परिचयः
- वाच्यः / अभिधा/ मुख्यार्थः।
- पद-शक्तिः मूलम्। वाच्यार्थस्य वाहकः। साक्षात् सङ्केतितः अर्थः। अयम् उपाधिरेव।
पद-वृत्तिः
वृत्तिर् नाम पद-अर्थ-संबन्धः।
कदाचिद् इयम् वाक्यस्थ-पदान्तरापेक्षा।
- शक्तिः
- ईश्वरसङ्केतः। नाम पदश्रवणे अर्थः स्पष्टः। यथाश्रुतार्थः।
- शक्तिग्रहणाय व्याकरणज्ञानं, कोशदर्शनम्, प्रयोगदर्शनम् इत्यादिः।
- साक्षात् सङ्केतितं योऽर्थम् अभिधत्ते, स वाचकः।
- यौगिकम्
- योगार्थः ( अवयवार्थ-प्राधान्यम्। )
- गो (=गच्छति इति धातुः)
- द्विरेफः -> रेफद्वययुक्तता -> भ्रमरशब्दः -> ततः पुनः कीटविशेषः।
- रूढम्
- रूढार्थः ( अवयवार्थ-अप्राधान्यम् )
- कुशल इत्यादिः।
- योग-रूढम्
- योगार्थ-रूढार्थ-साम्यम्। पङ्कजम्।
- यौगिक-रूढम् -योगार्थः भिन्नः, रूढार्थः भिन्नः। उभौ अपि प्रामाणिकौ।
अभिधार्थ-निर्णयः
योगाद् रूढिर् बलीयसी।
वाङ्मय-दृष्ट्या मुख्यार्थ-कलने
‘अनन्यथासिद्धः प्रयोगः शक्तिं कल्पयती’ति न्यायो वर्तते।
अनेन ब्रह्म-शब्दस्य मुख्य-वृत्तिर् भगवति - अवयव-योग-वृत्त्या,
ब्राह्मणादौ गौण-वृत्तिर् इति वदन्ति।
बृंहति-धातोर् मनिन्-प्रत्ययान्तत्वेन निष्पन्नस्य ब्रह्म-शब्दस्य
प्रधानादिषु दृश्यमानः प्रयोगो
नावयव-शक्ति-निबन्धनः ।+++(5)+++
तथा हि सति बृहन्-महच्-छब्दादिवत् आपेक्षिक-बृहत्त्व-योगिषु सर्व-वस्तुषु प्रयोगः स्यात् । …
पुरुषोत्तम एव प्रवृत्ति-निमित्त-पौष्वल्यवति मुख्यत्वम्, अन्यत्रौपचारिकत्वं च ।
इति श्रुतप्रकाशिकायां सुदर्शनसूरिः॥
वाङ्मय-दृष्ट्या ऽनेक-मुख्यार्थ-कल्पनं
कदाचिद् युज्यते,
यथा - हरिः = विष्णुः, सिंहः।
वाङ्मय-दृष्टिः, वाक्य-दृष्टिश् च
वाङ्मय-दृष्ट्या शब्दस्य मुख्या वृत्तिर् भिन्ना,
वाक्य-दृष्ट्या शब्दस्य मुखा वृत्तिर् भिन्ना।
वाङ्मय-दृष्ट्या यथा -
भगवच्छब्दस्य मुख्यावृत्तिर् नारायणय् इत्य् उच्यते वाङ्मयदृष्ट्या -
एवम् एष महा-शब्दो
मैत्रेय भगवान् इति ।
परम-ब्रह्म-भूतस्य
वासु-देवस्य नान्यगः ॥तत्र पूज्य-पदार्थोक्ति-
परिभाषा-समन्वितः ।
शब्दो ऽयं नोपचारेण
त्व् अन्यत्र ह्य् उपचारतः ॥
किञ्च
“भगवान् व्यास आह”
इत्य्-अत्र वाक्य-दृष्ट्या मुख्यवृत्त्या / अभिधया पूज्य उच्यत
इति वदन्ति।
उपाधित्वम्
- न कश्चन शब्दः व्यक्ति-सूचकः, यद्य् अपि व्यक्तिर् एव अर्थक्रियाश्रयः (गां दोग्धुं व्यक्तिर् आवश्यकी न जातिः।)। कुतः? यदि एकस्याः गोव्यक्तेः गोसंज्ञा कृता, का संज्ञा अपरस्याः? तथा विशेषणानां किं प्रयोजनम् स्यात्?
- गौः इति न गोव्यक्तिसूचकम्, अपि तु गोजातिसूचकम् / गोधर्मसूचकम्।
वैय्याकरणमते
वस्तुधर्मः
गौः शुक्लश्, चलो डित्थ इत्यादौ
चतुष्टयी शब्दानां प्रवृत्तिः।
इति पतञ्जलिः।
- सिद्धः
- पदार्थ-प्राणप्रदः। जातिः। प्राणप्रदः = व्यवहार-योग्यता-प्रदः। उदाहरणम् - गौः। अश्वः।
- विशेषाधान-हेतुः।
परार्थं स्वसमर्पणम् अत्र। श्वेतः गौः।
- साध्यः। क्रिया। यथा - पाकक्रिया।??
वक्तृ-यद्-ऋच्छा-सन्निवेशितः
नामानि। यथा - कृष्णः। रामः।
मीमांसक-मते ऽनुमानम्
- जातौ व्यक्तित्वम्
- मम्मटमते नेदम् उपादानलक्षणा। मीमांसकमते अभिधावृत्तिमातृका-ग्रन्थे आम् इति। गुणोऽपि जातिवाचकः। क्रियापि जातिरेव। नामान्य् अपि इति ते। व्यक्ति-सङ्केतः।
- गौर् अनुबन्ध्यः। इति वाक्ये गौः जातिसूचकः, तदालम्भनाशक्यत्वात् व्यक्तिर् लक्षिता। तस्मात् उपादान-लक्षणा अत्र इति मीमांसकाः। न - तत्र अनुमानं केवलम् इति मम्मटः। “मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।” इति न विशेषार्थग्रहणम्। जातेर् व्यक्त्यविनाभावात्, व्यक्तिर् आक्षिप्यत एव।
- समुदायवाची अवयवेऽपि।
- कश्चन शब्दान् न जानातु, सूत्राण्येव जानाति, सोऽपि वैयाकरणः। वने एकदेशे पुष्पजातिः, तदा “वने पुष्पाणि” इति वचनम्।
नैय्यायिकमत उपमितिः
- संज्ञा-संज्ञि-सम्बन्ध-ज्ञानम् उपमितिः। शब्दार्थज्ञानम्।
- अङ्गीकर्तारः - बौद्धाः, वैशेषिकाः, चार्वाकाः, साङ्ख्याः।
उपमिति-करणम् उपमानम्। संज्ञा-संज्ञि-सम्बन्ध-ज्ञानम् उपमितिः।
तत्-करणं सादृश्य-ज्ञानम्।
अतिदेश-वाक्यार्थ-स्मरणम् अवान्तर-व्यापारः।
तथा हि कश्चिद् गवयशब्दार्थम् अजानन् कुतश्चित् आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति। तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते॥