परिचयः

यत्र एकस्य पदार्थस्य निर्देशं कृत्वा तस्य विषये किञ्चन विधानम् क्रियते (कश्चन नूतनः विषयः उच्यते), तत्र उद्देश्यविधेयभावः अस्ति इति उच्यते । When a new piece of information get revealed about an already known entity, we say that there is उद्देश्यविधेयभावः । यथा —

  • अयं वृक्षः उन्नतः अस्ति । अस्मिन् वाक्ये कस्यचन विशिष्टस्य वृक्षस्य निर्देशं कृत्वा तस्य विषये “उन्नतः” इति नूतनम् विधानम् क्रियते, अतः अत्र “वृक्ष” इति उद्देश्यम्, “उन्नतः” इति विधेयम् ।
  • उन्नतः वृक्षः पतति । अस्मिन् वाक्ये कस्यचन विशिष्टस्य उन्नतवृक्षस्य निर्देशं कृत्वा तस्य विषये “पतति” इति नूतनम् विधानम् क्रियते, अतः अत्र “वृक्ष” इति उद्देश्यम्, “पतति” इति विधेयम् ।
    • अत्र उन्नतः इति वृक्षस्य विशेषणरूपेण प्रयुक्तम् अस्ति । इत्युक्ते, “उन्नतः” इति शब्देन वृक्षस्य विषये नूतनं विधानं नैव क्रियते अपितु कस्यचन विशिष्टस्य वृक्षस्य निर्देशार्थम् तद्विषयकः ज्ञातपूर्वः गुणः (तस्य उन्नतत्वम्) इत्यस्य साहाय्यं स्वीकृतं वर्तते । अतः अत्र “उन्नत” इति विधेयं न ।