परिचयः
- वाक्ये क्रियैव प्रधाना। क्रियान्वये कारकाणि भवन्ति। तत्रापि कृतौ/ प्रयत्ने भवतीति केचित्।
- क्रिया-विभागः - क्रिया = (फलम्, व्यापारः) । यथा - “पचतेः फलम् खादनयोग्यता। पचतेः व्यापारः चुल्लिज्वालनम् …"।
- आर्थी+++(=फली)+++भावना = कृतिः = कर्तुः प्रयत्नः = प्रवृत्तिः = आर्थभावना। प्रयत्नः धात्वर्थानुकूलः, फलम् च +उत्पादयति । प्रयत्नस्योद्देशः क्रियाफलम्। यथा “रामो ग्रामं गच्छति” इत्यस्मिन् रामस्य प्रयत्नः कृतिः। कर्ता कृतिमान् भवति। कृतिर् आख्यातेन बोधिता।
- शाब्दी+++(=प्रेरणी)+++भावना = प्रयत्नान्तरस्य प्रवर्तना/ विधिः। प्रयत्नस्योद्देशः प्रवृत्तिः। यथा “राम! ग्रामं गच्छ।”
भावनाया अन्वयांशत्रयम्
- शाब्दबोधे ऽन्वयरचनस्तरे प्रयोजनम्।
- सर्व अपीमेऽंशा उक्ताः स्युर् वाक्य इति न।
- अंशत्रयम्
- साध्यम्।
- साधनम् = साधनोपायः।
- इतिकर्तव्यता = कर्तव्य-निष्ठ-प्रकाराकाङ्क्षा। आर्थीभावनायां कार्यस्वरूपम्, शाब्दीभावनायां प्राशस्त्यज्ञानम् (प्रेरणा-प्रकार-बोधकम् - “अमुकहेतुर् इति कर्तव्यम्”)।
आर्थीभावनाया अन्वयांशत्रयम्
- “सोमेन यजेत” = सोमवद्-यागेन+++(→साधनम्)+++ +ईप्सितं+++(→साध्यं)+++ भावयेत्।
- विधिवाक्यय् आख्यातार्थ-भावनायां यत् पुरुषेणा ऽभीष्टं, तत् कर्मत्वेनाऽन्वेति। (स्वर्गकामाधिकरणन्यायः।) होमः स्वत+++(सुखप्रापकत्वात्)+++ इष्टं नास्ति।
- “रामः पद्भ्यां ग्रामं गच्छति” इत्यत्र प्रयत्नस्य ग्रामः साध्यम्, पद्भाम् इति साधनम्, इतिकर्तव्यता ऽनुक्ता। इतिकर्तव्यता तु गमनप्रक्रियाज्ञानम् - रथारोहणचालनावतरणादिकम्।
- “रामः पद्भ्यां ग्रामं शीघ्रं गच्छति” इत्यत्र प्रयत्नस्य ग्रामः साध्यम्, पद्भाम् इति साधनम्, शीघ्रम् इति +इतिकर्तव्यताया अंशः।
- “आहवनीये जुहोति” इत्यत्र प्रयत्नस्य “आहवनीयाधिकरणम्” साधनम्।
- सिद्धान्तम् इमम् अनुरुध्य मीमांसाशास्त्रे द्वितीया-तृतीयादि-विभक्त्यर्थ-विपरिणामोऽपि बहुत्र अनुमन्यते।
- यथा ‘दध्ना जुहोति’, ‘सक्तून् जुहोति’ इत्यत्र ‘दध्ना होमं भावयेत्’ इति प्रथमवाक्ये वाक्यार्थः। द्वितीये तु ‘सक्तुभिः होमं भावयेत्’ इति।
शाब्दीभावनाया अन्वयांशत्रयम्
- शाब्दीभावनायाः कर्तव्योऽर्थः प्रयोज्य-प्रवृत्ति-रूपः (आर्थीभावनारूपं साध्यमेव)। स च लिङादि-ज्ञान-जन्यः (साधनम्) । यदि कदाचिद् आलस्यादिना लिङादिज्ञानवान् अपि प्रयोज्यो न प्रवर्तेत, तदा प्रवर्तना-प्रयोजक-निष्ठो व्यापार आकाङ्क्षति- कथम् अहम् एनं प्रवर्तयेयम् इति । प्रयोज्यनिष्ठम् आलस्यादिकम् अपाकृत्य रुचिं जन यित्वाऽयं प्रवर्तनीय इत्याकाङ्क्षा समुदेति, इयमेवेतिकर्तव्यताकाङ्क्षा । अस्याः पूरणम् अर्थवादैर् भवति।
- शाब्दीभावनाया अंशत्रये केवलम् आर्थीभावनारूपं साध्यमेव शाब्दबोधे भासते, साधानान्वयः, इतिकर्तव्यतान्वयः च वस्तुगत्या भवति +++(न पुनः शब्दगत्या)+++। अनेन शाब्दीभावनया विधेया ऽऽर्थीभावनैव।
- “राम! ग्रामं गच्छ!” इत्यत्र प्रेरणस्य साध्यं ग्रामगमने प्रवृत्तिः, साधनं लोट्-लकारज्ञानम्, गमन-प्राशस्त्यज्ञानम् इतिकर्तव्यता (प्रेरणा-प्रकार-बोधकम् - इदम् प्राशस्त्यम् इति [ज्ञात्वा] कर्तव्यम्)। (राम एवं चिन्तयति “अयं मां प्रेरयति। परन्तु प्रवृत्तौ मम महान् श्रमो भवति”। कार्यस्य प्राशस्त्यम् अवगच्छति चेत् कष्टं सोढ्वापि कार्ये प्रवर्तते।)
- “इयं गौः क्रय्या” इति विक्रेता कथयति। कियन् मूल्यं स्याद् इति क्रेता पृच्छति। विक्रेता सामान्यापेक्षया किञ्चिद् अधिकं वदति। अधुना क्रेतुः संशयो जायते “अहो मूल्यं त्व् अधिकमस्ति”। अत्र प्रवर्तनाया अवगमो ऽस्ति परन्तु प्रवृतिर् नास्ति। अत्र यदा विक्रेता एवं वदति “इयं धेनुर् बहुक्षीरा स्त्रपत्या” तर्हि क्रेता मूल्यम् अधिकमिति न परिगणयति। प्रेरणा-प्रकार-बोधकम् प्राशस्त्यज्ञानं (इतिक्रेतव्यता) किं करोति ? क्रेता यं श्रमं पश्यति तस्य श्रमस्य अपरिगणनीयतां सम्पादयति।