचारिणश्च गुरुसेवाया अवश्यकर्तव्यत्वात्तद्विविरोधिशरीरनैर्बल्यापादकं काम्यव्रतादिकं नानुष्ठानार्हमित्यर्थः । अनडुद्ग्रहणं दृष्टान्तार्थम् ।

अत्र पात्रनियममाह हारीतः–

“लौहे मृन्मये वा पात्रे भुञ्जीत” इति ।

लोहं काञ्चनम् । लोहशब्दस्य काञ्चननामसु निघण्टौ पाठात् ।

कांस्यपात्रे भोजनं ताम्बूलाभ्यञ्जने च निषेधति प्रचेताः–

“ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्” इति ॥

निषिद्धान्नमाहात्रिः–

“हस्तदत्ता तु या भिक्षा लवणं व्यञ्जनानि च ।
भोक्ता ह्यशुचितां याति दाता स्वर्गं न गच्छति” इति ॥

मनुः–

“व्रते वा देवदैवत्ये पित्र्ये कर्मण्यथापि वा ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते” इति ॥

अभ्यर्थितः काममश्नीयादित्यन्वयः । अभ्यर्थितः प्रार्थितः ।

आश्वलायनः–

“अञ्जनाभ्यञ्जने क्षौद्रं गन्धपुष्पाक्षतान्व्रती ।
वर्जयेत्पादुकाछत्रयानोष्णीषरथादिकम्” इति ॥

कूर्मपुराणे–

“आदर्शं नैव वीक्षेत नाऽऽचरेद्दन्तधावनम् ।
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः” इति ॥

वसिष्ठोऽपि–

“चेद्व्याधितः कामं गुरोरुच्छिष्टं भेषजार्थं सर्वं प्राश्नीयात्” इति ॥

व्याधित इति सञ्जातार्थ इतच्प्रत्ययः । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्रसङ्ग्रहार्थम् । तद्भक्षणेनापगतव्याधिरादित्यमुपतिष्ठेत ।

तथा च बौधायनोऽभक्ष्यभक्षणं प्रकृत्य–

“स यदाऽगदो भवति तदोत्थायाऽऽदित्यमुपतिष्ठते ह सः शुचिषत्” इति ।

स रोगी । अगद इति पदच्छेदः । ह सः शुचिषदित्येका, ऋक् । धर्मसूत्रे–

“गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबन्धस्तदधीना भिक्षा” इति ।

यदा द्वितीयं तृतीयं वा वेदमधीयानस्य माणवकस्य गुरुसमवायो भवति गुरवः समवेता भवन्ति तदा भिक्षायामुत्पन्नायां यं गुरुमिदानीमनुबन्धो यतोऽधीते तदधीना भिक्षेति व्याख्यातमुज्ज्वलाकृता ।

अन्यच्च–“समावृत्तो मात्रे दद्यान्माता भर्तारं गमयेद्भर्ता गुरुम्” इति ॥

कृतसमावर्तनो विवाहात्प्रागर्जितं मात्रे दद्यात् । माता भर्तारं गमयेत्पतिं प्रापयेत् । स च गुरुं माणवकस्येति शेष इति व्याख्यातं तेनैव ।

बृहस्पतिः–

“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” इति ॥

ब्राह्मणकाम्या ब्राह्मणेच्छा ।

याज्ञवल्क्यः–

“मधुमांसाञ्जनोच्छिष्टशुक्लस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत्” इति ॥

मधु क्षौद्रम् । मद्यनिषेधस्य तु सामान्यनिषेधेनैव सिद्धत्वात् । मांसं प्रोक्षिताद्यप्यत्र निषिध्यते । अञ्जनं कज्जलादिनाऽक्ष्णोः । एतच्चाभ्यञ्जनोपलक्षणम् । तेन तैलादिना गात्राणामभ्यङ्गोऽपि निषिद्धः । एतदपि वैद्योपदेशादृते । औषधस्याव्रतघ्नत्वात् । अत्रोच्छिष्टनिषेधो व्याधिराहित्ये ज्ञेयः ।

स चेद्व्याधित इत्युदाहृतवसिष्ठवाक्यात् ।

“गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः”

इत्युदाहृतकूर्मपुराणवाक्याच्च ।

शुक्लं निष्ठुरवाक्यम् ।

“शुक्ला वाचो विवर्जयेत्” इति गौतमोक्तेः ।

उदयेऽस्तमये च भास्करावलोकनं न कार्यं, तदुक्तं धर्मसूत्रे–

“उद्यन्तमस्तं यन्तमादित्यं दर्शने विवर्जयेत्” इति ।

उदयसमयेऽस्तसमये चाऽऽदित्यं न पश्येदित्यर्थः ।

मनुरपि–

“नेक्षेतोद्यन्तमादित्यमस्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्” इति ।

अश्लीलं मर्मभाषणम् । परिवादो निन्दा । आदिशब्देन परिहासादि ।

यमः–

“खट्वासने च शयनं वर्जयेद्दन्तधावनम् ।
स्वपेदेकः कुशेष्वेव न रेतः स्कन्दयेत्क्वचित्” इति ।

मनुः–

“द्यूतं च जनवादं च परिहासं तथाऽनृतम् ।
स्त्रीणां च प्रेक्षणालम्भावुपघातं परस्य च ।
खट्वासने च शयनं ब्रह्मचारी विवर्जयेत्” इति ।

द्यूतमक्षक्रीडा । जनवादो देशवार्ता ।

गौतमः–“गुरुसमीपे कण्ठप्रावृत्त्यावसक्थिकापाश्रयणपाद-
प्रसारणनिष्ठीवनविजृम्भणहसितावस्फोटनानीति वर्जयेत्” इति ।

कण्ठप्रावृत्तिर्वस्त्रेण कण्ठाच्छादनम् । आवसक्थिका योगपट्टः । तस्यापाश्रयणं कठ्यादिषु संश्रयणम् । निष्ठीवनं लालाविसर्जनम् । अवस्फोटनं भुजास्फालनादि ।

हारीतः–

“हयरथगजचैत्यवृक्षवृषभारोहणमहानद्यवतरणमहा-
साहसानि वर्जयेत्” इति ।

गोभिलः–“अवलेखनदन्तप्रक्षालनपादप्रक्षालनादि वर्जयेत्” इति ।

अवलेखनं कङ्कतादिना शिरोगतकेशप्रसाधनम् । पादप्रक्षालनमुद्वर्तनपूर्वकं पादेन वा पादस्य ।

बौधायनधर्मसूत्रे–

“मूत्रपुरीषे नावेक्षेतामेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो
ज्योतिषा श्रेष्ठो दीक्षे मा मा हासीः” इति ।

एतच्च गृहस्थादिसाधारणं ज्ञेयम् ।

पराशरीयप्रायश्चित्तकाण्डे–

“गुरुं हुङ्कृत्य तुङ्कृत्य विप्रं निर्जित्य वादतः ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः” इति ॥

तस्य प्रायश्चित्तमाह बौधायनः–

“वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया ।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य क्षमापयेत्” इति ॥

अत्र वादग्रहणं हुङ्कारतुङ्कारच्छलोपलक्षणम् ।

छललक्षणमक्षपादेन गौतमेन न्यायसूत्रे प्रथमाध्याय उक्तम्–

“वचनविघातोऽर्थविकल्पोपपत्त्या छलनम्” इति ।

अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानम् । यथा नवकम्बलोऽयं देवदत्त इति वाक्यस्य नूतनाभिप्रायेण प्रयुक्तस्यार्थान्तरं कल्पयित्वा दूषणदानम् । नास्य नवकम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि सम्भाव्यते कुतोऽस्य नवेति । वाक्छलं सामान्यच्छलमुपचारच्छलमिति त्रैविध्यं छलस्य । तल्लक्षणानि तत्रैव द्रष्टव्यानि । शुश्रूषायाः फलमाहतुर्देवलबौधायनौ–

“यथा खनन्खनित्रेण नरो वार्यधिगच्छति ।
एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति” इति ॥

अकरणे दोषमाह यमः–

“यथाऽन्नं विषसय्ँयुक्तं विषं चान्नेन सय्ँयुतम् ।
तादृशं स्यादशुश्रूषोर्ब्रह्माधीतं न संशयः” इति ॥

अत्रोपायान्तरमाह नारदः–

“गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या चतुर्थं नोपलभ्यते” इति ॥

स्मृत्यन्तरे–

“नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव सन्ध्योपासनमेव च” इति ॥

जैमिनिः–

“यावद्ब्रह्मोपदेशस्तु तावत्सन्ध्यादिकं च न ।
जाते ब्रह्मोपदेशे तु कर्म सन्ध्यादिकं चरेत्” इति ॥

ब्रह्म गायत्री । सन्ध्यादिकमित्यादिशब्दाद्ब्रह्मयज्ञो गृह्यते । सोऽपि तदहःप्रभृति सन्ध्योपासनानन्तरं यावत्पर्यन्तं किञ्चिदधीतं न भवति तावत्पर्यन्तं प्रत्यहं गायत्र्या कर्तव्य इति तात्पर्यार्थः । ब्रह्मचारिणा कस्यापि शववाहनादिक्रिया न कर्तव्याः । करणे कृच्छ्रात्मकं प्रायश्चित्तं पुनरुपनयनं च ।

तथा च देवलः–

“ब्रह्मचारी न कुर्वीत शववाहादिकाः क्रियाः ।
यदि कुर्याच्चरेत्कृच्छ्रं पुनःसंस्कारमेव च” इति ॥

आदिपदमलङ्कारादेर्ग्राहकं न तु दाहादेः । तत्र प्रायश्चित्तस्य गुरुत्वात् । लोभहेतुकक्रियायाः सामान्यवचनेनैव निषेधे सिद्धे ब्रह्मचारिणं प्रति पुनर्निषेधो धर्मार्थक्रियाया अपि निषेधार्थः । अन्यथा वैयर्थ्यात् ।

मनुरपि–

“आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतं व्रतेन न वियुज्यते” इति ॥

मिताक्षरायां गालवः–

“गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति” इति ।

एतच्च मातृपित्रुपाध्यायाचार्यमातामहव्यतिरिक्तविषयम् । तथा च कालादर्शे–

“मातापित्रोरुपाध्यायाचार्ययोरौर्ध्वदेहिकम् ।
कुर्यान्मातामहानां च व्रती न भ्रश्यते व्रतात्” ॥

इति सव्ँवर्तः । तस्य कर्मलोपो नास्ति ।

तथा च चन्द्रिकायाम्–

“पित्रोर्गुरोर्विपत्तौ तु ब्रह्मचार्यपि यो नरः ।
सव्रतश्चापि कुर्वीत ह्यग्निपिण्डोदकक्रियाम् ॥
तेनाशौचं न कर्तव्यं सन्ध्या चैव न लुप्यते ।
अग्निकार्यं च कर्तव्यं सायं प्रातश्च नित्यशः” इति ॥

यावत्पर्यन्तं तदीयं कर्म करोति तावत्पर्यन्तमाशौचमस्त्येव ।

“ब्रह्मचारी यदा कुर्यात्पिण्डनिर्वपणं पितुः ।
तावत्कालमशौचं स्यात्पुनः स्नानेन शुध्यति” ॥

इति प्रजापतिवचनात् । अपरार्कमाधवादयस्त्वेकाहमाशौचमाहुः ।

उदाहरन्ति च वचनम्–

“आचार्यं वाऽप्युपाध्यायं गुरुं वा पितरं च वा ।
मातरं वा स्वयं दग्ध्वा व्रतस्थस्तत्र भोजनम् ॥
कृत्वा पतति नो तस्मात्प्रेतान्नं तत्र भक्षयेत् ।
अन्यत्र भोजनं कुर्यान्न च तैः सह सव्ँविशेत्” इति ॥

अन्यत्र द्वितीयदिनमारभ्येत्यर्थः ।

“एकाहमशुचिर्भूत्वा द्वितीयेऽहनि शुध्यति” इति ब्राह्मोक्तेः ।

यत्तु–

“गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति” ॥

इति वचनं तत्तदन्नभोजनविषयम् । प्रेताहारैस्तदन्नभोजनैः । और्ध्वदेहिककर्मकरणे कर्त्रन्तरसद्भावे तु पित्रादिमरणेऽप्याशौचाभाव एव । ब्रह्मचारिणा मृतसपिण्डानां समावर्तनोत्तरं मृतक्रमेणोदकदानं सर्वाशौचस्थानापन्नं त्रिरात्रमाशौचं च कार्यम् । न तु समावर्तनात्पूर्वमुदकदानाशौचे ।

तथा च मनुः–

“आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं दत्त्वा त्रिरात्रमशुचिर्भवेत्” इति ॥

आदिष्टी ब्रह्मचारीति मिताक्षरायां व्याख्यातम् ।

याज्ञवल्क्योऽपि–

“न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा” इति ।

ब्रह्मचारिणो मृतोद्देशेनोदकदानमपि नैव कुर्युः । एवं पतिता अपि नैव कुर्युरिति । पतिताः प्रच्युतद्विजातिकर्माधिकाराः । ततश्च ब्रह्मचर्यदशायां सपिण्डमरणे सति समावर्तनानन्तरं त्रिरात्रमशुचित्वाद्विवाहो मातापित्रनुज्ञायां सत्यामपि न भवति । उदकदानसाहचर्यान्मृताशौचविषय एवैतत् ।

इति सङ्क्षेपेण ब्रह्मचारिधर्माः ।

काण्डव्रतानि

अथ काण्डव्रतानि ।

तत्र श्रावण्यां पौर्णमास्यां प्रथममध्यायोपाकर्म कृत्वा तत्पूर्वमपि वा वक्ष्यमाणे विद्यारम्भानुकूले सुमुहूर्ते होमपूर्वकं प्राजापत्यकाण्डव्रतमुपाकृत्य तत्काण्डाध्ययनं कृत्वा तस्योत्सर्गं कुर्यात् । एवं सौम्यादिकाण्डव्रतेष्वपि ज्ञेयम् ।

अथवा तन्त्रेण सर्वाणि काण्डव्रतान्युपाकृत्य यथाशक्ति व्रतमाचरन्सर्वाणि काण्डान्यधीत्य तन्त्रेण तानि व्रतान्युत्सृजेत् ।

यदि तु सारस्वतपाठेनाध्ययनं तदा तन्त्रेणैवोपाकरणं कार्यमुत्सर्जनमप्येवम् । आरम्भसमाप्तिरूपे उपाकरणोत्सर्जने काण्डाध्ययनव्रतयोः पृथङ्न भवतः । काण्डव्रतानां काण्डाध्ययनाङ्गत्वेनाध्ययनार्थाभ्यामुपाकरणोत्सर्जनाभ्यामेव सिद्धेः । असमाप्ते काण्डेऽध्यायोत्सर्गकाल आगतेऽध्यायमुत्सृज्य विरम्य पुनरध्यायमुपाकृत्य काण्डं यथाकालमुपाकृत्याधीत्य काण्डं यथाकालमुत्सृज्य विरमितव्यम् । काण्डानां सङ्कीर्णत्वेन यथाकाण्डमिदानीमध्ययनासम्भवात्काण्डानुक्रमणिकायां सारस्वतपाठस्याप्यभ्यनुज्ञातत्वाच्च सारस्वतपाठेनैवेदानीमध्ययनमस्ति । उपाकरणोत्सर्जनयोरारम्भसमाप्तिरूपयोस्तन्त्रं नैव भवति । स्वरूपविरोधात् । अत्र सर्वमाचार्यकर्तृकम् । यावदुक्तं ब्रह्मचारी ।

अथ सारस्वतपाठेनाध्ययनेऽपि काण्डपरिज्ञानस्याऽऽवश्यकत्वात्तदर्थं काण्डानुक्रमण्यनुसारेण काण्डान्युच्यन्ते ।

काण्डपरिज्ञानस्याऽऽवश्यकत्वं तु–

“अपि सारस्वते पाठे ज्ञानमात्रमिहोच्यते”

इत्यनेनोक्तं, सारस्वतपाठेऽपि काण्डानुक्रमविषयकमदृष्टार्थं ज्ञानमात्रमिष्यत एव बुधैरिति तात्पर्यार्थः । एतस्मादेव वचनात्सारस्वतपाठोऽप्यस्तीति

ज्ञायते ।

काण्डानि

अथ काण्डानि ।

तानि च बौधायनगृह्यकाण्डानुक्रमणसूत्रयोरुक्तानि ।

तत्र प्राजापत्यं काण्डम् ।

इषे त्वेतिप्रश्न उत्तमानुवाकवर्जम् । तृतीयस्यां प्रत्युष्टमिति प्रश्नद्वयम् । मम नामेत्येतस्यानुवाकस्य पयस्वतीरोषधय इत्य्-आदिः शेषः । सं त्वा सिञ्चामीति प्रश्न उत्तमानुवाकवर्जम् । पाकयज्ञमित्यादयो द्वितीयानुवाकवर्जं पञ्चानुवाकाः । सशान्तिकाश्चित्तिः स्रुगित्यादयस्त्रयोदशानुवाकाः । प्रजापतिर्ब्रह्मवादिन इति द्वितीयकाण्डब्राह्मणान्तर्गतं प्रश्नद्वयम् । सत्यं प्रपद्य इति प्रश्नः । देवा वै नर्चिनेत्यादयश्चत्वारोऽनुवाकाः । निवीतं मनुष्याणामित्यारभ्य मनुष्यलोकं चाभिजयतीत्यन्तोऽनुवाकः । स श्रवा इत्यनुवाकः । मनुः पृथिव्या इत्य्-आदयश्चत्वारोऽनुवाकाः । विश्वरूपो वै त्वाष्ट्र इत्य्-आदयः षडनुवाकाः । देवा वै सामिधेनीरनूच्येत्यादिर्निवीतमित्येतस्यानुवाकस्य शेषः । समिधो यजतीत्यादयः षडनुवाकाः । इन्द्रो वृत्र हत्वेत्यनुवाकः । सशान्तिकः परे युवा समिति प्रश्नः । इति प्राजापत्यकाण्डम् ।

अथ सौम्यकाण्डम् ।

आप उन्दन्तु देवस्य त्वेति प्रश्नद्वयमुत्तमानुवाकवर्जम् । पवमानः सुवर्जन इत्यनुवाकः । ब्रह्म सन्धत्तमित्यनुवाकः । आददे ग्रावेतिप्रश्न उत्तमानुवाकवर्जम् । चित्तिः स्रुगिति प्रश्नान्तर्गतस्तरणिरित्यनुवाकः । प्राचीनव शमिति प्रश्नषट्कम् । प्रजननमित्यादयस्त्रयोऽनुवाकाः । देवासुराः स प्रजापतिरिन्द्रमित्यादयश्चत्वारोऽनुवाकाः । उभये वा एते ब्रह्मवादिनो वदन्ति कति पात्राणीत्यनुवाकद्वयम् । देव सवितः प्रसुवेत्यादयः षडनुवाकाः । देवा वै यथादर्शमित्यादयोऽष्टानुवाकाः । त्रिवृत्स्तोम इति प्रश्नः । सशान्तिकौ युञ्जते मनो देवा वै सत्रमासतेति प्रश्नौ । इति सौम्यकाण्डम् ।

अथाऽऽग्नेयकाण्डम् ।

घर्मः शिर उद्धन्यमानमित्यनुवाकौ । कृत्तिकास्वग्निमादधीतेत्यादयः पञ्चा नुवाकाः । इमे वा एत इत्य्-आदयस्त्रयोऽनुवाकाः । भूमिर्भूम्नेत्यनुवाकः । देवासुरास्ते देवा विजयं परा वा एष भूमिर्भूम्ना द्यौर्वरिणेत्याहेत्यनुवाकत्रयम् । देवासुरा अग्नीषोमयोरित्यनुवाकः । उप प्रयन्तः सम्पश्यामीत्यनुवाकौ । मम नामेत्यनुवाकस्ताः सन्दधामि हविषा घृतेनेत्यन्तः । अयज्ञः सम्पश्यामि प्रजा अहमित्याहाग्निहोत्रं जुहोतीति त्रयोऽनुवाकाः । युञ्जानः प्रथमं मन इत्य्-आदयः सप्त प्रश्नाः । तत्राऽऽद्यप्रश्नचतुष्टयस्योत्तमानुवाकाञ्जीमूतस्येव यदक्रन्दो मा नो मित्रो ये वाजिनमग्नेर्मन्व इति पञ्चानुवाकांश्च वर्जयेत् । मा नो हि सीज्जनितेत्यनुवाकादूर्ध्वं सशान्तिक आप्यायस्व मदिन्तमेत्यनुवाकः । इयमेत्यनुवाकादूर्ध्वं सशान्तिक ईयुष्टे य इत्यनुवाकः । प्रजापतिर्मनसेत्यनुवाकादूर्ध्वं सशान्तिको ज्योतिष्मतीमित्यनुवाकः । आयुषः प्राणमिन्द्रो दधीच इत्यनुवाकौ । सावित्राणीत्यादयः सप्त प्रश्नाः । तत्र समिद्धो अञ्जन्गायत्री त्रिष्टुब्जगती कस्त्वाऽऽच्छ्यति प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकान्, इन्द्राय राज्ञे सूकर इति चतुर्दशानुवाकान्रोहितो धूम्ररोहित इति त्रयोदशानुवाकान्स्तेगान्द ष्टाभ्यामिति षोडशानुवाकांश्च वर्जयेत् । अङ्गिरसो वै सत्रमासतेति प्रश्नः । उदस्थान्नि वा एतस्येत्यनुवाकौ । सञ्ज्ञानं लोकोऽसीति प्रश्नौ । ब्रह्म वै चतुर्होतार इत्य्-आदयः पञ्चानुवाकाः । इत्य्-आग्नेयकाण्डम् ।

वैश्वदेवकाण्डम्

अथ वैश्वदेवकाण्डम् ।

अनुमत्यै पुरोडाशमितिसंहितान्तर्गतः प्रश्न उत्तमानुवाकवर्जम् । ऋतमेव परमेष्ठीत्यनुवाकः । ब्राह्मणान्तर्गता अनुमत्यादयस्त्रयः प्रश्नाः । प्रजा वै सत्रमासताग्निर्वाव सव्ँवत्सर इत्यनुवाकौ । देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते सुरा ऊर्ध्वमित्यनुवाकः । वायव्य श्वेतमित्यादयश्चत्वारः प्रश्नाः ।तत्रोत्तमानुवाकान्वर्जयेत् । प्रजापतिरकामयत प्रजाः सृजेयेतीति तृतीयकाण्डम् । तत्र पञ्चप्रश्नानामन्तिमाननुवाकान्वर्जयेत् । इषे त्वेत्यादिरश्मिरसीत्यन्तानां प्रश्नानां क्रमेणोत्तमानुवाका उशन्तस्त्वेत्येतत्पूर्वं युक्ष्वाहीत्यनुवाकश्च । देवस्य त्वेत्यादयः प्रजननप्रश्नशेषा दशानुवाकाः । एकस्मा इत्य्-आदय एकादशानुवाकाः । अर्वाङित्यादयो दशानुवाकाः । मेषस्त्वा पचतैरवत्वित्यादय एकादशानुवाकाः । पृथिव्यै स्वाहेत्यादयश्चतुर्दशानुवाकाः । जीमूतस्य यदक्रन्दो मा नो मित्रो ये वाजिनमग्नेर्मन्व इति पञ्चानुवाकाः । इन्द्राय राज्ञे सूकर इत्य्-आदयश्चतुर्दशानुवाकाः ।रोहितो धूम्ररोहित इत्य्-आदयस्त्रयोदशानुवाकाः । स्तेगान्द ष्टाभ्यामिति षोड शानुवाकाः । समिद्धो अञ्जन्गायत्री कस्त्वेति त्रयोऽनुवाकाः । प्रयासाय स्वाहा चित्त सन्तानेनेति द्वावनुवाकौ । प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकौ । यो वा अश्वस्य मेध्यस्य शिर इत्यनुवाकः । साङ्ग्रहण्या प्रजापतिरश्वमेधमसृजतेति प्रश्नद्वयम् । अङ्गिरसो वै सत्रमासतेत्यादयः प्रजननप्रश्नान्तर्गताः सप्तानुवाकाः । साध्या वै, इत्य्-आरभ्य दशानुवाकाः । प्रजवं वा इत्य्-आरभ्य दशानुवाकाः । बृहस्पतिरकामयत श्रन्मे देवा इत्य्-आरभ्यैकादशानुवाकाः । गावो वा इत्य्-आरभ्य दशानुवाकाः । नवैतान्यहानि भवन्तीत्यादिः प्रश्नशेषः । यस्य प्रातःसवन इत्य्-आदयस्त्रयोऽनुवाकाः । जुष्टो दमूना इति प्रश्नद्वयम् । पीवोन्नामिति प्रश्नः । भर्ता सन्हरि हरन्तमित्यनुवाकौ । अग्निर्नः पात्विति प्रश्नः । अग्नेः कृत्तिका इत्यनुवाकत्रयम् । स्वाद्वीं त्वेतिप्रश्नः । युव सुराममित्यनुवाकः । सर्वान्वा इति प्रश्नः । अञ्जन्तीति प्रश्नः । ब्रह्मणे ब्राह्मणमिति प्रश्नः । तुभ्यं ता इत्य्-आदयश्चत्वारोऽनुवाकाः । इति वैश्वदेवकाण्डम् ।

सशान्तिकः सह वै देवानामिति प्रश्नः स्वायम्भुवं काण्डम्

भद्रं कर्णेभिरिति प्रश्न आरुणं काण्डम् ।

शं नो मित्र इति पूर्वोत्तरशान्तिसहितः शीक्षां व्याख्यास्याम इति प्रश्नः सा हित्यो देवता उपनिषदः । सशान्तिकोऽम्भस्य पार इति प्रश्नो याज्ञिक्यो देवता उपनिषदः । ब्रह्मविद्भृगुर्वै वारुणिरिति प्रश्नद्वयं सशान्तिकं वारुण्यो देवता उपनिषदः । मातृदत्तेन तु स्वायम्भुवकाण्डमात्रमधिकं पाक्षिकत्वेन सङ्गृहीतम् । आरुणादिकाण्डानि तु नैव सङ्गृहीतानि । तत्कल्पे भद्रप्रश्न आग्नेयकाण्डेऽन्तर्भवति । काठकत्वसामान्यात् । अवशिष्टाः पञ्च प्रश्ना वैश्वदेवकाण्डस्यान्त्यत्वात्तत्रैवान्तर्भवन्ति । स्वायम्भुवकाण्डस्य पृथक्त्वपक्षे तस्यैवान्त्यत्वात्तत्रान्तर्भावो ज्ञेयः । एतद्यथाकाण्डमध्ययनम् ।

रुद्र आरण्यके च विशेषोऽनुक्रमणिकायाम्–

“होतृप्रवर्ग्यकाण्डं च याश्चोपनिषदो विदुः ।
अरुणाम्नायविधी चैव काठके परिकीर्तितौ ॥
रुद्रो नारायणश्चैव मेधो यश्चैष पित्रियः ।
रुद्रमारण्यकं चैव नाव्रती श्रोतुमर्हति” इति ॥

होता चित्तिः स्रुगिति प्रश्नः । प्रवर्ग्यकाण्डं युञ्जते देवा वै सत्रमासतेति प्रश्नद्वयम् । उपनिषदः शीक्षादयस्त्रयः प्रश्नाः । अरुणो भद्रप्रश्नः । आम्नायविधिः स ह वै प्रश्नः । रुद्रो नमस्ते रुद्रेति प्रश्नः । नारायणोऽम्भस्येति प्रश्नः । पित्रियो मेधः परे युवा समिति प्रश्नः । एतत्सर्वमव्रत्येकभक्तब्रह्मचर्यादिनियमरहितः श्रोतुमपि नार्हति कुतस्तस्याध्ययनम् । अरुणश्चाऽऽम्नायविधिश्चारुणाम्नायविधी । तौ काठके परिकीर्तितौ । काठकसञ्ज्ञया समाख्यातावित्यर्थः । होतुप्रवर्ग्यकाण्डमित्यादि पित्रिय इत्य्-अन्तं सञ्ज्ञाप्रदर्शनार्थम् । अरण्येऽध्येतव्यत्वादारण्यकत्वम् ।

दिवाकीर्त्यानि

अथ दिवाकीर्त्यानि ।

“कारीर्यश्चाथ पित्र्याश्च दिवाकीर्त्येति यत्र च ।
रुद्रः सन्ततिरित्येतावनुवाकौ च सात्रिके ॥
होतृविध्यवसाने च अनुवाकचतुष्टयम् ।
सूक्तेषु सूक्तं यत्सौर्यं मेधो यश्चैष पित्रियः ॥
काठकानि च सर्वाणि सर्वाण्यारण्यकानि च ।
दिवाकीर्त्यानि शाखायामेतावन्तीति धारणा” इति ॥

कारीर्यो मारुतमसि मरुतामिति चत्वारोऽनुवाकाः । पित्र्याः सोमाय पितृमते, उशन्तस्त्वा हवामह उशन्तः, इन्द्रो वृत्र हत्वा, वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ता वरुणप्रघासैः, अग्नये देवेभ्यः पितृभ्यः, सुरावन्तं बर्हिषद सुवीरम्, उशन्तस्त्वा हवामह आ नो अग्ने सुकेतुना, इत्येतेऽनुवाकाः । दिवाकीर्त्येति पदं यस्मिन्ननुवाके स चासावादित्योऽस्मिन्निति । रुद्रो नमस्त इति प्रश्नः । सात्रिकेऽनुवाकचतुष्टये सन्ततिरिति द्वावनुवाकौ दिवाकीर्त्यावित्यर्थः । सात्रिके सत्रसम्बन्धिनि प्रकरण इत्यर्थः । दिवाकीर्त्येति यत्र चेत्यनेनैव सिद्धे सन्ततिरित्यादिवचनं ब्राह्मणस्य परायातत्वाद्दिवाकीर्त्येति यत्र चेत्यस्याप्राप्तिराशङ्किता स्यात्सा मा भूदित्येतदर्थम् । होतृविधिः प्रजापतिरकामयत प्रजाः सृजेयेति स एतं दशहोतारमिति प्रश्नः । ब्रह्मवादिन इत्यस्य प्रश्नस्यानुवाकसप्तकं होतृविधिः । तस्यावसानं विराम: समाप्तिः । तस्यां सत्यां यदनुवाकचतुष्टयं प्रजापतिः सोऽन्तर्वानित्यादिकं तच्च दिवाकीर्त्यमित्यर्थः ।

“गर्भादयोऽनुवाका ये तानन्ह्येव पठेद्द्विजः” इति5

“द्वितीयकाण्डस्य भवेद्ब्राह्मणे यस्तृतीयकः ।
प्रश्नस्तस्यान्त्यानुवाकांश्चतुरो वै पठेद्दिने”6

इतिवचनद्वयसव्ँवादादयमर्थो लभ्यते । सूक्तेषु मध्ये यत्सूक्तं सौर्यं सूर्यदेवताकं सूर्यो देवीमुषसमित्यारभ्य सूर्य आत्मा जगतस्तस्थुषश्चेत्यन्तम् । यश्च पित्रियो मेधः परे युवा समिति प्रश्नः स दिवाकीर्त्य इत्यर्थः । कारीर्यश्चापि पित्र्यश्चेत्यनेनैव सिद्धे मेधो यश्चैष पित्रिय इति वचनं परे युवा समिति प्रश्नस्य पित्रियो मेध इति सञ्ज्ञासिद्ध्यर्थम् । काठकानि, कठशाखाप्रवर्तकेन मुनिनोक्तत्वात्काठकानीत्युच्यन्ते । तानि चाष्टौ सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकाख्याः पञ्च चितयः । तत्र सञ्ज्ञानमिति प्रश्नः सावित्रचितिः । लोकोऽसीतिप्रश्नो नाचिकेतचितिः । ब्रह्म वै चतुर्होतार इत्यनुवाकश्चातुर्होत्रचितिः । यच्चामृतमित्यादयश्चत्वारोऽनुवाका वैश्वसृजचितिः । भद्रं कर्णेभिरितिप्रश्न आरुणकेतुकचितिः । एताः पञ्च चितयः । दिवःश्येन्याख्येष्टिसमुदाय7 एकः । अपाद्याख्येष्टिसमुदायोऽपरः । तत्र तुभ्यं देवेभ्य इति द्वावनुवाकौ दिवःश्येन्याख्येष्टिसमुदायः8 । तपसा देवा देवेभ्यो वा इति द्वावनुवाकावपाद्याख्येष्टिसमुदायः । इति द्वाविष्टिसमुदायौ । आम्नायविधिः स्वाध्यायब्राह्मणमष्टमम् । तच्च सह वै देवानामितिप्रश्नात्मकम् । आम्नायस्याऽऽम्नायाध्ययनस्य विधिर्बाह्मणं यस्मिन्प्रश्ने स आम्नायविधिस्तम् । अनेन कृत्स्नस्य प्रश्नस्य सङ्ग्रहः सिद्धो भवति । एतान्यष्टौ काठकानि भद्रं कर्णेभिरित्यादीनि नारायणान्तान्यारण्यकानि च दिवाकीर्त्यानि । दिवैव कीर्त्यानि कीर्तितव्यानि न तु रात्रावित्यर्थः । तैत्तिरीयशाखायामेतावन्त्येव दिवाकीर्त्यानीत्यवधारणा कर्तव्येत्यन्त्यार्धार्थः ।

एतेषां काण्डर्षीणां प्रत्यहं तर्पणं कर्तव्यं, तदुक्तं तत्रैव–

“अथ काण्डऋषीनेतानुदकाञ्जलिभिः शुचिः ।
अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च” इति ॥

अथ सर्वकाण्डाध्ययनानन्तरम्, अव्यग्रः शुचिश्च सन्नित्यं प्रत्यहमुदकाञ्जलिभिरेतान्काण्डर्षीस्तर्पयेत् । पर्वस्वमावास्यापौर्णमासीष्वष्टमीषु च ।अन्नैरपि तर्पयेदित्यर्थः । एतच्च सूत्रानुक्तत्वात्कृताकृतम् । करणे फलाधिक्यमकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । सारस्वतपाठेनाध्ययनेऽपि काण्डानुक्रमज्ञानमपेक्षितमेवेत्येतदर्थे वचनं तु प्रागेवोदाहृतम् । कोऽयं सारस्वतो नाम कश्च सारस्वतः पाठ इत्य्-आकाङ्क्षायामितिहासः प्रदर्श्यते । ब्रह्मसभायां दुर्वासाः साम गायन्नास । तं खलु तेजसा क्रूरं दृष्ट्वा सभामध्ये सरस्वत्यस्मयत । ततः क्रुद्धो मुनिः सरस्वतीं शशाप मर्त्ययोनौ प्रजायस्वेति । ततस्तं देवी प्रसादयामास भगवन्विप्रगृहे प्रजायेयमिति । ततः स मुनिस्तथेत्युक्त्वा जगाम । ततो देव्यात्रेयगृहेऽजायत । ततो वेदविदं भर्तारं प्राप्य विद्यानिधिं पुत्रं सरस्वती प्रासूत । ततो विद्यानिधिं कृतोपनयनं पुत्रं पिता सारस्वतं वेदमध्यापयामास यथावृद्धक्रमेण । ततस्तं बालत्वादल्पमेधसं पिता ताडयामास पृष्ठे वेणुदलेन । ततः सोऽरोदीत् । साऽपि तं दृष्ट्वा पुत्रमालिङ्ग्यातिदुःखिता बभूव ।

अश्रुपूर्णं तं वागीशा निवार्य च पुनः पुनः ।
ततः सा चिन्तयामास यस्याः कस्याः सुतो नहि ॥
प्राप्य मां ताड्यते बालो मम प्राणप्रियः सुतः ।

ततश्चतुःषष्टिकलाः सर्वान्वेदान्साङ्गान्ब्रह्मविद्यापर्यन्तान्सारस्वताय सरस्वत्युपादिशत् । क्षुत्पिपासे निवर्त्य वायुधारणां चोपादिशत् ।

ततः सम्पूर्णविद्योऽसौ कुरुक्षेत्रे वसन्मुनिः ।
तपस्तेपे महाभागो देवैरपि सुदुष्करम् ॥
ततः कालेन महता ह्यनावृष्टिरभूत्किल ।

कुरुक्षेत्रे सारस्वतं हृष्टं पुष्टमन्तर्वायुं धार्यमाणं तमृषिं ददृशुः ।

तमूचुर्मुनयः सर्वे शाकं देहीति नः प्रभो ।
अलं शाकेन भो विप्रा यदि शाको भवेद्भुवि ॥
सारस्वतो मुनिः प्राह तेभ्यो देहीति चण्डिकाम् ।
सुत शाकं प्रदास्यामि यदि शाकेन ते ह्यलम् ॥
शाकम्भरीति मुनिना प्रसन्नाऽकारि वै तदा ।
शाकाहारास्ततः सर्वे मुनयः कृतजीविताः ।
दुर्भिक्षे विनिवृत्तेऽप्यध्ययनं नास्मरंस्तदा ॥
अन्योन्यमभिजग्मुस्त उच्चरंश्च न कञ्चन ।
ततो विस्मृतवेदास्तु बभूवुर्मुनयो भृशम् ॥

ततोऽतिदुःखितेषु मुनिषु नारदेनोक्तं सारस्वतं कृतसर्ववेदाध्ययनं गत्वाऽध्ययनं कुरुध्वमिति । ततस्ते सारस्वतं प्रार्थयामासुः । अध्यापनं कुरुष्व भगवन्निति । ततः सारस्वतः प्रार्थितश्चतुःषष्टिमुनिगणसहस्रेभ्यश्चतुःषष्टिसहस्रवे दानध्यापयामास । ततस्तान्वेदांस्तच्छाखिनः साकल्येनाधीतवन्तः । तैत्तिरीयशाखिनस्तु साकल्येनाध्ययनं कृत्वा सर्ववेदविलक्षणां तैत्तिरीयशाखां दृष्ट्वाऽन्योन्यमूचुः । अहो, अतीव विस्मयोऽस्माकं सर्वविलक्षणां शाखामध्यापयति स्मास्मान्मूढान्कृत्वा निर्मिताम् । ततः सर्वे तैत्तिरीयशाखिनः सम्भूय सारस्वतमूचुः– नायं वेदस्त्वयाऽध्यापितः सर्ववेदविलक्षणत्वादिति ।

ततः सारस्वतः सर्वाञ्छ्रेष्ठान्मुनीन्प्राह वचः–

यद्ययं न भवेद्वेदः प्रतिज्ञां तु करोम्यहम् ।
अग्निप्रवेशनं कुर्यां भवन्तो वाचमीरिताम् ॥
तमूचुर्मुनयः सर्वे वचनं यत्त्वयोदितम् ।
यदि वेदक्रमं विप्र प्रतिज्ञां कुर्महे वयम् ॥

ततः सारस्वतेन सहिताः सर्वे मुनयस्तत्र तत्र मुनीन्गत्वा निर्णेतुं न शक्नुमः, इति तैरुक्ता ब्रह्माणं जग्मुर्यथायथं प्रतिज्ञा निवेदिताः । ब्रह्माऽपि मुनिं सारस्वतमाह । सत्यं प्रतिज्ञातं तत्रभवता सारस्वतेन । सारस्वतो वेदपाठः सारस्वतोक्तक्रमेणैवाध्येतव्योऽन्यथाऽध्ययनफलं नास्तीति । तत इतरान्मुनीन्प्राह । सत्यं न पाठक्रमेणार्थानुष्ठानक्रमो भवतीति । तस्मात्सर्वैर्जितं नाग्निप्रवेशनं कर्तव्यमितीतिहासः । काण्डानुक्रमणरीत्या सारस्वतपाठेन वा वेदाध्ययनमवश्यं कर्तव्यम् ।

तथा च श्रुतिः–

“तस्मात्स्वाध्यायोऽध्येतव्यो यं यं ऋतुमधीते तेन तेनास्येष्टं भवति” इति ।

स्वः स्वकीयोऽध्यायः शाखा ।

तदुक्तं भट्टपादैः–

“अत्र स्वाध्यायशब्देन स्वशाखैका तु गृह्यते” इति ।

अनेन च स्वाध्यायाध्ययनस्य प्राथम्यमावश्यकत्वं चोक्तं न तु द्वितीयवेदाध्ययनस्य निवृत्तिः ।

एवं च–“वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्” इत्यविरुद्धम् ।

याज्ञवल्क्योऽपि–

“वेद एव द्विजातीनां निःश्रेयसकरः परः ।
यं यं ऋतुमधीयीत तस्य तस्याऽऽप्नुयात्फलम्” इति ।

स्मृतिसारमुच्चये–

“वेदो यस्य शरीरस्थो न स पापेन लिप्यते ।
वेदात्मा स तु विज्ञेयः शरीरैः किं प्रयोजनम् ॥
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः ॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ॥
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ।
अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ॥
अनधीतो द्विजो यस्तु शास्त्राणि तु बहून्यपि ।
शृणोत्याब्रह्मणो नाशं नरकं स प्रपद्यते ॥
नाधीतवेदो यो विप्र आचारेभ्यः प्रवर्तते ।
नाऽऽचारफलमाप्नोति यथा शूद्रस्तथैव सः ॥
अनधीतस्य विप्रस्य पुत्रो वाऽध्ययनान्वितः ।
शूद्रपुत्रः स विज्ञेयो न वेदफलमश्नुते ॥

अध्ययनान्वितो वेदाध्ययनान्वितः ।

अनभ्यासाच्च वेदानामाचारस्य च लङ्नात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति” इति ।

बृहन्नारदीये–

“अनधीत्य तु यो वेदाञ्शास्त्राणि पठते द्विजः ।
शूद्रतुल्यः स विज्ञेयो नरकायोपपद्यते” इति ॥

अन्यच्च–

“शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धरिः स्मृतः ।
वेदाध्यायी तु यो विप्रः सर्वान्कामानवाप्नुयात्” इति ॥

तस्माद्ब्राह्मणेनावश्यं वेदोऽध्येतव्यः । तत्र वेदाभ्यासः पञ्चधा ।

तथा च स्मृतिः–

“वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा” इति ।

तत्राप्यादौ परम्परागतो वेदः पठनीयः । तथा च वसिष्ठः–

“पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।
प्रथमं तमधीयीत तच्छाखं कर्म चाऽऽचरेत्” इति ॥

परिबृंहणानि छन्दआदीन्यङ्गानि मीमांसादीन्युपाङ्गानि च । तैः सहितः पारम्पर्यागतो वेदो यस्तं प्रथममधीयीतेत्यर्थः ।

वाराहे–

“स्वशाखां प्रथमं यस्तु पठित्वाऽन्यां पठेद्यदि ।
प्रत्यक्षरं तु लभते गायत्र्या द्विगुणं फलम्” इति ॥

व्यासः–

“तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना” इति ॥

रहस्यमुपनिषत् ।

स्वशाखात्यागपूर्वकपरशाखाश्रयणे दोषमाह वसिष्ठः–

“यः स्वशाखां परित्यज्य परशाखां समाश्रयेत् ।
स शूद्रवद्बहिः कार्यः सर्वकर्मसु साधुभिः ॥
न जातु परशाखोक्तं बुधः कर्म समाचरेत् ।
आचरन्परशाखोक्तं शाखारण्डः स उच्यते ॥
अधीत्य शाखामात्मीयां परशाखां ततः पठेत् ।
तच्छाखीयैस्तु संस्कारैः संस्कृतो ब्राह्मणो भवेत्” इति ॥

जातु कदाचिदपीत्यर्थः । तच्छाखीयैः स्वशाखाप्रोक्तैः । शाबीयब्राह्मण उक्तत्वादष्टौ विकृतीरपि सति सामर्थ्ये पठेत् । तासां लक्षणानि तैत्तिरीयबह्वृच्यप्रातिशाख्यशिक्षादिभ्योऽवगन्तव्यानि9 । तैत्तिरीयाणां स्वप्रातिशाख्ये जटान्तविकृतिविषय एव प्रमाणोपलम्भात्सत्यपि सामर्थ्ये तावदेव वाऽध्ययनम् ।

संहितापदक्रमाध्यनस्य काम्यत्वमप्युक्तं बह्वृचारण्यके–10

“अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेण” इति ।

द्वयोः पदयोरक्षरयोर्वा यः सन्धिस्तस्याविच्छेदेनाध्ययनं तन्निर्भुजं संहितापारायणमुच्यते । द्वयोः पदयोः सन्धिराहित्येनोच्चारणं प्रतृण्णं पदपारायणम् । निर्भुजं प्रतृण्णं चैतदुभयमन्तरेण न केवलं निर्भुजं न केवलं प्रतृण्णमेतादृशं क्रमपारायणमित्यस्यार्थः । शाखाभेदस्त्वध्ययनभेदात्सूत्रभेदाद्वा वैजयन्तीकारैरुपोद्घातग्रन्थे प्रपञ्चितः ।

एतच्छाखाध्येतृऋषिपरम्परा, एतच्छाखायाः शकुनिवृषभवृक्षस्वरूपत्वं चोक्तं काण्डानुक्रमणिकायाम्–

“वैशम्पायनो यास्कायैतां शाखां प्राह पैङ्गये ।
यास्कः पैङ्गिस्तित्तिरय उखाय प्राह तित्तिरिः ॥

उखः शाखामिमां प्राह आत्रेयाय यशस्विने ।
तेन शाखा प्रणीतेयमात्रेयी इति प्रोच्यते ॥
यस्यां पदकृदात्रेयो वृत्तिकारस्तु कुण्डिनः ।
तां विद्वांसो महाशाखां भद्रमश्नुवते महत् ॥
त्रिशीर्षाणर्कांसं नवात्मानमष्टपुच्छम् ।
द्वात्रिंशत्पक्षं समन्वीक्षेच्छकुनिं ब्रह्मसम्मितम् ॥

उत्तमोपनिषदोऽस्य शिरोऽर्कावंसौ भुवनस्य पतेर्नव यान्यात्मा सः ।
कठविहितानि विदुः पुच्छेऽष्टौ यदपि च शेषं तौ पक्षौ ॥

मन्त्रात्मा धर्मशृङ्गोऽष्टास्य उपनिषत्ककुत् ।
विध्यङ्ग ऋषभः स्वर्विच्चतुर्होतृललामवान् ॥
शाखाद्यादिं विपाप्मानं विधिमन्त्रमयं सकम् ।
समान्तमेतं पन्थानं दिव आहुर्मनीषिणः ॥
रहस्यमूल ऋक्पर्णो यजुप्पुष्पप्रवालवान् ।
सामाथर्वस्कन्दशाखो विप्रभ्रमरसेवितः ॥
यज्ञकर्मफलः श्रीमान्ब्राह्मो वृक्षः साक्षादेषः ।
यस्तं विद्यात्सहर्षिभिर्विप्रः स स्वर्गच्छेदाप्त्वा कीर्तिम्” इति ॥

पूर्वमेकीभूय स्थिता वेदास्तत्तद्वेदाध्यायिनः सकल वेदाध्ययनं कर्तुमसमर्थान्दृष्ट्वाऽधीतवेदत्वसिद्धये जगदुपकाराय च वेदव्यासेन वेदा व्यस्तास्तत्तच्छाखापरिच्छिन्नाः कृताः ।

ततः स भगवान्वैशम्पायननाम्ने स्वशिष्याय यजुर्वेदं प्राह । ततः स वैशम्पायनो यास्कनाम्ने मुनय एतां तैत्तिरीयशाखां प्राह । स च यास्कः पैङ्गये । पलिङ्गव इत्यपि पाठः । स चास्मत्सूत्रानुगुणः ।

ततः पैङ्गिर्ऋषिस्तित्तिरये । स चोखाय । स चाऽऽत्रेयाय । यशस्वी त्यात्रेयस्य विशेषणम् ।

यशस्वित्वमेवाऽऽह–“तेन शाखा प्रणीतेयमात्रेयी इति प्रोच्यते” इत्यनेन ।

तेनाऽऽत्रेयेणेयं शाखाऽन्येभ्यः प्रणीताऽध्यापिता सत्यात्रेयीति सञ्ज्ञां प्राप्तवती । एतादृशं यश आत्रेयस्य । यस्याः शाखाया आत्रेय ऋषिः पदकृद्भवति । वृत्तिकारः कुण्डिन ऋषिर्भवति । एतादृशी तां महाशाखामधीतवन्तो विद्वांसो महद्भद्रं कल्याणमश्नुवते । अथैतच्छाखात्मकस्य वेदस्य शकुनिवृषभस्वरूपमाह– त्रिशीर्षाणमित्यारभ्य चतुर्होतृललामवानित्यन्तेन । त्रिशीर्षाणमर्कांसं नवात्मानमष्टपुच्छं द्वात्रिंशत्पक्षमेतादृशं शकुनिं समन्वीक्षेत्, यो जानीयात्स ब्रह्मणः सम्मतं ब्रह्मलोकं गच्छेदित्यर्थः । ब्रह्मसम्मितमितिपाठे शकुनेर्विशेषणम् । उत्तमा उपनिषदः शीक्षा ब्रह्मविद्भृगुरिति प्रश्नत्रयम् । एतासामुत्तमत्वं तु बाहुल्येन ब्रह्मज्ञानोपयोगित्वात् । अर्कौ प्रवर्ग्यकाण्डे अंसौ स्कन्धौ यस्य । भुवनस्य पतिः प्रजापतिः “प्रजापतिर्वै भुवनस्य पतिः” इति श्रुतेः । प्रजापतेर्यानि नव काण्डानि शाखादिं याजमानं चेत्यादिना नवाऽऽहुः कस्य तद्विद इत्य्-अन्तेनोक्तानि तानि तस्याऽऽत्मा । कठशाखाप्रवर्तकेन मुनिना प्रोक्तान्यष्टौ काठकानि पुच्छे पुच्छस्थाने विदुः । वेदविद इति शेषः । यदपि च शेषं काण्डं शेषभूतानि काण्डानि द्वात्रिंशत्तानि पक्षौ तस्य शकुनेः ।

इति शकुनिस्वरूपम् ।

वृषभस्वरूपम्

अथ वृषभस्वरूपम् ।

मन्त्रात्मा मन्त्रभाग आत्मा यस्य । घर्मौ प्रवर्ग्यकाण्डे ते शृङ्गे यस्य । अष्टौ काठकानि आस्यं मुखं यस्य सोऽष्टास्यः । उपनिषदः ककुद्यस्य । विध्यङ्गो ब्राह्मणान्यवशिष्टान्यङ्गानि यस्य । चतुर्होतारश्चित्तिः स्रुगित्यादयो मन्त्राः सब्राह्मणा ललामानि भूषणानि यस्य । एतादृशमृषभस्वरूपं यो वेद स स्वर्वित्स्वर्गविद्भवेदित्यर्थः । शाखा स्वशाखाऽऽद्या येषां ते स्वशाखाद्या अन्ये वेदास्त आदिर्मूलं यस्य तम् । अत्र तद्गुणसव्ँविज्ञानबहुव्रीहिर्ज्ञेयः । विपाप्मानं विगतकल्मषम् । विधिमन्त्रमयं मन्त्रब्राह्मणात्मकम् । सकं सुखसहितम् । समो वैषम्यरहितोऽन्तः प्रान्तो यस्य । एतादृशं दिवः स्वर्गस्य पन्थानं मार्गं मनीषिण ऋषय आहुः । वेदाध्ययनतदुक्तकर्माचरणमेव स्वर्गस्य पन्था इति तात्पर्याः ।

वृक्षस्वरूपम्

अथ वृक्षस्वरूपम् ।

रहस्यमुपनिषदो मूलं यस्य । ऋचः पर्णानि यस्य । यजूंषि पुष्पाणि प्रवालानि च यस्य । सामान्यथर्वाणः स्कन्धाः शाखाश्च यस्य । विप्रा एव भ्रमरास्तैः सेवितः । यज्ञकर्माण्येव फलानि यस्य । श्रीमाञ्शोभावानेष ब्राह्मो ब्रह्मरूप एव साक्षाद्भवति । यस्तं वृक्षं विद्याज्जानीयात्स ऋषिभिः सहितो विप्रोऽस्मिँल्लोके कीर्तिं पुण्यां कीर्तिमाप्त्वा प्राप्य स्वः स्वर्गं गच्छेदित्यर्थः । स हर्षिर्विप्र इति पाठे स ऋषिर्ऋषितुल्यो विप्र इत्यर्थः । हेति निपातोऽवधारणार्थः ।

ऋषिपरिज्ञानफलमप्युक्तमनुक्रमणिकायाम्–

“एतानृषीन्यजुर्वेदं यः पठन्वेद वेदवित् ।
ऋषीणामेति सायुज्यं सालोक्यं ब्रह्मणस्तथा” इति ॥

यो वेदविद्यजुर्वेदं पठन्नेतानुक्तानृषीन्वेद स ऋषीणां सायुज्यं ब्रह्मणः सालोक्यं चैतीत्यर्थः । सर्वोऽपि वेदः सार्थोऽध्येतव्यः ।

तदुक्तं पराशरेण–

“ज्ञातव्यः सर्ववेदार्थः सर्वकर्मप्रसिद्धये ।
पाठमात्रमधीयानः पङ्के गौरिव सीदति” इति ।

पङ्के कर्दमे ।

यास्कोऽपि–

“यद्गृहीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।

स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा” इति ॥

मीमांसकैरपि सार्थवेदाध्ययनम् ‘अथातो धर्मजिज्ञासा’ ‘अथातो ब्रह्मजिज्ञासा’ इति पूर्वोत्तरमीमांसादिभूतयोः सूत्रयोर्व्याख्यावसर उक्तम् ।

यजुर्वेदस्वरूपं त्रिभाष्यरत्ने–

“यजुर्वेदः पिङ्गलाक्षः कृशमध्यो बृहद्गलः ।
बृहत्कपोलः कृष्णाङ्घ्रिस्ताम्रः कश्यपगोत्रजः” इति ।

चरणव्यूहे प्रादेशमात्रत्वमप्युक्तम् ।

अथाध्ययनमुहूर्तः सङ्ग्रहे–

“उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ।
विद्यारम्भे व्रतोद्देशे क्षौरे चैव विशेषतः” इति ।

स्मृतिसारे–

“विद्यारम्भो व्रतं क्षौरं न भवेत्तु गलग्रहे” इति ।

गलग्रहास्तूपनयनकालनिरूपण उक्ताः ।

वारानाह मार्कण्डेयो विद्यारम्भं प्रकृत्य–

“वारे दिनेशभृगुसुज्ञबृहस्पतीनां विद्वानसौ भवति” इति ।

दिनेशः सूर्यः । भृगुः शुक्रः । सुज्ञो बुधः । वसिष्ठः–

“रविवारे तु पूर्वाह्णे विद्यारम्भो विधीयते ।
चन्द्रवारेऽपराह्णे तु विद्या गुर्वी विधीयते” इति ॥

नक्षत्राण्याह महेश्वरः–

“हस्तादित्रितयं तथा निर्ऋतिभे पूर्वान्त्यभेष्वश्विभे
मित्रर्क्षे च मृगादिपञ्चसु शुभः प्रारम्भ आद्यः स्मृतः ।
विद्यानां हरिभत्रये च दिवसे सूरेर्भृगोर्वा दिनेऽ-
नध्यायाख्यतदाद्यवर्जिततिथौ केन्द्रस्थितैः सद्ग्रहैः” इति ॥

हस्तादित्रितयं हस्तचित्रास्वातयः । निर्ऋतिभं मूलनक्षत्रम् । पूर्वा पूर्वात्रयम् । अन्त्यभं रेवतीनक्षत्रम् । अश्विभमश्विनीनक्षत्रम् । मित्रर्क्षमनूराधानक्षत्रम् । हरिभत्रयं श्रवणधनिष्ठाशततारकाः । सूरिर्बृहस्पतिः । भृगुः शुक्रः । अनध्यायदिनान्यनध्यायाद्यदिनानि च वर्जयित्वा केन्द्रस्थानस्थितैः सद्ग्रहैः शुभग्रहैर्युतैर्लग्नैर्युतासु तिथिषु च विद्यानामाद्यः प्रथमः प्रारम्भः कर्तव्य इत्यर्थः ।

अन्यच्च राजमार्तण्डः–

“विद्यारम्भः प्रशस्तो भवति मधुरिपौ प्राप्तबोधे शशाङ्के
शस्ते तीक्ष्णद्युतौ च त्रिदशपतिगुरावुद्गते चाथ शुक्रे ।
स्वाध्याये सिंहसंस्थं खरकिरणयुतं देवपूज्यं विहाय
शुक्रादित्यज्ञवारे त्रिदशपतिगुरौ केन्द्रसंस्थे न पापे” इति ॥

मधुरिपुर्विष्णुः । तस्मिन्प्राप्तबोधे सति । शशाङ्कश्चन्द्रस्तस्मिन्प्रशस्ते । तीक्ष्णद्युतिः सूर्यस्तस्मिंश्च प्रशस्ते सति । त्रिदशपतिगुरुर्बृहस्पतिस्तस्मिञ्ञ्शुक्रे चोद्गतेऽनस्तगे सति । खरकिरणः सूर्यस्तेन युतं देवपूज्यं बृहस्पतिं सिंहस्थं विहाय स्वाध्याये स्वाध्यायदिवसे । शुक्रादित्यबुधान्यतमवारयुते त्रिदशपतिगुरुर्बृहस्पतिस्तस्मिन्केन्द्रसंस्थे च सति विद्यारम्भः प्रशस्तो भवतीत्यर्थः । न पापे न निषिद्धस्थानस्थिते ।

“अनध्यायाः प्रदोषाश्च षष्ठी रिक्तास्तथैव च ।
वर्जनीयाः प्रयत्नेन विद्यारम्भे तु सर्वदा” इति ॥

अक्षरारम्भे वक्ष्यमाणो यो गणपतिहरिलक्ष्मीगुरुपूजादिविधिः सोऽत्रापि कार्यः ।

शास्त्रविशेषे वारविशेषमाह नृसिंहः–

“सर्ववेदांश्च शास्त्राणि चाभ्यसेत्सूर्यवासरे ।
कामशास्त्रं महातन्त्रं रोगघ्नं वैष्णवं तथा ॥

अङ्गशास्त्रं भिषक्शास्त्रं चान्द्रेऽह्नि सततं लभेत् ।
क्षुद्रशास्त्रं कुलघ्नं च रणवादाग्निशस्त्रकम् ॥
अस्त्रशस्त्रप्रयोगं च कुजवारांशकोदये ।
योगशास्त्रं महातन्त्रमद्वैतं ब्रह्मनैष्ठिकम् ॥
गीतकाद्यं च नृत्यं च कामशास्त्रं च सोमजे ।
सर्ववेदान्षडङ्गानि जीववारे समारभेत् ॥
मङ्गलं नृत्यवादित्रं श्रीकामं श्रीप्रतिष्ठितम् ।
पूजाङ्गवेदवेदार्थमारभेच्छुक्रवासरे ॥
शुभं वाऽप्यशुभं वाऽपि न स्मरेच्छास्त्रमर्कजे ।
विद्यारम्भो यदि स्यात्तु मन्दवारांशकोदये ।
पुराणमपि नाशाय नराणां तु न संशयः” इति ॥

कामशास्त्रं प्रसिद्धम् । महातन्त्रं मन्त्रशास्त्रम् । रोगघ्नं भिषक्शास्त्रम् । वैष्णवं विष्णुमन्त्रपूजादिप्रतिपादकम् । महातन्त्रशब्दो गोबलीवर्दन्यायेन वैष्णवातिरिक्तपरः । तथाशब्दः सूर्यवासरान्वयार्थः ।

“कामशास्त्रं मन्त्रशास्त्रं रविवारे समभ्यसेत्” ।

इति वाक्यान्तरसव्ँवादात् । अङ्गशास्त्रं सामुद्रिकम् । क्षुद्रशास्त्रं बौद्धादिशास्त्रम् । कुलघ्नमाभिचारिकशास्त्रम् । महातन्त्रत्वेन सूर्यवासरेऽभ्यासः प्राप्तः स एतस्मिन्नंशे न भवति । किं तु कुजवासर एतस्याभ्यासः कर्तव्य इति । रणशब्देन मल्लशास्त्रम् । अस्त्रशस्त्रप्रयोगस्याग्रे पृथगुपादानात् । वादो व्यवहारशास्त्रम् । अग्निशास्त्रमग्नियन्त्रनिर्माणादिशास्त्रम् । एतेन शिल्पं सर्वमुपलक्षणीयम् । योगशास्त्रं प्रसिद्धम् । महातन्त्रं साङ्ख्यशास्त्रन्यायशास्त्रधर्मशास्त्रादि । अद्वैतं वेदान्तशास्त्रम् । ब्रह्मनैष्ठिकं यत्याश्रमधर्मप्रतिपादकम् । गीतकाद्यं नारदादिप्रणीतं सङ्गीतशास्त्रम् । नृत्यं भरतप्रणीतम् । मङ्गलमलङ्कारादिशास्त्रम् । श्रीकामं श्रीप्रदायकम् ।

अध्ययनारम्भकाले क्षुतं न हानिकृदित्युक्तं प्रतापमार्तण्डे ज्योतिर्निबन्धे च–

“भैषज्ये वाहनारोहे आसने शयनेऽशने ।
विद्यारम्भे बीजवापे क्षुतं हानिकरं नहि” इति ॥

इत्यध्ययनारम्भकालः ।

अध्यापकधर्माः

अथाध्यापकधर्माः ।

तत्र यमः–

“सततं प्रातरुत्थाय कृतनित्यक्रियो गुरुः ।
प्राणायामत्रयं कुर्याच्छिष्यमध्यापयेत्ततः” इति ॥

मनुरपि–

“अध्यापयिष्यमाणस्तु यथाकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽऽरमेत्” इति ।

अध्यापयिष्यमाण इत्यत्र गुरुरिति शेषः । आरमेदित्यत्रान्तर्भावितो णिच् । तेन शिष्यमारमयेदित्यर्थो लभ्यते । अथवाऽऽरमेदिति यथाश्रुतमेव । अध्यापनान्निवर्तेतेत्यर्थः ।

स्मृतौ–

“एकः श्रोता दक्षिणतो निषीदेद्द्वौ वा भूयांसस्तु यथावकाशम्” इति ।

अस्यार्थः–एकः श्रोताऽध्येता दक्षिणत उपविशेदथवा द्वौ शिष्यौ । अथवा भूयांसो बहवः शिष्या यथावकाशमनियम उपवेशन इति ।

स्मृत्यन्तरे–

“आसने तु समासीन आचान्तः प्राङ्मुखो गुरुः ।
प्रणवं प्राक्समुच्चार्य शिष्यमध्यापयेत्सदा” इति ॥

तत्रैव–

“अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपदेशार्थं कुर्याद्वृत्तिं विलम्बिताम्” इति ॥

अभ्यासार्थे वेदाभ्यासार्थे द्रुतां त्वरितां वृत्तिं जानीयात् । प्रयोगार्थे कर्मार्थे मन्त्रपाठे मध्यमां वृत्तिं जानीयात् । शिष्योपदेशार्थे शिष्याध्यापनार्थे विलम्बितां वृत्तिं जानीयादित्यर्थः ।

याज्ञवल्क्यः–

“कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः” इति ॥

कृतमुपकारं जानन्तीति कृतज्ञाः । अद्रोहिणो द्रोहरहिताः । मेधाविनो धारणावन्तः । शुचयः शुद्धाः । कल्पा नीरोगाः । अनसूयका गुणिनां दोषानाविष्करणशीलाः । शक्ताः शुश्रूषायाम् । आप्ता अप्रतारकाः । ज्ञानदा विद्याप्रदाः । वित्तदा अर्पणपूर्वमर्थदातारः । धर्मग्रहणमर्थोपलक्षणम् । नन्वर्थतोऽप्यध्याप्य इति न सङ्गच्छते । भृताध्ययनभृतकाध्यापनयोः प्रायश्चित्तस्मरणात् ।

तथा च पराशरप्रायश्चित्तकाण्डे विष्णुः–

“भृतकाध्ययनं कृत्वा भृतकाध्यापिनस्तथा ।
अनुयोगप्रदानेन त्रीन्पक्षान्यावकं पिबेत्” इति ॥

मैवम् । भृतिसङ्कल्पपूर्वकमध्यापनं प्रतिषिद्धमितरस्य वृत्तिहेतुत्वेनाविरोधात् । अत एव मनुः–

“धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।
तत्र विद्या न वक्तव्या न्युप्तं बीजमिवोखरे” इति ॥

विहिताननुष्ठात्रे नास्तिकाय वा विद्यादाने धर्माभाव इत्यर्थः ।

यमोऽपि–

“धर्मार्थौ यत्र न स्यातां न शुश्रूषाऽपि तद्विधा ।
विद्यया सह मर्तव्यं न विद्यामुखरे वपेत्” इति ॥

अनन्तरोदाहृतभृतकाध्यापनं कृत्वेतिवाक्यगतस्यानुयोगशब्दस्यार्थो मिताक्षरायाम्–

“अधीयानस्य विप्रादेस्तिरस्कारोऽनुयोगः” इति ।

मनुर्ज्ञानदोऽप्यध्याप्य इत्य्-आह–

“आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
आप्तशाखोऽर्थदः साधुस्त्वध्याप्यः स्यात्तु धर्मतः” इति ॥

असूयकादयो नाध्याप्या इत्य्-आह विद्यैव–

“विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि ।
असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम्” इति ।

**श्रुत्यन्तरे तु–असूयकायानृजवे शठायेति पाठान्तरम् । असूयकायानृजवेऽयतायेत्यत्रायतायेति पदच्छेदः । विद्या ब्राह्मणं प्रत्याजगाम पश्चात्तं प्रार्थयामास । हे ब्राह्मण त्वं मां गोपायानधिकारसकाशाद्रक्ष । ते तव शेवधिर्निधिरहमस्मि । निधिर्यथाऽभीष्टप्रदाता तथाऽहमस्मीत्यर्थः । प्रार्थ्यमाह–**असूयकायेत्यादिना । जातं निश्चयं गुरवे प्रदर्श्य तद्दूषणार्थमेवैदम्पर्येण यतमानो हेत्वाभासोपन्यासशीलो दुष्टोऽसूयकः । गुरूक्तिः सर्वाऽपि यथार्थैवेति ज्ञानं विश्वासः । स नास्ति यस्य सोऽविश्वासोऽनृजुश्च । गुरूक्तिसमनन्तरमेव जातनिश्चयोऽपि यः पूर्वमेवैतज्ज्ञातचरमिति, इदानीमपि न ज्ञातमिति वा प्रदर्शयितुं यतते स शठः । अयतायेतिपाठेऽशुचय इत्यर्थः । तेन पाठद्वयमपि सङ्ग्राह्यम् । एतादृशाय पुरुषाय न मां ब्रूयाः । तथा तथा सति वीर्यवत्यभीष्टफलदात्री स्यां नान्यथेति श्रुत्यर्थः ।

नारदः–

“गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या चतुर्थं नोपलभ्यते” इति ॥

चतुर्थं साधनम् ।

विष्णुः–“नापरीक्षितं याजयेन्नाध्यापयेन्नोपनयेद्यदि तु यः

प्राह यस्तु पृच्छति तयोरन्यतरः प्रैति दोषं चाधिगच्छति” इति । प्रैतीत्यस्य मरणं गच्छतीत्यर्थः ।

धर्मसूत्रे–

“शयानश्चाध्यापनं वर्जयेन्न तस्यां शय्यायामध्यापये
द्यस्यां सह शयीत” इति ।

दिवा नक्तं च शयानस्याध्यापनप्रतिषेधः । स्वस्य तु धारणार्थमधीयानस्य न दोषः । यस्यां शय्यायां भार्यया सह रात्रौ शयीत तस्यां शय्यायामासीनोऽपि नाध्यापयेदिति व्याख्यातमुज्ज्वलाकृता ।

अन्यच्च तत्रैव–

“प्रवचनयुक्तो वर्षाशरदन्तं मैथुनं न चरेत्” इति ।

प्रवचनमध्यापनं तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेदिति व्याख्यातं तेनैव ।

तथा–

“अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यो मनसा वा स्वयमूर्ध्वमर्धरात्रादध्यापनं नापररात्रमुपोत्थायानध्याय इति सव्ँविशेत्” इति ।

निशायामनध्यायोऽध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मोपदेशोऽनुज्ञायते । निशायामनध्यायस्य प्रतिप्रसवो मनसा वा स्वयं चिन्तयेदिति । ऊर्ध्वमर्धरात्रादध्यापनमित्ययमपि प्रतिप्रसवः । निशायाः षोडशनाडिका आरभ्याध्ययनं भवति । रात्रेस्तृतीयो भागोऽपररात्रम् । ऊर्ध्वमर्धरात्रादुपोत्थायोत्थायाध्यापयेत् । नापररात्रं सव्ँविशेन्न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति किं पुनः स्वाध्याये ।

तथा च मनुः-

“न निशायां परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्” इति ।

(व्याख्यातं11 तेनैव । )

तथा–

“न समावृत्ते समादेशो विद्यते” इति ।

समावृत्तशिष्यं प्रत्याचार्येणसमादेशो न देय इदं त्वया न कर्तव्यमिति । यथाऽसमावृत्तदशायां दीयत उदकुम्भमाहरेति । नैमित्तिके स्वेच्छया करणे न प्रतिषेध्य इति व्याख्यातं तेनैव ।

तथा–

“तस्मिन्गुरोर्वृत्तिः पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेन्न चैनमध्ययनविघ्नेनाऽऽत्मकार्येष्वभ्यु

परुन्ध्यादनापत्स्वन्तेवास्यनन्तेवासी भवति

विनिहितात्मा गुरावनैपुण्यमापद्यमानः” इति ।

तस्मिन्नन्तेवासिनि गुरोर्वृत्तिप्रकारो वक्ष्यते । एनं शिष्यं पुत्रमिवाभ्याहितः स्यादित्यनुकाङ्क्षन्सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयन्नविगूहयन्सुयुक्तः सुष्ट्ववहितस्तत्परो भूत्वा विद्यां ग्राहयेत् । न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेषूपरुन्ध्यादनापत्सु । उपरोधोऽस्वतन्त्रीकरणम् । अनापत्स्वितिवचनादापद्यध्ययनविघातेनाप्युपरोधे न दोषः । आपद्यमान इत्य्-अन्तर्भावितो ण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोराचार्ययोर्विनिहितात्मा गुरावनैपुण्यमापादयति नायं प्रदेयः सम्यगुक्त इति सोऽन्तेवासी न भवति स त्याज्य इत्यर्थ इति व्याख्यातं तेनैव ।

तथा–

“अपराधेषु चैन सततमुपालभेताभित्रासोपवासोदकोपस्पर्शनान्यदर्शनमिति
दण्डो यथामात्रमानिवृत्तेः” इति ।

अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेरन्नि(ते)दमयुक्तं त्वया कृतमिति । अभित्रासो भयोत्पादनम् । उपवासो भोजनेऽन्नालाभः । उदकोपस्पर्शनं शीत उदके स्नापनम् । अदर्शनं यथाऽसावात्मानं न पश्यति तथा करणं गृहप्रवेशनिरोधः । सर्वत्र ण्यन्तात्प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यथापराधं तदनुरूपं व्यस्ताः समस्ताश्चाऽऽनिवृत्तेः, यावदसौ12 नतोऽपराधान्निवर्तते तावदेते दण्डा इति व्याख्यातं तेनैव13

शिष्यताडनप्रकारो मनुनोक्तः–

“भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा” इति ॥

अत्र सोदरविशेषणाद्भिन्नोदरे भ्रातरि ताडनं प्रतिषिद्धं भवति ।

वृद्धगौतमोऽपि–

“शिष्यशिष्टिरवधेनाशक्तौ रज्जुवेणुदलाभ्यां
तनुभ्यामन्येन घ्नन्राज्ञा शास्यः” इति ।

शिष्टिः शासनम् । अवधेन प्रहारं विना । प्रहारं विना शासनासम्भवे प्रहारेणैव शासनम् । तच्च रज्जुवेणुदलाभ्यां तनुभ्यां सूक्ष्माभ्यां न तु स्थूला भ्याम् । तनुभूतरज्जुवेणुदलव्यतिरिक्तेनान्येन पाषाणखण्डादिना यः शिष्यं हन्ति प्रहरति राज्ञा स शास्य इत्यर्थः । एतच्च शिरसि न कार्यम् ।

तथा च मनुः–

“पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।
अतोऽन्यथा तु प्रहरंश्चोरस्याऽऽप्नोति किल्बिषम्” इति ।

उत्तमाङ्गं शिरः ।

यमः–

“योऽर्थार्थी सन्द्विजोऽध्यायान्पाठयेत्तु विधानतः ।
अनध्याये च तं प्राहुर्वेदविप्लविकं14 बुधाः” इति ॥

अध्याया वेदाः । अनध्याये चेत्यत्र चकारः पूर्वार्धस्थस्य द्विजोऽध्यायान्पाठयेदित्यस्यानुकर्षणार्थः ।

वसिष्ठः–

“यो हि विद्यामधीत्यार्थिने न सम्प्रददाति न स धर्मभाग्भवति” इति ।

विद्यादानस्य फलमाह सव्ँवर्तः–

“विद्यादानेन महति ब्रह्मलोके महीयते” इति ।

इति सङ्क्षेपेणाध्यापकधर्माः ।

सङ्क्षेपेणाध्येतृधर्माः

अथ सङ्क्षेपेणाध्येतृधर्माः ।

तत्र मनुः–

“अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
कृतब्रह्माञ्जलिश्चैव लघुवासा जितेन्द्रियः” इति ।

अत्र द्विराचमनमुक्तं कूर्मपुराणे–

“स्नानान्तेऽध्ययनारम्भे कासश्वासागमे तथा ।
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।
सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्ततः” इति ॥

ब्रह्माञ्जलिस्वरूपं तु स एवाऽऽह–

“संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः” इति ।

संहत्य संहतौ कृत्वेत्यर्थः ।

अत्राऽऽदावुपसङ्ग्रहणमुक्तं धर्मसूत्रे–

“उदिते त्वादित्य आचार्येणाध्ययनाय समेत्योपसङ्ग्रहणम्” इति ।

तत्प्रकारस्तूपनयनप्रकरण उक्तः । एतच्चान्तेऽपि कर्तव्यम्–

“ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा” इति मनूक्तेः ।

ब्रह्म वेदस्तस्याऽऽरम्भ इत्यर्थः ।

अध्ययनारम्भ ओङ्कारोऽपि वक्तव्यः,“ओङ्कारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्यते” इतिधर्मसूत्रात् ।

ओङ्कारः प्रणवः । ब्रह्म वेदः । एतदादि, ओङ्कारादि । प्रतिपद्यत आरभते । अन्यत्स्पष्टमिति व्याख्यातमुज्ज्वलाकृता ।

भारद्वाजशिक्षायाम्–

“प्रश्नानुवाकाद्यारम्भे सविसर्गोच्चको हरिः ।
न सन्धिः प्रणवे15 नित्यं विरामे स्वरितो भवेत्” इति ।

प्रश्नाश्चानुवाकाश्च प्रश्नानुवाकाः । तेषु य आद्यः प्रश्नोऽनुवाको वा तस्याऽऽरम्भ इत्यर्थः । प्रश्नानुवाकारम्भ इत्येतावदुच्यमाने सर्वपश्नानुवाकारम्भे वक्ष्यमाणो विधिः स्यात्स मा भूदित्येतदर्थमाद्यग्रहणम् । सविसर्गश्चोच्चकश्च सविसर्गोच्चकः । सविसर्गः प्रथमैकवचनान्त इत्यर्थः । उच्च एवोच्चकः । उदात्त इति यावत् । एतादृशो हरिशब्दः प्रश्नानुवाकाद्यारम्भे वक्तव्यः । प्रणवेऽग्रे सति नित्यं सदा हरिशब्दे सन्धिर्न कर्तव्य इत्यर्थः । विरामेऽवसानेऽध्ययनसमाप्तौ तु हरिशब्द उच्चक उदात्तो न भवति किन्तु नित्यं सदा स्वरितः, अन्त्यस्वरित एव भवेत् । सन्ध्यभावोऽप्यत्रास्त्येवेति16

प्रणवानन्तरं व्याहृतीस्तदनन्तरं सावित्रीं चानुब्रूयात् ।

“प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ।
सावित्र्याश्चानुवचनं ततो वृत्तान्तमारभेत्” इति सव्ँवर्तोक्तेः ।

वृत्तान्तोऽध्ययनम् ।

प्रणवात्पूर्वं प्राक्कूलदर्भासनोपवेशनं पवित्रैः पावनं प्राणायामत्रयं चाऽऽह मनुः–

“प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति” इति ।

प्राक्कूलाः प्रागग्रा दर्भाः ।

पवित्रपावनं गौतम आह–“प्राणोपस्पर्शनं दर्भैः” इति । प्राणाः शीर्षण्यानि चक्षुरादीनीन्द्रियाणि तेषामुपस्पर्शनं दर्भैर्मार्जनमिति हरदत्तः ।

अध्ययनान्तेऽप्योङ्कारो वाच्यः ।

“प्रणवं ब्राह्मणः कुर्यादादावन्ते च सर्वदा” इति मनूक्तेः ।

ब्रह्मणो वेदस्य ।

भूमिं स्पृष्ट्वा विरामः कार्यः । तदुक्तं स्मृत्यन्तरे–

“ओङ्कारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् ।
ओङ्कारं च पुनः कृत्वा भूमिं स्पृष्ट्वा समापयेत्” इति ।

अध्ययनमिति शेषः ।

अध्ययनसमाप्तावप्युपसङ्ग्रहणं कर्तव्यं शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसङ्ग्रहणं कार्यमिति विष्णूक्तेः ।

(व्यासशिक्षायाम्–17

“काण्डप्रश्नानुवाकान्ते दशाष्टौ पञ्च मात्रिकाः ।
ग्रन्थानां तु समाप्तौ तत्त्रिगुणः काल उच्यते” इति ।

काण्डादीनां समाप्तौ विरामकालाः क्रमाद्दशादिमात्रा भवेयुः । काण्डान्ते यथा–जनदुस्रियासु । प्रश्नान्ते यथा–कल्पयाति । अनुवाकान्ते यथा–पशून्पाहि । ग्रन्थानां समाप्तौ विरामे तत्काण्डविरामस्त्रिगुणः कालस्त्रिंशन्मात्र इत्यर्थः । यथा समुद्रो बन्धुः । येभ्यश्चैनत्प्राहुः । ओम्, इति ।

सर्वसम्मतशिक्षायामपि–

“समाप्तावनुवाकस्य मात्राणां पञ्चकं स्मृतम् ।
अष्टौ दशेति विज्ञेयं प्रश्ने काण्डे यथाक्रमम् ॥
तन्त्राणां तु समाप्तौ तत्त्रिगुणः काल इष्यते ।
वेदस्योपक्रमे विद्वानवसानेऽप्यतन्द्रितः ॥
उच्चरेत्प्रणवं ब्रह्म रक्षायै छन्दसां स्फुटम् ।
आदावनुक्ते स्रवति परस्ताच्च विशीर्यते ॥
प्रारम्भकश्चतुर्मात्रो वेदस्थः स्यात्तदर्धकः ।
अध्ययनानुवाकान्त्यः कर्माद्यश्च त्रिमात्रकः ॥
प्रारम्भाद्याः क्रमान्नादा मात्राणुद्व्यणुमात्रिकाः ।
वेदारम्भे तु यो नादो मकारो मात्रिको भवेत्” इति ॥

तन्त्रं ग्रन्थः । स्रवति च्यवते । विशीर्यत इत्यत्र वेद इति शेषः ।

कारीर्याद्यध्ययने व्रतविशेषः काण्डानुक्रमणिकायाम्–

“अक्षारालवणं भूमौ मुखेन पशुवद्द्विजः ।
चतूरात्रं तु भुञ्जीत कारीर्यध्ययने व्रतम् ॥
कारीरीव्रतवच्चापि कलाव्रतमिहोच्यते ।
न तत्र पशुवद्भुञ्ज्यान्न च भूमाविति स्थितिः ॥
कलाव्रतं तु यत्प्रोक्तमग्निकाण्डे तदुच्यते ।
सावित्रेभ्यः प्रभृत्यूर्ध्वमौ(मो)षध्यनुवाकादिति ।
समित्कलापं त्र्यहमाहरन्ति [च] मृगारेष्ट्याम्” इति ॥

**कारीर्यो मारुतमसि मरुतामोज इत्य्-आदयश्चत्वारोऽनुवाकास्तदध्ययन एतद्व्रतं भवतीत्यर्थः । कारीरीव्रतवदेव कलाव्रतं कलासञ्ज्ञकं व्रतं यदुक्तं तदग्निकाण्डेऽग्निकाण्डाध्ययने भवति । अनेन सर्वस्मिन्नप्यग्निकाण्डे प्राप्तौ नियममाह–**सावित्रेभ्य इत्यनेन । सावित्राः, युञ्जानः प्रथमं मन इत्य्-आद्या अष्टौ मन्त्रास्तेभ्य आरभ्य या जाता ओषधय इत्यनुवाकपर्यन्तानामध्ययन एतद्व्रतं भवति । मृगारेष्टिः, अग्नेर्मन्व इत्यनुवाकस्तस्याध्ययन इत्यर्थः । वैश्वदेवमन्त्राध्ययने व्रतविशेष उक्तो धर्मसूत्रे–

“तेषामुपयोगे द्वादशाहं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं
चोत्तमस्यैकरात्रमुपवासः” इति ।

तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे नियमपूर्वके ग्रहणे द्वादशाहं ब्रह्मचर्यं मैथुनवर्जनमधःशय्या स्थण्डिलशायित्वं क्षारलवणादिवर्जनं च भवति । उपयोक्तुरेव व्रतम् ।

अन्ये तु पत्न्या अपीच्छन्ति, उपयोगः प्रथमप्रयोगः । तत्र पत्न्या अपि सहाधिकार इति वदन्तः । उत्तमस्योत्तमेन वैहायसमितिवक्ष्यमाणस्य ये भूताः प्रचरन्तीत्यस्यैकरात्रमुपवासः कर्तव्य इति व्याख्यातमुज्ज्वलाकृता । अस्मिन्व्याख्यान उपयोक्तुरेव व्रतमित्यारभ्य वदन्त इति मतान्तरप्रदर्शनम् । नियमपूर्वकं ग्रहणं गुरोः सकाशाद्विद्याग्रहणं तदर्थमित्यर्थः ।

भद्रप्रपाठकाध्ययने विशेषः सव्ँवत्सरमेतद्व्रतं चरेदित्यनुवाक उक्तः ।

प्रवर्ग्यप्रपाठकाध्ययने विशेषः प्रवर्ग्यसूत्रे–

“अवान्तरदीक्षां व्याख्यास्याम उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रूणि वापयित्वा प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य चतस्त्र औदुम्बरीः समिध आर्द्रा अप्रच्छिन्नाग्राः18 प्रादेशमात्रीर्घृतान्वक्ता19 अभ्याधापयति पृथिवी समिदित्येतैः प्रतिमन्त्रमग्ने व्रतपते व्रतं चरिष्यामीत्येतैर्यथारूपं देवता उपतिष्ठतेऽथैन सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति प्रथमोत्तमयोर्वा ततः सम्मील्य वाचं यच्छत्यथास्याहतेन वाससा प्रदक्षिण समुख शिरो वेष्टयित्वाऽस्तमिते ग्रामं प्रपादयति वाग्यत एता रात्रिं तिष्ठत्यास्ते वा श्वोभूते प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य वयः सुपर्णा इति मुखं विवेष्ट्य य उदगात्तच्चक्षुरित्यादित्यमुपतिष्ठतेऽथैन षट्तयमभिविदर्शयति सप्ततयमित्येकेऽग्निमादित्यमुदकुम्भमश्मान हिरण्यं वत्सं महानग्न्या सप्तमीं त्रीण्यादितोऽभिविदर्श्योत्तराण्यभिविदर्शयत्यथास्य ब्रह्मचर्यमधि20 नित्यं न नक्तं भुञ्जीत यदि भुञ्जीतावज्वलितं भुञ्जीत न मृन्मयं प्रतिधयीत न स्त्रिया न शूद्रेण सम्भाषेत न च्छत्रं नोपानहौ धारयेन्न चक्रीवदारोहेन्न समाजमीक्षेत नापपात्रं न हर्म्याणि न शवं न स्नायान्नाञ्जीत नाभ्यञ्जीत ॥ १५ ॥ अष्टमीं पर्वाणि चोपवसेन्न च सव्ँविशेदेतस्मिन्नेव सव्ँवत्सरेऽधीयीत पुनर्यावदध्ययनमेतद्व्रतं चरेत्सव्ँवत्सरे पर्यवेते प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य द्यौः समिदित्यावृत्तैः समिधोऽभ्याधायाऽऽदित्य व्रतपत इत्य्-आवृत्तैर्देवता उपतिष्ठते गुरवे वरं दत्त्वा केशश्मश्रूणि वापयतेऽथास्य स्वाध्यायमधि नित्यं नानुत्सृष्टाध्यायोऽधीयीत न नक्तं नाभिदोषं ब्रह्मचर्यमापद्य न दत्तः प्रक्षाल्य न मा सं भक्षयित्वा न केशान्प्रविध्य न केशश्मश्रूणि वापयित्वा न स्नातो नानुलिप्तो न स्रग्वी नाक्तो नाभ्यक्तो नाऽऽर्द्रो नाऽऽर्द्रे नानपवृष्टे नाभ्रे न च्छायायां न पर्यावृत्त आदित्ये न हरितयवान्प्रेक्षमाणो न ग्राम्यस्य पशोरन्ते नाऽऽरण्यस्य नापामन्ते नाशृतमुत्पतितं न लोहितं दृष्ट्वा नापपात्रं न हार्म्याणि न शवं न शरीराणि प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनमधीयीत वरं वा दत्त्वौपासनेऽध्येष्यमाणो नान्या वाचो वदेदध्येष्यमाणो मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाऽधीयीताधीत्य चोत्तमेनैवं कर्मसु यत्र क्व चाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाऽधीयीत न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्य ग्राममन्यदधीयीतान्यदधीयीत” इति ।

केशशब्दस्यादन्तत्वात्पूर्वनिपातेऽपि21 केशपूर्वकवपनस्याऽऽसुरत्वेन श्रुतौ निन्दितत्वान्न तथा वपनं किं तु श्मश्रुपूर्वकमेव वपनम् । खिल आवृतः22 । अच्छदिर्दर्शो यत्र गृहच्छदींषि न दृश्यन्त एतादृशे देश इत्यर्थः । सम्परिस्तीर्येत्यत्रत्यसंशब्दाद्बहुलदर्भैः परिस्तरणं न तु दर्भसङ्ख्यानियमः । यथारूपं यथालिङ्गम् । अथशब्दः कालाव्यवधानार्थः । प्रभृतीः, आदीः । अभिव्याहारयति पाठयति । अशक्तौ प्रथमोत्तमयोरनुवाकयोरादी वा पाठयति । ततः, अभिव्याहरणोत्तरम् । सम्मील्येत्यत्र नेत्रे इति शेषः । अथशब्दः कालाव्यवधानार्थः । अहतम्–“ईषद्धौतं23 नवं श्वेतं सदशं यन्न धारितम्” इतिलक्षणलक्षितम् । परिभाषयैव प्रादक्षिण्ये सिद्धे पुनर्वचनं शिरोवेष्टनस्य लोकरीतिसिद्धत्वेन परिभाषाया अप्रवृत्तिः, तथा चाप्रादक्षिण्यमपि कदाचिदित्याशङ्कां वारयितुमनुकूलवाची वा प्रदक्षिणशब्दः । प्रपादयति प्रापयति । एतां रात्रिम् । यस्मिन्दिने एतदन्तं24 कर्म कृतं तदीयां रात्रिमित्यर्थः । “कालाध्वनोरत्यन्तसं योगे” इति सूत्रेणात्यन्तसय्ँयोगे द्वितीया, तेन कृत्स्नां रात्रिं तिष्ठेदित्यर्थः सिद्धो भवति । अशक्तावास्ते । अत्रापि वाग्यत एतां रात्रिमित्यनुवर्तते । मुखं विवेष्ट्येति वचनान्मुखस्यैव विवेष्टनं न तु शिरसोऽपि । षट्तयमित्यत्र सङ्ख्याया अवयवे तयप् । एवं सप्ततयमित्यत्रापि । महानग्न्या वत्सतरी कुमारी वा । वत्सं महानग्न्यां चेत्येतावतैव सिद्धे महानग्न्या सप्तमीमिति वचनं षट्तयपक्षे महानग्न्याया एवाभाव इति प्रदर्शनार्थम् । आदितः क्रमेण । अभ्यभिमुखं सम्मुखमिति यावत् । एनमिति शेषः । अर्थादेव क्रमे सिद्ध इदं वचनमश्मादिषूत्तरेषु पदार्थेषु क्रमनियमो नेति प्रदर्शनार्थम् । अष्टाङ्गमैथुनत्यागो ब्रह्मचर्यं तदाचरन्न नक्तं भुञ्जीतेत्यादिधर्माननुतिष्ठेत् । नित्यग्रहणाद्यदा कदाचिदशक्तिवशेन भोजने न दोष इति गम्यते । नित्यं नक्तं यदि भुञ्जीत तदा दर्भोल्मुकैरुपर्यवज्वाल्य भुञ्जीत । न मृन्मयं प्रतिधयीत मृन्मयपात्रेण जलपानं न कुर्यात् । न स्त्रिया न शूद्रेण सम्भाषेत । न स्त्रिया शूद्रेण च सम्भाषेतेत्येकेन नञैव सिद्धौ द्वितीयनञो वचनादेवं ज्ञायतेऽन्यत्र स्त्रिया सह कदाचित्सम्भाषणे नातीव दोषः । अत्र तु कदाचिदपि स्त्रियाऽपि सह भाषणं नैव कार्यमिति । चक्रीवद्गर्दभादि नाऽऽरोहेत् । सामान्यनिषेधादेवात्रापि निषेधे सिद्धेऽत्र वचनं कर्माङ्गत्वार्थं, तेन भ्रान्त्यादिना गर्दभाद्यारोहणे गदर्भाद्यारोहणनिमित्तकप्रायश्चित्तेन सह कर्माङ्गलोपप्रायश्चित्तमप्यत्र भवति । एवमन्यत्रापि । समाजो जनसमूहः । अपपात्राश्चण्डालाः । तानपिनेक्षेत । हर्म्याणि गृहाणि नेक्षेत । न च शवमीक्षेत । न स्नायादित्यनेन निमज्जनरूपस्नाननिषेधः । पर्वाणि पौर्णमास्यमावास्यादीनि । सव्ँवेशनं निद्रा ।एतस्मिन्नेव वत्सरेऽधीयीत । यस्मिन्सव्ँवत्सर एतद्व्रतमारब्धं तस्मिन्नेव सव्ँवत्सरेऽनुवाकादीनामध्ययनं कर्तव्यमित्यर्थः । एतद्व्रतं यावदध्ययनं तावत्पर्यन्तं कर्तव्यम् । पुनःशब्दादेतस्मिन्नेव वत्सरे कालान्तरे पुनरेतदध्ययने यावदध्ययनं व्रतं कर्तव्यम् । अध्ययने कृत्स्ने कृते मध्ये विरामे न व्रतम् । किं तु, अध्ययनसमानकालिकमेव व्रतमिति । सव्ँवत्सरे पर्यवेते गते । आवृत्तैर्विपरीतैः । स्वाध्यायमधीत्यत्र नित्यशब्दोऽन्वेति । स्वाध्याये नित्यं सर्वदा ग्रहणधारणाध्ययनयोर्वक्ष्यमाणा धर्मा भवन्ति । नानुत्सृष्टाध्यायोऽधीयीतेति । उत्सर्जनोत्तरमेवाध्ययनमेतस्य कर्तव्यं न तु तत्पूर्वमुपाकर्मणि कृतेऽपीत्यर्थः । उत्सर्जनोत्तरं यावदुपाकर्म तावदनध्यायसत्त्वेऽपि वचनादध्ययनम् । अथवा नोत्सृष्टोऽनुत्सृष्टः । अध्यायो वेदः । अनुत्सृष्ट उत्सर्जनविधिनाऽनुत्सृष्टोऽध्याय एतद्व्यतिरिक्तो वेदो येन सोऽनुत्सृष्टाध्यायः । एतादृशः सन्नाधीयीतेति । एतद्व्यतिरिक्तवेदभागस्योत्सर्जने जात एवैतदध्ययनं कर्तव्यमिति । नक्तं रात्रौ । अभि दोषं, दोषा रात्रिस्तस्या अभि पूर्वतने घटिकाद्वयात्मके दिनान्तात्मके काले । प्रविध्य कङ्कतादिना प्रसाध्य । नानुलिप्तो गन्धादिना । न स्रग्वी मालावान् । नाऽऽर्द्रे नानपवृष्ट इत्येतद्द्वयं देशविशेषणम् । अभ्र इति सति सप्तमी । अभ्रे सति नाधीयीतेत्यर्थः । न च्छायायां नाऽऽदित्यानभिसम्बद्धे देशे । पर्यावृत्तेऽह्नो मध्यभागात् । हरितग्रहणादितरयवप्रेक्षणे निषेधो न । न ग्राम्यस्य पशोरन्ते नारण्यस्येत्यत्र पशोरन्त इत्यनुवर्तते । उभयत्राधीयीतेति शेषः । द्वितीयनञ्वचनप्रयोजनं न शूद्रेण सम्भाषेतेत्यत्र यथोक्तं तथाऽत्रापि द्रष्टव्यम् । नाशृतमित्यत्र मांसमिति शेषः। लोहितं रक्तम् । उत्पतितमिति लोहितविशेषणम् । दृष्ट्वेत्युत्तरत्राप्यनुवर्तते । अधीयीतेति शेषः । शरीरशब्देनास्थि । एतद्दर्शनेऽप्यनध्यायः । एतेषां निषेधानां जनरहिते महारण्य एतस्याध्ययनं कर्तव्यमिति फलम् । पराचीनमग्रिममध्ययनप्रदेशम् । प्रथमानुवाकप्रभृति क्रमेण पूर्वत्र सव्ँवत्सरे पर्यवेत इत्युपक्रमाद्द्वितीये सव्ँवत्सरे प्रथमसव्ँवत्सराधीतानुवाकादीनामुत्तराङ्गभूतमग्न्युपसमाधानादिके श्मश्रुवापनान्ते कृते नानुत्सृष्टाध्यायोऽधीयीतेत्यादि निषेधान्परिपालयन्नग्रिमप्रदेशाध्ययनार्थमग्निमुपसमाधाय सम्परिस्तीर्य दर्भेष्वासीनो दर्भान्धारयमाणोऽग्निसमीप एवाग्रिमं प्रदेशमधीयीतेत्यर्थः । दर्भेष्वासीनो दर्भान्धारयमाण इत्यत्र विशेषवचनादत्रैतावदेव, नान्ये केशश्मश्रुवापनान्ताः प्रागुक्ता धर्माः । कल्पान्तरमाह । वरं वा दत्त्वौपासने वरं दत्त्वा वौपासने, औपासनसमीपेऽधीयीत । एतच्च वरदानमोपासनसमीपाध्ययनविषये । वाशब्दस्य25 वरदानेऽन्वये वरदानस्य वैकल्पिकत्वम् । औपासनपदार्थेऽन्वयो वा वाशब्दस्य । अयं च पक्षो दूरे गन्तुमशक्तस्य । तच्चौपासनं गुरोरेव स्वस्य तदभावात् । अथवाऽत्रौपासनशब्दो ज्ञापनार्थः । उपनयनमारभ्याप्यग्निधारणमस्तीति ।

उक्तं च बौधायनेन–

“उपनयनादिरग्निस्तमौपासनमित्याचक्षते पाणिग्रहणादिरित्येके” इति ।

उपनयनमारभ्य धारणे विवाहहोमस्तत्रैव । अग्नावौपासनत्वसिद्धिद्वारेत्येतस्य विवाहहोमसङ्कल्पवाक्ये लोपः । उपाकर्मोत्सर्जने अपि तत्रैव । औपासनशब्दो गृहलक्षको वा । अध्येष्यमाणोऽध्ययनं करिष्यमाणोऽन्या वाचोऽध्ययनातिरिक्ता वाचो यावदध्ययनं न वदेत् । अध्येष्यमाणो मदन्तीस्तप्ता अप उपस्पृश्य नमो वाच इति प्रथमेनानुवाकेन शान्तिं कृत्वाऽधीयीत । अधीत्य चोत्तमेन शं नो वात इत्यनुवाकेन शान्तिं कुर्यात् । प्रपाठकमध्ये विरामेऽप्युत्तमा शान्तिः । उपक्रमे प्रथमा । एवं शान्तिकरणमेतत्प्रपाठकमन्त्रकरणककर्मस्वपि । नन्वेवं कर्मस्विति वचनं प्रवर्ग्यप्रपाठकोक्तमन्त्रसाध्यकर्मसु प्रवर्ग्यसम्भरणप्रचारोद्वासनधर्मेष्टकाकुलायिन्युपधानादिषु शान्तिप्रापणार्थम् । न चैवं प्रवर्ग्यप्रचारे पुनर्विधानं व्यर्थमिति चेत्सत्यम् । सम्भरणोद्वासनादिषु शान्तिकरणस्य कृताकृतत्वद्योतनार्थत्वेन वैयर्थ्याभावात् । यत्र क्व च यत्र कुत्रचिदशान्तिकृतं शान्तिरहितं पश्येत्, शान्तिविरहितं पठितं कर्म वा कृतमिति जानीयात् । तत्र शान्तिं कृत्वा पुनरधीयीत26 कर्म च कुर्यात्27 । यद्यशान्तिकृतं पश्येदित्येतावतैव सिद्धे यत्र क्व चेति वचनं परिभाषार्थम् । तेन सर्वारण्यकप्रपाठकाध्ययनविषयेऽपि पुनरध्ययनं तच्छान्तिपूर्वकं सिद्धं भवति । न प्रवर्ग्याय प्रवर्ग्यप्रपाठकाध्ययनार्थं ग्रामाद्बहिरुपनिष्क्रम्याप्रविश्य ग्राममन्यदध्ययनान्तरं नाधीयीतेत्यर्थः । अन्यदधीयीतेत्यस्य द्विरुक्तिः प्रपाठकसमाप्तिद्योतनार्था ।

इति प्रपाठकाध्ययने विशेषः ।

विष्णुः–)“नापररात्रमधीत्य शयीत” इति ।

स्मृत्यन्तरे–

“प्रदोषपश्चिमौ यामौ वेदाभ्यासेन योजयेत् ।
यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते” इति ॥

अत्र प्रदोषशब्देनाऽऽद्ययामो ग्राह्यः । पश्चिमशब्देनान्त्यः । उत्तरत्र यामद्वयग्रहणात् ।

गुर्वनुज्ञयैवाध्येयमन्यथा दोष इत्य्-आह व्यासः–

“ऋचमर्धर्चमथवा पादं वा पदमेव वा ।
गृह्णाति योऽननुज्ञातः परस्मात्पठतो द्विजः ॥
स ब्रह्मस्तेयकृद्विप्रो नरकं प्रतिपद्यते” इति ॥

मनुः–

“नाविस्पष्टमधीयात न शूद्रजनसन्निधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्” इति ॥

वेदाध्ययनकाले रजस्वलासम्भाषणमवश्यं प्राप्तं भवति चेत्तदा किं कर्तव्यमित्याकाङ्क्षायां धर्मसूत्रे–

“ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्सम्भाषितुं ब्राह्मणेन सम्भाष्य
तया सम्भाषेत सम्भाष्य तु ब्राह्मणेनैव सम्भाष्याधीयीत” इति ।

यो वेदमध्येष्यमाणो मलवद्वाससा रजस्वलया सह सम्भाषितुमिच्छति स पूर्वं ब्राह्मणेन सम्भाषणं कृत्वा पश्चात्तया सम्भाषेत, सम्भाष्य पुनर्ब्राह्मणेनैव सम्भाष्याधीयीतेति व्याख्यातमुज्ज्वलाकृता ।

व्यासः–

“मेखलाजिनदण्डानां धारणैर्ब्रह्मचारिभिः ।
वेदः कृत्स्नोऽधिगन्तव्यः सर्वज्ञानाद्विजातिभिः” इति28

सर्वज्ञानादिति चतुर्थ्यर्थे पञ्चमी । सर्वज्ञानार्थमित्यर्थः ।

विद्याधिगमोपायमाह नारदः–

“अहेरिवेक्षणाद्भीतः सौहित्यान्नरकादिव ।
राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति” इति ॥

सौहित्यं पापम् ।

विघ्नहेतूनप्याह स एव–

“द्यूतं पुस्तकशुश्रूषा नाटकासक्तिरेव च ।
स्त्रियस्तन्द्रा च निद्रा च विद्याविघ्नकराणि षट्” इति ॥

द्यूतमक्षक्रीडादि । पुस्तकशुश्रूषा पुस्तकस्य पुराणादेः शुश्रूषा श्रोतुमिच्छा पुस्तकसेवनमात्रं वा । नाटकासक्तिर्नाटकशास्त्रे लोलुपता । स्त्रियः सर्वदा स्त्रीषु रतिः । तन्द्राऽऽलस्यम् । निद्रा प्रसिद्धा । एवमन्यान्यपि लोकतो विद्यानाशकराण्यवगन्तव्यानि ।

स्मृत्यन्तरे–

“पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।
राजते न सभामध्ये जारगर्भ इव स्त्रियाः” इति ॥

(अन्यच्च–29

“यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ।
न तत्र बलसामर्थ्यमुद्योगस्तत्र कारणम् ॥
सहस्रगुणिता विद्या शतशः परिकीर्तिता ।
आगमिष्यति जिह्वाग्रे स्थलं निम्नमिवोदकम् ॥
हयानामिव जात्यानामर्धरात्रादिशायिनाम् ।
न हि विद्यार्थिनां निद्रा चित्रं नेत्रेषु तिष्ठति ॥
नान्नपानविलम्बी स्यान्न च नारीनिबन्धनः ।
सुदूरमपि विद्यार्थी प्रजेद्गरुडहंसवत्” इति ॥

शुश्रूषया रहिताया विद्याया निष्फलत्वमुक्तं नारदीयशिक्षायाम्–

“शुश्रूषाविरहिता विद्या यद्यपि मेधागुणैः समुपयाति ।
वन्ध्येव यौवनवती न तस्य विद्या सफला भवति” इति ॥)

अध्ययनकर्त्रा शूद्रान्नं वर्जनीयमित्याह पराशरः–

“शूद्रान्नरसपुष्टस्य ह्यधीयानस्य नित्यशः ।
जपतो जुहृतो वाऽपि गतिरूर्ध्वा विद्यते” इति ॥

ऊर्ध्वा गतिः स्वर्गगतिः ।

आपत्कालेऽब्राह्मणादप्यध्येतव्यमित्याह मनुः–

“अब्राह्मणादध्ययनमापत्काले विधीयते ।
अनुव्रज्यादिशुश्रूषा यावदध्ययनं गुरोः” इति ॥

(अब्राह्मणात्क्षत्रियाद्वैश्याद्वा30 । अनुव्रज्या शुश्रूषेत्यनुगमनमात्रं कार्यं न पादप्रक्षालनादि । इयं चाऽऽपद्ब्राह्मणाध्यापकाभावरूपाऽध्येतुः ।

गौतमोऽपि–

“आपत्कल्पोऽब्राह्मणाद्ब्राह्मणस्य विद्योपयोगोऽनुगमनं शुश्रूषाऽऽसमाप्तेः” इति ।

अब्राह्मणादा समाप्तेरित्युभयत्र पदच्छेदो द्रष्टव्यः ।

गरुडपुराणे–

“आहुः समस्तविद्यानां वेदविद्यामनुत्तमाम् ।
अतस्तद्दातुरस्त्येव लाभः स्वर्गापवर्गयोः” इति ॥

महाभारते–

“यो ब्रूयाच्चापि शिष्येभ्यो धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां स तुल्यफलमश्नुते” इति । )

एतदध्ययनमुपाकर्म कृत्वा कर्तव्यमित्याह कार्ष्णाजिनिः–

“नभोमासे नभस्ये वा समुपाकृत्य सूत्रतः ।
द्विजश्छन्दांस्यधीयीत मासान्पञ्चार्धसम्मितान्” इति ॥

सूत्रतः सूत्रोक्तप्रकारेण ।

वेदाध्ययनं कर्तुमशक्तस्यैकदेशाध्ययनमप्यनुजानाति पराशरः–

“अग्निकार्यात्परिभ्रष्टाः सन्ध्योपासनवर्जिताः ।
वेदांश्चैवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥
तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः ।
अध्येतव्योऽप्येकदेशो यदि सर्वो न शक्यते” इति ।

वृषलभीतेन वृषलत्वभीतेन ।

लघुव्यासः–

“ऋक्पादमप्यधीयीत मार्गेणोक्तेन धर्मवित् ।
न त्वेव चतुरो वेदानन्यायेन कथं चन” इति ॥

वेदविस्मरणे31 दोष उक्तो वराहपुराणे–

“जातायामपि विद्यायां विस्मरेत्पठितां श्रुतिम् ।
अनधीत्या प्रमादेन मृतो गर्दभतां व्रजेत् ॥
यावद्वेदोत्थवर्णानां पठितानां च विस्मृतिः ।
तावद्वर्षाणि भुङ्क्ते स खरयोनिं द्विजोत्तमः” इति ॥

जातायां वेदविद्यायामपि । अनधीत्याऽनध्ययनेन हेतुना यदि पठितामपि श्रुतिं विस्मरेत्तदा स्वाचारसम्पन्नोऽपि द्विजोत्त32 श्रुत्यक्षरसङ्ख्यवर्षपर्यन्तं33 खरयोनिं प्राप्नोतीत्यर्थः ।

इति सङ्क्षेपेणाध्येतृधर्माः ।

अध्ययनधर्मास्तु पाणिनीयशिक्षाप्रातिशाख्यभारद्वाजशिक्षादिषु द्रष्टव्याः ।

प्रसङ्गान्मन्दबुद्धित्वहरं विधानम्

अथ प्रसङ्गान्मन्दबुद्धित्वहरं विधानम् ।

तत्र ऋग्विधानम्–

“ओष्ठापिधानामन्त्रं च जपेद्दशदिनं प्रति ।
वाग्देवी मातृका तस्य जिह्वाग्रे वर्तते सदा ॥
ओष्ठामन्त्रेण जुहुयाद्विद्याश्रीस्तत्कुले स्थिरा ।
त्रिमधुं चाष्टसाहस्रं प्रतिवर्षं तु फाल्गुने” इति ॥

त्रिमधुमित्यत्र पुंस्त्वमार्षम् । आज्यं क्षीरं मधु चेति मधुत्रयं, तच्च मिश्रितमेव न तु पृथक् । एतद्द्रव्यत्रयं तोलनेन समप्रमाणं कृत्वैव ग्राह्यम् । सम्भव आज्यक्षीरे गोरेव मुख्ये । अष्टसाहस्रमष्टसङ्ख्यसाहस्रमष्टाधिकसाहस्रं34 वा । प्रतिवर्षमित्यत्र वर्षसङ्ख्याया अनुक्तत्वाद्यावच्छक्यम् । अस्य मन्त्रस्य ब्रह्मा, ऋषिः । अनुष्टुप्छन्दः । नकुली सरस्वती देवता ।

ध्यानम्–

“विकासभाजि हृत्पद्मे स्थितामुल्लासदायिनीम् ।
परवाक्स्तम्भिनीं नित्यां स्मरामि नकुलीं सदा” इति ।

मन्त्रस्तु–

“ॐ ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु मामिह वादयेत् " इति ।

अयमेव मन्त्रो बालामन्त्रेण सय्ँयुक्तः कार्यः । तत्राऽऽदावेकं बीजम्, पविरित्यनन्तरं द्वितीयम्, अन्ते तृतीयम् ।

धारणाभिवृद्ध्यर्थं नमो ब्रह्मण इत्यस्य मन्त्रस्य न्यासपूर्वकं त्रिपुरासिद्धान्ते श्रुतधरीमाहात्म्ये पुरश्चरणमुक्तम् । अस्य मन्त्रस्यानिराकरण ऋषिः । बृहती छन्दः । धारणासरस्वती देवता ।

“सुरासुरैः सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।
विरञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा” इति ध्यानम् ।

अयमपि मन्त्रो बालामन्त्रेण सय्ँयुक्तो जप्तव्यः35 ( जपितव्यः ), शीघ्रं धारणाप्रदो भवति । तत्राऽऽद्यप्रणवोत्तरं प्रथमं बीजम्, भूयासमित्यनन्तरं द्वितीयम्, अन्त्यप्रणवोत्तरं तृतीयम् । अनेनाभिमन्त्रितं जलं प्राश्नीयात्सारस्वतप्राप्तिः ।

गीर्वाणैन्द्व्यां तु यश्छन्दसामृषभ इति शीक्षाप्रपाठकस्थमन्त्रस्य लक्षं पुरश्चरणमुक्तम् । कलौ चतुर्गुणं प्रोक्तमितिवचनाच्चतुर्गुणं पुरश्चरणम् । तच्च पञ्चात्मकं त्र्यात्मकं द्व्यात्मकं वेति तान्त्रिकपरिभाषासिद्धम् । विना विशेषवचनं काम्यादिप्रयोगेऽप्येतादृशमेव । यादृशी स्यात्पुरश्चर्या विनियोगोऽपि तादृश इति स्थलविशेषे तन्त्रान्तरे दर्शनात् । प्रकृते विशेषवचनाभावात्पुरश्चरणजपसङ्ख्यैव । अत्र यन्त्रपूजान्यासादिकस्याऽऽकाङ्क्षितत्वेन स्पष्टतया वक्तव्यत्वेऽपि “मन्त्रशास्त्रं गोपनीयम्” इति कुब्जिकातन्त्रवचनादनवस्थाभयाच्चानुक्तिरिति ज्ञेयम् ।

इति मन्दबुद्धित्वहरं विधानम् ।

सङ्क्षेपेणानध्यायाः

अथ सङ्क्षेपेणानध्यायाः ।

तत्रोशना–

“अयने विषुवे चैव शयने बोधने तथा ।
अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु” इति ।

अयने दक्षिणायनमुत्तरायणं च यस्मिन्दिने तत्रेत्यर्थः । जात्यभिप्रायं वैकवचनम् । एवं विषुव इत्यत्रापि । विषुवे तुलामेषौ । शयनं हरेः शयनदिनमाषाढशुक्लैकादशी । बोधनं हरेः प्रबोधनदिनं कार्तिकशुक्लैकादशी । अयनविषुवप्रयुक्तानध्याये विशेषः स्मृत्यन्तरे–

“निशाद्वयं दिवा रात्रौ सङ्क्रमे वासरद्वयम् ।
अनध्यायं प्रकुर्वीत अयने विषुवे तथा” इति ॥

दिवाऽयनविषुवसङ्क्रान्तौ रात्रिद्वयम् । रात्रावयनविषुवसङ्क्रान्तौ दिनद्वयमनध्याय इत्यर्थः ।

मन्वादयः सङ्गृहीता हेमाद्रौ–

“तिथ्यग्नी न तिथिस्तिथ्याशे कृष्णेभोऽनलो ग्रहः ।
तिथ्यर्कौ न शिवोऽश्वोऽमातिथी मन्वादयो मधोः” इति ॥

तिथ्यग्नी । न । तिथिः । तिथ्याशे । कृष्णेभः । अनलः । ग्रहः । तिथ्यर्कौ । न । शिवः । अश्वः । अमातिथी । मन्वादयः । मधोः । इति पदानि ।

तिथिः पूर्णिमा । अग्निस्तृतीया । मधोश्चैत्रादारभ्य क्रमः । चैत्रस्य पूर्णिमाशुक्लतृतीये इत्यर्थः । न, वैशाखे मन्वादिर्नास्ति । ज्येष्ठस्य तिथिः पूर्णिमा । आषाढस्य तिथ्याशे पूर्णिमाशुक्लदशम्यौ । श्रावणस्य कृष्णेभः कृष्णपक्षाष्टमी। भाद्रशुक्लपक्षस्यानलस्तृतीया । आश्विनशुक्लपक्षस्य ग्रहो नवमी । कार्तिकस्य तिथ्यर्कौ पूर्णिमाशुक्लद्वादश्यौ । न, मार्गशीर्षे मन्वादिर्नास्ति । पौषशुक्लस्य शिव एकादशी । माघशुक्लपक्षस्याश्वः सप्तमी । फाल्गुनस्यामातिथी दर्शपूर्णिमे । एता मधोश्चैत्रादारभ्य क्रमान्मन्वादयो ज्ञेया इत्यर्थः ।

पद्मपुराणेऽपि–

“अश्वयुक्शुक्लनवमी कार्तिकी द्वादशी सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा आषाढस्य च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्ये(ज्यै)ष्ठी पञ्चदशी तथा ॥
मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः” इति ॥

अश्वयुगाश्विनः । भाद्रपदस्य चेत्यत्र चकारः सितेत्यस्यानुवृत्त्यर्थः । तथाशब्दो भाद्रपदस्येत्यत्रापि तृतीयान्वयार्थः । आषाढस्यापीत्यत्रापिशब्दः सितेत्यस्यानुवृत्त्यर्थः । अयमपिशब्दो माघमासस्येत्यत्रापि योज्यः । तेनात्रापि सितेत्यस्यानुषङ्गः सिध्यति । युगादयो विष्णुपुराणे–

“वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे” इति ।

नभस्यो भाद्रपदः ।

मनुः, अनध्यायं प्रकृत्य–

“अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च” इति ।

हारीतः–

“प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः ।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन” इति ।

प्रतिपत्स्वित्यादिपूर्वार्धं प्रतिपदादिष्वनध्याय इतिभिन्नार्थविधायकं न तु श्वोऽनध्याय इत्युत्तरार्धेनैकार्थकम् । अन्यथा सूर्योदयोत्तरं किञ्चित्प्रतिपदनन्तरं द्वितीया । एतादृशे विषये तत्पूर्वरात्रावनध्याये प्राप्त एतन्निषेधस्य वैयर्थ्यापत्तेः । श्वोऽनध्याय इति युगादिमन्वादिप्रयुक्तानध्यायपरम् । तथा च श्व एतादृशानध्याये पूर्वरात्रौ नाधीयीतेत्यर्थः36 । श्व इत्युदयानन्तरमनध्यायतिथिसत्त्वे । तदनन्तरं स्वाध्यायतिथिसत्त्वे तु न पूर्वशर्वर्यामनध्याय इति शिष्टाः ।

यमः–

“अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी ।
हन्ति पञ्चदशी मेधां तस्मादेता विवर्जयेत्” इति ।

स्वाध्याय इति शेषः।

आर्षे रामायणे रामं प्रति हनूमद्वाक्यम्–

“सा स्वभावेन तन्वङ्गि त्वद्वियोगाद्विकर्शिता ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता” इति ।

स्मृतिरत्नावल्याम्–

“चतुर्दश्यां यदा पर्व प्रागस्ताद्दृश्यते रवेः ।
अनध्यायं प्रकुर्वीत त्रयोदश्यां तु धर्मवित् ॥
अभितश्चेदनध्यायस्तत्राप्येके प्रकुर्वते ।
सन्देहेऽपि त्वनध्यायं मन्वते हि द्विजोत्तमाः” इति ।

उक्ततिथीनामहोरात्रानध्यायनियामकपरिमाणं स्मृत्यर्थसारे–

“उदयेऽस्तमये वाऽपि मुहूर्तत्रयगामि यत् ।
तद्दिनं तदहोरात्रमनध्यायं विदो विदुः ॥

केचिदाहुः क्वचिद्दश यावत्तु दिननाडिकाः ।
तावदेव त्वनध्यायो न तस्मिंश्च दिनान्तरे” इति ॥

दिनं चान्द्रं तिथिरिति यावत्37 । यद्यस्मिन्दिन उदयेऽस्तमये वा मुहुर्तत्रयगाम्यनध्यायदिनं38 तिथिर्भवेत्तत्तस्मिन्दिने39 तदहोरात्रमनध्यायमनध्यायरूपमेव विदो बुधा40 विदुरित्यर्थः । (दिनान्तरे41 तिथ्यन्तरे ।

“प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी ।
दिनं दूषयते सर्वं सुरा गव्यघटं यथा” ॥

इति वचनं तत्प्राच्याचारमूलकं ज्ञेयम् ।

कालादर्शे स्मृतिः–

“चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्” इति ॥

ता आह गार्ग्यः–

“शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये ।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति मनीषिणः” इति ॥

विधुक्षय इत्यत्र बहुव्रीहिः । विधुक्षयः कृष्णपक्षः । आषाढ्युत्तरा कार्तिक्युत्तरा फाल्गुन्युत्तरा चेत्यर्थः ।)

त्रयोदश्यादिप्रदोषे तु नाध्येयमित्यस्मिन्नर्थे पौराणं वाक्यम्–

“मेधाकामस्त्रयोदश्यां सप्तम्यां च विशेषतः ।
चतुर्थ्यां च प्रदोषेषु न स्मरेन्न च कीर्तयेत्” इति ।

न स्मरेदित्यनेनान्यानध्यायेभ्योऽत्र दोषाधिक्यं ध्वन्यते ।

त्रयोदश्यादिद्वैविध्ये निर्णयो ब्रह्माण्डपुराणे–

“रात्रौ यामद्वयादर्वाग्यदि पश्येत्त्रयोदशीम् ।
प्रदोषः स हि विज्ञेयः सर्वस्वाध्यायवर्जितः ॥
षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका ।
प्रदोषे न त्वधीयीत तृतीया नवनाडिका” इति ।

अर्धरात्रोननाडिकाऽर्धरात्राद्घटिकयैकयोनेत्यर्थः । अनेनेदृशस्थले पूर्वदिन एव प्रदोषप्रयुक्तोऽध्ययननिषेधो न तूत्तररात्रिमुखे सप्तम्यादिसत्त्वेऽपीति नियम्यते42 बृहन्मनुना प्रकारान्तरेण प्रदोष उक्तः–

“चतुर्थ्यां च त्रयोदश्यां सप्तम्यामर्धरात्रतः43
अर्वङ्नाध्ययनं कुर्याद्यदीच्छेत्तस्य धारणम्44 " इति ।

स्मृत्यर्थसारे विशेषः–

“चतुर्थ्याः पूर्वरात्रे तु नवनाडीषु दर्शने ।
नाध्येयं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ।
अर्धरात्रात्पुरा चेत्स्यान्नाध्येयं पूर्वरात्रके” इति ।

ज्योतिर्निबन्धे–

“अर्कतर्कत्रितिथिषु दिवसैः स्यात्तदग्रिमैः ।
रात्र्यर्धसार्धप्रहरैः स प्रदोष इति स्मृतः” इति ।

अग्रिमैरर्कतर्कत्रितिथ्यग्रिमैर्दिनैरित्यर्थः । अर्को द्वादशी । तर्कः षष्ठी । त्रिस्तृतीया । द्वादश्या रात्रौ प्रथमं रात्र्यर्धं यामद्वयात्मकं तन्मध्ये त्रयोदशीसम्बन्धश्चेत्तदा प्रदोष इत्यर्थः । एवं षष्ठ्या रात्रौ प्रथमसार्धप्रहरमध्ये सप्तमीसम्बन्धे । तथा तृतीयाया रात्रौ प्रथमप्रहरमध्ये चतुर्थीसम्बन्ध इति । शिष्टास्त्विदानीमेतदेव स्वी कुर्वन्ति ॥

गलग्रहेष्वप्यनध्याय उक्तो बृहस्पतिना–

“पुत्रजीवितमिच्छेच्चेन्नाधीयीत गलग्रहे” इति ।

पुत्रजीवितमिच्छेच्चेदितिवचनात्पुत्रिण एव गलग्रहेष्वनध्यायो नेतरस्येति । गलग्रहास्तूपनयनकालनिरूपण उक्ताः ।

ज्योतिर्निबन्धे–

“अष्टकासु च सर्वासु युगमन्वन्तरादिषु ।
अनध्यायं प्रकुर्वीत य(त)था सोपपदास्वपि” इति ।

अयं च45 सोपपदानिषेधो न यजुर्वेदिनाम्–

“वेदव्रतोपनयने स्वाध्यायाध्ययने तथा ।
न दोषो यजुषां सोपपदास्वध्यापनेऽपि च” ।

इति स्मृत्यन्तरोक्तेरिति केचित् । महानिबन्धेष्वदर्शनादिदं निर्मूलमित्यन्ये । अस्मिन्कल्पे त्वस्त्येव तेषामपि निषेधः । तास्तूपनयनप्रकरण उक्ताः ।

धर्मसूत्रे–

“श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं
प्रदोषे नाधीयीत” इति ।

प्रदोषोऽत्र प्रथमो रात्रिभाग इत्युज्ज्वलाकृतः46पूर्वरात्रिरिति माधवः । ग्रहणाध्ययनधारणाध्ययनयोरयं निषेधः । प्रदोषग्रहणाद्रात्रावप्यूर्ध्वं न दोष इत्युज्ज्वलाकृतः । उपाकर्मोत्तरं त्र्यहमेकाहं वाऽनध्यायः कार्यः ।

तदुक्तं गृह्ये–

“त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति” इति ।

क्षम्याध्ययनाद्विरम्येत्यर्थः । अयमनध्यायस्त्वनित्य इत्यत्र ज्ञापकमुत्सर्जनप्रकरणे वक्ष्यते ।

धर्मसूत्रे–

“तैषीपक्षस्य रोहिण्यां विरमेदर्धपञ्चमा श्चतुरो मासानित्येके”

इति गृह्योक्तेन विकल्पः । अनयोः पक्षयोः पञ्च मासानधीते । अर्धः पञ्चमो येषां तेऽर्धपञ्चमाः । अर्धाधिकांश्चतुरो मासानधीयीतेत्येवमेके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्तरदर्शनादुत्सर्जनस्य47 चाप्रतिकर्षः । उत्सर्जने च कृते श्रावण्याः प्राक्शुक्लपक्षेषु48 धारणाध्ययनं वेदस्य कृष्णपक्षेषु49 व्याकरणाद्यङ्गाध्ययनं श्रावण्यामुपाकृत्यागृहीतस्य ग्रहणाध्ययनमिति व्याख्यातमुज्ज्वलाकृता ।

गौतमः–

“तिस्रोऽष्टकास्तिस्रोऽभि वार्षिकम्” इति ।

उपाकरणादूर्ध्वं प्रागुत्सर्जनाद्यदध्ययनं तद्वार्षिकं तदभि तस्याऽऽदावन्ते च यत्कर्म क्रियते तत्र त्रिरात्रमित्यर्थः ।

औशनसे व्यक्तोऽयमर्थः–

“उपाकरणे चोत्सर्जने च त्र्यहमनध्यायः” इति ।

मानवे च–

“उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्” इति ।

क्षपणमनध्यायः । गृह्येऽप्येवम् ।

अष्टका आश्वलायनसूत्रे–

“हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः” इति ।

महालयान्तर्गताष्टम्यष्टकात्वेन सङ्गृहीता हारीतेन–

“तथा महालयाष्टमी” इति ।

माध्याः पौर्णमास्या योऽपरपक्षस्तस्याष्टमीमेकाऽष्टकेत्याचक्षत इत्येतत्सूत्रस्थैकग्रहणेन ज्ञापिताश्वाऽऽचार्येण ।

धर्मसूत्रे–

“मातरि पितर्याचार्य इति द्वादशाहाः” इति ।

मात्रादिषु मृतेषु द्वादशाहमनध्याय इत्यर्थः । अयं विधिर्गृहस्थानामपि । केचिदाशौचं तावन्तं कालमिच्छन्ति । नेति वयम् । अनध्यायप्रकरणादिति व्याख्यातमुज्ज्वलाकृता ।

याज्ञवल्क्यः–

“त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विगुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥
सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा तु श्राद्धिकं प्रतिगृह्य च” इति ॥

निर्घात आन्तरिक्ष उत्पातध्वनिः50 । द्युनिशमहोरात्रम् ।

यत्तु–

“त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके”।

इति51 राहुसूतकविषये त्र्यहानध्यायकीर्तनं तद्ग्रस्तास्तविषयम् । ऋतुसन्धिष्वृतुसन्धिगतासु52 प्रतिपत्स्विति विज्ञानेश्वरः । श्राद्धिकं प्रतिगृह्य चेत्येतत्पार्वणविषयम् । एकोद्दिष्टभोजनादौ मन्वादिभिस्त्र्यहोक्तेः ।

अन्यच्च स एव–

“पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये” इति ॥

शक्रपातोच्छ्रयकालस्तु–

“आश्विनकृष्णपञ्चम्यामिन्द्रध्वजोत्थापनं विजयदशम्यां तदवरोपणम्” इति ।

धर्मसूत्रे–

“श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे
वादितशब्दा रोदनगीतसामशब्दाश्च” इति ।

शुनां गर्दभानां बहूनां नादा बहुवचननिर्देशात् । सलावृकी वृकावान्तरजातिविशेषः । कोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । “इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्” इत्य्-आदिदर्शनात् । एकसृक एकवचनः, शृगालः । उलूको दिवाभीतः । एषां शब्दाः । वादितानि वीणावेणुमृदङ्गादीनि तेषां च शब्दाः । रोदनशब्दा गीतशब्दाः सामशब्दाश्च । एते श्रूयमाणास्तात्कालिकानध्यायहेतव इति व्याख्यातमुज्ज्वलाकृता । तथा–

“सन्दर्शने चारण्ये श्मशाने सर्वतः शम्याप्रासाच्छ्मशानवच्छूद्रपतितौ” इति ।

अरण्ये च यावति प्रदेशे शवश्चण्डालो53 वा दृश्यते तावत्कालमनध्यायः । श्मशानेऽध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु शम्याप्रासादर्वागित्यर्थः । पञ्चमीनिर्देशादर्वागिति गम्यते । शूद्रपतितसकाशेऽपि शम्याप्रासादर्वाङ्नाध्येयमिति व्याख्यातं तेनैव ।

तथा–“प्रोदकयोश्च पाण्योः” इति ।

पूर्वसूत्राद्भुक्त्वेत्यनुवर्तते । प्रोदकावार्दौ पाणी यावत्तावन्नाधीयीतेति व्याख्यातं तेनैव ।

तथा–

“पृष्ठारूढः पशूनां नाधीयीत तावन्तं कालम्” इति ।

हस्त्यश्वादीनां पशूनां पृष्ठारूढः पृष्ठासीनः सन्नाधीयीत तावन्तं कालमित्यर्थ इति व्याख्यातं तेनैव ।

याज्ञवल्क्योऽपि–

“श्वक्रोष्टृगर्दभोलूकसामवाणार्तनिस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसम्प्लवे ।
भुक्त्वाऽऽर्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥
पांशुवर्षे च दिग्दाहे सन्ध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः” इति ॥

सामान्यारण्यकसामानि । वाणो वंश इति विज्ञानेश्वरः । शततन्तुर्वीणेति हरदत्तः । आर्तः पीडितः । अमेध्याः सूतिकादयः । स्तनितं गर्जितम् ।

सन्ध्यागर्जने विद्युति च विशेषो धर्मसूत्रे–

“सन्धावनुस्तनिते रात्रिं स्वप्नपर्या(र्य)न्तां विद्युत्युपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायो दह्रे54 चापररात्रे स्तनयित्नुनोर्ध्वमर्धरात्रादित्येके” इति ।

सन्धौ सन्ध्यायाम् । अनुस्तनिते मेघगर्जिते सर्वां रात्रिं नाधीयीत । सन्धौ विद्युति सत्यां स्वप्नपर्या(र्य)न्तां रात्रिम् । इदं च सायंसन्ध्यायाम् । उषः समीपमुपव्युषं तत्र विद्युति सत्यामपरेद्युः सप्रदोषमहरनध्यायः । प्रदोषादूर्ध्वमध्येयम् । यावता कालेन शम्याप्रासादर्वागवस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात्तस्मिन्काल उपव्युषे वा विद्योतमान इत्यन्वयः । रात्रेस्तृतीयभागोऽपररात्रस्तस्य त्रेधा विभक्तस्याऽऽद्यांशो महारात्रः । तदन्त्यो दह्रः । तस्मिन्दह्रेऽपररात्रे स्तनयित्नुना मेघगर्जननिमित्तेन सप्रदोषमहरनध्यायः, अर्धरात्रादूर्ध्वमनन्तररात्रावधिरित्येक55 आचार्या मन्यन्ते । स्वपक्षस्तु दह्र एव । इदं च वर्षर्तौ ज्ञेयमिति व्याख्यातमुज्ज्वलाकृता ।

हारीतस्तु–

“सायंसन्ध्यास्तनिते रात्रिः प्रातःसन्ध्यास्तनितेऽहोरात्रम्” इत्य्-आह ।

विद्युति विशेषमाह गौतमः–

“विद्युति नक्तं चापररात्रात्रिभागादिप्रवृत्तौ सर्वम्” इति ।

पूर्वरात्रौ विद्युत्यपररात्रावधिरनध्यायः । दिनतृतीयांशोत्तरं तस्यां सत्यां रात्रिसमाप्तिपर्यन्तम् । अर्धरात्रे मध्ययामद्वय इति विज्ञानेश्वरः । मध्यदण्डचतुष्टय इति निर्णयामृतः । एतद्वर्षातिरिक्तविषयम् । वर्षासु तु तात्कालिक इति व्यवस्था बोध्या ।

धर्मसूत्रे–

“छर्दयित्वा स्वप्नपर्यन्तम्” इति ।

छर्दयित्वा वमनं कृत्वा स्वप्नपर्यन्तं नाधीयीतेति व्याख्यातमुज्ज्वलाकृता ।

अत्राऽऽपस्तम्बेन विशेष उक्तः–

“छर्दयित्वा स्वप्नान्ते घृतं वा प्राश्य” इति ।

विष्णुः-“न वादित्रशब्दे न शूद्रपतितयोः समीपे न देवतायतनश्मशानचतुष्पथरथ्यासु नोदकान्ते न पीठोपहितपादो न हस्त्यश्वोष्ट्रनौगोयानेषु न वान्तो न विर(रि)क्तो नाजीर्णी न पञ्चनखान्तरागमने” इति ।

पीठोपहितपादः पीठोपरिस्थापितपादतलः । यानेष्वित्यत्राऽऽसीन इति शेषः । वान्तः कृतवमनः । विर(रि)क्तः कृतविरेकः । अजीर्णी भुक्तपाकपर्यन्तम् । पञ्चनखाः श्वादयः ।

मनुः–

“शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
नाधीयीताऽऽमिषं जग्ध्वा सूतकान्नं तथैव च” इति ।

प्रौढपादः पादोपरिपादतलः । आसनारूढपादो वेति हरदत्तः । स्मृत्यन्तरे–

“न विवादे न कलहे न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न सूतके ॥
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते” इति ॥

अधीयीतेति शेषः ।

हेमाद्रौ स्मृतिः–

“यज्ञे चानूबन्ध्यान्तं दीक्षितस्यर्त्विजां च” इति ।

मनुः–

“त्र्यहं न कीर्तयेद्ब्रह्म सपिण्डीकरणे तथा” इति ।

सपिण्डीकरणे कृते सत्यनन्तरं त्र्यहमनध्याय इत्यर्थः ।

स्मृतिसङ्ग्रहे–

“उदके मध्यरात्रे च विण्मूत्रे च विसर्जिते ।
उच्छिष्टे श्राद्धभुक्तौ च मनसाऽपि न चिन्तयेत्” इति ।

स्मृतिसारे–

“सर्वकुत्सितगन्धेषु परिवेषे सभासु च ।
अभ्यङ्गे स्नानकाले च महास्वेदेऽतिकम्पने ॥
गोविप्ररोधने सर्वश्राद्धेषु श्राद्धपङ्क्तिषु ।
श्मशाने शूद्रसम्पर्के मलादीनां निदर्शने ॥
रोदने व्याकुले देशे जपस्थाने महालये ।
महोत्पातेषु च तथा स्वाध्यायं वर्जयेद्बुधः” इति ॥

सर्वश्राद्धेष्वित्यनेन श्राद्धकर्तुरध्ययननिषेधः । श्राद्धपङ्क्तिष्वित्यनेन श्राद्धभोक्तुरध्ययननिषेधः । सप्तमीनिर्देशात्तत्तत्काले ।

धर्मोद्योते–

“फलान्या(न्य)पस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्यनध्याय इति बौधायनोऽब्रवीत्” इति ॥

यमः–

“आगतं चातिथिं दृष्ट्वा नाधीयीतैव बुद्धिमान् ।
अभ्यनुज्ञापितस्तस्मिन्नध्येतव्यं प्रयत्नतः” इति ॥

तस्मिन्नतिथ्यागमनसमयेऽभ्यनुज्ञापितोऽतिथिना ।

आरण्यमार्जाराद्यन्तरागमने विशेषः स्मृत्यर्थसारे–

“आरण्यमार्जारसर्पनकुलपञ्चनखादेरन्तरागमने त्रिरात्रम् । आरण्यश्वशृगालवानरादेर्द्वादशरात्रं, खरवराहोष्ट्रचण्डालसूतिकोदक्यादेर्मासम् । शशमेषश्वपाकादेः षण्मासं, गजसारससिंहव्याघ्रमहापातकिकृतघ्नादेरब्दम्” इति । अन्यच्च–

“शोभनदिने चानध्यायो विवाहप्रतिष्ठोत्थापनादिष्वा समाप्तेः
सगोत्राणाम्” इति ।

विवाह इत्युपनयनोपलक्षणम्–

तथा–

“श्रवणद्वादशीमहाभरण्योः प्रेतद्वितीयायां रथसप्तम्यामाकाशे
शवदर्शने चाहोरात्रम्” इति ।

महाभरणी महालयान्तर्गता । प्रेतद्वितीया यमद्वितीया ।

कौर्मे–

“श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः” इति ॥

श्लेष्मातकं भाषया “भोङ्करी” इति प्रसिद्धम् । शाल्मलिः “सावरी” इति भाषया प्रसिद्धः । मधुको भाषया “मोहा” इति प्रसिद्धः । कोविदारः कञ्चनारः ।

आश्विने शुक्लपक्षे मूलनक्षत्रे पुस्तकस्थापने कृते तदारभ्य पुस्तकविसर्जनपर्यन्तमनध्यायः ।

तदुक्तं देवीपुराणे–

“नाध्यापयेन्न च लिखेन्नाधीयात कदाचन ।
पुस्तके स्थापिते देवि56 विद्याकामो द्विजोत्तमः” इति ॥

एवमन्येऽप्यनध्याया धर्मसूत्रादौ द्रष्टव्याः ।

अनध्यायाध्ययने दोष उक्तो बृहन्नारदीये–

“अनध्यायेष्वधीतानां प्रजां प्रज्ञां यशः श्रियम् ।
आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम् ॥
अनध्याये तु योऽधीते तं विद्याद्ब्रह्मघातकम् ।
न तेन सह भाषेत न तेन सह सव्ँविशेत्” इति ॥

“चतुर्दश्यष्टमीपर्वप्रतिपत्स्वेव सर्वदा ।
दुर्मेधसामनध्यायस्त्वन्तरागमनेषु च ॥
तत्र विस्मृतिशीलानां बहुवेदप्रपाठिनाम् ।
चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु च ॥
वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेत्” ॥

इति हेमाद्युक्तानध्यायप्रकरणस्थस्मृतिवाक्यवशेन कलौ पुरुषान्दुर्मेधसो मन्यमानाः शिष्टा वेदाध्ययन एतानेवानध्यायान्नियमेन स्वी कुर्वन्तीति ।

इत्यनध्यायाः ।

अनध्यायापवादाः

अथानध्यायापवादाः ।

तत्रेदं धर्मसूत्रम्–

“विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम्” इति ।

विद्यां प्रति वेदाध्ययनं प्रत्यनध्यायः श्रूयते न पुनः कर्मयोगे मन्त्राणामनध्यायो हेतुरित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

आपस्तम्बीयपरिभाषासूत्रे–

“स्वाध्यायेऽनध्यायो मन्त्राणां न कर्मण्यर्थान्तरत्वात्” इति ।

मनुः–

वेदोपकरणे57 चैवं स्वाध्याये चापि नैत्यके ।
निरोधो नास्त्यनध्याये होममन्त्रजपेषु च” इति ।

वेदोपकरणान्यङ्गानि58 । जातावेकवचनम् ।

राणे–

“नैत्यके नास्त्यनध्यायः सन्ध्योपासन एव च ।
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ॥
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् ॥
एष धर्मः समासेन कीर्तितो ब्रह्मचारिणाम् ।
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
अधीयीत सदा सर्वां ब्रह्मविद्यां समाहितः ॥
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत्सततं युक्तो भस्मस्नानपरायणः” इति ।

सदेत्यनेन पर्वसु प्रतिपत्सु चापि ब्रह्मविद्याया अनध्यायो नेति सूच्यते ।

स्मृतिरत्नावल्याम्–

“अल्पं जपेदनध्याये पर्वण्यल्पतरं जपेत् ।
नित्ये जपे च तान्त्रे च क्रतौ पारायणे तथा ॥

नानध्यायोऽस्ति वेदानां ग्रहणे ग्राहणे स्मृतः ।
देवतार्चनमन्त्राणां नानध्यायः स्मृतस्तथा ॥
नानध्याये जपेद्वेदान्रुद्रं चैव विशेषतः ।
पौरुषं पावमानं च गृहीतनियमादृते” इति ।

यदि मयेदमपठित्वा न भोक्तव्यमिति नियमस्तदाऽध्येयमित्यर्थः ।

स्मृत्यर्थसारे–

“चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु तु ।
वेदाङ्गन्यायमीमांसा धर्मशास्त्राणि चाभ्यसेत्” इति ।

धर्मोद्योते–

“सौराणां रौद्रमन्त्राणां पैतृकाणां च नैत्यके ।
जपहोमादिकार्येषु नानध्यायो न कामिके” इति ॥

इति संस्काररत्नमालायां ब्रह्मचारिधर्माध्यापकाध्येतृधर्ममन्दबु-द्धित्वहरविधानानध्यायतदपवादाः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमाला-
यां सप्तमं प्रकरणम् ॥ ७ ॥


  1. ख. घ. ङ. पूर्यति । ↩︎

  2. ख. घ. ङ. ति । अ । ↩︎

  3. ग. र्भक्ष्याः षो । ↩︎

  4. ग. भक्ष्या अष्टौ । ↩︎

  5. ख. ति । तृती । ↩︎

  6. ग. टेद्द्विजः इ । ↩︎

  7. क. घ. श्येनाख्ये । ↩︎

  8. क. ड. श्येनाख्ये । ↩︎

  9. ख. घ. ङ. यबाह्वृ । ↩︎

  10. ख. घ. ङ. पारशाख्ये । ↩︎

  11. धनुश्चिह्नान्तर्गतं सर्वपुस्तकेषु वर्तते, परं त्वत्रानुपयुक्तम् । ↩︎

  12. ग. सौ ततो । ↩︎

  13. ग. घ. व । आदित्यपुराणे—“लाडने बहवो दोषास्ताडने बहवो गुणाः । लाडने जायते मूर्खस्ताडने पण्डितो भवेत्” इति । शि । ↩︎

  14. ग. विक्रवि(यि)कं । ↩︎

  15. ङ. वे त्वत्र वि । ↩︎

  16. ङ. स्त्येव । प्र । ↩︎

  17. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा–“आरण्यकाध्ययने विशेषः । प्रवर्ग्यसूत्रे–“अध्येष्यमाणो मदन्तीरुपस्पृश्य प्रथमानुवाकेन शान्तिं कृत्वाऽधीयीताधीत्य चोत्तमेनैवं कर्मसु यत्र क्व चाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाऽधीयीत न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्य प्राममन्यदधीयीत” इति । भद्रप्रपाठकाध्ययने विशेष उक्तः श्रुतौ–“प्रवर्ग्यवदादेशः । अरुणाः काण्डऋषयः । अरण्येऽधीयीरन् । भद्रं कर्णेभिरिति द्वे जपित्वा । महानाम्नीभिरुदक स स्पर्श्य । तमाचार्यों दद्यात् । शिवा नः शन्तमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गम् । धेनुर्दक्षिणा । क सं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एव स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति । तपस्वी पुण्यो भवति” इति । आदिश्यते विधीयत इत्य्-आदेशोऽनुष्ठेयोऽर्थः । स च प्रवर्ग्यवदत्रावगन्तव्यः । प्रवर्ग्याध्ययनादौ ये धर्मास्तेऽत्राप्यनुष्ठेयाः । ते च प्रवर्ग्यधर्माः सूत्रकृता सूत्रिताः–“सव्ँवत्सरमेतद्व्रतं चरेदेतस्मिन्सव्ँवत्सरेऽधीयीत यद्येतस्मिन्सव्ँवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्सवत्सरे पर्यवेते खिलेऽच्छदिर्दर्शेऽग्निषूपसमाधाय सम्परिस्तीर्य मदन्तीरुपस्पृश्य” इत्य्-आदयः । तानेतान्धर्मानाचरेत् । अरुणाख्या अत्र काण्डऋषयः । तेऽपि होतव्या इत्यर्थः । अयं होमो व्रताङ्गम् । सोऽयमारुणकेतुकाख्यो ग्रन्थोऽरण्य एवाध्येतव्यः, न तु ग्रामे । अध्ययनोपक्रमे शान्त्यर्थ भद्रं कर्णेभिरिति द्वे ऋचौ जपेत् । आपमापामित्येताभिर्महानाम्नीभिर्ऋग्भिरध्येतारं माणवकमुदकं स्पर्शयेत् । ततस्तं माणवकमाचार्यों दद्यात् । व्रताय नियुञ्जीत । शिवा न इति मन्त्रेणौषधीः स्पृशेत् । सुमृडीका सरस्वतीतिमन्त्रेण भूमिं स्पृशेत् । यथाऽध्ययनस्योपक्रमे सर्वमेतदनुष्ठितमेवमध्ययनस्यावसानेऽपि सर्वमेतदनुतिष्ठेत् । स्वाध्ययनसमाप्तावाचार्याय धेनुर्दक्षिणा देया । भोजनार्थं कांस्यपात्रं देयम् । प्रावरणार्थं क्षौमं वस्त्रं देयम् । तदशक्तावन्यत्कार्पासमयं शुक्लवस्त्रं देयम् । अत्यन्तमशक्तौ यथाशक्ति किमपि देयम् । एवमुक्तेनाध्ययनधर्मेण युक्तः सन्नरण्ये गुरुमुखाद्ग्रन्थमधीयीत । एवमधीयानो व्रतनियमानुष्ठानात्तपोयुक्तो भवति । अभ्यासोऽयं मङ्गल इति व्याख्यातं विद्यारण्यश्रीपादैः । अन्यदप्याह” इति । ↩︎

  18. ग. अच्छि । ↩︎

  19. ग. ताभ्यक्ता । ↩︎

  20. घ. मभि नि । ↩︎

  21. क. ब्दस्य पूर्व । ↩︎

  22. क. ग. आवृत्तः । ↩︎

  23. ख. घ. हतं धौतम् । परि । ↩︎

  24. ग. एवैत । ↩︎

  25. एतदाद्यशक्तस्येत्यन्तं क. पुस्तक एवाधिकम् । ↩︎

  26. ग. घ. ङ. त यद्य । ↩︎

  27. क. ख. त् । न प्र । ↩︎

  28. ङ ति । वि । ↩︎

  29. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ, पुस्तके नास्ति । ↩︎

  30. धनुश्चिह्नान्तर्गतं ड. पुस्तके नास्ति । ↩︎

  31. एतत्प्रभृति प्राप्नोतीत्यर्थ इत्य्-अन्तं ङ. पुस्तके नास्ति । ↩︎

  32. ख. घ. त्तमोऽक्ष । ↩︎

  33. ग. रव । ↩︎

  34. ख. ख्यया सा । ↩︎

  35. घ. व्यः । अने । ↩︎

  36. क. ख. ग. घ.र्थः । यमः । ↩︎

  37. क. त् । तस्मि । ↩︎

  38. ख. ग. घ. ङ. गामि यद् । ↩︎

  39. ख. घ. ङ. त्तद । ↩︎

  40. ख. ज्ञानवन्तो । ↩︎

  41. धनश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके । ↩︎

  42. ङ. ते । ज्यो । ↩︎

  43. क. मध्यरा । ↩︎

  44. क. ग. रणाम् । ↩︎

  45. क. ख. च नि । ↩︎

  46. ख. घ. ङ. तः । उपा । ↩︎

  47. ग. घ. ङ. नस्याप्र । ↩︎

  48. क. षु साधा । ↩︎

  49. ङ. पक्षस्य व्या । ↩︎

  50. ख. निः । अयं च राहुसूतकनिमित्तकस्त्र्यहमनध्यायो प्रस्तविषयः । अहोरात्रमनध्यायो रवीन्द्वोर्ग्रहणे भवेदित्ययमहोरात्रानध्यायस्त्वेतदतिरिक्तविषयः । श्रा । ↩︎

  51. घ. ड. ति वचनं तद्ग्र । ↩︎

  52. घ. ङ. सु । श्रा । ↩︎

  53. घ. ङ. वश्चाण्डा । ↩︎

  54. क. ख. ग. घ. ङ. दह्रे । ↩︎

  55. ख. घ. ङ्ग. न्तरं रा । ↩︎

  56. ङ. देवी । ↩︎

  57. क. ग. दोपाक । ↩︎

  58. क. ग. घ. ङ. दोपाक । ↩︎