०३ ग्रहा देवताश्च

अथ तृतीयं प्रकरणम् ।

ग्रहमखः ।

अथ ग्रहमखं वक्ष्ये श्रीदं कर्मसमृद्धिदम् ।
नवग्रहात्मा विघ्नेशस्तेन तुष्टोऽस्तु सर्वदा ॥ १ ॥

अथ ग्रहमखः । स च नित्यनैमित्तिककाम्यभेदेन त्रिविधः । शुभवारत्रिजन्मनक्षत्रायनविषुवोपरागादिषु नित्यः । उपनयनादिकर्मप्रारम्भेषु नैमित्तिकः । विपदपगमसम्पदादिकामनासु काम्यः । तत्र काम्ये मण्डपकुण्डादिकं नित्यम् । नित्यनैमित्तिकयोरनित्यम्–

“नित्यं नैमित्तिकं हित्वा सर्वमन्यत्समण्डपम्” इति मात्स्योक्तेः ।

यदा स्थण्डिलं तदा वेदिरेव न मण्डपः, तथैव शिष्टाचारदर्शनादिति प्रयोगपारिजाते । मण्डपलक्षणं हेमाद्रौ मात्स्ये–

“गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ।
रुद्रायतनभूमौ वा चतुरश्रमुदक्प्लवम् ॥
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ।
तस्य द्वाराणि चत्वारि कर्तव्यानि विचक्षणैः” इति ।

उत्तरपूर्वेणेति तृतीया सप्तम्यर्थे । उदक्प्लवमुदक्क्रमनिम्नम् । अष्टौ वा हस्तान्कुर्यादित्यत्र मण्डपार्थमिति शेषः । कुर्यात्स्वी कुर्यादित्यर्थः । दशहस्तमष्टहस्तं वा मण्डपं कुर्यादिति फलितोऽर्थः । विधानत इत्यनेन भूमिशोधननवभागकरणादिः सर्वा क्रिया गृह्यते । तस्य मण्डलस्य ।

कुण्डं तु स्कान्दे–

“नवग्रहमखे कुण्डं हस्तमात्रं समन्ततः ।
चतुरश्रमधोहस्तं योनिवक्त्रं समेखलम् ।
चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता” इति ।

अधोहस्तमधोभागे हस्तपरिमितखातम् । योनिवक्त्रं योनिवक्त्रवत् । वक्त्रं कण्ठः, तद्वद्विस्तारवत् । इदं कुण्डं मण्डपपक्षे तदीशानभाग उदीच्यां वा कार्यमिति हेमाद्रिः । मध्य इति केचित् ।

योनिर्मात्स्ये–

“वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलिविस्तृता ।
कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ॥
गजोष्ठसदृशी तद्वदायता छिद्रसय्ँयुता ।
मेखलोपरि सर्वत्र अश्वत्थदलसन्निभा” इति ॥

तदङ्गुलोच्छ्रायवत्, पार्थयोर्विस्तृतेत्यर्थः । गजोष्ठसदृश्यश्वत्थदलसदृशी वेति विकल्पः ।

सा च योनिः पश्चिमतः कार्या–

“पश्चिमे मध्यभागे तु योनिं कुर्याद्विधानतः” इति गर्गोक्तेः ।

कुण्डाभावे स्थण्डिले होमः कार्यः–

“नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत्” इति शारदातिलकात् ।

अत्र द्वयोर्ग्रहणेन काम्ये1 न स्थण्डिलमित्यर्थादुक्तं भवति । मात्स्ये–

“तस्य चोत्तरपूर्वेण स्थण्डिलं हस्तमात्रकम् ।
त्रिवप्रं चतुरश्रं च वितस्त्युच्छ्रायसम्मितम् ।
द्विरङ्गुलोच्छ्रितो वप्रः प्रथमः समुदाहृतः ।
अङ्गुलोच्छ्रायसय्ँयुक्तं वप्रद्वयमथोपरि ।
द्व्यङ्गुलस्तत्र विस्तारः सर्वेषां कथितो बुधैः” इति ।

तस्य कुण्डस्य । स्थण्डिलं वेदिः । वप्रो मेखला । वितस्तिर्द्वादशाङ्गुला, तया परिमितो य उच्छ्रायस्तेन सम्मितं सम्बद्धमित्यर्थः । द्विरङ्गुलोच्छ्रित इत्यत्र सुच्प्रयोग आर्षः । उपरि प्रथमवप्रोपरि । सर्वेषां वप्राणाम् ।

काम्येऽग्निचक्रमावश्यकम् । तच्च ज्योतिर्निबन्धे–

“सैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः ।
सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशो दिवि भूतले च” इति ।

शुक्लप्रतिपदमारभ्यात्र गणनेति साम्प्रदायिका ज्योतिर्विदः । एकया सहिता2 सैका3 गणितासु तिथिष्वधिकैका तिथिर्गणयितव्येत्यर्थः4 । अत्रैकवचनं द्वित्रादितिथिविषये जात्यभिप्रायं ज्ञेयम् । वारैर्युता5 कृताप्तेत्येतद्द्वयं6 तिथिविशेषणम् । कृतशब्देन कृतादियुगचतुष्टयबोधितचतुःसङ्ख्या7 लक्ष्यते । तेन चतुःसङ्ख्याया लाभः । आप्ता भाजिता8 । गुणास्त्रयः । अभ्रं शून्यम्9 । शश्येकः । युग्मं द्वौ । अन्यत्स्पष्टम् ।

एतदपवादस्तत्रैव–

“नित्ये नैमित्तिके कर्मण्यग्निचक्रं न विद्यते” इति10

अग्निचक्रं न विद्यते, अग्निचक्रापेक्षा नास्तीत्यर्थः ।

अथाऽऽहुतिपातो ज्योतिषे–

“तरणिविद्भृगुभास्करिचन्द्रमाः कुजसुरेज्यविधुन्तुदकेतवः ।
रविभतो दिनभं गणयेत्क्रमात्प्रतिखगं त्रितयं त्रितयं न्यसेत् ।
दिनकरार्कितमःकुजकेतवो हुतभुजो न शुभास्त्वितरे शुभाः ।
दहनचक्रमिदं प्रविलोक्यतां हवनकर्मणि सर्वसमृद्धये” इति ।

तरणिः सूर्यः । विद्बुधः । भृगुः शुक्रः । भास्करिः शनिः । चन्द्रमाः प्रसिद्धः । कुजो भौमः । सुरेज्यो गुरुः । विधुन्तुदो राहुः । केतुः प्रसिद्धः । दिनकरः सूर्यः । आर्किः शनिः । तमो राहुः । कुजो मङ्गलः । केतुश्चेत्येते हुतभुजश्चेन्न शुभाः । इतरेऽवशिष्टाश्चन्द्रबुधबृहस्पतिशुक्रा हुतभुजश्चेच्छुभा इत्यर्थः ।

अत्रापवादः क्रियासारे–

“नित्ये नैमित्तिके दुर्गाहोमादौ न विचारयेत्” इति ।

" (सर्वतोभद्रपीठे11 तु सर्वाधारं प्रकीर्तितम्” इति स्मृतिवचनात्सर्वतोभद्रपीठं वेदिकायां शान्तिरत्नमालायां वक्ष्यमाणेन प्रकारेण रचयित्वा तत्र ब्रह्मादिदेवता आवाह्य सम्पूज्य तदुपरि वेदिपरिमिते श्लक्ष्णे क्षौमवस्त्रे कार्पासवस्त्रे वा ग्रहपीठानि निष्पादयेत् ।

तत्प्रकार इत्थम्– वेदिपरिमितं श्लक्ष्णं क्षौमं वस्त्रं कार्पासं वा प्रसार्य वस्त्रप्रान्तेऽवध्यर्थं12 चतुर्दिक्षु समन्तादेकैकां रेखां लिखित्वा ततोऽन्तरैकैकाङ्गुलान्तरालास्तिस्रस्तथैव लिखित्वा शिष्टं चतुरश्रमन्तर्गतं प्रागुदक्च त्रेधा विभज्य तेन निष्पन्नेषु नवकोष्ठेषु मध्यकोष्ठे सूर्यस्य । आग्नेयकोष्ठे सोमस्य । दक्षिणकोष्ठे भौमस्य । ऐशानकोष्ठे बुधस्य । उत्तरकोष्ठे गुरोः । पूर्वकोष्ठे शुक्रस्य । पश्चिमकोष्ठे शनेः । नैर्ऋतकोष्ठे राहोः । वायव्यकोष्ठे केतोः । इत्येवं क्रमेण वक्ष्यमाणप्रकारेण लिखित्वा तत्तद्वर्णाक्षतैः पूरयेत् ।

अथवा– यथा ग्रहपीठानां पत्रेषु निवेशो भवति तावत्प्रमाणं पत्रं सकर्णिकमष्टपत्रं पद्मं विलिख्य कर्णिकायां सूर्यस्याऽऽग्नेयपत्रे सोमस्य दक्षिणपत्रे भौमस्यैशानपत्रे बुधस्योत्तरपत्रे गुरोः पूर्वपत्रे शुक्रस्य पश्चिमपत्रे शनेर्नैर्ऋततपत्रे राहोवार्याव्यपत्रे केतोरिति ।

ग्रहपीठरचनाप्रकारः

अथ ग्रहपीठरचनाप्रकारः ।

प्रसारितवस्त्रस्य मध्ये रक्तवर्णचूर्णेन षड्यूकासप्तयवसहितैकाङ्गुलात्मकव्यासार्धेन कर्काटकेन13 सूर्यस्य वृत्तं पीठं विदध्यात् ।

आग्नेय्यां श्वेतचूर्णेन यूकाद्वयसप्तयवसहितचतुरङ्गुलात्मकभुजचतुष्टयेन चतुरश्रं सोमस्य पीठम् । याम्यां रक्तवर्णचूर्णेन चतुर्यूकाधिकाङ्गुलत्रयात्मकभुजत्रयेणैकयूकापञ्चयवसहितद्व्यङ्गुललम्बकं त्रिकोणं दक्षिणाग्रं भौमस्य पीठम् ।

ई(ऐ)शान्यां पीतचूर्णेन चतुर्यवान्तरं चतुरङ्गुलदीर्घमुदक्संस्थं भुजसञ्ज्ञकं रेखाद्वयं समाग्रं लिखित्वैतद्रेखाद्वयोदग्गताग्रयोरन्तराले तदग्रसङ्गतामन्तरालप्रदेशप्रादेशपरिमितामेकां रेखां लिखित्वा पौरस्त्यभुजोत्तरदिग्गताग्रात्पुरतोऽग्रसल्ँलग्नां चतुर्यवात्मिकां प्राचीं रेखां विधाय तथैव पाश्चात्यभुजोत्तरदिग्गताग्रात्पश्चादग्रसल्ँलग्नां चतुर्यवात्मिकां प्रतीचीं14 रेखां विधाय भुजद्वयमध्यत उत्तर ऋजुतिर्यक्सूत्रं दत्त्वा भुजद्वयमध्यत15 उत्तरे लिक्षापञ्चकयूकाद्वयसहितपञ्चयवाधिकाङ्गुलद्वयं नीत्वा तत्र चिह्नं कृत्वा चतुर्यवात्मकप्राक्प्रत्यग्रेखाबहिष्प्रान्तावारभ्य चिह्नपर्यन्तं षड्यवाधिकद्व्यङ्गुलात्मकं भुजद्वयं कुर्यात्, इत्येवं बाणाकारं पीठं बुधस्य ।

उत्तरस्यां पीतचूर्णेन पूर्वपश्चिमभुजद्वयं त्र्यङ्गुलं दक्षिणोत्तरभुजद्वयं द्व्यङ्गुलमित्येवं दीर्घचतुरश्रपीठं गुरोः ।

पूर्वस्यां श्वेतचूर्णेन पञ्चयूकासप्तयवैकाङ्गुलात्मकव्यासार्धन कर्काटकेन16 वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य यूकात्रययवद्वयसहितद्व्यङ्गुलमिताः पञ्च ज्याः कृत्वा शिष्टं मार्जयेत्, इत्येवं पञ्चकोणपीठं शुक्रस्य । अथवा यूकाषट्कयवषट्कसहितद्व्यङ्गुलात्मकव्यासार्धेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य यूकाषट्कयवषट्कसहितत्र्यङ्गुलपरिमितप्रदेशे चिह्नं कृत्वा तत आरभ्यान्येषु प्रदेशेष्येवमेव चिह्नानीत्येवं पञ्च चिह्नानि कर्काटकेन कृत्वा यस्मात्कस्मादेकस्माच्चिह्नादनन्तरं चिह्नं विहाय तृतीयचिह्नसल्ँलग्नं यूकाद्वययवत्रयाधिकाङ्गुलपञ्चकपरिमितं बाहुं कृत्वैवमेवेतरांश्चतुरो बाहून्सम्पाद्य कोणाधस्थान्वाहून्वृत्तं च मार्जयेदित्येवमुत्कारसञ्ज्ञकं पञ्चकोणं शुक्रस्य पीठम् ।

पश्चिमायां कृष्णचूर्णेन लिक्षाचतुष्टययूकाचतुष्टययवचतुष्टयाधिकचतुरङ्गुलात्मकव्यासार्धेन वृत्तं कृत्वा वृत्तसङ्गतां यूकापञ्चकयवत्रयाधिकषडङ्गुलमितां ज्यां कुर्यादित्येवं प्रत्यग्ज्यं षडङ्गुलक्षेत्रफलं शनेः पीठम् । अथवा लिक्षाषट्कयवपञ्चकाधिकाङ्गुलद्वयात्मकव्यासार्धेन वृत्तं कृत्वा यूकाषट्कयवपञ्चाधिकाङ्गुलत्रयपरिमितां17 वृत्तरेखासल्ँलग्नां ज्यासञ्ज्ञकां रेखां दद्यादित्येवं द्व्यङ्गुलक्षेत्रफलं शनेः पीठम् ।

नैर्ऋत्यां नीलचूर्णेन चतुरङ्गुलपरिमितचतुर्भुजं चतुरश्रं कृत्वा तस्य चतुर श्रस्याऽऽग्नेयकोणाद्दक्षिणतो यूकाषट्कैकयवाधिकैकाङ्गुलात्मकं प्रदेशमृजुतया वर्धयित्वा तत्र चिह्नं कृत्वैवमेवोत्तरतो वर्धयित्वा चिह्नं कृत्वा दक्षिणदिग्गतचिह्नान्नैर्ऋतकोणपर्यन्तां रेखां लिखित्वोत्तरदिग्गतचिह्नाद्वायव्यकोणपर्यन्तां रेखां लिखित्वाऽधःस्थद्व्यङ्गुलात्मकभुजार्धयोश्चिह्नं कृत्वा ताभ्यां चिह्नाभ्यामेकैकाङ्गुलात्मकव्यासार्धन कर्काटकेन वृत्तद्वयं लिखेत्, मध्यस्थितं सर्वं मार्जयेदित्येवं शूर्पाकारं पीठं राहोः ।

वायव्यां नानावर्णैः पूर्वापरमष्टाङ्गुलदीर्घं चतुर्यवान्तरं रेखाद्वयं विलिख्याध आरभ्य पञ्चाङ्गुलप्रमाणमुपरिभागादेकाङ्गुलप्रमाणं प्रदेशमुत्तररेखायास्त्यक्त्वा शिष्टद्व्यङ्गुलप्रमाणां रेखां सम्मार्ज्यैकयवाधिकचतुरङ्गुलात्मकौ भुजावुत्तरतो मिथो लग्नास्यौ कुर्यादित्येवं ध्वजाकारं पीठं केतोः।

सर्वत्र कोष्ठमध्यभागानुसारेण पीठमध्यभागकल्पना । आदित्याभिमुखाः सर्व इत्येतस्मिन्पक्षे सोमचतुरश्रपीठस्य दिक्षु कोणाः कल्पनीयाः । भौमस्य तु पूर्ववदेव । बाणस्याग्रमीशानकोष्ठनैर्ऋतकोणसम्मुखं यथा भवति तथा बुधबाणाकारपीठम् । बृहस्पतेः पूर्ववदेव । शुक्रपीठस्य पश्चिमां दिशमारभ्य पञ्चज्याकल्पनम् । शनेः पीठं प्राग्ज्यं कल्पनीयम् । नैर्ऋतकोष्ठेशानकोणाभिमुखं राहुपीठं शूर्पाग्रं कल्पनीयम् । ध्वजस्योत्तराग्रता पूर्वत्रोक्ताऽत्र दक्षिणाग्रतेति केतुपीठम् । इति विशेषः ) सर्वतोभद्रादिपीठं18 मूलमन्त्रेण जुहुयादितिवचनाभावान्न मूलमन्त्रेण होमः,

किन्तु–“प्रणवादिचतुर्थ्यन्तं19 स्वाहाशब्दसमन्वितम्20
स्यात्पीठदेवताहोमे मन्त्रो21 नामैव कीर्तितः” ।

इति तन्त्रप्रकाशकारोक्तेर्नमःशब्दरहितेनैव22 नाममन्त्रेण होम इति द्रष्टव्यम् । मूलमन्त्रस्वरूपं23 तु गारुडे–

“प्रणवादिचतुर्थ्यन्तं नमोन्तं चैव सत्तम ।
देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्तितः” इति ।

तथा च यत्र मूलमन्त्रेण जुहुयादिति वचनं विशेषविहितमन्त्राभावश्च तत्रायं मूलमन्त्रः । तेन कर्तव्ये होमे नमःशब्दोत्तरं स्वाहाकारो24 भवति ।

ग्रहमख प्रयोगः।

अथ प्रयोगः–कर्ता स्नात्वा नित्यकर्म निर्वर्त्य मौहूर्तिकोक्ते25 काल आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य करिष्यमाणामुककर्मणि ग्रहानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहयज्ञं करिष्य इत्युपनयनादिकर्मप्रारम्भेषु नैमित्तिकग्रहयज्ञसङ्कल्पः । त्रिजन्मनक्षत्रायनविषुवोपरागेषु त्रिजन्मनक्षत्रे ग्रहयज्ञं करिष्ये । अयने विषुव उपरागे वा ग्रहयज्ञं करिष्य इति नित्यग्रहयज्ञसङ्कल्पः । विपदपगमसम्पदादिकामनासु विपदपगमार्थं सम्पत्प्राप्त्यर्थं पुष्टिप्राप्त्यर्थमित्येवं तत्तत्कामनानुसारेण काम्यग्रहयज्ञसङ्कल्पः26 । ततः सम्भारान्सम्भरेत् । तत्र नित्यनैमित्तिकयोर्यथोक्तवस्तूनि तदभावे प्रतिधिनिरूपाणि वा यथासम्भवं सम्पादयेत् । काम्ये तु प्रतिनिध्यभावाद्यथोक्तवस्तून्येव27 । सङ्कल्पात्पूर्वं वा सम्भारसम्भरणम् ।

ततो गणपतिपूजनादिनान्दीश्राद्धान्तं कृत्वाऽऽचार्यादिवरणं कुर्यात् । अमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशाखाध्याय्यमुकशर्माऽहममुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणमस्मिन्ग्रहयज्ञ28 आचार्यत्वेन त्वां वृण इति विधिज्ञं कर्मकुशलं स्वशाखाविदं सदाचारिणं ब्राह्मणं पाणिना पाणिं संस्पृश्य वृणुयात् । तद्धस्ते29 फलादि दद्यादित्याचारः ।

ततस्तं सम्पूज्य प्रार्थयेत्–

“आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत” इति ।

ततो ब्रह्माणं वृत्वा सम्पूज्य–

“यथा चतुर्मुखो ब्रह्मा स्वर्गे लोके पितामहः ।
तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम”30 इति तं31 प्रार्थयेत् ।

ततः सदस्यं वृत्वा सम्पूज्य–

“भगवन्सर्वधर्मज्ञ सर्वधर्मभृतां वर ।
वितते मम यज्ञेऽस्मिन्सदस्यो भव सुव्रत” । इति32 तं प्रार्थयेत् ।

ततो होमानुसारेणर्त्विजो वृत्वा33 सम्पूज्य–34

“अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया ।
सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम्” इति तान्प्रार्थयेत् ।

अथाऽऽचार्योऽग्न्यायतनस्य पश्चादुपविश्याऽऽचम्य प्राणानायम्य–

“यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।
अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे” ।

इति प्रागादिक्रमेण सर्वतः सर्षपान्विकीर्य, शुची व इत्यस्य विश्वे देवा मरुतस्त्रिष्टुप् । अग्निः शुचित्तव्रततम इति द्वयोर्विश्वे देवा अग्निः शुचिर्गायत्री, पञ्चगव्येन भूमिप्रोक्षणे35 विनियोगः– “ॐ शुची वो हव्या मरुतः शु० पावकाः । अग्निः शुचिव्रत० हुतः । उदग्ने शु० प्यर्चयः” । इति पञ्चगव्येन सर्वतो यागभूमिं36 प्रोक्ष्य । आपो हि ष्ठेतितृचस्याग्निरापो गायत्री, शुद्धोदकेन भूमिप्रोक्षणे विनियोगः– “ॐ आपो हि ष्ठा मयो० यथा च नः” इति शुद्धोदकेन सर्वतो यागभूमि37 प्रोक्ष्य, स्वस्ति न इत्यस्य याज्ञिक्यो देवता उपनिषद इन्द्रादयो विराट्त्रिष्टुप् । जपे विनियोगः– “ॐ स्वस्ति न इन्द्रो वृद्ध० दधातु” इति जपित्वा, देवा आयान्तु यातुधाना अपयान्तु38 विष्णो देवयजनं रक्षस्वेत्यग्न्यायतनात्पश्चाद्भूमिमभिमृशेत् । मण्डपपक्षे मण्डपार्थभूमिशोधनादि तदीयदेवतापूजनान्तं39 मत्कृतशान्तिरत्नमालापद्धत्युक्तरीत्या कुर्यात् । (40 उक्तलक्षणकुण्डसत्त्वे तत्कुशमुष्टिना सम्मृज्य कुण्डोपरितनमेखलायां श्वेतवर्णभूषितायामिदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । विष्ण्वावाहने वि० “ॐ इदं विष्णुर्विचक्रमे० पा सुरे । विष्णवे नमो विष्णुमावाहयामि” इति विष्णुमावाहयेत् । ततो मध्यममेखलायां रक्तवर्णभूषितायां ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने वि० “ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि० श्च विवः । ब्रह्मणे नमो ब्रह्माणमावाहयामि " इति ब्रह्माणमावाहयेत् । ततोऽधोमेखलायां कृष्णवर्णभूषितायां मृडा नो रुद्रेत्यस्याग्नी रुद्रो विराड्जगती । रुद्रावाहने वि० “ॐ मृडा नो रुद्रोत नो मयस्कृधि० प्रणीतौ । रुद्राय नमः, रुद्रमावाहयामि” इति रुद्रमावाहयेत् । उदकस्पर्शः । ततो योन्यां रक्तवर्णभूषितायां गौरीर्मिमायेत्यस्य विश्वे देवा गौरी जगती, गौर्यावाहने वि० “ॐ गौरीर्भिमाय सलिलानि तक्ष० व्योमन् । गौर्यै नमः, गौरीमावाहयामि” इति गौरीमावाहयेत् । ततः पदार्थानुसमयेन तैरेव मन्त्रैः क्रमेण षोडशोपचारैः) सम्पूज्याऽऽयतनं समन्ताद्रङ्गवल्लिकया भूषयित्वा गोमयेनोपलिप्योद्धननादि41 कृत्वा वरदनामानं मथितं श्रोत्रियागारादाहृतं वाऽग्निं प्रतिष्ठाप्य “ॐ चत्वारि शृङ्गा” इति ध्यायेत् । पुष्टिकामनायां तु बलवर्धननामाऽग्निः । ततो42 ग्रहपीठदेवतास्थापनादि कुर्यात् ।

तद्यथा–मण्डपस्येशानकोष्ठे मध्य एकहस्तप्रमाणां चतुरश्रां43 द्वादशाङ्गुलोच्चां वेदिं विधाय तस्या अधस्तादेकाङ्गुलोच्छ्रायं द्व्यङ्गुलविस्तारमेकं वप्रं कृत्वा तस्याधस्तात्तथैवान्यदेकं वप्रं कृत्वा तस्याधस्तादेकं वप्रं द्व्यङ्गुलोच्छ्रायविस्तारं कृत्वा तद्वप्रत्रयमुपरितनवप्रमारभ्य क्रमेण श्वेतरक्तकृष्णचूर्णै रञ्जयेत्44 । एतानि वप्राणि वेदिप्रमाणान्तर्गतान्येव भवन्ति । ततस्तस्यां सति सम्भवे45 मत्कृतशान्तिरत्नमालोक्तरीत्या सर्वतोभद्रं46 विरच्य तत्र ब्रह्मादिदेवता47 आवाहयेत् ।

तद्यथा–ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने विनियोगः ।“ॐ ब्रह्म जज्ञानं० विवः । ब्रह्मणे नमः, ब्रह्माणमावाहयामि” इति पीठमध्ये ब्रह्माणम् ।

आप्यायस्वेत्यस्य सोमोऽग्निर्वा सोमो गायत्री । सोमावाहने विनियोगः । “ॐ आप्यायस्व समे० सङ्गथे । सोमाय नमः सोममावाहयामि” इत्युत्तरे सोमम् ।

अभि त्वेत्यस्य विश्वे देवा ईशानो गायत्री । ईशानावाहने विनियोगः–

“ॐ अभि त्वा० महे । ईशानाय नमः, ईशानमावाहयामि” इतीशान्यामीशानम् ।

इन्द्रं वो विश्वत इत्यस्य विश्वे देवा इन्द्रो गायत्री । इन्द्रावाहने विनियोगः– “ॐ इन्द्रं वो विश्व० वलः । इन्द्राय नमः, इन्द्रमावाहयामि” इति पूर्व इन्द्रम् ।

अग्निं दूतमित्यस्य प्रजापतिरग्निर्गायत्री । अग्न्यावाहने विनियोगः– “ॐ अग्निं दूतं वृणी० सुक्रतुम् । अग्नये नमोऽग्निमावाहयामि” इत्य्-आग्नेय्यामग्निम् । यमाय सोममित्यस्य प्रजापतिर्यमोऽनुष्टुप् । यमावाहने विनियोगः– “ॐ यमाय सोम० कृतः । यमाय नमः, यममावाहयामि” इति दक्षिणे यमम् ।

देवीमहमित्यस्याग्निर्निर्ऋतिस्त्रिष्टुप् । निर्ऋत्यावाहने विनियोगः–“ॐ देवीम० चष्टे । निर्ऋतये नमो निर्ऋतिमावाहयामि” इति नैर्ऋत्यां निर्ऋतिम् ।

तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । वरुणावाहने विनियोगः– “ॐ तत्त्वा यामि० प्रमोषीः । वरुणाय नमो वरुणमावाहयामि” इति पश्चिमे वरुणम् ।

वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । वाय्वावाहने विनियोगः– “ॐ वायो शतं० पाजसा । वायवे नमो वायुमावाहयामि” इति वायव्यां वायुम् ।

अष्टौ देवा इत्यस्य विश्वे देवा अष्टौ वसवो विराट्त्रिष्टुप् । अष्टवस्वावाहने विनियोगः– “ॐ अष्टौ देवा० स्वस्ति । अष्टवसुभ्यो नमोऽष्टवसूनावाहयामि” इति वायुसोममध्येऽष्टौ वसुन्

नीलग्रीवाः शितिकण्ठा इत्यस्याग्निरेकादश रुद्रा अनुष्टुप् । एकादशरुद्रावाहने विनियोगः–“ॐ नीलग्री० श्रिताः । तेषा सहस्रयोजनेऽव धन्वानि तन्मसि । एकादशरुद्रेभ्यो नम एकादश रुद्रानावाहयामि” इति सोमेशानयोर्मध्य एकादश रुद्रान् ।

त्यान्न्वित्यस्य विश्वे देवा द्वादशाऽऽदित्या गायत्री । द्वादशादित्यावाहने विनियोगः– “ॐ त्यान्नु क्षत्त्रि० ष्टये । द्वादशादित्येभ्यो नमो द्वादशाऽऽदित्यानावाहयामि” इतीशानेन्द्रयोर्मध्ये द्वादशादित्यान् ।

या वां कशेत्यस्य सोमोऽश्विनौ गायत्री । अश्व्यावाहने विनियोगः– “ॐ या वा कशा० क्षतम् । अश्विभ्यां नमोऽश्विनावावाहयामि” इतीन्द्राग्न्योर्मध्येऽश्विनौ ।

ओमास इत्यस्य सोमो विश्वे देवा गायत्री । विश्वे(श्वे)देवावाहने विनियोगः–“ॐ ओमासश्च० सुतम्” विश्वेभ्यो देवेभ्यो नमो विश्वान्देवानावाहयामि । इत्यग्नियमयोर्मध्ये विश्वान्देवान् ।

अभि त्यमित्यस्य सोमः सप्तयक्षाः प्रकृतिः । सप्तयक्षावाहने विनियोगः–“ॐ अभि त्यं देव० सुवः” सप्तयक्षेभ्यो नमः सप्तयक्षानावाहयामि । इति यमनिर्ऋत्योर्मध्ये सप्तयक्षान् ।

आऽयं गौरित्यस्याग्निः सर्पा गायत्री । सर्पावाहने विनियोगः– “ॐ आऽयं गौः पृ० न्त्सुवः” । सर्पेभ्यो नमः सर्पानावाहयामि । इति निर्ऋतिवरुणयोर्मध्ये सर्पान् । ऋताषाडित्यस्य पान्त्वित्यन्तस्य विश्वे देवा गन्धर्वाप्सरसो यजुः । गन्धर्वाप्सरआवाहने विनियोगः । “ॐ ऋताषाडृतधा० पान्तु” गन्धर्वाप्सरोभ्यो नमो गन्धर्वाप्सरस आवाहयामि । इति वरुणवाय्वोर्मध्ये गन्धर्वाप्सरसः।

यदक्रन्द इत्यस्य विश्वे देवाः स्कन्दस्त्रिष्टुप् । स्कन्दावाहने विनियोगः– ॐ “यदक्रन्दः प्रथ० जातं ते अवन्” स्कन्दाय नमः स्कन्दमावाहयामि । इति ब्रह्मसोममध्ये स्कन्दम् ।

तत्पुरुषाय विद्महे चक्रतुण्डायेत्यस्य याज्ञिक्यो देवता उपनिषदो नन्दीश्वरो गायत्री । नन्दीश्वरावाहने विनियोगः । ‘ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात्” नन्दीश्वराय नमो नन्दीश्वरमावाहयामि । इति स्कन्दस्योत्तरतो नन्दीश्वरम् ।

यत्ते गात्रादित्यस्य विश्वे देवाः शूलो भूरिकत्रिष्टुप् । शूलावाहने विनियोगः । “ॐ यत्ते गात्रा० मस्तु” शूलाय नमः शूलमावाहयामि । इति नन्दीश्वरस्योत्तरतः शूलम् ।

कार्पिरसीत्यस्य सोमो महाकालो यजुः । महाकालावाहने विनियोगः । “ॐ कार्षिर० षां मृध्रम्” महाकालाय नमो महाकालमावाहयामि । इति शूलस्योत्तरतो महाकालम् ।

द्वाविमौ वातौ वात इत्यस्य विश्वे देवा दक्षोऽनुष्टुप् । दक्षावाहने विनियोगः । “ॐ द्वाविमौ० यद्रपः” दक्षाय नमो दक्षमावाहयामि । इति ब्रह्मेशानयोर्मध्ये दक्षम् ।

तामग्निवर्णामित्यस्य याज्ञिक्यो देवता उपनिषदो दुर्गा त्रिष्टुप् । दुर्गावाहने विनियोगः । “ॐ तामग्निवर्णां० तरसे नमः” दुर्गायै नमो दुर्गामावाहयामि । इति ब्रह्मेन्द्रयोर्मध्ये दुर्गाम् ।

इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । विष्ण्वावाहने विनियोगः । “ॐ इदं वि० सुरे” विष्णवे नमो विष्णुमावाहयामि । इति दुर्गायाः पुरतो विष्णुम् ।

उदीरतामित्यस्य विश्वे देवाः स्वधा त्रिष्टप् । स्वधावाहने विनियोगः । “ॐ उदीरताम० हवेषु” स्वधायै नमः स्वधामावाहयामि । इति ब्रह्माग्न्योर्मध्ये स्वधाम् ।

परं मृत्यो, इत्यस्य विश्वे देवा मृत्युरोगात्रिष्टुप् । मृत्युरोगावाहने विनि योगः । “ॐ परं मृत्यो० वीरान्” । मृत्युरोगेभ्यो नमो मृत्युरोगानावाहयामि । इति ब्रह्मयमयोर्मध्ये मृत्युरोगान् ।

गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । गणपत्यावाहने विनियोगः । “ॐ गणानां त्वा० सादनम्” गणपतये नमो गणपतिमावाहयामि । इति ब्रह्मनिर्ऋत्योर्मध्ये गणपतिम् ।

शं नो देवीरित्यस्य विश्वे देवा आपो गायत्री । अबावाहने विनियोगः । “ॐ शं नो देवी० न्तु नः’ अद्भ्यो नमोऽप आवाहयामि । इति ब्रह्मवरुणयोर्मध्ये, अपः ।

मरुतो यस्येत्यस्य विश्वे देवा मरुतो गायत्री । मरुदावाहने विनियोगः । ‘ॐ मरुतो यस्य० जनः’ मरुद्भ्यो नमो मरुत आवाहयामि । इति ब्रह्मवाय्वोर्मध्ये मरुतः ।

स्योना पृथिवीत्यस्य याज्ञिक्यो देवता उपनिषदः पृथिवी गायत्री । पृथिव्यावाहने विनियोगः । “ॐ स्योना पृथिवि भवा० प्रथाः’ पृथिव्यै नमः प्रथिवीमावाहयामि । इति ब्रह्मणः पादमूले कर्णिकाधः पृथिवीम् ।

इमं मे गङ्ग इत्यस्य याज्ञिक्यो देवता उपनिषदो गङ्गादिनद्यो जगती । गङ्गादिनद्यावाहने विनियोगः । ‘ॐ इमं मे गङ्गे० सुषोमया’ गङ्गादिनदीभ्यो नमो गङ्गादिनदीरावाहयामि । इति तत्रैव गङ्गादिनदीः । धाम्नो धाम्न इत्यस्य सोमः सप्तसागराः पङ्क्तिः । सप्तसागरावाहने विनियोगः । ‘ॐ धाम्नो धाम्नो० नो मुञ्च’ । सप्तसागरेभ्यो नमः सप्तसागरानावाहयामि । इति तत्रैव सप्तसागरान् ।

“ॐ मेरवे नमो मेरुमावाहयामि’ । इति तदुपरि मेरुम् ।

तत आयुधानि । ‘ॐ गदायै नमो गदामावाहयामि’ इति सोमस्योत्तरे गदाम् । ‘ॐ त्रिशूलाय नमस्त्रिशूलमावाहयामि’ । इतीशानस्येशान्यां त्रिशूलम् । ‘ॐ वज्राय नमो वज्रमावाहयामि । इतीन्द्रस्य पूर्वे वज्रम् । ‘ॐ शक्तये नमः शक्तिमावाहयामि’ । इत्यग्नेराग्नेय्यां शक्तिम् । ‘ॐ दण्डाय नमो दण्डमावाहयामि’ इति यमस्य दक्षिणे दण्डम् । ‘ॐ खड्गाय नमः खड्गमावाहयामि’ इति निर्ऋतेनैर्ऋत्यां खड्गम् । ‘ॐ पाशाय नमः पाशमावाहयामि’ इति वरुणस्य पश्चिमे पाशम् । ‘ॐ अङ्कुशाय नमोऽङ्कुशमावाहयामि’ इति वायोर्वायव्यामङ्कुशम् । इत्य्-आयुधानि ।

‘ॐ गौतमाय नमो गौतममावाहयामि’ इति गदाया उत्तरे गौतमम् । ‘ॐ भरद्वाजाय नमो भरद्वाजमावाहयामि’ इति त्रिशूलस्येशान्याम् । ‘ॐ विश्वामित्राय नमो विश्वामित्रमावाहयामि’ इति वज्रस्य पूर्वे विश्वामित्रम् । ‘ॐ कश्यपाय नमः कश्यपमावाहयामि’ इति शक्तेराग्नेय्यां कश्यपम् । ‘ॐ जमदग्नये नमो जमदग्निमावाहयामि’ इति दण्डस्य दक्षिणे जमदग्निम् । ‘ॐ वसिष्ठाय नमो वसिष्ठमावाहयामि’ इति खड्गस्य नैर्ऋत्यां वसिष्ठम् ।‘ॐ अत्रये नमोऽत्रिमावाहयामि’ इति पाशस्य पश्चिमेऽत्रिम् । ‘ॐ अरुन्धत्यै नमोऽरुन्धतीमावाहयामि’ इत्यङ्कुशस्य वायव्यामरुन्धतीम् । इत्यृषीन् ।

‘ॐ ऐन्द्र्यै नम ऐन्द्रीमावाहयामि’ इति विश्वामित्रस्य पूर्वं ऐन्द्रीम् । ‘ॐ कौमार्यै नमः कौमारीमावाहयामि’ इति कश्यपस्याऽऽग्नेय्यां कौमारीम् । ‘ॐ ब्राह्म्यै नमो ब्राह्मीमावाहयामि’ इति जमदग्नेर्दक्षिणे ब्राह्मीम् । ‘ॐ वाराह्यौ नमो वाराहीमावाहयामि’ इति वसिष्ठस्य नैर्ऋत्यां वाराहीम् । ‘ॐ चामुण्डायै नमश्चामुण्डामावाहयामि’ इति अत्रेः पश्चिमे चामुण्डाम् । ‘ॐ वैष्णव्यै नमो वैष्णवीमावाहयामि’ इत्यरुन्धत्या वायव्यां वैष्णवीम् । ‘ॐ माहेश्वर्यै नमो माहेश्वरीमावाहयामि’ इति गौतमस्योत्तरे माहेश्वरीम् । ‘ॐ वैनायक्यै नमो वैनायकीमावाहयामि” इति भरद्वाजस्येशान्यां वैनायकीम् । इत्यष्ट शक्तयः ।

एता देवता आवाह्य, नर्य प्रजामित्यस्याग्निर्नर्योऽनुष्टुप् । एतासां देवतानां प्रतिष्ठापने विनियोगः । “ॐ नर्य प्रजां मे गोपाय । अमृत० प्रतिष्ठिताम्” इति प्रतिष्ठाप्य (48 पदार्थानुसमयेन पूजयेत् । काण्डानुसमयपक्ष आवाहनादिषोडशोपचा

रैरेकस्य पूजां कृत्वा परस्याऽऽवाहनादिषोडशोपचारैः पूजां कुर्यादित्येवं क्रमेण सर्वदेवतापूजनम् ।

तत आयतनकरणादि । आघारवत्तन्त्रेणैतदुद्देशेन दश दश तिलाहुतीर्घृता हुतीर्वा जुहुयात् । एकैकाहुतिरिति सम्प्रदायः । मेर्वादीनां नमःशब्दरहितैः प्रणवादिचतुर्थ्यन्तैः स्वाहाशब्दसमन्वितैर्नाममन्त्रैर्होमः । होमकर्मणि समाप्ते ग्रहपीठवस्त्रं प्राच्यां शुक्रपीठं यथा भवति तथा सर्वतोभद्रपीठोपर्यास्तीर्य प्रतिमानामग्न्युत्तारणं कुर्यात् ।

अग्न्युत्तारणपूर्वकप्राणप्रतिष्ठा

अथाग्न्युत्तारणपूर्वकप्राणप्रतिष्ठा ।

अश्मन्नूर्जमित्यनुवाकमन्त्राणामग्निर्ऋषिरग्निर्देवता । त्रिष्टुवादीनि च्छन्दांसि । अग्न्युत्तारणे विनियोगः । “ॐ अश्मन्नू० स्वस्ति” इत्यनुवाकेन प्रतिमानामग्न्युत्तारणं कृत्वा पञ्चामृतैः शुद्धोदकेन च प्रक्ष्याल्य49 तत्तद्दिगानना ग्रहप्रतिमाः स्थापयित्वा सूर्यप्रतिमायाः कपोलौ स्पृष्ट्वा प्राणप्रतिष्ठां विदध्यात् ।

अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामानि च्छन्दांसि । चिद्रूपा परा प्राणशक्तिर्देवता । आं बीजं, ह्रीं शक्तिः । क्रों50 कीलकम् । सूर्यप्रतिमायां प्राणप्रतिष्ठापने विनियोगः । ॐ आं ह्रीं क्रों51 यं रं लं वं शं षं सं हों (ओं52 क्षं सं हंसः ह्रीं ओं) हंसः सोऽहं सूर्यप्रतिमायाः प्राणा इह प्राणाः । ओं आं ह्रीं क्रों53 यं रं लं वं शं षं सं हों हंसः सोऽहं सूर्यप्रतिमाया जीव इह स्थितः । ओं आं ह्रीं क्रों54 यं रं लं वं शं षं सं हों हंसः सोऽहं सर्वेन्द्रियाणि55 वाङ्मनश्चक्षुःश्रोत्रत्वग्जिह्वाघ्राणपाणिपादपायूपस्था इहैवाऽऽगत्य स्वस्तये सुखं चिरं तिष्ठन्तु स्वाहा । इति जपेत् ।

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै56 देवत्वमर्चायै स्वाहा । इति मन्त्रमुक्त्वा प्रतिमां सजीवां ध्यायेत्57 । एवं प्राणप्रतिष्ठां विधाय प्रतिमां पञ्चामृतैः संस्नाप्य शुद्धोदकेन स्नापयेत् ।

तत उदु त्यमित्यस्य सोमः सूर्यो गायत्री । सूर्यप्रतिमानेत्रोन्मीलने विनियोगः । “ॐ उदु त्यं जात० सूर्यम्” इतिमन्त्रेण सुवर्णशलाकया दर्भशलाकया वा गोघृतं गृहीत्वा तेन प्रतिमाया दक्षवामनेत्रे मन्त्रावृत्त्या क्रमेणोन्मील्य । अञ्जन्ति त्वामित्यस्य विश्वे देवा वनस्पतिस्त्रिष्टुप् । सूर्यप्रतिमानेत्रयोर्मधुनाऽभ्यञ्जने विनियोगः । “ॐ अञ्जन्ति त्वामध्वरे० पस्थे” इति मन्त्रा वृत्त्या क्रमेण मधुना नेत्रे अभ्यज्योपहारं निवेदयेत् । नेत्रोन्मीलनमारभ्य58 प्रतिमायाः पुरतो59 न तिष्ठेत् । एवं सोमादिप्रतिमानामग्न्युत्तारणादिकमूहेन । प्रत्येकं कर्तुमशक्तौ सर्वासां सहैवोहेन । तत्र हंसः सोऽहमित्यनन्तरं सूर्यादिप्रतिमासु प्राणप्रतिष्ठापने वि० सूर्यादिप्रतिमानां प्राणा इत्य्-आदिरूहो यथायथम् । ततो ग्रहानावाहयेत् ।

तद्यथा–आ सत्येनेत्यस्य विश्वे देवाः सूर्यस्त्रिष्टुप् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । सूर्यावाहने विनियोगः । “ॐ आ सत्येन० विपश्यन्” ॐ भूर्भुवः सुवः,’ भगवन्ग्रहाधिपते किरीटिंस्त्रिदेवतामय पद्मासन पद्माभयकर द्विभुज लोहितमाल्याम्बरधर लोहितगन्धानुलेपन माणिक्याभरणभूषित जपापुष्पोपमद्युते सप्ताश्वरथारूढ कलिङ्गदेशोद्भव काश्यपसगोत्र सूर्येहाऽऽगच्छेति मध्ये द्वादशाङ्गुले वर्तुल आरक्ताक्षतापूरिते पीठे प्राङ्मुख्यां ताम्रप्रतिमायां रक्ताक्षतैः सूर्यमावाह्येहाधितिष्ठेति स्थापयेत् । भूर्भुवः सुवरित्यादिदेवतापदान्तमुक्त्वा पूजार्थं त्वामावाहयामीत्यावाह्येहाधितिष्ठेति स्थापयेदित्येवं वा सर्वत्र प्रयोगः ।

आप्यायस्वेत्यस्य सोमो विश्वे देवा वा सोमो गायत्री । व्याहृतीनामृष्यादि पूर्ववत्सर्वत्र । सोमावाहने विनियोगः । “ॐ आप्यायस्व समेतु ते० वाजस्य सङ्गथे” भूर्भुवः सुवः, भगवन्नक्षत्राधिपते किरीटिन्सुधामय गदावरकर60 द्विभुज श्वेतमाल्याम्बरधर श्वेतगन्धानुलेपन मौक्तिकाभरणभूषित गोक्षीरोपमद्युते दशाश्वरथारूढ यमुनातीरोद्भवाऽऽत्रेयसगोत्र सोमेहाऽऽगच्छेत्याग्नेय्यां चतुर्विंशत्यङ्गुले चतुरश्रे श्वेताक्षतपूरिते पीठे प्रत्यङ्मुख्यां स्फटिकप्रतिमायां रजतप्रतिमायां वा श्वेताक्षतैः सोममावाह्येहाधितिष्ठेति स्थापयेत् ।

अग्निमूर्धेत्यस्य प्रजापतिरग्निर्वाऽङ्गारको गायत्री । समस्तव्या० अङ्गारकावाहने विनियोगः । ‘ॐ अग्निर्मूर्धा जिन्वति’ भूर्भुवः सुवः, भगवन्नग्न्याकृते किरीटिञ्शक्तिशूलगदावरकर चतुर्भुज लोहितमाल्याम्बरधर लोहितगन्धानुलेपन प्रवालाभरणभूषित ज्वलत्पुञ्जोपमद्युते रक्तमेषरथारूढावन्तिकासमुद्भव भारद्वाजसगोत्राङ्गारकेहाऽऽगच्छेति दक्षिणे त्र्यङ्गुलत्रिकोणे रक्ताक्षतपूरिते पीठे दक्षिणामुख्यां रक्तचन्दनप्रतिमायां सुवर्णप्रतिमायां वा रक्ताक्षतैरङ्गारकमावाह्येहाधितिष्ठेति स्थापयेत् । उद्बुध्यस्वेत्यस्याग्निर्बुधस्त्रिष्टुप् । समस्तव्या० बुधावाहने विनियोगः ।“ॐ उद्बुध्यस्वा० मेतम्” भूर्भुवः सुवः, भगवन्सौम्याकृते किरीटिन्सर्वज्ञानमय खड्गचर्मगदावरकर चतुर्भुज पीतमाल्याम्बरधर पीतगन्धानुलेपन मरकताभरणभूषित कुङ्कुमोपमद्युते पीतसिंहरथारूढ मगधदेशोद्भवाऽऽत्रेयसगोत्र बुधेहाऽऽगच्छेत्यैशान्यां चतुरङ्गुले बाणाकारे पीताक्षतपूरिते पीठ उदङ्मुख्यां सुवर्णप्रतिमायां पीताक्षतैर्बुधमावाह्येहाधितिष्ठेति स्थापयेत् ।

बृहस्पत इत्यस्य विश्वे देवा बृहस्पतिस्त्रिष्टुप् । समस्त० वृहस्पत्यावाहने विनियोगः । “ॐ बृहस्पते अति यद० चित्रम्” भूर्भुवः सुवः, भगवन्सर्वदेवताचार्य किरीटिन्सर्वविद्यामय दण्डाक्षसूत्रकमण्डलुवरकर चतुर्भुज पीतमाल्याम्बरधर पीतगन्धानुलेपन पुष्परागाभरणभूषित सुवर्णोपमद्युते पीताश्वरथारूढ सिन्धुदेशोद्भवाऽऽङ्गिरससगोत्र बृहस्पत इहाऽऽगच्छेत्युत्तरे षडङ्गुले दीर्घचतुरश्रे पीताक्षतपूरिते पीठ उदङ्मुख्यां सुवर्णप्रतिमायां पीताक्षतैर्बृहस्पतिमावाह्येहाधितिष्ठेति स्थापयेत् ।

शुक्रं त इत्यस्य विश्वे देवाः शुक्रस्त्रिष्टुप् । समस्त० शुक्रावाहने विनियोगः । “ॐ शुक्रं ते अन्य० रातिरस्तु” भूर्भुवः सुवः, भगवन्सर्वदैत्याचार्य किरीटिन्सर्वविद्यामय दण्डाक्षसूत्रकमण्डलुवरकर चतुर्भुज श्वेतमाल्याम्बरधर श्वेतगन्धानुलेपन वज्राभरणभूषित रजतोपमद्युते शुक्लाश्वरथारूढ भोजकटदेशोद्भव भार्गवसगोत्र शुक्रेहाऽऽगच्छेति पूर्वे नवाङ्गुले पञ्चकोणे श्वेताक्षतपूरिते पीठे प्राङ्मुख्यां रजतप्रतिमायां शुक्लाक्षतैः शुक्रमावाह्येहाधितिष्ठेति स्थापयेत् ।

शं नो देवीरित्यस्याग्निः प्रजापतिर्वा शनैश्चरो गायत्री । समस्त० शनैश्चरावाहने विनियोगः । “ॐ शं नो देवी० तु नः” भूर्भुवः सुवः, भगवन्क्रूराकृते किरीटिञ्शूलबाणधनुर्वरकर चतुर्भुज नीलमाल्याम्बरधर नीलगन्धानुलेपन नीलाभरणभूषित कज्जलमीनोपमद्युते नीलगृध्ररथारूढ सौराष्ट्रदेशोद्भव काश्यपसगोत्र शनैश्चरेहाऽऽगच्छेति पश्चिमे द्व्यङ्गुले धनुराकारे नीलाक्षतपूरिते पीठे प्रत्यङ्मुख्यां लोहप्रतिमायां नीलाक्षतैः शनैश्चरमावाह्येहाधितिष्ठेति स्थापयेत् ।

कया न इत्यस्य विश्वे देवा राहुर्गायत्री । समस्त० राह्वावाहने विनियोगः। “ॐ कया नश्चि० वृता” भूर्भुवः सुवः, भगवन्क्रूराकृते किरीटिन्करालवदन सिंहिकानन्दन खड्गचर्मशूलवरकर चतुर्भुज कृष्णमाल्याम्बरधर कृष्णगन्धानुलेपन गोमेदाभरणभूषित कालमेघोपमद्युते कृष्णसिंहरथारूढ राठिनापुरोद्भव पैठीनसिसगोत्र राहो, इहाऽऽगच्छेति नैर्ऋत्यां द्वादशाङ्गुले शूर्पाकारे कृष्णाक्षतपूरिते पीठे दक्षिणामुख्यां सीसप्रतिमायां कृष्णाक्षतै राहुमावाह्येहाधितिष्ठेति स्थापयेत् ।

केतुं कृण्वन्नित्यस्य विश्वे देवाः केतुर्गायत्री । समस्त० केत्वावाहने विनियोगः । “ॐ केतुं कृण्वन्न० यथाः” भूर्भुवः सुवः, भगवन्क्रूराकृते किरीटिन्गदावरकर द्विभुज चित्रमाल्याम्बरधर चित्रगन्धानुलेपन वैडूर्याभरणभूषित धूम्रोपमद्युते चित्रकपोतरथारूढान्तर्वेदिसमुद्भव जैमिनिसगोत्र केतविहाऽऽगच्छेति वायव्यां षडङ्गुले ध्वजाकारे चित्राक्षतपूरिते पीठे दक्षिणामुख्यां कांस्यप्रतिमायां चित्राक्षतैः केतुमावाह्येहाधितिष्ठेति स्थापयेत् । बहुवचनान्तो वा केतुशब्दः । अस्मिन्पक्ष ऋष्यादिस्मरणवाक्ये केतव इत्यूहः । भगवन्तः क्रूराकृतयः किरीटिनो गदावरकरा द्विभुजाश्चित्रमाल्याम्बरधराश्चित्रगन्धानुलेपना वैडूर्याभरणभूषिता धूम्रोपमद्युतयश्चित्रकपोतरथारूढा अन्तर्वेदिसमुद्भवा जैमिनिसगोत्राः केतव इहाऽऽगच्छतेत्यावाहनवाक्य ऊहः । इहाधितिष्ठतेति स्थापनवाक्ये।

अथवा सर्वत्र देशगोत्रे एवोच्चार्ये । असम्भव इतरस्याभिध्यानमात्रम् । यथोक्तपतिमानामलाभे सर्वाः सुवर्णमय्यस्तदभावे61 तण्डुलपुञ्जादौ यथोक्ताक्षतालाभे सर्वाः श्वेता एव । सर्वे ग्रहा आदित्याभिमुखा एव वा स्थापनीयाः । अस्मिन्पक्षेऽपि सूर्यः प्रसिद्धप्राच्यभिमुख एव ।

अधिदेवताः

अथाधिदेवताः ।

त्र्यम्बकमित्यस्य विश्वे देवा ईश्वरोऽनुष्टुप् । समस्तव्या० ईश्वरावाहने विनियोगः । ‘ॐ त्र्यम्बकं य० तात्’ भूर्भुवः सुवः, ईश्वराय नम ईश्वरमावाहयामीति62 सूर्यदक्षिणपार्श्वे पञ्चवक्त्रं प्रतिवक्त्रं त्रिलोचनं वृषारूढं चन्द्रमौलिं कपालशूलखट्वाङ्गधारिणमीश्वरम् ।

गौरीर्मिमायेत्यस्य विश्वे देवा उमा जगती । समस्त० उमावाहने विनियोगः ।“ॐ गौरीर्मिमाय० व्योमन्” । भूर्भुवः सुवः, उमायै नम उमामावाहयामि । इति सोमदक्षिणपार्श्वे त्रिदशपूजितां श्वेतासनां पुरोगतसिंहामक्षसूत्रकमलदर्पणकमण्डलुधारिणीमुमाम् ।

यदक्रन्द इत्यस्याग्निः स्कन्दस्त्रिष्टुप् । समस्तव्या० स्कन्दावाहने विनियोगः । ‘ॐ यदक्रन्दः० जातं ते अर्वन्’ भूर्भुवः सुवः, स्कन्दाय नमः स्कन्दमावाहयामि । इत्यङ्गारकदक्षिणपार्श्वे षण्मुखं रक्ताम्बरधरं शिखण्डकविभूषणं मयूरवाहनं चतुर्भुजं दक्षिणहस्ताभ्यां कुक्कुटघण्टाधारिणं वामहस्ताभ्यां वैजयन्तीपताकाशक्तिधारिणं स्कन्दम् ।

विष्णोरराटमित्यस्य सोमो विष्णुर्यजुः । समस्तव्या० एकपदा निचृद्गायत्री वा । विष्ण्वावाहने विनियोगः । “ॐ विष्णोररा० त्वा” विष्णवे नमो विष्णुमावाहयामीति बुधदक्षिणपार्श्वे नीलमेघच्छविं श्रीवत्साङ्कं कौस्तुभवक्षसं गरुडारूढं चतुर्भुजं कौमोदकीपद्मशङ्खचक्रधारिणं विष्णुम् । नारायणो वाऽधिदेवता । अस्मिन्पक्षे सहस्रशीर्षेत्यस्य प्रजापतिर्नारायणोऽनुष्टुप् । समस्त० नारायणावाहने विनियोगः । “ॐ सहस्रशीर्षा० दशाङ्गुलम्” भूर्भुवः सुवः, नारायणाय नमो नारायणमावाहयामि । इति बुधदक्षिणपार्श्वे नीलमेघच्छविं श्रीवत्साङ्कं कौस्तुभवक्षसं गरुडारूढं चतुर्भुजं कौमोदकीपद्मशङ्खचक्रधारिणं नारायणम् ।

ब्रह्मा देवानामित्यस्य विश्वे देवा ब्रह्मा त्रिष्टुप् । समस्त० ब्रह्मावाहने विनियोगः । “ॐ ब्रह्मा देवानां ० रेभन्” भूर्भुवः सुवः, ब्रह्मणे नमो ब्रह्माणमावाहयामीति बृहस्पतिदक्षिणपार्श्वे यज्ञोपवीतिनं पद्मासनस्थं जटिलं चतुर्मुखमक्षमालापुस्तककमण्डलुधारिणं पार्श्वभागस्थापितपीतवासःकृष्णाजिनं पार्श्वस्थितहंसं ब्रह्माणम् ।

सजोषा इन्द्रेत्यस्य सोम इन्द्रस्त्रिष्टुप् । समस्तव्या० इन्द्रावाहने विनियोगः । “ॐ सजोषा इन्द्र० तो नः” भूर्भुवः सुवः, इन्द्राय नम इन्द्रमावाहयामीति शुक्रदक्षिणपार्श्वे चतुर्दन्तगजारूढं वज्राङ्कुशपाणिं शचीपतिं नानाभरणभूषितमिन्द्रम् ।

इमं यमेत्यस्य विश्वे देवा यमस्त्रिष्टुप् । समस्त० यमावाहने विनियोगः । “ॐ इमं यम प्रस्तर० यस्व” भूर्भुवः सुवः, यमाय नमो यममावाहयामीति शनिपार्श्व ईषत्पीतं द्विभुजं दण्डपाशपाणिं कृष्णवर्णं रक्तनेत्रं नानाभूषणभूषितं महिषारूढं यमम् । कार्षिरसीत्यस्य सोमः कालो यजुरेकपदा गायत्री वा । समस्त० कालावाहने विनियोगः । “कार्षिरस्य० मृध्रम्” भूर्भुवः सुवः, कालाय नमः कालमावाहयामीति राहुदक्षिणपार्श्वे कराळवदनं विभीषणं नित्यगं सर्पवृश्चिकरोमाणं पाशदण्डपाणिं कालम् ।

चित्रावसो, इत्यस्य प्रजापतिश्चित्रगुप्तो यजुः । एकपदा जगती वा । समस्त० चित्रगुप्तावाहने विनियोगः । “ॐ चित्रावसो स्व० शीय” भूर्भुवः सुवः, चित्रगुप्ताय नमश्चित्रगुप्तमावाहयामीति केतुदक्षिणपार्श्व उदीच्यवेषसाकारं द्विभुजं लेखनीदक्षिणपाणिं पत्रवामपाणिं सौम्यदर्शनं चित्रगुप्तम् । इत्यधिदेवताः सुवर्णप्रतिमास्वक्षतपुञ्जेषु63 वाऽऽवाहयेत् ।

इत्यधिदेवताः ।

प्रत्यधिदेवताः

अथ प्रत्यधिदेवताः ।

अग्निं दूतमित्यस्य प्रजापतिरग्निर्गायत्री । समस्त० अग्न्यावाहने विनियोगः । “ॐ अग्निं दूतं वृणीमहे० सुक्रतुम्” भूर्भुवः सुवः, अग्नये नमोऽग्निमावाहयामीति सूर्योत्तरपार्श्वे पिङ्गभ्रुवं श्मश्रुलं पिङ्गत्रिनेत्रं छागस्थमरुणं सप्तार्चिषमक्षसूत्रशक्तिधारिणं वरदमग्निम् ।

अप्सु म इत्यस्य विश्वे देवा आपोऽनुष्टुप् । समस्त० अवावाहने विनियोगः । “ॐ अप्सु मे सोमो० षजीः” भूर्भुवः सुवः, अद्भ्यो नमोऽप आवाहयामीति सोमोत्तरपार्श्वे स्त्रीरूपिणीः श्वेता मकरवाहना मुक्ताभरणभूषिताः पाशकलशधारिणीरपः ।

स्योना पृथवीत्यस्य याज्ञिक्यो देवता उपनिषदो भूमिर्गायत्री । समस्त० भूम्यावाहने विनियोगः । “ॐ स्योना पृथि० प्रथाः” भूर्भुवः सुवः, भूम्यै नमो भूमिमावाहयामीत्यङ्गारकोत्तरपार्श्वे शुक्लवर्णां दिव्याभरणभूषितां चतुर्भुजां सौम्यवपुषं चण्डांशुसदृशाम्बरां रत्नपात्रसस्यपात्रौषधपात्रपद्मधारिणीं चतुर्दिङ्नागपृष्ठगतां भूमिम् । भूमिशब्दे पृथिविशब्दोच्चारणं वा ।

इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । समस्त० विष्ण्वावाहने विनियोगः “इदं विष्णुर्वि० पा सुरे” भूर्भुवः सुवः, विष्णवे नमो विष्णुमावाहयामीति बुधोत्तरपार्श्वे नीलमेघच्छविं श्रीवत्साङ्कं कौस्तुभवक्षसं गरुडारूढं चतुर्भुजं कौमोदकीपद्मशङ्खचक्रधारिणं विष्णुम् ।

इन्द्रं व इत्यस्य विश्वे देवा इन्द्रो गायत्री । समस्त० इन्द्रावाहने विनियोगः । “ॐ इन्द्रं वो विश्वत० केवलः” भूर्भुवः सुवः, इन्द्राय नम इन्द्रमावाहयामीति बृहस्पत्युत्तरपार्श्वे चतुर्दन्तगजारूढं वज्राङ्कुशपाणिं नानाभरणभूषितं शचीपतिमिन्द्रम् ।

इन्द्राणीमित्यस्य विश्वे देवा इन्द्राण्यनुष्टुप् । समस्त० इन्द्राण्यावाहने विनियोगः– “ॐ इन्द्राणी० पतिः” भूर्भुवः सुवः, इन्द्राण्यै नम इन्द्राणीमावाहयामीति शुक्रोत्तरपार्श्वे द्विभुजां नानालङ्कारमण्डितां दिव्यवस्त्रां श्वेतगन्धानुलेपनां सौम्यां सन्तानमञ्जरीवामहस्तां64 वरदामिन्द्राणीम् ।

प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । समस्त० प्रजापत्यावाहने विनियोगः–“ॐ प्रजापते न० रयीणाम्” भूर्भुवः सुवः, प्रजापतये नमः प्रजापतिमावाहयामीति शनैश्चरोत्तरपार्श्वे यज्ञोपवीतिनं हंसस्थमेकवक्त्रं चतुर्भुजमक्षस्रुवपुस्तककमण्डलुधारिणं प्रजापतिम् ।

आऽयं गौरित्यस्याग्निः सर्पा गायत्री । समस्त० सर्पावाहने विनियोगः– “ॐ आऽयं गौ० पृश्नि० न्त्सुवः” । भूर्भुवः सुवः, सर्पेभ्यो नमः सर्पानावाहयामीति राहूत्तरपार्श्वेऽक्षसूत्रधरान्कुण्डिकाकारपुच्छसय्ँयुतान्भीषणानेकभोगांस्त्रिभोगान्वा सर्पान् ।

ब्रह्म65 जज्ञानमित्यस्याग्निर्याज्ञिक्यो देवता उपनिषदो वा ब्रह्मा त्रिष्टुप् । समस्त० ब्रह्मावाहने विनियोगः– “ॐ ब्रह्म66 जज्ञानं० विवः” भूर्भुवः सुवः, ब्रह्मणे नमो ब्रह्माणमावाहयामीति केतूत्तरपाब्रह्म ब्रह्माणं यज्ञोपवीतिनं पद्मासनस्थं जटिलं चतुर्मुखमक्षमालास्रुवपुस्तककमण्डलुधारिणं पार्श्वभागस्थापितवासःकृष्णाजिनं पार्श्वभागस्थितहंसं ब्रह्माणम् । इति प्रत्यधिदेवताः सुवर्णप्रतिमास्वक्षतपुञ्जेषु67 वाऽऽवाहयेत् । अथवाऽग्न्यादयोऽधिदेवता ईश्वरादयः प्रत्यधिदेवताः68 । तत्तद्ग्रहावाहनानन्तरमेव तत्तदधिदेवताप्रत्यधिदेवतावाहनं वा ।

इति प्रत्यधिदेवताः ।

क्रतुसंरक्षणदेवताः

अथ69 क्रतुसंरक्षणदेवताः ।

गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । समस्त० गणपत्यावाहने विनियोगः– “ॐ गणानां त्वा गण० सीद सादनम् ।” भूर्भुवः सुवः, सिद्धिबुद्धिसहिताय महागणपतये नमः सिद्धिबुद्धिसहितं महागपतिमावाहयामीति राहोरुत्तरतो गजाननं मूषकवाहनं नागयज्ञोपवीतिनं शशाङ्ककृतशेखरं सिद्धिबुद्धियुतं चतुर्भुजं त्रिनेत्रं दन्ताक्षसूत्रपरशुमोदकधारिणं गणेशम्70

जातवेदस इत्यस्य याज्ञिक्यो देवता उपनिषदो दुर्गा त्रिष्टुप् । समस्त० दुर्गावाहने विनियोगः– “ॐ जातवेदसे71 सुनवा० दुरितात्यग्निः” भूर्भुवः सुवः, दुर्गायै नमो दुर्गामावाहयामीति शनेरुत्तरतः सिंहारूढां दशभुजां शक्तिबाणशूलखड्गचक्रचन्द्रबिम्बखेटकपालशुकटङ्कहस्तां72 दुर्गासुहारिणीं73 दुर्गाम् ।

वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । समस्त० वाय्यावाहने विनियोगः–“ॐ वायो शतं हरीणां० पाजता” भूर्भुवः सुवः, वायवे नमो वायुमावाहयामीति सूर्यस्योत्तरतो धावद्धरिणपृष्ठस्थं द्विभुजं ध्वजहस्तं74 वरदं धूम्रवर्णं वायुम् ।

घृतं घृतपावान इत्यस्य सोम आकाशो यजुः । समस्त० आकाशावाहने विनियोगः–“ॐ घृतं घतपा० रिक्षाय” भूर्भुवः सुवः, आकाशाय नम आकाशमावाहयामीति राहोर्दक्षिणतो नीलोत्पलाभं नीलाम्बरं द्विभुजं सौम्यं षण्डं75 चन्द्रार्कहस्तमाकाशम् ।

या वां कशेत्यस्य सोमोऽश्विनौ गायत्री । समस्त० अश्व्यावाहने विनियोगः–“ॐ या वां कशा० क्षतम्” भूर्भुवः सुवः, अश्विभ्यां नमोऽश्विनावावाहयामीति केतोर्दक्षिणतो द्विभुजौ दिव्यौषधिदक्षिणहस्तौ दर्शनीयपुस्तकवामहस्तावन्योन्ययुक्तदेहौ सुरूपचारुदर्शनरत्नभाण्डकरचन्द्रशुक्लाम्बरनारीयुगपार्श्वौ देवभिषजावश्विनौ ।

वास्तोष्पत इत्यस्य प्रजापतिर्वास्तोष्पतिस्त्रिष्टुप् । समस्त० वास्तोष्पत्यावाहने विनियोगः–“ॐ वास्तोष्पते० चतुष्पदे” भूर्भुवः सुवः, वास्तोष्पतये नमो वास्तोष्पतिमावाहयामीति बृहस्पतेरुत्तरतो भगवन्तं वास्तुपुरुषं महाबलपराक्रमं सर्वदेवाधिवासाश्रयशरीरं ब्रह्मपुत्रं सकलब्रह्माण्डधारिणं भूमिभारार्पितमस्तकं पुरपत्तनप्रासादप्रपावापीसरःकूपादिसन्निवेशसान्निध्यकरं सर्वसिद्धिप्रदं प्रसन्नवदनं विश्वम्भरं परमपुरुषरूपं चक्रशार्ङ्गधरं वरदाभयहस्तं वास्तोष्पतिम् ।

क्षेत्रस्य पतिनेत्यस्य विश्वे देवाः क्षेत्रपालोऽनुष्टुप् । समस्त० क्षेत्रपालावाहने विनियोगः–“ॐ क्षेत्रस्य पति० तीदृशे” भूर्भुवः सुवः, क्षेत्रपालाय नमः क्षेत्रपालमावाहयामीत्यङ्गारकस्योत्तरतः श्यामवर्णं त्रिलोचनमूर्ध्वकेशं सुदंष्ट्रं भृकुटिकुटिलाननं नूपुरालङ्कृताङ्घ्रिं सर्पमेखलायुतं सर्पाङ्गमतिक्रूरं क्षुद्रघण्टामयीं करोटिकामयीं गुल्फावलम्बिनीं मालां दधानमुरगाबद्धं चन्द्ररेखासुमुखमष्टहस्तं शुलकुन्तखङ्गदुन्दुभियुतदक्षिणहस्तं कपालघण्टाचर्मचापयुतवामहस्तं भीमं दिग्वाससममितद्युतिं क्षेत्रपालम् ।

अथवा सूर्यगुरुशनिकेतुमध्ये76 गणपत्यादीन्यथावकाशं स्थापयेत् ।

इति क्रतुसंरक्षकदेवताः ।

लोकपालाः

अथ लोकपालाः ।

प्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । समस्त० इन्द्रावाहने विनियोगः । “ॐ त्रातारमि० त्विन्द्रः” भूर्भुवः सुवः, इन्द्राय नम इन्द्रमावाहयामीति शुक्रमण्डलात्पुरत ऐरावतारूढं वज्रपाणिं सुवर्णवर्णं सहस्राक्षं नाकपममरेश्वरमिन्द्रम् ।

अग्ने नयेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । समस्त० अग्न्यावाहने विनियोगः । “ॐ अग्ने नय सु० विधेम” भूर्भुवः सुवः, अग्नये नमोऽग्निमावाहयामीति सोममण्डलादाग्नेय्यां सुवर्णवर्णं सप्तार्चिषं सप्तहस्तं स्वाहास्वधाप्रियं चतुःशृङ्गं सप्तजिह्वं द्विशीर्षं त्रिपादं मेषारूढं शक्त्यन्नास्रुक्स्रुवतोमरव्यजनघृतपात्रधारिणमग्निम् ।

इमं यमेत्यस्य विश्वे देवा यमस्त्रिष्टुप् । समस्त० यमावाहने विनियोगः । “ॐ इमं यम प्रस्त० मादयस्व” भूर्भुवः सुवः, यमाय नमो यममावाहयामीत्यङ्गारकमण्डलाद्दक्षिणतो दण्डधारिणमिलाप्रियं महिषवाहनं कृष्णवर्णं शुभाशुभकर्मफलप्रदं यमम् ।

असुन्वन्तमित्यस्याग्निर्निर्ऋतिस्त्रिष्टुप् । समस्त० निर्ऋत्यावाहने विनियोगः । “ॐ असुन्वन्त० मस्तु” भूर्भुवः सुवः, निर्ऋतये नमो निर्ऋतिमावा हयामीति राहुमण्डलान्नैर्ऋत्यां खड्गचर्मधरं नीलं नरारूढमूर्ध्वकेशं विरूपाक्षं करालं कालिकापियं निर्ऋतिम् ।

तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । समस्त० वरुणावाहने विनियोगः । “ॐ तत्त्वा यामि० प्रमोषीः” भूर्भुवः सुवः, वरुणाय नमो वरुणमावाहयामीति शनिमण्डलात्पश्चिमतो नागपाशधरमम्बुपतिं77 श्वेतभूषणं पद्मिनीप्रियं मकरारूढं वरुणम् ।

आ नो नियुद्भिरित्यस्य विश्वे देवा वायुस्त्रिष्टुप् । समस्त० वाय्वावाहने विनियोगः– “ॐ आ नो नियुद्भिः शति० सदा नः” भूर्भुवः सुवः । वायवे नमो वायुमावाहयामीति केतुमण्डलाद्वायव्यां जगत्प्रमाणरूपं कृष्णमृगारूढं हेमदण्डधरं श्यामवर्णं मोहिनीप्रियं वायुम् ।

सं ते पया सीत्यस्याग्निः सोमस्त्रिष्टुप् । समस्त० सोमावाहने विनियोगः– “ॐ सं ते पया० निधिष्व” भूर्भुवः सुवः । सोमाय नमः सोममावाहयामीति बृहस्पतिमण्डलादुत्तरतो मृगारूढं गदापाणिं श्वेतवर्णं रोहिणीप्रियं सोमम् ।

कुबेरपक्षे–78 अश्वारूढं कुन्तपाणिं निधीश्वरं सुवर्णवर्णं धनदं रूपवन्तं प्रभुं चित्रिणीप्रियं कुबेरम्79 । ऐन्द्रीन्यायेन मन्त्रः स एव, राजाधिराजायेति मन्त्रो वा । अस्य मन्त्रस्यारुणा ऋषयः कुबेरो देवता जगती छन्दः । इत्यृष्यादि द्रष्टव्यम् । नमोन्तोऽयं मन्त्रो द्रष्टव्यः ।

अभि त्वेत्यस्य विश्वे देवा ईशानो गायत्री । समस्त० ईशानावाहने विनियोगः– “ॐ अभि त्वा देव० मीमहे” भूर्भुवः सुवः, ईशानाय नम ईशानमावाहयामीति बुधमण्डलादीशान्यां शुद्धस्फटिकसङ्काशं वृषारूढं वरदाभयशूलाक्षसूत्रधारिणं पञ्चवक्त्रं त्रिनेत्रं नानाभरणभूषितं पार्वतीप्रियमीशानम् ।

इति प्रतिमास्वक्षतपुञ्जेषु वा लोकपालानावाहयेत् । ईश्वरादिष्वपीहाऽऽगच्छेत्यावाह्येहाधितिष्ठेति संस्थापनमित्येवं वा प्रयोगः ।

ततः– “नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां
जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम्”

(इति80 सर्वा देवताः प्रतिष्ठाप्य काण्डानुसमयेन81 पदार्थानुसमयेन वा [पूजयेत्82 । एकस्य कृत्स्नां पूजां समाप्यान्यस्य कुर्यादित्येष काण्डानुसमयः । पदार्थानुसमयस्तु सर्वेषामावाहनं कृत्वा क्रमेणैकैकस्मै तं तमुपचारमर्पयेदिति ।एष ग्रहाणां पूजने विशेषः–ग्रहवर्णानि वासांसि । दिवाकराय83 रक्तचन्दनम् । चन्द्राय श्वेतचन्दनम् । भौमाय रक्तचन्दनम् । बुधाय84 कुङकुमयुक्तं चन्दनम् । गुरवेऽपि85 कुङ्कुमयुक्तं चन्दैनमेव86 । शुक्राय श्वेतचन्दनम् । शनिराहुकेतुभ्योऽगरुः87

रवये88 रक्तं करवीरम् । सोमाय श्वेतं करवीरम्, भौमाय रक्तोत्पलम् । बुधाय चम्पकपुष्पम् । गुरवेऽगस्त्यपुष्पम् । शुक्रायातसीपुष्पम् । शनये कालाञ्जनीपुष्पम् । राहवे सर्षपपुष्पम् । केतवे शङ्खिनीपुष्पम् ।

रवये सल्लकीनिर्यासधूपः । सोमाय घृतयुक्ताक्षतधूपः । भौमाय सारफलीतिप्रसिद्धस्य सर्जरसस्य धूपः । बुधायागरुधूपः । गुरवे लोहबाण इति प्रसिद्धस्य सिह्लाद्रव्यस्य89 धूपः । शुक्राय बिल्वफलनिर्याससहितस्यागरोर्धूपः । शनये गुग्गुलुधूपः । राहुकेतुभ्यां लाक्षाधूपः । घृतदीपः सर्वेषाम् । यथोक्तचन्दनपुष्पालाभे यत्किञ्चित्तत्तद्वर्णयुक्चन्दनादि । तत्तद्वर्णवस्त्रगन्धपुष्पाणामलाभे श्वेतानि । यथोक्तधूपालाभे गुग्गुलुः । तस्याप्यलाभे यः कश्चन सौरभ्ययुक् ।

रवये गुडौदनम्90 । सोमाय घृतयुक्तं पायसम् । भौमाय हविष्यान्नम् । बुधाय षाष्टिकपायसम् । गुरवे दध्योदनम्91 । शुक्राय घृतौदनम्92 । शनये तिलमाषमिश्रितमन्नम्93 । राहवे लवणमिश्रक्षीरयुक्तमोदनम्94 । केतव आरक्तपिष्टयुतलवणमिश्राजाक्षीरयुततिलतण्डुलमिश्रितमोदनम्9596

एतेषामलाभे तत्तद्वर्णयुक्तौदनो नैवेद्यं घृतौदनं वा ।

रवये द्राक्षाफलानि । सोमायेक्षवः । भौमाय पूगानि97 । बुधाय नारिङ्गाणि । गुरवे जम्बीराणि । शुक्राय बीजपूराणि । शनये खर्जूरफलानि । राहवे नारिकेराणि98 । केतवे दाडिमानि99

यथोक्तफलालाभे100 नारिकेरफलानि खर्जूरफलानि वा ।]

सति सम्भवे फलपुष्पसमन्वितं वितानमप्यर्पणीयम् ।

अधिदेवताप्रत्यधिदेवतानां चैत एवोपचाराः । गणपत्यादिषु तु श्वेतमेव चन्दनं, शतपत्राण्येव पुष्पाणि, धूपो101 गुग्गुलुरेव । गोघृतदीपः । घृतौदननैवेद्यम् । शतपत्रपुष्पालाभे यथासम्भवं पुष्पम्102 । फलं नारीकेरम् । खर्जूरफलं वेति द्रष्टव्यम् ।

ततः पीठादीशान्यामुदीच्यां वा मही द्यौरिति भूमिं स्पृष्ट्वा तत्र रङ्गवल्लीपद्मं विधायौषधयः सव्ँवदन्त इति प्रस्थपरिमितधान्यपुञ्जं तत्र कृत्वा तत्राऽऽजिघ्रेत्यनेन नवमव्रणं तैजसं मृन्मयं वा चन्दनेनानुलिप्तं दध्यक्षतपुष्पमालाद्यलङ्कृतं103 त्रिसूत्रवेष्टितग्रीवं कलशं संस्थाप्येमं म इत्युदकेन पूरयित्वाऽऽप्यायस्वेत्यस्याग्निः सोमो गायत्री क्षीरप्रक्षेपे विनियोगः– “ॐ आप्यायस्व समेतु ते विश्वतः सोमवृष्णियम् । भवा वाजस्य सङ्गथे” इति कलशे क्षीरं प्रक्षिप्य,

दधिक्राव्ण इत्यस्य विश्वे देवा दधिक्रावाऽनुष्टुप् । दधिप्रक्षेपे विनियोगः– “ॐ दधिक्राव्णो अकारिषं० तारिपत्” इति कलशे104 दधि प्रक्षिप्य,

शुक्रमसीत्यस्य प्रजापतिराज्यं यजुः । आज्यप्रक्षेपे विनियोगः–“ॐ शुक्रमसि ज्योतिरसि तेजोऽसि” इति कलश आज्यं प्रक्षिप्य,

मधु वाता इति105 मन्त्रत्रयस्याग्निर्विश्वे देवा गायत्री । मधुप्रक्षेपे विनियोगः– “ॐ मधु वाता० भवन्तु नः” क. इत्यस्या’ । इति कलशे मधु प्रक्षिप्य,

त्वे क्रतुमित्यस्य सोमः प्रजापतिस्त्रिष्टप् । शर्कराप्रक्षेपे विनियोगः– “ॐ त्वे क्रतुमपि० योधि” इति कलशे शर्करां प्रक्षिप्य,

तत्सवितुरित्यस्या गायत्र्या विश्वामित्रः सविता गायत्री । गोमूत्रप्रक्षेपे विनियोगः– “ॐ तत्सवितु० यात्” इति कलशे गोमूत्रं प्रक्षिप्य,

गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः श्रीरनुष्टुप् । गोमयप्रक्षेपे विनियोगः– “ॐ गन्धद्वारा० श्रियम्” इति कलशे गोमयं प्रक्षिप्य,

पुनराप्यायस्वेत्यादिभिस्त्रिभिः क्षीरदधिघृतानि कलशे प्रक्षिप्य, नूतनाहृतचित्रपर्वतधातूंस्तूष्णीं प्रक्षिप्य, उद्धृताऽसि वराहेणेत्यस्य याज्ञिक्यो देवता उपनिषदो मृत्तिकाऽनुष्टुप् । सप्तमृत्प्रक्षेपे विनियोगः–“ॐ उद्धृताऽसि वराहेण कृष्णेन शत० कृतम्” इति कलशेऽश्वशालागजशालावल्मीकनदीसङ्गमह्रदराजद्वारगोष्ठप्रदेशाहृताः सप्त मृत्तिकाः प्रक्षिप्य106 गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः श्रीरनुष्टुप्, गन्धप्रक्षेपणे वि० “गन्धद्वारा० श्रियम् " इति कलशे गन्धं प्रक्षिप्य या जाता ओषधय इत्यस्याग्निरोषधयोऽनुष्टुप् । ओषधिप्रक्षेपे विनियोगः– “ॐ या जाता ओ० सप्त च” इति कुष्ठमांसीहरिद्राद्वयमुराशैलेयचन्दनसटीचम्पकमुस्तात्मिका दशौषधीः107 सहैव कलशे निक्षिपेत् ।

कुष्ठं कोष्ठम् । मांसी जटामांसी । हरिद्रैका प्रसिद्धा । द्वितीया दारुहळद इति, मुरा मोरवेल इति परशुरामक्षेत्रे प्रसिद्धा108 । शैलेयं शिलारसः । चन्दनं प्रसिद्धम् । सटी कचोरः । चम्पकश्चम्पकवृक्षत्वक् । मुस्ता भद्रमोथेति । एतासामभावे109 (शतावरी110111 । मन्त्रस्तु यः पञ्चरत्नानां स एव । काण्डात्काण्डादित्यस्याग्निरोषधयोऽनुष्टुप्, दूर्वाप्रक्षेपे वि० । “ॐ काण्डात्काण्डा० शतेन च” इति कलशे दूर्वाः प्रक्षिप्य–

अश्वत्थे वेत्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चत्वक्प्रक्षेपे वि० । “ॐ अश्वत्थे वो० पूरुषम्” इति न्यग्रोधपिप्पलप्लक्षजम्बूचूततरूणां त्वचः सहैव कलशे क्षिपेत् । जम्बूस्थान उदुम्बरो वा ।

अश्वत्थे व इत्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चपल्लवप्रक्षेपे112 वि० । “ॐ अश्वत्थे० पूरुषम्” इत्येतेषामेव तरूणां सहैव पल्लवान्कलशे क्षिपेत् ।

याः फलिनीरित्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चपल्लवप्रक्षेपणे वि० “ॐ याः फलिनी० हसः” इति कलशे फलं प्रक्षिप्य,

अग्ने रेतश्चन्द्रमित्यस्याग्निर्हिरण्यं त्रिष्टुप्, हिरण्यप्रक्षेपे वि० “ॐ अग्ने रेत० रेयम्” इति कलशे हिरण्यं प्रक्षिप्य,

बृहस्पते जुषस्व न इत्यस्याग्निर्बृहस्पतिर्गायत्री । पञ्चरत्नप्रक्षेपे वि० “ॐ बृहस्पते जु० दाशुषे” इति सुवर्णरजतमुक्तामाणिक्यप्रवालात्मकपञ्चरत्नानि प्रक्षिपेत् । एतेषामलाभे113 ) सुवर्णं114 कलशे प्रक्षिपेत् ।

ततो दूर्वाम्रपल्लवैः कलशस्य मुखमाच्छाद्य युवं वस्त्राणीत्यस्य विश्वे देवा मित्रावरुणौ त्रिष्टुप्115 । वस्त्रयुग्मेन(ण) कलशवेष्टने विनियोगः– “ॐ युवं वस्त्राणि सचेथे” इति कलशं116 श्वेतवस्त्रयुग्मेन(ण) वेष्टयित्वा पूर्णा दर्वि117 परापतेत्यस्य विश्वे देवाः शतक्रतुरनुष्टुप्, कलशानने तण्डुलपूर्णपात्रनिधाने विनियोगः– “पूर्णा दर्वि० शतक्रतो” इति तण्डुलपूर्णपात्रं कलशानने निदध्यात् ।

ततः–“कलशस्य मुखे० सर्वे समुद्राः० रकाः । गङ्गे च यमुने० जलेऽस्मिन्सन्निधिं कुरु” ।

इति118 कलशे देवता आवाह्य सम्पूज्य वरुणं तत्त्वा यामीत्यावाह्य सम्पूजयेत् । ततः–

“देवदानवसव्ँवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥
सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा” इति सम्प्रार्थयेत् ।

ततः–आपो हि ष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे119 देवा वाऽऽपो गायत्री । हिरण्यवर्णा इतिमन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां सोम ऋषिः । पवमानसुवर्जनादयो देवताः । अनुष्टुबादीनि च्छन्दांसि । जपे विनियोगः– “ॐ आपो हि ष्ठा०३” “हिरण्यवर्णाः० ४” “पवमानः सुवर्जनः० १७” इति120 स्थापितं कलशमभिमृश्य जपेत् । काम्ये स्वयमेवायं जप आचार्येण कार्यः । नित्ये नैमित्तिके च स्वाशक्तावन्यं121 मन्त्रविदं ब्राह्मणं122 जपार्थं वृत्वा सम्पूज्य तेन जपः कारणीयः । ग्रहपीठे नवग्रहमन्त्रजपार्थं त्रीन्ब्राह्मणानेकं वा ब्राह्मणं वृत्वा सम्पूज्य जपं कारयेत् । कलशसम्बन्धिजपसङ्ख्या त्वष्टोत्तरशतमष्टाविंशतिर्वा । ग्रहमन्त्रजपोऽप्येवमेव प्रतिमन्त्रम् ।

अन्वाधानम्

अथान्वाधानम् ।

आचार्यः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा ग्रहयज्ञहोमकर्मणि या यक्ष्यमाणा देवतास्ता इत्य्-आदि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा गणपतिमेकया पलाशसमिदाहुत्या चर्वाहुत्याऽऽज्याहुत्या च यक्ष्य इति वदेत्123 । केवलौदनाहुत्या केवलाज्याहुत्या वा यक्ष्य इति124 वा वदेत्125 । एतच्च प्रथमं तु126 वराहुतिरितिपाठे । प्रथमा तु वराहुतिरिति पाठे तु केतुप्रत्यधिदेवतान्वाधानोत्कीर्तनान्ते गणपतिं प्रथमया समिच्चर्वाज्यवराहुत्या यक्ष्य इति, केव127 ।लौदनेन केवलाज्येन वा भूयस्यैकाहुत्या यक्ष्य इति वा । वरत्वमुक्त प्रमाणद्विगुणप्रमाणत्वमर्धाधिकप्रमाणत्वं वा । समिधि दैर्घ्यविषयकमेव द्वैगुण्यमर्धाधिकत्वं128 वा । विना स्पष्टवचनमेकदा समिद्द्वयाभ्याधाने दोषश्रवणात् ।

वैशेषिकप्रधानहोमे–सूर्यं सोममङ्गारकं बुधं बृहस्पतिं शुक्रं शनैश्चरं राहुं केतुमेतत्सङ्ख्याकाभिरेतत्सङ्ख्याकाभिर्यथायथमर्कादिसमिद्भिस्तावतीभिश्चर्वाहुतिभिस्तावतीभिराज्याहुतिभिश्च । एतदित्येतस्य स्थानेऽष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिं वा कीर्तयेत् ।

ईश्वरमुमां स्कन्दं नारायणं ब्रह्माणमिन्द्रं यमं कालं चित्रगुप्तमेता129 अधिदेवताः, अग्निमपो भूमिं विष्णुमिन्द्रमिन्द्राणीं प्रजापतिं सर्पान्ब्रह्माणमेताः130131 प्रत्यधिदेवताश्च, एतत्सङ्ख्याभिरेतत्सङ्ख्याभिर्यथायथमर्कादिसमिद्भिस्तावतीभिश्चर्वाहुतिभिस्तावतीभिराज्याहुतिभिश्च132 । एतदित्येतस्य स्थाने133 प्रधानदेवतानां योत्कीर्तितसङ्ख्या ततो न्यूनां सङ्ख्यां प्रतिदेवतमष्टोत्तरशतमष्टाविंशतिमष्टौ वा कीर्तयेत् ।

गणपतिं दुर्गां वायुमाकाशमश्विनौ वास्तोष्पतिं क्षेत्रपालमिन्द्रमग्निं यमं निर्ऋतिं वरुणं वायुं सोममीशानमेतत्सङ्ख्याभिरेतत्सङ्ख्याभिः पलाशसमिद्भिस्तावतीभिश्चर्वाहुतिभिस्तावतीभिराज्याहुतिभिश्च । एतदित्येतस्य स्थानेऽधिदेवताप्रत्यधिदेवतानां134 योत्कीर्तिता सङ्ख्या ततो न्यूनां सङ्ख्यामष्टाविंशतिमष्टौ चतुर्वा कीर्तयेत् । अधिप्रत्यधिदेवतानां प्रधानाहुतिसङ्ख्यादशांशन135 होमः136 । कर्मसंरक्षणदेवतानां प्रतिदेवतं प्रधानाहुतिसङ्ख्याविंशांशेनेत्येवं वा । (अस्मिन्कल्पे137 प्रधानदेवतानां प्रतिदेवतं सहस्रं शतं वेत्येवमेव सङ्ख्याद्वयं भवति । न तु सहस्रशतात्मकसङ्ख्ययोरप्टोत्तरत्वं न वाऽष्टाविंशतिसङ्ख्यादशांशविंशांशयोरत्रासम्भवात् । प्रधानाहुतिसङ्ख्या यदि सहस्रं सहस्रं तदाऽधिदेवताप्रत्यधिदेवतानां शतं शतं, कर्मसंरक्षणदेवतानां दश दश ।

प्रधानाहुतिसङ्ख्या यदि शतं शतं तदाऽधिदेवताप्रत्यधिदेवतानां दश दश, कर्मसंरक्षणदेवतानां पञ्च पञ्चेति विवेकः ।

सर्वतोभद्रपीठदेवतानां पूजोत्तरहोमाकरणपक्षे प्रधानोत्तरमेव होमस्य कर्तव्यत्वादत्रान्वाधानं पूर्ववत्कर्तव्यम् ।

ततोऽङ्गहोमे वरुणं द्वाभ्यामाहुतिभ्यामित्यादि व्याहृत्यन्तत्वपक्षे ।

प्रसाधनीदेव्यन्तत्वपक्षे त्वग्निं स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्य इत्य्-आदि ।

पात्रासादनकाले दर्व्या सह चरुहोमकर्तृदक्षिणहस्तानामाज्यहोमकर्तृसङ्ख्यापरिमितस्रुवाणां चरूद्धरणपात्रस्याऽऽज्यहोमकर्तृसङ्ख्यापरिमिताज्यस्थालीनां चाऽऽसादनप्रोक्षणे कार्ये । हस्तानां स्रुवाणां च सम्मार्गोऽपि । आसादिता हस्ता आसम्मार्गं तत्रैवावस्थिताः स्युः, सम्मार्गोत्तरं बर्हिषि, अथवाऽऽसादनरहिता एव धर्माः । स्रुवस्थाने तावत्यो दर्व्यो वा । वक्ष्यमाणस्थालीपाकधर्मेण चरूंश्चरुं वा श्रपयित्वा युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय सर्वेषां हस्तानां स्रुवाणां च सम्मार्गः कार्यः । दर्वीपक्षे तासामपि ।

अथवा होमसमय एव चरुसमिद्धोमकर्तारः स्वस्वदक्षिणहस्तस्य स्ववामहस्तेन प्रोक्षणं कृत्वा निष्टप्याऽऽसादितसम्मार्गदर्भैकदेशेन वामहस्तेन सम्मृज्य पुनर्निष्टप्य बर्हिषि निधाय दक्षिणहस्तेनैव स्वस्वहस्तसम्मार्गदर्भप्रहरणं कुर्युरिति । प्रतिदेवतचरुपक्षे तावत्यश्चरुस्थाल्यस्तावन्ति मेक्षणानि च ।

एकत्रश्रपणपक्षे प्रत्येकं व्युद्धृत्य तत्तद्देवतायै होमः । तेन तेन पर्यग्निकरणकाले सर्वैर्होमद्रव्यैः सहाऽऽज्यस्य पर्यग्निकरणम् । ततः शृतांश्वरूञ्शृतचरूं वाऽभिधार्योत्तरत उद्वास्य बर्हिष्यासाद्य तत्रैवाऽऽसादितेषु चरूद्धरणपात्रेषु, एकचरुपक्ष एकस्मिन्नुद्धरणपात्र उद्धरेत् ।

एकचरुपक्षे प्रतिदेवतं पङ्क्त्याकारेण विभजेत्, तत्क्रमेणैव होमः । ततः परिषेकादिप्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कुर्यात् । अस्मिन्नग्नौ चरुश्रपणासम्भवेन गृहसिद्धान्नेन देवपवित्रसंस्कारसंस्कृतेन होमं कुर्वन्ति शिष्टा इदानीम् ।

ततो गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । होमे वि०— “ॐ गणानां त्वा गणपतिं० सादन स्वाहा” इत्येकां पलाशसमिधं जुहोति । गणपतय इदं न ममेति त्यागः । एवमेकां चर्वाहुतिमेकामाज्याहुतिं जुहोति । त्यागः पूर्ववत् ।

“जुहुयात्समिदन्नाज्यैः पृथगष्टोत्तरं शतम्”

इतिवचने समिद्विषयेऽपि जुहुयादित्युक्तत्वात्स्वाहाकारोऽत्र स्मार्तः ।

तत्र ऋत्विज उदङ्मुखाः प्राङ्मुखा वोपविश्य द्विराचम्यामुक्तकेशा निपातितजानुकाः सावधानमनसो वाग्यता होमं कुर्युः । होमारम्भात्मागेव) यजमान इमान्युपकल्पितानि हवनीयद्रव्याण्यन्वाधानोद्दिष्टसङ्ख्याहुतिपर्याप्तानि138 या या यक्ष्यमाणा देवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न ममेति द्रव्यत्यागं कुर्यादिति साम्प्रदायिकाः ।

प्रधानहोमान्वाधानात्पूर्वं139 मण्डलदेवताहोमान्वाधानं कृतं चेदत्र होममाचार्य140 एवं कुर्यात् ।

तत ऋत्विज आवाहनोक्ततत्तन्मन्त्रैर्ऋष्यादिस्मरणपूर्वकमन्वाधानोत्कीर्तितर्द्रव्यैरन्वाधानोत्कीर्तितसङ्ख्यया141142143 होमं कुर्युः । (अत्र144 विनियोगवाक्ये होमे विनियोग इति विशेषो द्रष्टव्यः । ) अर्कः पलाशः खदिरोऽपामार्गः पिप्पल उदुम्बरः शमी दूर्वाः कुशा इति क्रमेण145 ग्रहसमिधः । एतासामलाभे पलाशसमिधः ।

तत्र सर्पिर्मधुदध्यक्ताः प्रादेशमात्रीरवान्तरशाखारहिता146 मूलतो द्व्यङ्गुलं प्रदेशं विहाय मध्यमानामिकाङ्गुष्ठैर्गृहीत्वा समिधो होतव्याः । तत्र समिदेकैका दूर्वाणां दर्भाणां च त्रिकं त्रिकम्147 । दूर्वाः सप्तपत्रयुताः पञ्चपत्रयुता वा अच्छिन्ना ग्राह्याः । दर्भाः साग्राः148 । आज्यं दर्व्यैव होतव्यम् । अङ्गुष्ठाग्रेण149 ग्रासमात्रं चरुं गृहीत्वाऽङ्गुष्ठेन निष्पीड्य संहताङ्गुलिनोत्तानेन दक्षिणेन हस्तेन150 होतव्य इति साम्प्रदायिकाः ।

समाप्ते प्रधानहोम आचार्योऽत्र151 चेदन्वाधानं पीठदेवताहोमस्य कृतं तदाऽत्र तदीयं होमं कृत्वा स्थापितदेवतानामुत्तरपूजनं विधाय प्रसीदन्तु भवन्त इति तान्सम्प्रार्थ्यान्वाधानोत्कीर्तितपक्षानुसारेण वारुणीहोमादि स्विष्टकृदादि वा संस्रावहोमात्प्राक्कुर्यात् । समिधां न स्विष्टकृत् ।

ततः सपत्नीको यजमानो यत्र यत्र बलिसमर्पणं कर्तव्यं भवति तस्मिन्देशेऽग्नेः पश्चाद्वोपविश्याग्न्यायतनस्य152 समन्उद्दिक्षु सदीपमाषभक्तबलीन्दिक्पालेभ्यो153 दद्यात् । प्रतिबलिसमर्पणं साक्षतं जलं154 पात्रे क्षिपेत् ।

त्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । इन्द्रप्रीत्यर्थं बलिदाने विनियोगः–“ॐ त्रातारमि० धात्विन्द्रः” इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं155 पात्रे त्यक्त्वा भो इन्द्र बलिं भक्ष दिशं रक्ष मम सकुटुम्बस्याऽऽयुष्कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भवेति प्रार्थयेत् । अनेन156 बलिदानेनेन्द्रः प्रीयतामिति ततो वदेत् ।

अग्ने नयेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । अग्निप्रीत्यर्थं बलिदाने विनियोगः “ॐ अग्ने नय सुप० विवेम” । अग्नये साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पया० । भो अग्ने० भव० अग्निः प्रीयताम् ।

इमं यमेत्यस्य विश्वे देवा यमस्तिष्टुप् । यमप्रीत्यर्थं बलिदाने विनियोगः–“ॐ इमं यम यस्व” यमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामि० भव० यमः प्रीयताम् ।

असुन्वन्तमित्यस्याग्निर्निर्ऋतिस्त्रिष्टुप् । निर्ऋतिप्रीत्यर्थं बलिदाने विनियोगः–“ॐ असुन्वन्तमय० मस्तु” निर्ऋतये साङ्गाय सपरिवाराय सायु धाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो निर्ऋते० भव० निर्ऋतिः प्रीयताम् ।

तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । वरुणप्रीत्यर्थं बलिदाने विनियोगः– “ॐ तत्त्वा यामि ब्रह्मणा० प्रमोषीः” वरुणाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो वरुण० भव० वरुणः प्रीयताम् ।

आ नो नियुद्भिरित्यस्य विश्वे देवा वायुस्त्रिष्टुप् । वायुप्रीत्यर्थं बलिदाने विनियोगः– “ॐ आ नो नियु० दानः” वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो वायो० भव० वायुः प्रीयताम् ।

सं ते पया सीत्यस्याग्निः सोमस्त्रिष्टुप् । सोमप्रीत्यर्थं बलिदाने विनियोगः– “ॐ सं ते पया० धिष्व” सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भोः सोम० भव० सोमः प्रीयताम् ।

अभि त्वेत्यस्य विश्वे देवा ईशानो गायत्री । ईशानप्रीत्यर्थं बलिदाने विनियोगः– “ॐ अभि त्वा देव० मीमहे” ईशानाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो ईशान० भव० ईशानः प्रीयताम् ।

ततो ग्रहादिबलयो ग्रहपीठसमीपे–

आ सत्येनेत्यस्य विश्वे देवाः सविता157 त्रिष्टुप् । सूर्यप्रीत्यर्थं बलिदाने विनियोगः– “ॐ आ सत्येन रजसाः पश्यन्” सूर्याय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेश्वराग्निरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः सूर्येमं बलिं गृहाण मम सकुटुम्बस्याऽऽयुष्कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भवेति प्रार्थयेत् । अनेन ब० सूर्यः प्रीयताम् ।

आप्यायस्वेत्यस्य सोमः सोमो गायत्री । सोमप्रीत्यर्थं बलिदाने विनियोगः– “आप्यायस्व समे० सङ्गथे” सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायोमाब्रूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः सोम० भव० सोमः प्रीयताम् । अग्निमूर्धेत्यस्य प्रजापतिरङ्गारको गायत्री । अङ्गारकप्रीत्यर्थं बलिदाने विनियोगः– “ॐ अग्निर्मूर्धा० जिन्वति” अङ्गारकाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय स्कन्दभूमिरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो अङ्गारकेमं० भव० अङ्गारकः प्रीयताम् ।

उन्बुध्यस्वेत्यस्याग्निर्बुधस्त्रिष्टुप् । बुधप्रीत्यर्थं बलिदाने विनियोगः– “उद्बुध्य० मेतम्” बुधाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नारायणविष्णुरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो बुधेमं० भव० बुधः प्रीयताम् ।

बृहस्पते अतीत्यस्य विश्वे देवा बृहस्पतिस्त्रिष्टुप् । बृहस्पतिप्रीत्यर्थं बलिदाने विनियोगः– “ॐ बृहस्पते० चित्रम्” बृहस्पतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय ब्रह्मेन्द्ररूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो बृहस्पत इमं० भव० बृहस्पतिः प्रीयताम् ।

शुक्रं त इत्यस्य विश्वे देवाः शुक्रस्त्रिष्टुप् । शुक्रप्रीत्यर्थं बलिदाने विनियोगः– “ॐ शुक्र ते अन्य० रस्तु” शुक्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेन्देन्द्राणीरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः शुक्रेमं० भव० शुक्रः प्रीयताम् ।

शं नो देवीरित्यस्य प्रजापतिः शनैश्चरो गायत्री । शनैश्चरप्रीत्यर्थं बलिदाने विनियोगः– “ॐ शं नो देवीरभिष्ट० स्रवन्तु नः” शनैश्चराय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय यमप्रजापतिरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः शनैश्चर० भव० शनिः प्रीयताम् ।

कया न इत्यस्य विश्वे देवा राहुर्गायत्री । राहुप्रीत्यर्थं बलिदाने विनियोगः । “ॐ कया नश्चित्र० वृता” राहवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय कालसर्परूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो राहो० भव० राहुः प्रीयताम् ।

केतुं कृण्वन्नित्यस्य प्रजापतिः केतुर्गायत्री । केतुप्रीत्यर्थं बलिदाने विनियोगः । “ॐ केतुं कृण्वन्नकेतवे० जायथाः” केतवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय चित्रगुप्तब्रह्मरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः केतो, इमं बलिं० केतुः प्रीयताम् । केतुश ब्दस्य बहुवचनान्तत्वपक्षे केतुभ्यः साङ्गेभ्यः सपरिवारेभ्यः सायुधेभ्यः सशक्तिकेभ्यश्चित्रगुप्तब्रह्मरूपाधिदेवताप्रत्यधिदेवतासहितेभ्य इमं सदीपं माषभक्तबलिं समर्पयामि । भोः केतव इमं बलिं गृह्णीत मम सकुटुम्बस्याऽऽयुष्कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारस्तुष्टिकर्तारो निर्विघ्नकर्तारो वरदा भवत । अनेन बलिदानेन केतवः पीयन्तामित्यूहः ।

गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । गणपतिप्रीत्यर्थं बलिदाने विनियोगः । “ॐ गणानां त्वा० सादनम्” गणपतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय सिद्धिबुद्धिसहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः सिद्धिबुद्धिसहित गणपत इमं व० गणपतिः प्रीयताम् ।

जातवेदस इत्यस्य याज्ञिक्यो देवता उपनिषदो दुर्गा त्रिष्टुप् । दुर्गाप्रीत्यर्थं बलिदाने विनियोगः । “ॐ जातवेदसे सुनवा० त्यग्निः” दुर्गायै साङ्गायै सपरिवारायै सायुधायै सशक्तिकायै, इमं सदीपं माषभक्तबलिं समर्पयामि । भो दुर्ग इमं बलिं गृहाण मम सकुटुम्बस्याऽऽयुष्कर्त्री क्षेमकर्त्री शान्तिकर्त्री पुष्टिकर्त्री तुष्टिकर्त्री निर्विघ्नकर्त्री वरदा भव० दुर्गा प्रीयताम् ।

वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । वायुप्रीत्यर्थं बलिदाने विनियोगः । “ॐ वायो शतं० पाजसा” वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेमं सदीपं माषभक्तबलिं समर्पयामि । भो वायो, इमं बलिं० वायुः प्रीयताम् ।

घृतं घृतपावान इत्यस्य सोम आकाशो यजुः । आकाशप्रीत्यर्थं बलिदाने विनियोगः । “ॐ घृतं घृतपा० क्षाय” आकाशाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेमं सदीपं माषभक्तबलिं समर्पयामि । भो आकाशेमं बलिं० आकाशः प्रीयताम् ।

या वां कशेत्यस्य सोमोऽश्विनौ गायत्री। अश्विप्रीत्यर्थं बलिदाने विनियोगः । “ॐ या वां कशा० मिक्षतम्” अश्विभ्यां साङ्गाभ्यां सपरिवाराभ्यां सायुधाभ्यां सशक्तिकाभ्यामिमं माषभक्तबलिं समर्पयामि । भो अश्विनाविमं बलिं गृह्णीतम् । मम सकुटुम्बस्याऽऽयुष्कर्तारौ क्षेमकर्तारौ शान्तिकर्तारौ पुष्टिकर्तारौ तुष्टिकर्तारौ निर्विघ्नकर्तारौ वरदौ भवतम् । अनेन बलिदानेनाश्विनौ प्रीयेताम् ।

वास्तोष्पत इत्यस्य प्रजापतिर्वास्तोष्पतिस्त्रिष्टुप् । वास्तोष्पतिप्रीत्यर्थं बलिदाने विनियोगः। “ॐ वास्तोष्पते० चतुष्पदे” वास्तोष्पतये साङ्गाय सप रिवाराय सायुधाय सशक्तिकायेमं सदीपं माषभक्तबलिं समर्पयामि । भो वास्तोष्पत इमं बलिं० वास्तोष्पतिः प्रीयताम् । बलेर्विप्रकृष्टत्वे त्विममित्यत्रामुमिति सर्वत्र । तत्तत्प्रदेशोपविष्टो बलिसमर्पणं कुर्यादित्यस्मिन्कल्पे तु सर्वत्रेममित्येव न त्वमुमिति ।

ततः क्षेत्रपालाय कुङ्कुमरक्तपुष्पादियुतं सदीपं सताम्बूलं सदक्षिणं माषभक्तबलिं दद्यात्158 । अत्राऽऽवाहनादिपूजनमपि केचित्कुर्वन्ति ।

क्षेत्रस्य पतिनेत्यस्य विश्वे देवाः क्षेत्रपालोऽनुष्टुप् । क्षेत्रपालप्रीत्यर्थं बलिदाने विनियोगः । “ॐ क्षेत्रस्य पतिना० तीदृशे” क्षेत्रपालाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय भूतप्रेतडाकिनीशाकिनीब्रह्मराक्षसवेतालादिपरिवारयुतायेमं कुङ्कुमारक्तपुष्पादियुतं सदीपं सताम्बूलं सदक्षिणं माषभक्तबलिं समर्पयामि । भो भोः क्षेत्रपाल सपरिवारेमं बलिं० क्षेत्रपालः प्रीयताम् ।

ततः शुद्रेण दुर्ब्राह्मणेन वा समर्पितं बलिं बहिर्देशं प्रापयेत् । तस्य पृष्ठतः शान्तिपाठपूर्वकं स्वयं जलं सिञ्चन्साचार्यः सपत्नीको गृहाद्बहिर्गत्वा (प्रत्येत्य159 हस्ती पादौ च प्रक्षाल्याऽऽचम्याग्निसमीपमागत्य पुनराचम्य स्वायतन उपविशेत् । एवं पत्नी । तत आचार्यस्तथैव प्रक्षालितपाणिपाद आचान्तो) दर्व्यां स्रुवेण द्वादशगृहीतमष्टगृहीतं चतुर्गृहीतं वाऽऽज्यं गृहीत्वा160 तदुपरि वस्त्रयुतं चन्दनादिभूषितं फलं निधायेडनामाऽयमग्निरित्यनुसन्धाय यजमानतत्पत्न्यमात्यान्वारब्धस्तिष्ठन्पूर्णाहुतिं जुहुयात् ।

समुद्रादूर्मिरिति मन्त्रत्रयस्य याज्ञिक्यो देवता उपनिषदोऽग्निस्त्रिष्टुप् । पूर्णाहुतिहोमे विनियोगः । “ॐ समुद्रादूर्मि० नाभिः” " वयं नाम० एतत्” “चत्वारि शृङ्गा० आविवेश” । मूर्धानं दिव इत्यस्य सोमोऽग्निर्वैश्वानरस्त्रिष्टुप् । पूर्णाहुतिहोमे विनियोगः । “ॐ मूर्धानं० देवाः” । पुनस्त्वेत्यस्याग्निर्वसुरुद्रादित्यास्त्रिष्टुप् । पूर्णाहुतिहोमे विनियोगः । “ॐ पुनस्वाऽऽदित्या० कामाः” । पूर्णा दर्वीत्यस्य विश्वे देवाः शतक्रतुरनुष्टुप् । पूर्णाहुतिहोमे विनियोगः । “ॐ पूर्णा दर्वि० तो” । सप्त त इत्यस्य प्रजापतिः सप्तवानग्निर्जगती । पूर्णाहुतिहोमे विनियोगः । “ॐ सप्त ते अग्ने० घृतेन स्वाहा” इति । यजमानोऽग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवतेऽग्नये चेदं न ममेति त्यजेत् ।

तत आचार्यादयः “पूर्णाहुतिमुत्तमां० सयत्वाय” इत्य्-आचारात्पठेयुः ।

तत आचार्यः स स्रावहोमादिसंस्थाजपान्तं कर्म कुर्यात् । ऋत्विजामपि संस्थाजपेनोपस्थानम् ।

ततो यजमान आचार्यादिभ्यो जपहोमफलं गृह्णीयान्न वा ।

ततो ब्रह्मसदस्यर्त्विक्सहित आचार्यः प्राङ्मुख उदङ्मुखो वा तिष्ठन्ग्रहवेदेरीशान्यामग्नेः पश्चिमतो वा शुचौ देशे सम्मृष्टे गोमयोपलिप्ते रङ्गवल्ल्याद्यलङ्कृते चतुष्पदं दीर्घचतुरश्रं सोत्तरच्छदं पीठं निधाय तत्रोदगग्रानमूलांस्त्रीन्हरितान्दर्भानास्तीर्यानास्तीर्य वा तत्रोपविष्टं धृतनवकञ्चुकीवस्त्रया पत्न्या सहितं सामात्यं प्राङ्मुखं परिहिताहतवस्त्रं यजमानं स्थापितकलशोदकेन पात्रान्तरे गृहीतेन तत्रत्यपञ्चपल्लवैः कुशदूर्वासहितैरभिषिञ्चेत् ।

तत्र मन्त्राः–आपो हि ष्ठेतितिसृभिर्हिरण्यवर्णा इति चतसृभिः पवमानः सुवर्जन इत्यनुवाकेनेति । एतेषामृष्यादिकं कलशासादनोत्तरकालिकजपनिरूपण उक्तम् । अभिषेके विनियोग इति विनियोगवाक्येऽत्र विशेषः । ‘ॐ आपो हि ष्ठा० ३ । हिरण्यवर्णाः० ४ । पवमानः सुवर्जनः । पवित्रेण वि० १७” इत्येतैर्मन्त्रैः,

सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान्यमो वै निर्ऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च पूजिताः
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥

ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥

इत्यग्निपुराणोक्तैर्मन्त्रैः,161

ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसम्भूतां पीडां दहतु ते रविः
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसम्भूतां पीडां दहतु ते विधुः
भूमिपुत्रो महातेजा जगतां भयकृत्सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां दहतु ते कुजः
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान्पीडां दहतु ते बुधः
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां दहतु ते गुरुः
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां दहतु ते भृगुः
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां दहतु ते शनिः
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां दहतु ते तमः
अनेकरूपवर्णैश्च162 शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतः पीडां दहतु ते शिखी

इति मन्त्रैर्देवस्य त्वेत्यादिभिर्मन्त्रैश्चाभिषिञ्चेत् । ततः163 कलशोदकेनान्येन च जलेन तैलाभ्यङ्गसर्वौपध्यनुलेपनपूर्वकं सुस्नातौ दम्पती164 अभिषेकवासांसि परित्यज्याहतवासांसि परिधाय श्वेतचन्दनपुष्पाण्यलङ्कारांश्च धृत्वाऽग्नेः पश्चादुपविशतो दक्षिणतः पत्नी165 । त्यक्तवासांस्याचार्यस्य । तत आचार्येण सह यजमानो मा नस्तोक इति विभूतिधारणं कृत्वाऽऽचार्यादीन्पादप्रक्षालनार्घ्यगन्धाक्षतपुष्पैः सम्पूज्य तेभ्यो दक्षिणां दद्यात् । तत्राऽऽचार्याय गौः । ब्रह्मणेऽनड्वान् । सदस्यायाश्वः । सूर्यप्रीत्यर्थं कपिला गौः १। सोमप्रीत्यर्थं शङ्खः २ । अङ्गारकप्रीत्यर्थं रक्तोऽनड्वान् ३ । बुधप्रीत्यर्थं सुवर्णम् ४ । बृहस्पतिप्रीत्यर्थं पीतं वासः ५ । शुक्रप्रीत्यर्थं श्वेताश्वः ६ । शनिप्रीत्यर्थं कृष्णा गौः ७ । राहुप्रीत्यर्थं कालायसम् ८ । केतुप्रीत्यर्थं हस्ती छागो वेति ९ तत्तद्धोमकर्त्रे व्यवस्थया तां तां दक्षिणां दद्यात् ।

यदि नवभ्योऽधिका ऋत्विजस्तदा तेभ्यः प्रत्येकमेकैका गौर्देया । न्यूनत्वे तु गोशङ्खादिनवदक्षिणा यथासम्भवं तेभ्य एव देयाः ।

अथ गवादीनां नवानां क्रमेण मन्त्राः–

कपिले सर्वदेवानां पूजनीयाऽसि सर्वदा ।
सर्वदेवमयी यस्मादतः शान्तिं प्रयच्छ मे ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
पाञ्चजन्य प्रदास्यामि ह्यतः शान्तिं प्रयच्छ मे ॥
धर्मस्त्वं वृषरूपेण जगदानन्दकारक166
अष्टमूर्तरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
पीतवस्त्रमिदं167 यस्माद्वासुदेवस्य वल्लभम् ।
प्रदानात्तस्य मे विष्णुः सदा शान्तिं प्रयच्छतु ॥
विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः168
सूर्यस्य169 वाहनं170 नित्यमतः शान्तिं प्रयच्छ मे ॥
यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसन्निभे ।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥
यस्मादायसकार्याणि त्वदधीनानि सर्वदा ।
लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे ॥
सप्रतीक गजेन्द्र त्वं देवेन्द्रस्य च वाहनम् ।
दानेनानेन दत्तेन सदा शान्तिं प्रयच्छ मे ॥

छागपक्षे–

यस्मात्त्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥

एतेषां पदार्थानां विषममूल्यकत्वेऽपि न्यूनलाभवद्भ्यः सुवर्णदानेन लाभसाम्यं सम्पादनीयम् । उक्तदक्षिणानामभावे सर्वेभ्यस्तुष्टिकरं हिरण्यमेव वा दद्यात् । अतो नात्र मूल्याध्यायोक्तमूल्यदानम् । सर्वेष्वपि पक्षेष्वाचार्याय द्विगुणं दद्यात् । कर्मणः साद्गुण्यार्थमन्येभ्यो ब्राह्मणेभ्यो भूयसीं दद्यात् ।

ततो ग्रहपीठदेवतानां मण्डपश्चेत्तद्देवतानां च यजमानः पञ्चोपचारैरुत्तरपूजनं विधाय सप्रणवैस्तत्तन्नाममन्त्रैरादित्यादिदेवताभ्यो नम इति समुदितरूपेण वा पुष्पाञ्जलिं समर्पयेत् ।

तत आचार्यो ग्रहपीठदेवतानां मण्डपश्चेत्तद्देवतानां चोद्वासनमुत्तिष्ठेति मन्त्रेण कुर्यात् ।

ततो यजमान इदं ग्रहपीठं सप्रतिमं सकलशं सोपस्करमाचार्याय तुभ्यमहं सम्प्रदद इत्य्-आचार्याय समर्पयेत् । मण्डपश्चेत्सोपस्करं मण्डपसहितमिदं ग्रहपीठमिति ।

तत आचार्योऽग्निं सम्पूज्य–

“गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन” ॥ इति विसृजेत् ।

अथ यजमानः कांस्यपात्रगताज्ये सकुटुम्बः स्वप्रतिरूपमवेक्ष्य–171

“आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् ।
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥
अलक्ष्मीर्या यच्च दौस्थ्यं मम गात्रेष्ववस्थितम् ।
तत्सर्वं क्षपयाऽऽज्य त्वं लक्ष्मीं पुष्टिं च वर्धय” ॥

इति पठित्वा तदाज्यं सदक्षिणं ब्राह्मणाय दद्यात् । ततो यावत्यः प्रधानाहुतयस्तावतो ब्राह्मणान्भोजयेद्यावन्ति तदाहुतिशतानि तावतो वा यावन्ति तत्सहस्राणि तावतो वा यथासम्भवं वा । ततो172 यस्य स्मृत्येति विष्णुं स्मरेत् । ततो भुक्तवद्भ्यो यथाविभवं दक्षिणां दत्त्वा क्षमाप्य तदाशिषो गृहीत्वा प्रणि पत्यानेन ग्रहमखाख्येन कर्मणाऽऽदित्यादयो ग्रहाः प्रीयन्तां न ममेतीश्वरार्पणं कृत्वा हृष्टमनाः सुहृद्युक्तो भुञ्जीत ।

इति संस्काररत्नमालायां ग्रहमखप्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां तृतीयं प्रकरणम् ॥ ३ ॥

अथ मण्डलरचनाप्रकारः ।

प्रसारितवस्त्रस्य मध्ये रक्तवर्णचूर्णेन षड्यूकासप्तयवसहितैकाङ्गुलात्मकव्यासार्धेन कर्काटकेन सूर्यस्य वृत्तं पीठे विदध्यात् । आग्नेय्यां श्वेतचूर्णेन यूकाद्वयसप्तयवचतुरङ्गुलात्मकभुजचतुष्टयेन चतुरश्रं सोमस्य पीठम् । याम्यां रक्तवर्णचूर्णेन चतुर्यूकाधिकाङ्गुलत्रयात्मकभुजत्रयेणैकयूकापञ्चयवसहितद्व्यङ्गुललम्बकं त्रिकोणं दक्षिणाग्रमुत्तराग्रं वा भौमस्य पीठम् । ईशान्यां पीतचूर्णेन चतुर्यवान्तरं चतुरङ्गुलदीर्घमुदक्संस्थं भुजसञ्ज्ञकं रेखाद्वयं समाग्रं लिखित्वैतद्रेखाद्वयोदग्गताग्रयोरन्तराले तदग्रसङ्गतामन्तरालप्रदेशपरिमितामेकां रेखां लिखित्वा पौरस्त्यभुजदक्षिणदिग्गताग्रात्पुरतोऽग्रसल्ँलग्नां चतुर्यवात्मिकां प्राचीं रेखां विधाय तथैव पाश्चात्यभुजदक्षिणदिग्गताग्रात्पश्चादग्रसल्ँलग्नां चतुर्यवात्मिकां प्रतीचीं रेखां विधाय भुजद्वयमध्यतो दक्षिणं ऋजुतिर्यक्सूत्रं दत्त्वा भुजद्वयमध्यतो दक्षिणे लिक्षापञ्चकयूकाद्वयसहितपञ्चयवाधिकद्व्यङ्गुलं मीत्वा(ग. नीत्वा ।) तत्र चिह्नं कृत्वा चतुर्यवात्मकप्राक्प्रत्यग्रेखाबहिष्प्रान्तावारभ्य चिह्नपर्यन्तं षड्यवाधिकद्व्यङ्गुलात्मकं भुजद्वयं कुर्यादित्येव बाणाकारपीठं बुधस्य । उत्तरस्यां पीतचूर्णेन पूर्वपश्चिमभुजद्वयं त्र्यङ्गुलं दक्षिणोत्तरभुजद्वयं द्व्यङ्गुलमित्येव दीर्घचतुरश्रपीठं गुरोः । पूर्वस्यां श्वेतचूर्णेन पञ्चयूकासप्तयवैकाङ्गुलात्मकव्यासार्धेन कर्कटेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य यूकात्रययवद्वयाङ्गुलद्वयमिताः पञ्च ज्याः कृत्वाऽवशिष्टं मार्जयेदित्येवं पञ्चकोणं शुक्रस्य । अथवा षड्यृकाषड्यवाङ्गुलद्वयात्मकव्यासार्धेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य षड्यूकाषड्यवाङ्गुलत्रयपरिमितप्रदेशे चिह्नं कृत्वा तत आरभ्यान्येषु प्रदेशेष्वेवमेव चिह्नानीत्येवं पञ्च चिह्नानि कर्काटकेन कृत्वा यस्मात्कस्मादेकस्माच्चिह्नादनन्तरं चिह्नं विहाय तृतीयचिह्नसल्ँलग्नं यृकाद्वययवत्रयाङ्गुलपञ्चकपरिमितं बाहुं कृत्वैवमेवेतरांश्चतुरो बाहून्सम्पाद्य कोणाधरस्थान्बाहून्वृत्तं च मार्जयेदित्येवमुत्कलसज्ञकं पञ्चकोणं शुक्रस्य पीठम् । पश्चिमायां कृष्णचूर्णेन लिक्षाचतुष्टययूकाचतुष्टययवचतुष्टयाधिकचतुरङ्गुलात्मकव्यासार्धेन वृत्तं कृत्वा वृत्तसङ्गतां यूकापञ्चकयवत्रयसहितषडङ्गुलमितां ज्यां कुर्यादित्येव प्राग्ज्यं षडङ्गुलक्षेत्रफलं शनेः पीठम् । अथवा लिक्षाषट्कयवपञ्चकसहिताङ्गुलद्वयात्मकव्यासार्धेन वृत्तं कृत्वा यूकाषट्कयवपञ्चकाङ्गुलत्रयपरिमितां वृत्तरेखासलग्नां ज्यां दद्यादित्येव द्व्यङ्गुलक्षेत्रफलं शनेः पीठम् । नैर्ऋत्यां नीलचूर्णेन चतुरङ्गुलमितचतुर्भुजं चतुरश्रं कृत्वा चतुरश्रस्याऽऽग्नेयकोणाद्दक्षिणतः षड्यूकैकयवैकाङ्गुल्यात्मक प्रदेशमृजुतया वर्धयित्वा तत्र चिह्नं कृत्वैवमेवोत्तरतो वर्धयित्वा चिह्नं च कृत्वा दक्षिणदिग्गतचिह्नां नैर्ऋतकोणपर्यन्तां रेखां लिखित्वोत्तरदिग्गतचिह्नाद्वायव्यकोणपर्यन्तां रेखां लिखित्वाऽध स्थाद्व्यङ्गुलात्मकभुजार्धयोश्चिह्ने कृत्वा ताभ्यां चिह्नाभ्यामेकैकाङ्गुलात्मकव्यासार्धेन कर्काटकेन वृत्तद्वयं लिखेन्मध्यस्थितं सर्वं मार्जयेदित्येव शूर्पाकारं पीठं राहोः । वायव्यां नानावर्णेन पूर्वापरमष्टाङ्गुलदीर्घं चतुर्यवान्तरं रेखाद्वयं विलिख्याध आरभ्य पञ्चाङ्गुलप्रमाणमुपरिभागादेकाङ्गुलप्रमाणं प्रदेशं दक्षिणरेखायास्त्यक्त्वाऽवशिष्टद्व्यङ्गुलप्रमाणां रेखां सम्मार्ज्यैकयवाधिकचतुरङ्गुलात्मकौ भुजौ दक्षिणतो मिथोलग्नास्यौ कुर्यादित्येव ध्वजाकारं पीठं केतोः । एवं पीठानि विधायाग्न्युत्तारणं कुर्यात्” इति ग्रन्थो वर्तते ।


  1. ग. घ. ङ. म्ये स्थ । ↩︎

  2. क. ख. ग. सहिताः । ↩︎

  3. क. ख. ग. सैकाः । ↩︎

  4. क. र्थ. । वा । ↩︎

  5. क. ग. र्युताः कृ । ↩︎

  6. क. ग. ताप्ता इत्ये ↩︎

  7. क. ष्टय ल । ↩︎

  8. क. ग. भाजिताः । ↩︎

  9. क. म् । अ । ↩︎

  10. क. ति । अथा । ↩︎

  11. धनुचिह्नान्तर्गतो ग्रन्थो ग. घ. ङ. पुस्तकेष्वेवास्ति । ↩︎

  12. ङ. न्ते वध्य । ↩︎

  13. ड. कर्कोट । ↩︎

  14. ङ. प्राची । ↩︎

  15. ड. ध्य उ । ↩︎

  16. ङ. कर्कोट ↩︎

  17. ङ. यमि । ↩︎

  18. क. ठे यन्त्रे च मू । ↩︎

  19. क. र्थ्यन्तः स्वा । ↩︎

  20. क. न्वितः । यन्त्रपीठादिदेवानां हा । ↩︎

  21. क. मन्त्रः प्रकी । ↩︎

  22. क. तेनैवेति । ↩︎

  23. क. प गा । ↩︎

  24. क. कारोऽपि । अ । ↩︎

  25. ग. मौहूर्तिके । घ. ङ. ज्योतिर्विदुक्ते । ↩︎

  26. घ. ड. ल्पः । तत्र । ↩︎

  27. घ. ङ. व । त ↩︎

  28. क. ध्याय्यमुकप्र । ↩︎

  29. ग. ततस्तद्ध । ↩︎

  30. घ. ङ. महीसुर । ↩︎

  31. ग. ब्रह्माणं । ↩︎

  32. ग. ति सदस्यं सम्प्रार्थ्य त । ↩︎

  33. ग. वृणुयात् । ततस्तान्स । ↩︎

  34. ज्य प्रार्थयेच्च । अ । ↩︎

  35. ङ. भूमेः प्रो । ↩︎

  36. क. भूमिं । ↩︎

  37. क. भूमिं । ↩︎

  38. ग. अपाया । ↩︎

  39. घ. ङ. न्तं शा । ↩︎

  40. धनुचिह्नान्तर्गतग्रन्थस्थाने क. पुस्तकेऽन्यो ग्रन्थोऽस्ति स यथा–“तत आयतन कुशमुष्टिना सम्मृज्य यथोक्तलक्षणकुण्डसत्त्वे ब्रह्मविष्णुरुद्राख्या मेखलादेवता आवाह्य गौरीं योनिदेवतामावाह्य” इति । ↩︎

  41. ग. घ. ड. प्योल्लेखना । ↩︎

  42. ग. घ. ड. तो मण्ड । ↩︎

  43. क श्रां विस्तृताधस्तनवप्रामङ्गुलोच्छ्रितविस्ततोपरि वेदिं विधाय तस्या अधस्ताद्वप्रं द्व्यङ्गुलोच्छ्रायं(य) विस्तारं कृत्वा तदुपर्येकैकाङ्गुलोच्छ्रायं द्व्यङ्गुलविस्तार वद्वप्रयं विधाय तद्वप्र । ↩︎

  44. ग. घ. ड. त् । ततो वेद्यां स । ↩︎

  45. घ ड. वे शान्तिरत्नमालायां वक्ष्यमाणेन प्रकारेण स । ↩︎

  46. घ. ङ. भद्रपीठं वि । ↩︎

  47. क. तास्थापन पूजन च कुर्यात् । तत्र मन्त्राः । ब्र । ग. तास्थापन पूजनं च कुर्यात् । स्थण्डिलपक्षेऽपीयं वेदिः । अथ तन्मन्त्राः । व्र । ↩︎

  48. धनुश्चिह्नान्तर्गतस्थाने क. ग. पुस्तकयोः– “काण्डानुसमयेन पदार्थानुसमयेन वा सर्वा देवताः पूजयेत् ।
    तत स्थण्डिलकरणादि । आधारवत्तन्त्रेणैतदुद्देशेन दश दश तिलाहुतीर्घृताहुतीर्वा जुहुयात् । एकैकां वाऽऽहुतिं जुहुयादिति सम्प्रदायः । मेर्वादीनां नमःशब्दरहितैः प्रणवादिचतुर्थ्यन्तैः स्वाहाकारान्तैर्नामभिर्होमः । ततस्तदुपरि वेदिपरिमित श्लक्ष्णक्षौम वस्त्रं प्रसार्य वस्त्रस्य समन्तादवध्यर्थं रेखां लिखित्वा तत एकैकाङ्गुलान्तरालास्तिस्रः समन्ताद्रेखा लिखित्वाऽवशिष्ट चतुरथ प्राञ्चमुदञ्चं च त्रेधा विभज्य तेषु नवकोष्ठेषु मध्ये सूर्यस्याऽऽग्नेय्यां सोमस्य दक्षिणस्यां भौमस्यैशान्यां बुधस्योत्तरस्यां गुरोः प्राच्यां शुक्रस्य पश्चिमायां शनेनैर्ऋत्यां राहोर्वायव्यां केतोरित्येवं क्रमेण मण्डलानि तत्तद्वर्णाक्षतै रचयेत् । अभावे विलिखेद्वा । अथवा यथा ग्रहमण्डलानां पत्रेषु निवेशो भवति तावत्प्रमाणं पत्रं सकर्णिकमष्टपत्रं पद्मं विलिख्य मध्ये सूर्यमितरेषु पत्रेष्वनन्तरोक्तक्रमेणाष्टौ ग्रहानावाहयेत् । ↩︎

  49. घ. ङ. ल्य सू । ↩︎

  50. ग. क्रौं । ↩︎

  51. ग. क्रौं । ↩︎

  52. धनुश्चिह्नान्तर्गत घ ड. पुस्तकयोरेव । ↩︎

  53. ग. क्रौं । ↩︎

  54. क्रौं । ↩︎

  55. घ. ङ. णि । भों ॐ आं ह्रीं क्रौं य रं लं व श षं स हों हसः सोऽहं वा । ↩︎

  56. क. स्यै जीव । ↩︎

  57. घ. त् । सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रत्वग्जिह्वाघ्राणपाणिपादपायूपस्था इत्येकमेव वा । ए । ↩︎

  58. घ. ङ. रभ्योपहारपर्यन्तं प्र । ↩︎

  59. घ. ङ. रतः स्वयमन्योऽपि यः कश्चन नैव ति । ↩︎

  60. क. ग. रदहस्त द्वि । ↩︎

  61. घ. ङ. दलाभे पूगीफलेष्वक्षतपुञ्जेषु वा । य । ↩︎

  62. घ. ङ. पुस्तकयोः, ईश्वराय नम इत्य्-आदिनाममन्त्रादनन्तरं पञ्चवक्त्रमित्यादितत्तद्विशेषणान्युल्लिख्येश्वरमावाहयामीति सूर्यदक्षिणपार्श्व ईश्वरमित्यादितत्तद्देवताद्वितीयान्तनामाऽऽवाहयामीतीतिविशिष्टं क्रियापदं तत्तद्देवताया आवाहनस्थानप्रदर्शकं पदं द्वितीयान्तं तत्तद्देवतानाम च निर्दिष्टं वर्तते । ↩︎

  63. घ.ङ. मासु पूगीफलेष्वक्ष । ↩︎

  64. घ. ङ. रीवरकरामि । ↩︎

  65. घ. ङ. ब्रह्मा देवानामित्यस्य विश्वे देवा ब्र० । ↩︎

  66. घ. ड. ब्रह्मा देवानां० रेभन् । भ । ↩︎

  67. घ. ड. मासु पूगीफलेष्वक्ष । ↩︎

  68. क. ख. ग. ताः । अ । ↩︎

  69. घ. ङ. थ कर्मम । ↩︎

  70. घ. ङ. म् । तामग्निवर्णामित्य । ↩︎

  71. घ. ड. ॐ तामग्निवर्णो० तरसे नमः । भृ । ↩︎

  72. क. लभूक । ग. लशूलट । ↩︎

  73. घ. ङ. दुर्गदैत्यासु । ↩︎

  74. घ. ङ. जवरकरं धू । ↩︎

  75. ग. षडङ्गं । ↩︎

  76. क. ख. ग. रुके । ↩︎

  77. क. ति रक्तभू । ↩︎

  78. घ. ङ. क्षे राजाधिगजायेत्यस्यारुणा. कुबेरोऽष्टिः । समस्तव्या० ती । कुबेरावा० । ॐ राजाधिराजाय० महाराजाय नमः । भू० शिबिकारूढ । ↩︎

  79. घ. ङ बेरमावा० इति कुबेरम् । स्थानं सोमस्यैवैतस्यापि । अभि । ↩︎

  80. धनुश्चिह्नान्तर्गतग्रन्थस्थाने घ. ङ. पुस्तकयोः–“इति देवताप्रतिष्ठापन कुर्यात् । मन्त्रावृत्तिः प्रतिदेवतम् । तत्तदावाहनानन्तरमेव तत्तत्प्रतिष्ठापन तत्तत्पूजनं चेति काण्डानुसमय एवात्र नियतः, सौकर्यात् । आवाहनं प्रतिष्ठापन च क्रमेणैकैकस्या देवतायाः कृत्वैकैकस्यै त तमुपचारं निवेदयेदित्येवंरूपो हि पदार्थानुसमयः । तस्य शक्रार्कौ प्राङ्मुखौ ज्ञेयावित्यस्मिन्पक्षे प्रतिदेवतं यथायथं यथायोग्यप्राप्तप्राङ्मुखोदङ्मुखतयोस्तदभिमुखताया वा विलम्बावहत्वान्न भवति । विलम्बसहने प्रधानस्य तदारम्भस्य वा पूर्वाह्नकालता बाध्येत । अतः काण्डानुसमय एवात्र । ग्रहाणां पूजनेऽयं” इति वर्तते । ↩︎

  81. ग. न वा । ↩︎

  82. एतच्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तकेऽय ग्रन्थः–“षोडशोपचारैः पूजयेत् । तत्र विशेषः–ग्रहवर्णानि वासांसि । गन्धाः पुष्पाणि च । प्रहवर्णवस्त्रगन्धपुष्पाणामलाभे श्वेतान्येतानि । गुग्गुलुधूपः । तदलाभे यः कश्चन सौरभ्ययुक् । गडौदनघृतपायसहविष्यान्नक्षीरषाष्टिकदध्योदनघृतौदनतिलमाषमिश्रितान्नलवणमिश्रक्षीरौदनचित्रौदना इति ग्रहाणां क्रमेण नैवेद्यम् । एतेषामलाभे यथासम्भवम्” इति । ↩︎

  83. घ. ङ. सूर्याय । ↩︎

  84. ग. घ. ङ. य केशरयु । ↩︎

  85. ग. घ. ङ. वे केशरयु । ↩︎

  86. ग. घ. ङ. न्दनं, शु । ↩︎

  87. ग. घ. ङ. भ्योऽगुरुः । ↩︎

  88. ग. घ. ङ. सूर्याय । ↩︎

  89. ग. सिलाद्र । ↩︎

  90. ग. घ. ङ. दनः । सो । ↩︎

  91. घ. ड. दन. । शु । ↩︎

  92. ग. घ. ङ. दनः । श । ↩︎

  93. ग. घ. ङ. श्रितौदनः । रा । ↩︎

  94. ग. घ. ङ. युक्तौदनः । ए । ↩︎

  95. ग. घ. ड. त ओदनः । र। ↩︎

  96. ग. घ. ङ. मिश्रिताजा । ↩︎

  97. ग. पूगीफलानि । ↩︎

  98. ग. घ. ङ. केरफलानि । के । ↩︎

  99. घ. ड. डिमीफलानि । ↩︎

  100. एतस्मात्प्राक् घ. ङ. पुस्तकयोरधिकमेतत्–“ग्रहवर्णवस्त्राभावे स्वेन रञ्जितानि कृत्वा समर्पणीयानि । एतदसम्भवे श्वेतानि । यथोक्तचन्दनपुष्पालाभे यानि कानिचित्तत्तद्वर्णानि । तदलाभे श्वेतानि । यथोक्तधूपालाभे गुग्गुलुः । तस्याप्यलाभे यः कश्चन सौरभ्ययुक । यथोक्तौदनालाभे तत्तद्वर्णयुक्तपिष्टौदनो घृतौदनो वा नैवेद्यम्” इति । अत्रोपक्रमोक्ता फक्किकाऽऽवश्यिका । ↩︎

  101. क. ख. धूपः स एव । ↩︎

  102. क. ख. वं श्वेतपुष्पमिति । त । ↩︎

  103. क ख. तं कुम्भं सं । ↩︎

  104. क. ख. पुस्तकयोरत्र “कलशे दधि” इति पदद्वयरहितः पाठः । एवमग्रेऽपि । ↩︎

  105. क. इत्यस्या । ↩︎

  106. क. ख. प्य पुण्याहवाचनप्रकरणोक्तैर्गन्धद्वारामित्यादिभिर्गन्धादीन्रत्नान्तानुपचारान्प्रक्षिप्य या । ↩︎

  107. क. ख. धीः क । ↩︎

  108. क. ख. प्रसिद्धिः । ↩︎

  109. क.ख. मप्यभा । ↩︎

  110. घ. ङ. री । का । ↩︎

  111. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति । ↩︎

  112. घ. ङ. प्रक्षेपणे । ↩︎

  113. ग. भे. व (च) सु । ↩︎

  114. ग. घ. ङ. र्ण प्र । ↩︎

  115. ग. प् । क । ↩︎

  116. क. ख. श. व ↩︎

  117. क. ख. दर्वीति तण्डुलपूर्णेन पात्रेण कलशाननं पिधाय तत्र कलशस्य मु । ↩︎

  118. क. ति दे । ↩︎

  119. ग. घ. ङ. ग्निरापो । ↩︎

  120. क. ख. ति कुम्भम । ↩︎

  121. घ. ङ. शक्तौ मन्त्रविदमन्यं ब्रा । ↩︎

  122. क. ख णं नियुञ्जीत । अ । ↩︎

  123. घ. ङ. त् । अथवा केवलचर्वाहु । ↩︎

  124. घ. ङ. इत्येवं व । ↩︎

  125. घ. ङ. त् । इदं च प्र । ↩︎

  126. ङ. तु प्र । ↩︎

  127. घ. ङ. बलचरुवराहुत्या यक्ष्ये केवलाज्यवराहुत्या । ↩︎

  128. क. गुण्य वि । ↩︎

  129. क.ख. प्तमग्नि । ↩︎

  130. क. णम् । ए । ↩︎

  131. ख. ह्माणं प्रत्येकमेत । ↩︎

  132. क. भिर्वा यथा । ↩︎

  133. क. ख. ने पूर्वसङ्ख्यान्यूनाम । ↩︎

  134. क. तासङ्ख्यातो न्यू । ↩︎

  135. क. धानद । ↩︎

  136. क. ग. मः । इतरदेवतां वि । ↩︎

  137. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. ग. पुस्तकेष्वन्यथा ग्रन्थः स यथा–“सङ्ख्योत्कीर्तनम् । सर्वतोभद्रं चेत्तदा पूजोत्तरमेव होमाकरणपक्षेऽत्रान्वाधानं सर्वतोभद्रमण्डलदेवता दशदशसङ्ख्याकाभिधृताहुतिभिस्तिलाहुतिभिर्वा यक्ष्य इति ग्रहहोमात्पूर्वं वा मण्डलदेवतान्वाधानं होमोऽपि तत्पूर्वमेव । तेषां प्रत्येकमेकैकाऽऽहुतिरिति केचित् । ततोऽङ्गहोमे वरुणमित्यादि व्याहृत्यन्तत्वपक्षे । प्रसाधनीदेव्यन्तत्वपक्षे तु–अग्निं स्विष्टकृतं हुतशेषाहुत्येत्यादि पात्रासादनकाले दर्व्यासादनोत्तरं बहूनां चरूद्धरणपात्राणां स्रुवाणामाज्यस्थालीनां च बह्वीनामासादन प्रोक्षण च कार्यम् । वक्ष्यमाणाघारवत्स्थालीपाकधर्मेण चरु श्रपयित्वा युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय सर्वेषां स्रुवाणां सम्मार्गः कार्यः । स्रुवस्थाने दर्व्यो वा, तासामपि सम्मार्गः । पर्यग्निकरणकाले सवैर्होमद्रव्यैः सहाऽऽज्यस्य पर्यग्निकरणम् । ततः शृतं चरुमभिघार्योत्तरत उद्वास्य बर्हिष्यासाद्य तत्रैवाऽऽसादितेषु चरुद्धरणपात्रेषूद्धृत्य यथादैवतं विभज्य परिषेकादि प्रसाधनीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा गणानां त्वेति मन्त्रेण पलाशसमिच्चर्वाज्यानामेकैकामाहुतिमाचार्य एव जुहुयात् । गणपतय इदं न ममेति यजमानस्त्यागं कुर्यात् । तत ऋत्विज उदङ्मुखाः प्राङ्मुखा वोपविश्य द्विराचम्यामुक्तकेशा निपातितजानुकाः सावधानमनसो वाग्यता भवेयुः । ततो” इति । ↩︎

  138. घ. ङ. नोत्कीर्तितसं । ↩︎

  139. घ ङ. र्व सर्वतोभद्रपीठदे । ↩︎

  140. क. होमः । त । ↩︎

  141. क. ख. ग. नोद्दिष्टैर्द्रव्यै । ↩︎

  142. क. ख. ग. नोक्तसङ्ख्य हो । ↩︎

  143. क. ख. ग. न्त्रैरन्वा । ↩︎

  144. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. ग. पुस्तकेषु विद्यमानो ग्रन्थ एवम्–“तत्र चरुसमिद्धोमकर्तार: स्वस्वदक्षिणहस्त निष्टप्य वामहस्तेन समृज्य पुननिष्टप्य दक्षिणहस्तेनैव स्वस्वसम्मार्गदर्भप्रहरणं कुर्युः । अत्र चरुश्रपणासम्भवे गृहसिद्धान्नेन देवपवित्रसंस्कारसंस्कृतेन होम इति सम्प्रदायः । " इति । ↩︎

  145. घ. ङ. ण स । ↩︎

  146. घ.ङ. माञ्योऽवा । ↩︎

  147. का ख. ग. म । आ । ↩︎

  148. घ. ङ. ग्राः । अ । ↩︎

  149. क ख. ण चरुं ग्रासमात्रं नि । ↩︎

  150. घ.ङ. न. जुहुयादिति सम्प्रदायः । स । ↩︎

  151. क. ख. चार्यः प्रधानहोमान्वाधानोत्तरमन्वाधानं कृतं चेदत्र मण्डलदेवताहो० । ↩︎

  152. घ.ङ. श्चादेव वोप. ↩︎

  153. घ. ङ. लीन्दद्या । ↩︎

  154. क. ख. लं क्षि । ↩︎

  155. क. ख. ल त्य । ↩︎

  156. एतद्वाक्य क. ख. पुस्तकयोर्नास्ति । एवमग्रेऽपि तत्तद्देवतानामवटितमेतद्वाक्यं नास्तीति बोध्यम् । ↩︎

  157. घ. ङ. सूर्यः । ↩︎

  158. क. ख. त् । क्षे । ↩︎

  159. धनुश्चिह्नान्तर्गतग्रन्थस्थाने घ ङ. पुस्तकयोः–“क्षेत्रपालाय नम इति क्षेत्रपाल नमस्कृत्य हस्तौ पादौ च प्रक्षाल्य प्रत्येत्याऽऽचामेत् । आचार्यपत्न्योरपि हस्तपादप्रक्षालनमाचमन च । तत्र पन्त्याः सकृदमन्त्रकम् । ततो यजमानपत्न्याचार्या अग्निसमीपमागत्याऽऽचम्य स्वायतनेषूपविशेयुः । तत आचार्यो” इति ग्रन्थो वर्तते । ↩︎

  160. घ. ङ, त्वा दर्व्या अपूर्णतायामाज्येनाभिपूर्य त । ↩︎

  161. घ. ड. इत्येतैः । ↩︎

  162. क. वर्णश्च । ↩︎

  163. क. ख. ग. ततोऽभिषेकानन्तरं क । ↩︎

  164. घ. ङ. ती अहतवासांसि परिधायाभिषेकवासांस्याचार्याय दत्त्वा श्वे । ↩︎

  165. घ. ड. त्नी । त । ↩︎

  166. क. ख. रकः । अ । ↩︎

  167. क. स्त्रद्वयं य । ↩︎

  168. क. ख. ग. वः । चन्द्राकवा । ↩︎

  169. ध. सर्वस्य । ↩︎

  170. ख. हनो नि । ↩︎

  171. ग. स्वस्वप्र । ↩︎

  172. ख. ग. घ. ङ. तो भु । ↩︎