०२

01 अपि वा लेपान्प्रक्षाल्याचम्य ...{Loading}...

अपि वा लेपान्प्रक्षाल्याचम्य प्रोक्षणमङ्गानाम् १

02 सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं ...{Loading}...

सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् २

03 ततः परिवृत्तौ कर्मफलशेषेण ...{Loading}...

ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३

04 यथौषधिवनस्पतीनाम् बीजस्य क्षेत्रकर्मविशेषे ...{Loading}...

यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४

05 एतेन दोषफलपरिवृद्धिरुक्ता ...{Loading}...

एतेन दोषफलपरिवृद्धिरुक्ता ५

06 स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो ...{Loading}...

स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिंल् लोके परिमिते निरये वृत्ते जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ६

07 एतेनान्ये दोषफलैः कर्मभिः ...{Loading}...

एतेनान्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ७

08 यथा चाण्डालोपस्पर्शने सम्भाषायान् ...{Loading}...

यथा चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ८

09 अवगाहनमपामुपस्पर्शने सम्भाषायाम् ब्राह्मणसम्भाषा ...{Loading}...

अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ९

इति प्रथमः पटलः


  1. इदमनृतुकाले इत्यधिकं ख.च. पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र। ↩︎ ↩︎

  2. मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञां अर्थग्रहणशक्तिम् इति क. च. पु. । ↩︎ ↩︎

  3. अप्यवश्यापेक्ष्या इति. च. पु. ↩︎

    1. Manu XII, 55; Yājñ. III, 206, 207. A Paulkasa is said to be the offspring of a Niṣāda and a Kṣatriya woman. See the Pet. Dict. s.v. A Vaiṇa is a rope-dancer, or equilibrist.
     ↩︎
  4. Manu XII, 52. ↩︎