०६

01 सदा निशायाङ् गुरुं ...{Loading}...

सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य १

02 अनुज्ञातः संविशेत् ...{Loading}...

अनुज्ञातः संविशेत् २

03 न चैनमभिप्रसारयीत ...{Loading}...

न चैनमभिप्रसारयीत ३

04 न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ...{Loading}...

न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ४

05 न चास्य सकाशे ...{Loading}...

न चास्य सकाशे संविष्टो भाषेत् ५

06 अभिभाषितस्त्वासीनः प्रतिब्रूयात् ...{Loading}...

अभिभाषितस्त्वासीनः प्रतिब्रूयात् ६

07 अनूत्थाय तिष्ठन्तम् ...{Loading}...

अनूत्थाय तिष्ठन्तम् ७

08 गच्छन्तमनुगच्छेत् ...{Loading}...

गच्छन्तमनुगच्छेत् ८

09 धावन्तमनुधावेत् ...{Loading}...

धावन्तमनुधावेत् ९

10 न सोपानःवेष्टितशिरा अवहितपाणिर्वासीदेत् ...{Loading}...

न सोपानःवेष्टितशिरा अवहितपाणिर्वासीदेत् १०

11 अध्वापन्नस्तु कर्मयुक्तोवासीदेत् ...{Loading}...

अध्वापन्नस् तु कर्म-युक्तो ऽवासीदेत् ११

12 न चेदुपसीदेत् ...{Loading}...

न चेद् उपसीदेत् १२

13 देवमिवाचार्यमुपासीताविकथयन्न् अविमना वाचं ...{Loading}...

देवम् इवाचार्यम् उपासीताविकथयन्न् अविमना वाचं शुश्रूषमाणोऽस्य १३

14 अनुपस्थकृतः ...{Loading}...

अनुपस्थकृतः १४

15 अनुवाति वीतः ...{Loading}...

अनुवाति वीतः १५

16 अप्रतिष्टब्धः पाणिना ...{Loading}...

अप्रतिष्टब्धः पाणिना १६

17 अनपश्रितोऽन्यत्र ...{Loading}...

अनपश्रितोऽन्यत्र १७

18 यज्ञोपवीती द्विवस्त्रः ...{Loading}...

यज्ञोपवीती द्विवस्त्रः १८

19 अधोनिवीतस्त्वेकवस्त्रः ...{Loading}...

अधोनिवीतस्त्वेकवस्त्रः १९

20 अभिमुखोऽनभिमुखम् ...{Loading}...

अभिमुखोऽनभिमुखम् २०

21 अनासन्नोऽनतिदूरे ...{Loading}...

अनासन्नोऽनतिदूरे २१

22 यावदासीनो बाहुभ्याम्प्राप्नुयात् ...{Loading}...

यावदासीनो बाहुभ्याम्प्राप्नुयात् २२

23 अप्रतिवातम् ...{Loading}...

अप्रतिवातम् २३

24 एकाध्यायी दक्षिणम् बाहुम् ...{Loading}...

एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् २४

25 यथावकाशम् बहवः ...{Loading}...

यथावकाशं बहवः २५

26 तिष्ठति च नासीतानासनयोगविहिते ...{Loading}...

तिष्ठति च नासीतानासनयोगविहिते २६

27 आसीने च न ...{Loading}...

आसीने च न संविशेत् २७

28 चेष्टति च चिकीर्षन्तच्छक्तिविषये ...{Loading}...

चेष्टति च चिकीर्षन्तच्छक्तिविषये २८

29 न चास्य सकाशेऽन्वक्स्थानिनमुपसङ्गृह्णीयात् ...{Loading}...

न चास्य सकाशेऽन्वक्स्थानिनमुपसंगृह्णीयात् २९

30 गोत्रेण वा कीर्तयेत् ...{Loading}...

गोत्रेण वा कीर्तयेत् ३०

31 न चैनम् प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वा ...{Loading}...

न चैनं प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वा ३१

32 अपि चेत्तस्य गुरुः ...{Loading}...

अपि चेत्तस्य गुरुः स्यात् ३२

33 देशात्त्वासनाच्च संसर्पेत् ...{Loading}...

देशात्त्वासनाच्च संसर्पेत् ३३

34 नाम्ना तदन्तेवासिनङ् गुरुमप्यात्मन ...{Loading}...

नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ३४

35 यस्मिंस्त्वनाचार्यसम्बन्धाद्गौरवं वृत्तिस्तस्मिन्न् अन्वक्स्थानीये ...{Loading}...

यस्मिंस्त्वनाचार्यसंबन्धाद्गौरवं वृत्तिस्तस्मिन्न् अन्वक्स्थानीये ऽप्याचार्यस्य ३५

36 भुक्त्वाचार्यस्य सकाशे नानूत्थायोच्छिष्टम् ...{Loading}...

भुक्त्वाचार्यस्य सकाशे नानूत्थायोच्छिष्टं प्रयच्छेत् ३६

37 आचामेद्वा ...{Loading}...

आचामेद्वा ३७

38 किङ् करवाणीत्य् आमन्त्र्य ...{Loading}...

किं करवाणीत्य् आमन्त्र्य ३८


    1. Manu II, 209.
     ↩︎
  1. Manu II, 194. ↩︎

  2. पश्चाद्गुरुणा इति ख. पु ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. ‘But, in Āpastamba’s opinion, it is sinful even in this case.’–Haradatta. ↩︎

  4. Manu II, 195. ↩︎

  5. Manu II, 196. ↩︎

  6. अभिभाषितस्तन् इति ख. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. आकुञ्चितस्य सव्यजानुन उपरिदक्षिणं पादं प्रक्षिप्योपवेशनमुपस्थकरणम् । ↩︎ ↩︎ ↩︎

  8. Manu II, 203. ↩︎

  9. ‘वाते’ इति नास्ति ख. पु. ↩︎ ↩︎ ↩︎

  10. मनु० स्मृ० २. २०३. ↩︎

  11. At sacrifices the sacred thread passes over the left shoulder and under the right arm. Manu II, 63, and Taitt. Ār. II, 1, 3. ↩︎

  12. Manu II, 197. ↩︎

  13. See Sūtra 15 and Manu quoted there. ↩︎

  14. The term Guru includes a father, maternal uncle, &c. (see above), and these are inferior to the teacher. Manu II, 205. ↩︎

  15. -32. ‘The pupil is not to show the mentioned marks of respect to any of his own inferior Gurus, even if the person is the Guru, e.g. the maternal uncle, of his teacher.’–Haradatta. ↩︎

  16. माणवकस्य इति क. पु. ↩︎

  17. आप० ध० १.८, १९ पूजां वक्ष्यतीति ख. पु. ↩︎

  18. मातुलादिप्रसङ्गे इति क० पु० ↩︎

  19. ‘But Āpastamba’s own opinion is that he ought not to address by name a (maternal uncle or other) Guru (who visits his teacher).’–Haradatta. ↩︎

  20. According to I, 1, 3, 40 seq., a student shall give what he is unable to eat to a child, or to a slave. If he has eaten in the presence of his teacher, he shall not give the food away without rising for the purpose. ↩︎