वाक्यभेदः

परिचयः

  • “सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते।”
  • वाक्यभेददोषः
    • अत्र परीक्षा नाना भवन्ति प्रकारशः।
    • लोके ऽयं न प्रायेण दोषाय। वेदे त्व् अवगमन-सौलभ्याय निवार्यते।
    • वाक्यभेददोषा यदि लक्ष्यन्ते, वाक्यभेदः समीचीनः परिहारः।

आवृत्तिलक्षणो वाक्यभेदः

  • अत्र पदावृत्तिर् अपेक्ष्यते ऽन्वयसाधनाय भिन्नवाक्ययोः। अध्याहारो+++(=अनुक्त-शब्दाकर्षणम्)+++ वा स्याद्, अनुषङ्गो+++(=अन्यत्रोक्त-शब्दाकर्षणम्)+++ ऽपि वा।
  • यथा - रामो ग्रामं गच्छति। कृष्णोऽपि।
  • यथा - “वाजपेयेन स्वाराज्यकामो यजेत।” → (पूर्वपक्षे) “वाज+++(=अन्न)+++पेयेन+++(=पेयान्नद्रव्येण)+++ [यजेत]। स्वाराज्यकामो यजेत।” = “वाजपेयेन यागम् भावयेत्। यागेन स्वाराज्यम् भावयेत्।”

गौरवलक्षणो वाक्यभेदः

  • एकस्मिन् वाक्ये एकमेव +उद्देश्यम्, एकमेव विधेयम्। नो चेद् दोषः - एकेनैव वाक्येन +अनेकवाक्यकार्यं क्रियमाणम्।

सम्भवोदाहरणम्

  • “किं नाम? किं करोषि?” इत्यस्योत्तरे - “देवदत्त नामाहं मीमांसाशास्त्रम् पाठयामि” इत्यस्मिन् विधेयद्वयम्।
    • प्रश्नयोः “त्वम्” इति समानांश इति हेतुना +एकेनैवोत्तरम्।
  • “कालिदासेन किं नाटकं रचितम्? भवभीतिना किम्?” इत्यस्योत्तरे - “कालिदासभवभूतिभ्यां क्रमेण +अभिज्ञानशाकुन्तलम् उत्तररामचरितम् इति नाटके रचिते।” इति वा, “कालिदासेन अभिज्ञानशाकुन्तलम्, भवभूतिना +उत्तररामचरितं च रचितम्।”
    • प्रश्नयोः “किं नाटकं रचितम्” इति समानांशः।
  • “कालिदासेन किं महाकाव्यं रचितम्? भवभीतिना किं नाटकं रचितम्?” इत्यस्योत्तरे - “कालिदासेन कुमारसम्भवं नाम महाकाव्यम्, भवभूतिना +उत्तररामचरितं नाम नाटकं च रचितम्।”
    • प्रश्नयोः “किं रचितम्” इति समानांशः।
  • “सोमेन यजेत। ज्योतिष्टोमेन स्वर्गकामो यजेत।” = (पूर्वपक्षे) “सोमेन यजेत” +++(सोमद्रव्यविधानम्, याग उद्देश्यः)+++, “ज्योतिष्ठोमेन स्वर्गकामो यजेत” +++(यागविधानम्, फलविधानम् - अधिकारविधिः)+++। अत्र द्वितीयवाक्ये गौरवलक्षणो वाक्यभेद इष्यते।
    • सिद्धान्तपक्षे तु नास्ति वाक्यभेदः - “सोमेन यजेत” +++(सोमविशिष्ट-यागविधानम्, इष्टम् उद्देश्यम् - उत्पत्तिविधिः)+++, “ज्योतिष्ठोमेन स्वर्गकामो यजेत” +++(फलविधानम् - अधिकारविधिः)+++।

प्रत्युदाहरणम्

  • “सोमेन यजेत।” इति श्रुतवाक्यम्। ततः कल्पितविधिः - “सोमद्रव्येण यागम् भावयेत्”। अत्र वाक्यं कल्पितम् इति हेतुना श्रुतवाक्येवाक्यभेदो न जातः - वाक्यान्तरस्य कल्पनात्।
    • श्रुतवाक्यस्यार्थः - “सोमविशिष्ट-यागेन+++(→विधेयम्)+++ +इष्टम्+++(√इष्+क्त →साध्यम्, उद्देश्यम्)+++ भावयेत्।”
    • कारिका - “श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने। लक्षणावाक्यभेदादिदोषो नानुमिते ह्यसौ॥”

विध्यावृत्तिलक्षणो वाक्यभेदः

  • यदि कृतेर् अनेकानि विशेषणानि बोध्येरन्, तत्र गुरुतालक्षणवाक्यभेदो ऽपेक्ष्येत। “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः॥”
  • “अग्निहोत्रं जुहोति। दध्ना ऽऽहवनीये जुहुयात्।”
  • ‘चित्रया यजेत पशुकाम’ इत्यत्र विधायकप्रत्यय एकः । विधेयौ च चित्रत्वं स्त्रीत्वञ्चेति द्वौ वर्तेते । एकेन च विधिना एक एव विधातुं शक्यते । अपरस्य विधानार्थं श्रतप्रत्ययस्याऽऽवृत्तिः करणीया । तत्र ‘न केवला प्रकृतिः प्रयोक्तव्या नाऽपि प्रत्यय इति न्यायेन केवलप्रत्ययप्रयोगानुपपत्तेः प्रकृतिरप्यावर्तनीया । तथा च ‘यजेत, यजेत’ इति पदद्वयं निष्पन्नम् । तत्र पृथक्पृथक् विधेयसम्बन्धसिध्यर्थं चित्रयेति पदमप्याव र्तनीयम् । तथा सति विध्यावृत्तिलक्षणो वाक्यभेदस्स्यात्।

वाक्यभेद-परिहाराः

  • वार्यते वाक्यभेदः क्वचिद् उपायैः।
  • प्रकरणेषु प्राथमिकवाक्येषु - अन्वयानुपपत्तिनिवृत्तये लक्षणया विशिष्टस्य विधानम्।
    • सोमेन यजेत। सोमविशिष्ट-यागविषिष्ट-भावना विधीयते।
  • अर्थान्तरकलनम्
    • “उद्भिदा यजेत पशुकामः” इत्यत्र।
      • पूर्वपक्षे - “उद्भिदा +++(द्रव्येण)+++ यागम् भावयेत्। यागेन पशून् भावयेद्” इति वाक्यद्वयं स्यात्। यत उभयत्र साध्यम्, साधनम् इति स्पष्टम् उक्तम् भवति, न किञ्चिद् अनन्वितम् भवति।
      • तस्य स्थाने “उद्भिन्नामयागेन पशून् भावयेत्” इत्यवगतं चेत् तत्र वाक्यभेदो नापेक्ष्येत।
      • उभयत्रापि साधनम् एव विधेयम् भवति। साध्यं चोद्देश्यम्।
  • (लक्षणां विनापि) विशिष्टभावनाविधानम्।
    • यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाञ् च पौर्णमास्याञ् चाच्युतो भवति।
      • अत्र हविर्देवतासम्बन्धो यागं विना सम्भवतीति यागशब्दो ऽर्थापत्त्या ऽध्याहृतः।
      • अग्निदेवताक+अष्टाकपालपुरोडाशद्रव्यक-अमावास्यापौर्णमासीकालाधिकरणक-यागविशिष्ट-भावनाद्वयम्। अग्नि-दैवत्य-पुरोडाश-द्रव्यकामावास्यादि-काल-कर्तव्य-यागेनेष्टं फल्म् भावयेदिति वा।
    • अत्र “विशिष्टोद्देश्य-लक्षण-वाक्यभेद” इति कथ्यते। उद्देश्यस्य विशेषणं पदान्तरेणोक्तं स्यात्, न तु समानपदेन - यथा “घटमानय” इत्यत्र घटत्व-विशिष्टं वस्त्व् आनयेति बोधे।
  • विशिष्ट-भावनान्तर-विधानम्।
    • “यावज्जीवम् अग्निहोत्रं जुहोति।” इत्यस्मिन् विधेयद्वयम् आपाद्येत - “यावज्जीवम्”, “अग्निहोत्रम्” इत्येताभ्याम्, येन वाक्यभेद इष्टः स्यात्। [“अग्निहोत्रं जुहोति।” इत्यस्मिन् स्वर्गदायकत्वेन विहितम् अग्निहोत्रम् काम्यप्रयोगः।] “यावज्जीवम् अग्निहोत्रं जुहोति।” इत्यस्मिन् तु विहितम् अग्निहोत्रम् नित्यप्रयोगः। अत्र भावनाभेदः। नित्यप्रयोगस्य +इतिकर्तव्यतायां न भवति काम्यार्थसङ्कल्पः, अङ्गानि यथाशक्त्य् अनुष्ठीयन्ते।