०२

क्षेत्रमध्यं विशालाक्षी यस्याधिवसति प्रिया ।
अविमुक्तप्रतिष्ठाय तस्मै कामद्रुहे नमः ॥

आद्यं स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम् ।
मयि प्रह्वमनोवृत्तौ तन्वाने रत्नदर्पणम् ॥

एवं दोषगुणेषु निर्णीतेष्वलङ्काराः प्राप्तावसरास्तत्रालङ्कारसामान्यलक्षणमाद्यपरिच्छेदे तद्विभागं दर्शयन्परिच्छेदत्रयं सङ्गमयति—

शब्दार्थोभयसञ्ज्ञाभिरलङ्कारान्कवीश्वराः ।
बाह्यानाभ्यन्तरान्बाह्याभ्यन्तरांश्चानुशासति ॥ १ ॥

“शब्दार्थोभयसञ्ज्ञाभिरिति” । इत्थम्भूतलक्षणे तृतीया । मध्यमपदलोपीसमासः । तेन शब्दालङ्कारार्थालङ्कारोभयालङ्कारसञ्ज्ञाभिरित्यर्थः । गुणप्रस्तावे बाह्यत्वादिकं विवृतं शब्दोऽवच्छेदकतया प्रथमप्रतिसन्धेयभावेन च शरीरस्थानीयो बाह्यस्ततस्तदाश्रया अलङ्कारा अपि बाह्याः । अर्थो विच्छेद्यतया पश्चादनुसन्धेयतया चात्मतुल्य आभ्यन्तरस्तेन तदाश्रया अलङ्कारा अप्याभ्यन्तराः । एतेन बाह्याभ्यन्तरा व्याख्याताः । आश्रयाश्रयिभावश्च यथातथोक्तमेव । उभयालङ्कारेषु योगस्य प्रायिकत्वमाश्रित्य कवीश्वराणामनुशासनमुक्तम् । एतद्विवेचयिष्यते चतुर्थारम्भे ॥

शब्दालङ्कारसामान्यलक्षणमाह—

ये व्युत्पत्त्यादिना शब्दमलङ्कर्तुमिह क्षमाः ।
शब्दालङ्कारसञ्ज्ञास्ते ज्ञेया जात्यादयो बुधैः ॥ २ ॥

“ये व्युत्पत्तीति” । विशिष्टा उत्पत्तिर्व्युत्पत्तिर्लोपागमविकारादिप्रपञ्चः । अत एव हि संस्कृतादिजातयो व्यवतिष्ठन्ते । आदिग्रहणाद्गुरुलघुसन्निवेशादयो गत्याद्यवच्छेदास्त्रयोविंशतिरुपात्ताः । बाह्यकङ्कणादिसाम्यादियं सञ्ज्ञा प्रवृत्तेत्याह—शब्दालङ्कारसञ्ज्ञा इति ॥

जातिर्गती रीतिवृत्तिच्छायामुद्रोक्तियुक्तयः ।
भणितिर्गुम्फना शय्या पठितिर्यमकानि च ॥ ३ ॥

श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका ।
गूढप्रश्नोत्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः ॥ ४ ॥

ते च प्रति विशेषं वक्ष्यन्ते—

चतुर्विंशतिरित्युक्ताः शब्दालङ्कारजातयः ।
अथासां लक्षणं सम्यक्सोदाहरणमुच्यते ॥ ५ ॥

शब्दालङ्कारजातयः शब्दालङ्कारसामान्यानि ॥

स्वरूपस्थितौ रूपान्तरगवेषणमनुचितम् । अतो जातेः प्राधान्यात्प्रथमं लक्षणमित्याह—

तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते ।
सा त्वौचित्यादिभिर्वाचामलङ्काराय जायते ॥ ६ ॥

“तत्रेति” । संस्कृतमिति भावप्रधानो निर्देशः । भारतीग्रहणं स्पष्टार्थम् । नन्ववश्यं शब्देन संस्कृताद्यन्यतमेन भवितव्यम् । तत्कोऽत्र कवेः शक्तिव्युत्पत्त्योरंशो येनालङ्कारता स्यादित्यत आह—सेति । औचित्याकृष्ट एवालङ्कारः । अस्ति च संस्कृतादेरपि तथाभाव इति भावः ॥

यद्यप्यर्थौचिती पूर्वं दर्शयितुमुचिता तथापि प्राधान्यमावेदयितुं पृथक्तौचितीमाह—

संस्कृतेनैव केऽप्याहुः प्राकृतेनैव केचन ।
साधारण्यादिभिः केचित्केचन म्लेच्छभाषया ॥ ७ ॥

विषयौचितीमाह—

न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत् ।
सङ्कीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् ॥ ८ ॥

“न म्लेच्छितव्यमित्यादि” । म्लेच्छनमपशब्दः । प्राकृतं संस्कृतभवम् । अभिजातः शुद्धान्वयः ॥

अथ के संस्कृताद्युचितवक्तार इत्यत आह—

देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः ।
पैशाचाद्यं पिशाचाद्या मागधं हीनजातयः ॥ ९ ॥

“देवाद्या इति” । आदिग्रहणेन ऋषिभूमिपतिप्रभृतयः ॥

वाच्यौचितीं दर्शयति—

संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव वापरः ।
शक्यो रचयितुं कश्चिदपभ्रंशेन जायते ॥ १० ॥

“संस्कृतेनैवेति” । यथा हि—देवतास्तुत्यादौ संस्कृतं प्रगल्भते न तथा प्राकृतादि । यथा च सूक्ष्मवस्तुस्वरूपोट्टङ्कने प्राकृतस्य सौष्ठवं न तथा संस्कृतादेरित्यादि ॥

पैशाच्या शौरसेन्यान्यो मागध्यान्यो निबध्यते ।
द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन ॥ ११ ॥

“पैशाच्येति” । द्वित्राभिः कोऽपि काव्यसमस्याभेदस्यार्थः । सर्वाभिः कश्चन प्रकरणादेरर्थः ॥

विषयौचित्यमेव क्वचिद्विशेषे कान्तिप्रकर्षमर्पयन्तीमाह—

नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
कथां गोष्ठीषु कथयँल्लोके बहुमतो भवेत् ॥ १२ ॥

“नात्यन्तमिति” । समानबुद्धिशीलवयसां विनोदार्थमासनबन्धो गोष्ठी ॥ देशौचितीमाह—

शृण्वन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
अपभ्रंशेन तुष्यन्ति स्वेन नान्येन गुर्जराः ॥ १३ ॥

“श्रृण्वन्तीति” । लटभं मनोज्ञम् । स्वेन गुर्जरजातीयेन ॥

ब्रह्मन्विज्ञापयामि त्वां स्वाधिकाराजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती ॥ १४ ॥

“ब्रह्मन्निति” । बह्मन्नित्यादिना निन्दार्थानुवादेन गौडेषु प्राकृतानौचित्यं “राजशेखरे”ण व्यञ्जितम् ॥

समयौचितीं दर्शयति—

केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः ।
काले श्रीसाहसाङ्कस्य के न संस्कृतवादिनः ॥ १५ ॥

“केऽभूवन्निति” । आढ्यराजः “शालिवाहनः” । साहसाङ्को “विक्रमादित्यः” । ग्रन्थकृत्पूर्वजतया श्रीपदम् ॥

ता इमाः परस्परसङ्कीर्णाः षडेव संस्कृतादिभाषा भवन्तीति सामान्यविभागमेतद्विरचनप्रयोजनं चोपसंहरति—

गिरः श्रव्या दिव्याः प्रकृतमधुराः प्राकृतधुराः सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम् ।
विदग्धानामिष्टे मगधमथुरावासिभणिति- र्निबद्धा यस्तेषां स इह कविराजो विजयते ॥ १६ ॥

“गिर इति” । दिव्याः संस्कृताः । भूतवचनं पैशाचम् । मथुरावासिभणितिः शौरसेनी । तेषामिति । तच्च भूतवचनं स चापभ्रंशस्ताश्च दिव्याद्या इति ‘नपुंसकमनपुंसकेन’ इत्येकशेषः । पाक्षिकं बहुवचनम् । प्रतिभार्थप्राणानां जीवद्वर्णनानिपुणो हि कविः, स एव हि सर्वपथीनतादृगुक्तिसिद्धिसम्पन्नः कविराजः, अत एव विजयते सकललोकशास्त्रवचननिर्मातृभ्यः प्रकर्षेण वर्तत इति ॥

संस्कृतादिषु यथायोगं शुद्धादिभेदेन जातिः षोढा भिद्यत इत्याह—

शुद्धा साधारणी मिश्रा सङ्कीर्णा नान्यगामिनी ।
अपभ्रष्टेति साचार्यैर्जातिः षोढा निगद्यते ॥ १७ ॥

“शुद्धा साधारणीति” । इह भाषारूपविषयभेदेन भिन्नाः संस्कारा यानधिकृत्य “पाणिनि-वररुचि”-प्रभृतीनामनुशासनानि व्यवतिष्टन्ते । तद्यत्रैक एव संस्कारः प्रत्यभिज्ञायते सा शुद्धा । संस्कारान्तराग्रहणात् । यत्र तु लक्षणसम्भेदेन नानासंस्कारसम्पातः क्षीरनीरवत्सा साधारणी । रूपसाधारण्यान्नरसिंहवद्भाषाभेदव्य-वस्थितभागद्वयात्मिका मिश्रा । रूपमिश्रणात्तिलतण्डुलन्यायेन सङ्कीर्णा । विजातीयवस्त्वन्तरव्यतिरेक एव लोके सङ्कीर्णव्यवहारात् । या पुनः प्रकृतिभावेनापि भाषान्तरसम्पर्कं न सहते सानन्यगामिनी । संस्कारसम्भेदेन वा प्रकृतिभावेन वा नान्यं गच्छति यतोऽपशब्दरूपा सापभ्रष्टा ॥

तासूत्तमपात्रप्रयोज्या संस्कृतजातिः शुद्धा यथा—

‘उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १ ॥’

“तासूत्तमेति” । पात्रलक्षणमुत्तमादिभेदश्च पञ्चमे वक्ष्यते । उन्नमितैकेति । पदानि प्रकृतानङ्गलेखोचितानि निर्व्याजप्रेमगर्भाणि । अत एवावापोद्वापप्रतिसन्धाननिमग्नमानसायाश्चिन्तानुभावरूपं भ्रूलताविरेचितमिवासीत् । हस्ततलनिहितैककपोलायास्तादृक्पुलकितैककपोलदर्शनादतिमानात्मा शृङ्गारः सुप्रबुद्ध इव तत्कालं नायकस्यापीति मिथोऽनुबन्धलक्षणापूर्वानुरागकक्षामधिरूढा रतिरेव काव्यसर्वस्वायते । अत्र च कस्यचित्पदस्य भाषान्तरसाधारण्येऽपि भूयसामुदाहरणत्वम् । एवमन्यत्रापि ॥

मध्यमपात्रप्रयोज्या प्राकृतजातिः शुद्धा यथा—

‘तुज्झ ण आणे हिअअं मम उण मअणो दिआ अ रत्तिं अ ।
णिक्किव तवेइ वलिअं तुह जुत्तमनोरहाइं अङ्गाइं ॥ २ ॥’

तव न जाने हृदयं मम पुनर्मदनो दिवा च रात्रिं च ।
निष्कृप तपति बलवत्त्वयि युक्तमनोरथान्यङ्गानि ॥]

“तुज्झेति” । वलिअं बलवत्कृतमभिमुखम् ॥

हीनपात्रप्रयोज्या मागधिका यथा—

‘शद माणशमंशभालके कुम्भशहश्श वशाहि शञ्चिदे ।
अणिशं च पिआमि शोणिदे वलिशशदे शमले हुवीअदि ॥ ३ ॥’

शतं मानुषमांसभारकाः कुम्भसहस्रं वसाभिः सञ्चितम् ।
अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति ॥]

“शद माणुशेति” । शतं मानुषमांसभारः कुम्भसहस्रं वसाभिः सञ्चितम् । अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति ॥’ अत्र मांसादिलाभहेतुतया समराशंसनं बीभत्समुन्मुद्रयद्धीनपात्रतां द्रढयति ॥

नात्युत्तमपात्रप्रयोज्या पैशाची शुद्धा यथा—

‘पनमत पनअपकुप्पितगोलीचलनग्गलग्गपडिबिम्बम् ।
दससु नहदप्पनेसु एआदसतनुधलं लुद्दम् ॥ ४ ॥’

[प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् ।
दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥]

“नात्युत्तमेति” । उत्तमादपकृष्टं मध्यमादुत्कृष्टं नात्युत्तमम् । ‘प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् । दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥’ एवं नाम देवीकोपे भगवतः प्रणयकातरता येन युगपदिव सर्वाभिरपि मूर्तिभिः प्रणमतीति प्रतीयमानोत्प्रेक्षा ॥

नातिमध्यमपात्रप्रयोज्या शौरसेनी शुद्धा यथा—

‘तुं सि मए चूअङ्कुर दिप्णो कामस्स गहिदधणुहस्स ।
जुवइमणमोहणसहो पञ्चब्भहिओ सरो होहि ॥ ५ ॥’

[त्वमसि मया चूताङ्कुर दत्तः कामस्य गृहीतधनुषः ।
युवतिमनोमोहनसहः पञ्चाभ्यधिकः शरो भव ॥]

“नतिमध्यमेति” । हीनादुत्कृष्टं मध्यमादपकृष्टं नातिमध्यमम् । तुं सीति । कामस्य । कामायेत्यर्थः । चतुर्थ्याः ‘सम्बन्धसामान्यविवक्षायां षष्ठी’ इति सूत्रात् षष्ठी ॥

नातिहीनपात्रप्रयोज्योऽपभ्रंशः शुद्धो यथा—

‘लइ वप्पुल पिअ दुद्धं कत्तो अम्हाणहुं छासि ।
पुत्तहुमत्थे हत्थो जइ दहि जम्मेवि जअ आसि ॥ ६ ॥’

[गृहाणानुकम्प्य पिब दुग्धं कुतोऽस्माकं तक्रम् ।
पुत्रकमस्तके हस्तो यदि दधि जन्मन्यपि जातमासीत् ॥]

प्रायिकं चैतत् । तेन कवेरभिप्रायशक्त्यादिभ्यः सर्वा अपि सर्वप्रयोज्या भवन्ति । ता इमाः शुद्धाः षडेव ॥

“नातिहीनेति” । हीनात्किञ्चिदुत्कृष्टं मध्यभादपकृष्टं नातिहीनम् । लइ वप्पुलेति । लइ गृहाण । वप्पुलेत्यनुकम्पासम्बोधने । पिब दुग्धम् । कुतोऽस्माकं छासि-पदाभिधेयं तक्रम् । पुत्तहुमत्थे इति शपथः, पुत्रस्य मस्तकेनाहं शपे यदि तक्रस्य व्यापकं दघि जन्मन्यपि जातमासीदिति व्यापकानुपलब्धिः प्रयुक्ता ॥

ननु प्राकृतादिषूत्तमादिपात्रव्यतिकरदर्शनात्कथमेषा व्यवस्था घटत इत्यत आह—“प्रायिकमिति” । यत्र प्रकृतिनिर्वहणोचितविशेषाभिसन्धानेन कविरन्यथा प्रवर्तते । यथा मालत्यां संस्कृतमाश्रित्य ‘एषोऽस्मि भोः कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः’ इत्यादि । यत्र वा कवेर्व्युत्पत्तिकृतो भाषाविपर्यासः शक्त्या तिरस्क्रियते । यथा मृच्छकटिके विटस्य मध्यमपात्रस्यापि संस्कृतोक्तिः । यत्र वा प्रबन्धौचितीपरवशाः संस्कृतादिजातयो विपर्यस्यन्ते । यथा सर्गबन्धादौ मध्यमादेरपि संस्कृतमेव, खण्डकथापरकथादौ उत्तमादेरपि प्राकृतमेव, बृहत्कथादौ पैशाचमेव, वस्तुबन्धादावपभ्रंश एवेति, तत्र सन्धिसन्ध्यङ्गघटनासौष्ठवेन रसः पुष्यतीति भरतमुनिप्रभृतीनामतिप्रकाश एव पन्थाः ॥

साधारण्यादयः पुनरनन्ताः । तासु मध्यमपात्रभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतप्राकृतयोः साधारणी यथा—

‘सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् ।
विरसं विरहायासं सोढुं तव चित्तमसहं मे ॥ ७ ॥’

“साधारण्येति” । संस्कृतस्य प्राकृतादिसाधारण्ये पञ्च प्रकाराः, प्राकृतस्य शौरसेन्यादिसाधारण्ये चत्वारः, शौरसेन्याः पैशाच्यादिसाधारण्ये त्रयः, पैशाच्या मागध्यादिसाधारण्ये द्वौ, मागध्या अपभ्रंशसाधारण्ये एक इति । द्विविकल्पे पञ्चदश प्रभेदाः, त्रिविकल्पे विंशतिः, चतुर्विकल्पे पञ्चदश, पञ्चविकल्पे षट्, षड्विकल्पे एकः, इति सर्वमिलने सप्तपञ्चाशत्प्रकारा साधारणी । एवं मिश्रादावपि लोष्टप्रस्तावक्रमेण बहवो भेदा इति तावदुदाहरणे ग्रन्थगौरवं स्यादिति दिङ्मात्रमुदाहरति—“तास्विति” । सम्भिन्नसंस्कारा भाषाप्रयोगे हि प्रयोक्तृप्रकृतिसम्भेदे भवति । न च प्रकृतिसम्भेदस्तात्त्विकः स्वभावसङ्करप्रसङ्गात् । अत उक्तं मध्यमपात्रभूमिकास्थेति । भूमिका वर्णिका । मध्यमपात्रप्रकृत्युचितो रागाद्यभिनयस्तत्र तिष्ठति तत्परिग्रहेण त्रिचतुर(?)गवत्सामाजिकानां सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिविलक्षणप्रतिपत्तिपदवीमवतरतीति मध्यमपात्रभूमिकास्थम्, उपलक्षणं चेदम् । उत्तमभूमिकास्थमध्यमप्रयोज्यापीयमेव । एवमुत्तरत्र । तव विरहायासं सोढुं मम चित्तमसहमिति योजना ॥

नात्युत्तमभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतपैशाची साधारणी यथा—

‘चम्पककलिकाकोमलकान्तिकलापाथ दीपितानङ्गी ।
इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ ८ ॥’

एवं संस्कृतापभ्रंशादिसाधारण्यः प्राकृतादिभाषान्तरसाधारण्यश्च द्रष्टव्याः ॥

“नात्युत्तमेति” । अनङ्गस्येयमानङ्गी ॥

वक्तृविषयौचित्यादिप्रयोज्या मिश्रा यथा—

‘जयति जनताभिवाञ्छितफलप्रदः कल्पपादपो गिरिशः ।
जअइ अ तमल्लिअन्ती गिरितनया पणइकप्पलआ ॥ ९ ॥’

[जयति च तमालीयमाना गिरितनया प्रणयिकल्पलता ।]

एवं भाषान्तराणामपि मिश्रीभावो द्रष्टव्यः ॥

“वक्तृविषयेति” । यदोत्तमादिषु नानावक्तृभिरेका काव्यसमस्या क्रियते, भिन्नभाषोचितवर्णनीयविषयं वा काव्यमेकमुपक्रम्यते, यदा वा शक्तिनिरूपणाय कवेरेव नानाभाषामयं काव्यमारब्धं स्यात्, तदा कथं नालङ्कारपदवीमध्यास्ते । अत आह—मिश्रेति । तमल्लिअन्ती तमालीयमाना ॥

दुर्विदग्धादिपात्रप्रयोज्या सङ्कीर्णा यथा—

‘अकटगुमटी चन्द्रज्योत्स्ना कलं किल कोइलो लवइ अ मुहुर्याम्यो वायुर्निवाअर वाइ अ ।
अवि सखि अला रक्ताशोकस्तवापि मनोमुदे न कज न कजं मानेनाद्य प्रियं प्रतिजाहुदा ॥ १० ॥’

सोऽयं संस्कृतमहाराष्ट्रापभ्रंशयोगस्तिलतण्डुलवत्सङ्कीर्णा जातिः । एवं प्राकृतापभ्रंशसङ्करोऽपि द्रष्टव्यः ॥

“दुर्विदग्धादीति” । नागरकभावमवाप्तस्तद्भूमिकामवलम्बमानो दुर्विदग्धः । आदिपदात्पूर्वोक्ताः समस्यादयः । अकटमाश्चर्यम् । गुमटी मनोज्ञा । आस्फालितखङ्गस्येव स्फुरणे लवइ इति महाराष्ट्रदेशी । तथा च प्रयोगः—‘लवइ अ विज्जूमणोहरी’ इत्याराध्याः । अन्ये तु लपतीत्यर्थमाहुः । एवं च कलशब्दः पुष्यतीति । याम्यो दक्षिणः । निवाअर निर्वञ्चको वारकशून्यो वा इदावारक इति । अला आगतः । यदिह मानो न क्रियेत ज्योत्स्नादयो मनोमुदमेवाधास्यन्तीति प्ररोचना । यदा तु ‘मनोनुदे’ इति पाठोऽपिशब्देन नायकसाधारणमुत्कण्ठाकारित्वमुक्तं चन्द्रज्योत्स्नादीनामिति । अतो नकजनकजन्नार्थो नार्थ ईर्ष्यारोषलक्षणेन प्रतिकूलभावावलम्बिना मानेन, तस्मात्प्रियमेव प्रतिजाहुदा यामः, यदामनन्ति स्वयं वा तत्र गमनमिति ॥

क्रीडागोष्ठीविनोदाद्यर्थानन्यगामिन्यसाधारणी यथा—

‘भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्क्त्रेषु शेरते ।
गोसे तिविञ्छिरिञ्छोली तल्लं तूहे विवल्लिदा ॥ ११ ॥’

अत्र पूर्वार्धपदानि संस्कृत एव, उत्तरार्धपदानि प्राकृत एव । सेयमसाधारण्यनन्यगामिनी च जातिरुच्यते । भाषान्तराणां पुनरसाधारण्यं नास्ति ॥

“क्रीडेति” । काव्यसमस्या क्रीडा, उक्तपूर्वा गोष्ठी, तत्र विनोदो मनोनुकूलेन समयातिवाहनम् । आदिपदं पूर्ववत् । ननु मा भूत्प्रकृतिभावेन भाषान्तरसम्भेदः संस्कारसम्पाते तु भविष्यति, तथा च कथं साधारणीतो भिद्यत इत्यत आह—असाधारणी चेति । गोसे प्रभाते, तविञ्छिरिञ्छोली कमलरजःपङ्क्तिः । तल्लमल्पसरः । तूहं तीर्थम् । विवल्लिदा प्रसारिता । नात्र पूर्वोत्तरार्धयोरैकमत्यमुदाहरणत्वात् । आराध्यास्तु यथा सरस्तीरे कमलरजःपङ्क्तिः प्रसृता शोभते तथा विद्वद्वक्त्रेषु भीष्मवाक्यानीत्युपमाकल्पनया कथञ्चिदेकवाक्यतामाहुः । अत्र पूर्वार्धपदानीति । न भीष्मादयोऽनभिधानादिति भाषान्तरस्थानिभावस्य प्रतिषेधात् । एवं वाचस्पतिविशिष्टरसवशप्रचेतसपोतादयो द्रष्टव्याः । प्राकृत एवेति । महाराष्ट्रदेशीयत्वाद्देशीपदानां च स्थानिभावासम्भवात् । भाषान्तराणां पुनरिति । सिद्धिर्महाराष्ट्रीतः, सिद्धिः शौरसेनीतः, इत्युपक्रम्यानुशासनात्तद्भवरूपतैव स्फुटा । तत्समानां तु साधारण्यमेवेति ॥

अपभ्रष्टा यथा—

‘मुद्धे गहणअं गेण्हउ तं धरि मुद्दं णिए हत्थे ।
णिच्छउ सुन्दरि तुह उवरि मम सुरअप्पहा अत्थि ॥ १२ ॥’

[मुग्धे रतमूल्यङ्ग्रहणकं गृहाण त्वं धारय मुद्रां निजे हस्ते ।
निश्चयः सुन्दरि तवोपरि मम सुरतस्पृहास्ति ॥]

सेयमपशब्दप्रयोगतोऽपभ्रष्टाप्यविद्वद्भिः श्रोत्रियाद्यैः प्रयुज्यत इत्यपभ्रष्टा जातिः । अस्या अपि चानुकरणे साधुत्वमिष्यते ॥

“अपभ्रष्टेति” । अत्र तवोपरि सुरतस्पृहास्तीत्यादिकापशब्दबहुलत्वेनापभ्रष्टा स्पष्टैव । सा तु कथमलङ्कार इत्यत आह—सेयमिति । श्रोत्रियश्छान्दसः । आद्यपदेन बालादयः । सर्व एव हि लौकिकः पदार्थोऽभिनयकक्षामधिरूढः परित्यज्य ग्राम्यमभिमुखीभूतो विभावादिषु कथं नालङ्कारस्तदिदमुक्तं प्रयोगत इति । न चापशब्दानां दोषत्वमेवेति वाच्यम् । अनुकरणे तु सर्वेषामिति दोषसामान्यावलम्बिना गुणीभावेनास्य विषयीकृतत्वादिति ॥

नानावच्छिन्नजातिः काव्यशरीरे निविशत इति तदवच्छेदरूपां गतिमनन्तरं लक्षयति—

पद्यं गद्यं च मिश्रं च काव्यं यत्सा गतिः स्मृता ।
अर्थौचित्यादिभिः सापि वागलङ्कार इष्यते ॥ १८ ॥

“पद्यमिति” । पठितेः पदात्पदान्तरसञ्चारो गतिः । सा केनचिदौचित्योपनिपातिना सन्दर्भपरिमाणेन नियम्यते । ततस्तदप्युपचारेण गतिः । पठितिपरिमाणं च काव्यं समाश्रयत इति तदपि गतिस्तच्च पद्यादिभेदेन त्रिविधमिति सङ्क्षेपः । अत एव गद्यबन्धे तु कैश्चिद्वृत्तमाश्रितं वृत्तं वर्तनमियत्तेति यावदिति । सर्वनामशब्दा हि कदाचिदुद्देश्यस्य लिङ्गमाश्रयन्ते कदाचित्प्रतिनिर्देश्यस्येति काव्ये यत्सा गतिरित्युक्तम् । तत्र पद्यं चतुष्पदीति न लक्षणमुल्लालमात्रादौ द्विपदपञ्चपदादिशरीरे तदभावात् । अपादः पदसन्तानो गद्यमित्यपि न । अपादत्वं ह्यप्रत्यभिज्ञायमानवृत्तभागत्वं, विवक्षातश्चतुष्पदीव्यतिरिक्तत्वं वा । आद्ये वृत्तिगन्धिपद्यं न स्यात् । द्वितीये त्वतिप्रसङ्गः । तस्माच्छन्दोनियमवती काव्यम्, अतथाभूता तु गद्यमिति विभागः । गद्यपद्यात्मकं काव्यं मिश्रम् । तदस्या गतेरलङ्कारत्वमुपपादयति—अर्थौचित्यादिभिरिति ॥

तत्रार्थौचितीमाह—

कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते ।
कवितुं कश्चन द्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः ॥ १९ ॥

“कश्चिद्गद्येनेति” । यथा ह्यटवीवर्णनादौ गद्यं प्रगल्भते तथा न पद्यम्, यथा च काव्यशास्त्रतानिर्वहणोचितेऽर्थे पद्यमुत्सहते न तथा गद्यमित्यादि । एवं कथाख्यायिकादौ गद्यमेव, चम्पूप्रभृतौ मिश्रमेवेत्यादिपदोपात्तबन्धौचिती द्रष्टव्या ॥

आस्तां तावदर्थाद्यौचित्यगवेषणं स्वरूपेणैव पद्यादिकं परिस्फुरत्कविप्रतिभाविशेषावेदनेन सहृदयावर्जकमवसीयते । कथमन्यथा क्वचिदेव कस्यचित्सौष्ठवमित्याह—

यादृग्गद्यविधौ बाणः पद्यबन्धेऽपि तादृशः ।
गत्यां गत्यामियं देवी विचित्रा हि सरस्वती ॥ २० ॥

“यादृगिति” । गत्यां गत्यामिति । पद्ये गद्ये मिश्रे चेत्यर्थः । विचित्रा अव्यवस्थितसिद्धिका ॥

प्रयोगव्यवस्थामुपपादयति—

यथामति यथाशक्ति यथौचित्यं यथारुचि ।
कवेः पात्रस्य चैतस्याः प्रयोग उपपद्यते ॥ २१ ॥

“यथामतीति” । मतिर्व्युत्पत्तिः । युक्तायुक्तविवेक इति यावत् । शक्तिः कवित्वबीजभूतः प्राक्तनः संस्कारः । औचित्यं दर्शितमेव । रुचिर्मनोनुकूलताप्रतिसन्धानम् । कवेः पात्रस्येति यथायोगम् । तथा हि शक्तिव्युत्पत्ती कवेरेव । औचित्यं पात्रस्यैव । रुचिरुभयोरपीति ॥

स चायं सन्दर्भावच्छेदो गुरुलघुसन्निवेशेनैव शोभत इति तमाश्रित्य विभागमाह—

द्रुता विलम्बिता मध्या साथ द्रुतविलम्बिता ।
द्रुतमध्या च विज्ञेया तथा मध्यविलम्बिता ॥ २२ ॥

“द्रुतेति” । आद्यास्तिस्रः शुद्धाः । आसामेव मिथोव्यतिकरेणोत्तरास्तिस्त्रः सङ्कीर्णाः ॥ कथमेषां व्यवस्थेत्यत आह—

सा लघूनां गुरूणां च बाहुल्याल्पत्वमिश्रणैः ।
पद्ये गद्ये च मिश्रे च षट्प्रकारोपजायते ॥ २३ ॥

“सा लघूनामिति” । बाहुल्यमल्पत्वं मिश्रणं च तुल्यवत्प्रतिभानम् । न गद्यादिकमेव गतिः किन्तु तदाधारः पठितिसञ्चार इति व्यनक्ति-पद्ये गद्ये च मिश्रे चेति ॥

तत्र वृत्तं च जातिं च पद्यमाहुरथो पृथक् ।
समं चार्धसमं चैतद्विषमं च प्रचक्षते ॥ २४ ॥

“तत्रेति” । वर्णनियतं छन्दोवृत्तम् । मात्रानियतं जातिः । समप्रस्तावं समम् । प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च तुल्यप्रस्तावमर्धसमम् । उभयबहिरर्धं विषमम् ॥

गद्यमुत्कलिकाप्रायं पद्यगन्धीति च द्विधा ।
द्विधैव गद्यपद्यादिभेदान्मिश्रमपीष्यते ॥ २५ ॥

“गद्यमिति” । उत्कलिका कल्लोलस्तत्प्रायम् । उच्चावचमिव प्रतिभासमानमित्यर्थः । यथा—‘सलीलकरकमलतालिकातरलवलयावलीकम्’ इति । वृत्तगन्धि प्रतिभातवृत्तैकदेशम् । तदेतदल्पाख्यायामुत्पन्नेन समासान्तेन व्यञ्जितम् । तदयमर्थः— सामान्यतः पद्यादिभेदेन गतिस्त्रिधा । तत्रापि जात्यादिभेदेन षट्प्रकाराः । तेऽपि द्रुतादिभेदेन षट्त्रिंशदिति ॥

ननु ललितादयो गद्यभेदाः कैश्चिदलङ्कारकारैः परिसङ्ख्यातास्ते कस्मान्नोच्यन्त इत्यत आह—

ललितं निष्ठुरं चूर्णमाविद्धं चेति योऽपरः ।
विशेषः स तु गद्यस्य रीतिवृत्त्योर्भविष्यति ॥ २६ ॥

“ललितमिति” । सुकुमारसन्दर्भं ललितम् । यथा—‘कमलिनीवनसञ्चरणव्यतिकरलग्ननलिननालकण्टके वने क्वचिन्निर्भरं पदमादधाति’ इति । प्रस्फुटसन्दर्भं निष्ठुरम् । यथा—‘उत्तम्भितकुटिलकुन्तलकलापः श्मशानवाटमवतरति’ इति । अनुल्लिखितसमासं चूर्णम् । यथा—‘अभ्यासो हि कर्मणः कौशलमादधाति । न खलु सन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति’ इति । उद्भटसभासमाविद्धम् । यथा—‘कुलिशशिखरखरतरस्वरप्रचयप्रचण्डचपेटपाटितमत्तमातङ्गमदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि’ इति । रीतिवृत्त्योरिति विषयसप्तमी । तथा ललितं कैशिक्यादौ, निष्ठुरभारभट्यादौ, चूर्णं वैदर्भ्यादौ, आविद्धं गौडीयाप्रभृतौ, यथायथमन्तर्भवतीति नोक्तभेदाः परिसङ्ख्याता इत्यर्थः ॥

उक्तप्रकारेषु किञ्चिदुदाहरति—

तत्र पद्यभेदेषु समवृत्ते द्रुता गतिर्यथा—

‘अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु वल्लभम् ।
अरुणकरोद्गम एष वर्तते वरतनु सम्प्रवदन्ति कुक्कुटाः ॥ १३ ॥’

सेयं समवृत्ते लघुसंयुक्ताक्षरभूयस्त्वाद्द्रुता गतिः ॥

“तत्रेति” । नवसङ्गमभीर्विति सम्बोधनम् । भीरुशब्दादूङ्ङ्, तस्मात्सम्बोधनह्रस्वे रूपम् । गर्भगृहस्था‘गृहस्थो नालो’ इति पाठः नालोकयति चेत्तदाह—सम्प्रवदन्तीति । अत्र प्रतिपादमष्टौ लघवश्चत्वारो गुरव इति लघुबाहुल्ये संयोगाक्षराणामुद्रेके च ताललयवदतिव्यक्त एव द्रुतभावः ॥

समवृत्ते विलम्बिता यथा—

‘प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः ।
पदार्थधर्मसङ्ग्रहः ‘प्रचक्षते’ कप्रवक्ष्यते महोदयः ॥ १४ ॥’

सेयं स्थाने स्थाने गुर्वक्षरयोगाद्विलम्बिता गतिः ।

“प्रणम्येति” । अत्र यद्यपि पदचतुष्टये गुरुलघूनां समसङ्ख्यत्वमेव, तथापि संयोगाक्षरैरन्तरान्तरा पठितिदीर्घाभावोन्मेषादारोहप्राधान्ये विलम्बिता । एवं व्युत्क्रमेण समानिकायामपि विलम्बितैव । यथा—‘मीनजालघटितानि सूर्यरश्मिबोधितानि । मत्तषट्पदाकुलानि पश्य भीरु पङ्कजानि ॥’ इति ।

तदिदमाह—“सेयमिति” । तेन विभागसूत्रे गुरुलघुमिश्रणमेवंरूपमपि बोद्धव्यमिति ॥

तत्रैव मध्या यथा—

‘आसीद्दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ।
वदन्ति स्म बलं बाह्वोः सितच्छत्रस्मिताः श्रियः ॥ १५ ॥’

सेयं ‘लघ्वक्षरप्रायत्वा’ कनातिलघ्वक्षरत्वान्मध्या गतिः ॥

“आसीदिति” । अत्र यद्यपि गुरवो बहवस्तथापि न द्रुतिर्न विलम्बनं पठितेरित्यनुभवसाक्षिकोऽयमर्थस्तदेतदाह—“नातिलघ्वक्षरेति” ॥

द्रुतविलम्बिता यथा—

‘अवतु वः सवितुस्तुरगावली स्फुरितमध्यगतारुणनायका ।
‘समभिल’ खसमविलङ्घिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः ॥ १६ ॥’

सेयं द्रुताया विलम्बितायाश्च गतेरन्तरानुप्रवेशाद्द्रुतविलम्बिता गतिः ।

“अवतु व इति” । अरुणो गरुडाग्रजः शोणश्च । नायको नेता हारमध्यमणिश्च । पयोधरा मेघाः स्तनौ च । तदेतस्मिन् द्रुतविलम्बिताख्ये वृत्ते समाख्यैव रूपं बोधयतीति ॥

द्रुतमध्या यथा—

‘अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ १७ ॥’

सेयं द्रुताया मध्यायाश्च गतेरन्तरानुप्रवेशाद्द्रुतमध्या गतिः ॥

“अपि तुरगेति” । उत्पन्नाविर्भवद्बर्हगतोज्ज्वलविचित्रकोमलमयूरस्तत्कालमव्याजप्रेमनिर्यन्त्रणकण्ठग्रहविलुलितप्रियाकेशपाशवासनाविकासहेतुः सर्वस्वायमानः कथं बाणलक्ष्यतां सहत इति च्विप्रत्ययेन व्यज्यत इति । अत्र पादचतुष्केऽपि प्रथमं द्रुता पश्चान्मध्या च भागशः प्रत्यभिज्ञायत इत्याह—“सेयमिति” ॥

मध्यविलम्बिता यथा—

‘दुन्दुभयो दिवि दध्वनुरुच्चैरुच्चकराः कपयश्च ववल्गुः ।
सिद्धनिकायकराब्जविमुक्तं माल्यमथाङ्गदमूर्ध्नि पपात ॥ १८ ॥’

सेयं मध्याया विलम्बितायाश्च गतेरन्तरानुप्रवेशान्मध्यविलम्बिता गतिः ॥

“दुन्दुभय इति” । अत्रापि प्रतिपादं पूर्वं मध्या ततो विलम्बिता च खण्डशः प्रतिभासत इति दर्शयति—“सेयमिति” ।

एवमर्धसमविषमयोर्मात्राच्छन्दःसु गद्यमिश्रयोर्लघुगुरून्मिश्रवर्णविन्यासविशेषभूयस्त्वेन द्रुतादिगतयो गवेषणीयाः ॥

“एवमिति” ।इमामेव व्यवस्थामर्धमध्यमादिष्वप्यतिदिश्यत इति दिङ्मात्रमुदाहरति—

तत्र विषमवृत्तच्छन्दसि द्रुता यथा—

‘अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ १९ ॥’

अर्धसमच्छन्दसि विलम्बिता यथा—

‘विहितां प्रियया मनः प्रियामथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ २० ॥’

उत्कलिकाप्रायगद्ये द्रुता मध्या च यथा—

‘व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते ।
अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमः स्त्यायते ॥ २१ ॥’

“उत्कलिकाप्रायेति” । उच्चावचभावेन प्रतिभासमानमुत्कलिका । यथा—‘सलीलकरकमलतालिकातरलयावलीकम्’ इति । तथैव तदपि प्रकृतोदाहरणमिति व्यक्तम् । ‘पाताल—’ इत्यादौ वसन्ततिलकाभाग इव, ‘हर इव’ इत्यादावार्याभाग इव प्रतिभातीति ॥

पद्यगन्धिगद्ये वृत्तगन्धौ मध्या, जातिगन्धौ द्रुता यथा—

‘पातालतालुतलवासिषु दानवेषु ।’
ऽहर इव जितमन्मथो गुह इवाप्रतिहतशक्तिः ॥ २२ ॥’

इति ।

“वृत्तगन्धौ मध्या, जातिगन्धाविति” । ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ (७।१।७४) इति पुंवद्भावेन नुम्न भवति ॥

गद्यादौ मिश्रे गद्यपद्ययोर्द्रुतमध्या यथा—

ऽहन्त, पुण्यवानस्मि, यदहमतर्कितोपनतदर्शनोल्लसितनयनयानया—

अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्त्रोतसां निर्झरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतवर्षेणैव सान्द्रेण सिक्तः ॥ २३ ॥’

“हन्तेति” । आश्चर्यस्तिमितस्य हन्तेत्येव वागनुभावस्ततोऽभिमानोन्मेषे पुण्यवानस्मीति अनन्तरं लोकोत्तरविभाववर्णनात्त्वरितस्य यदहमित्यागद्यपर्यवसान एवाविरलमित्यादिवृत्तमाविरासीदिति । मध्ये विच्छेदकारणानुपपत्तौ गद्यपद्याभ्यामेकवाक्यम् ॥

पद्यादौ मिश्रे द्रुतविलम्बिता यथा—

‘असौ विद्याधारः शिशुरपि विनिर्गत्य भवनादिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः ।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ २४ ॥’

अत्र बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते स एष माधवो नाम इति ॥

“असाविति” । दूतीकल्पे कयाचित्प्रच्छन्नप्रार्थनीयया ‘आसम्भोगमुन्नयेत्’ इत्याम्नातम् । तदिहोत्प्रेक्षामनोहरग्राम्यमालोकनमुक्तम् । तेनैकस्मिन्वर्णनीयवस्तुनि वृत्तप्रपञ्चेनोक्ते प्रकृतसङ्गतिमात्रं गद्येन कृतवतीति युक्तेयमानुपूर्वी वाक्यैकवाक्यता चेति ॥

वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः ।
रीङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ॥ २७ ॥

“वैदर्भादीति” । गुणवत्पदरचना रीतिः । गुणाः श्र्लेषादयः काव्याव्यभिचारिणो नव । तेषामन्योन्यमीलनक्षमतया पानकरस इव, गुडमरिचादीनां खाडव इव मधुराम्लादीनां यत्सम्मूर्च्छनरूपावस्थान्तरगमनं तत्संस्कारादेव हि लोकशास्त्रपदरचनातः काव्यरूपा च रचना व्यावर्तते । अत एव मृग्यते कविभिरासंसारमिति मार्गपदेनोच्यते । वैदर्भादयो विदर्भादिदेशप्रभवास्तैः कृतमुखहेवाकगोचरतया प्रकटितो न तु तत्तद्देशैः काव्यस्य किञ्चिदुपक्रियते ॥ “पन्था इति” । प्रतिष्ठन्ते हि महाकविपदवीलाभार्थिन इति । ईदृशमेव रीतिलक्षणमानन्दवर्धनादीनामपि मतम् । एतदुपलक्षणतया सूत्रं व्याख्यातम् । कथं पुनरुक्तमुपमादे रीतिपदं प्रवृत्तमित्यत आह—“रीङ् गताविति” । रियन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्याय इत्यर्थः ॥

एवं सिद्धे सामान्यलक्षणे विभागमाह—

वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा ।
लाटीया मागधी चेति षोढा रीतिर्निगद्यते ॥ २८ ॥

“वैदर्भीति” ।

वक्ष्यमाणरीत्या वैदर्भीप्राधान्यमभिप्रेत्याह—

तत्रासमासा निःशेष श्लेषादिगुणगुम्फिता ।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ २९ ॥

“तत्रेति” । असमासा अनुल्लिखितसमासा । “निःशेषश्लेषादीति” । श्लेषादयो नव गुणास्तैर्गुम्फिता । मिथोमिलनेन सम्मूर्च्छितैरनुपलभ्यमानान्यतभमात्रकैरपि परस्परविभक्तस्वरूपभावेन सहृदयहृदयसंवादगोचरैरारब्धा । एवं विपञ्चीस्वरसौभाग्या । विपञ्ची वाग्रूपा सरस्वती बिम्बप्रतिबिम्बभावेन द्विविधा । प्रतिबिम्बाधिष्ठानतया दार्वादियन्त्रमपि विपञ्चीत्युच्यते । तदीयाः स्वरास्तन्त्रीकण्ठोत्थिताः स्थानक्रमवैपरीत्यानुमेयशारीराः प्रतिबिम्बभावाः षड्जादयस्तेषु श्रुतसम्मूर्च्छनरूपेष्वपि मिथोविभक्ताः श्रुतयः श्रोत्ररञ्जकस्वरावस्थामापन्नाः समस्तगान्धर्ववित्साक्षिकाः प्रकाशन्ते । अत एव वीणैव प्रधानं समस्तस्य स्वरजातस्य तत्रैव श्रुतिमण्डलोन्मेषादिति ॥

यदा तु पानकादिन्यायेन कश्चिदंश उदितो भवति तदा रीत्यन्तरमुत्तिष्ठतीत्याह—

समस्तपञ्चषपदामोजःकान्तिविवर्जिताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥ ३० ॥

“समस्तेति” । ओजःकान्तिविवर्जिताम् ओजःकान्त्योर्विशेषेण वर्जिताम् । न्यग्भूतौजःकान्तिगुणामिति यावत् । यतस्तत्प्रतिद्वन्द्विनोर्माधुर्यसौकुमार्ययोस्तत्रोद्भवस्तदेतदाह—“मधुरां सुकुमारां चेति” । अत एवौजःप्रकाशकः षडधिकेषु पदेषु समासो न क्रियते ॥

समस्तात्युद्भटपदामोजः कान्तिगुणान्विताम् ।
गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः ॥ ३१ ॥

“समस्तेति” । अत्युद्भटानि सोल्लेखसमासानि यस्मादोजःकान्त्योरुद्भवे न्यग्भूतगुणसप्तकेयं रीतिः ॥

अन्तराले तु पाञ्चालीवैदर्भ्योर्यावतिष्ठते ।
सावन्तिका समस्तैः स्याद्द्वित्रैस्त्रिचतुरैः पदैः ॥ ३२ ॥

“अन्तराल इति” । माधुर्यसौकुमार्ययोः किञ्चिदुद्भवेन निमीलनाङ्गप्राधान्येन वान्तरालकल्पना तां व्यनक्ति—“द्वित्रैरिति ।” द्वे त्रीणि वा त्रीणि चत्वारि वेति वार्थे बहुव्रीहिः ॥

समस्तरीतिर्व्यामिश्रा लाटीया रीतिरुच्यते ।
पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी ॥ ३३ ॥

“समस्तेति” । यद्यप्युपक्रान्तरीत्यनिर्वाहोऽत्राप्यस्ति तथापि तिलतण्डुलवद्यावद्विभक्तरीतिसंवलनस्य कविसंरम्भगोचरस्योत्तररीतेः पृथग्भावः । “पूर्वरीतेरिति ।” एकां रीतिमुपक्रम्य यदन्यया सन्दर्भनिर्वहणमसावन्य एव प्रकारः । न चानिर्वाहो दोषश्छायावैरूप्याभावात् । रीतिखण्डनेऽपि हि सन्दर्भसौभाग्यसम्पत्तिः शक्तिमेवाविष्करोति ॥

तासु वैदर्भी यथा—

‘मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ २५ ॥’

सेयमसमस्तपदा ‘समस्त’ खसमग्र श्लेषादिगुणवती वैदर्भी रीतिः ॥

“मनीषिता इति” । अत्र दीर्घसमासाभावे कथमोज इति कस्यचित्कुदेश्यमपरीतिमत्प्रकरण एवेत्यपास्तम् । एतेन गुणनवकस्य समकक्षतया सम्भेदः क्षण इति । असमस्तपदेत्यनुल्लेखसमासपदेत्यर्थः । समग्रा नव । गुणवतीति नित्ययोगे मतुप् ॥

पाञ्चाली यथा—

‘गात्राविघातदलिताङ्गदजर्जराणां गण्डस्थलीलुलितकुण्डलताडितानाम् ।
क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोऽभवज्झणझणामुखरो मणीनाम् ॥ २६ ॥’

सेयमोजःकान्त्यभावादाश्लिष्ट‘श्लथभाब’ खश्लथपुराणच्छायामाधुर्यसौकुमार्यवती समस्तपञ्चषपदा पाञ्चाली रीतिः ॥

“गात्राविघातेति” । अत्राद्यतृतीययोः षड् द्वितीये च पञ्च पदानि समस्तानि । “ओजःकान्त्यभावादिति ।” ईषदर्थे नञ् । अत एव माधुर्यसौकुमार्ययोरुन्मेषः । श्लिष्टा प्राप्ता यथासङ्ख्यमोजःकान्तिनिमीलनलब्धप्रादुर्भावा श्लथा पुराणी च च्छाया ययेति विग्रहः ॥

गौडीया यथा—

‘यस्यावस्कन्दलीलावलितबलपरिस्पन्दखर्वीकृतोर्वीसंरम्भोत्तम्भनायोन्नमितभरनमत्कन्धरासन्धिरासीत् ।
शेषो विस्फारफुल्लस्फुटपृथुलफणाफूत्कृताग्निस्फुलिङ्गस्फूर्जत्सन्दोहसन्देहितविकटशिखामण्डलीरत्नखण्डः ॥ २७ ॥’

सेयमोजःकान्तिमती समस्तोद्भटभूरिपदा च गौडीया रीतिः ॥

“यस्येति” । अवस्कन्दो ध्राटकः । “समस्तोद्भटभूरिपदेति” । उद्भटता प्रौढिप्रकर्षः ॥

आवन्तिका यथा—

‘एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः ।
एते च ‘वर्त्मतरवः’ ख ‘तीरतरवः’ कमार्गतरवः प्रथयन्ति ताप‘मालिङ्गितो’ ख- मालम्बितोज्झितपरिग्लपितैः प्रवालैः ॥ २८ ॥’

सेयं समस्तद्वित्रिचतुरपदा वैदर्भीपाञ्चाल्योरन्तरालवर्तिन्यावन्तिका नाम रीतिः ॥

“एतानीति” । ‘निःसहतनोरसमञ्जसानि’ ‘मार्गतरवः’ इति द्वे द्वे पदे, ‘आलम्बित-’ इत्यादौ त्रीणि पदानि समस्तानि । माधुर्यसौकुमार्ययोर्मनागुन्मेषः पाञ्चालीभागः । इतरेषां समकक्षता वैदर्भीभागः । अनयोः सम्भेदेनान्तरालकल्पना व्यक्तैव ॥

लाटीया यथा—

‘अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ २९ ॥’

सेयं समस्तरीतिमिश्रा लाटीया नाम रीतिः ॥

“अयमिति” । मुद्राभञ्जन इति द्वाभ्यां समस्ताभ्यामावन्ती । उदयगिरीत्यादिना पञ्चकेन पाञ्चाली । प्रौढिप्रकर्षेण गौडीया । अयसुदयतीत्याद्यसमासेन वैदर्भी च प्रत्यभिज्ञायत इति पूर्वोक्तसमस्तरीतिसम्भेद इति ॥

मागधी यथा—

‘करिकवलनशिष्टैः ‘शाखि’ खशाकशाखाग्रपत्रैररुणसरणयोऽमी सर्वतो भीषयन्ते ।
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ ३० ॥’

सेयमारब्धरीतेरनिर्वाहात्खण्डरीतिर्मागधी ।

“करिकवलनेति” । अत्र पूर्वार्धे यथोक्ताभावन्तीमुपक्रम्य चरमार्धे गौडीयापरिग्रहादुपक्रान्तरीतेरनिर्वाहः खण्डनम्, तथापि च न च्छायावैरूप्यमिति कविशक्तिव्यञ्जकत्वादलङ्कारभाव इति । शाको वृक्षविशेषः ॥

या विकासेऽथ विक्षेपे सङ्कोचे विस्तरे तथा ।
चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्विधा ॥ ३४ ॥

“या विकास इति” । वृत्तिर्वर्तनं रसविषयो व्यापारः काव्यस्य रसप्रवणत्वात् । स च व्यापारः सत्त्वाद्युद्रेकलक्षणो जन्मान्तरानुभवभावितवासनासमुत्थः परिपूर्णीभविष्यद्रसास्वादसर्वस्वायमानचित्तावस्थनिदानभूतोऽर्थगतः पञ्चमेऽभिधास्यते । शब्दगतः पुनरत्र सङ्गतः सन्दर्भस्य रसप्रकाशकारणेषु प्रधानत्वात् । यदाह—

‘कविवागभिनेयश्च तदुपायो द्विधेष्यते ।
वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते ॥’

वर्ततेऽनया चित्तमिति करणसाधनोऽयं वृत्तिशब्द इति वर्तयित्रीत्यनेन प्रयोजकव्यापारप्रधानेन दर्शितम् । तत्र विषयवैचित्र्याद्विकासाद्याश्चतस्रश्चित्तावस्थाः । विषयो हि दीप्तमसृणमध्यमभेदेन त्रिविधः । विभावाद्युपधानमहिम्ना तन्मयीभवनयोग्यं हि चेतः कदाचिद्विकसति । सत्त्वाविर्भावो विकासः । न्यग्भूतरजस्तमोगुणं हि चेतः सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिमासादयति । ततः सत्त्वभागप्रतिष्ठितः शृङ्गारस्तदाभासोऽपि तामेव भूमिकामालम्बते । अत एव शुक्तिरजतवद्भावोदयेऽपि दोषमहिम्नैव काव्यमहिम्ना तव्द्यञ्जनात् । तत्समानभूमिकया हास्यो रसः प्रादुर्भवतीत्यभिसन्धायाह—‘शृङ्गाराद्धि भवेद्धास्यम्’ इति भरतमुनिः । तेन विकासभूमिकौ शृङ्गारहास्यौ । विकासात्प्रच्युतमप्राप्तगुणान्तरप्रादुर्भावं विक्षिप्तं चित्तमुच्यते । तत्रोचितविभावादिवैचित्र्यादाविर्भवद्रजोगुणस्य चेतसो विक्षेपप्रच्युतिदशायां रौद्ररसोन्मेषः । अत एव समानभूमिकया ‘रौद्राच्च करुणो रसः’ इत्याह । यदा तु सत्त्वतमोनिमीलनेन केवलरजःप्रतिष्ठं चेतस्तदा बहुमुखव्यापारोन्मेषाद्विस्तराख्यामवस्थामासादयति । तद्भूमिको वीररसस्तदवस्थामेवास्थायाद्भुतोऽपि प्रथत इति ‘वीराच्चैवाद्भुतोत्पत्तिः’ इत्युक्तम् । न्यग्भूतरजोगुणस्य प्रबुद्धतमसश्चेतसोऽवस्थाविशेषः ससङ्कोचस्तमालम्ब्य बीभत्सः प्रादुरास्ते तदेकभूमिकश्च भयानक इति ‘बीभत्साच्च भयानकः’ इत्याह ॥

तेऽमी चत्वारश्चित्तावस्थाविशेषाः कथमविशेषणादेव सन्दर्भाद्भवन्तीत्याशङ्क्य विभागेनोत्तरमाह—

कैशिक्यारभटी चैव ‘सात्वती भारती तथा’ कभारती सात्वती परा ।
मध्यमारभटी चैव तथा मध्यमकैशिकी ॥ ३५ ॥

“कैशिक्येति” । शुद्धिसङ्कराभ्यां रीतिवदत्रापि षट् प्रकाराः ॥

सुकुमारार्थसन्दर्भा कैशिकी तासु कथ्यते ।
या तु प्रौढार्थसन्दर्भा वृत्तिरारभटीति सा ॥ ३६ ॥

कोमलप्रौढसन्दर्भा कोमलार्थाथ भारती ।
प्रौढार्थां कोमलप्रौढसन्दर्भां सात्वतीं विदुः ॥ ३७ ॥

कोमले प्रौढसन्दर्भा त्वर्थे मध्यमकैशिकी ।
प्रौढार्था कोमले बन्धे मध्यमारभटीष्यते ॥ ३८ ॥

“सुकुमारेति” । चित्तद्रुतिकारित्वं सौकुमार्यं सुकुमारावर्थसन्दर्भौ यस्यामिति विग्रहः । एवं प्रौढार्थसन्दर्भेत्यपि । चित्तदीप्तिविधायिता प्रौढिः । अर्थसौकुमार्यादिना विशेष्यमाणसन्दर्भः सुकुमारत्वादिः शब्दालङ्कारतां प्रयोजयति । कोमलप्रौढो मध्यमः । प्रकारान्तरविरहाच्च मध्यमभारत्यादयो न सम्भवन्ति ॥

तत्र कैशिकी यथा—

‘शशिरुचिषु दलेषु नागवल्ल्या विचकिलदामनि चन्दने च हृद्ये ।
कुवलयिनि पुराणसीधुपात्रे तरलदृशामपतन्दृशः प्रिये च ॥ ३१ ॥’

सेयमर्थस्य च सन्दर्भस्य च सौकुमार्यात्कैशिकी नाम वृत्तिः ॥

“शशिरुचिष्विति” । नियमितादिषु मुग्धाङ्गनाचुम्बनरसोत्सुकानामतिमनोज्ञाधररागसमर्पकेषु नागलतादलेषु, ततो मानपरिग्रहे वलितकादिचुम्बनविशेषार्थिनीनां कचग्रहसौभाग्यसुन्दरे मल्लिकादाम्नि, ततः सर्वाङ्गीणाश्लेषसौभाग्यार्थकचन्दनरसेऽनन्तरमीर्ष्यारोषवासनानिःशेषकेलियन्त्रणरतोत्कण्ठितानां सीधुपात्रे, ततः सर्वोपकरणजीवितसर्वस्वे प्रियतमे समकक्षतयैव दृष्टयः पेतुरिति । ‘कुवलयिनि’ इति युक्तः पाठः । ‘कुवलयित—’ इति पाठे विशेषणाङ्गप्राधान्यविवक्षायां समासे गुणीभावस्यानुचितत्वात् । सेयं कैशिकी मसृणे शृङ्गारादौ विनियुज्यत इति ॥

आरभटी यथा—

‘यो यः शस्त्रं बिभर्ति स्वभुजगुरु‘मदात् पा’ इति पाठःमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ ३२ ॥’

सेयं प्रौढार्थसन्दर्भारभटी नाम वृत्तिः ॥

“यो य इति” । ओजःप्रधानतया प्रौढः सन्दर्भः । यस्मादियमारभटी दीप्ते रौद्रादौ विनियुक्ता, तेन युक्तं शब्दार्थयोः प्रौढत्वमिति ॥

भारती यथा—

‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ३३ ॥’

सेयमतिसुकुमारार्थे नातिसुकुमारसन्दर्भा भारती नाम वृत्तिः ॥

“उत्तिष्ठन्त्या इति” । सर्वाङ्गीणाश्लेषसमुत्सुके प्रियतमे बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिरिति न्यायेन नीवीबन्धकेशपाशसंयमार्थिन्या निर्भरकेलिखेदेन भुजलतालसं लसत्येव न तु व्यापारयितुमपि शक्येति तत्कालिकोऽतिपोषः । अत्र मसृणेऽपि रसे वृत्त्यौचित्येन सन्दर्भस्य प्रौढिरुचितैव । दीर्घसमासो हि श्रृङ्गारादौ निषिद्धो न तु प्रौढिः । रेफहकारादिवर्णनिवेशात्तु कोमलता सन्दर्भस्येति । एवमुत्तरोदाहरणेष्वपि विशेषः स्वयमूहनीय इति ॥

सात्त्वती यथा—

‘वन्द्यौ द्वावपि तावनार्यचरितप्राप्तप्रतापोदयौ भीमो भीमपराक्रमः स च मुनिर्भास्वत्कुण्ठारायुधः ।
एकेनामृतवद्विदार्य करजैः पीतान्यसृञ्जि द्विषामन्येनापि हताहितास्रसरसि स्नातं क्रुधः शान्तये ॥ ३४ ॥’

सेयं प्रौढार्था नातिप्रौढसन्दर्भा सात्त्वती नाम वृत्तिः ॥

मध्यमकैशिकी यथा—

‘किं द्वारि दैवहतके ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरःसहकारकेण संवर्धितेन विषपादप एष पापः ।
अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः ॥ ३५ ॥’

सेयं सुकुमारेऽर्थे प्रौढसन्दर्भा मध्यमकैशिकी नाम वृत्तिः ॥

मध्यमारभटी यथा—

‘त्वं नागराज बहुमस्य नितम्बभागं भोगेन गाढमुपवेष्टय मन्दराद्रेः ।
सोढाऽविषह्यवृषवाहनयोगलीलापर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥ ३६ ॥’

सेयं प्रौढेऽर्थे सुकुमारसन्दर्भा मध्यमारभटी नाम वृत्तिः ॥

अन्योक्तीनामनुकृतिश्छाया सापीह षड्विधा ।
लोकच्छेकार्भकोन्मत्तपोटामत्तोक्तिभेदतः ॥ ३९ ॥

“अन्योक्तीनामिति”। लोके बिम्बप्रतिबिम्बयोः प्रतिबिम्बं चमत्कारितया प्रसिद्धम् । अत एव ‘श्रव्यात्प्रेक्ष्यं ज्यायः’ इत्याह । शब्दालङ्कारकाण्डे वाक्यानुकरणमेव प्रतिबिम्बवाचिना छायापदेन गुणवृत्तेनाख्यायते । तदेतदनुकरणमनुकार्यभेदादेव षोढा व्यवतिष्टत इत्याह—“छेकेति” । छेकादीनां लोकविशेषाणामेव शोभाकारित्वेन पृथगुपादानेऽर्थात्तदितरानेकविचित्रतत्तदनुकार्यपरो लोकशब्दः । छेका विदग्धाः । ‘पोटा स्त्रीपुंसलक्षणाऽ । सहजकेलिरिति प्रसिद्धा पोटा । भुजिष्या दासीत्यन्ये । अत्र केचिदन्यच्छायायोनिजमपि काव्यं छायालङ्कारव्यवहारभूमिमाहुः ॥

प्रकृतिपरिणामः, परपुरप्रवेशः, खण्डसङ्घात्यम्, चूलिका, परिमल इति पञ्च योनिजकाव्यभेदाः । तत्र किञ्चिद्विकृतार्थः “प्रकृतिपरिणामः” । यथा—

‘धुअमेहं महुअरानुव्वणसमअहियओ णअविमुक्काओ ।
णहया अवसाहाओ णिअ अव्वाण वयडि गआओ दिसाओ ॥’

यथा च—

‘सिसिरपडिरोहमुक्कपरिहुत्तम्पअ अवलिअक्कम् ।
इहरइ अरया अलिअं वित्थरदि दिसाहिं कट्ठिअं वणहअलम् ॥’

अत्राकाशदिशां विस्तारभणनं मनाग्विकृतमुपलक्ष्यत इति प्रकृतिपरिणामनामायं योनिजकाव्यभेदः ॥

भाषामात्रभिन्नः “परपुरप्रवेशः” । यथा—

‘देवाधिपो वा भुजगाधिपो वा धराधिपो वा यदि हैहयः स्याम् ।
सन्दर्शनं ते गुणकीर्तनं ते सेवाञ्जलिं ते तदहं विदध्याम् ॥’

यथा च—

‘सविमो अणज्जुणमिअं अमहिन्दमवामुइअ अप्पाणम् ।
सेडं जालदंसण गुणकहामुत इजणूपज्जत्तम् ॥’

अत्र भाषामात्रं भिन्नमिति परपुरप्रवेशनामायं योनिजकाव्यभेदः ॥ विकीर्णमसमाहारः “खण्डसङ्घात्यम्” । यथा—

‘द्वित्राण्यम्बुजिनीदलानि सरसामुत्सङ्गमध्यासते मौलौ किंशुकशाखिनस्त्रिचतुरानाबिभ्रते कोरकान् ।
गर्भग्रन्थिषु पञ्चषाः सुमनसो बध्नन्ति चूतद्रुमाः सम्प्राप्ताः प्रकटीभवन्ति कुररीकण्ठेषु कूजोर्मयः ॥’

अत्र काव्यचतुष्कादुच्छिद्य पादचतुष्टयं ग्रथितमिति खण्डसङ्घात्यनामायं योनिजकाव्यभेदः ॥

तावन्तमर्थमुपादायाधिको वाप“श्चूलिका” । यथा—

‘कमलमनम्भसि तत्र च कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥’

यथा च—

‘उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो- स्तदूर्ध्वं रत्नाश्मस्थलमपि दुरूहं किमपि यत् ।
ततः कुम्भौ पश्चाद्विसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् ॥’

अत्र स्थाने स्थानेऽधिकावापस्य प्रत्यभिज्ञानाच्चूलिकानामायं योनिजकाव्यभेदः ॥ बन्धच्छायामात्रसंवादी “परिमलः” । यथा—

‘अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥’

यथा च—

‘यात्राप्रसङ्गादुपवीणयन्ती तस्यां महाकालमविप्रतिष्ठम् ।
कृशाङ्गि वीणागुणसारणासु चिरात्कलाभ्यासफलं लभेथाः ॥’

अत्र सन्दर्भच्छायामात्रमनुकृतमिति परिमलनामायं योनिजकाव्यभेदः ॥

तासु लोकोक्तिच्छाया यथा—

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानेतान्गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ३७ ॥’

सेयं लोचने मीलयित्वेति लोकोक्तेरनुकृतिर्लोकोक्तिच्छाया ॥

“शापान्त इति” । लोचने मीलयित्वेत्यनेन लोकोक्त्यनुकारेण नयननिमीलनवदाशुभाविता समागमसमयस्य प्रतिपाद्यते । तथा च—सुकुमारतरकान्ताजी विताध्यवसायाभिप्रायः प्रवासविप्रलम्भाविष्टचेतसः प्रकाशितो भवतीति । उपलक्षणं चैतत् । वर्षाकाले चतुरो मासानित्यपि लोकोक्तिरेव ॥

छेकोक्तिच्छाया यथा—

‘यो हि दीर्घासिताक्षस्य विलासललितभ्रुणः ।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥ ३८ ॥’

सेयं तस्मै नृपशवे नम इति विदग्धोक्तेरनुकृतिश्छेकोक्तिच्छाया ॥

“यो हीति” । कान्तामुखमेव जीवितसर्वस्वमभिमन्यमानस्तत्रालम्प्रत्ययशालिनः पशूनिव प्रति शृङ्गारी विदग्धः ॥

अर्भकोक्तिच्छाया यथा—

‘किं स स्वर्गतरुः कोऽपि यस्य पुष्पं निशाकरः ।
ते वृक्षाः कीदृशा मातर्येषां मुक्ताफलं फलम् ॥ ३९ ॥’

सेयमव्युत्पन्नशिशुजनोक्तेरनुकृतिरर्भकोक्तिच्छाया ॥

“किं स इति” । नूनं त्रिजगद्वर्तिसकलार्थिसार्थकीकरणविख्यातकीर्तेः पारिजातप्रमुखस्य कस्यचिदेकः स्तबकः सुधाभिराह्लादयन्नयमवलोके दृश्यत इत्यादि ॥

उन्मत्तोक्तिच्छाया यथा—

‘दृष्टः कथं सुतनु किं कुरुते किमस्मद्वार्तां स पृच्छति श्रृणोति निवेद्यमानाम् ।
‘आसां’ खआस्तां किमस्य कथया कथयाशु तावदत्रागमिष्यति न वा खलु सोऽभिमानी ॥ ४० ॥’

सेयमसमञ्जसाया उन्मत्तोक्तेरनुकृतिरुन्मत्तोक्तिच्छाया ॥

“दृष्ट इति” । कथमित्यादिना तदेकतानतामाविष्कृत्य सहसैवास्तामित्यादिना सम्प्रहाणम्, कथय तावदित्यादिना च पुनरादानमसमञ्जसम् ॥

पोटोक्तिच्छाया यथा—

‘तिलकमसहास्मि सोढुं घनसारेणाति‘सारो’ खसारदोषो मे ।
लम्भयति च दौर्बल्यं कुङ्कुमरागो ममाङ्गानि ॥ ४१ ॥’

सेयमुत्तमपदारोपितनीचयुवत्युक्तेरनुकृतिः पोटोक्तिच्छाया ॥

उत्तमपदस्थानीययुवतिमनुकुर्वाणा उत्तमपदारोपितनीचयुवतिः ॥

मत्तोक्तिच्छाया यथा—

‘पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥ ४२ ॥’

सेयं स्खलन्त्या मत्तोक्तेरनुकृतिर्मत्तोक्तिच्छाया ॥

“पि पि प्रियेति” । अव्यक्तवृत्तिरूपं स्खलितजल्पितम् ॥

साभिप्रायस्य वाक्ये यद्वचसो विनिवेशनम् ।
मुद्रां तां मुत्प्रदायित्वात्काव्यमुद्राविदो विदुः ॥ ४० ॥

“साभिप्रायेति” । यद्यपि सम्पूर्णमेव काव्यं वक्त्रभिप्रायप्रतिच्छन्दकभूतम्, उक्तं च—‘वक्रभिप्रायं सूचयेयुः’ इति, तथापि नास्मिन्नितरसाधारणतया वाक्यार्थगोचरमभिप्रायमावेदयत्येव काव्यसनाथीकरणक्षमवक्रभिप्रायविशेषप्रतिरूपक एकदेशनिवेशो दृश्यते । अत एवाङ्गुलीयादिमुद्रेव मुद्रेत्युच्यते । निरुक्तिमाह—“मुत्प्रदायित्वादिति” । मुद्युपपदे रातेर्दानकर्मणः के रूपम् । मुद्रैव पदादिप्रकाश्यध्वनिव्यवहारभूमिरन्येषाम् ॥

सास्मिन्पदस्य वाक्यस्य विभक्तेर्वचनस्य च ।
समुच्चयस्य संवृत्या षोढा न्यासेन जायते ॥ ४१ ॥

“सास्मिन्निति” । पदं प्रातिपदिकं कृत्तद्धितसमासरूपम् । विभक्तिवचनयोः सामान्यविशेषभावेऽपि पृथक्पृथगभिप्रायव्यञ्जकतया निर्देशः । आस्तामित्यादिवचनसङ्कोचः संवृतिः ॥

तासु पदमुद्रा यथा—

‘निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी भ्रूयुग्मस्य सनाभि मन्मथधनुर्ज्योत्स्ना स्मितस्याञ्चलः ।
सङ्गीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः सर्वाङ्गीणमहो विधेः परिणतं विज्ञानचित्रं चिरात् ॥ ४३ ॥’

अत्र निर्माल्यं, दासः, सनाभि, अञ्चलः, उच्छिष्टमिति पदानां गौणवृत्तिव्यपाश्रयेण मुत्प्रदायिनां साभिप्रायनिवेशादियं पदमुद्रा ॥

“गौणवृत्तिव्यपाश्रयेणेति” । निर्माल्यादिपदानामत्यन्ततिरस्कृतवाच्यानामतिविच्छायत्वादिलक्षणाद्वारेण लावण्यविशेषध्वननात्सहृदयहृदयावर्जकानां निवेशो दृश्यते ।

एवम्—

‘ताला जाअन्ति गुणा जाला ते सहिँअएहिँ धेय्यन्ति ।
रविकिरणाणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ॥’

तथा—

‘अमृतमभृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं
रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।’

इत्यादावर्थान्तरसङ्क्रमणादिना तत्प्रकाश्यो ध्वनिरनुसन्धेयः ॥

वाक्यमुद्रा यथा—

‘यत्स्वच्छे सलिलात्मनि प्रतिफलद्देवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्स्नेति तत्त्वान्तरम् ।
तिग्मं धाम चिरं चकास्ति दिवि यत्तत्रास्ति दिव्यः पुमान्यं विज्ञातवतां त्रुटन्ति निखिला भूयो भवग्रन्थयः ॥ ४४ ॥’

अत्र ‘तत्रास्ति दिव्यः पुमान्’ इत्यादेर्वाक्यान्तरस्य पूर्ववाक्योपकारित्वेन मुत्प्रदायकस्याभिप्रायपूर्वनिवेशादियं वाक्यमुद्रा ॥

“यत्स्वच्छ इति” । आदित्यकला एव प्रति फलिताश्चन्द्रव्यपदेशं लभन्त इत्यागमः ।

तदाह—

‘सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् ।
दलयन्ति दर्पणोदरविहता इव मन्दिरस्यान्तः ॥’

इति ।

“पूर्ववाक्योपकारित्वेनेति” । देवे पीयूषाकृति तत्त्वान्तरं तिग्मं धाम चकास्तीति च यदगाधतया तर्कितमिति किलशब्दकटाक्षितमभिधानम् । तत्र किं सम्बन्धमित्याकाङ्क्षाविपूरकं तत्रास्तीत्यादि वाक्यम् । तथा हि—‘य एष आदित्यपथं व्याप्य पुरुषो दीप्यते’ इत्याद्युपनिषदर्थनिवेशनमभिप्रायपूर्वकमाभासते । एतेनान्येऽपि वाक्यप्रकाश्यप्रकाराः परिगृहीता बोद्धव्याः । पूर्वं वाक्येऽन्तर्भावितद्वित्वमवसेयमिति ॥

विभक्तिमुद्रा यथा—

‘श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि ।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥ ४५ ॥’

अत्र प्रदुग्धे, रुणद्धि, सूते, प्रमार्ष्टि, पुनीते, इति तिङ््विभक्तीनां ‘दुहिपच्योर्बहुलं सकर्मकयोरुपसङ्ख्यानम्’ (३।१।८७ वा॰), ऽरुधादिभ्यः श्नम्’ (३।१।७८) इत्यादिभिर्विशेष‘लक्षणवतीनां योगैः’ कलक्षणयोगैः परस्मैपदात्मनेपदपर्यायेण निवेशो दृश्यते । श्रियः, विपदः, यशांसि, मलिनं संस्कारशौचेन, इति च सुब्विभक्तीनाम् ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६।४।७७) इत्यादिविशेष‘लक्षणवतीनां योगैः’ कलक्षणवतीनामविकृतविकृतानां मङ्गलामङ्गलार्थ‘पदपरत्वेन’ इति टीकासम्मतः पाठःपरत्वेन ‘मङ्गलार्थानाम्’ कमङ्गलाद्यर्थानामभिप्रायतः प्रयोगो लक्ष्यते । तेनेयं विभक्तिमुद्रा भवति ॥

“श्रिय इति” । बुद्धिरूपा कामधेनुः श्रियः प्रथयतीत्युक्ते न तथा प्रकर्षः, यथोक्ते तु विशिष्टः कवेरभिप्राय उन्नीयते । तथा हि—यथोदुम्बरः स लोहितं फलं पच्यत इति कर्मकर्तरि फलोदुम्बरयोरैकात्म्यभवसीयते तथेहापि श्रीरूपमात्मानं बुद्धिः प्रकाशयतीति । अत एव हि ‘दुहिपच्योर्बहुलं सकर्मकयोः’ (वा ३।१।८७) इति बाह्यकर्मविशिष्टस्यैव कर्तुः कर्मवद्भावः शिष्यते । ‘न दुहस्नुनमां यक्चिणौ’ (३।१।८९) इति यगभावोऽपि विशेषाभिप्रायनियत एव रुणद्धीत्यागमरूपः । सूते इति लुप्तः । प्रमाष्टीन्ति बृद्धियोजकः । पुनीते इति स्वरूपेण विकृतश्च विकरणः । आत्मनेपदपरस्मैपदयोरेकान्तरितो निवेशः । श्रिय इति प्रकृतिभागे इयङादेशो विकारो विभक्तावपि विकारः । विपद इति प्रकृतिरविकृता । विभक्तिस्तु रुत्वेन विकृता । यशांसीति द्वे अपि विकृते । मलिनमिति वैकल्पिकपरसवर्णविधौ द्वयमविकृतम् । संस्कारशौचेनेति प्रकृतिरविकृता । प्रत्ययस्त्विनादेशेन विकृतः । तथा श्रिय इति माङ्गल्यम्, विपद इति विपरीतमिति क्रमेण शुद्धा बुद्धिः कामधेनुरिति । मङ्गलपरम्परानिवेशनेनोपसंहारश्चित्रांशुकोज्ज्वल इव प्रतिभासमानो नु बिम्बमिव कामपि कान्तिमभिव्यञ्जयत्तूपलक्ष्यते । “मङ्गलामङ्गलार्थपदपरत्वेनेति” । मङ्गलामङ्गलेभ्यः पदेभ्यः परवर्तित्वेनेत्यर्थः ॥

वचनमुद्रा यथा—

‘विश्वभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥ ४६ ॥’

अत्र वयमित्यात्मनि बहुवचनेन सविता चेति सवितर्येकवचनेन सवितुरप्यहं बहुमत इत्यभिप्रायो वक्तुरितीयं वचनमुद्रा ॥

“विश्वम्भरेति” । अहङ्कारप्ररोहस्य पूर्वं गुणप्रयोजकत्वमुक्तम् । इह तु कवेरभिप्रायविशेषस्यालङ्कारघटकतेति विभागः ॥

समुच्चयमुद्रा यथा—

‘जातश्चायं मुखेन्दुस्ते भ्रुकुटिप्रणयी पुरः ।
गतं च वसुदेवस्य कुलं नामावशेषताम् ॥ ४७ ॥’

अत्र ‘आशंसायां भूतवच्च’ (३।३।१३२) इति भूतवद्भावस्य हयग्रीवप्रभावातिशयशंसिनः समुच्चयद्वारेण निवेशादियं समुच्चयमुद्रा ॥

“अत्राशंसायामिति” । गतमिति निष्ठाप्रत्ययेन भूतताद्योतनादाशंसाप्रतीतावपि कथं प्रकृतपोष इत्यत उक्तम्—“समुच्चयद्वारेणेति” । तेन हि तुल्यकक्षताप्रतीतौ त्वं चेदङ्गीकृतरोषस्तदा सिद्धमेव समीहितमिति वक्तुरध्यवसायविशेषप्रर्तीतौ समुच्चय एव मुद्रापदवीमारोहतीति । शेषं सुबोधम् ॥

संवृतिमुद्रा यथा—

‘मणिरत्नं प्रसेनस्य तच्चानार्येण विष्णुना ।
लब्धं येनाद्ययोगेन तेन किं कीर्तितेन वः ॥ ४८ ॥’

अत्र ‘कथापि खलु पापानामलमश्रेयसे यतः’, ततः ‘किं तेन वः कीर्तितेन’ इति साभिप्रायसंवृतिकरणादियं संवृतिमुद्रा ॥

विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः ।
प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते ॥ ४२ ॥

“विधीति” । उक्तिरभिधा । सा द्वयी भावाभावविषयत्वात् । तर्हि गोरपत्यमयं गौरित्यतः को भेद इत्याशङ्क्य विधिद्वारेण वेत्यादि । भावज्ञानं विधिरभावज्ञानं निषेधः । लोके गृहीतव्युत्पत्तिबलेन भावाभावान्यतरसंवित्सरणिमारुह्य काव्यैकगोचरे रसाद्यात्मनि पर्यवस्यन्ती भवत्युक्तिरलङ्कार इति भावः ॥

सोऽयं भावादिप्रपञ्चेन षोढा विधिः प्रथत इत्याह—

विधेरथ निषेधात्स्यादधिकाराद्विकल्पतः ।
नियमात्परिसङ्ख्याया उपाधेः सेह षङ्विधा ॥ ४३ ॥

“विधेरिति” । उपाधिर्विशेषणम् । विध्यधिकारौ शुद्धभावभेदौ । निषेधनियमौ शुद्धप्रतिषेधभेदौ । विकल्पपरिसङ्ख्ये सङ्कीर्णभेदाविति । तत्राप्राप्तप्रापणो “विधिः” । प्रसक्तप्रतिषेधो “निषेधः” । क्रियाफलसम्बन्धो“ऽधिकारः” । तुल्यकक्षयोरेकबाधेनान्यसम्बन्धो “विकल्पः” । व्यावृत्तिफलको विधि“र्नियमः” । शेषविधिनिषेधनान्तरीयकौ विशेषनिषेधविधी “परिसङ्ख्या” ॥

तासु विध्युक्तिर्यथा—

‘शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने’

अत्राप्राप्तौ प्रापणवचनं विधिः ॥

“अप्राप्तौ प्रापणवचनमिति” । अप्रवृत्तप्रवर्तनात्मको हि विधिः कथमितरापेक्षत्वे सङ्गच्छते । अत एवोच्यते—‘विधिरत्यन्तमप्राप्तौ’ इति ॥

निषेधोक्तिर्यथा—

‘भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।’

अत्र प्राप्तौ निवारणं निषेधः ॥

“प्राप्तौ निवारणमिति” । रोषेण प्रसजत्प्रतीपाचरणान्निवार्यते ॥

अधिकारोक्तिर्यथा—

‘भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ४९ ॥’

अत्र विधिनिषेधज्ञानाद्विधिनिषेधयोग्यताधिकारः ॥

“विधिनिषेधज्ञानादिति” । विहितनिषिद्धक्रियाज्ञानेन तत्फलसम्बन्धयोग्यत्वमधिकारः । शुश्रूषस्वेति, भूयिष्ठं भव दक्षिणेति द्वे विहिते । मा स्म प्रतीपं गम इति, भोगेष्वनुत्सेकिनीति द्वे निषिद्धे । विधिनिषेधयोग्यता विधिनिषेधफलसम्बन्धयोग्यत्वम् । गृहिणीपदप्राप्तिर्विहितक्रियाफलम् । कुलाधीभवनं तु निषिद्धक्रियाफलमिति ॥

विकल्पोक्तिर्यथा—

‘एको नेता क्षत्रियो वा द्विजो वा एका विद्याध्यात्मिकी वा त्रयी वा ।
एका भार्या वंशजा वा प्रिया वा एकं मित्रं भूपतिर्वा यतिर्वा ॥ ५० ॥’

सोऽयं जातिक्रियागुणद्रव्यावलम्बी चतुर्विधो विकल्पः ॥

“सोऽयमिति” । जात्यादय एव पदार्थास्ते च विकल्पन्ते । कुतो जात्यादिना तव्द्यवस्था । वाशब्दः पाक्षिकभावमाहेति भावाभावसङ्करः ॥

नियमोक्तिर्यथा—

‘विवादोऽपार्थ एवायं पार्थ एव धनुर्धरः ।
यो न केवलमात्मीयैः परैरप्यभिनन्द्यते ॥ ५१ ॥’

सोऽयमयोगान्ययोगात्यन्तायोगव्यवच्छेदलक्षणस्त्रिप्रकारो नियमः ॥

“अपार्थ एवेति” । विशेषणसङ्गत एवकारः केवलविशेषणयोगस्यासम्भवे व्युत्पत्तिवशेन तदभावं व्यवच्छिन्दन्योगव्यावृत्ताववतिष्ठते । पार्थ एवेति विशेष्यसङ्गत एवशब्दस्तदन्यस्य धनुर्धरतारूपं विशेषणं व्यावर्तयन्नन्ययोगव्यवच्छेदद्योतको भवति । केवलमिति अभिनन्दनस्य नायोगं नवान्ययोगं व्यवच्छिनत्ति, किं तु तत्सम्बन्धं बोधयन्नात्यन्तिकमयोगमत्यन्तायोगव्यवच्छेदोऽभिधीयते ॥

परिसङ्ख्योक्तिर्यथा—

‘पञ्च पञ्चनखा भक्ष्या वामेनाक्ष्णा न पश्यति ।
काठिन्यमस्याः कुचयोः किमसद्यन्न रोचते ॥ ५२ ॥’

तदिदं विधिनिषेधाभ्यां शेषाभ्यनुज्ञानं परिसङ्ख्येत्युच्यते ॥

“पञ्च पञ्चेति” । पञ्चनखेषु पञ्च भक्ष्या नान्ये । कुचयोरस्याः काठिन्यं न वचनादाविति विशेषविधी शेषनिषेधमनुजानीतः । वामेन न पश्यति दक्षिणेन तु पश्यत्येव । किमसत्किमशोभनम् ? यद्यस्मै न रोचते इतरत्तु सदेवेति विशेषनिषेधौ शेषविध्यभ्यनुज्ञाविषयाविति ॥

अयुज्यमानस्य मिथःशब्दस्यार्थस्य वा पुनः ।
योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥ ४४ ॥

“अयुज्यमानस्येति” । पूर्वं पदैकवाक्यता ततो वाक्यैकवाक्यत्वमनन्तरं प्रकरणैकवाक्यत्वमिति प्रबन्धनिर्वहणं यावत्कविव्यापारः । तत्र ‘गामभ्याज शुक्लां दण्डेन’ इत्यादीनां लोके गृहीतव्युत्पत्तीनामेव यद्यपि काव्यानुप्रवेशस्तथापि भङ्गीभणितिसनाथान्येव काव्यपद्धतिमध्यासत इत्यप्रहतानामुपादेयत्वे यत्रापाततः परस्परमन्वयो न प्रतिभासते तत्रावश्यं कविना स्वाभिप्रायप्रतिच्छन्दकभूतविशेषनिवेशनेन विवक्षितवाक्यार्थप्रतीत्यस्खलनं विधेयम्, अत एव वैचित्र्यादलङ्कारता । तदिदमुक्तम् —अयुज्यमानस्येति । आपातत इति शेषः । योजना अन्वयौपयिकरञ्जकविशेषनिवेशनं तस्य विषयः । शब्दाथा शब्दः पदं वाक्यं प्रकरणं प्रबन्धः । अर्थः पदार्थो वाक्यार्थश्च ॥

विषयभेदात् षोढा युक्तिरित्याह—

पदं चैव पदार्थश्च वाक्यं वाक्यार्थ एव च ।
विषयोऽस्याः प्रकरणं प्रबन्धश्चाभिधीयते ॥ ४५ ॥

पदं चैवेति ॥

तत्र—

योगकारणपर्यायाङ्गाङ्गिगभावपरम्पराः ।
पदयुक्तेर्निमित्तं स्युर्निरूढाः पदसिद्धये ॥ ४६ ॥

“योगेति” । योगेत्यादौ द्वन्द्वपरवर्ती परम्पराशब्दः प्रत्येकमन्वीयते । योगो योगरूढिः । कारणं कार्यकारणभावः । निरूढाः प्रमिताः । पदसिद्धये पदसमुदायात्मकवाक्यैकदेशतासिद्धये ॥

यद्यपि पदानामर्थद्वारक एव सम्बन्धः, तथापि तदौपयिकविशेषः क्वचित्पदेष्वेव साक्षादवसीयते क्वचित्पदार्थेष्वित्यभिप्रेत्याह—

विरुद्धानां पदार्थानां जात्यादीनां परस्परम् ।
योजना येह तां युक्तिं पदार्थविषयां विदुः ॥ ४७ ॥

“विरुद्धानामिति” । एवं वाक्यवाक्यार्थयोरपि वाक्यमध्यवर्तिप्रकृतरसानुगुणरससमर्पकं वाक्यान्तरम् ॥

गर्भः सह निगर्भेण संवृत्तिः ससमुच्चया ।
हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः ॥ ४८ ॥

“गर्भ इति” । गर्भस्तस्यैकदेशभूतस्तथाभूतो “निगर्भः” । उक्तेरुपसंहारवचनं “संवृत्तिः” । तुल्यप्रधानभावानां युगपदेकार्थसम्बन्धः “समुच्चयः” । आदिपदादन्वाचयादयः ॥

यत्तदादेरुपादानं क्रियाभ्याससमुच्चयौ ।
क्रियासमभिहारश्च वाक्यार्थान्युज्यते मिथः ॥ ४९ ॥

“यत्तदादेरिति” । यत्तदोरुद्देश्यविधेयगामिनोरादिग्रहणादिदमेतदासां क्रियाणामावृत्तिर“भ्यासः” । विजातीयानामेकदैकत्र सम्बन्धः “समुच्चयः । समभिहारो” भृशत्वं प्रकर्ष इति यावत् ॥

यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये ।
वाक्यं सेह प्रकरणविषया युक्तिरिष्यते ॥ ५० ॥

“यदिति” । अतिमात्रतया प्रतिभासमानत्व“मश्रद्धेयता” ॥

प्रबन्धविषयाप्येवं युक्तिरुक्ता मनीषिभिः ।
‘उदाहरणमेवासाम्’ इति पाठष्टीकासम्मतःउदाहरणमालासां रूपव्यक्त्यै निदर्श्यते ॥ ५१ ॥

तदेतासां युक्तीनामतिदुरूहत्वादाह—“उदाहरणमेवेति” ॥

तत्र योगरूढिपरम्परादिनिमित्ता पदयुक्तिर्यथा—

‘प्राच्यां निर्जितजम्भजिद्द्वपशिरः सिन्दूरशोभं दिशि प्रत्याख्यातहयाङ्गनास्यहुतभुग्ज्योतिः प्रतीच्यर्णवे ।
प्रातर्जातमदोन्मिषत्कमलिनीकिञ्जल्ककल्कोद्भटं भानोः पूर्णनभःकटाहकुहरक्रोडं, महः पातु वः ॥ ५३ ॥’

अत्र जम्भजिद्द्विप इति योगरूढिपरम्परा, हयाङ्गनास्यहुतभुगिति पर्यायपरम्परा, प्रातर्जातमदोन्मिषत्कमलिनीकिञ्जल्ककल्कोद्भटमिति हेतुपरम्परा, नभःकटाहकुहरक्रोडमित्यङ्गाङ्गिगभावपरम्परा च परिस्फुरन्ती दृश्यते ॥

“प्राच्यामिति” । जम्भजित्पदं कृदन्तत्वाद्यौगिकम् । तथा जम्भजिद् द्विप इत्यपि समासत्वात् । तदेतदुभयं योगेनातिप्रयुज्यमानं निरूढिद्वयेन विवक्षितैरावतरूपे वस्तुनि नियम्यते । हयाङ्गनेति वडवापर्यायः । आस्यमिति मुखपर्यायः । हुतभुगित्यनलपर्यायः । सेयं पदपरम्परापर्यायताप्रतिसन्धानेनाभिमतवडवामुखानलप्रतीतिं करोति । मदस्य किञ्जल्कोन्मेषे तस्य कल्के तस्याप्युद्भटतायां हेतुभाव इति कार्यकारणपरम्परा । नभःकटाहोऽङ्गी । तस्याङ्गमेकदेशः कुहरं तस्यापि क्रोड इत्यङ्गाङ्गिगपरम्परा च यथाभिमतपदैकवाक्यतानिदानमिति तदेतद् व्याचष्टे—“अत्रेति” । परिस्फुरन्ती कविशक्तिव्यञ्जकतया सहृदयहृदयेषु प्रतिफलति ॥

विरुद्धजात्यादियोगनिमित्ता पदार्थयुक्तिर्यथा—

‘तन्नागेन्द्रकरोरुदोःकरिशिरःपीनस्तनांसं वपुः स्त्रीपुंसाकृति यत्पितुस्तव मुखे रम्योग्रमीक्षामहे ।
वाराह्या इति नर्मणीभवदनः पश्यन्यदास्या मुखं नाभिष्टौति हसन्न निन्दति तदा श्लिष्टोऽम्बया पातु वः ॥ ५४ ॥’

अत्र स्त्रीपुंसाकृतीति विरुद्धजातियोजना, नाभिष्टौति न निन्दतीति विरुद्धक्रियायोजना, रम्योग्रमिति विरुद्धगुणयोजना, मुखे वपुरीक्षामहे इति विरुद्धद्रव्ययोजना च लक्ष्यते ॥

“तन्नागेति” । नागेन्द्रकरवदूरुः पार्वतीभागे, दोर्बाहुश्च देवभागे, करिकुम्भवत्पीनः स्तनो देवीभागे, अंसः स्कन्धश्च देवभागे एवंविधत्वत्पितुरीश्वरस्य वपुस्त्वन्मुखे । एकविषाणतया करिकरिणीसमाहारात्मनि वीक्षामह इति वाराह्याः परिहासोक्तिः । वाराही वराहप्रकृतिभूतो मातृविशेषः । इभवदनो विनायकः । स्त्रीत्वपुंस्त्वयोः परस्परपरिहारेणोपलम्भाद्विरुद्धयोरपि त्वत्पितुरित्यनेन स्तुतिनिन्दयोः प्रतिषेधेन रम्यताभीषणतयोर्भागव्यवस्थया मुखवपुषोः सादृश्येनाभितोऽभिप्रायप्रतिबिम्बितेन योजना विहितेति तत्प्रतिपादकानां पदानामेकवाक्यतासिद्धिः । तदिदमाह—“अत्रेति” ॥

वाक्यगर्भादिविषया वाक्ययुक्तिर्यथा—

‘दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ ५५ ॥’

अत्र वदन्त एव हि वयं रोमाञ्चिताः पश्यतेति वाक्यगर्भः । तत्रैव पश्यतेति वाक्यान्तरे भावाविष्कारवाचा निगर्भः । किमपरं रामाय तस्मै नम इति वाक्यसंवृत्तिः । यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतमिति वाक्यसमुच्चयः । सेयमेतेषां योजनाद्वाक्यविषया युक्तिर्भवति ॥

“दिङ्मातेति” । जातिक्रियेत्यादिना क्रमेण विरोधप्रसिद्धेर्गुणविरोधमुल्लङ्घ्य क्रियाविरोधो व्याख्यातः । आघाटः सीमा । गर्भो विवृतपूर्वस्तत्रैवाश्चर्यरसाविष्टब्धस्य वक्तुः पश्यतेति वाक्यान्तरं निगर्भः । गर्भवाक्येन समर्प्यमाणप्रकृतरसान्वयिनि रसे प्रकर्षाधायको निगूढो गर्भो निगर्भ इत्युच्यते । तदिदं भावाविष्कारवाचीत्युक्तम् । विप्राय प्रतिपाद्यते सम्पन्ना तैरभुज्यत इत्यादि वक्तव्ये किमपरमित्यस्य संवृत्तित्वेन योजना । एवं हि कियदस्य महानुभावस्य तादृशाचरितं प्राप्यते तदिह मौनमेवोचितमिति भूयान्प्रकर्षोऽवसीयते । ‘यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम्’ इति वाक्यद्वयस्य पूर्ववाक्यगततर्कार्थसमुच्चयवाचिना चकारेण योजना व्यक्तैव । “एवमादय इति” । तद्यथा—वीथ्यङ्गानि त्रयोदशप्रस्तावनापरिचेयानि । सन्ध्यङ्गानि विलासाद्यानि चतुःषष्टिसन्धयश्च रूपकावयवभूता मुखप्रतिमुख-गर्भबिमर्शनिर्वहणाख्याः पञ्च । प्रकृतरसावस्थारूपाणि च पञ्चैव । बीजबिन्दुपताकाप्रकरीकार्याणि तत्तत्प्रकरणप्रबन्धरूपवाक्यैकदेशयोजनान्यवगन्तव्यानि ॥

यत्तत्तदाद्युपादाननिमित्ता वाक्यार्थयुक्तिर्यथा—

‘तिष्ठ द्वारि भवाङ्गणे व्रज बहिः सद्मेति वर्त्मेक्षते शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति ।
दूतिं सन्दिश सन्दिशेति बहुशः सन्दिश्य सास्ते तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति ॥ ५६ ॥’

अत्र प्रथमपादे क्रियासमुच्चयः, द्वितीये क्रियाभ्यासः, तृतीये दूतीं सन्दिश सन्दिशेति यावत्क्रियासमभिहारः । शेषे तु तथा सास्ते यथा निशान्तं न गच्छतीति यत्तदोरुपादानं वाक्यार्थयुक्तेर्हेतुः प्रतीयते । सेयमुक्तलक्षणा वाक्यार्थयुक्तिर्भवति ॥

अश्रद्धेयपर्वतादिवर्णनोपपत्तिहेतुः प्रकरणविषया यथा—

‘मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ ५७ ॥’

प्रबन्धव्यापिवस्तूपपत्तेर्हेतुस्तु प्रबन्धविषया युक्तिर्भवति । सा यथा—

‘धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५८ ॥’

“तिष्ठेति” । उपस्थितिसमयसीमामतिक्रामति प्रियतमे तत्कालद्विगुणितोत्कण्ठातरलितान्तःकरणः कदाचित्प्रागिव गर्भगृहद्वारि तिष्ठति । ततस्तत्रानवलोकमाना गृहाङ्गणे भवति । तदनन्तरं वेश्मनो बहिर्व्रजति । सोऽयं विजातीयक्रियार्थनानाधातुगोचरः सर्वकालेषु ‘समुच्चयेऽन्यतरस्याम्’ (३।४।३) इति लोटो हिरनुशिष्यते । अत एव दर्शनावच्छेदभूतद्वारावस्थानादिसामान्यवचनः ‘समुच्चये सामान्यवचनस्य’ (३।४।५) इत्यनुशासनान्नियमितप्रयुक्तिरीक्षतिरनुप्रयुज्यते । नायकस्य सर्वथा हृदय वैशसं सर्वथैवाश्रद्दधाना दूरदूरतरदूरतमरथ्याभागावलोकनार्थिनी शालागृहमारोहति, ततस्तस्मादुच्चैस्तमङ्गगम् अट्टालकम्, अनन्तरं तस्मादुच्चतरां वलभीमुपरितनकुटीमिति । अत एवाञ्चनक्रियैवात्रावृत्तेति ‘क्रियासमभिहारे लोट्र लोटो हिस्वौ वा च तध्वमोः’ (३।४।२) इत्यनुशिष्यते । अत एव च ‘यथाविध्यनुप्रयोगः पूर्वस्मिन्’ (३।४।४।) इति तस्यैव धातोरनुप्रयोगोऽपि । एवमप्यनागच्छति नायके दूतीव्यापारः शरणं यत्कुण्ठनायां स्वयं वा तत्र गमनमित्युपदिश्यते तेन तत्तदभिप्रायसंवर्धकसन्देशप्रकर्षः सोऽयमाभीक्ष्ण्यद्विरुक्त्या व्यज्यते । अत एव लोटः समभिव्याहारो विषयो न तु घञादिवदभिधेय इति पूर्वाचार्याः । इतिशब्दादधिकं चतुर्थवाक्यानुप्रविष्टमिति यावच्छब्देनावच्छिनत्ति सन्दिश सन्दिशेति यावदिति दिक् ॥

उक्तिप्रकारो भणितिः सम्भवेऽसम्भवे च सा ।
विशेषसंवृत्त्याश्चर्यकल्पनासु च कल्प्यते ॥ ५२ ॥

“उक्तीति” । उक्तिरभिधानमुच्चारणक्रिया लक्षणक्रिया सा सर्ववाक्यसाधारणी कथमलङ्कार इत्याशङ्क्य प्रकारपदम् । प्रकारो भङ्गीरूपता । लौकिकशास्त्रीयवचनातिगामी विशेषः । स एव कैश्चिदव्याप्तिमननुसन्दधानैरलङ्कारसामान्ये उक्तः । उक्तिरूपत्वाविशेषे कथमयमेव सङ्गच्छतामित्यतो विभागप्रदर्शनव्याजेन विषयविशेषादेव तद्रूपतामुपपादयति—“सम्भव इत्यादि” । तत्र बहिरसम्भाव्यमानस्यापि प्रतिभानिर्भितचित्रतुरगवत्प्रतीतिः सम्भवस्तामर्पयन्ती सम्भावनात्मिका भणितिः । सैव हि ‘किन्त्वस्ति काचिदपरापि पदानुपूर्वी यस्यां न किञ्चिदपि किञ्चिदिवावभाति’ इति न्यायेन तत्तदर्थनिर्माणप्रवीणा ‘यथास्मै रोचते विश्वं तथैव परिवर्तते’ इति व्यवहारकारणं भवतीति तथाविध एव विषये शास्त्रप्रसिद्धप्रकारवैपरीत्येन बाधवर्णनमसम्भावना । तदुच्यते—

‘इह ते जअन्ति कइणो जअमिण मोजाणसअलपरिणामम् ।
वाआसु ठिअं दीसइ आमोअ घणं व तुच्छं व ॥’

अतएवेयं निषेधरूपा तज्जातीयव्यावृत्तो धर्मो विशेषस्तं क्वचिद्विदधाना कवेरभिप्रायविशेषमर्पयन्ती ‘निषेधप्रसङ्गे विशेषभणितिर्विधिरूपा भवति’ इति तामवलम्बमाना चमत्कारकारिणी विशेषे पर्यवस्यन्ती वर्णना पल्लवप्रसङ्गे सङ्कोचमवगाहमाना विधौ निषेधरूपा पर्यवस्यति । अतर्कितोपनतं विस्मयजनकमाश्चर्यं तस्य निषेधे विधातव्ये यत्किञ्चिद्विधानं तदाश्चर्यरूपतामन्तरेण काव्यकक्षामारोढुं न क्षमत इति नूनमनया विस्मयार्पणमेव सर्वस्वभूतमवलम्बनीयमिति निषेधविधि-प्रसङ्गे निषेधरूपा भणितिर्बहिरसम्भाविनः क्वचिदसतो विशेषस्योत्प्रेक्षाकल्पना । तामाश्रयन्ती विधाननिषेधमात्रेण चरितार्था किञ्चिद्विशेषं विदधातीति विधिनिषेधप्रसङ्गे सामान्यतः प्रतिषेधति विशेषतश्च विधत्त इति निषेधविधिरूपा कल्पना “भणितिः” ॥

अत्र सम्भवभणितिर्यथा—

‘सद्योद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् ।
उत्सेक्या कलशीभिरञ्जलिपुटैः पेया मृणालाङ्कुरैर्मातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥ ५९ ॥’

अत्र ज्योत्स्नायाः सद्योद्रावितकेतकोदरदलस्रोतःसादृश्यादिसम्भवादियं सम्भवभणितिर्द्विरूपा ॥

“सद्य इति” । केतकोदरदलानां द्रावणम्, ततः स्रोतोरूपता, ततस्तेनोपमिताया बहलतरबहिर्भागस्य कलशीभिरुत्सेचनम्, अनन्तरं किञ्चिदल्पीभूतमध्यभागस्य करतलाञ्जलिपुटैर्मानम्, ततः शेषीभवतः सारभागस्य मृणालाङ्कुरैः पानमिति बहिरसम्भाविन एव श्रियं बिभ्रतीति निदर्शनया योग्यपदेनौत्सेक्येत्यादिभिश्चमत्कारिणी सम्भावना जायते ॥

असम्भवभणितिर्यथा—

‘क्व पेयं ज्योत्स्नाम्भो वदनबिसवल्लीसरणिभिर्मृणालीतन्तुभ्यः सिचयरचना कुत्र भवति ।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् ॥ ६० ॥’

अत्र ज्योत्स्नादीनां मृणालादिभिः पेयत्वादेरसम्भवादियमसम्भवभणितिर्निषेधरूपा ॥

“क्व पेयमिति” । स्वप्नस्य साक्षात्कल्पने सामर्थ्यमसम्भावितं तदेवमेवोच्यमानं तथा शोभामुन्मीलयतीति क्व पेयमित्यादि प्रतिवस्तुना निर्देशव्यङ्ग्यारक्तिसुषमाविस्तारं कुर्वाणा भवत्यसम्भवभणितिः । पारी भाण्डभेदः ॥

विशेषभणितिर्यथा—

‘रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन्हली मदक्षीबः पानगोष्ठ्यां पुनातु वः ॥ ६१ ॥

अत्र रेवतीदशनोच्छिष्टयोरपि हलिदृशोर्यत्पूतत्वं, मदक्षीबस्यापि हलिनो यत्पावनत्वमसौ विशेष इतीयं विशेषभणितिर्निषेधे विधिरूपा ॥ऽ

“रेवतीति” । दशनोच्छिष्टं चुम्बितम् । उच्छिष्टक्षीबयोर्न क्वचित्पूतत्वं पावनत्वं वा दृष्टचरमिति हलिनेत्रपुटहलिनोर्विधीयमानं देवताचरितस्य लोकोत्तरतां गमयतीति निषेधप्रसङ्गे विधिरूपेयं भणितिः ॥

संवृत्तिभणितिर्यथा—

‘आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ६२ ॥’

अत्र प्रसिद्धवर्णनाप्रपञ्चविधेराभरणस्याभरणं वपुरित्यादिवाक्यैः संवरणादियं संवृत्तिभणितिर्विधौ निषेधरूपा ॥

“आभरणस्येति” । अत्र चन्द्रमुखी दुग्धधवलनयना बिम्बोष्टी करिकुम्भस्तनीत्यादिकविसमयप्रसिद्धवर्णनाप्रपञ्चप्रसङ्गे यथोक्तरूपेण तस्य सङ्कोचो निषेधस्तत्प्रतिष्ठाभणितिरलङ्करणमेवानया क्रियत इति कान्तिविशेषं व्यञ्जयन्ती विधौ प्रसक्ते निषेधरूपा भवति ॥

आश्चर्यभणितिर्यथा—

‘ज्योतिर्भ्यस्तदिदं तमः समुदितं जातोऽयमभ्द्यः शिखी पीयूषादिदमुच्छ्रितं विषमयं च्छायाप्तजन्मातपः ।
को नामास्य विधिः प्रशान्तिषु भवेद्बाढं द्रढीयानयं ग्रन्थिर्यत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः ॥ ६३ ॥’

अत्र ज्योतिःप्रभृतिभ्यस्तमःप्रभृतीनामुत्पत्तेराश्चर्यरूपत्वादियमाश्चर्यभणितिर्निषेधविधौ विधिनिषेधरूपा ॥

“ज्योतिर्भ्य इति” । प्रियो हि नाप्रियमाचरतीत्युत्सर्गसिद्धाप्रियानाचरणं दैव-गत्या शठे सम्भाव्यमानमाश्चर्यमुन्मुद्रयत्सामान्यपरम्परया प्रेमाविष्टमन्तःकरणमावेदयति । यदि ज्योतिरादेस्तमःप्रभृतीनामुद्गमः स्यादपि प्रियादप्रियमिति सर्वथैव निषेधे विधातव्ये प्रत्यक्षपरिकल्पितस्यान्यथाकर्तुमशक्यत्वात्प्रमेयविरोधमसहमाना विधत्ते च निषेधति चेति निषेधविधिप्रसङ्गे विधिनिषेधरूपा भणितिर्भवति ॥

कल्पनाभणितिर्यथा—

‘दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभावनीयं च ।
सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवः स्वदते ॥ ६४ ॥’

अत्र वयोरामणीयकातिशयस्य दृक्सहस्रादिभिरेवावलोकनीयत्वादियोग्यताकल्पनादियं कल्पनाभणितिर्विधिनिषेधे निषेधविधिरूपा ॥

“दृश्यमिति” । यद्यपि द्वाभ्यामेकेनाल्पीयसा च नेत्राभ्यां मनसा सुकृतेन च वयसो यौवनस्य दृश्यत्वविभावनीयत्वभोग्यत्वानि प्रतीतिमुखमवतीर्णानि, तथापिजीवितसर्वस्वभूतायामितरकामिनीसाधारण्यामितरसाधारण्यमसहमानो दृगादिसामान्ये सहस्रत्वादिकं कल्पयन्साधारणधर्मनिषेधसरणिमारुह्य विशेषं विधत्ते । सेयं भणितिर्विधिनिषेधप्रसङ्गे निषेधघटकद्वारा विधिरूपा भवतीत्यास्तां विस्तरः ॥

वाक्ये शब्दार्थयोः सम्यग्रचना गुम्फना स्मृता ।
शब्दार्थक्रमपर्यायपदवाक्यकृता च सा ॥ ५३ ॥

“वाक्य इति” । एकार्थप्रतिपादनावच्छिन्नः शब्दसमुदायो वाक्यम्, तस्मिन्विषयभूते आनुपूर्व्येण ग्रन्थनं रचना, सा कथमतिप्रसक्ताप्यलङ्कार इत्यत आह—“सम्यगिति” । प्रकृतपरिपोषाधानलक्षणमौचित्यमापन्नेत्यर्थः । वाक्यत्वमर्थशब्दाभ्यां विशेषणविशेष्याभ्यां व्यवतिष्ठते । तेन द्वयोरेव गुम्फना समाप्यत इत्याशयेन शव्दार्थयोरित्युक्तम् । तत्र शब्दो द्विविधः—वाच्यः, उपाधिश्च । प्रतिपादकशब्दो द्विरूपः पदवाक्यभेदात् । पदं द्विधा—पर्यायभूतरूपम्, अतथारूपं च । तदेतद्विवक्षावैचित्र्यमङ्गीकृत्य विभजते—“शब्द इति” । अप्रतिपादकः शब्दः शब्दपदेनोक्तः । अर्थो वाच्यः । क्रमग्रहणमुपाध्युपलक्षणम् ॥

तासु शब्दकृता यथा—

‘रामाभिषेके मदविह्वलायाः कराच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य चकार शब्दं ठण्ठण्ठठण्ठण्ठठठण्ठठण्ठः ॥ ६५ ॥’

सेयं ठण्ठमित्यादेर्निरर्थकस्य श्लोकपादस्यार्थानुगुण्येन वाक्ये रहितत्वाच्छब्दरचना ॥

“रामेति” । राज्याभिषेकोत्सवजातहर्षायाः करात्प्रच्युतस्य सोपानपरम्परासु स्खलतः काञ्चनकलशस्य भूभागप्राप्तिर्यावत्क्रमेणोच्चरन्ती शब्दमालानुकृतेति प्रकृतार्थानुगुण्यम् । एवं हि करच्युतमपि न सम्भावयतीति कोऽपि मदप्रकर्षो व्यज्यते ॥

अर्थकृता यथा—

‘दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् ।
यस्तत्पित्तमुषः स यस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥ ६६ ॥’

सेयं व्योमादीनामष्टानामपि महेशमूर्तिलक्षणानामर्थानामुत्तरोत्तरसङ्कलनया रचितत्वादर्थरचना ॥

“दिक्कालेति” । दिक्कालात्मतुल्यं सर्वमूर्तं संयोगाश्रयतालक्षणं विभुत्क्माकाशस्यैव तस्मिन्नर्थाक्षिप्ते यच्छब्दोऽयमुद्देश्यगामी निविशते तमुपजीव्य तच्छब्देन प्रतिनिर्देशो युक्तः । आकाशे विशेषेण चन्द्रतारादितेजोभिभवसामर्थ्यलक्षणेन द्योतते भगवानादित्य इति यच्छब्देन तमुद्दिश्योत्तरवाक्येऽदसा प्रतिनिर्दिष्टवान् । कर्णगत्या प्रतिफलिताः सूर्यकिरणाः सलिल“मयेष्टाशि”न्येव सुधाव्यपदेशं लभन्ते, तत्रैव यच्छब्दो निविष्टस्तदुपनीतमर्थमुत्तरस्तच्छव्दो विषयीकरोतीत्यादि—अपामेव राशेश्चन्द्रो जातस्तासां पित्तं वन्हिस्तस्य सायम्प्रातराहुतये यजमानः स वायुना जीवति । स च पृथिवीगुणं गन्न्धं वहतीति पूर्वपूर्वसङ्कलनेनोत्तरवाक्यार्थरचना विहितेति । यद्यपि चार्थगुम्फे शब्दगुम्फो ध्रुवभावी, तथापि प्रथमानुसन्धेयमर्थगुम्फनमेवात्र प्रधानमिति तेनैव व्यपदेशो युक्त इत्याशयवान्व्याचष्टे—“अत्रेति” । यदीयं शृङ्खला न प्रतिसन्धीयते कथं परमेश्वरमूर्तयोऽष्टौ लभ्यन्त इति भावः ॥

क्रमकृता यथा—

‘नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीचकार ।’
भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी- द्वक्रज्योत्स्नाशशधररुचं दूषयामास यस्याः ॥ ६७ ॥’

अत्र पत्रप्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानां बुधजनप्रसिद्धक्रमेण रचितत्वादियं क्रमरचना ॥

“नीलाब्जेति” । पत्रदाने स्पर्धा व्यज्यते । सा च सादृश्यपर्यवसायिनीति प्रतीयमानोपमा । इभकुम्भपूर्वपक्षीकरणेन कुचाभोगस्य सिद्धान्तभावोऽवगम्यते । तथा च व्यतिरेको ध्वनितः । अनुवादेनाप्युपमा प्रतीयते दूषणेन व्यतिरेक इति प्रकृतपर्यवसाने समासोक्त्या यत्र दानादीनां विद्वद्वादिप्रसिद्धानां शब्दानभिधेय एव क्रम उपाधिभूतो ग्रथित इत्युदाहरणव्याख्यानग्रन्थार्थः ॥

पर्यायकृता यथा—

‘कणइल्लि च्चिअ जाणइ कुन्तपलस्साइ कीरसंलवई ।
पूसअभासं मुञ्चसु ण हु रे हं धव्ववाआडी ॥ ६८ ॥’

[शुक्येव जानाति शुकप्रलपितानि कीरसंलापिनी ।
कीरभाषां मुञ्च न खलु रेऽहं धृष्टशुकी ॥]

सेयं शुकनामपर्यायाणामर्थानुगुण्येन रचितत्वात्पर्यायरचना ॥

“कणइल्लि च्चिअ इति” । केनचिद्विटेन शुकभाषामनुकुर्वता प्रियायाः परिहास आरब्धः । सा तस्य दुर्विदग्धत्वमाकलयन्ती तदुचितमुत्तरमदात् शुकप्रलपितानि किल शुकी जानाति नान्या । न चाहं शुकी । ततो विफलस्तवायं प्रयास इत्यर्थः । अत्र कुन्त-कीर-पूस-शब्दाः शुकपर्यायाः । कणइल्ली-वाआडी-शब्दौ शुकीपर्यायौ । तत्रापि कीरशब्दस्तत्समः । अन्ये देशीरूपाः । तदेतेषां पर्यायाणां यथोक्तरूपानुगुणानामेकत्रवाक्ये गुम्फनमेव कविसंरम्भगोचर इति ॥

पदकृता यथा—

‘लोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धलोलैर्गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु ।
खण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेलामालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः ॥ ६९ ॥’

अत्र लाङ्गूलवल्लीवलयितबकुलैर्नदद्भिर्गोलाङ्गूलैः प्रतिरसितजरत्कन्दरामन्दिरेषु खण्डेषु उद्दण्डपिण्डीतगरतरलनाः पुटकिनीबन्धवो गन्धवाहा वेलामालम्ब्य येन प्रापिरे इत्यतोऽधिकानामपुष्टार्थानामपि पदानामनुप्रासाय च्छन्दःपूरणाय चार्थानुगुण्येन रचितत्वादियं पदरचना ॥

“लोलल्लाङ्गूलवल्लीति” । लाङ्गूलवल्लीवलयितेत्यादि यथोक्तवाक्यविरचनमात्रेणैव प्रयोजनपरिग्रहे सिद्धे यदधिकानां लोलद्वल्लीप्रभृतिपदानामावापस्तेन विना नोचितानुप्राससिद्धिर्नच तया विना वृत्तौचिती समाप्यते । न वा तामन्तरेण लाङ्गूलादीनामभिमतास्ते ते विशेषाः प्रतीयन्त इति पल्लवप्रतिष्ठैव हि सरस्वती सहृदयानावर्जयतीति—‘वाक्यप्रतीतिमात्रार्थमुपात्तेषु पदेषु यः । उपस्कारः पदैरन्यैः पल्लवं तं प्रचक्षते ॥ अपल्लवं तु यद्वाक्यं कविभ्यस्तन्न रोचते । प्रयुज्यते तथाभूतमुदीच्यैः कविगर्हितम् ॥’ तदिदमाह—“अत्रेत्यादि” ॥

वाक्यकृता यथा—

‘पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे ।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥ ७० ॥’

इह महतोऽर्थस्याल्पीयसा ग्रन्थेनाभिधानमिति व्युत्क्रमेणापि ग्रन्थलाघवाय वाक्यार्थो रचित इतीयं वाक्यरचना ॥

“वाक्येति” । वाक्यरचना तु महावाक्य एव भवतीति । तथाहि । पतिश्वशुरतेत्यादिकमल्पाक्षरमेव वाक्यं महतोऽर्थराशेः समर्पकमिति भावयतां सहृदयानां कवित्वशक्तिरप्रत्यूहैव प्रकाशते । अत एव शक्तितिरस्कारादाद्यन्तावभिधाय मध्यमाभिधाने क्रमभ्रंशोऽपि तिरस्क्रियत इत्याह—“अत्रेति” ॥

शय्येत्याहुः पदार्थानां घटनायां परस्परम् ।
सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित् ॥ ५४ ॥

“शय्येति” । किञ्चिदेकं वस्तु बुद्धौ समाधाय तदधिकारप्रबन्धरचनायामधिकस्यान्तरान्तरा प्रकृते योजना शय्या । पदार्थानां प्रस्तुताप्रस्तुतवस्तूनाम् । तच्च योजनीयं शब्दार्थभेदेन द्विविधम् । तत्र वस्तुवाक्ययोरेव योजना महाकविप्रबन्धेषु दृश्यते । अर्थस्तु प्राकरणिकार्थोपयोगी तदनुयोगी चेति द्विविधः । द्वितीयोऽप्यतिक्रान्तोऽतथाभूतश्चेति पूर्ववद्विभागवाक्यं व्याख्येयम् ॥

अतिक्रान्तेन कुत्रापि पदार्थं वर्णयोः क्वचित् ।
वाक्यार्थे वाक्ययोः क्वापि प्रकीर्णानां च दृश्यते ॥ ५५ ॥

“अतीति” । पदार्थं पदसिध्द्यर्थम्, एवं वाक्यार्थमिति ॥

तासु प्रक्रान्तघटना यथा—

‘स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥ ७१ ॥’

सेयं सप्तर्षीणामागमनस्य प्रक्रान्तस्यैव घटना ॥

“सेयं सप्तर्षीणामिति” । गौरीपरिणयप्रापकतया प्रकरणसङ्गतसप्तर्षिवृत्तान्तः ॥

अप्रक्रान्तघटना यथा—

‘अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निषादस्य च संवादमृषेः संवरणस्य च ॥ ७२ ॥’

सेयमप्रक्रान्तस्य निषादसंवरणसंवादस्य घटनादप्रक्रान्तघटना ॥

“इयमप्रक्रान्तस्येति” । संवरणनिषादसंवादस्य पूर्वापरप्रकरणानुपयोगेऽपीतिहासरूपेण सङ्गतिः ॥

अतिक्रान्तघटना यथा—

‘तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि ।
स्मितार्द्रमुकुलोद्भेदाः कदम्बवनराजयः ॥ ७३ ॥’

इयमतिक्रान्तस्यापि कदम्बवनराजीनामार्द्रमुकुलोद्भेदस्य विरहिमनश्चमत्कारकारिणो रामस्य स्मृतिद्वारेण घटनादतिक्रान्तघटना ॥

“इयमतिक्रान्तस्यापीति” । कदम्बकुसुमोद्भेदस्य प्रत्यक्षस्यैव विरहिजनतातङ्कदायित्वं सम्भवतीति कथमतीतस्य तद्भयस्येत्युक्तं ‘स्मृतिद्वारेण’ इति । सङ्कल्पवशेन प्रत्यक्षायमाणस्येत्यर्थः । एवमनागतयोजनापि गुणादिना बोद्धव्या ॥

पदघटना यथा—

‘छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते ।
स्वेतिहेति हरेणोक्तेः स्वाहासीत्सैष रावणः ॥ ७४ ॥’

इयं स्वेतिहेतिवर्णाभ्यां स्वाहेति पदस्य घटितत्वात्पदघटना ॥

“इयं स्वेति” । स्वाहाकारप्रदानो होमस्तत्र सद्यश्छिन्नेन शिरसा प्राणशेषयोगात् पदार्धमात्रे निष्पादिते तदैव भूतकरुणासन्तानशान्तात्मना परमेश्वरेण खेदाविष्कारवाची हाशब्दः प्रयुक्तस्तेनैव निरन्तरमुच्चरता स्वाहापदं सिद्धमिति ॥

वाक्यघटना यथा—

‘हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
विभावितैकदेशेन स्तेयं यदभियुज्यते ॥ ७५ ॥’

इयं पूर्वशास्त्रनिबद्धस्योत्तरार्धस्य तदर्थाननुयायिनापि प्रस्तुतार्थाविरुद्धेन पूर्वार्धेनैकवाक्यतयैव घटितत्वाद्वाक्यघटना ॥

“इयं पूर्वशास्त्रेत्यादि” । सुगभम् ॥

प्रकीर्णघटना यथा—

‘एक्किंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ माहउ महिअलसत्थरि गण्डत्थल सरउ ।
अङ्गहिं गिम्ह सुहच्छिइ तिलवण मग्गसिरु मुद्धिहिं मुहपङ्कअसरि आवासिउ सिसिरु ॥ ७६ ॥’

[एकस्मिन्नक्ष्णि श्रावणोऽन्यस्मिन्भाद्रपदः माधवो महीतलस्रस्तरे गण्डस्थले शरत् ।
अङ्गे ग्रीष्मः सुखासिका तिलवने मार्गशीर्षः मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः ॥]

अत्र श्रावणादीनामयुगपद्भावित्वेन विप्रकीर्णानां घटनादियं प्रकीर्णघटना । प्रकीर्णशब्दश्चायं शेषवाची । तेनान्यासामपि प्रकीर्णघटनानामिहावकाशो भवति, तेन या इमा महाकविप्रबन्धेषु मुख्यगौणीलक्षणास्तद्भावापत्तिरुपचरिता लक्षितलक्षणेति शब्दवृत्तयस्ता अपीह श्रूयन्ते । यत्रादितः षट्स्वाधारवचनेषु मुग्धाया इति सम्बन्धिपदे च मुख्या । शेषयोर्द्वयोराधारवचनयोर्गौणी । श्रावणादिषु चतुर्षु मासवचनेषु लक्षणा । षट्स्वपि चाधेयवचनेषु वर्षादिषु लक्षिताभिहितेष्वपि युगपदसम्भवत्सु श्रुतार्थापत्तिलभ्या तावद्भावापत्तिः । आवासित इति क्रियापदं चोपचरिताव्यक्तमेव प्रतीयते । लक्षितलक्षणापि चैतास्वेव व्याख्यानत उन्मिषति । तथाह्यावासितशब्दोऽयमभिमतप्रदेशनिवेशितमहापरिच्छदे महाराजादौ निरूढाभिधानशक्तिः । स उपचारेण श्रावणादिषु प्रयुज्यमानस्तेषामपि महत्त्वमभिलक्ष्य महापरिच्छदतां महासम्भवत्वं च लक्षयन् प्रस्तुताया अपि प्रवृत्तेर्महान्तमनुबन्धं लक्षयति । ते च युगपल्लोचनादौ चानुपपद्यमानस्थितयः स्वशब्दशक्तितस्तत्र तत्र च निवेश्यमानाः स्वधर्मसम्पदः प्रत्यासन्नायां तद्धर्मसम्पदमुपलक्षयन्ति । असावसौ विरहवत्या अपि वियोगवेदनातिशयं लक्षयन्ती कमितरि स्नेहातिशयं लक्षयति । तत्र श्रावणो भाद्रपद इत्येताभ्यामवयवाभ्यां वर्षर्तुर्लक्ष्यते । स च लोचनयोरनुपपद्यमानस्थितिरपि विभक्तिश्रुत्या निवेशितः पयःपृषत्प्रवाहलक्षणायाः स्वधर्मसम्पदः प्रत्यासन्नामविच्छिन्नाश्रुसम्पदमुपलक्षयन्समागमोत्काया उत्कण्ठातिशयं लक्षयति । माधव इत्युत्तरावयवेन वसन्तो लक्ष्यते । सोऽपि महीतलस्रस्तरेऽनुपपद्यमानस्थितिः प्राग्वदेव शब्दशक्त्या निवेशितः कुसुमकिसलयमृणालकमलिनीदलादिकायाः स्वधर्मसम्पदः समासन्नां शिशिरोपकरणसामग्रीमुपलक्षयन्कामवत्याः शरीरान्तस्तापं लक्षयति । शरदित्यनेन ऋतुविशेषोऽभिधीयते । सा गण्डयोरनुपपद्यमानस्थितिः प्रशंसावचनस्यापि स्थलशब्दस्यानुस्मरणशत्त्क्या समाकृष्यमाणकाशकुसुमहंसागमनकुमुदसरःप्रसादचन्द्रातपादिकायाः स्वधर्मसम्पदः समासन्नं गण्डयोः पाण्डुभावं लक्षयन्मृगेक्षणाया विरहकार्श्यमुपलक्षयति । ग्रीष्म इत्यनेनापि ऋतुविशेष एवोच्यते । सोऽप्यङ्ग-नाङ्गेऽनुपपद्यमानः सूर्यांशुकार्कश्यप्रतप्तपांसुतापपरुषोष्मानिलत्वदावाग्निकालुष्यादेः स्वधर्मसम्पदः समानानीकभूताभूतपूर्वानङ्गज्वरलिङ्गसम्पदमुपयन्नष्टमीं कामावस्थामुपलक्षयति । मार्गशीर्ष इत्यनेन तु पूर्वावयवेन हेमन्तो लक्ष्यते । तेन च यथा हेमन्ते तिलवनं लूयते तथा तस्याः सुखासिका साम्प्रतं लूयत इति लक्षितेनातिशयिनी मनःपीडोपलक्षिता भवति । का पुनः सुखासिका तिलवनयोः समानधर्मता येयं स्नेहनिर्भरता नाम । अभिसारिकाणां च प्रायेण तिलवनाब्जिनीखण्डयोरेव बहुमानप्रसिद्धिः । यदित्थमाहुः—

‘अत्तन्तहरमणिज्जं अम्हं गामस्स मण्डणीहूअम् ।
लुअतिलवाडिसरिच्छं सिसिरेण कअं भिसिणिसण्डम् ॥ ७७ ॥’

[अत्यन्तरमणीयमस्माकं ग्रामस्य भण्डनीभूतम् ।
लून तिलवाटीसदृशं शिशिरेण कृतमब्जिनीखण्डम् ॥]

अत एवायमुत्तरवाक्ये कमलसरःशब्देनाब्जिनीखण्डमपि निर्दिशति । तद्यथा—

‘मुद्धिहि मुहपङ्कअसरि आवासिउ सिसिरुऽ ।

[मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः ।]

तत्र शिशिर इत्यनेन ऋतुविशेषेण मुग्धामुखेऽपि पद्मसरसीव शब्दशक्त्या निवेशितेन कमलवनोपप्लवादेः स्वधर्मसम्पदो लोकप्रतीतायाः प्रत्यासन्ना मुग्धामुखाम्भोरुहलोचनोत्पलस्मितकुसुमदशनकेसरादेश्छायापरिम्लानिर्लक्ष्यमाणा विप्रलम्भानुभावप्रकर्षमुपलक्षयति । शिशिरलक्ष्मीवर्णनप्रस्तावाच्च ‘मुखमर्धं शरीरस्य सर्वं वा मुखमुच्यते’ इति प्रस्थानप्राधान्यलक्षणया सर्वर्तुभ्यः शिशिर एव प्रधानमित्यपि लक्षितं भवति ॥

“अत्र श्रावणादीनामिति” । प्रकीर्णं विकीर्णमनेकत्र प्रतीतमिति यावत् । तद्द्विविधम्—कालतः, देशतश्च । अत्र हि श्रावणादिमासर्तुषट्कस्य युगपदसम्भवत एकत्र विरहिणीशरीरे युगपद्भावो निबद्धः, सगुणवृत्तिव्यपाश्रयेण श्रावणादिपदे प्रतिपाद्यमानः प्रवासविप्रलम्भप्रकर्षमावेदयतीति । एवं देशविकीर्णघटनाप्युदाहार्या । यथा—‘अमृतमभृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि । इति न भजते वस्तुप्रायः परस्परसङ्करं तदियमबला धत्ते भावान्कथं सकलात्मकान् ॥’ यस्त्वत्र सिद्धादिभेदः कश्चिदुपवर्णितः स तथा न चमत्कारकारीति ग्रन्थगौरवभयादुपेक्षितोऽस्माभिः । तत्तदनेकासाधारणरूपाण्यपि प्रकीर्णानि प्रकीर्णपदेन ग्राह्याणि । तेषामनुक्तान्य (?) तया वोपग्रहोऽपि प्रयुज्यत इत्याह—“प्रकीर्णशब्दश्चायमिति” । व्याख्यानान्तरप्रयोजनमाह—“तेनेति” । शब्दस्यार्थप्रतिपादनशक्तिरभिधा । सा त्रिधा—मुख्या, गौणी, लक्षणा च । तासु मुखमिव प्रथमं यस्यामर्थः प्रतीयते सा मुख्या, तथाभूतार्था तद्भावापत्तिश्च । तत्रावान्तरार्थसम्बन्धविषया तथाभूतार्था । यथा—‘स्वात्मेन्दुवह्निपवनार्कमहीपयोभिरष्टाभिरेव तनुभिर्भवता समस्ते । व्याप्ते जगत्यपरमिच्छति योऽत्र वक्तुं कोऽन्यो गतत्रपतया सदृशोऽस्ति तेन ॥’ सैवार्थान्तरस्वार्थसम्बन्धविषया तद्भावापत्तिः । अतथाभूतस्य तथात्वापादनं हि सा । अत एव स्वतोऽन्यतो वा स्वार्थावच्छिन्नस्य साक्षादभिधानशक्तिरेव मुख्येत्याचार्याः । यथा—‘कमला अण्णसणीआ हंसा उड्डाविआण अपि उच्छा । केण वि गामतडाए अब्भं उत्ताणअं वूढम् ॥’ गुणव्यवहितार्था गौणी । [साद्विधा] गुणनिमित्ता उपचारनिमित्ता च । तत्र द्वयोर्द्रव्यवचनयोर्यत्र सामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगे विशेषणविशेष्यभावान्यथानुपपत्त्या प्रतीयमानाभिधीयमानगुणद्वारकसम्बन्धो भवति सा गुणनिमित्ता । यथा—‘पडिवक्खमण्णुपुञ्जे लावण्णकुडे अणङ्गगअकुम्भे । पुरिससअहिअअभरिए कीस खलन्ती थणे वहसि ॥’‘प्रतिपक्षमन्युपुञ्जौ लावण्यकुटावनङ्गगजकुम्भौ । पुरुषशतहृदयधृतौ किमिति स्खलन्ती स्तनौ वहसि ॥’ [ इति च्छाया ।] मुख्यया गौण्या वान्यविशेषणस्यान्यत्र प्रयोग उपचरिता सापि गुणयोगमुपजीवन्ती गुणवृत्तिरेव । एतावांस्तु विशेषो यद्गुणनिमित्तायामभिधेयगुणयोगः, इह तु स्वाभिधेयविशेष्यगुणयोग इति । यथा—‘परार्थे यः पीडामनुभवति निर्व्याजमधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न सम्प्राप्तो वृद्धिं सपदि भृशमक्षेत्रपतितः किमिक्षोर्दोषो यन्न पुनरगुणाया मरुभुवः ॥’ स्वार्थसम्बन्धव्यवहिता लक्षणा । तदुक्तम्—‘अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या । सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते ॥’ सा द्विधा—शुद्धा, लक्षितलक्षणा च । तत्र साक्षात्स्वार्थसम्बन्ध्यविनाभूतविषया शुद्धा । यथा—‘यत्तालीदलपाकपाण्डुवदनम्’, ऽअभिनवकरिदन्तच्छेदपाण्डुः कपोलः’ इति । यया पूर्वपूर्वलक्षितमेव लक्ष्यते सा लक्षितलक्षणेति केचित् । यथा—‘मधु द्विरेफः कुसुमैकपात्रे’, ‘भीमो भीमपराक्रमः’ इति । अत्र हि द्विरेफादिना शब्देन लक्षित एव भ्रमरप्रभृतिर्लक्ष्यते न तु कुररादिः । अन्ये तु लक्षणाव्यवहिता लक्षणा लक्षितलक्षणेत्याहुः । यथा—‘सुवर्णपुष्पां पृथिवीं चिन्वते पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानातिं सेवितुम् ॥’ तद्भावापत्त्यादिविशेषसमभिव्याहारेण मुख्यादिशब्दास्तदितरतथाभूतत्वागोचरा इति पूर्ववव्द्याख्येयम् । क्व पुनः पदैकावृत्तिरित्यत आह—“अत्रेति” । ‘एक्कहि अच्छिहिं अण्णहिं महिअलसत्थरे गण्डत्थले अङ्गहिं’ इत्यादि षडाधारवचनाः । अत्र यद्यपि गण्डस्थलपदं गौणमेव, तथाप्यनादिप्रयोगयोगितया मुख्यकल्पमिति षट्स्वाधारवचनेष्वित्युक्तम् । अङ्गादिपदानि च स्वार्थविशिष्टान्यपराण्येव प्रयुक्तानीति मुख्यैव वृत्तिः । एवं मुग्धाया इति सम्बन्धिपदेऽपि । ऽसुहच्छितिलवणे मुहपङ्कअसरि’ इति द्वावाधारवचनौ शेषौ । अत्र तिलवनसरःपदयोः स्नेहनिर्भरत्वसरसत्वलक्षणगुणद्वारकैव सुखासिकामुखपङ्कजयोर्वृत्तिः । मुखपङ्कजसरसीत्यत्र यद्यपि पदद्वयं गौणं तथापि पङ्कजपदस्य वृत्तिरभिधातुल्येति न कविसंरम्भगोचरस्तेन व्यवहारोऽयुक्तः । ‘सावण-भद्दवअ-माहव-मग्गसिरु’ इति चत्वारो मासवचनाः । ते च स्वार्थसम्बन्धव्यवहितं वर्षाप्रभृतिसभुदायं लक्षयन्तीति वक्ष्यमाणरीत्या वर्षादयः षडाधेयवचनास्ते च विरहवतीशरीरे युगपच्चासम्भवदवस्थितयो जलादिसम्पदादिस्वस्वप्रवृत्तिनिमित्ताध्यासेन प्रयुज्यमानास्तद्भावापत्तिरूपां वृत्तिमासादयन्ति । अस्याश्च विवर्तपरिणामाध्यासादयः षट्प्रकारा गौरवभिया न दर्शिताः । श्रुतार्थानुपपत्तिमूला कल्पना श्रुतार्थापत्तिः । राजादेरासिते आवासितशब्दो मुख्यवृत्त्यैव विशेषणतया रूढः । स स्वविशेषगुणव्यवहितेऽर्थान्तरे प्रयुक्तो गौणीवृत्तिमनुभवन् वसन्तादेरपि विशेषणतामासादयति । लक्षणाव्यवहिता लक्षणा लक्षितलक्षणा । सा कथमावासितेतिशब्दे सम्पद्यत इत्यत आह—“स उपचारेणेति” । कथञ्चित्सारूप्येण श्रावणादिषु प्रयोगादुपचारस्तमुपजीव्य प्रयुक्तः स्वार्थाविनाभूतं महत्त्वादिकं प्रकृतेषु लक्षणया सङ्क्रामयतीति । आद्या लक्षणा तव्द्यवहितां द्वितीयामाह—“प्रस्तुताया अपीति” । आवासितस्यापि हि यथोक्तविशेषणस्य परदुर्गग्रहणादौ महाननुबन्धो दृष्टः । स इह प्रस्तुतायां विरहवतीसन्तापलक्षणायां प्रवृत्तौ लक्ष्यत इत्येकलक्षणाव्यवधानेनेयं लक्षणा । एवं लक्षणाद्वयव्यवधानेनापि भवतीत्याह—“ते चेति” । श्रावणादयः स्वधर्मसम्पदो निरन्तरवर्षणादेः स्वार्थाविनाभावेन लक्षितायाः प्रत्यासन्ना सदृशी तेषां लोचनादीनां धर्मसम्पदश्रुप्रभावादिलक्षणा लक्ष्यत इति द्वितीया लक्षणा । तत्पुरःसरां तृतीयामाह—“असावसाविति” । एवं लक्षणात्रयपूर्वापि लक्षणा बोद्धव्येत्याह—“कमितरीति” । स्नेहप्रतीत्या तु विभावादिसंवलितया रसो व्यज्यते, न तु लक्ष्यत इत्यन्यत्र विस्तरः । कस्याः पुनः स्वधर्मसम्पदः प्रत्यासन्ना का तद्धर्मसम्पदित्यतो विवेचयति—“तत्रेति” । यदि श्रावणादिपदेषु समुदायलक्षणा न स्यात्तदा मासानुपक्रम्य ऋतूनामभिधाने प्रक्रमभेदो भवेत् ! न भवेच्च तत्तदृतुप्रतीत ऋतुसम्पत्प्रतीतिः क्वचिदिति युक्तैव समुदायलक्षणा । “एताभ्यामिति” । प्रत्येकं न तु पदद्वये लक्षणा सम्भवति । “विभक्तिश्रुत्येति” । सप्तमीप्रथमाविभक्तिभ्यामाधाराधेयभावः स्वशक्त्या प्रतिपाद्यते तदनुपपत्त्यार्थान्तरलक्षणा प्रादुर्भवति । एवं चैत्रवैशाखसमुदायात्मनो वसन्तस्योत्तरावयवो वैशाखस्तद्वाचकेऽपि माधवपदे समुदायलक्षणाद्वारेण लक्षणा भवति । “प्रशंसावचनस्यापीति” । गर्भीकृतसारूप्या हि व्याघ्रादय उपमेयवाचिभिः समस्यन्ते । तच्च सारूप्यं प्रकर्षलक्षणमेवेति प्रशंसापरत्वे स्थितेनाभिधेयमप्रतीत्यसारूप्यं वा रूपान्तरं वा प्रत्येतुं न शक्यत इत्यभिधेयप्रतीत्यनुनिष्पादिनी घण्टानुस्वानसोदरा स्वधर्मसम्पद्यथोक्ता प्रतीयते । स्वने किल शरदाकाशकुसुमहंसादिका स्वसम्पद्विस्तार्यते । न मुखचन्द्रादिवत्सुखासिकातिलवनयोः सादृश्यप्रतीतिर्न च तदभिधीयमानं किञ्चिदत्रास्तीति पृच्छति—“का पुनरिति” । मा भूत्तथा प्रसिद्धिः कवेरभिप्रायारूढा तु प्रतीयत इत्युत्तरमाह—“येयमिति” । न स्नेहो नाम द्वयोरेकः कश्चिदस्ति न चानभिधीयमानमपि सादृश्यं शब्दसामान्यमाश्रयत इत्यतः प्रकारान्तरमाह—“अभिसारिकाणां चेति” । कथमेतदवगतमित्यत आह—“यदित्थमिति” । ननु कमलिनीशब्दस्यात्र बहुमानगोचरता प्रतिपादिता, न तु तिलवनस्येत्यत आह—“अत एवेति” । उपमानोपमेययोर्द्वयोरपि कामिनीबहुमानगोचरतां वितरन्ती शिशिरेण साम्प्रतं तिलवाटिकालवनमपि वर्तत इत्यभिप्रैतीति भावः । ‘मुखमर्धं शरीरस्य’ इत्यादिन्यायेन मुखशब्दः प्राधान्यं लक्षयति, ततो मुखपङ्कजसरसि शिशिर इति तद्भावापत्त्या हेमन्तस्यापि ऋतुषु प्रथमतया प्राधान्यमेव द्योतितमिति । तदुक्तम्—‘पडिकम्मदूइपेसणभाणग्गहणेसुभासुरपहुय्यन्तो । हेमन्तिओ सुहाअइ मलिणमिअङ्को वि कामिणीणयओसो ॥’

काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः ।
पाठो योऽर्थविशेषाय पठितिः सेह षड्विधा ॥ ५६ ॥

सा काक्वा यथा—

‘यदि मे वल्लभा दूती तदाहमपि वल्लभा ।
यदि तस्याः प्रिया वाचस्तन्ममापि प्रिय प्रिया ॥ ७८ ॥’

अत्रैकया काक्वा विधिरन्यया निषेधः प्रतीयते ॥

“काकुस्वरेति” । किञ्चिदेकपरतया प्रवृत्तमुच्चारणमर्थान्तरविवक्षया यदन्यथा क्रियते सा पठितिः । अन्यथाकरणं च काकुप्रभृतिभिः षड्भिरिति । तत्र ‘भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते ।’ सा द्विधा—विधिकाकुः, निषेधकाकुश्च । तयोर्निषेधे परोच्चारणान्यथाकरणेन विधिपर्यवसायिनी विधिकाकुः । यथा—‘शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीककटुवचनम् ॥’ एवं विधिपरोच्चारणान्यथाकरणेन निषेधव्यञ्जिका निषेधकाकुः । तामुदाहरति—“यदीति” । यदि दूती प्रिया तदाहमपि प्रियेत्यादि ऋजूक्त्या शठनायकविषया कृत्रिमा प्रीतिः प्रतीयते, काक्वा तु तवैव नाहं प्रियेतीर्ष्यारोषः ॥

स्वरेण यथा—

‘सुभ्रूस्त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादयः ।
रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्घा दिशः ॥ ७९ ॥’

अत्र दृष्टे इत्यत्र प्लुतस्वरकरणात्कुपितकान्ताप्रसादनपरमपीदं वाक्यमुत्कुपितदृष्टिप्रसादनतां प्रतिपद्यते ॥

स्वराः प्लुतादय उदात्तादयश्च । नामीषां वेद इव काव्ये भूयान्प्रयोग इति किञ्चिदुदाहरति—“सुभ्रूस्त्वमिति” । चरणतलाग्रपतिते मयि दृष्टे सति त्वं प्रसीदेति दीर्घमात्रोच्चारणे कुपितकान्ताप्रसादपरत्वं, यथोक्तप्लुतकरणे तु दूराह्वानादौ तदनुशासनात्कुपितदृष्टिसम्बोधनवुद्धिरुपजायते । अशनादयो हि द्वयोः साधारणा एवेति श्लेषोपादानमेवेति । एवं ह्रस्वस्य दीर्घकरणेन दीर्घस्य ह्रस्वकरणेनार्थान्तरप्रतीतिरवसेया । यथा—‘विश्वामित्रो विश्वानरः’ इति ऋषिराजर्षिविशेषौ प्रतीयेते तथा युवतीति सम्बोधनप्रतीतिः । एवमुदात्तादयोऽपि यथादर्शनमुत्प्रेक्षणीयाः ॥

पदच्छेदेन यथा—

‘सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ॥ ८० ॥’

अत्र मया विरहितेत्येतावति पदच्छेदे पुरूरवसस्त्वयेत्येतावति तु पर्वतस्य वाक्यभेदो भवति ॥

शृङ्खला भङ्गः परिवर्तकः चूर्णमिति चत्वारश्छेदाः । तत्र पूर्वापरवर्णानामन्योन्यसङ्कलनया स्थितिः शृङ्खला । यथा—‘कान्तारतरुतलासितमृगयुवरचितान्तरा-’ इति पठितिः, तदा प्रियासम्भोगमणितहर्षितलुब्धकप्रचुरच्छन्नमध्येति प्रतीयते । सेयमन्योन्यं वर्णसङ्कलनया शृङ्खलेत्युच्यते । एकस्य शब्दस्य मध्ये विच्छेदेन द्वैधीकरणमात्रं भङ्गः । तमुदाहरति—“सर्वेति” । मया विरहितेत्येतावति समुदाये मद्वियोगवती त्वया दृष्टेत्यष्टमकामावस्थाविष्टस्य पुरूरवसः पर्वतविषयं प्रश्नवाक्यं भवति । यदा तु मयेति विच्छिद्य पूर्ववाक्यसम्बन्धि क्रियते तदा त्वया विरहिता सती मया दृष्टेति पर्वतस्योत्तरवाक्यं सम्पद्यते । वर्णान्तरकल्पना परिवर्तः । यथा—‘कलिकामधुगर्हणा’ इति । अत्र यथाश्रुतवर्णपरिग्रहे—‘कलिकामधुनो गर्हणा निन्दा’ इति प्रतीयते, यदा तु ‘कलिकामधुग् अर्हणा’ इति वर्णान्तरकल्पनया छेदः, तदा पूजैव ‘कलौ कामधेनुः’ इति । पिण्डाक्षरविभागश्चूर्णम् । यथा—‘पश्य सलिलं पयोधेर्दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तम्’ इति । अत्र यथाश्रुते दुःखेन रसनीयमुद्भ्रान्तशुक्तिकोषं मत्स्याङ्कितपर्यन्तमिति प्रतीयते, यदा तु दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तमिति पिण्डचूर्णनेन च्छेदः, तदात्यन्तहर्षयुक्तेति त्यक्तशोकेति च सम्बोधनद्वयं कृष्णस्य प्रतीयते ॥

पदभेदेन यथा—

‘येन ध्वस्तमनोभवेन बलिजित्कायः पुराऽस्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥ ८१ ॥’

अत्र येन ध्वस्तमनोभवेनेत्यादेर्येन ध्वस्तमनोऽभवेनेत्यादेश्च पदभेदादुमाधवो माधव इत्यर्थद्वयं प्रतीयते । तयोश्च द्वयोरपि प्राधान्येनोपपादनादङ्गाङ्गिभावेन प्रकृताप्रकृतरूपतया चानवस्थानात्परस्परमसम्बन्धेनायं श्लेषः । पदभेदेन तु पाठे पर्यायतोऽर्थद्वयप्रतीतेरियं श्लेषोपसर्जना पदभेदपठितिः ॥

“येनेति” । ध्वस्तमनोभवेन दग्धकामेन बलिजितो नारायणस्य कायः पुरा त्रिपुरदाहव्यतिकरेऽस्त्रीकृतः शरतां नीतः, गङ्गां भागीरथीं दधे, अन्धको दैत्यविशेषस्तस्य क्षयो विनाशः, बर्हिपत्रो मयूरवाहनः कार्तिकेयः, शशिमच्चन्द्रकलाङ्कितं शिरो विश्वमोहच्छिदुरस्य हर इति स्तुत्यं च नाम, भुजङ्गा एव हारवलयानि यस्य, सर्वदा सर्वकालमिति उमाधवपक्षे । माधवपक्षे तु—येन ध्वस्तं विनाशितमन: शकटम्, अभवेन संसारबन्धरहितेन,बलिं जितवान्यः कायः स पूर्वं समुद्रमथनावसरेऽभृतगृहयालुदैत्यव्यामोहनाय स्त्रीरूपतां नीतः, अगं गोवर्धनाख्यं गां पृथिवीमेकार्णवमग्नामुद्धृतवान् । अन्धका यदुविशेषास्तेषां क्षयो निवासः । बर्हिणो मयूरस्य पत्त्रं पिच्छं तत्प्रियः ‘बर्हिपत्त्रकृतापीडम्’ इति गोपालध्याने गौतमेनाभिधानात् । शशिनं मन्थातीति क्विप् । शशिमद्राहुस्तस्य शिरोहर इति स्तुत्यं च नाम । भुजङ्गहा गरुडः स इष्टो यस्य । रवे शब्दब्रह्मणि लयो यस्य सः, तथा सर्वदो यावदभिमतप्रद इति । ननु विभिन्नरूपाणां शब्दानामुच्चारणे तन्त्रतया श्लेष एवायं न पठितिरित्यत आह—“तयोश्चेति” । श्लेषो हि श्लिष्यमाणयोः परस्परसम्बन्धे भवति । स च सम्बन्धो रूपतात्पर्यसम्बन्धलक्षणो वा अङ्गाङ्गिभावोवा उपमानोपमेयभावो वा यथाग्रे वक्ष्यते । न चायमेकोऽत्राभिमतः किन्त्वेकपरमेवोच्चारणे पदभेदेनार्थान्तरं गमयतीति पठितिरेवेयम् । एतेन समाध्युक्तिसमासोक्तिभ्यामपि भेद उक्तः । तत्किमुच्चारणतन्त्रता नास्त्येवेत्यत आह—“श्लेषोपसर्जनेति” । यत्र हि यस्य प्राधान्येन विवक्षा तत्र तेन व्यपदेशो युक्तः, अत एव विवक्षान्तरेण श्लेषव्यवहारोऽप्यत्र समर्थनीय एव ॥

अभिनयेन यथा—

‘एद्दहमेत्तत्थणिआ एद्दहमेत्तेहिं अच्छिवत्तेहिम् ।
एद्दहमेत्तावत्था एद्दहमेत्तेहिं दिअहेहिम् ॥ ८२ ॥’

[एतावन्मात्रस्तनी एतावन्मात्राभ्यामक्षिपत्राभ्याम् ।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥]

अत्र इयन्मात्रस्तनादीनां तथाभूतहस्ताभिनयैः सह पठनात्तथावि धार्थविशेषो गम्यते ॥

अपदेशोऽप्यभिनयविशेष एव । यथा—

‘इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।’

इत्यात्मानमपदिश्य ब्रूते ॥ऽ

“एद्दहमेत्तेति” । अत्र सर्वपदानामर्थान्तरसाधारणतया न तावदभिमतपरिमाणविशेषप्रतीतिरुपजायते, यावदुच्चारणसहकारिभूतप्रसारितकरद्वयकोषप्रसृतिभिदङ्गुलिप्रसारिताङ्गुलीगणनारूपाभिनयप्रतिसन्धानं न भवति । तेनाभिनयपठितिरियम्, साक्षादिव वस्तुस्वरूपबोधिका क्रियाभिमुख्यनयनादभिनय इत्युच्यते । तदिदमाह—“तथाभूतेत्यादि । अपदेशोऽपीति” । आत्मनिर्देशिका क्रियापदेशः । अस्याभिनयविशेषत्वेऽपि कान्तिकरतया पृथगुपादानम् । यावच्च स्वरूपसमुच्चारणविशेषणं नानुसन्धीयते न तावच्छ्रीप्राप्तिक्षमयोः कारणविशेषः प्रतीयत इति ॥

कान्त्या यथा—

‘यस्यारिजातं नृपतेरपश्यदवलम्बनम् ।
ययौ निर्झरसम्भोगैरपश्यदबलं वनम् ॥ ८३ ॥’

अत्रावलम्बनमबलं वनमिति पदे पदद्वये वा द्वितीयचतुर्थस्थानयोर्यौ वकारबकारौ तयोरन्तःस्थपवर्गाभ्यां पवर्गान्तःस्थाभ्यां च कान्तिमति पाठेऽर्थभेदो जायते ॥

“यस्यारिजातमिति” । कान्तिश्छाया सा अप्रतिहतरूपा पदवद्वर्णेषु न सम्भवतीति श्रुतिरूपा गृह्यते । तथाहि । अवलम्बनमित्यत्र द्वितीयचतुर्थस्थानस्थयोर्वकारबकारयोः क्रमेणान्तःस्थपवर्गभावानुसन्धानेऽवलम्बनमित्येकपदतायां त्राणहेतुमपश्यदित्यर्थः प्रतीयते । यदा तु द्वितीयेऽबलं वनमित्यत्र तयोरेव पवर्गान्तःस्थभावानुसन्धानं भवति तदा बलं वनमिति च्छेदेन पदद्वयसम्पत्तौ बलरहितं सद्वनमरण्यं ययावित्यर्थान्तरप्रतीतिरुपजायते । तदिदमुक्तम्—“पदे पदद्वये वेति” । अपश्यत् शयनभोजनशून्यम् । शयनं शीः, अदनं अत्, निर्झरसम्भोगैः निर्झरजलमात्रोपभोगैरप्यपगतं अत एव बलरहितम् । अत्र च यमकेन संसृष्टिरस्य बोद्धव्या । आवृत्तिमादाय यमकमन्यथा भविष्यति ॥

अपरे पुनः पठितिमन्यथा कथयन्ति—

पदपादार्धभाषाणामन्यथाकरणेन यः ।
पाठः पूर्वोक्तसूक्तस्य पठितिं तां प्रचक्षते ॥ ५७ ॥

“अपरे पुनरिति” । अन्यथेत्यतः परमपि शब्दोऽध्याहार्यः । पादाद्यन्यथाकरणेनापि हि प्रकृतमुच्चारणमेव विशिष्यते । यदाह—“पूर्वोक्तसूक्तस्येति” । अत एव श्लोकान्यथाकरणेन पठितिर्न सम्भवति । तेन प्रागुक्तभेदैः सह द्वादशप्रकारा पठितिरिति तात्पर्यम् । यद्यपि च पादाद्यन्यथाकरणमपि पदभेदप्रकार एव तथापि न तत्र पूर्वोक्तत्यागः, इह तु तत्परित्यागेन पदान्तरकल्पनमित्येतावान्विशेषः ॥

तत्र पदान्यथाकरणं द्विधा—प्रकृतितः, विभक्तितश्च ।

तत्र प्रकृतितो यथा—

‘असकलहसितत्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाज्ज्ञातकर्णोत्पलानि ।
पिबतु मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः ॥ ८४ ॥’

अत्र त्वयीत्यस्य स्थाने मयीति यदा पठ्यते, तदैतत्प्रार्थनावाक्यमप्यनुमतिवाक्यं भवति ॥

विभक्तितो यथा—

‘सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम् ॥ ८५ ॥’

अत्र यदा पाण्डुसुतः सुयोधनमित्यस्य स्थाने ‘पाण्डुसुतं सुयोधनम्’ इति पठ्यते, तदैतदमङ्गलार्थमपि सुयोधने मङ्गलार्थं भवति ॥

तत्र पदं विभत्त्क्यन्तं विशेषणविशेष्यभेदेन द्विधा क्रियते इत्याह—“पदान्यथाकरणं द्विधेति” ॥

पादान्यथाकरणेन यथा—

‘एकान्ते विजने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ॥ ८६ ॥’

अत्र तृतीयपादस्थाने ‘तन्वङ्गी यदि लभ्येत’ इति पाठो भवति, तदैतत्परीक्षौपयिकमपि कामौपयिकं भवति ॥

“एकान्त इति” । साहसे प्रच्छन्नाभिसारलक्षणे प्रकाशात्प्रच्छन्नो गरीयानिति न्यायात् । दिव्या स्वभोगसोदरा क्रियावल्लक्षणा ॥

अर्धान्यथाकरणेन यथा—

‘तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्यते सकलधामनिधौ तु तस्मिन्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ८७ ॥’

अत्र यदा मध्यमपादयोः स्थाने ‘यावन्न ताः किमपि गौरितरा हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिः’ इति पठ्यते, तदैतद्वीरार्थोक्तिरूपमपि शृङ्गारोक्तिरूपं सम्पद्यते ॥

“गौरितरेति” । ‘घरूप—‘इत्यादिना पूर्वपदह्रस्वः ॥

पादत्रयस्य चान्यथाकरणेन यथा—

‘त्यागेन युक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति ।
न त्यागिनां दुष्करमस्ति किञ्चित्त्यागो हि सर्वव्यसनानि हन्ति ॥ ८८ ॥’

अत्र तुरीयपादमेवोपादाय पादत्रयस्य चान्यथाकरणेन वक्ष्यमाणः पाठो भवति । तदैतत्त्यागप्रशंसार्थमपि त्यागनिन्दार्थं जायते । यथा—

‘त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि सम्प्रतीदम् ।
जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः ॥ ८९ ॥’

एतेषां च पदाद्यन्यथाकरणानां परस्परसङ्करोऽपि भवतीत्यावेदयति ॥

भाषान्यथाकरणेन यथा—

‘किं तादेण नरेन्दसेहरसिहालीढग्गपादेण मे किं वा मे ससुरेण वासवसहासीहासणद्धासिणा ।
ते देसा गिरिणो अ ते वणमही स ज्जेअ मे वल्लहा कोसल्लातणअस्स जत्थ चलने वन्दामि णन्दामि अ ॥ ९० ॥’

अत्र यदि भाषान्तरेण पठ्यते तदैतच्छौरसेनीभाषया सीतावाक्यं संस्कृतभाषायां सुमन्त्रेण दशरथाय निवेदितम् । तद्यथा—

‘किं तातेन नरेन्द्रशेखरशिखालीढाग्रपादेन मे किं वा मे श्वशुरेण वासवसभासिंहासनाध्यासिना ।
ते देशा गिरयश्च ते वनमही सा चैव मे वल्लभा कौसल्यातनयस्य यत्र चरणौ वन्दामि नन्दामि च ॥ ९१ ॥’

सेयमेवम्प्रकारा पठितिः ॥

भाषाभेदेन कथं स्त्रीपुंसवचनता गम्यत इत्यत आह—तदैतच्छौरसेनीति । विभागन्यूनतामाशङ्क्य यथोक्तप्रकारेण समाधानमभिसन्धायाह—“सेयमेवम्प्रकार पठितिरिति” ॥

विभिन्नार्थैकरूपाया या वृत्तिर्वर्णसंहतेः ।
अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते ॥ ५८ ॥

अथावृत्त्युपजीविनोऽलङ्कारा लक्षयितव्याः । तेषां समग्रकाव्यपर्यन्तावृत्तिसमाश्रयणाद्यमकं प्रधानमित्याशयेनाह—“विभिन्नेति” । विभिन्नार्थेत्यर्थाभेदव्यतिरेकपरम् । तेन द्वयोरेकस्य वा निरर्थकत्वेऽपि यमकमुपगृहीतं भवति । एवमपि ‘सरो रसः’ इत्यादावतिप्रसङ्ग इत्यत उक्तम्—“एकरूपेति” । रूपमानुपूर्वी, विभिन्नार्था चासावेकरूपा चेति विग्रहः । विविधधवेत्यादावेकवर्णावृत्तावप्यावृत्तिसमुदाय एव यमकक्रममुल्लिखतीत्यभिसन्धाय संहतेरित्युक्तम् । विभिन्नार्थैकरूपाया वर्णसंहतेर्या आवृत्तिः सा यमकमिति व्यवहितेनान्वयः ॥

आवृत्तिर्द्विधा—अनावृत्ता व्यवहिताव्यवहिता चेति ।

तदव्यपतयमकं व्यपेतयमकं तथा ।
स्थानास्थानविभागाभ्यां पादभेदाच्च भिद्यते ॥ ५९ ॥

यत्र पादादिमध्यान्ताः स्थानं तेषूपकल्प्यते ।
यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः ॥ ६० ॥

सामान्यतो विभजते—“अव्यपेतेति” । व्यवायो व्यवधानम् । तदेतदुभयमपि स्थानादिभेदेन त्रिधा भवतीति पूर्वोक्तानुवादपूर्वकमवान्तरविभागमाह—“तदिति” । पाद आदिमध्यान्ता अर्थादेतेषु विशेषतोऽनुल्लिखनादस्थानयमकमुक्तं भवति । एतदपि द्विधा ॥

चतुस्त्रिव्द्येकपादेषु यमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्यन्ताश्च सर्वतः ॥ ६१ ॥

चतुरादिपादविकल्पेन विषयतो भिद्यत इत्याह—“चतुस्त्रीति” । आदिश्च मध्यश्चान्तश्चेति आदिमध्यान्तास्त्रयः शुद्धाः । मध्यान्तौ मध्यादी आद्यन्तौ आदिमध्यान्ताश्चेति मिलित्वा चत्वारः सङ्कीर्णाः । सर्वत इति सार्वविभक्तिकस्तसिः ॥

अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश्चैव दर्श्यन्ते तत्र केचन ॥ ६२ ॥

एवं पादविकल्पानामाद्यादिविकल्पानां च परस्परयोजनेऽन्येऽपि बहवः प्रकारा ग्रन्थगौरवकारिणो भवन्तीत्याह—“अत्यन्तेति” । न च कठोरनीरसत्वादवश्यवक्तव्या इत्याह—“दुष्करा इति” । शिष्यव्युत्पत्तये तु कतिपये दर्शनीया इत्याह—“तत्र केचनेति” ॥

तत्र चतुष्पादयमकेषु अव्यपेतमादियमकं यथा—

‘राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ९२ ॥’

राजीवराजी पद्मपङ्क्तिस्तद्वशा लोलाः सस्पृहा भृङ्गा यत्र तम् । यतस्ततिभिस्तरूणां पङ्क्तिभिरुष्णं धर्मं मुष्णन्तमपहरन्तम् । कान्तो मनोज्ञोऽलकान्तश्चूर्णकुन्तलच्छटा यासां ताः । यस्माद्रक्षोभी राक्षसैरक्षोभितमधर्षितम् । अत्र प्रथमे पादे पूर्वं सार्थकमपरमनर्थकम् । द्वितीयादिषु द्वयमप्यनर्थकम् । एवमन्यत्रापि यथायथमवगन्तव्यम् ॥

तदेव मध्ययमकं यथा—

‘दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ९३ ॥’

आकरिभिः प्रशस्ताकरयुक्तैः करिभिः परिणतिक्रीडासक्तैः । विविधेभ्यः कामेभ्यो हिताः । महितं पूजितम् । जवना वेगवतीः ॥

तदेवमन्त्ययमकं यथा—

‘व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणवताम भितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ९४ ॥’

अनीरशनैर्न निर्गता दूरीभूता रशनाः क्षुद्रघण्टिका येभ्यस्तैः काञ्चीगुणयुक्तैः । तेन स्थपुटकर्कशरत्नादिरचनया सिन्धुव्यथापोषः । शनैर्मन्दम् । घनैर्मांसलैः । अभितो विततं सर्वतो विस्तीर्णम् । फणवतां कुलैस्ततं व्याप्तम् । लवङ्गबकुलमालतीसुरभिशीतलतया फणभृत्प्रिंयत्वम् ॥

आदिमध्ययमकं यथा—

‘घनाघनाभस्य महीमहीयसः सुरासुराणां दयितस्य तस्य सा ।
धराधराकारगृहा गृहार्थिनो बभूव भूमेर्नगरी गरीयसीः ॥ ९५ ॥’

घनाघनो मेघस्तदाभः श्यामः । मही पृथिवी तस्यां महीयान् पूज्यः । धराधरः पर्वतस्तदाकारगृहाः ॥

आद्यन्तयमकं यथा—

‘द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनद्युतिरोचितं चितम् ।
समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ९६ ॥’

वह्निसमागतं सद् द्रुतं विलीनमत एव द्रुतं शीघ्रं महीं गतं पृथिव्यां विस्तीर्य पतितमहीनया द्युत्या रोचितं शोभितम् । चितं निबिडेन सन्निवेशेन स्थापितम् । समन्तात्सर्वतः समं सलक्ष्मीकमस्थपुटं वा । परैः शत्रुभिः परैः श्रेष्ठैरनिराकृतं यदासीत्तदेव वह्निना हेममयं पुरमपगोपुरमपगतद्वारं महीं गतं च कृतमिति सम्बन्धः ॥

मध्यान्तयमकं यथा—

‘उदयि ते दयिते जघनं घनं स्तनक्ती नवतीर्थतनुस्तनुः ।
सुमनसामनसा सदृशौ दृशौ द्युकुरुमे कुरु मेऽभिमुखं मुखम् ॥ ९७ ॥’

उदय उद्भवो विस्तारवत्त्वरूपस्तद्युक्तमुदयि । घनं मांसलम् । नवेन तीर्थेन रजसा तनूकृता । ‘स्त्रीरजःशास्त्रयोस्तीर्थम्ऽ । सुमनसां कुसुमानामनः शकटं तेन सदृशौ । ‘सुमनसां मनसाम्’ इति पाठे सुमनसः सहृदयास्तन्मनसां सदृशौ संवादिन्यौ । द्यौश्च कुश्च द्युकू द्यावापृथिव्यौ तयोरुमा लवणाकरो लावण्यविश्रान्तिस्थानत्वात् ॥

आदिमध्यान्तयमकं यथा—

‘सीमासी मानभूमिः फणिबलवलनोद्भाविराजीविराजी हारी हारीतवद्भिः परिसरसरणावस्तमालैस्तमालैः ।
देवादेवाप्तरक्षःकृतभव भवतोऽग्रे न दीनो नदीनो मुक्तामुक्ताच्छरत्नः सितरुचिरुचिरोल्लासमुद्रः समुद्रः ॥ ९८ ॥’

सीमा मर्यादा तस्यामासनशीलः । मानं परिमाणातिशयः मानः पूजा वा, तद्भूमिः । फणिबलं भुजङ्गसमुदायस्तस्य यद्वलनं तेनोद्भाविनी या राजी रेखा तया विराजनशीलः । हारीताः पक्षिविशेषास्तद्युक्तैः । परिसरसरणिस्तीरमार्गस्तत्रास्तमालैः क्षिप्तमालासन्निवेशैः । खण्डरूपतामापन्नैरिति यावत् । ईदृशैस्तमालैः हारी मनोहर इति सम्बन्धः । देवादेवाः देवासुरास्तैरभृतलाभेनान्तरवस्थानेन चाप्ता रक्षा यस्मात्स तथा कृतभवः सम्पादितोद्भवः । नदीनामिनः स्वामी समुद्रो भवतोऽग्रे न दीनः? काक्वा दीन एव । मुक्ताभिरमुक्तान्यच्छानि रत्नानि यत्र स तथा । सितरुचिश्चन्द्रस्तेन रुचिरा मनोहरा उल्लासमुद्रा वृद्धिकाष्ठा यस्य । तदेतेषामुदाहरणानां चतुर्ष्वपि पादेषु यथोक्तं यमकमस्तीति चतुष्पादयमकप्रपञ्जोऽयम् ॥

त्रिपादयमकेष्वव्यपेतमादियमकं यथा—

‘विशदा विशदामत्तसारसे सारसे जले ।
कुरुते कुरुते नेयं हंसी मामन्तकामिषम् ॥ ९९ ॥’

नास्य चतुरः प्रयोग इति शेषभेदा नोदाह्रियन्ते ॥

एवं त्रिपादयमकप्रपञ्चोऽपि भवतीत्याह—त्रिपादयमकेष्विति । विशदा धवला । विशन्त आमत्ताः सारसा यत्र तस्मिन् । सारसं सरःसम्बन्धि । मन्मथोन्माथदायितया कुत्सितं रुतं कुरुतम् । मध्यान्तादीनि त्रिपादयमकानि किमिति नोदाहृतानीत्यत आह—“नास्येति” ॥

द्विपादयमकेष्वव्यपेतमादियमकं यथा—

‘करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
मन्मनो मन्मनोऽप्येष मत्तकोकिलनिःस्वनः ॥ १०० ॥’

उत्कलिका उत्कण्ठा तदुत्तरं तटं कूलम् । मन्मनोऽव्यक्तमधुरः । मन्मनो मदीयं मनः ॥

तदेव मध्ययमकं यथा—

‘तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ॥ १०१ ॥’

अलिनि यो मलिनिमा कज्जलाभत्वं स माधवयोषितां यादवस्त्रीणां विलोचनतारकास्तुलयति स्मेति सम्बन्धः ॥

अन्तयमकं यथा—

‘खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतूकृतोच्चैर्वानरं नरम् ॥ १०२ ॥’

एवमादिमध्यान्यपि द्रष्टव्यानि । एकपादयमकेष्वव्यपेतमाद्यन्तयोरनुल्लेखीति नोदाह्रियते ॥

“खण्डितेति” । केतूकृतो ध्वजतां नीतः । उच्चैर्वानरो हनूमान् । नरोऽर्जुनः ॥ “आद्यन्तयोरनुल्लेखीति” । महाकविप्रयोगेषु विशेषशोभाकरतया प्रसिद्धेरभावोऽनुल्लेखो न त्वसम्भव एव । एवं मध्ययमकं त्वित्यादौ बोद्धव्यम् ॥

मध्ययमकं तु चतुर्थपादं एवोल्लिखति । यथा—

‘विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततीः सरसां दलत्कुवलयं वलयं मरुदाववौ ॥ १०३ ॥’

आमर्शनं प्रोञ्छनम् । दलत्कुवलयमिति क्रियाविशेषणम् । तरङ्गाणामितस्ततो चलनेन प्रौढतरकुवलयकलिकास्फुटनजातिः ॥

एवमावृत्त्याधिक्येऽप्यव्यपेतमुदाहार्यम् । यथा—

‘वियद्वियद्वृष्टिपरम्परं परं घनाघनाली रसितासिता सिता ।
सरःसरस्यः स्वरसारसारसा सभा सभा रात्रिरतारतारता ॥ १०४ ॥’

आवृत्तिः सकृदावर्तनेनैव निर्वहति तत्किमसकृदावृत्तौ यमकं न भवतीत्यत आह—“एवमिति” । आवृत्तिसामान्यमधिकमनधिकं वा द्वयमप्यावृत्तिपदेनाभिमतमित्यर्थः । वियदाकाशम् । वियती अपगच्छन्ती वृष्टिपरम्परा यस्मात्तत्तथा । परमुत्कृष्टरमणीयम् । घनाघनाली मेघपङिक्तः । रसिते स्तनिते आसितावलम्बिता । सिता शुभ्रा । सरांसि च सरस्यश्च सरःसरस्यः । स्वरसारास्तत्कालोन्मिषितकूजितकान्तिप्रधानाः सारसाः पक्षिणो यत्र तास्तथाभूताः । सभा गृहरूपा जलसमुदायो वा । सभाः सदीप्तिः । ताराणां तारता निर्मलताप्रकर्षः किञ्चिद्धनरोधसद्भावादीषतारता यस्यां सा तथा ॥

आवृत्त्येकरूपतायामपि । तत्रादियमकं यथा—

‘याम यामत्रयाधीनायामया मरणं निशा ।
यामयाम धियास्वर्त्याया मया मथितैव सा ॥ १०५ ॥’

“आवृत्तीति” । यज्जातीयमाद्यपादे पदमावृत्तं तज्जातीयमेव द्वितीयादिपादेष्वपि यथास्थानमावर्तत इति प्रकारान्तरमप्यावृत्तिपदेनैव सङ्गृहीतमित्यर्थः । यामत्रयाधीनायामया प्रहरत्रयविश्रान्तियावद्दीर्घताप्रकारया निशा रात्र्या मरणं यामेति वियोगखिन्नस्य प्रार्थना । किमित्येवममङ्गलमाशास्यत इत्याह—“यामिति” । धिया वुध्द्या यामयां जीवितसर्वस्वाभिमानगोचरतामनैषं सा अनया कल्पकोटिशतायमानयामया रजन्या असूनां प्राणानामार्तिः पीडा तया द्वारभूतया प्रायेण मथितैव भविष्यतीति सुकुमारतरकान्ताजीवितानध्यवसायोक्तिरियम् । अत्र यामेत्येव पदं पादचतुष्टयेऽप्यावृत्तम् । एवमुत्तरत्र ॥

तथैव मध्ययमकं यथा—

‘स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् ।
‘नमायते’ कअमायतेयतेऽप्यभूत्सुखाय तेऽयते क्षयम् ॥ १०६ ॥’

आयतिरुत्तरकालविशुद्धिः । यतेन्द्रियो विजितेन्द्रियग्रामः । एवम्भूतो भवान्यतेर्न हीयते । यतितुल्य एव भवतीत्यर्थः । अपिशब्दो भिन्नक्रमः । अमायता मायाशून्यत्वं सापि तव इयते परिच्छेत्तुमशक्याय क्षयं विनाशमयतेऽगच्छते सुखायाभूत् ॥

तदेवान्तयमकं यथा—

‘भवादृशा नाथ न जानते नते रसं विरुद्धे खलु सन्नतेनते ।
य एव दीनाः शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते ॥ १०७ ॥’

तदेतत्सर्वमप्यवहितावृत्तेरव्यपेतयमकं भवति ॥

नतेः कुपितकामिनीप्रसादरूपाया रसो विप्रलम्भपृष्ठभावी मधुरतरः सम्भोगः किमिति तादृशा रसं न जानते । यस्मात् सन्नता अवसादयोगित्वमिनता प्रभुता, एते द्वे विरुद्धे नैकत्र सम्भवतः । नहि प्रभवो नमन्ति । एतदेव व्यतिरेकेण द्रढयति—“य एवेति” । ये दीनास्त एव नतेन शिरसा लक्षितास्तेन हेतुना दैन्यरसेनालमत्यन्तं चरन्ति व्यवहरन्तीति । अव्यपेतपदार्थं व्याचष्टे—“तदेतत्सर्वमिति” ॥

अथ चतुर्षु पादेषु व्यपेतमादियमकं यथा—

‘काञ्चिप्रतोलीमनु कामिनीं तां काञ्चिस्रवन्तीवनमातरिश्वा ।
काञ्चिप्रभृत्याभरणोज्झितानां काञ्चिल्लुनीते सुरतश्रमार्तिम् ॥ १०८ ॥’

क्रमप्राप्तं व्यपेतमुदाहर्तव्यमित्याह—“अथेति” । काञ्चिर्नगरी तस्याः प्रतोली राजरथ्या तामनु लक्षीकृत्य । केन पानीयेनाञ्चनशीला या स्रवन्ती नदी तद्वनमातरिश्वा वायुः । काञ्चिप्रभृतीनि मेखलाप्रमुखानि । काञ्चित्सर्वाङ्गीणालसभावसमर्पिकामत एव मेखलाप्रभृतिभूषणत्यागः । अत्र प्रतिपादं काञ्चीकाञ्चीत्यादि नैरन्तर्येणावर्तनेन व्यपेतम्, सान्तरत्वेन पुनरादिमध्ययमकमेव स्यादिति पादभेदेनैवास्य सम्भवः ॥

तदेव मध्ययमकं यथा—

‘मदनदारुण उत्थित उच्छिखो मधुमदारुणहूणमुखच्छविः ।
तरुणिदारुण एष दिशः समं मम हृदारुणदाम्रवणानलः ॥ १०९ ॥’

मदन एव दारु काष्ठं तत उत्थितः । शिखा मञ्जरीच्छटा ज्वाला च । स्वभावताम्रमेव मधुमदेन यव्द्दिगुणमरुणं हूणमुखं तच्छविर्दारुणो भयङ्करो मम हृदा समं दिशोऽरुणद्रुद्धवान् । आम्रवणमेव तापकारितयानलो वह्निः । अत्र यद्यपि प्रतिपादमपि व्यवायेन मध्ययमकं सम्भवति, तथापि न तथोल्लेखीति पूर्वापरसदृशमेवोदाहृतम् ॥

अन्तयमकं यथा—

‘तव प्रिया सच्चरिताप्रमत्त या विभूषणं धार्यमिहांशुमत्तया ।
रतोत्सवामोदविशेषमत्या न मे फलं किञ्चन कान्तिमत्तया ॥ ११० ॥’

“सच्चरिताप्रमत्तेति” । सोत्प्राप्तं सम्बोधनद्वयम् । या तव प्रिया रतोत्सवामोदविशेषेण रतिकेलिहर्षप्रकर्षेण मत्ता तयेदमंशुमन्मणिकिरणकरम्बितं विभूषणं धार्यम् । अर्हे कृत्यः । त्वया कि मिति न धार्यमित्यत आह—न मे भूषणसम्पाद्यया कान्त्या किञ्चन फलम् । ‘कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन’ इति न्यायात् ॥

आदिमध्ययमकं यथा—

‘घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना ।
जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ॥ १११ ॥’

अत्रापि सान्तरनिरन्तरप्रसङ्गे पादभेद एव सङ्करः । सङ्कीर्णव्य पेतानि तु प्रतिपादमेव सम्भवन्तीत्युदाहरति—“आदिमध्येति” । घना गिरीन्द्रा माल्यवन्तमारभ्य सुवेलं यावद्गिरिपरम्परा । वनजं पद्मम् । जनानां मता सम्मता । तरुमृगः शाखामृगो हनूमान् । अत्र घनेत्यादिशब्दभागः पादचतुष्टयेऽपि गिरीन्द्रेत्याद्यनावृत्तव्यवहित एवादिमध्ययोरावर्तत इति ॥

आद्यन्तयमकं यथा—

‘विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ११२ ॥’

गाः कूजितानि कदम्बसौरभानीतवर्षर्तुपयोदाः कलयन्ति कलरूपतां नयन्ति । कूजितक्रियान्तरालकालो द्रुतमध्यविलम्बितात्मानेको लयः । अभ्रं मेघः । नीपः कदम्बः । कदम्बवनधूननेन सर्वतः सौरभसञ्चारोपपत्तिः । अत्र विहगा इत्यादिकं प्रतिपादमाद्यन्तयोरनावृत्तवर्णषट्कव्यवहितमेवावर्तते ॥

मध्यान्तयमकं यथा—

‘मितमवददुदारं तां हनूमान्मुदारं रघुवृषभसकाशं देवि यामि प्रकाशम् ।
तव विदितविषादो दृष्टकृत्स्नामिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम् ॥ ११३ ॥’

मितमल्पाक्षरमरमत्यर्थमुदारमल्पाक्षरव्यञ्जकं मुदा हर्षेण रघुवृषभो रामस्तस्य सकाशो वासभूमिस्तया पुरस्कृतः । आमिषादा राक्षसाः । अत्र दारमित्यादि प्रतिपादं मध्यान्तयोरेवानावृत्तवर्णपञ्चकव्यपेतमावर्तते ॥

आदिमध्यान्तयमकं यथा—

‘समं स सैन्येन समन्ततः समं पुरन्दरश्रीः पुरमुच्चगोपुरम् ।
मदालसां तां प्रमदां सुसम्मदां ययौ निधायाक्षययौवना ययौ ॥ ११४ ॥’

समं सह । समं सश्रीकम् । सम्मदो हर्षः । ययुरश्वमेधीयोऽश्वः । अत्र प्रतिपादं सममित्यादिकमादिमध्यान्तेषु यथोक्तानावृत्तवर्णव्यवहितमावर्तन्ते ॥

त्रिपादयमकेषु व्यपेतमादियमकं यथा—

‘करेण ते रणेष्व‘च्छान्त’ खन्तकरेण द्विषतां हताः ।
करेणवः क्षरद्रक्ता भान्ति सन्ध्याघना इव ॥ ११५ ॥’

अस्यापि नातिप्रचुरः प्रयोग इति विशेषभेदा नोदाह्रियन्ते ॥

द्विषतां शत्रूणामन्तकरेण विनाशकारिणा । करेण हस्तेन । करेणवो हस्तिनः । एवं द्वितीयादिपादगोचरं मध्यादियमकं च किमिति नोदाहियत इत्यत आह—“अस्यापीतिष” ॥

द्विपादयमकेषु व्यपेतमादियमकं यथा—

‘मुदा रमणमन्वीतमुदारमणिभूषणाः ।
मदभ्रमदृशः कर्तुमदभ्रजघनाः क्षमाः ॥ ११६ ॥’

मध्ययमकं पुनरनुल्लेखीति परिह्रियते ॥

रमणं वल्लभं मुदा हर्षेणान्वीतं सङ्गतं कर्तुं क्षमा इत्यन्वयः । उदारमुत्कृष्टम् । मदेन भ्रमन्ती श्यामान्ता । अदभ्रं विपुलम् । अत्र यद्यपि चतुर्षु पादेषु यमकमस्ति, तथापि द्वयोर्द्वयोरेवावृत्तिः पर्यवस्यतीत्युदाहरणद्वयमिदं द्रष्टव्यम् । एवं प्रथमतृतीययोः प्रथमचतुर्थयोर्द्वितीयतृतीययोर्द्वितीयचतुर्थयोश्च व्यपेतमादियमकमवसेयम् । अनुल्लेखो व्याख्यात एव ॥

अन्तयमकं यथा—

‘इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभवां च मरीचयः ॥ ११७ ॥’

कलभाः करिशावकाः । रवः शब्दः । कलो मधुराव्यक्तः । भैरवो भयङ्करः । अनुवनमिति वीप्सायामव्ययीभावः । चमरी चमरगवी । चयः समूहः । मरीचयः किरणाः । अत्रापि पूर्ववदेव द्विपादयमकं व्याख्येयमिति ॥

एकपादयमकमिह शुद्धं न सम्भवति, तस्य स्थाने द्विपादयमकमेवोदाहियते । तदादियमकं यथा—

‘मधुरेणदृशां मानं मधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ ११८ ॥’

इहापि मध्ययमकमनुल्लेखीति परिह्नियते ।

“एकपादयमकमिति” । नैरन्तर्येणावृत्तावव्यपेतत्वम् । सान्तरत्वे त्वादिमध्यादिभावप्रसङ्ग इति शुद्धं न भवति तत्किमनुदाहरणीयमेवैतदित आह—“तस्येति” । आवृत्तिरेकत्रैव सम्भवतीत्येकपादगोचरता । सा तु प्रतियोगितया द्वितीयमपेक्षत इति पादान्तरस्वीकार इति कथञ्चित्प्रकृतिगणनासमाधानमेतत् । मधुश्चैत्रः । अनेन पूर्वावयवेन वसन्तो लक्ष्यते । एणदृशां हरिणलोचनानाम् । मधुरेण मधुरास्वादेन । सहकारोद्गमेनैवेत्येवकारेणासतामतीव तावद्विख्यातप्रभावातिशयाः पिकपञ्चमादयः । सहकारप्रथमोद्भेदमात्रेणैव तु मानिनीमानग्रहवार्ता निरवशेषितेत्युद्दीपनताप्रकर्षो ध्वन्यते ॥

अन्तयमकं यथा—

‘यस्याहुरतिगम्भीरगलदप्रतिमङ्गलम् ।
स वः करोतु निःसङ्गमुदयं प्रति मङ्गलम् ॥ ११९ ॥’

गम्भीरो मांसलः । गलः कण्ठः । मङ्गलं कल्याणम् । निःसङ्गमप्रत्यूहम् । उदयः संयत्तं प्रति ॥

एवमावृत्त्याधिक्येऽपि यथा—

‘अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मरभासितम् ।
न समदाः प्रमदा हतसम्मदाः पुरहितं विहितं न समीहितम् १२०’

अवसितं समाप्तम् । मुदा प्रसितमनुबद्धम् । विलसितं ह्रसितं भ्रष्टम् । स्मरेण भासितं शोभितम् । सम्मदो हर्षः । अत्र प्रतिपादं सितं सितमित्यादि द्वाभ्यामेव यमकं निर्व्यूढम् । तृतीयं तु सितमित्यादिकमाधिक्यमेव प्रयोजयति, तच्च सर्वमनावृत्ति व्यवहितमिति व्यपेतयमकमेव भवति ॥

आवृत्त्येकरूपतायामपि । तत्रादिमध्ययमकं यथा—

‘सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरातम् ।
सारसानुकृतसारसकाञ्चि सा रसायनमसारमवैति ॥ १२१ ॥’

सारयन्तमात्मसमीपमानयन्तम् । उरसा घनतरस्तनाढ्येन । सारभूतं जीवितसर्वस्वतामापन्नम् । उरुर्महान् । सार उत्कर्षः । अनुकृतसारसा सारसकूजितसंवादिनी । सारसा सशब्दा काञ्चिर्मेखला यस्याः सा तथा । सारसानुकृतेति ‘जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या’ इति निष्ठायाः परनिपातः । रसायनं सर्वोपद्रवहरं भेषजम् ॥

मध्यान्तयमकं यथा—

‘लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन ।
व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ १२२ ॥’

आद्यन्तयमकमादिमध्यान्तयमकं चेहास्थानयमकत्वप्रसङ्गान्न सङ्गच्छते । आदिमध्यान्तयमकानि तु प्रथममेवोदाहृतानि ॥

शुचिना कान्तेन । मृदुना कोमलेन । उदितं भाषितम् । लघुना तरलेन । गुरुणा स्तनजघनभारालसेन । व्याजृम्भितेन प्रकटीभूतविस्तारप्रकर्षेण । अत्र तेन तेनेति मध्यान्तयोरावृत्तम् । इहेत्यावृत्त्येकरूपतायामेकस्यादावितरस्यान्ते वर्तमानमेकरूपसन्धिपातित्वादस्थानयमकमेव भवति । एवसादिमध्यान्तयमकमपि नात्र सङ्गच्छते तर्हि सन्धिविनाकृतमुदाह्रियतामित्यत आह—“आदिमध्यान्तेति” ॥

आवृत्त्येकरूपतायामावृत्त्याधिक्ये च मध्ययमकं यथा—

‘सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः ।
न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः १२३’

तदेतत्सर्वमपि व्यवहितावृत्तेर्व्यपेतयमकं भवति ॥

“आवृत्त्याधिक्य इति” । एकैकस्मिन्पादे तृतीयाद्यावृत्त्या पूर्वमाधिक्यं पादान्तरावृत्तिसरूपतया सारूप्यं चोक्तम् । इह तु सरूपावृत्त्यैवाधिक्यं निरूप्यत इति सङ्करप्रकारोपलक्षणमिदम् । सभासु जनसमवायेषु । असुराहतैर्मदिरापानपराभूतैः । महीसुराणां ब्राह्मणानाम् । वसुना तेजसा राजितैः शोभितैः । भासुरा दीप्ताः । सुरान् देवान् । न न यान्ति निषेधद्वयेन यान्त्येवेत्यर्थः । रागोऽनुरागस्तत्प्रघान आत्मा यासां तासु प्रजासु राशितां पुञ्जतां गताः । व्यपेतमुपसंहरति—तदेतदिति ॥

नादौ न मध्ये नान्ते यत्सन्धौ वा यत्प्रकाशते ।
अव्यपेतव्यपेतं तदस्थानयमकं विदुः ॥ ६३ ॥

पादे श्लोके च तत्प्रायः पादसन्धौ च बध्यते ।
स्वभेदे चान्यभेदे च स्थूलं सूक्ष्मं च सूरिभिः ॥ ६४ ॥

क्रमप्राप्तमस्थानयमकं लक्षयति—“नादाविति” । आदावेवेत्यादिनियमेन स्थानयमकमुक्तं तदभावे त्वस्थानयमकं भवति । तत्किमाद्यादिस्थानमिदं नाश्रयत एव । नेत्याह—“सन्धौ वेति” । सन्धौ पादसन्दंशे एकस्यादिपरस्यान्त इति । नेदं स्थानयमकं तद्धि प्रतिपादं स्थाननियमेन निरूप्यत इत्युक्तप्रायम् । “अव्यपेत-व्यपेतमिति” । द्वाभ्यामप्यन्वीयते । तत्प्रथमं पादश्लोकतया द्विविधमित्याह—“पादे श्लोके चेति” । पादसन्धौ च यद्बध्यते तत्स्वभेदे चान्यभेदे च स्थूलं सूक्ष्मं च भवतीत्यर्थः । एतद्यथास्थानं विवरिष्यते—स्थूलं सूक्ष्मं चेति पूर्वेणापि सम्बध्यते । बहुवर्णावृत्ति स्थूलम्, अबहुवर्णावृत्ति सूक्ष्मम् ॥

अत्र पादे स्थूलाव्यपेतं यथा—

‘वीनां वृन्दं चैतत्कूटे समरुति सुतरुणि समरुति सुतरुणि ।
चित्तं वा तेन क्रोडेऽस्मिन्सुरमणिगुणरुचि सुरमणि गुणरुचि १२४ ॥’

अत्र स्थूलेनैवावृत्तिद्वयेन श्लोकपादयोर्व्याप्तत्वादादिमध्यान्तता न सम्भवतीत्यस्थानयमकमिदं स्थूलाव्यपेतमुच्यते ॥

वीनां पक्षिणां वृन्दम् । कूटे श्रृङ्गे । समरुति मारुतसहिते । सुतरुणि शोभनवृक्षे । कूटविशेषणद्वयमिदम् । समरुति समानकूजिते । सुतरुणीति प्रियासम्बोधनम् । वाशब्द इवार्थे । सुरमणीनां देवमणीनां गुणेन दाम्ना रोचते शोभत इति क्विप् । तस्मिन्क्रोडे । सुरमणीति सम्बोधनम् । गुणेषु रुचिर्यस्य तद्गुणरुचि चित्तम् । अत्र समरुति सुतरुणि सुरमणि गुणरुचीति द्वितीयचतुर्थपादयोर्वर्णाष्टकावृत्तिद्वयमिति पादव्यापकमव्यपेतमुच्यते ॥

पाद एव सूक्ष्माव्यपेतं यथा—

‘स्वस्थः शैले पश्यास्तेऽसौ रुरुरुरुरुतिरतितनुतनु मतिमति ।
लोको यद्वद्दैत्यानीकं गुरु गुरुमयि मयि तरितरि सतिसति ॥ १२५ ॥’

अत्र पुनः सूक्ष्मेणावृत्त्यष्टकेन श्लोकपादौ व्याप्ताविति अस्थानयमकमिदं सूक्ष्माव्यपेतमुच्यते ॥

रुरुर्बहुश्रृङ्गो मृगः । उरुरतिरुपचितप्रीतिः अतितनुरतिकृशा तनुर्यस्या इति सम्बोधनह्रस्वः । मतिमति मतिरुचितज्ञानं तद्वतीत्यपि सम्बोधनम् । पश्येति वाक्यार्थकर्मकम् । गुरु विपुलम् । गुरुः शुक्रः । मयो दैत्यविशेषः । तद्युक्तं तरितरि विजयमाने मयि सति । सतीति सम्बोधनम् । सती शोभना । यथा मयदैत्यानीकविजये लोकोऽयं सुखमास्ते तथासौ रुरुरिति वाक्यार्थोऽभिमतः । तदिदं वर्णद्वयावृत्त्या सूक्ष्मं न चान्योन्यव्यवहितमव्यवहितमित्यव्यपेतं च भवति । तदेतदेकस्मिन्नपि पादेऽनुक्तद्वयादिपादविकल्पेन च बोद्धव्यम् ॥

श्लोके स्थूलाव्यपेतं यथा—

‘नगजा न गजा दयिता दयिता विगतं विगतं ललितं ललितम् ।
प्रमदाप्रमदामहता महतामरणं मरणं समयात्समयात् ॥ १२६ ॥’

अत्रावृत्त्यषृकेन श्लोकोऽपि व्याप्त इत्यस्थानयमकमिदं श्लोके स्थूलाव्यपेतमुच्यते ॥

नगजाः पर्वतजाः । दयिता वल्लभाः । एवंविधा अपि गजा हस्तिनो न दयिता न रक्षिताः । वीनां हंसप्रभृतीनां पक्षिणां गतं चङ्क्रमणं विगतमपगतम् । ललितं विलसितम् । ललितं भ्रष्टम् । प्रमदा कान्ता । अप्रमदा हर्षशून्या । आमश्चित्तव्यथारूपो रोगस्तेन हता । महतां प्रकर्षशालिनाम् । अरणं सङ्ग्रामवर्जितम् । मरणं विनाशः । समयाद्दैवात् । समयात्सङ्गतमासीत् ॥

श्लोक एव सूक्ष्माव्यपेतं यथा—

‘विविधधववना नागगर्धर्द्धनानाविविततगगनानानाममज्जज्जनाना ।
रुरुशशललनाना नावबन्धुन्धुनाना मम हि हिततनानानानन स्वस्वनाना ॥ १२७ ॥’

अत्र सूक्ष्मतराभिरष्टाविंशत्यावृत्तिभिः श्लोको व्याप्त इत्यस्थानयमकमिदं श्लोके सूक्ष्माव्यपेतमुच्यते ॥

[एतत्कोष्टकान्तर्गतपाठः काशीमुद्रितपुस्तके प्रकाशकप्रमादान्मूले पतित उपलभ्यतेबलभद्रं प्रति कृष्णवाक्यं समुद्रतीरभूवर्णनपरम् । विविधानि धवानां तरुभेदानां वनानि यस्यां सा । नागेषु सर्पेषु गर्धेनाभिलाषेण बुभुक्षया ऋद्धैः सभृद्धैर्नानाविधैर्विभिः पक्षिभिर्विततं व्याप्तं गगनं यस्यां सा । अनामेन अनमनेन मज्जन्तो जना यस्यां सा । बहूदकेत्यर्थः । यद्वा अस्य विष्णोर्नाम निमज्जन्तः । तत्परा इति यावत् । तादृशा जना यस्यां सा । अविद्यमाना नरोऽर्वाचीना मनुष्या यस्यां सा । समासान्तविधेरनित्यत्वात् ‘नद्यृतश्च’ इति न कप् । यद्वा । अविद्यमान ओ विष्णुर्यस्यां सा । यद्वा । अनामनि विष्णुनामनि मज्जभ्द्यस्तत्परेभ्यो जातं नानं यस्यां सा । नं ज्ञानम् । तत्त्वज्ञानमिति यावत् । न नं अनं न अनं नानम् । रुरूणां शशानां च ललनं क्रीडनं यत्र सा । नौ आवयोरबन्धुं वैरिणं धुनाना नाशयन्ती हि निश्चितं मम हितं तनोति सा । अविद्यमानमाननं मुखं यस्य सः । मुखं विनैव जायमान इत्यर्थः । ईदृशो यः स्वस्वनः शब्दस्तत्र अनाः प्राणा यस्यां सा । उदकशब्दवतीत्यर्थः ॥]

“विविधेति” । विविधानि धववनानि यस्यां सा तथा । धवो विट्खदिरः । नागान् सर्पान् हस्तिनो वा गृध्यन्त्यभिलषन्तीति नागगर्धाः । अर्द्धा उपचिता नानावयो विचित्राः पक्षिणस्तैर्विततं व्याप्तं गगनं यस्यां सा तथा । कल्लोलपरम्पराभिरनामं नमनशून्यम् । मज्जन्तः स्नान्तो जना यस्यां सा । अना स्त्रीरूपा । रुरूणां शशानां च ललनमुत्फालो यस्यां सा तथाभूता । नौ आवयोरबन्धुं शत्रुं धुनाना क्षिपन्ती । हरिप्रबोधे बलभद्रस्य कृष्णं प्रत्युक्तिः । यस्मान्मम हिततना हितं तनोति । अनाननो मुखशून्यः यः स्व आत्मा तेन स्वनाना शब्दायमाना । शीले चानश् । ‘अनित्यमागमशासनम्’ इति मुगभावः । यदि वा अनाननो मुखं विना कृतः स्वकीयः स्वनो यस्याः सा । अनितीत्यना प्राणयुक्ता । अन्तर्णीतेवार्थं चैतत् । वर्णद्वयपर्यन्तमावृत्तिः सूक्ष्मता । सैवैकवर्णगोचरा सूक्ष्मतरा ॥

पादसन्धावन्यभेदोच्छेदेन स्थूलं यथा—

‘उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता ।
न योजितात्मानमनङ्गतापितां गतापि तापाय ममास नेयते ॥ १२८ ॥’

अत्रान्तादिसन्दंशादव्यपेतं प्रवर्तते । व्यपेतं तु पादसन्धिषु निवर्तत इत्यस्थानयमकमिदं स्थूलावृत्तेः, सन्धिस्थूलाव्यपेतमुच्यते ॥

“पादसन्धाविति” । ‘स्वभेदे चान्यभेदे च’ इत्यत्र व्यपेताव्यपेतयोः स्वत्वमन्यत्वं च व्याख्येयं प्रकरणात् । तत्त्वे प्रसङ्गे च यथासम्भवं सप्तमी योजनीया । मदेन प्राप्तरागापि तत एव मन्मथोन्मादेन तापिता उत्तापं गतापि यदात्मानमबला न योजितवती तन्नूनं मदेनसा मदीयदुरितेन भूयोऽपि मानरसं प्रापिता स्यात् । अत एवेयते वक्तुमशक्याय सन्तापाय नासेति काक्वा तापप्रकर्षभणनम् । “योजितेति” । योजयतेर्गत्यर्थत्वमाश्रित्य कर्तरि क्तः । ‘गत्यर्थाकर्मक-’ इत्यादौ चकारस्यानुक्तसमुच्चयार्थत्वाद्वा । अत्र प्रथमद्वितीययोस्तृतीयचतुर्थयोश्चान्तरतो विच्छिद्य पाठे क्रियमाणे सन्धिषु व्यपेतप्रसङ्गः स्यात् । निरन्तरपठितौ तु स निवर्तते । यथैव च वृत्तौचितीवशात्सौभाग्यमुन्मिषति, तेन व्यपेतबाधादव्यपेतपुरस्कारस्तदिदमाह—“अत्रेत्यादि” । सन्दंशः सन्धानम् ॥

अन्यभेदानुच्छेदेन सूक्ष्मं यथा—

‘मतां धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता ।
मतावयत्युत्तमताविलोमतामताम्यतस्ते समता न वामता ॥ १२९ ॥’

अत्र व्यपेतानुच्छेदेनैव पादसन्धिष्वव्यपेतमुत्पद्यते इत्यस्थानयमकमिदं सूक्ष्मावृत्तेः सन्धिसूक्ष्माव्यपेतमुच्यते ॥

मतां सम्मतामारमतां योगिनामकामतां वीतरागतां धुनानाधःकुर्वाणा । अतापोऽनायासस्तेन लब्धेऽग्रिमतानुलोमते श्रेष्ठतानुकूल्ये यया सा । अतएवोत्तमताया विलोमतामतिरेकमयती न गच्छन्ती ईदृशी तवाताम्यतः संसारखेदेनाबाध्यमानस्य मतौ समता न तु वामता वैषम्यमिति । अत्र प्रतिपादमादिमध्यान्तेषु व्यपेतयमकमुपलभ्यते । सन्धिषु च सन्दंशपाठादस्थानयमकव्यपेतं च । न च पूर्वोपलब्धं बाध्यते । न वा सन्धौ विरतिरिति प्रसङ्गः सङ्गच्छते । तेन व्यपेतानुच्छेदकमेतदव्यपेतम् । अत्रापि वृत्तौचिती सर्वस्वायते ॥

स्वभेदे पूर्वभेदानुच्छेदेन स्थूलं यथा—

‘सतमाः सतमालो यः पारापारायतः स दावोऽदावः ।
लोकालोकानुकृतिः सह्यः सह्ययमनभ्रकूटैः कूटैः ॥ १३० ॥’

अत्र विषमपादयोः समपादावन्तेऽवतिष्ठमानावादियमकाद्यन्तयमकयोरादिमध्यान्तयमकतामापादयन्तः पारापारेति सह्यः सह्य इत्यावृत्ती स्थूले एवादिमध्ययमकव्यपदेशं च लभेते इत्यस्थानयमकमिदम् । स्वभेदे पूर्वभेदानुच्छेदि स्थूलाव्यपेतमुच्यते ॥

“सतमेति” । तमोऽत्र गहनता तया सतमाः सान्धकारम् । पारा नाम नदी तस्याः पारे आयतो विस्तीर्णो दावो वनं तद्बहुलत्वाददावो वनवह्निप्रभावरहितो लोकालोकश्चक्रवालाख्यः पर्वतस्तदनुकृतिस्तत्सदृशो यः सोऽयं सह्यनामा गिरिरभ्रकूटशून्यैः कूटैः शृङ्गैर्लक्षितः । हिशब्दो वाक्यालङ्कारे । अत्र प्रथमतृतीययोरादौ द्वितीयचतुर्थयोराद्यन्तयोर्व्यपेतयमकमेव वर्तते । तदनुच्छेदेनैव सन्दंश-पाठादियमकयोराद्यन्तयमकयोश्चाव्यपेतादिमध्यान्तयमकता प्रकाशते । यतो द्वितीयचतुर्थपादयोरादिमध्यान्तयमकमेव मध्ययमकभूमिकामवगाहते । अत्रापि वृत्तौचिती गवेषणीया । तदेतद्विवरणे व्यक्तमेवेति ॥

तदेव स्वान्यभेदोच्छेदि सूक्ष्मं यथा—

‘सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
महाफणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ १३१ ॥’

अत्र पादान्तादिषु व्यपेतं यदा मध्येष्वव्यपेतं तदुभयमपि पादान्तादिसंहितायामव्यपेतमभिन्नजातीयं जायते । न च प्राचीनां मध्ययमकतां जहातीत्यस्थानयमकमिदं सूक्ष्मावृत्तेरन्यतो भेदेन स्वभेदानुच्छेदि सूक्ष्माव्यपेतमुच्यते । उभयमपि चैतदेवंविधेष्वेव छन्दःसु द्रष्टव्यम् ॥

“सनाकेति” । नाकवनिताः स्वर्गस्त्रियस्ताभिः सहितम्, यतो नितम्बे स्वच्छन्दविहरणोचिते रुचिरं मनोज्ञम्, सुनिनदैः शोभनशब्दैर्महाफणवान् वासुकिरवतो रक्षतो रसपरा रसनीयेषु श्रेष्ठा । परास्तवसुधा त्यक्तभूभागा । सुधा पीयूषम् । अत्र प्रतिपादं नितं नितमित्यादिकमव्यपेतम् । सन्धिषु च विरतिपाठे चिरं चिरमित्यादि व्यपेतं प्रतीयते । तत्र सन्दंशे क्रियमाणे व्यपेतं निवर्तते । अव्यपेतं तु मध्ययमकमवतिष्ठत एव । तत्सर्वमिदमव्यपेतमेव जायते । अत्रापि वृत्तौचिती पूर्ववदेव शरणमित्युपसंहारे दर्शयति—“उभंयमपि चैतदिति” । स्थूलसूक्ष्मभावेन सन्धियमकमुभयम् ॥

पादे स्थूलव्यपेतं यथा—

‘अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥ १३२ ॥’

अत्र मा भूदव्यपेतप्रसङ्ग इत्येकमेवाक्षरं विहाय स्थूलावृत्तिद्वयेन श्लोकपादयोर्व्याप्तत्वादादिमध्यान्तता न सम्भवतीत्यस्थानयमकमिदं स्थूलव्यपेतमुच्यते ॥

“अखिद्यतेति” । यस्य गिरेस्तटे रविमादित्यमुदग्रतापं दधानेऽपि भृङ्गावलिर्भ्रमरमाला नाखिद्यत । यतोऽरविन्दधाने पद्मानां निधानभूते निपीतरसा आस्वादित-मकरन्दा । अत एव मत्ता नमन्ति तामरसानि यस्याः सकाशात्सा तथा । भरनमितपद्मकुहरप्रवेशान्मधुरससेवया च भ्रमरमालया खेदो नाधिगतः । अत्र द्वितीयचतुर्थपादयोः ‘रविं दधाने रविन्द्रधाने’ इति, ‘रसा नमत्ता रसा न मत्ता’ इति द्वाभ्यामेव वृत्तिभ्यां व्याप्तत्वादाद्यादिविभागासम्भवे अस्थानयमकमेवेदम् । व्यपेतं तु कथं भवतीत्यत आह—“मा भूदिति” ॥

पाद एव सूक्ष्मव्यपेतं यथा—

‘करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ १३३ ॥’

अत्र विषमपादयोः करेणुः करेऽणुरित्यादावावृत्तम् । समपादयोस्तु रेणुरेणुरिति । तत्तु स्वापेक्षया न मध्यमन्यापेक्षया नादिरित्यस्थानयमकमिदं सूक्ष्मव्यपेतमुच्यते ॥

“करेति” । करेणुर्हस्ती प्रस्थितश्चलितस्तेन घण्टा रेणुरशब्दायन्त । सहस्रश इति क्रियाविशेषणम् । स्थूलहस्तेऽणुः सीत्कारविकीर्णतया परमाणुसाद्भूतः । तेन शीकरेण । ननु विषमपादयोराद्यक्षरेण विनाकरणेन मध्ये समपादयोः पुनरादावेव रेणुरित्यावृत्तिरस्ति तत्कथमस्थानयमकमिदमित्यत आह—“तत्त्विति” । अन्तो वृत्तैरसम्भावितत्वादादौ मध्ये वा सा वाच्या । न चेयमपि सम्भवति । रेणुरेणुरिति शब्दभागमपेक्ष्य प्रवृत्तायामावृत्तौ तद्विरहात् ॥

श्लोके स्थूलव्यपेतं यथा—

‘जयन्ति ते सदा देहं नमस्यन्ति जयन्ति ते ।
भवान्यतो नमस्यन्ति सदादेहं भवान्यतः ॥ १३४ ॥’

अत्र स्थूलव्यपेतावृत्तिचतुष्टयेन श्लोकोऽपि व्याप्त इत्यादिमध्यान्ताभावादस्थानयमकमिदं स्थूलव्यपेतमुच्यते ॥

हे जयन्ति, ये तव देहं दुर्गातारादिरूपेण प्रपञ्चमानां मूर्तिं सदा नमस्यन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते । यतस्त एव भवान्संसारसरणिमस्यन्ति क्षिपन्ति । भवात्परमेश्वरात् अन्यता भेदस्तेनोनमतः श्रेयस आदानं ग्रहणं यत्र तादृशी ईहा चेष्टा यत्रेति द्वयमसनक्रियाविशेषणम् । अत्र जयन्ति ते इति प्रथमद्वितीययोराद्यन्तौ सदादेहमिति प्रथमचतुर्थयोरन्तादी नमस्यन्तीति द्वितीयतृतीययोर्भवान्यत इति च तृतीयचतुर्थयोराद्यन्तौ च स्थूलावृत्त्या व्याप्ताविति अनावृत्तभागाभावाच्छ्लोके स्थूलव्यपेतमस्थानयमकमिदम् ॥

श्लोक एव सूक्ष्ममव्यपेतं यथा—

‘यामानीतानीतायामा लोकाधीराधीरालोका ।
सेनासन्नासन्ना सेनासारं हत्वाह त्वा सारम् ॥ १३५ ॥’

अत्र यद्यपि यामायामेत्यादौ व्यपेतमाद्यन्तयमकं नीतानीतेत्यादौ च मध्ययमकमव्यपेतं विद्यते, तथापि मण्डूकप्लुत्या गतप्रत्यागतेर्यतेश्च नैतदुल्लिखति अपि तु श्लोकोऽपि द्वाभ्यां द्वाभ्यामक्षराभ्यां सूक्ष्मवृत्त्या व्याप्त इव लक्ष्यते । तेनास्थानयमकमिदमादिमध्यान्तानामभावात्सूक्ष्मावृत्तेः सूक्ष्मव्यपेतमुच्यते ॥

“यामेति” । मानिभिरिता सङ्गता । यद्वा यामेन प्रहरमात्रेणानीता प्रापिता । शत्रूञ्जित्वेत्यर्थः । आनीतः प्रापित आयामो वृद्धिर्यस्याः सा तथा । पालनेन लोकानामाधिमीरयति क्षिपतीति लोकाधीराधीरैरप्राप्तसमरसम्भ्रमैरालोक्यत इति धीरालोका । सह इना सेनान्या वर्तत इति सेना, असन्ना अवसादरहिता एवम्भूता या सेना सा आसन्ना निकटवर्तिनी सती आरमरिसमूहं हत्वा त्वा त्वां सारं कार्यसिद्धिं आह ब्रवीति । ननु यामा यामा, लोकालोकेत्यादिकमाद्यन्तयोर्नीतानीतेत्यादिकं तु पदचतुष्टयस्यापि मध्य इति व्यपेतम्, आद्यन्तव्यपेतयमकं तु मध्ययमकमिति स्थानयमकमेवेदम् । सङ्करोऽपि न पृथग् यमकतां प्रयोजयतीत्यत आह—“अत्र यद्यपीति” । यामेत्यादिकमादावनुसन्धाय वर्णचतुष्कव्यवधिना पादान्तेऽनुसन्धीयमानं मण्डूकप्लुतिं प्रयोजयतीति न तथा सोल्लेखम् । यामानीतेत्यादिस्थूलचतुष्कप्रत्यागतेन नीतायामेत्यादिनात्यन्तमुद्भटेन यमकच्छाया तिरोधीयत इति च न सोल्लेखम् । मध्यादिकमव्यपेतं सोल्लेखमित्यपि न वाच्यम् । यामानीतेत्यादिबन्धच्छायार्थकयतिकरणेनानुल्लेखत्वात् । श्लोकस्तु द्वाभ्यां द्वाभ्यामावृत्तिभ्यां व्याप्त इति समुदायसोल्लेखतैव । तदिदमुक्तं मण्डूकप्लुत्या गतप्रत्यागतेर्यतेश्चेति मध्ये यतिकृतो व्यवायो बोद्धव्यः । अत्रापि वृत्तौचित्यमनुसरणीयम् ॥

पादसन्धौ स्थूलव्यपेतं यथा—

‘हठपीतमहाराष्ट्रीदशनच्छदपाटला ।
पाटलाकलिकानेकैरेकैका लिलिहेऽलिभिः ॥ १३६ ॥’

अत्रापि प्राग्वदेव यतिविच्छेदात्पूर्वोत्तरार्धयोरसंहितायां पाटला पाटलेत्यावृत्तेर्नाव्यपेतयमकत्वम् । न चैतत्पादयोरादावन्ते वा शक्यते वक्तुम् । अपि त्वेकस्यादावन्यस्य वान्त्यस्थाने यमकमिदं स्थूलावृत्तेः स्थूलव्यपेतमुच्यते । न चैतद्वाच्यमुपोढरागेत्यादौ काञ्चीयमकेऽप्ययं न्याय इति । तस्यैव तथाभूतलक्षणत्वात् ॥

“हठेति” । हठपानेन ताम्बूलरागो निःशेषितस्तेन प्राप्तपरभागसहजरागोन्मेषः । व्यवधायकशब्दाभावे कथमिदं व्यपेतमित्यत आह—“अत्रापि प्राग्वदिति” । ननूपोढरागेत्यादौ पूर्वोदाहृतेऽपि यतिविच्छेदादस्ति व्यवधानात्कोऽस्य विशेष इत्याशङ्क्याह—“न चेति” ।

काञ्चीयमक एवाव्यपेतास्थानयमकभेदे सूक्ष्मव्यपेतं यथा—

‘धराधराकारधरा धराभुजां भुजा महीं पातुमहीनविक्रमाः ।
क्रमात्सहन्ते सहसा हतारयो रयोद्धुरा यानधुरावलम्बिनः ॥ १३७ ॥’

अत्रान्त्यपादे धुरा धुरेति सूक्ष्मव्यपेतं वर्तते ।

धराधरः शेषो महीं पातुं सहत इत्यन्वयः ॥

स्वभेदान्यभेदयोः स्थूलं सूक्ष्मं च यथा—

‘सालं वहन्ती सुरतापनीयं सालं तडिद्भासुरतापनीयम् ।
रक्षोभरक्षोभरसत्रिकूटा लङ्काकलङ्काकलिकाद्रिकूटा ॥ १३८ ॥’

अत्र सालं सालमिति स्वभेदे सुरतापनीयं सुरतापनीयमिति स्थूलः । रक्षोभरक्षोभ लङ्काकलङ्केति अन्यभेदे कूटा कूटेति सूक्ष्मव्यपेते भेदो वर्तते । तदिदमस्थानयमकं स्थूलसूक्ष्ममुच्यते ॥

“सालमिति” । सालः प्राकारः । सुराणां तापनं सन्तापजननं तस्मै हितमल-मत्यर्थं सा लङ्का । तपनीयं सुवर्णम् । तापनीयं च तद्भासुरं चेति कर्मधारयः । रक्षसां भरः समूहस्तस्य क्षोभः प्रकर्षजः कोलाहलः । त्रिकूटः सुवेलः । अकलङ्का दोषरहिता । अकलिकानि कलिरहितान्यद्रिकूटानि सुवेलशिखराणि यस्यां सा तथा ।

यत्सूक्ष्मं भागं बह्वावृत्ति तदपि स्थूलसूक्ष्ममेव । यथा—

‘मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ १३९ ॥’

“यत्सूक्ष्मं भागमिति” । भागशो विविच्यमानं सूक्ष्ममेव, वृत्तिभूयस्तया तु स्थूलमिव प्रथत इति सूक्ष्मेक्षिकयाभिधानम् ॥

स्थानास्थानविभागोऽयमव्यपेतव्यपेतयोः ।
क्रमेणोक्तस्तयोरेव पादभेदोऽथ कथ्यते ॥ ६५ ॥

क्रमप्राप्तमिदानीं पादयमकमुदाहियत इत्याह—“स्थानास्थानेति” ॥

तत्र व्यपेतभेदेषु प्रथमपादयोरावृत्तिर्यथा—

‘न मन्दयावर्जितमानसात्मया नमन्दयावर्जितमानसात्मया ।
उरस्युपास्तीर्णपयोधरद्वयं मया समालिङ्ग्यत जीवितेश्वरः ॥ १४० ॥’

“न मन्देति” । मन्दया तत्कालोचितप्रतिपत्तिविधुरया आवर्जितो मान ईर्ष्यारोषलक्षणो यया सा तथा । सात्मा आत्मवती । अनयोः कर्मधारयः । नमन्पादान्ते लुठन्नपि दयावर्जितौ मानसात्मानौ यस्या इति बहुव्रीहेर्डाप् ॥

तत्रैव द्वितीयतृतीययोर्यथा—

‘दृश्यस्त्वयायं पुरतः पयस्वानानाकलाली रुचिरेण नेत्रा ।
नानाकलाली रुचिरेणनेत्रा देवी यदस्मादजनि स्वयं श्रीः ॥ १४१ ॥

आनाकं स्वर्गावधि ललनमुल्लासस्तच्छीलः रुचिरेण मनोहरेण नेत्रा नायकेन नानाकलानां चातुःषष्टिकीनामाली परम्परा । एणनेत्रा हरिणलोचना । द्वयमपि श्रीविशेषणम् ॥

एवं तृतीयचतुर्थयोरपि यथा—

‘स्मरानलो मानविवर्धितो यः स निर्वृतिं ते किमपाकरोति ।
समं ततस्तामरसे क्षणेन समन्ततस्तामरसेक्षणे न ॥ १४२ ॥’

समं समकालं क्षणेन ततो विस्तीर्णस्तामनुभवैकसाक्षिचिन्तानुवृत्तिलक्षणां निर्वृतिमरसे इति सोपालम्भसम्बोधनम् । समन्ततः सर्वतस्तामरसेक्षणे कमलनेत्रे न किमपाकरोतीति पूर्वेण सम्बन्धः ॥

व्यपेतभेदेषु प्रथमतृतीययोर्यथा—

‘सभा सुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः ।
स भासुराणामबला विभूषिता विहारयन्निर्विश सम्पदः पुराम् ॥ १४३ ॥’

अबला बलाख्येन दानवेन रहिता विभुना शक्रेणाध्यासिता सुराणां देवानां सभा मृणालनिर्मलैस्तव गुणैरारोहि यतः, अतः स त्वं पुरामबला विभूषिताः स्त्रियोऽलङ्कृता विहारयन् भासुराणां सतां सम्पदो निर्विशेत्याशंसा ॥

तत्रैव प्रथमचतुर्थयोर्यथा—

‘कलं कमुक्तं तनुमध्यनामिकास्तनद्वयीं च त्वदृते न हन्त्यतः ।
न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ॥ १४४ ॥’

कलं मधुराव्यक्तं उक्तं भाषितं तनोर्मध्यस्य भरेण नामिकास्तनद्वयीं च त्वां विहाय कं नायकं हन्ति वशीकरोति । अतो जितेन्द्रियेषु प्रथमगणनीये त्वयि सति कलङ्कमुक्तं निर्दोषं तनुमधि शरीरमधिकृत्य भूतमनामिकाऽनामिकाङ्गुलिः न याति परस्य त्वत्सदृशस्याभावात् । निर्दोषो हि लोके ऊर्ध्वाङ्गुल्या निर्दिश्यते ॥

एवं द्वितीयचतुर्थयोरपि यथा—

‘या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तयास्वानमा नमति कालिमालया ॥ १४५ ॥’

वल्लकीगुणस्वानो वीणाशब्दस्तस्य मानं या बिभर्ति । कालिम्नः श्यामताया आलया कज्जलप्रभृतीनतीत्य वर्णप्रकर्षेण या स्थिता, तया गातुमुपक्रान्तया भ्रमरमालया हेतुभूतया का नामात्र पर्वतं कान्तं न नमति न प्रणमतीति न, न सुखेन आनम्यते इति अस्वानमा या प्रागासीत् साप्युद्दीपनप्रकर्षे निःशेषितमाना नमतीत्यर्थः ॥

अर्धाभ्यासः समुद्गः स्यात्तस्य भेदास्त्रयो मताः ।
व्यपेतश्चाव्यपेतश्च उभयात्मा च सूरिभिः ॥ ६६ ॥

तेषु व्यपेतो यथा—

‘अनेकपादभ्रमदभ्रसालं मान्ये दृशाभीरुपतत्त्रिकूटम् ।
अनेकपादभ्रमदभ्रसालं मान्ये दृशा भीरु पतत्त्रिकूटम् ॥ १४६ ॥’

अनेकेषु पादेषु प्रत्यन्तपर्वतेषु भ्रमन्त्यभ्राणि मेघा एव सालो वरणः प्राकारः, मान्याः पूजार्हा ईदृशा यथादृश्यं तथैव मनोहारिणोऽभीरवो भयरहिताः पतत्त्रिकूटाः पक्षिसङ्घा यत्र, अनेकपा हस्तिनस्तेषामदभ्र उत्कटो मदस्तं भरन्ति धारयन्तीति मूलविभुजादित्वात्कप्रत्यये अनेकपादभ्रमदभ्राः साला वृक्षा यत्र । मान्ये भीर्विति सम्बोधनद्वयम् । मानःशृङ्गारभावस्तदर्हा दृशा त्रिकूटं पर्वतमालोकयेति ॥

अव्यपेतो यथा—

‘घनं विदार्यार्जुनबाणपूगं घनं विदार्यार्जुनबाणपूगम् ।
ससार बाणोऽयुगलोचनस्य ससारबाणोऽयुगलोचनस्य ॥ १४७ ॥’

विदारी कन्दभेदः, अर्जुनः ककुभः, बाणो गुल्मविशेषः, पूगो गुवाकः । वृक्षद्वन्द्वत्वात्पाक्षिक एकवद्भावः । अर्जुनः पार्थस्तस्य बाणपूगं शऱसमूहस्तं विदार्य भित्त्वा । अयुगलोचनस्त्रिनेत्रः किरातस्वरूपधरस्तस्य ससार गतः सारबाण उत्कृष्टशब्दस्तेन सहितोऽयुगद्वितीयः, अलोचनस्य दुर्ज्ञानस्य ॥

व्यपेताव्यपेतो यथा—

‘कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् ।
वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ॥ १४८ ॥’

पादत्रयाभ्यासस्तु नातिसुन्दर इति तद्भेदा नोदाह्रियन्ते ॥

के पानीये लपनशीला हंसास्तेषां वृन्दानि चारुतया मनोज्ञभावेनोपयान्ति सङ्गच्छन्ते । लापेन परस्परसंलापमात्रेणोढः प्राप्तो घनो निरन्तर आगम आगमनं येषाम् । वृन्दानिलो वात्या तेनापोढो निराकृतो घनागमो मेघदुर्दिनं कलापिनो मयूरा आरुतयः समन्ततः केकायितानि अपयान्ति तिरोभवन्ति । एकश्लोके पादत्रयाभ्यासस्यासम्भवाच्छ्लोकान्तरे च तथा सौन्दर्याभावात्पादत्रयाभ्यासो न चिन्तनीय इत्यत आह—“पादत्रयेति” ॥

एकाकारचतुष्पादं महायमकमुच्यते ।
श्लोकाभ्यासश्च तत्राद्यं पुनरभ्यासमर्हति ॥ ६७ ॥

इदानीं क्रमप्राप्तं महायमकं लक्षयन्नाह—“एकाकारेति” । द्विविधमेकाकारं भवति । एकभावृत्तिचतुष्केण, अपरभावृत्त्यष्टकेन । तदिदमुक्तमाद्यं पुनरनावृत्तमिति । प्रतिपादमवान्तरावृत्तिभेदेनैवाष्टकनिर्वाहात् ॥

तत्राव्यपेतभेदे महायमकं यथा—

‘सभासमानासहसापरागात्सभासमाना सहसा परागात् ।
सभासमाना सहसापरागात्सभासमाना सहसापरागात् ॥ १४९ ॥’

भासः कान्तिः, मानश्चित्तसमुन्नतिः पूजा वा, आसः शत्रुविधूननम्, हसः स्मेरता, एतैः सह वर्तते इति सभासमानासहसा यतोऽपरागं चित्तकालुष्यमत्ति । भासमानैः शोभमानैः सह वर्तते सभासमाना । सहसा मार्गशीर्षेण हेतुना प्रावृड्वि च्छेदप्रादुर्भूतान् परागान् रजःकणानतति प्राप्नोतीति परागात् । भा कान्तिस्तया समाना सरूपास्तैः सह वर्तत इति सभासमाना । षोऽन्तकर्मणि । स्यन्ति परानिति साः, तैः सह वर्तत इति सहसा । एवम्भूता असमाना अनुपमा सभा जनसमवायोऽपरागादपरस्मात्पर्वतात् सहसा शीघ्रं परागात्परागतेति ॥

व्यपेतभेदे द्वितीयं महायमकं यथा—

‘प्रवणमदभ्रमदचलद्विपराजितमूढविमलमहिततरङ्गं विरसं सदातिमिश्रितमच्युतधाम प्रतीतशिखिचरितवनम् ।
प्रवणमदभ्रमदचलद्विपराजितमूढविमलमहिततरङ्गं विरसं सदातिमिश्रितमच्युतधामप्रतीतशिखिचरितवनम् ॥ १५० ॥’

प्रवणं प्रकृष्टतरवनम् । ‘प्रनिरन्तःशर—’ इत्यादिना णत्वम् । अदभ्रेण महता मदेन दर्पेण चलन्तो ये वयः पक्षिणस्तैः पराजिता मूढवयोबालाः पक्षिणो यत्र तम्, अलमत्यर्थं पूर्वोक्तरूपानमूढान् वीन् पक्षिणो मलते धारयतीति वा । अहिततरङ्गं भुजङ्गव्याप्तावर्तस्थानम् । विरसमतलस्पर्शतया भूभागरहितम् । सदा सर्वकालं तिमिभिर्महामत्स्यैः श्रितमाश्रितम् । अच्युतस्य भगवतो नारायणस्य धाम विश्रान्तिस्थानम् । प्रतीतः प्रख्यातः शिखी वडवानलस्तेन चरितवनं भक्षितजलोत्पीडमिति प्रथमः श्लोकार्थः । प्रवणमदाः मदायत्तदर्पाः सततनिस्यन्दमानमदजलाश्च भ्रमन्तो ये मैनाकप्रभृतयोऽचला द्विपाः करिमकराश्च तैः शोभितम् । ऊढा विमला स्वभावनिर्मला महिताः पूजितास्तरङ्गा येन तम् । विरसं क्षारम् । सतीभिः शोभ-नाभिरातिभिः पक्षिविशेषैर्भिश्रितं करम्बितम् । न च्युतं धाम तेजो यस्य तम् । प्रतीताः प्रत्यागताः शिखिनो मयूरास्तैश्चरितवनं भ्रान्ततीरकाननं समुद्रं पश्येति वाक्यान्तरवर्तिक्रियया सम्बन्ध इति द्वितीयः श्लोकार्थः ॥

अव्यपेतभेदे आद्यस्य पुनरभ्यासो यथा—

‘समान यासमानया स मानया समानया ।
समानयासमानया समानयासमानया ॥ १५१ ॥’

“समानेति” । हे समान सखे, यासमानया अविनयवतीनां धुरि गणनीयया अनया समानया समानो यासः प्रयत्नो मान ईर्ष्यारोषस्तौ समानौ यस्यास्तया, तथा समानया चित्तानुस्भृतिसारूप्यं भजमानया पूजासिहतया असमानया अनुपमया स त्वं मा मां समानय सङ्गमयेति मन्मथोन्मादाविष्टस्य कस्यचिद्वयस्यस्य प्रार्थना ॥

एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः ।
तन्त्रेण यत्स शब्दज्ञैः श्लेष इत्यभिशब्दितः ॥ ६८ ॥

बन्धावृत्तिसामान्याद्यमकानन्तरं श्लेषं लक्षयति—“एकरूपेणेति” । अर्थभेदेन शब्दा भिद्यन्त इति नये कथमेकेन वाक्येन द्वयोरुक्तिरित्यत आह—“तन्त्रेणेति” । श्लेषो हि सम्भेदलक्षणः । स चात्र भिन्नानामपि शब्दानामुच्चारणसाम्येन प्रवर्तते । अनेकसम्बन्धानामैकरूप्येण वर्तनं तन्त्रमित्युच्यते ।

प्रकृतिप्रत्ययोत्थौ द्वौ विभक्तिवचनाश्रयौ ।
पदभाषोद्भवौ चेति शब्दश्लेषा भवन्ति षट् ॥ ६९ ॥

द्वयोरिति सङ्ख्या न विवक्षिता, त्रिप्रभृतीनामपि श्लेषसम्भवात् । विभागवाक्ये विभक्तीनां साक्षादुपादानात्प्रत्यपदं तदन्यपरं, विशेषशोभाकरत्वं च विशेषोपादानप्रयोजनम् ॥

तेषु प्रकृतिश्लेषो यथा—

‘आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् ।
भयकृद्भूपते बाहुर्द्विषां च सुहृदां च ते ॥ १५२ ॥’

अत्र कीर्तिनुदित्यत्र नौति-नुदत्योर्भयकृदित्यत्र करोति-कृन्तत्योः प्रकृत्योः क्विपि तुल्यं रूपमिति प्रकृतिश्लेषोऽयम् ॥

आत्मनः कीर्ति नौति स्तौति । परेषां शत्रूणां च नुदति क्षिपति । द्विषां भयं करोति जनयति । सुहृदां च भिनत्तीति धातुरूपप्रकृतिभेदादेवार्थभेदः क्विप्प्रत्ययस्य साधारण्यात् ॥

लिङ्गश्लेषोऽपि प्रकृतिश्लेष एव । स यथा—

‘कुवलयदलद्युतासौ दृशा च वपुषा च कं न दर्शयते ।
अधरीकृतप्रवालश्रियाङ्घ्रिणास्येन न नतभ्रूः ॥ १५३ ॥’

अत्र दृग्वपुषोरास्यचरणयोश्च कुवलयदलद्युतेत्यधरीकृतप्रवालश्रियेति च लिङ्गभेदेऽपि तुल्यरूपे विशेषणे इति लिङ्गश्लेषोऽयम् ॥

ननु ‘वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम्’ इति कैश्चित्परिसङ्ख्यातम्, ततश्चाष्टधा श्लेषो भविष्यतीत्यत आह—“लिङ्गश्लेषोऽपीति” । तदिदमुदाहरणीयमित्याह—“स यथेति” । दर्शयत इत्यात्मनेपदेन तटस्थमपि कं न हठाद्दर्शनाय प्रेरयतीति व्यज्यते । अधरीकृता जिताधरत्वमापादिता च । ननु च कुवलयदलद्युतेति अधरीकृतप्रवालश्रियेति च प्रकृतिभागो न भिद्यते, तत्कथमयं प्रकृतिश्लेष इति । नैतत् । आविष्टलिङ्गद्वयविशेष्यलिङ्गद्वयसन्निधानादनाविष्टलिङ्गं विशेषणमवश्यमुभयलिङ्गग्राहि वाच्यम् । पञ्चकप्रातिपदिकार्थपक्षे विभक्तिर्द्योतिकैव तथा च लिङ्गभेद इति विभिन्ने विशेषणप्रकृती मिथःसंश्लिष्टे इति । “अत्रेत्यादि” ॥

प्रत्ययश्लेषः सोद्भेदो निरुद्भेदश्च । तयोराद्यो यथा—

‘तस्या विनापि हारेण निसर्गादेव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ १५४ ॥’

अत्र हारिणाविति इनिणिनिप्रत्यययोरेकरूपत्वाद्विनापि हारेणेति च मत्वर्थीयोद्भेदात्सोद्भेदप्रत्ययश्लेषोऽयम् ॥

तद्वाक्यस्थशब्दान्तरप्रकाशितः सोद्भेदः, अतथाभूतो निरुद्भेदः । मत्वर्थायेनिप्रत्यये हारवन्तौ हारिणौ । आवश्यकार्थणिनिप्रत्यये सहृदयानां मनो हरत इति हारिणौ । आनन्दघनरसचर्वणारूपो विस्मयोऽद्भुतं च । अपिशब्देन विराधद्योतकेन हारहीनयोरपि हारसम्बन्धो विस्मयरसार्पक इति मत्वर्थीयोन्मुद्रणात्सोद्भेदः । प्रत्ययश्लेषस्तु कथं भवतीत्यत आह—“इनिणिनिप्रत्ययोरिति” ॥

द्वितीयो यथा—

‘त्वदुद्धृतामयस्थानरूढव्रणकिणाकृतिः ।
विभाति हरिणीभूता शशिनो लाञ्छनच्छाविः ॥ १५५ ॥’

अत्र हरिणीभूतेति च्वेर्ङीपश्च तुल्यरूपतायां तदुद्भेदो नास्तीत्यनुद्भेदः प्रत्ययश्लेषोऽयम् ॥

व्रणरूढिस्थानं श्यामं भवतीति लाञ्छनच्छायाभूता कीदृशी हरिणी हरिता । वर्णादनुदात्तात्तोपधात्तो नः’ इति ङीपि नादेशे च रूपम् । सेयं प्रतीयमानगुणनोत्प्रेक्षा । अहरिणरूपापि व्यवहारारूढहरिणतामापन्नेति च्विप्रत्यये च हरिणीभूते रूपम् । अत्र डीपश्च्वेर्वा न किञ्चिद्भेदकं निबद्धमिति निरुद्भेदः प्रत्ययश्लेषोऽयम् । हरितहरिणरूपे प्रकृती अपि सम्भिन्ने एव । सङ्करस्यादूषणत्वात् । एवं पूर्वोदाहरणेऽपि ॥

विभक्तिश्लेषो द्विधा—भिन्नजातीययोः, अभिन्नजातीययोश्च । तयोराद्यो यथा—

‘विषं निजगले येन बभ्रे च भुजगप्रभुः ।
देहे येनाङ्गजो दध्रे जाया च स जयत्यजः ॥ १५६ ॥’

अत्र येनविषं निजगले, भुजगराजश्च निजगले बभ्रे, अङ्गजो देहे, जाया च दध्रे इति तिङ्सुब्विभक्त्योः लिडात्मनेपदप्रथमपुरुषैकवचनसप्तम्येकवचनान्तयोरेकरूपत्वाद्विभिन्नार्थकत्वाद्भिन्नजातीयसुप्तिङ्विभक्तिश्लेषोऽयम् ॥

निजगल इति गिरतेः कर्मणि लिटि रूपम् । येन विषं कालकूटाख्यं निगीर्णम्, निजे च गले कण्ठे भुजगराजो धृतः । देह इति दहतेस्तत्रैव [कर्मणि लिटि] रूपम् । अङ्गजः कामो येन दग्धः, निजे च देहे शरीरे जाया पार्वती धृता स जयतीति । विवरणग्रन्थः सुबोध एव ॥

द्वितीयो यथा—

‘त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः ।
अनाख्यातं न ते किञ्चिन्नाथ केनोपमीयसे ॥ १५७ ॥’

अत्र धातुरिति प्रथमान्तस्य षष्ठ्यन्तस्य चैकरूपत्वाद्भिन्नार्थकत्वाच्चाभिन्नजातीयसुब्विभक्तिश्लेषोऽयम् ॥

धातुर्जगन्निर्मातुरपि पूर्व इत्यनेनानादित्वमुक्तम् । परः प्रत्ययः कारणत्रयरूपं न किञ्चिदनाख्यातम् । श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धावदानत्वात् । द्वितीयस्याभावान्न केनचिदुपमानम् । अर्थान्तरे तु धातुः क्रियावचनशब्दरूपः पूर्व एव प्रकृतित्वात्ततः परः प्रत्ययः तिङादिः । अतः सर्वमाख्यातमेव पदं निष्पद्यते । तेन च कथं तिङन्तेनोपमानमस्ति भिन्नार्थत्वाच्चेति शब्दमेददृढीकरणार्थमुक्तम् । एवं तिङामपि सम्भेद उदाहरणीयः । यथा—

‘माद्यन्तु नाम कवयस्तथापि विदितश्रमाः ।
वेद विद्या पतिर्वाचामहं वाचोरिवान्तरम् ॥’

अत्र वेदेति प्रथमोत्तमयोः पुरुषयोरेकवचने श्लिष्येते ॥

वचनश्लेषो द्विधा—सोद्भेदः निरुद्धेदश्च । तयोः सोद्भेदो यथा—

‘प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः ।
मुक्तात्मा नः शिवं नेमिरन्येऽपि ददतां जिनाः ॥ १५८ ॥’

अत्र नेमिरित्यन्येऽपीति एकवचनबहुवचनाभ्यां ददतामित्यत्र तिङन्ते प्राज्यप्रभावः प्रभव इत्यादिषु च सुबन्तेष्वेकवचनबहुवचनयोरुद्भेद इत्ययं सोद्भेदो नाम वचनश्लेषः ॥

निरुद्भेदो यथा—

‘तनुत्वरमणी यस्य मध्यस्य च भुजस्य च ।
अभवन्नितरां तस्या वलयः कान्तिवृद्धये ॥ १५९ ॥’

अत्राभवन्निति वलय इति पदयोस्तिङन्तसुबन्तयोरेकवचनबहुवचने अनुद्भिन्ने एव श्लिष्येते इत्ययं निरुद्भेदो नाम वचनश्लेषः ॥

एकवचनबहुवचनाभ्यां विशेषणेषु सम्बन्धयोग्यताक्षेपात्तिङ्वचनेषु सुब्वचनेषु च यथायथमर्थद्वयोन्मीलनाच्छब्दरूपद्वयोद्भेदः । एकवचनेन वलयः कङ्कणं बहुवचनेन च मध्यरेखा इति सुबन्तपदे । एतदौचित्ये तिङन्तपदे चाभवन्निति वचनद्वयलाभः । न चानयोः किञ्चिदुद्भेदकं निबद्धमिति निरुद्भेदोऽयम् । तदेतदाह—“अत्रेत्यादि” ॥

पदश्लेषो यथा—

‘अरिभेदः पलाशश्च बाहुः कल्पद्रुमश्च ते ।
बालेवोद्यानमालेयं सालकाननशोभिनी ॥ १६० ॥’

अत्र प्रकृतिप्रत्ययविभक्तिवचनानां पृथगभिधानादभिधानमालोक्तानि प्रातिपदिकान्येव पदशब्देनोच्यन्ते । तेन पूर्वार्धे शत्रुभेदोमांसादस्ते बाहुरित्यर्थेनारिभेदपलाशाख्यवृक्षनाम्नी श्लिष्येते । उत्तरार्धे च सालानां काननेन शोभत इत्येवंशीलेयमुद्यानमालेव व्द्यर्थेन सालकेनाननेन शोभत इत्येवंशीला बालेत्युपमानार्थः श्लिष्यते । स एष पदश्लेषा नाम शब्दश्लेषः ॥

अरीणां भेदः शरीरधातुभेदः, पलं मांसमश्नाति यः स तथा, चकार उत्तरवाक्यापेक्षया । अरिभेदो विट्खदिरः पलाशः किंशुकः सालास्तरुविशेषास्तेषां काननम्, अलकाश्चूर्णकुन्तलास्तत्सहितमाननं च । पूर्वोत्तरार्धयोर्नैकवाक्यत्वमुदाहरणत्वात् । ननु विभक्त्यन्तान्नान्यत्पदं तत्र पूर्वभागेन प्रकृतिश्लेष उत्तरभागेन च प्रत्ययश्लेष उद्दिष्ट एव, तत्कोऽन्य, पदश्लेष इत्यत आह—“अत्रेति” । प्रकृतिप्रत्ययभावविवक्षाविरहे नाममालोक्तानि प्रातिपदिकान्येवावशिष्यन्त इत्यर्थः ॥

वर्णश्लेषोऽपि पदश्लेष एव । स यथा—

‘त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥ १६१ ॥’

अत्र त्वमेव पातालमित्यकारः पाश्चात्ये, त्वं च अमरमरुद्भूमिरिति चकारः पौरस्त्येऽक्षरे श्लिष्टः पातालं चामरे इति च पदं रचयति । सोऽयं पदश्लेष एव वर्णश्लेष इत्युच्यते ॥

‘अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥’

इति वर्णश्लेषः काश्मीरकैः पृथगुदाहृतः । अत आह—“वर्णश्लेषोऽपीति” । अवयवाभेदे समुदायसम्भवादवयवभेदे च समुदायभेदध्रौव्यात्पदश्लेषव्यवस्थितौ तत्रैवास्यान्तर्भावो युक्त इति भावः । अलमत्यर्थं पाता रक्षिता, आशानां निबन्धनं मनोरथसफलीकरणबीजं, आशानां दिशां संश्लेषस्थानम्, चामरमरुद्भूमिः स्वर्लोकोऽमराणामिन्द्रादीनां भूमिरमरावत्यादिर्मरुतां च विवहादीनां भूमिर्वैमानिकपथश्चामरमरुद्भूमिश्चामरमरुतामाश्रयश्च । कथमत्र वर्णश्लेष इत्यत आह—“अत्रेत्यादि” । ‘पतिचण्डिभ्यामालञ्’ इति पतेरालञ्प्रत्यये पातालमिति रूपसिद्धावाकार एव मध्यवर्तिवर्णः, तत्रैव पुनरेकदेशप्रतिसन्धाने पातालमित्याकारश्च प्रतीयते । अत्र च ‘एकः पूर्वपरयोः’ इति वचनादाकार एव श्रूयते तेनोत्तरः पौरस्त्येन सम्भिन्नः । एवं चकारस्योत्तरसम्भेदो व्याख्येयः ॥

भाषाश्लेषो यथा—

‘कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने ।
हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥ १६२ ॥’

अत्र—

‘ध्यानानीतां च रुद्राणीं कान्तां च पुरतः स्थिताम् ।
रणेच्छुः कश्चिदानर्च दिव्यप्राकृतया गिरा ॥ १६३ ॥’

तत्र रुद्राणीपक्षे—हे उमे, हरे भवे वरं श्रेष्ठ भावं कुरु । किम्भूते । लालसभूलेहे लालसभूः कामस्तं लेढि यस्तस्मिन् । तथा महिम्ना प्रभावेणोहं वितर्कमपहरति यस्तस्मिन्महिमोहहरे । महेश्वरसन्निधौ हि सर्वज्ञानाभिभव इति श्रूयते । अतएव तोहन्ति अर्दयन्ति तुहा अरयस्तैर्विच्छिन्ने विरहिते । अपरमप्यरीणां विच्छेदकारणमाह—हरिणारिसारदेहे हरिणारिः सिंहस्तस्य सारो बलं स देहे यस्य तस्मिन् । वरे परि-णेतरीति । उमाया एव वा इमानि सम्बोधनविशेषणानि । कान्तापक्षे तु—हे कान्ते, तव योऽयं हरिनार्याः श्रियाः सार उत्कृष्टो देहस्तत्र यद्वरं श्रेष्ठं विलोचनाननस्तनजघनादि तन्मे भावमभिलाषं हरतु । कामान्पूरयत्वित्यर्थः । किम्भूते देहे । कुटिलालसभ्रूलेखे महिमोहहरे गृहे हारिणि विच्छिन्ने च तनुमध्यत्वादिभिरिति ॥

दिव्या संस्कृता । प्राकृता महाराष्ट्री । भावश्चेतसो लयः । लालस इच्छा तस्माद्भवतीति लालसभूः सङ्कल्पयोनित्वात्कामस्तं लेढीति कर्मण्यण् । ऊहस्तर्कः संशयपृष्ठभावी विपरीतप्रत्ययविशेषः । कथं तं हरतीत्यत आह—“महेश्वरसन्निधाविति” । सन्निधिः साक्षात्काररूपः । सर्वज्ञानानि संस्कारप्रवर्तकानि । ‘तुहिर अर्दने’ तोहतीति इगुपधत्वात्कप्रत्यये तुहा अरयः । ते द्विधा-आन्तराः, बाह्याश्च । आन्तरा मदमानादयः षट्, बाह्याः क्षेत्रापहारकादयः । तत्र पूर्वावच्छेदे च हरिणारिसारदेहत्वं हेतुरुक्तः । हरिणारिसार इव सारो यस्येत्युत्तरपदलोपे हरिणारिसारो देहो यस्येति विग्रहवाक्यमवसेयम् । यथाश्रुत्यर्थकथनमात्रमुमाया एवेत्यत्र लालसभूलेह इत्यच्प्रत्यये व्याख्येयम् । तुशब्दस्तवार्थे । ‘तुतुवतुह्मतुब्भतुज्झा डसः’ इति सूत्रात् । हरिनारी लक्ष्मीस्तस्याः सकाशात् सारः प्रकर्षशाली देहः । ‘पञ्चमी’ इति योगविभागात्समासः । कुरुलाश्चूर्णकुन्तलाः । महीशब्देन भूगोलवर्तिनः प्राणिनोऽभिमतास्तेषां मोहगृह इति व्याख्येयम् । विच्छिन्नो विभक्तावयवः ॥

यथा वा—

रुचिरञ्जितारिहेतिं जननमितं सामकायमकलङ्कम् ।
सन्तममितं च मानय कमलासनमभिविराजन्तम् ॥ १६४ ॥’

‘भूतसंस्कृतभाषाभ्यां द्विर्नमस्कृत्य माधवम् ।
जगाम समरं कोऽपि कस्य श्रेयसि तृप्तयः ॥ १६५ ॥’

तत्र भूतभाषायां यथा—

रुचिरं मनोहरं जितारिहेतिं भग्नसपत्नायुधं जनैर्नमितं श्यामकाय-मकलङं्क शान्तं शान्तरूपं अमितमनन्तम् । चः समुच्चये । कमलासनं ब्रह्माणमभिलक्षीकृत्य विराजन्तं शोभमानं मानय पूजयेति ॥

संस्कृतभाषायां यथा—

रुचिभी रञ्जिता आरिहेतयश्चक्रदीप्तयो येन तम्, जननैर्दशभिरवतारैर्भितं परिच्छिन्नम्, सामानि कायति गायति यः स सामकायस्तम्, न विद्यते कला यस्य सोऽकलस्तम्, कं सन्तं ब्रह्माणं अं विष्णुमितं गतम्, अभिविराजं गरुत्मन्तमभि तं प्रसिद्धं कमलासनं श्रिया संसक्तं मा मां नय प्रापयेति ॥

एवं पैशाचादिभिरपि संस्कृतस्य प्राकृतादेश्च परस्परसम्भेदनाच्छ्लेषो गवेषणीय इत्याशयवानाह—“यथा वेति” । अकलङ्कं दोषरहितं मानयेति धात्वर्थस्य भाव्यत्वेनान्वयात्पूजां कुर्वित्यर्थः । “ब्रह्माणमभिलक्षीकृत्येति” । रुचय आत्मीयाः । अरा विद्यन्ते यस्य तदरि चक्रम् । हेतयः किरणाः । जननं जन्म । सामानि कायति कीर्तयतीति ‘अपवादविषये क्वचिदुत्सर्गः प्रवर्तते’ इति कर्मण्यम् । कला अवयवाः प्रसिद्धाः । वीनां पक्षिणां राजा गरुडस्तभभि इतं गतम् । कमला लक्ष्मीस्तस्या आसनमधिष्ठानं मा मां नयेति ॥

आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता ।
अलङ्कारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ॥ ७० ॥

अनुद्भटावृत्तेश्चित्रादुद्भटावृत्तिमनुप्रासं पूर्वं लक्षयति—“आवृत्तिरिति” । वर्णानामिति वचनमतन्त्रम् । ‘सारः सारस्वती मूर्त्तिः’ इत्यादावेकवर्णावृत्तेरप्यनुप्रासत्वात् । तेन यमकव्यतिरिक्ता वर्णावृत्तिरनुप्रास इति लक्षणमुक्तं भवति । न च श्लेषेऽतिप्रसङ्गः । तन्त्राभ्यां विशेषात् । पूर्वजातिप्रतिबिम्बनेन बन्धच्छायार्थकतयानुप्रासोऽलङ्कारपदवीमध्यास्ते । नच निर्निमित्तमेव प्रतिबिम्बनमत आह—“नातिदूरेति” । अस्ति कश्चिदुञ्चारणस्य ज्ञानस्य वा विशेषो यः शीघ्रमेव संस्कारमुद्बोधयतीति तद्वती वर्णावृत्तिरभिप्रेता । अत एव प्राचीनवर्णजात्यनुगतः सहृदयावर्जकतया प्रकृष्टश्च वर्णानामनुप्रास इति काश्मीरिका निरुक्तिः ॥

श्रुतिभिर्वृत्तिभिर्वर्णैः पदैर्नामद्विरुक्तिभिः ।
लाटानामुक्तिभिश्चायं षट्प्रकारः प्रकाशते ॥ ७१ ॥

एवं स्थिते सामान्यलक्षणविभागमाह—“श्रुतिभिरिति” । आवृत्तिर्द्विधा—वर्णमात्रावलम्बिनी, समुदायगोचरा च । आद्यापि द्विधा—सामान्यतः रूपतश्च । सामान्यमपि द्विधा—स्थानतः, व्यापारतश्च । तत्र स्थानं कण्ठादिलक्षणं सैव श्रुतिः । श्रूयते हि तयाभिव्यक्तो वर्णव्यापारोऽभिव्यञ्जनरूपः, स एव रसविषये वर्तनं वृत्तिरुच्यते । श्रुतिभिरित्यादौ इत्थम्भूतलक्षणे तृतीया ॥

प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायकः ।
सनाथैव हि वैदर्भी भाति तेन विचित्रिता ॥ ७२ ॥

“प्रायेणेति” । श्रुत्यनुप्रासो हि श्लेषघटकः । श्लेषश्च गुणान्तरसमकक्षतयावतिष्ठमानो वैदर्भी प्रयोजयति । अनुप्रासान्तरं तु प्रौढिं वा माधुर्यं वा प्रकर्षयतीति न तथानुकूल्यम् । कविशक्तिवशात्तु क्वचित्तदपि प्रयोजयतीति प्रायपदेन सूचितम् । स्थितिप्रयोजको लोके नाथ इत्युच्यते, तेषु नायक इत्येव वक्तव्ये पुनरनुप्रासपदमनुप्रासान्तरसाधारण्येनैव शब्दालङ्कारत्वं दर्शयितुमिति समाधेयम् । विचित्रिता आलेख्यमिव लेखया चमत्कारकारित्वमानीता ॥

निवेशयति वाग्देवी प्रतिभानवतः कवेः ।
पुण्यैरमुमनुप्रासं ससमाधिनि चेतसि ॥ ७३ ॥

कथं पुनरस्यानुप्रासस्य पृथक्प्रयत्नानुसन्धेयस्यापि रसप्रकाशसामग्र्यामन्तर्भाव इत्यत आह—“निवेशयतीति” । अक्लिष्टपदवाक्यार्थस्फुरणं प्रतिभानम् । तदेव कथमित्यत आह—“ससमाधिनीति” । “पुण्यैरिति” । तेन रसवत्त्वव्यवस्थितस्य कवेरहम्पूर्विकाकृष्टोऽनुप्रासो न पृथक्प्रयत्ननिर्वर्त्य इति तात्पर्यम् । ग्राम्यादिभेदोऽग्रे विवरिष्यते ॥

स त्रिधा—ग्राम्यः, नागरः, उपनागरश्च । तेषु ग्राम्यश्चतुर्धा—मसृणः, वर्णमसृणः, वर्णोत्कटः, वर्णानुत्कटश्च ।

तेषां मसृणो यथा—

‘एष राजा दयालक्ष्मीं प्राप्तवान्ब्राह्मणप्रियः ।
तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ १६६ ॥’

अत्र स्थानतः समानश्रुतीनां मूर्धन्यतालव्यदन्त्यौष्ठ्यकण्ठ्यवर्णानां प्रथमतृतीयपादयोर्निरन्तरा द्वितीयचतुर्थयोश्च सान्तरा पट इव स्रग्दाम्नीव वा वर्णप्रदानान्मसृणैवावृत्तिः । सोऽयं श्रुत्यनुप्रासो मसृण इत्युच्यते ॥

एकपदप्रतिभासमात्रानुमेयो मसृणः । रूपसाजात्येऽपि मसृणतान्यग्भूतो वर्णमसृणः । उद्भटरूपसाजात्यानुविद्धो वर्णोत्कटः । अनुद्भटसाजात्यानुरोधेन किञ्चिदभिभूतमसृणभावो वर्णानुत्कटः । एष राजेत्यादावुदाहरणे षकाररेफौ मूर्धन्यौ, जकारयकारौ तालव्यौ, दकारलकारौ दन्त्याविति प्रथमपादे । तकारदकारौ दन्त्यौ, पकारभकारावौष्ठ्यौ, तकारधकारौ दन्त्याविति तृतीयपादे च । निरन्तरं द्वितीयपादे रेफणकारौ मूर्धन्यौ । चतुर्थपादे लकारसकारौ दन्त्यावित्यादि । विना क्रमेण सान्तरमावर्तनं नवरूपसाजात्यं क्वचिदुल्लिखतीति मसृण एवायम् ॥

वर्णमसृणो यथा—

‘स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः १६७’

अत्र दन्त्यौ मूर्धन्यावोष्ठ्यौ डलयोरैक्येन दन्त्यपञ्चकं मूर्धन्य इत्यादिना क्रमेण यद्यपि पूर्ववत्स्थानतः समानश्रुतितया मसृणैवावृत्तिः, तथापि चित्रपट इव माल्यग्रथन इव वा योऽयं क्षणं पक्ष्मसु ताडिताधराः, पयोधरः, वलीः, स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः, इति नानावर्णात्मकः सूत्रान्तरस्येव पुष्पान्तरस्येव वा स्थानभेदेन मसृण एव निवेशस्तेनैष श्रुत्यनुप्रासो वर्णमसृण इत्युच्यते ॥

अत्र चित्रतन्तुमयः पटः । एकजातीयकुसुमग्रथनात्प्राक् स्थिता इत्यादि । अत्र थकारतकारौ दन्त्यौ, षकारणकारौ मूर्धन्यौ, पकारमकारावोष्ठ्यौ । ताडितेत्यत्र डकारे लकारकल्पनया सनलतधाः पञ्च दन्त्याश्च रेफो मूर्धन्य इति प्रथमपादे । द्वितीयपादे च धकारसकारौ नकारतकारौ दन्त्यावित्यादिना क्रमेण सान्तरा निरन्तरा च श्रुतित एव वर्णावृत्तिः पूर्ववदुपलभ्यते । किन्तु तकारादीनां रूपतोऽपि स्थाने स्थाने पूर्वमसृणतान्यग्भूतैवावृत्तिस्तेनायं वर्णमसृणः । श्रुतिसाजात्यं च न क्वचिद्विघटते । अत्रैव निदर्शनद्वयम् ॥

वर्णोत्कटो यथा—

‘विमुच्य सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना ।
बवन्ध बालारुणबभ्रुवल्कलं पयोधरोत्सेधविशीर्णसहतिः ॥ १६८ ॥’

अत्र सर्वं पूर्ववत् । किन्तु तृतीयपादे बबन्ध बालारुणबभ्रुवल्कलमिति वर्णाधिक्ययोगः । सोऽयं वर्णोत्कटो नाम श्रुत्यनुप्रासः ॥

“विमुच्येति” । हारोचितसन्निवेशयोरपि स्तनयोरनुचितवल्कलबन्धसम्भावने हेतुरहार्यनिश्चयेति । अत एव सा मां कोऽपि वारयेदिति कातरताप्रादुर्भावादितस्ततो विलोलदृष्टिः । अत्र हकारमकारावोष्ठ्यौ, चकारयकारौ तालव्यावित्यादिना क्रमेण मसृणा हकारादीनां रूपसाजात्येऽपि मसृणताप्राधान्याद्वर्णमसृणा चावृत्तिरित्याह—“अत्र सर्वमिति” । वर्णोत्कटत्वं व्याचष्टे—“वर्णाधिक्ययोग इति” । उद्भटं हि रूपसाजात्यं वर्णोत्कटत्वम् । तच्च सरूपवर्णावृत्त्याधिक्येनेत्यर्थः ॥

वर्णानुत्कटो यथा—

‘ततः प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥ १६९ ॥’

अत्र दन्त्यवर्णप्रायतयातिमसृणत्वे शिलातलेष्विति दन्त्यवर्णाभ्यामेव वर्णस्तोमो दत्तः ।सोऽयं वर्णानुत्कटो नाम श्रुत्यनुप्रासः । तेऽमी चत्वारोऽप्यतिप्रसिद्धतया ग्राम्या उच्यन्ते ॥

“ततः प्रभृतीति” । तापोद्रेकाद्दत्तं दत्तमेव चन्दनमाश्यानभावेन रेणुभिरलकच्छटासु विशीर्यत इति द्वितीयकामावेशो ध्वनितः । अत्र तकारनकारौ दकारनकारावित्यादिना क्रमेण श्लोकसमाप्तिं यावद्बहवो दन्त्याः । तेनैकश्रुतिव्याप्तस्य सन्दर्भस्य मसृणतायामतिशयः । शिलातलेति रूपसाजात्येन लकारावुद्भूतश्रुतिकौ । न चाधिकावृत्तिरत्रास्तीत्यनुत्कटता । न च श्रुतेरुद्भवेऽपि मसृणता न प्रकृष्यत इति वर्णानुत्कटोऽयम् । ग्राम्यत्वं व्याचष्टे—“तेऽमी चत्वारोऽपीति” । श्रुतिसाजात्यस्य शब्दानुशासनेऽपि प्रसिद्धेरतिप्रसिद्धत्वम् ॥

ग्राम्यवैपरीत्येन नातिप्रसिद्धो नागरः । यथोच्यते—

एकत्वबुद्धिर्भेदेऽपि तत्त्वेऽप्येकत्वनिह्नवः ।
यस्य वर्णस्य तं प्राहुरनुप्रासस्य जीवितम् ॥ ७४ ॥

तत्र भेदेऽप्येकत्वबुध्द्या समानस्थानयोर्यथा—

‘हरेर्लङ्घितघर्मांशुर्व्योम्नि दीर्घेण रंहसा ।
बलिबन्धनघोरोऽङ्घ्रिरंहःसङ्घं निहन्तु वः ॥ १७० ॥’

अत्र हकारस्य तुल्यस्यातुल्यस्थानेन घकारेण सह भेदेऽप्येकत्वबुद्धेस्तुल्यश्रुतित्वमिति भेदेऽप्येकत्वबुध्द्या नागरानुप्रासोऽयम् ॥

“ग्राम्यवैपरीत्येनेति” । ग्राम्यविरुद्धस्वभावो हि लोके नागर इत्युच्यते । अतिप्रसिद्धेरभावो विरोधस्तेनालङ्कारसमयोपजीविपञ्चषप्रसिद्धिरनतिप्रसिद्धिरित्युक्तं भवति । एतदेव पूर्वाचार्यमतेन विशदयति—“यथोच्यत इति” । एकश्रुतिकतया भानं हि श्रुतिसाजात्यमभिमतम् । श्रुतिश्च वास्तवी प्रतिपादनमात्रारूढा वेति न कश्चिद्विशेषः । ततो भेदेऽप्येकत्वबुध्द्यानुप्राससिद्धिः । तत्त्वे एकत्वे । आपाततः साजात्यानवभासेऽपि सहृदयप्रणिधानेनावभासनं श्रुत्यनुप्रासप्रयोजकमेव । अनुप्रासस्य । अनुप्रासवतः सन्दर्भस्येत्यर्थः । विजातीययोरेकजात्यप्रतिबिम्बनं द्विधा भवति स्थानसाम्ये तदसाम्ये च । तयोराद्यमुदाहरति—“तत्रेति” । दीर्घेण रंहसेति, घोरोऽङ्घ्रिरिति, रंहःसङ्घमिति, घकारहकाराणां स्थानसाम्येऽपि वैजात्यमस्त्येव । तथा पठितौ तुल्यवच्छ्रुतिः प्रतिभातीति सहृदयहृदयसाक्षिकोऽयमर्थः ॥

तथैवासमानस्थानयोर्यथा—

‘उच्छलन्मत्स्यपुच्छाग्रदण्डपाताहताम्भसि ।
जगदुद्यानमम्भोधावुन्ममज्ज ममज्ज च ॥ १७१ ॥’

अत्रोच्छलन्मत्स्यपुच्छाग्रेत्यत्र त्स्यच्छकारयोरिव त्स्यकारस्यापि तुल्यश्रुतित्वमित्यसमानस्थानत्वेन भेदेऽप्येकत्वबुध्द्या नागरानुप्रासोऽयम् ॥

“अत्र त्स्यच्छकारयोरिति” । चछौ तालव्यौ, तसौ दन्त्याविति स्थानभेदः प्रकाश एव । तथापि पिण्डीभूताभ्यां च स्तम्बीभूतमध्यपतितौ तसौ समानश्रुतिकाविति पठितौ सौभाग्यमर्पयतः । तेनायमसमानस्थानयोरेकत्वबुध्द्या नागरानुप्रास इति ॥

तत्त्वेऽप्येकनिह्नवेन डकारवकारयकाराणां यथा—

‘क्रोडे मा डिम्भमादाय चण्डि पीडय वक्षसा ।
कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते ॥ १७२ ॥’

अत्र डकारादीनामीषत्स्पृष्टतादिभिरेकत्वेऽपि भेदावभास इति तत्त्वेऽप्येकत्वनिह्नवेन नागरानुप्रासोऽयम् ॥

“तत्त्वेऽपीति” । द्रुतादौ वृत्तिमात्रं भिद्यते, न तु रूपमिति महाभाष्यकारोक्तदिशा येषामेकस्थानत्वेऽपीषत्स्पृष्टतरत्वादिकृता भेदप्रथा ते डकारादयः । कतिपयेऽस्य विषयास्तानुद्दिश्य क्रमेणोदाहरति—“क्रोड इत्यादि” । अङ्कगतस्य बालकस्य वक्षसा पीडनं सङ्क्रान्तकमालिङ्गनमामनन्ति । अनेन किल प्रच्छन्नप्रियगोचरो गाढालिङ्गनमनोरथः प्रकटितो भवति । कर्णयोरुपांशु यदभिधीयते तेन तुल्यमिदमिति विदग्धसहचरीपरिहासोक्तिरियम् । अत्र च क्रोडडिम्भेत्यादौ डकारवकारयकाराणामीषत्स्पृष्टतरत्वादिभेदः श्रुतिसाजात्यं च सुप्रसिद्धमेवेति ॥

तथैव ढकारवकारलकाराणां यथा—

‘नवोढे त्वं कुचाढ्यापि नोपगूढाय ढौकसे ।
वहन्बाहुलते ह्रीणो वरः पुलकलङ्घिते ॥ १७३ ॥’

अत्र ढकारादीनामीषत्स्पृष्टतादिभिरेकत्वेऽपि भेदावभास इति तत्त्वेऽप्येकत्वनिह्नवेन नागरानुप्रासोऽयम् ॥

“ढकारवकारलकाराणामिति” । वकारोदाहरणं दत्तमपि वर्णान्तरसरलतया पुनर्दीयते । उपगूढमालिङ्गनम् । अपिशब्दो भिन्नक्रमः । उपगूढायापि न ढौकसे । दूरे पततः कचग्रहादिकेलिषु प्रवृत्तिर्लङ्घनेन सर्वाङ्गीणः पुलकोद्भेदो बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिः । अत्रापि ढकारादीनामीषत्स्पृष्टतादिभेदः सुबोध एव ॥

उभयगुणयोगान्नात्यप्रसिद्ध उपनागरः । यथोच्यते—

डलयोरैक्यमित्यादिवाक्यैर्यस्यानुमीयते ।
समानश्रुतितान्योन्यं सोऽनुप्रासः प्रशस्यते ॥ ७५ ॥

स डलयोरैक्येन यथा—

‘शयने यस्य शेषाहिः सनीडे वडवानलः ।
महासाहसिनामग्र्यं तमीडे जडशायिनम् ॥ १७४ ॥’

सोऽयमुपनागरः श्रुत्यनुप्रासः ॥

“उभयगुणयोगादिति” । प्रसिध्द्यप्रसिद्धी द्वौ गुणौ । अत्र प्रत्यक्षानुमानरूपोपायभेदादविरोधः । तदेतदन्यमतेन विवृणोति—“डलयोरैक्यमिति” । सनीडः समीपं जलमज्जनशेषाहिवडवानलानामनर्थनिदानतया प्रख्यातानामपि सेवया महासाहसिकानामग्र्यता । अत्र डकारलकारयोर्भिन्नश्रुतिता प्रत्यक्षत एव । श्रुतिसाम्यं पुनरनुमानात्प्रतीयते । एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् ॥

नणयोरैक्येन यथा—

‘बाणैः क्षुण्णेषु सैन्येषु त्वया देव रणाङ्गणे ।
हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः ॥ १७५ ॥’

अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति नकारणकारयोः स्वल्पश्रुतित्वमेकत्वं वा भासत इति उपनागरोऽयं श्रुत्यनुप्रासः ॥

“क्षुण्णेषु सैन्येष्विति” । ग्रन्थिमहिम्ना नकारणकारयोः साम्यप्रतिभासः । “रणाङ्गण इति” । मध्यवर्तिनां संयोगेन साम्योन्मुद्रणम् । अङ्गणशब्दोऽधिकरणल्युडन्तः । पृषोदरादित्वाण्णत्वव्युत्पादनमनार्षम् । एवं शून्यारण्यानीत्यत्र व्याख्येयम् । आद्यन्तव्याख्यानमुपलक्षणमवसेयम् ॥

रलयोरैक्येन यथा—

‘विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १७६ ॥’

अत्र करीरनीलैरिति रेफलकारयोरैक्येन तुल्यश्रुत्या चतुर्ष्वपि पादेष्वनुप्रासनिर्वहणमित्युपनागरोऽयं श्रुत्यनुप्रासः ॥

निरन्तररेफग्रथनालीढस्येव लकारस्य श्रुतिसाजात्यमुल्लिखतीति तदिदमाह—“अत्र करीरनीलैरिति” । एतदनुप्राससिध्द्या चतुर्ष्वपि पादेषु रेफानुप्रासनिर्वहणमपि कविशक्तिव्युत्पत्तिव्यञ्जकमुपपन्नं भवतीत्याह—“चतुर्ष्वपीति” ॥

दन्त्यतालव्यानामैक्येन यथा—

‘विद्यास्यन्दो वाग्विदां यः प्रसन्नः पुण्यां वाचं देवतां तां नमामः ।
यां ब्रह्माणश्चिन्तयन्ते विशोकाः सा नो देयात्सूनृता सूनृतानि ॥ १७७ ॥’

अत्र दन्त्यतालव्यानामैक्येन तुल्यश्रुतिनेत्युपनागरोऽयं श्रुत्यनुप्रासः । सर्वेऽपि चानुप्रासाः प्रायेण विसदृशवर्णान्तरिता एव स्वदन्ते इत्यौष्ठ्यकण्ठ्यादीनामिहानुप्रवेशो भवति ॥

विद्यास्यन्दः सारस्वतप्रवाहः सैव वाग्देवता शब्दब्रह्मरूपा तच्चिन्तया परब्रह्माधिगमनिःश्रेणीभूतया शोकस्य इष्टहानिजखेदस्य विच्छेदः । अत्र स्यन्दः प्रसन्न इति दन्त्यौ सकारौ, ब्रह्माणश्चेतयन्तो विशोका इत्यादेशानादेशौ शकारौ तालव्यौ, पुनरन्ते सा सूनृतामीति त्रयो दन्त्याः, सर्वेषां सम्भूय पाठे तुल्यश्रुतितैव प्रतिभासत इति । ननु सजातीयानां निरन्तरमावापे कर्तव्ये किमिति विजातीयव्यवहितैरावृत्तिरुदाह्रियत इत्यत आह—“सर्वेऽपीति” ॥

यथा ज्योत्स्ना चन्द्रमसं यथा लावण्यमङ्गनाम् ।
अनुप्रासस्तथा काव्यमलङ्कर्तुमयं क्षमः ॥ ७६ ॥

श्लेषनिर्वाहकतया श्रुत्यनुप्रासोऽलङ्कार इत्युक्तम्, तच्च सन्दर्भव्यापकतयैव निर्वहतीत्याह—“यथेति” । ज्योत्स्नालावण्ययोः सर्वाङ्गीणा श्लेषसुभगयोरेवालङ्कारताप्रसिद्धिः ॥

अनुप्रासः कविगिरां पदवर्णमयोऽपि यः ।
सोऽप्यनेन स्तबकितः श्रियं कामपि पुष्यति ॥ ७७ ॥

नन्वेवमनुप्रासान्तरविषयेऽपि श्रुत्यनुप्रासः प्रसक्तस्तत्र च किमनेन करिष्यत इत्यत आह—“अनुप्रासः कविगिरामिति” । उक्तं हि—‘न घटनामन्तरेण काव्यभावः । न च काव्यमपहाय वर्णानुप्रासादीनामात्मलाभः’ इति ॥

मुहुरावर्त्यमानेषु यः स्ववर्ग्येषु वर्तते ।
काव्यव्यापी स सन्दर्भो वृत्तिरित्यभिधीयते ॥ ७८ ॥

“स्ववर्ग्येष्विति” । स्वशब्द आत्मीयवचनः । स्ववर्गे भवाः स्ववर्ग्याः कच टतपान्तःस्थोष्मोपलक्षिताः सप्तवर्गाः । स्ववर्ग्येषु वर्तत इत्यर्थकथनम् । माणिक्यस्तबकितहारलतावदन्योन्यालम्बनेन परभागलाभ इत्यभिप्रायतया च काव्यव्यापकेनैव सन्दर्भेण निरूप्यमाणा वर्ग्या वृत्तिर्वृत्त्यनुप्रास इति पर्यवसितोऽर्थः ॥

कार्णाटी कौन्तली कौङ्की कौङ्कणी बाणवासिका ।
द्राविडी माथुरी मात्सी मागधी ताम्रलिप्तिका ॥ ७९ ॥

औण्ड्री पौण्ड्रीति विद्वद्भिः सा द्वादशविधेष्यते ।
अथ लक्षणमेतासां सोदाहरणमुच्यते ॥ ८० ॥

वर्णानुप्रासाद्भेदो वक्ष्यते—कर्णाटादिप्रभवकविहेवाकगोचराः कार्णाटीप्रभृतयो न तु वृत्तीनां देशैः कश्चिदुपकारः । बणवासनामा दक्षिणापथे रत्नाभगवतीचिह्नितो देशः । [कुण्डलान्तरगतोऽयं भागोऽनन्वितः प्रतीयते ।भ्रम धातोरिति । विधिमिति इति परायणम् ॥]

तासु वर्णानुप्रासवती कार्णाटी यथा—

‘कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किम् ।
कामं कथय कल्याणि किङ्करः करवाणि किम् ॥ १७८ ॥’

चवर्गानुप्रासवती कौन्तली यथा—

‘ज्वलज्जटिलदीप्तार्चिरञ्जनोच्चयचारवः ।
चम्पकेषु चकोराक्षि चञ्चरीकाश्चकासति ॥ १७९ ॥’

अवहित्थप्रस्तावे कर्णकण्डूयितमोट्टायिताख्यः श्रृङ्गारभावजो विकारः ॥

टवर्गानुप्रासवती कौङ्की यथा—

‘कुम्भकूटाट्टकुट्टाककुटिलोत्कटपाणिरुट् ।
हरिः करटिपेटेन न द्रष्टुमपि चेष्ट्यते ॥ १८० ॥’

कुम्भकूटं कुम्भाग्रं तदेव अट्टोऽट्टालकः । ‘रुष हिंसायाम्’ । यथोक्तेन पाणिना रुषतीति क्किप् । पेटः समूहः ॥

तवर्गानुप्रासवती कौङ्कणी यथा—

‘मधुर्मधूनि गान्धर्वमन्दिरं मदिरेक्षणा ।
इन्दुरैन्दीवरं दाम काममानन्दयन्ति नः ॥ १८१ ॥’

मधुर्वसन्तः । गान्धर्वं गीतम् । अत्र धकारदकारानुप्रासैरासमाप्ति निर्वहणम् ॥

पवर्गानुप्रासवती बाणवासिका यथा—

‘प्रिया प्रगल्भा ताम्बूलं परिस्रुत्फुल्लमुत्पलम् ।
पृषत्काः पञ्चबाणस्य पञ्चमः पञ्चमध्वनिः ॥ १८२ ॥’

परिस्रुत् मदिरा । पृषत्का बाणाः । पञ्चमः स्वरविशेषस्तद्भूयिष्ठो ध्वनिः पञ्चमध्वनिः ॥

अन्तःस्थानुप्रासवती द्राविडी यथा—

‘प्रियाललवलीतालतमालैलावनावली ।
भाति पत्रलहिन्तालकृतपुण्ड्रा वधूरिव ॥ १८३ ॥’

पत्रलाः सान्द्रपत्राः । सिध्मादेराकृतिगणत्वाल्लच् । पुण्ड्रं तिलकः । अत्र लकारवकारानुप्रासाभ्यां सन्दर्भनिर्वाहः ॥

ऊष्मानुप्रासवती माथुरी यथा—

‘पुष्णती पुष्पधनुषं मुष्णती प्लोषविप्रुषः ।
मिषन्ती निर्निमेषेण चक्षुषा मानुषी न सा ॥ १८४ ॥’

प्लोषो विरहदाहस्तस्य विप्रुषस्तीक्ष्णा भागाः । तेऽमी सप्त शुद्धा एव वृत्त्यनुप्रासाः ॥

द्वित्रिवर्गानुप्रासवती मात्सी यथा—

‘कोकिलालापवाचालो मामेति मलयानिलः ।
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः ॥ १८५ ॥’

सङ्कीर्णाः पुनरन्ये पञ्च भवन्ति । तत्र सङ्करो द्विधा—विजातीयसंवलनम्, मिथः सम्भेदेन संयोगरूपता च । कोकिलालापेत्यादौ कवर्गान्तःस्थचवर्गानुप्रासाः स्फुटा एव । संयोगस्तु विद्यमानोऽपि न विवक्षितः ॥

द्वाभ्यां विदर्भितैकवर्ग्या मागधी यथा—

‘अघौघं नो नृसिंहस्य घनाघनघनघ्वनिः ।
हन्याद्धुरुघुराघोरः सुदीर्घो घोरघर्घरः ॥ १८६ ॥’

विदर्भितः स्वान्तरायेण वैदर्भीप्रपञ्चशोभामानीतः । घुरुघुरेत्यव्यक्तानुकरणम् । अत्रासमाप्ति कवर्गानुप्रासस्तवर्गान्तःस्थानुप्रासाभ्यां विदर्भितः । एवमन्यत्रापि वैदर्भी गवेषणीया ॥

स्वान्त्यसंयोगिवर्ग्या ताम्रलिप्तिका यथा—

‘शिञ्जानमञ्जुमञ्जीराश्चारुकाञ्चनकाञ्चयः ।
कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥ १८७ ॥’

संयोगो द्विविधः—सजातीयेन, अन्येन च । आद्यस्त्रिविधः—स्वर्ग्यान्तसरूपतदन्यसंयोगभेदात् । एते यथाक्रमं वृत्तित्रयं प्रयोजयन्तीत्याह—“स्वान्त्येत्यादि” । शिञ्जाना मधुरं शब्दायमानाः । मञ्जीरा नूपुराः । अत्र पूर्वार्धे स्वान्त्यसंयोगिनौ चवर्गौ, उत्तरार्धे तु कवर्गाविति ॥

सरूपसंयोगिग्रथितौण्ड्री यथा—

‘सल्लतापल्लवोल्लासी चित्तवि(वृ)त्तहरो नृणाम् ।
मज्जतीज्जलसज्जासु नदीषु मलयानिलः ॥ १८८ ॥’

सन्तः कमनीया लतानां पल्लवास्तदुल्लासनमात्रप्रवीणतया तीव्रताव्यतिरेकः । अत एव नृणां विदग्धमिथुनानां चित्तमेव सर्वस्वभूतं वित्तं हरतीति । इज्जला निचुलास्तैः सज्जाः सन्नद्धाः । निचुलनिकुञ्जसन्नद्धनदीमज्जनेन शीतलत्वमुन्मीलितम् ॥

असरूपसंयोगग्रथिता पौण्ड्री यथा—

‘अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
पीनस्तनस्थिता ताम्रकम्रवस्त्रेव वारुणी ॥ १८९ ॥’

अस्तोऽस्ताचलः । कम्रं कमनीयम् ॥

अकठोराक्षरादानं नातिनिर्वहणैषिणः ।
अशैथिल्यं च सत्कर्तुं वुत्त्यनुप्रासमीशते ॥ ८१ ॥

वृत्त्यनुप्रासरसिकस्य कवेः प्रसजमानं दोषमपाकर्तुं शिक्षामाह—“अकठोरेति” । तदुक्तम्— ‘परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषम् । रचयेदथागतिः स्यात्तत्रापि ह्रादयो ह्रेषाः ॥’ अतिनिर्वाहे व्यक्तमेव वैरस्यम् । तदुक्तम्—‘सर्व एवानुप्रासाः प्रायेणेऽत्यादि । कोमलमात्रवर्ग्यनिर्वहणे तु शैथिल्यसम्भावनमिति ॥

क्वचिदस्ति क्वचिन्नास्ति क्वचिदस्ति न चास्ति च ।
वर्णानुप्रास एषा तु सर्वतोऽस्तीति भिद्यते ॥ ८२ ॥

नन्वनुप्रासाद् वृत्तीनां को विशेष इत्यत आह—“क्वचिदिति” । क्वचिदवृत्तिभागे चरणाद्यात्मके भवत्येव । क्वचित्पुनरंशभेदेन भवति न भवति च । तावतैव तस्यालङ्कारत्वम् । वृत्तिशरीरव्यापकतया निरूप्यमाणस्तु वर्ग्यान्तोऽन्य एव । अयं वर्णानुप्रासाद्वृत्त्यनुप्रास इत्यर्थः ॥

अन्ये पुनरन्यथा वृत्तिं व्याचक्षते—

स्पर्शादीनामसम्बन्धः सम्बन्धो वापि यो मिथः ।
स्फुटादिबन्धसंसिध्द्यै सेह वृत्तिर्निगद्यते ॥ ८३ ॥

“अन्ये पुनरिति” । वर्णानां वर्तनं वर्तनाधिष्ठानं च वर्तिपदेनाभिमतम् । आद्ये सङ्घटनविघटनाभ्यां द्विधा । समस्तव्यस्तभेदेन सङ्घटनविघटने द्विधा । कादयो मावसानाः स्पर्शाः । आदिग्रहणादन्तःस्थोष्मणोः सङ्घटनबहुलः सन्दर्भः प्रस्फुटः । विघटनबहुलः कोमलः । उभयबहुल उन्मिश्रः ॥

काव्यव्यापी च सन्दर्भो वृत्तिरित्यभिधीयते ।
सौकुमार्यमथ प्रौढिर्मध्यमत्वं च तद्गुणाः ॥ ८४ ॥

गम्भीरौजस्विनी प्रौढा मधुरा निष्ठुरा श्लथा ।
कठोरा कोमला मिश्रा परूषा ललितामिता ॥ ८५ ॥

द्वितीयं वृत्तिशब्दार्थमाह—“काव्यव्यापी चेति” । अत्रापि दोषप्रसङ्गापाकरणार्थमाह—“सौकुमार्यमिति” । अत एव [सौकुमार्यप्रौढिमध्यमत्वानि] गुणाः । शैथिल्यपरुषत्वे तु दोषावित्यर्थः ॥

इति द्वादशधा भिन्ना कविभिः परिपठ्यते ।
कारणं पुनरुत्पत्तेस्त एवासां विजानते ॥ ८६ ॥

योगासंयोगयोः प्रतियोगिव्यवस्थाविरहात्कथं द्वादशप्रकारता व्यवस्थितिरित्याशयवानाह—“कारणं पुनरिति” ॥

तासु गम्भीरा यथा—

‘अप्फुन्दन्तेण णहं महिं च तडि उद्धमाइअदिसेण ।
दुन्दुभिगम्भीररवं दुण्डुहिअं अम्बुवाहेण ॥ १९० ॥’

[आस्पन्दता नभो महीं च तडिदुध्मापितदिशा ।
दुन्दुभिगम्भीररवं दुन्दुभितमम्बुवाहेन ॥]

सैषा प्रायस्तवर्गपवर्गयोस्तृतीयचतुर्थानां पकारफकारयोश्च स्वसंयोगबिन्दुयोगाम्यां जायते ॥

दूषणप्रतिपत्तिसौकर्यात्तत्प्रसिध्द्यैव पृथगुदाह्रियत इत्याह—“तास्विति” । अप्फुन्दन्तेण व्याप्तवता । उद्धमाइअं व्याप्तम् । दुन्दुभिरन्तर्गतकांस्यभाजनो निःस्वानविशेषः । दुण्डुहिअं शब्दायितम् । दकारधकारौ तवर्गस्य बकारभकारौ पवर्गस्य तृतीयचतुर्थौ ॥

ओजस्विनी यथा—

‘पत्ता अ सीभराहअधाउशिलाअलणिसण्णराइअजलअम् ।
सञ्जं ओज्जुरपहसिददरिमुहणिम्महिअवउलमइरामोदम् ॥ १९१ ॥’

[प्राप्ताश्च शीकराहतधातुशिलाजलनिषण्णराजितजलजम् ।
सह्यं निर्झरप्रहसितदरीमुखनिर्मथितबकुलमदिरामोदम् ॥]

सेयं मूर्धन्यानां प्रथमचतुर्थपञ्चमद्वित्रैस्तदावृत्त्या च प्रायो जायते ॥

सततशीकरसिच्यमानगैरिकशिलातललुण्ठनेन जलदानां रञ्जनम् । विशीर्य पतनेनात्यन्तधवला निर्झरा एव हासो यस्य तादृशेन दरीमुखेनान्तःप्ररूढबकुलकुसुमामोदनिःसरणरञ्जितजलधरप्रतिबिम्बभूतताम्रनयनोन्मुद्रणात् । हासबकुलामोदाभ्यां च क्षीबतारोपरूपा समासोक्तिर्ध्वन्यत इत्याराध्याः । ओज्जुरो निर्झरः । णिम्महिअं निःसृतम् ॥

प्रौढा यथा—

‘कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यां मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तं स्वर्लोकस्त्रीगात्रनिर्वाणमत्र ॥ १९२ ॥’

सैषा प्रायेण मूर्धन्यानामन्तःस्थानां संयोगात्पूर्वगुरुत्वेन जायते ॥

भृगवस्तटाः । भृगुपातस्य सुरस्त्रीसङ्गमः फलम् । अत्र कुर्वन्स्वर्लोकनिर्वर्त्येतेषु मूर्धन्यानामन्तःस्थसंयोगा उच्चैःशब्द इत्यादौ स्वभावगुरूणामपि पूर्वरूपसंयोगसन्निधौ छायाविशेषो भवतीत्याहुः केचित् ॥

मधुरा यथा—

‘किञ्जल्कसङ्गिशिञ्जानभृङ्गलाञ्छितचम्पकः ।
अयं मधुरुपैति त्वां चण्डि पङ्कजदन्तुरः ॥ १९३ ॥’

सैषा प्रायोऽनुस्वारपुरोवर्तिस्पर्शतया जायते ॥

“अनुस्वारपुरोवर्तीति” । अनुस्वारस्वरूपतदादेशावनुस्वारपदेन गृह्येते । तेन शमितहासेत्यादावनुस्वाराभावेऽपि न लक्षणमुदाहरणम् ॥

निष्ठुरा यथा—

‘स्वाङ्गश्लिष्टाद्रिजन्मानं नेत्रार्चिः प्लुष्टमन्मथम् ।
स्तौमि त्र्यक्षं द्युषज्ज्येष्ठं दैत्यश्रेण्यर्चिताङ्घ्रिकम् ॥ १९४ ॥’

सैषा प्रायः संयोगभूयस्त्वेनोत्पद्यते ॥

“स्वाङ्गेति” । दिवि सीदन्तीति द्युषदो देवाः । सुषामादित्वात्षत्वम् । अत्रैकान्तरिताः संयोगाः सन्दर्भव्यापकाः प्रतीयन्ते । सोऽयमस्याः संयुज्यमानाविशेषेऽपि वृत्त्यन्तराद्विशेषो निष्ठुराद्वैपरीत्येन श्लेषोदाहरणं सुगमम् ॥

श्लथा यथा—

‘दयितजनविरहविगलितनयनोदकपीतहरिणमदतिलकम् ।
वदनमपगतमृगमदशशिकरणिं वहति लोलदृशः ॥ १९५ ॥’

सेयं प्रायो व्यञ्जना नाम संयोगेन जन्यते ॥

करणिः सादृश्यम् ॥

कठोरा यथा—

‘निसर्गनिर्गतानर्घघर्घरध्वनिहास्तिकम् ।
चक्रे चक्रं युधि क्रामन्नलर्कः कर्कशार्करुक् ॥ १९६ ॥’

सैषा प्रायः कण्ठ्यरेफादिसंयोगादुत्पद्यते ॥

“सैषा प्रायः कण्ठ्येति” । कण्ठ्यरेफयोः क्वचिदन्यस्याप्यादिपदोपात्तस्य संयोगोऽवसेयः ॥

कोमला यथा—

‘दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते ।
रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥ १९७ ॥’

सेयं रेफणकाराद्यसंयुक्तकोमलवर्णविरचनया निष्पद्यते ॥

मिश्रा यथा—

‘पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ १९८ ॥’

सैषा प्रायः कठोराणामोष्ठ्यकण्ठ्यमूर्धन्यानां बाहुल्यादिभिरुपलभ्यते ॥

“बाहुल्यादिभिरिति” । बाहुल्याल्पत्वमिश्रणैः प्रादेशिकैरित्यर्थः ॥

परुषा यथा—

‘जह्रे निह्रादिह्रादोऽसौ कह्लाराह्लादितह्रदः ।
प्रसह्य मह्या गर्ह्यत्वमर्हणाहः शरन्मरुत् ॥ १९९ ॥’

सैषा प्रायेणोष्मणामन्तःस्थादिसंयोगैरवस्थाप्यते ॥

ललिता यथा—

‘द्राविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे ।
आसज्य राज्यभारं स्वं सुखं स्वपिति मन्मथः ॥ २०० ॥’

सैषा प्रायेण दन्त्यौष्ठ्यतालव्यानां मध्येऽन्तःस्थादिसंयोगैः स्थाप्यते ॥

“द्राविडीनामिति” । किञ्चिदुन्नमनं रेचितम् । तेनाधिज्यकोदण्डक्रियाकारिभ्रूलतासनाथे दुःखराज्यभारारोपः । सुगममुदाहरणम् ॥

अमिता यथा—

‘बकुलकलिकाललामनि कलकण्ठीकलकलाकुले काले ।
कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः ॥ २०१ ॥’

सेयममितयोरेव ककारलकारबन्धयोरनुप्रासेन प्रसूयते ॥

इति द्वादशधा वृत्तिः कैश्चिद्या कथितेह सा ।
न गुणेभ्यो न वृत्तिभ्यः पृथक्त्वेनावभासते ॥ ८७ ॥

तदेतत्सर्वेषां मतं दूषयति—“न गुणेभ्य इति” । समतासौकुमार्यादिगुणेषु भारतीप्रभृतिषु च वृत्तिषु यथायथमन्तर्भावोऽवगन्तव्यः ॥

श्रुत्यनुप्रासवर्णानुप्रासयोरपि दुष्कराः ।
क्वचिद्भेदाः पृथक्कर्तुमस्यास्तेनेह नेष्यते ॥ ८८ ॥

“श्रुत्यनुप्रासवर्णानुप्रासयोरिति” । विषयसप्तमी । वर्णावृत्तेर्वृत्त्यनुप्राससाधारणत्वात् ॥

यथाम्रातकपुष्पादिस्रगादेर्वर्ण उच्यते ।
वर्णावृत्तिस्तथा वाचां वर्णानुप्रास उच्यते ॥ ८९ ॥

ततो वर्णानुप्रासं विशेषयन्नाह—“यथाम्रातकेति” । स्रगादेर्वर्णस्थानीया वर्णावृत्तिर्वर्णानुप्रासः । तत्रोपमानभूतवर्णविवरणं समानजातीयकुसुमादिविरचितमालापटप्रभृतिषु यदन्तरान्तरा विजातीयाम्रातककुसुमादिसन्निवेशनं तद्वर्ण इत्युच्यते । तद्वत्या वाचा वर्णावृत्तिः । सैव वर्णानुप्रास इति सूत्रार्थः । स द्विधा—संयुक्तासंयुक्तवर्णनिरूप्यत्वात् । यथायथमेतदुभयप्रपञ्चनम् ॥

स तु स्तबकवान्स्थानी गर्भो विवृतसंवृतः ।
गृहीतमुक्तः क्रमवान्विपर्यस्तोऽथ सम्पुटः ॥ ९० ॥

स्तबकवदादयो द्वादश प्रकारास्तेषु क्वचित्क्वचित्संयोगावृत्तिः स्तबकवान् । अनुप्रासविन्यासादिति संयोगानुप्रासविन्यासतः ॥

मिथुनं वेणिका चित्रो विचित्रश्चेति वर्ण्यते ।
वर्णावृत्तिप्रयोगेभ्यस्तेभ्यस्तेभ्यो मनीषिभिः ॥ ९१ ॥

तेषु स्थाने स्थानेऽनुप्रासविन्यासतः स्तबकवान्यथा—

‘यस्यावासीकृतहिमगिरेर्गुञ्जतां कुञ्जराणा- माविश्चक्रे वनगजमदाघ्राणघोरायितानि ।
दर्पोत्फुल्लस्फुरणविकटाकाण्डकण्डूलगण्ड- स्वेच्छाकाषव्रणितसरलानोकहस्कन्धगन्धः ॥ २०२ ॥’

अत्र गुञ्जतां कुञ्जराणामित्यादेर्वर्णस्तबकस्य स्थाने स्थाने विन्यासादयं वर्णानुप्रासस्तबकवानित्युच्यते ॥

गुञ्जतां कुञ्जराणामकाण्डकण्डूलगण्डस्कन्धगन्ध इत्यत्रावृत्तिचतुष्केण स्तबकनिर्वाहः ॥

नियतविवक्षितस्थानविशेषः स्थानी यथा—

‘बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तरालैर्मलिनयसि सुधावक्रमश्रुप्रवाहैः ।
एषा प्रोद्वृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावाग्नेर्व्योमलग्ना मलिनयति दिशां मण्डलं धूमरेखा ॥ २०३ ॥’

अत्र प्रथमत्रिभागस्थानेषु बाले मालेयमित्यादिनियमेन वृत्तिः । सोऽयं वर्णानुप्रासः स्थानीत्युच्यते ॥

“स्थानीति” । श्लोकपादेऽपि प्रथमादिभागकल्पनया स्थाननियमविवक्षा । तथाहि—“बाले मालेयमिति” । प्रथमो भागो नीनी इति प्रतिभासारूढस्तृतीयादि प्रथमपादे । एवं पक्ष्मान्तरालमलिनसुधाश्रुप्रभृतीनां द्वितीयादिपादेषु प्रथमादिभागकल्पनावसेया ॥

आवृत्तेर्वर्णान्तरायेण गर्भो यथा—

‘कालं कपालमालाङ्कमेकमन्धकसूदनम् ।
वन्दे वरदमीशानं शासनं पुष्पधन्वनः ॥ २०४ ॥’

अत्र कालं कपालमालेति, अङ्कमेकमिति, वन्दे वरदमीशानं शासनमित्यादिषु पकाररेफककारगर्भाधानादयं वर्णानुप्रासो गर्भ इत्युच्यते ॥

कालं कालस्वरूपम् । एकमद्वितीयम् । कालं कपालेत्यत्र लकारावृत्तिः ककारेण व्यवधाने प्रकृते कपालेऽन्यत्र पकारो । वर्णान्तरगर्भायमाण उपलक्ष्यते । एवं मालाङ्कमित्यादौ लकारादिगर्भीकरणमवसेयम् । विवृतसंवृतौ निगदेनैव व्याख्यातौ ॥

स्थाने स्थाने विकाससङ्कोचाभ्यां विवृतसंवृतो यथा—

‘न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान् ।
म्लानापि न म्लायति केसरस्रग्देवी न खण्डप्रणया कथञ्चित् ॥ २०५ ॥’

अत्र प्रथमपादे न मालतीदामेत्यादिभिर्विकासः, द्वितीयपादे प्रेमेत्याकारावृत्त्या सङ्कोचः, तृतीयपादे म्लानापि न म्लायतीत्येताभ्यां च विकासः, चतुर्थे नेति सङ्कोचः । सोऽयं वर्णानुप्रासो विवृतसंवृत इत्युच्यते ॥

न मालतीदामेत्यादौ प्रथमपादे मकारावृत्तिर्द्वयेन विवरणम्, द्वितीयपादे सकृत्प्रयोगेण तस्यैव संवृतिः तृतीयपादे नकारसकारयोरावृत्त्या विवृतिः, चतुर्थे नेति संवरणम् । तदिह भूयोविकास-किञ्चित्सङ्कोच-किञ्चिद्विकास-सर्वथासङ्कोचपरिपाट्या सन्दर्भनिर्वहणं शोभाकरमिति व्याचष्टे—“अत्रेति” ॥

चक्रवालवद्धानोपादानाभ्यां गृहीतमुक्तो यथा—

‘लोलल्लवङ्गलवलीवलया निकुञ्चकूजत्कपिञ्जलकुला मुकुलावनद्धाः ।
अध्यूषिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलधेरुपान्तः ॥ २०६ ॥’

अत्र चक्रवालक्रमः सुव्यक्त एव । सोऽयं वर्णानुप्रासो गृहीतमुक्त इत्युच्यते ॥

“लोलदिति” । कपिञ्जलो गौरतित्तिरिः । अपरान्तो देशविशेषः । पूर्ववलनेनोत्तरग्रहणं चक्रवालं व्यञ्जनमात्रवलनमभिप्रेतम्, तेन वली वलेत्यत्रापि चक्रवालसिद्धिः । एवमुत्तरत्र ॥

क्रमेण द्वित्राणां त्रिचतुराणां वर्णानामसंयोगस्वरवर्णानामावृत्तिः क्रमवान्यथा—

‘नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेव तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविमोकमग्नौ ॥ २०७ ॥’

अत्र गुर्वी गुरुणा प्रयुक्तेति, वधूर्विधातृ इति, चकार चकोरेति, लज्जावती लाजविमोकमिति द्वयोस्त्रयाणां च स्वरसंयोगवर्णानां क्रमेणावृत्तिः, सोऽयं वर्णानुप्रासः क्रमवानित्युच्यते ॥

“क्रमेणेति” । द्वावारभ्यैव क्रमसम्भव ऊर्ध्वं चतुर्भ्यो विरसायते । तेन पञ्चषाणामित्यादिनोक्तमसंयोगस्वराणामित्यविवक्षितसंयोगस्वराणाम् । गुरुणेत्यनुल्लङ्घनीयाज्ञता । तथा चलत्प्रक्त्या दुर्वहनितम्बभारालसाया अपि कथञ्चित्पदविन्यासेन कान्तिविशेषो ध्वन्यते । स्वभावताम्रयोरपि नेत्रयोस्तत्काले धूमाश्लेषाद् द्विगुणो राग इति उपमाने मत्तपदपोषः पूर्वार्धे द्वयोर्द्वयोरूत्तरार्धे त्रयाणामनुल्लङ्घितक्रमाणामेव व्यञ्जनानामावृत्तिरिति स्फुटं विवरणम् ॥

क्रमवतां विपर्ययोपन्यासाद्विपर्ययो यथा—

‘प्रणवः प्रवणे यत्र प्रथमः प्रमथेषु यः ।
रणवान्वारणमुखः स वः पातु विनायकः ॥ २०८ ॥’

अत्र व्युत्क्रमो व्यक्त एव । सोऽयं वर्णानुप्रासो विपर्यय इत्युच्यते ॥

क्रमवतामुपक्रान्तकिञ्चित्क्रमाणामावृत्तौ तत्क्रमविपर्यासो व्युत्क्रमः ॥

स्वाद्यवर्णवर्तिना स्वरेण सह पादमध्यान्तयोरनुप्रासः सम्पुटं यथा—

‘स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महारोगाभोगः कुवलयदृशः सर्पसदृशः ।
गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला यमः स्वैरी वैरी तदपि न हितं कर्म विहितम् ॥ २०९ ॥’

तदेतल्लक्षणेनैव व्याख्यातम् । सोऽयं वर्णानुप्रासः सम्पुट इत्युच्यते ॥

“स्वाद्येति” । आवर्तनीयो वर्णः स्वपदेनाभिमतस्तस्य पूर्वो यो वर्णस्तद्वर्तिना स्वरेण सह तस्यावृत्तिः । “पादमध्यान्तयोरिति” । मध्यसंश्लिष्टोपरितनभागघटितसमुद्गकतुल्यतया सम्पुटोऽनुप्रासः ॥

अन्तपादमुपसंहारोपक्रमयोर्विवक्षितः सस्वरानुप्रासो मिथुनं यथा—

‘त्यज मनसि सदाहे हे स्मर स्थानमस्मि- न्ननु किरसि शरीरे रे किमिन्दो मयूखान् ।
अपि परिहर वायो योगमङ्गैर्मदीयैः प्रणयिनि समवेते ते भवन्तः सखायः ॥ २१० ॥’

तदेतन्निगदेनैव व्याख्यातम् । सोऽयं वर्णानुप्रासो मिथुनमित्युच्यते ॥

“अन्तपादमिति” । वृत्तौचितीवशाच्च द्विखण्डलब्धशोभाविशेषेषु पादेषु मिथुनसिद्धिरवसेया । तदिदमुक्तमुपक्रमोपसंहारयोरिति । मिथुनं द्वन्द्वम् ॥

आवाक्यपरिसमाप्तेर्वर्णानुप्रासनिर्वाहो वेणिका यथा—

‘विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ २११ ॥’

तदेतन्नातिदुर्बोधम् । सोऽयं वर्णानुप्रासो वेणिकेत्युच्यते ॥

“विद्राण इति” । उपघ्न आश्रयः । निघ्नः परवशः । अनुप्रासजातेरासमाप्ति निर्वाहोऽभिमतः । व्यक्तयः पुनरन्या अन्या एवाभिमतास्तेन वृत्त्यनुप्रासाद्भेदः । अत एव वेणीतुल्यता । तत्र हि किल केशग्रथना निर्व्यूढैव भक्तिः पुनरन्यान्येति ॥

उक्तलक्षणेभ्योऽन्यश्चित्रो यथा—

‘नीते निर्व्याजदीर्घा मघवति मघवद्वज्रनिद्रानिदाने निद्रा द्रागेव देवद्बिषि मुषितरुषः संस्मरन्त्याः स्वभावम् ।
देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया रक्षन्तु त्वां त्रिशूलक्षतिकुहरभुवो लोहिताम्भःसमुद्राः ॥ २१२ ॥’

एवमन्येऽपि द्रष्टव्याः ॥

“उक्तलक्षणेभ्य इति” । पूर्वोक्तवर्णानुप्रासेभ्य इति । तथाहि प्रकृतोदाहरणे स्थाने स्थाने स्तबकाविवक्षायां न स्तबकवान्, विभागपरिहारेण न स्थानी, वर्णान्तरायानुपपत्तौ न गर्भः, सङ्कोचविकासाभावेन न विवृतसंवृतः, चक्रवालक्रमाभावेन न गृहीतमुक्तः । एवं क्रमविपर्यस्तमिथुनबहिर्भावोऽवगन्तव्यः । आसमाप्तिनिर्वहणाभावे वेणीभेदः स्फुट एव ॥

एकवर्णावृत्तेर्वृत्त्यनुप्रासस्य वर्णान्तरवैचित्र्येण विचित्रो यथा—

‘चञ्चत्काञ्जनकाञ्चयो लयवलच्चोलाञ्चलैर्वञ्चिताश्चारीसञ्चरणैकचारुचरणाः सिञ्चन्ति चित्तं मम ।
लीलाचञ्चुरचञ्चरीकरुचिभिश्चूलालकैश्चर्चिताः किञ्चिच्चन्दनचन्द्रचम्पकरुचां चौर्यो मृगीलोचनाः ॥ २१३ ॥’

“एकवर्णावृत्तेरिति” । वर्ग्यावृत्तौ हि कदाचिदेकवर्णावृत्तिरपि सन्दर्भव्यापिनी सम्भाव्यते । तस्यां प्रतीयमानायामेवान्तरान्तरा नानाजातीये वर्णावृत्तिश्चित्रशोभादायिनी विचित्रानुप्रास इत्युच्यते । तथा हि । प्रकृतोदाहरणे सन्दर्भसमाप्तिं यावदावर्तमाने एव चकारे काञ्चन काञ्चेति लयवलदित्यादिषु ककारलकाराद्यनुप्रासोद्भटभावेनव वर्णावृत्तेर्न्यग्भाव इव प्रकाशते । चारी सञ्चरणप्रकारः । सा भौमी आकाशी च । चञ्चुरो मनोहरः । चञ्चरीको भ्रमरः ॥

अन्ये पुनरन्यथा चित्रविचित्रयोर्लक्षणं व्याचक्षते । तत्र यमकच्छायानुकारी चित्रः । स एव वर्णानुप्रासवान्विचित्र इति । तत्र चित्रो यथा—

‘सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकन्दद्रुहि ।
शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ २१४ ॥’

“अन्ये पुनरिति” । विभिन्नार्थैकरूपत्वं स्थानविभागालम्बनं व्यपेताव्यपेतभावश्च यमकच्छायावर्णानुप्रासवानिति अतिशायने मतुप् । सर्वाशारुधीत्यादौ विप्रभृतीनां विभिन्नार्थैकरूपाणां व्यपेतानामेव पादमध्यान्तयोरवस्थितिः । एवमव्यपेतमप्युन्नेयम् । नात्र वर्णानुप्रास उत्कट इति विचित्राद्भेदः ॥

विचित्रो यथा—

‘उद्यद्बर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि च्योतद्विप्लुषि चन्द्ररुङ्मुषि सखे हंसद्विषि प्रावृषि ।
मा मुञ्चोच्चकुचान्तसन्नतगलद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि ॥ २१५ ॥’

अत एवोत्तरत्र स्फुटवर्णानुप्रासमुदाहरति ॥

वर्णावृत्तिरनुप्रास इति यः कृतलक्षणः ।
सोऽयं द्वादशधा भेदैः प्रविभज्य प्रदर्शितः ॥ ९२ ॥

तेऽमी शुद्धवर्णा वृत्तिप्रकाराः षट्रत्रिंशल्लक्षिताः, साम्प्रतं द्वादशतापन्नवर्णावृत्तयो लक्ष्यन्त इत्याह—“वर्णावृत्तिरनुप्रास इति” । द्वादशधेति वीप्सा द्रष्टव्या ॥

समग्रमसमग्रं वा यस्मिन्नावर्तते पदम् ।
पदाश्रयेण स प्रायः पदानुप्रास उच्यते ॥ ९३ ॥

“समग्रमिति” । पदालम्बनोऽनुप्रासः पदानुप्रासस्तेन पदावयवमालालम्बनोऽपि पदालम्बन एव । तदिदमाह—“पदाश्रयेणेति” ॥

विसर्गबिन्दुसंयोगस्वरस्थानाविवक्षया ।
अनिर्वाहाच्च स प्रायो यमकेभ्यो विभिद्यते ॥ ९४ ॥

मसृणो दन्तुरः श्लक्ष्णः सम्पुटं सम्पुटावली ।
खिन्नः स्तबकवान्स्थानी मिथुनं मिथुनावली ॥ ९५ ॥

गृहीतमुक्तनामान्यस्ततोऽन्यः पुनरुक्तिमान् ।
इति द्वादशभेदोऽयं मनीषिभिरिहेष्यते ॥ ९६ ॥

ननु यदि पदावृत्तिरभिन्नार्था तदा पुनरुक्तिरेव, भिन्नार्था चेद्यमकान्न भिद्यत इत्यत आह—“विसर्गेति” । बिन्दुरनुस्वारः । स्थानं कण्ठादिकम् । वृत्तेः पादादियमकताभावो निर्वाहः प्रायोनिर्वाह इति योजना ॥

तेषु मसृणो यथा—

‘सरणे वारणास्यस्य दशनेऽशनिसन्निभे ।
चकार वलयाकारं भुजं भुजगभीषणम् ॥ २१६ ॥’

सोऽयमसंयुक्तवर्णावृत्तेः पदानुप्रासो मसृण इत्युच्यते ॥

वारणास्यो विनायकः । अत्र रणेरणेति शनेशनीति कारकारमिति भुजम्भुजेति पदं तदेकदेशावृत्तिः स्फुटमुपलभ्यते । मसृणस्तु कथमित्यत आह—“सोऽयमिति” ॥

दन्तुरो यथा—

‘स नैषधस्याधिपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नरेन्द्रात्पुत्रं यमाहुर्रिषधाख्यमेव ॥ २१७ ॥’

अत्र निषिद्धशत्रुरिति पदे संयोगाधिक्येन दन्युरता । सोऽयं पदानुप्रासो दन्तुर इत्युच्यते ॥

स नैषधेत्यादौ निषधरूपो वर्णसमुदायः पदैकदेशतामापन्नः साधारण एव । तदत्र दन्तुरता कीदृशीत्यत आह—“अत्र निषिद्धेति” ।

श्लक्ष्णो यथा—

‘अप्येहि कान्ते वैदेहि देहि प्रतिवचो मम ।
अरविन्दाक्षि दाक्षिण्यमलङ्कारो हि योषिताम् ॥ २१८ ॥’

अत्र स्वरेण सहावृत्तेः श्लक्ष्णता । सोऽयं पदानुप्रासः श्लक्ष्ण इत्युच्यते ॥

सम्पुटं यथा—

‘सदर्प इव कन्दर्पस्तरला मादृशां मतिः ।
असार इव संसारः कुरुष्व मदनुग्रहम् ॥ २१९ ॥’

अत्रेवशब्दस्यापवादत्वेनाव्यवधायकत्वादनुप्रासोऽयं सम्पुट इत्युच्यते ॥

सम्पुटवदेकरूपस्यैव खण्डस्य निरन्तरमावर्तनं सम्पुटम् । तत्कथमिव कंसंशब्दैरन्तराये सम्पद्यत इत्यत आह—“अत्रेवशब्दस्येति” ॥

सम्पुटावली यथा—

‘करोति किं किरातोऽयं समाकृष्य शिलीमुखान् ।
शिलीमुखान्समाकृस्य किङ्किरातः करोति यत् ॥ २२० ॥’

अत्र करोति करोतीत्येकं सम्पुटम्, किं किरातः किङ्किरात इति द्वितीयम्, समाकृष्य समाकृष्येति तृतीयम्, शिलीमुखाञ्छिलीमुखानिति चतुर्थम् । सोऽयं पदानुप्रासः सम्पुटावलीत्युच्यते ॥

करोति किं किरातोऽयमित्यादौ मध्ये शिलीमुखाञ्छिलीमुखानिति प्रथमं सम्पुटम् । तस्य बहिरावरणभूतं समाकृष्य समाकृष्येति द्वितीयम् । तस्यापि किं किरातः किङ्किरात इति तृतीयम् । तस्यापि करोतीति चतुर्थम् । तदेतद्विपरीतव्याख्यया व्यञ्जयन्नाह—“अत्र करोतीत्यादि” ॥

खिन्नो यथा—

‘कुलजातिसमाकुलीकृतानां सुखदसुखाशयमूढचेतनानाम् ।
अभवविभवलाभलोलुभानां भव भवबन्धविभेदनाय भूयः ॥ २२१ ॥’

अत्र रीतेरनिर्वाहात्खिन्नता । सोऽयं पदानुप्रासः खिन्न इत्युच्यते ॥

“कुलेति” । अत्र प्रथमपादे कुलेति अविवक्षितस्वरादिवर्णयुग्ममक्षरचतुष्टयव्यवधानेन कुलीत्यावृत्तम् । द्वितीयतृतीयपादयोस्तु सुखदसुखेति अभवविभवेति चैकवर्णव्यवधानेनावृत्तिः । चतुर्थपादे तु भवभवेति रीतिभङ्गो न च दोषः । प्रतीत्यव्यवधानात् ॥

स्तबकवान्यथा—

‘भासयत्यपि भाषादौ कविवर्गे जगत्त्रयीम् ।
के न यान्ति निबन्धारः कालिदासस्य दासताम् ॥ २२२ ॥’

सोऽयं वर्णानुप्रासवत्पदानुप्रासोऽपि स्थाने स्थाने विनिवेशात्स्तबकवानित्युच्यते ॥

वैचित्रीविशेषेणालङ्कारभावो भासयतीत्यादावाद्यन्तयोर्दूरान्तरितैवावृत्तिः । स्थाननियमस्तु न विवक्षितः । तदिदमुक्तम्—“स्थाने स्थान इति” ॥

स्थानी यथा—

‘परं जोण्हा उण्हा गरलसरिसो चन्दणरसो खदक्खारो हारो मलअपवणा देहतवणा ।
मुणाली वाणाली जलदि अ जलद्दा तणुलदा वरिट्ठा जं दिट्ठा कमलणअणा सा सुवअणा ॥ २२३ ॥’

[परं ज्योत्स्ना उष्णां गरलसदृशश्चन्दरसः क्षतक्षारो हारो मलयपवना देहतपनाः ।
मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यद्दृष्टा कमलनयना सा सुवदना ॥]

सोऽयं पदानुप्रासः स्थाननियमात्स्थानीत्युच्यते ॥

जोण्हा उण्हा रिसो रसो इत्यादिका प्रतिपादं मध्यान्तस्थाननियमेनावृत्तिः । क्षतोऽर्पितः क्षारः । जलार्द्रा जलार्द्रे वस्त्रे ॥

मिथुनं यथा—

‘पुरः पाराऽपारातटभुवि विहारः पुरवरं ततः सिन्धुः सिन्धुः फणिपतिवनं पावनमतः ।
तदग्रे तूदग्रो गिरिरिति गिरिस्तस्य पुरतो विशाला शालाभिर्ललितललनाभिर्विजयते ॥ २२४ ॥’

तदेतत्प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोर्विन्यासान्भिथुनम् ॥

पाराभिधाना नदी । अपारा पाररहिता । सिन्धुर्नदी सिन्धुनामा । विशाला उज्जयिनी । शालाभिरितीत्थम्भूतलक्षणें तृतीया । अत्र पारापारेति सिन्धुः सिन्धुरिति दग्रे दग्र इति शालाशालेति क्रमेण प्रथमादिपादेषु द्वयोरेवानुप्रासयोर्विन्यासः । यद्यपि तृतीयपादे गिरिगिरीति द्वितीयमपि मिन्थुनं सम्भवति तथापि वर्णद्वयव्यवधानादनुल्लेखीत्युपेक्षितवान् ॥

मिथुनावली यथा—

‘शिरसि शरभः क्रोडे क्रोडः करी करटे रट- न्नुरसि च रुरुर्मर्मण्येणः शिखी मुखरो मुखे ।
कविरपि हृदि ह्रादी दूराद्धरिर्द्विपजिद्धतो धनुषि लघुता लक्ष्येऽपूर्वो जयोऽस्य यशस्विनः ॥ २२५ ॥’

सेयं द्वयोः पादयोर्निरन्तरमावृत्तिर्मिथुनावलीत्युच्यते ॥

“शिरसीति ।” शरभोऽष्टापदः । क्रोडो वराहः । रुरुर्बहुशृङ्गो मृगः । हरिः सिंह । स्वरभागविवक्षायां व्यञ्जनयुगलावृत्तिर्मिथुनम् । तदेवावृत्तिभूम्ना मिथुनावली शरशरेति क्रोडक्रोडेति करकरेति दवदवेत्यादिना क्रमेण सुप्रत्यभिज्ञानैव ॥

गृहीतमुक्तो यथा—

‘पुन्नागनागकेसरकेसरपरिवासवासनासुरभिः ।
सुरभिर्मधुरमधुप्रियषट्चरणाचरणवान्प्राप्तः ॥ २२६ ॥’

सोऽयं चक्रवालवदनुप्रासो गृहीतमुक्त इत्युच्यते ॥

“गृहीतमुक्तो यथेति” । पुन्नागः पुङ्गज इति प्रसिद्धः । केसरो बकुलः । भावना वासना । सुरभिर्वसन्तः । नानामधुपानलालसानामितस्ततः षट्चरणानां चरणं भ्रमणम् । अत्र चक्रवालक्रमो व्यक्त एव । आवृत्त्याधिक्याभावाच्च गृहीतमात्रस्यैव मोचनम् ॥

पुनरुक्तिमान्यथा—

‘धूमाइ धूमकलुसे जलह जलन्ता बुहत्थजीआबन्धे ।
पडिरअपडिउण्णदिसे रसइ रसन्तिसिहरे धणुम्मि णहअलम् ॥ २२७ ॥’

[धूमायते धूमकलुषे ज्वलति ज्वलदात्तहस्तजीवाबन्धे ।
प्रतिरवप्रतिपूर्णदिशि रसति रसच्छिखरे धनुषि नभस्तलम् ॥]

अत्र धूमादीनां पुनर्वचनात्पदानुप्रासोऽयं पुनरुक्तिमानुच्यते ॥

“पुनरुक्तिमानिति” । वाच्याभेदात्पुनरुक्तिः सा यस्मिन्नावृत्तिलक्षणेनानुप्रासे स पुनरुक्तिमान् । तात्पर्यभेदाञ्च न दोषः । धूमज्वलनरसनानामाकाशदेशव्यापितया धनुःप्रकर्षद्वारेण रामभद्रगतोत्साहशक्तिध्वननात्प्रकृतवीररसपोषः । अत्र धूमधूमेत्यादिना वाच्यभेदः ॥

ननु वर्णावृत्तिरनुप्राससामान्यलक्षणयुक्ता न चासौ पदाद्यावृत्तावस्तीत्यत आह—

वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कारबोधिनी पद्यदूरता ॥ ९७ ॥

“वर्णावृत्तिरिति” । समुदायावृत्तिरपि वर्णावृत्तिरेव । नहि वर्णातिरिक्तः समुदायो नाम । इयांस्तु विशेषो यत्पूर्वजातीयवृत्तानुसन्धानमलङ्कारतां प्रयोजयति । तत्र च कार्यानुमेयः समयसन्निकर्षविशेष एव प्रयोजक इति । तदिदं दिङ्मात्रमुक्तम् ॥

लाटानुप्रासवर्गस्य यावद्वा लक्ष्यते गतिः ।
पदानुप्रासवर्गेऽपि तावदेव प्रपञ्चते ॥ ९८ ॥

अन्येऽपि पदानुप्रासप्रकाराः स्वयमुत्प्रेक्षितव्या इत्याह—“लाटेति” । गतिः प्रकारः ॥

स्वभावतश्च गौण्या च वीप्साभीक्ष्ण्यादिभिश्च सा ।
नाम्ना द्विरुक्तिभिर्वाक्ये तदनुप्रास उच्यते ॥ ९९ ॥

क्रमप्राप्तं नामद्विरुक्त्यनुप्रासं विभजते—स्वभावत इति । यद्यपि पदानु-प्रासादौ नामद्विरुक्तिरतिव्यापिका तथाप्यर्थोपक्षेपोपनिपातिनी सह विवक्षिता । अर्थो द्विविधः—आभिधानिकः, उपाधिश्च । आद्यो गौणमुङ्ख्यभेदेन द्विप्रकारः, द्वितीयोऽपि वीप्साभीक्ष्ण्यादिरनेकविधः । द्वरुक्तिरपि नाम शरीरसम्पादिका नाम्नः सतश्चेति द्वयी बोद्धव्या । अत एव द्विरुक्तस्यैवाभिधाशक्तियोगात्स्वभावत इत्युक्तम् ॥

सा स्वभावतो यथा—

‘कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः ।
प्रातर्गुलुगुलायन्ते गजा इव घनाघनाः ॥ २२८ ॥’

अत्र कलकलमित्यादिषु स्वाभाविकि पुनरुक्तिरुपदिश्यते ॥

“कुर्वन्त इति” । चलाचलाश्चञ्चलाः । चलतेरच्रप्रत्ययेऽभ्यासस्याकि रूपम् । गुलु इत्यव्यक्तानुकरणस्य डाचि द्विर्वचने च गुलुगुलेति नामसिद्धिः । अत्र कलकलादिपदानामर्थवशायातद्विरुक्तिशरीराणां स्वभावत एव यथोक्तरूपव्यवस्थितिः ॥

गौण्या यथा—

‘अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यापि ।
इति न भजते वस्तु प्रायः परस्परसङ्करं तदियमबला कान्तिं धत्ते कुतः सकलात्मिकाम् ॥ २२९ ॥’

अत्रामृतममृतमित्यादिष्वभेदेऽपि भेदोपचारेण विशेषणविशेष्यभाचः सामान्यविशेषभावाद्भवन्पुनरुक्तिवद्भासते ॥

“अमृतमिति” । अत्र द्वितीयान्तानाममृतादिपदानां द्विरुक्तिदोषेण तात्पर्यापर्यवसानादमृतादिगुणपरत्वे कल्पनीयेऽपि निकृष्टगुणपराणां सामानाधिकरण्यानुपपत्तेस्तत्तदसाधारणगुणोपबृंहितामृतादिनिष्ठानामाद्यपदोपात्तसामान्यापेक्षो विशेष्यभावश्च विशेषणत्वं च निर्वहति । न च पर्यायनिवेशेऽर्थान्तरसङ्क्रमितवाच्यता सम्भवतीति पूर्वाचार्याः । सेयं गौणार्थपरवशा नाम द्विरुक्तिः ॥

वीप्सा यथा—

‘शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
देशे देशे न विद्वांसश्चन्दनं न वने वने ॥ २३० ॥’

सेयं द्रव्यवीप्सा नाम द्विरुक्तिः । एवं गुणजातिक्रियावीप्सायामपि द्रष्टव्यम् ॥

“वीप्सेति” । नानार्थानां युगपदेकैकेन पदेन केनचिद्वक्तुर्व्याप्तिविवक्षा वीप्सा । स प्रयोक्तृधर्मो द्विरुक्त्या व्यज्यते । अत एव या काचिदर्थसामर्थ्याकृष्टा द्विरुक्तिः सा सप्तवर्णादिवन्नामद्विरुक्तिसमाख्यया प्रतिपाद्यते । “शैले शैल इति” । अत्र किञ्चिदेकमसाधारणगुणाश्रयं विवक्षन् तदितरस्य तज्जातीयस्य गुणसंस्पर्शमसहमानोऽप्रस्तुतमेव शैलादिकं प्रस्तुतवान् । रोहणादिव्यतिरिक्तासु व्यक्तिषु माणिक्याद्यभावगुणव्याप्तिर्युगपदेव विवक्षिता । शब्दादुपसर्जनतया प्रतीयमानः सिद्धस्वभावः पदार्थो गुण इत्युच्यते । एवं क्रिययापि व्याप्तिरवसेया । “सेयं द्रव्यवीप्सेति” । शैलादीनां द्रव्याणामेकेन गुणादिना व्याप्तुमिच्छेत्यर्थः ॥

‘प्रकारे गुणवचनस्य ८।१।१२’ इत्यादिरपि वीप्साप्रकार एव ।

यथा—

मानिनीजनविलोचनपातानुष्मबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूख ॥ २३१ ॥’

“प्रकारे गुणवचनस्येति” । प्रकारः सादृश्यं तत्पूर्णगुणेन न्यूनगुणस्य साधारणगुणान्वये भवति । एवं चास्ति समानशब्दाभिधेयत्वं च व्याप्तिः । इयांस्तु विशेषो यदेकत्र सिद्धस्यान्यत्र प्रतिबिम्बनं सादृश्यं, शुद्धवीप्सायां तु युगपदेकस्य नानापदार्थसम्बन्ध इति । सोऽयं वीप्साप्रकारशब्दार्थः । अत एव ‘प्रकारे गुणवचनस्य ८।१।१२’ इति पृथक्सूत्रितम् । इह तु वीप्सापदेनैवायमर्थ उपग्राह्य इत्याभिप्रायः । मन्दं मन्दमिवोदित इति क्रियाविशेषणमुपमितम् । एवं भीत भीत इति कर्तृविशेषणमपि । सादृश्यलक्षणगुणोत्प्रेक्षायामिवशब्दः ॥

आभीक्ष्ण्येन यथा—

‘श्लेषं श्लेषं मृगदृशा दत्तमाननपङ्कजम् ।
मया मुकुलिताक्षेण पायं पायमरम्यत ॥ २३२ ॥’

सोऽयमाभीक्ष्ण्ये णमुल् । स चानुप्रयुज्यत इति पुनरुक्तिः ॥

“आभीक्ष्ण्येनेति ।” ‘नित्यवीप्सयोः८।१।४’ इत्यनेन नित्यत्वमाभीक्ष्ण्यमुक्तम् । यां किल क्रियां कर्ता प्राधान्येनानुपरत्या च कर्तुमिच्छति तद्रूपमाभीक्ष्ण्यम् । अत एव तिङव्ययकृतां च द्विरुक्तिरियमसाधारणी । उभयत्रैव क्रियाप्राधान्यप्रतीतेः । सिद्धे हि वस्तुनि पौनःपुन्यप्रतीतिः क्रियोपाधिते एव न स्वरूपेण । ननु णमुलैवाभीक्ष्ण्याभिधानात्किं द्विरुक्तिः करिष्यत इत्यत आह—“सोऽयमिति” । न चाभीक्ष्ण्यं णमुलो वाच्यम् । क्त्वार्थे तस्याभिधानात् । द्विरुक्तिसहितस्यैव तस्यानुपरतिव्यञ्जकत्वात् । स्वरूपार्थाभ्यामन्तरतमशब्दद्वयरूप आदेशो वा द्विरुच्चारणं वा द्विरुक्तिशब्दार्थः ॥

क्रियापदाभीक्ष्ण्याद्द्विरुक्तौ तु पुनरुक्तेरपि पुनरुक्तिः । यथा—

‘जयति जयति देवः श्यामकण्ठः पिनाकी जयति जयति देवी लोकमाता भवानी ।
जयति जयति धन्यः सोऽपि भक्तस्तयोर्यः किमपरमिह धन्यं वर्ण्यते तावदेव ॥ २३३ ॥’

न चावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ किन्तु यावद्भिरभिमतोऽर्थः प्रतीयते तावन्तोऽभीक्ष्ण्यशब्दाः प्रयोक्तव्यास्ते नाव्ययकृत्सु दृश्यन्ते किन्तु तिङ्पदेष्वेवेत्याह—“क्रियापदेति” । यद्यप्येकवाक्यार्थसङ्गत्या क्रियापदस्य द्वयमेवोच्चारणं तथापि काव्यापेक्षया बाहुल्यमवसेयम् ॥

आदिग्रहणेन निमूलसम्भ्रमादयः परिगृह्यन्ते । तेषु निमूलादिर्यथा—

‘निमूलकाषं कषति स्वान्तमन्त स्मरज्वरे ।
लाजस्फोटं स्कुटन्त्याशु हृदये हारयष्टयः ॥ २३४ ॥’

“आदिग्रहणेनेति” । तत्तदितरप्रकरणप्रापितानां द्विरुक्तिप्रकाराणाभादिपदेनोपग्रहो विधेयः । तद्यथा—‘अर्वागर्वाग्बलवदुपलग्रन्थयः क्षेत्रशैला दूरे दूरे मणिमयदृषन्मेखलो रत्नसानुः । आरादारान्निधिरयमपां यद्दवीयो दवीयान्दुग्धाम्भोधिस्तदयमसदृक्छिल्प एवादिशिल्पी ॥’ अत्रानुपूर्व्ये द्वे भवत इति द्विरुक्तिः । एवं स्वार्थेऽवधार्यमाणे इत्यादयोऽपि द्विरुक्तिप्रकाराः स्वयमवसेया इत्याशयवानुपलक्षणतया किञ्चिदुदाहरति—“निमूलकाषमिति” । ‘कषादिषु यथाविध्यनुप्रयोगः’ इति तस्मिन्नेव प्रयुक्ते द्विरुक्तिसिद्धिः ॥

सम्भ्रमेण यथा—

‘अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु- र्गङ्गा गङ्गोरग उरग इत्याकुलाः सम्भ्रमेण ।’
भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥ २३५ ॥’

“सम्भ्रमेणेति” । भयसंवेगादरात्मकः सम्भ्रमः संवेगस्त्वरा । सैव प्रकृतोदाहरणे द्विरुक्तिं प्रयोजयति ॥

हर्षावेगविस्मयादयोऽपि सम्भ्रमस्योपाधयो भवन्ति । तेषु हर्षसम्भ्रमेण यथा—

‘रुरुधुः कौतुकोत्तालास्ततस्ताममरावतीम् ।
क्वार्जुनः क्वार्जुन इति ब्रुवन्त्यो नाकयोषितः ॥ २३६ ॥’

ननु हर्षादीनां महाकविप्रबन्धेषु द्विरुक्तिरुपलभ्यते । सा कथमुपग्राह्येत्यत आह—हर्षेति । हर्षादयोऽपि सम्भ्रमप्रयोजकास्तैरसाधारणतामापन्नैरवच्छिद्यमानः सम्भ्रमोऽन्योन्यो भवति न च सम्भ्रमता जहातीति सम्भ्रमद्विरुक्तिप्रकार एवायमित्यर्थः ॥

आवेगसम्भ्रमेण यथा—

‘कञ्चुकं कञ्चुकं मुञ्च हारं हारं परित्यज ।
हा हा दहति दावाग्निर्वस्त्रं वस्त्रमपाकुरु ॥ २३७ ॥’

अत्र मुञ्च परित्यज दहति अपाकुरु इति क्रियापदेष्वावेगसम्भ्रमान्नद्विरुक्तेः । तथाहि—अरण्यानीप्रवेशे विजिगीषुद्विषां योषिद्दावाग्निसम्भ्रमावेगात्कयाप्येवमुच्यते, तत्र प्रथमं कञ्चुक एवावेगसम्भ्रमः । स ह्यागते दावाग्नावुत्तारयितुमशक्यः । ततस्तव्द्यासङ्गहेतौ हारे, अनन्तरं परापतितदावाग्निदीप्ते वाससीति ॥

निगूढगम्भीर उद्वेग आवेगः । ननु कञ्चुकं कञ्चुकमितिवन्मुञ्चेत्यादिकमावेगसम्भ्रमप्रभवमेव तत्कथं न द्विरुच्यत इत्यत आह—“अत्रेति” । कञ्चुकस्य हारेण हारस्योत्तरीयवाससा व्यासङ्गसम्भावना सम्भ्रमहेतुः ॥

विस्मयसम्भ्रमेण यथा—

‘अहो रूपमहो रूपमहो मुखमहो मुखम् ।
अहो मध्यमहो मध्यमस्याः सारङ्गचक्षुषः ॥ २३८ ॥’

एतेषु समस्तेष्वपि सम्भ्रमेषु यावद्बोधमिति द्विरुक्तिः ॥

एवं त्रिरुक्तिरपि द्रष्टव्या यथा—

‘जय जय जय श्रीमन्भोज प्रभाति विभावरी वद वद वद श्रव्यं विद्वन्निदं ह्यवधीयते ।
शृणु शृणु शृणु त्वद्वत्सूर्योऽनुरज्यति मण्डलं नहि नहि नहि क्ष्मामार्तण्डः क्षणेन विरज्यते ॥ २३९ ॥’

सम्भ्रमेषु यावद्बोधमिति यावच्छब्दार्थमाविष्कुर्वाणः पूर्वोक्तमभिप्रेत्याह—“एवं त्रिरुक्तिरपीति” । उपलक्षणं चेदम् । चतुरादिद्विरुक्तिरदण्डवारितैव ॥

क्रियासमभिहारश्च क्रियाभ्यासश्च यः पुरा ।
युक्तावुदाहृतः सोऽपि नामानुप्रास इष्यते ॥ १०० ॥

समभिहारो भृशत्वम् ॥

जायते न च दोषाय काव्येऽलङ्कारसङ्करः ।
विभूषयति हारोऽपि स्तनौ ग्रीवं मृगीदृशाम् ॥ १०१ ॥

ननु वाक्यार्थप्रयुक्त्यैव काव्यस्य सनाथीकरणात्किमनुप्रासेनेत्यत आह—“जायते न चेति” । उदाहरणेनालङ्कार्यसङ्करवदलङ्कारसङ्करोऽपि लोकप्रसिद्ध एव शोभाहेतुरित्यभिमतमिति ॥

अर्थाभेदे पदावृत्तिः प्रवृत्त्या भिन्नयेह या ।
स सूरिभिरनुप्रासो लाटीय इति गीयते ॥ १०२ ॥

क्रमप्राप्तं लाटानुप्रासं लक्षयति—“अर्थाभेदे इति” । लाटजनवल्लभोऽनुप्रासो लाटानुप्रासः । अर्थभेदे कथं न पुनरुक्तिदोष इत्यत उक्तम्—“प्रवृत्त्या भिन्नयेति” । तात्पर्यभेदेनेत्यर्थः । अत एव यमकाद्भेदः ॥

स चाव्यवहितो व्यस्तः समस्त उभयः पुनः ।
उभयं चक्रवालं च गर्भश्चैवाभिधीयते ॥ १०३ ॥

स चेत्यनुक्तव्यवहितसमुच्चये चकारः । लाटानुप्रासः सामान्यतो द्विधा—अव्यवहितः, व्यवहितश्च । अनावृत्तशब्दानन्तरितोऽव्यवहितः, तदन्तरितश्च व्यवहितः । तयोरव्यवहितः षोढा भवति । व्यस्तः समस्तो द्वावुभयाविति तावच्च त्वारः । तत्रोभयद्वयं द्विप्रकारकमिति सामान्यविशेषभावाभ्यां षड्भेदा व्याख्येयाः । “उभयः पुनरिति” । पुनःशब्दो व्यावृत्तौ । पूर्वस्मादन्य एवायमेकशब्दाभिलष्य इत्यर्थः । आद्योभयद्वयमग्रे वक्ष्यते ॥

यस्तु व्यवहितो नाम नेयता तस्य शक्यते ।
कर्तुमेकादिगणना पदवृत्त्यादिभङ्गिभिः ॥ १०४ ॥

द्वितियं तु चक्रवालै गर्भश्चेत्युक्त व्यवहितस्य तर्हि कियन्तो भेदा अत आह—“यस्त्विति” । तेन बहुभावावान्तरविशेषतया नायं समशीर्षिकया गणित इत्यर्थः ॥

तेष्वव्यवहितभेदेषु व्यस्तो यथा—

‘उअहिस्स जसेण जसं धीरं धीरेण गरुइआइ वि गरुअम् ।
रामो ठिएअ वि ठिइं भणइ रवेण अ रवं समुप्फुन्दन्तो ॥ २४० ॥’

[उदधेर्यशसा यशो धैर्यं धैर्येण गुरुतयापि गुरुताम् ।
रामः स्थित्यापि स्थितिं भणति रवेण रवेण च रवं समभिक्रामन् ॥]

अत्राव्ययानां द्योतकादित्वादिवादिभिर्व्यवधानं नाश्रीयते । न हीवादेः प्रकृतेऽपि पृथक्पदत्वमस्ति । यद्येवामिदमिहोदाहरणं युज्यते—

‘त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव ।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥ २४१ ॥’ इति ।

अस्त्येवैतत् । किं तु यथा—‘अमृतममृतं चन्द्रश्चन्द्रः—’ इत्यादिकमभेदेऽपि भेदोपचारान्नामद्विरुक्तिस्तथेयमित्युत्प्रेक्षते ॥

“तेष्विति” । द्विरुक्तशब्दरूपेषु पूर्वपरयोर्नैकमपि समासान्तर्गतमिति व्यस्तः । एतेन समस्तादयो व्याख्याताः । धैर्यगुरुतास्थितिगाम्भीर्यानुनिष्पादी वागनुभावो रसपूर्णकुम्भोच्छलनन्यायेन साक्षादिव तत्तत्प्रकर्षमर्पयन् शोभाविकासहेतुः । समुप्फुन्दन्तो समभिक्रामन् । ननु जसेण धीरेण गरुइआइ वि इ रवेण अ इति यदपञ्चके विभक्त्या तदुत्तरयोश्चकारद्वयेन च व्यवधानात्कथमव्यवहितभेद उदाह्रियत इत्याह—“अत्रेति” । अव्ययानामित्युपलक्षणम् । द्योतकत्वादिति विभक्तिसाधारणो हेतुः । पञ्चकप्रातिपदिकार्थत्वपक्षे विक्षक्तिर्द्योतिकैव । शाकल्योऽपि अव्ययवाचकत्ववादी । सोऽप्यसत्त्वार्थानामिवादीनां स्वातन्त्र्येण वाचकत्वं न मन्यते । यतो न पृथक्पदत्वमनुशिष्टवान् । तथा च द्योतकानां परशक्तिसहकारित्वेन तदनुप्रवेशात्स्वाङ्गमव्यवधायकमिति न्यायात् । ननु किमत्र क्लिष्टकल्पनया । अस्त्यव्यवहितोदाहरणमप्यन्यदपीति शङ्कते—“यद्येवमिति” । अत्र पूर्वार्धवर्तिद्वयमुदाहरणमुत्तरार्धवर्तिनो द्वयस्य पूर्वतुल्यत्वात् । परिहरति—“अस्तीति” । अनन्वयमात्रमत्रोदाहरणम् । तत्र चावश्यभेदकल्पनया विशेषणविशेष्यभावी वाच्यस्तथा च गौणी नाम द्विरुक्तिः स्यादिति सङ्करशङ्कनायोदाहृतमिति सिद्धान्ततात्पर्यसङ्क्षेपः ॥

समस्तो यथा—

‘अपहस्तितान्यकिसलय किसलयशोभं विलोकयाशोकम् ।
सखि विजिता परसुमनःसुमनः सुभग च मधुतिलकम् ॥ २४२ ॥’

अत्र ‘किसलय किसलय’ इति, ‘सुमनः सुमनः’ इति च समस्तानामेवाव्यधानादयं लाटीयोऽनुप्रासोऽव्यवहितसमस्तः पूर्वः पुनरव्यवहितव्यस्त इत्युच्यते ॥

“पूर्वः पुनरिति” । समस्तानन्तरं व्यस्तविवरणं प्रतिपत्तिसौकर्यार्थम् ॥

उभयस्तु द्विधा—प्रथमः समस्तोपरो व्यस्तः । द्वितीयो व्यस्तोऽपरः समस्त इति च । तयोः प्रथमो यथा—

‘जितलाटाङ्गनावक्रं वक्रं तस्या मृगीदृशः ।
क्स्य न क्षोभजनकं जनकं पुष्पधन्वनः ॥ २५३ ॥’

तदिदं लक्षणेनैव व्याख्यातम् ॥

द्वितीयो यथा—

‘नलिनी नलिनीनाथकरसन्नतिसङ्गमात् ।
विकचा विकचास्यानां कान्तानां हरति श्रियम् ॥ २४४ ॥’

अस्यापि लक्षणेनैवोक्तोऽर्थः ॥

स्वापेक्षया व्यस्तोऽन्यापेक्षया च समस्तः, द्वितीयो व्यस्तोऽपरः समस्त इति स द्वितीयोभयशब्दवाच्यः । सोऽपि द्विधा—प्रतिपादमन्ताद्योर्गर्भ इवानुप्रासविन्यासात् । तयोः प्रथमश्चक्रवालं यथा—

‘जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः ।
वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥ २४५ ॥’

अत्र तिमिरवल्लभपूर्वाशेतिशब्दास्तिमिरादिशब्दापेक्षया व्यस्ताः यथा—स्वपूर्वोत्तरपदापेक्षया च समस्ताः पदान्ताद्योर्विनिवेशिता इति यथोक्तलक्षणानुगमाल्लाटीयानुप्रासोऽयमव्यवहितो व्यस्तसमस्तश्चक्रवालमित्युच्यते ॥

द्वितीयमुभयं विवेचयति—“स्वापेक्षयेति” । तिमिरान्धाश्चक्रवाकाः । यथ श्रुतिद्विरुक्तः पूर्वः पूर्वेणोत्तरश्चोत्तरेण समस्त इति पूर्वस्माद्विशेषः ॥

एतेन पादमध्येऽनुप्रासविन्यासाद्गर्भोऽपि व्याख्यातः । यथा—

‘समाधवा माधवदत्तदृष्टिः सकौतुका कौतुकमन्दिरे स्तात् ।
सविभ्रमा विभ्रमदायिनी वः सपङ्कजा पङ्कजलोचना श्रीः ॥ २४६ ॥’

सकौतुका कृतकङ्कणबन्धादिपरिणयमङ्गला ॥

व्यवहितभेदेषु व्यस्तो यथा—

‘प्रकाशो यशसा देवः प्रकाशो महसा रविः ।
दु सहो विद्विषां स्वामी दुःसहस्तमसां च सः ॥ २४७ ॥’

तदेतन्नातिदुर्बोधमिति न व्याक्रियते ॥

सोऽयमेकगुणो व्यस्तश्च लाटीयानुप्रासो व्यवहित इत्युच्यते । व्यस्तश्चानेकगुणो यथा—

‘किञ्चिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः ।
ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः सर्वस्तेषु गुणैर्गृहीतहृदयो लोकः कुतो वर्तते ॥ २४८ ॥’

अत्र वच्मीति सन्तीत्येतयोरनेकगुणावृत्तिः ॥

“अनेकगुणा इति” । आवृत्तिद्वैगुण्यादिनानेकगुणत्वम्, न च गुणनायामियत्तावधारणकारणमस्तीत्यभिसन्धाय तस्येयत्ता न शक्यते कर्तुमिति पूर्वमुक्तम् । स्वेषामात्मीयानां मध्ये यः कश्चिद्दोषस्तत्र दमा दण्डप्रकारा न दृश्यन्त इति ॥

समस्त एकगुणो यथा—

‘चन्द्रानन चन्द्रदिनं मृगलोचन मृगशिरश्च नक्षत्रम् ।
तिथिरतिथिप्रियदशमी परतस्त्वेकादशी प्रहरात् ॥ २४९ ॥’

नन्विह तिथिरित्यसमस्तम् । न केवलमसमस्तं भिन्नार्थतया लाटीयानुप्रासेऽपि न सङ्गच्छते । सङ्गते च केनचित्पदानुप्रासेन । न च लाटीयानुप्रासो वा नामानुप्रासो वा पदानुप्रासाद्भिद्यत इति ॥

यद्यप्येकपरिहाराकारोदाहरणद्वयमुचितमेव तथापि किञ्चिद्विशेषं विवक्षन्नाक्षिप्य समाधत्ते—“नन्विति” । मा भूदत्रासमासोऽन्यथापि नेदमुदाहरणमिह सङ्गतमित्याह—“न केवलमिति” । तत्किमनुप्रास एवायं न भवतीति पृच्छति—केन तर्हीति । उत्तरम्—पदानुप्रासेनेति । पदानुप्रासेनार्थभेदाभेदौ विवक्षितौ । किन्तु पदाश्रयेणावृत्तिमात्रं पदानुप्रासावृत्तिश्च लाटानुप्रासेऽप्यस्तीति सङ्गत्यात्रेदमुदाहृतमित्यर्थः ॥

समस्तोऽनेकगुणो यथा—

‘ब्रह्माण्डच्छत्रदण्डः शतधृतिभुवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ २५० ॥’

अत्रानेकशो दण्ड इत्यस्यावृत्तिः । आभ्यां व्यस्तसमस्तभेदोऽपि व्याख्यातः । यथा—

‘दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २५१ ॥’

अत्रानेकधा दशशब्द आवर्तते ॥

शतधृतिर्ब्रह्मा तस्य भुवनभूतमम्भोरुद पद्मं तस्य, क्षोणी पृथ्वी तद्रूपा या नौस्तरिस्तस्याः कूपदण्डः गुणवृक्षः । “दशस्विति” । एको दशशब्दो व्यस्तः, अन्ये त्रयः समस्ताः ॥

अव्यवहितेऽपि द्वैगुण्यादेर्न विरोधः । यथा—

‘वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काशकाशाः काशाभा भान्ति तासां नवपुलिनचराः श्रीनदीहंसहंसाः ।
हंसाभाम्भोदमुक्तक्षरदमृतरुचिर्मेदिनीचन्द्रचन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥ २५२ ॥’

ननु व्यवहित एव किं गुणनादिभेदो नेत्याह—“अव्यवहितेऽपीति” । वस्त्रायन्त इत्यादौ काशपदपरिहारेणोदाहरणम् । तत्र हि प्रथमः काशशब्दो भिन्नार्थ एव ॥

व्यवहिताव्यवहितभेदेऽपि दृश्यते । यथा—

‘धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापान्नरा निस्तरन्ति ।
धनेभ्यो हि कश्चित्सुहृन्नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम् २५३’

यत्र व्यवहिताव्यवहितयोरेकवाक्यानुप्रवेशोऽस्ति तत्रापि गुणनाभेद उदाहरणीयः । दृश्यत इत्यनेन यद्वव्द्यवहिते भूयसी गुणना महाकविप्रबन्धेषु प्रतीयते न तद्वदव्यवहितेऽपीति पूर्वं व्यवहितमात्रे गुणनादिकमुपन्यस्तमिति तात्पर्यम् ।“धनैरिति” । अत्र धनपदव्यवधानेन बह्वीं गुणनामवलम्बमानमेव चतुर्थपादे त्वव्यवहिता त्वनुप्रासेऽपि प्रविष्टमिति भवति व्यवहिताव्यवहितभेदता । सोऽयं पदाभ्यासो दर्शितः ॥

योऽपि चार्धाभ्यासः सोऽपि व्यवहिताव्यवहितभेद एव । यथा—

‘यैस्त्वं साक्षात्कृतो नाथ तेषां कामेषु को ग्रहः ।
यैस्त्वं साक्षात्कृतो नाथ तेषां कामेषु को ग्रहः ॥ २५४ ॥’

अत्र पादापेक्षया व्यवहितत्वमर्घापेक्षया पुनरव्यवहितत्वं भवति ॥

एवं श्लोकार्धाभ्यासो व्यवहिताव्यवहितभेद एव भवतीत्याह—“योऽपीति” ॥

द्विभागाभ्यासस्तु व्यवहित एव स्वदते । यथा—

‘श्रद्धायत्नौ यदि स्यातां मेधया किं प्रयोजनम् ।
तावुभौ यदि न स्यातां मेधया किं प्रयोजनम् ॥ २५५ ॥’

“श्रद्धायत्नाविति” । अत्र यदि स्यातामिति पादभागेन सह पदावृत्तिस्त्रिभागावृत्तिर्भवति ॥

पदाभ्यासः पुनरव्यवहितो व्यवहितश्च दृश्यते । तयोरव्यवहितो यथा—

‘सन्तः श्रृणुध्वं हृदये निधद्ध्वमुत्क्षिप्य बाहुं परिरारटीमि ।
न सुभ्रुवां तुल्यमिहास्ति रम्यं न सुभ्रुवां तुल्यमिहास्ति रम्यम् २५६’

व्यवहितो यथा—

‘मुखेन लक्ष्मीर्जयति फुल्लपङ्कजचारुणा ।
दक्षिणेन करेणापि फुल्लपङ्कजचारुणा ॥ २५७ ॥’

“मुखेनेति” । फुल्लपङ्कजमिव चारु फुल्लेन पङ्कजेन चारुरिति यद्यपि वृत्त्यर्थौ भिद्येते, तथापि पदानामभिन्नार्थत्वादुदाहरणता ॥

इवाद्यावृत्तयोऽपि चात्रैव द्रष्टव्याः । यथा—

‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्जभि- श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ २५८ ॥’

अर्थाभेद इति नार्थशब्दोऽभिधेयवचनः किन्तु शब्दप्रतिपाद्यमात्रवचन इत्याशयवानाह—“इवादीति” ॥

यमकानां हि यावन्त्यो वर्ण्यन्ते भेदभक्तयः ।
अनुप्रासस्य लाटानां भिदास्तावन्त्य एव हि ॥ १०५ ॥

नन्वन्येऽपि पदावृत्तिप्रकाराः किमिति नोदाहृता इत्यत आह—“यमकानां हीति” । भेदभक्तयोऽवान्तरप्रकारविच्छित्तयः स्थानास्थानपादभेदलक्षणा श्लोकावृत्तिः परमत्र नास्तीति यमकादपकर्षः ॥

उपमादिवियुक्तापि राजते काव्यपद्धतिः ।
यद्यनुप्रासलेशोऽपि हन्त तत्र निवेश्यते ॥ १०६ ॥

प्रकरणान्तेऽनुप्रासव्युत्पादनप्रयोजनमाह—“उपमादीति । अनुप्रासलेशोऽपीति” । वर्णाद्यनुप्रासः ॥

कुण्डलादिवियुक्तापि कान्ता किमपि शोभते ।
कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रयुज्यते ॥ १०७ ॥

श्रुतिवृत्त्यनुप्रासौ तु सन्दर्भव्यापकावेव प्रशस्तावित्युदाहरणव्याजेनाह—“कुण्डलादीति” ॥

श्रुतिवर्णानुप्रासावेकविधौ कुन्तलेषु गौडेषु ।
पदयोर्निरनुप्रासो द्वेधा त्रेधा च लाटेषु ॥ १०८ ॥

एतदेव खण्डसरस्वतीषु कविषु न तथा काव्यसिद्धिरिति दर्शयन्द्रढयति—“श्रुतिवर्णानुप्रासाविति” ॥

ऽवर्णस्थानस्वराकारगतिबन्धान्प्रतीहयः ।
नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते ॥ १०९ ॥’

क्रमप्राप्तं चित्रलक्षणमवतारयति—“वर्णेति” । चित्रमालेख्यं तदिव जीवितस्थानीयध्वनिरहितं चित्रमिति काश्मीरकाः । तदसत् । ध्वनेः प्राधान्यानङ्गीकारात्प्रतीयमानमात्राभावस्य क्वचिदप्यसम्भवात् । यद्वा आकृतिविशेषयुक्तं चित्रमिति तदपि न । अव्यापकत्वात् । अतो वर्णादिनियमेन प्रवृत्तमाश्चर्यकारितया चित्रमित्येव युक्तम् । वर्णा व्यञ्जनानि । स्थानं कण्ठादि । स्वरा अकारादयः । आकारः पद्माद्याकृत्युन्मुद्रणम् । गतिः पठितिभङ्गविशेषः । बन्धो विविडितिप्रभृतिः ॥

वर्णशब्देन चात्र स्वराणां पृथङ्निर्देशाव्द्यञ्जनान्येव प्रगृह्यन्ते । तत्र वर्णचित्रेषु चतुर्व्यञ्जनं यथा—

‘जजौजोर्जाजिजिज्जाजी तं ततोऽतिततातितुत् ।
भाभोऽभीभाभिभूभाभूरारारिररिरीररः ॥ २५९ ॥’

पञ्चप्रभृतिनियमेन तथाशक्तिञ्युत्पत्त्योरुत्कर्ष इति चतुरादि गृह्णाति—“तत्रेति” । अवश्यं योद्धा जाजी । जजेर्युद्धार्थादावश्यके णिनिः । जजा युद्धशौण्डास्तेषामोजसा जाता या आजिः सङ्ग्रामस्तं जयतिति क्विप् । तं वेणुदारिणं ततोऽनन्तरं अतिततान् चतुरङ्गबलेन प्राप्तविस्तारान् आतिनः सततगमनशीलान् तुदतीति क्विप् । भानां दीप्ततारानुरूपाणां शुक्रबृहस्पत्यादीनामाभेवाभा कान्तिर्यस्येत्युपमानपूर्वपदबहुव्रीहौ उत्तरपदलोपे च भामः । अभियो भयशून्यानिभानभिभवतीति क्विप् । अभीभाभिभूस्तादृशी या भा तेजस्तस्या भूराश्रयः । आर जगाम । अरिः शत्रुः । बलभद्र इत्यर्थः । अरीणां रीः सञ्चरणम् । ‘रीङ् गतौ इति धात्वनुसारात् । तस्या ईरो धूननं राति ददाति अरीररः ॥

त्रिव्यञ्जनं यथा—

‘देवानां नन्दनो देवो नोदनो वेदनिन्दिनाम् ।
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ २६० ॥’

देवः सृष्टिस्थितिसंहारक्रीडारतः, दानवनन्दी हिरण्यकशिपुस्तस्य दानेऽवखण्डने यो नादो वक्षःकपाटपाटनकटकटाशब्दस्तेन दिवं स्वर्गं दुदाव किमेतदित्याकस्मिकसम्भ्रमेणेत्युपतापयामास । जगत्कण्टकनिराकरणाद्देवानां नन्दन आनन्दकृत् । वेदनिन्दिनां च नोदनः प्रतिक्षेपकः । सामान्याभिप्रायेणैकवचनम् ॥

द्विव्यञ्जनं यथा—

‘भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभरभीरुभिरिभैरिभाः ॥ २६१ ॥’

भूरिभिर्बहुभिर्भारिभिः प्रकृतिसारभारवाहिभिरतिप्रमाणकायतया भुवो भारभूतैरन्तःकांस्यभाजनो निःस्वानो भेरी तद्वदेभिभिः । ‘रेभृ शब्दे’ इति धात्वनुसारात् । अभ्राभैः प्रथमोन्नतमेघकान्तिभिरिभैर्हस्तिभिर्भिय रान्ति प्रयच्छन्तीति भीरा इभाः प्रतिद्विपा अभिरेभिरे अभियुक्ताः ॥

एकव्यञ्जनं यथा—

‘न नोननुन्नो नुन्नेनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ २६२ ॥’

ननु नानानना विविधाकारवदना गणा ऊनेन हीनेन नुन्नो जितो ना न न पुरुषः । तथा नुन्न इनः प्रभुर्यस्य सोऽप्यात्मनि जीवति नाना पुरुषोऽपुरुष एव । यतो ननुन्नेनोऽजितप्रभुर्नुन्नोऽप्यनुन्न एव । तथा नुन्ननुन्नः जित इव क्लीबतया पराभूत इति । ‘प्रकारे गुणवचनस्य’ इति द्विरुक्तिः । तमपि यो नुदति स नानेना न निष्पापः बन्धच्छायार्पकान्यवर्णगुरुत्वोन्मेषमात्रप्रयोजकस्तकारो न वृत्तिशरीरान्तर्गत इति द्विव्यञ्जनता नाशङ्कनीया ॥

क्रमस्थसर्वव्यञ्जनं यथा—

‘कः खगौघाङचिच्छौजा झाञ्ज्ञोऽटौठीडडण्ढणः ।
तथोदधीन्पफर्बाभीर्मयोऽरिल्वाशिषां सहः ॥ २६३ ॥’

“क्रमस्थेति” । वर्णसमाम्राये येन क्रमेण कादयो मावसानाः पठितास्तेन क्रमेण व्यञ्जननिवेशः । कः खगौघस्तत्तत्प्रसिद्धावदानपक्षिसमूहस्तमञ्चतीति क्विनि संयोगान्तलोपे कृते च खगौघाङिति रूपम् । चितं संविदं छ्यति छिनत्तीति चिच्छं यदोजस्तन्नास्ति यस्यासावचिच्छौजाः । ‘झमु अदने’ अस्मात् क्विप् । ‘अनुनासिकस्य क्विझलोः ६।४।१६’ इत्युपधादीर्घः । ‘मो नो धातोः ८।२।६४’ इति नकार इति झान् परबलभक्षको ज्ञः पण्डितः । ‘स्तो श्चुना श्रुः ८।४।४०’ इति नकारस्य ञकाराः । अटाः सङ्ग्रामाङ्गणपर्यटनशीलाः सुभटास्तानोठते बाधत इति क्विप् । ‘उठ गतौ’ इति धातो रूपम् । तेषामीडीश्वरः । अडण्ढणोऽचपलः । डण्ढण इत्यव्युत्पन्नं चपलवाचि प्रातिपदिकम् । तथा अभीर्भयरहितः एवंविधः को नामायमुदधीन् पफर्ब पूरयामासेति प्रश्नः । उत्तरम्—अरीन् लुनन्ति या आशिषस्तासां सहः क्षमो मयो दैत्यराज इति ॥

छन्दोक्षरव्यञ्जनं यथा—

‘सरत्सुरारातिभयाय जाग्रतो जलत्यलं स्तोतृजनस्य जायताम् ।
स्मितं स्मरारेर्गिरिजास्यनीरजे समेतनेत्रत्रितयस्य भूतये ॥ २६४ ॥’

“छन्दोक्षरेति” । ‘म्यरस्तजभ्नगा लान्ताश्छन्दोविचितिवेदिभिः । दशैव वर्णा निर्णीताश्छन्दोरूपप्रसिद्धये ॥’ तन्मात्रव्यञ्जननिबद्धछन्दोक्षरव्यञ्जनम् । सुबोधमुदाहरणम् ॥

षड्जादिस्वरव्यञ्जनं यथा—

‘सा ममारिधमनी निधानिनी सामधाम धनिधामसाधिनी ।
मानिनी सगरिमापपापपा सापगा समसमागमासमा ॥ २६५ ॥’

“षड्जादीति” । ‘सरिगामपधानिश्च वर्णाः सप्त स्वरादयः । षड्जादिकृतसङ्केता दृष्टा गान्धर्ववेदिभिः ॥’ तन्मात्रव्यञ्जनमयं षड्जादिव्यञ्जनम् । सह एन विष्णुना वर्तते इति सा लक्ष्मीः । अरीन् धमति तापयति इति धमतेर्ल्युटि बहुलवचनमन्यत्रापीति धमादेशः । एवंविधा मम भूयादिति शेषः । निधानिनी पद्मादिनिधानवती । साम्नः सान्त्वस्य धाम गृहम् । धनिनां धामसाधिनी तेजःप्रसाघिका । मानिनी पूजावती । सगरिमा गौरववती । अपपापान्निष्कलुषान् पातीत्यपपापपा । सेति प्रसिद्धविभवा आपगा नदी । समः तत्तुल्यः क्षणविसर्पा भङ्गुरः समागमो यस्याः सा तथा । असमा अनुपमा ॥

मुरजाक्षरव्यञ्जनं यथा—

‘खरगरकालितकण्ठं मथितगदं मकरकेतुमरणकरम् ।
तडिदिति रुरुमुण्डहरं हरमन्तरहं दधे घोरम् ॥ २६६ ॥’

“मुरजेति” । ‘पाठाक्षराणि मुरजे लहकारौ तथदधाच्छमौ रेफः । नणकखगघङाश्चेत्थं षोडश भरतादिक्रथितानि ॥’ तन्मात्रविरचितं मुरजाक्षरव्यञ्जनम् । सुबोधमुदाहरणम् ॥

चतुःस्थानचित्रेषु निष्कण्ठ्यं यथा—

‘भूरिभूतिं पृथुप्रीतिमुरुमूर्तिं पुरुस्थितिम् ।
विरिञ्चिं सूचिरुचिधीः शुचिभिर्नुतिभिर्धिनु ॥ २६७ ॥’

वर्णवत्स्थानेष्वपि चतुरादिनियमेन चित्रम् । यद्यपि च ‘अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च’ इति, तथापि जिह्वामूलीयस्य स्वरत्वादुरस्यनासिक्ययोः काव्यप्रवेशाभावादुरोनासिकाजिह्वामूलपर्युदासेन स्थानपञ्चके चतुरादिनिरूपणम् । हे सूचिरुचिधीः शुचिभिः शुद्धाभिर्नुतिभिः स्तुतिभिर्यथोक्तविशेषण विरिञ्चिं ब्रह्माणं धिनु प्रीणयेति । अकुहविसर्जनीयाः कण्ठ्याः ॥

निस्तालव्यं यथा—

‘स्फुरत्कुण्डलरत्नौघमघवद्धनुकर्बुरः ।
मेघनादोऽथ सङ्ग्रामे प्रावृट्कालवदाबभौ ॥ २६८ ॥’

कुण्डलरत्नौघ एव मघवतो धनुस्तेन कर्बुरो मेघनादनामा राक्षसः । इचुयशास्तालव्याः ॥

निर्दन्त्यं यथा—

‘पाप्मापहारी रणकर्मशौण्डश्चण्डीशमिश्रो मम चक्रपाणिः ।
भूयाच्छ्रियापश्रमयेक्ष्यमाणो मोक्षाय मुख्यामरपूगपूज्यः ॥ २६९ ॥’

चण्डीशमिश्रः परमेश्वरेणैकशरीरतामापन्नः । मुख्यामरा ब्रह्मादयः । लृतुलसा दन्त्याः ॥

निरोष्ठ्यं यथा—

‘नयनानन्दजनने नक्षत्रगणशालिनि ।
अघने गगने दृष्टिरङ्गने दीयतां सकृत् ॥ २७० ॥’

“अघन इति” । शरत्कालशोभया दृश्यतमे । उपूपध्मानीया ओष्ठ्याः ॥

निर्मूर्धन्यं यथा—

‘शलभा इव धावन्तः सायकास्तस्य भूभुजः ।
निपेतुः सायकच्छिन्नास्तेन संयुगसीमनि ॥ २७१ ॥’

तेन कपिलेन राज्ञा । तस्य कोसलाधिपस्य प्रसेनजितः । ऋटुरषा मूर्धन्याः ॥

त्रिस्थानचित्रेषु निरोष्ठ्यदन्त्यं यथा—

‘जीयाज्जगज्ज्येष्ठगरिष्ठचारश्चक्रार्चिषा कृष्णकडारकायः ।
हरिर्हिरण्याक्षशरीरहारी खगेशगः श्रीश्रयणीयशय्यः ॥ २७२ ॥’

“निरोष्ठ्यदन्त्यमिति” । अनेनैव द्विकान्तरपरिहारेण लोष्टप्रस्तावो गवेषणीयः । तथोत्तरत्रापि ॥

निरोष्ठ्यमूर्धन्यं यथा—

‘अलिनीलालकलतं कं न हन्ति घनस्तनि ।
आननं नलिनच्छायं नयनं शशिकान्ति ते ॥ २७३ ॥’

द्विस्थानचित्रेषु दन्त्यकण्ठ्यर्यथा—

‘अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
सदानघ सदानन्द नताङ्गीसङ्गसङ्गत ॥ २७४ ॥’

सदानघ अनवद्य सदैव प्रियालाभेनानन्दयुक्त । नताङ्ग्या कस्याश्चिदन्यस्याः सङ्गे सङ्गत, तव शोभनाङ्गना कामाक्रमणप्राप्तनानारूपतया वर्तते । अतस्तामनुकम्पस्वेति सोपलम्भप्रार्थनावाक्यार्थः ॥

एकस्थानचित्रेषु कण्ठ्यैर्यथा—

‘अगा गां गाङ्गकाकाङ्कगाहकाघककाकहा ।
अहाहाङ्गखगाङ्कागगकङ्कागखगाङ्कग ॥ २७५ ॥’

गाङ्गकं गङ्गासम्बन्धि जलं तस्याकः कुटिला गतिः । ‘अक अग कुटिलायां गतौ’ इति । तस्याङ्कस्य तन्मध्यस्य गाहको विलोलकः । कुत्सितमघं पापमघकं स एव काकस्तं हतवानघकक्राक्रहा । अन्ये तु विसर्गान्तं पठन्ति । तदा जहातेर्विधिरूपम् । एवंविधस्त्वं गां स्वर्गं अगाः याया इति आशंसायां भूतप्रत्ययः । कीदृशः सन् । हानं हाः न हा अहास्ताञ्जिहीते प्राप्नोतीति अहाहं तादृशमङ्गं यस्य स खगो गरुडः सूर्यो वा सोऽङ्कश्चिह्नभूतो यस्य तादृशोऽगोऽर्थान्मेरुस्तद्वर्तिनः कङ्काख्या अगखगा वृक्षनिवासिनः पक्षिणस्तेऽपि आकाकका गमनस्पृहयालवो यस्य स तथा । आस्तां तावदन्ये, पतत्त्रिभिरप्यभिनन्दितगमन इत्यर्थः ॥

स्वरचित्रेषु ह्रस्वैकस्वरं यथा—

‘उरुगु द्युगुरु युत्सु चुक्रुशुस्तुष्टुवुः पुरु ।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥ २७६ ॥’

स्वरचित्रेष्वेकादिक्रमेणोपन्यासो ग्रन्थवैचित्र्यार्थः । उरुगुं विस्तीर्णवाचम् । द्युगुरुं स्वर्वासिनामाचार्यम् । युत्सु युद्धार्थम् । ‘निमित्तात्कर्मयोगे’ इति सप्तमी । गीर्वाणभटाश्रुक्रुशुरार्ताः शरणं ययाचिरे । अत एव पुरु बहुधा तुष्टुवुः । युद्धप्रयोजन-माह—मुत्सु हर्षेषु लुलुभुः । पुपुषुः पुष्टा बभूवुः । नु वितर्के । मुहुर्मुहुर्वारंर्वारं किं मुमुहुर्मोहमासादितवन्तः । यतः क्रोशनादीनामव्यवस्थेति भावः ॥

दीर्घैकस्वरं यथा—

‘वैधैरैनैरैशैरैन्द्रैरैजैरैलैर्जैनैः सैद्धैः ।
मैत्रैर्नैकैर्धैर्यैर्वैरैर्दैः स्वैः स्वैरैर्दैवैस्तैस्तैः ॥ २७७ ॥’

विधिर्विरिञ्चिः, ई लक्ष्मीस्तस्या इनः प्रभुर्विष्णुः, ईशो महादेवः, इन्द्रो वासवः, ईजः कामो लक्ष्मीपुत्रत्वात्, इला पृथ्वी, जिनो बुद्धः, सिद्धा देवविशेषाः, मित्रः सूर्यः, रैदो धनदः कुबेरः, देवा उक्तव्यतिरिक्ता मरुदादयः, एषां सम्बन्धिभिधैंयैंर्धृतिभिः स्वैर्वित्तैश्च नैकैरनेकविधैस्तैस्तैः प्रसिद्धरूपैरहं स्वैरैः सुष्ठु आसमन्तात्समृद्धो भवानीत्याशंसा । वै वाक्यालङ्करे ॥

ह्रस्वद्विस्वरं यथा—

‘क्षितिस्थितिमितिक्षिप्तिविधिविन्निधिसिद्धिलिट् ।
मम त्र्यक्ष नमद्दक्ष हर स्मरहर स्मर ॥ २७८ ॥’

क्षितिः पृथ्वी तस्याः स्थितिः पालनं मितिर्मानं क्षिप्तिः संहारस्तद्विधिं वेत्ति । निधिसिद्धी लेढीति क्विए । नमन् भग्नतेजा दक्षो यस्मात् । स्मरहर कामदहन, त्र्यक्ष त्रिनयन, हर महादेव, मम स्मर । अधीगर्थयोगे कर्मणि षष्टी ॥

दीर्घद्विस्वरं यथा—

‘श्रीदीप्ती ह्रीकीर्ती धीनीती गीःप्रीती ।
एधेते द्वे द्वे ते ये नेमे देवेशे ॥ २७९ ॥’

श्रीदीप्ती लक्ष्मीतेजसी । ह्रीकीर्ती लज्जायशसी । धीनीती बुद्धिनयौ । गीःप्रीती वाक्प्रमोदौ । इमे ये देवेशेऽपि न स्तस्ते द्वे तव एधेते वर्धेते ॥

त्रिस्वरेषु ह्रस्वत्रिस्वरं यथा—

‘क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः ।
उरु रुरुधुर्गुरु दुधुवुः स्वमरिकुलं युधि कुरवः ॥ २८० ॥’

क्षितेर्विजितिः विजयः, स्थितेर्वर्णाश्रममर्यादालक्षणाया विहितिर्विधानं तदेव व्रतं तत्र रतिर्येषाम् । परा श्रेष्ठा गतिर्ज्ञानं येषां ते तथा । एवंविधाः कुरवः स्वद्विषां कुलमुरु विस्तीर्ण रुरुधुः । तदेव गुरु महत् दुधुवुः कम्पयामासुः ॥

चतुःस्वरेषु दीर्घस्वरं यथा—

‘आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीभीतीः ।
भोगो रोगो मोहो मोदो ध्येये वेच्छेत्क्षेमे देशे ॥ २८१ ॥’

आम्रायानां वेदानामन्त्या वागुपनिषत् सा हिताहितप्रतिपादनपरा किमाह । या गीतयस्ता ईतय उपसर्गाः । याः प्रीतयस्ता भीतयो भयानि । यो भोगः स रोगः । यो मोदो हर्षः स मोहः । न परमेवमाह । किन्तु यावध्द्येये ध्यातव्ये क्षेमे क्लेशरहिते देशे विषये मोक्षलक्षणे इच्छेदिच्छां कुर्यादिति । वाशब्दः समुच्चये । अन्ये चकारमेव पठन्ति ॥

प्रतिव्यञ्जनविन्यस्तस्वरं यथा—

‘तापेनोग्रोऽस्तु देहे नो हेये विल्लोभिनिन्दिना ।
जायाग्रे हि गुणिप्रेष्ठे हितोक्षेपोऽमृतोक्षिणि ॥ २८२ ॥’

हेये हातव्ये वस्तुनि या विल्लाभः । ‘विदॢलाभे’ इति धात्वनुसारात् । तत्र ये लोभिनो लोभवन्तस्तन्निन्दनशीलेन तापेन तेजसार्थादुग्रश्चण्डरश्मिः स नः मम देहेऽस्तु । तेजस्वी भवानीति यावत् । किमित्येवमाशास्यत इत्यत आह—अमृतस्यन्दिनि कान्ताग्रे गुणिनां प्रियतमेऽक्षेपोऽविलम्ब एव हितोऽर्थतः समरस्य । ‘इति दत्वाशिषं कोऽपि स्वस्मै कार्मुककर्मणे । जगाम समरं कर्तुमरिलक्ष्मीस्वयंवरम् ॥’

तदेवापास्तसमस्तस्वरं यथा—

‘तपन ग्रस्तदहन हयवल्लभनन्दन ।
जयग्रह गणप्रष्ठ हतक्षप मतक्षण ॥ २८३ ॥’

ग्रस्तदहन अभिभूतपावक । हयवल्लभो रेवन्तः स तनयो यस्य । हतक्षप अपहृतरात्र । मतक्षण सम्मतोत्सव ॥

आकारचित्रेष्वष्टदलं यथा—

‘याश्रिता पावनतया यातनच्छिदनीचया ।
याचनीया धिया मायायामायासं स्तुता श्रिया ॥ २८४ ॥’

अत्र—

‘कर्णिकायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च ।
प्रवेशनिर्गमौ दिक्षु कुर्यादष्टदलाम्बुजे ॥ २८५ ॥

या श्रितेत्यादिकमुदाहरणं प्रागेव (प० १ श्लो० १७०) व्याख्यातम् । अतः परं हारिहरिव्याख्या । साप्यत्रैव लिख्यते । तद्यथा—या देवी पवित्रत्वेनाश्रिता अनीचया तुङ्ग्या बुध्द्या मायायामस्याविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया यतो यातनं नरकानुभवनीयं दुःखं छिनत्ति श्रियापि स्तुतेति ॥ अस्य न्यासमाह—“कर्णिकायामिति” । आद्यो यावर्णः कर्णिकायां श्रितेति पावेति क्रमेण द्विकं द्विकमष्टपत्रेषु । याश्रिता श्रियेत्यादौ दिग्दलेषु प्रवेशनिर्गमौ ॥

द्वितीयमष्टदलं यथा—

‘चरस्फारवरक्षार वरकार गरज्वर ।
चलस्फाल वलक्षालवल कालगल ज्वल ॥ २८६ ॥’

अष्टधा कर्णिकावर्णः पत्रेष्वष्टौ तथापरे ।
तेषां सन्धिषु चाप्यष्टावष्टपत्त्रसरोरुहे ॥ २८७ ॥

“चरस्फारेत्यादि” । सञ्चरणशीलः स्फारो यो वरस्तं क्षरति ददाति इति । वराञ्छ्रेष्ठान् किरति क्षिपति कृणोति हिनस्ति वेति कर्मण्यण् । गरः कालकूटस्तस्य ज्वरो ज्वरणात् । ताण्डवारम्भे चलाः स्फाला यस्य । वलक्ष धवलदेह, अलवल प्राप्तशक्ते, कालगल नीलकण्ठ, ज्वल दीप्यमानो भव ॥ न्यासमाह—“अष्टधेति” । अथ प्रथमार्धे एक एव रेफोऽष्टधा कर्णिकायाम् । अपरार्धस्यान्येऽष्टौ लकारवर्जं दलेषु चेषां सन्धिष्वन्येऽष्टौ लकाराः ॥

तृतीयमष्टपत्त्रं यथा—

‘न शशीशनवे भावे नमत्काम नतव्रत ।
नमामि माननमनं ननु त्वानुनयन्नयम् ॥ २८८ ॥’

अत्र—

प्राक्कर्णिकां पुनः पर्णं पर्णाग्रं पर्णकर्णिके ।
प्रतिपर्णं व्रजेद्धीमानिह त्वष्टदलाम्बुजे ॥ २८९ ॥

एवं चतुष्पत्त्र-षोडशपत्त्रे अपि द्रष्टव्ये ॥

“न शशीशेत्यादि” । शशीशे चन्द्रे नवे भावे भक्तौ । स्थित इति शेषः । त्वामहं न नमामि । काक्वा नमाम्येव । नमन् भग्नः कामो यस्मात् । नतमुपनतं व्रतं यस्य संयमिधौरेयत्वात् । माननमनं शत्रूणामुन्नतिनाशनम् । नन्विति पूजासम्बोधने । त्वा इति त्वाम् । अनुनयन् विनयं कुर्वाणोऽयम् ॥ न्यासमाह—“प्राक्कर्णिकामिति” । पूर्वं कर्णिकायामाद्यो नकारो ग्राह्यः, ततः शेति पर्णमध्ये, शीति पर्णाग्रे, परावृत्य पर्णकर्णिकयोः शकारनकारौ, पुनः कर्णिकातो दलाग्रगमागमेऽपि । अयमेव क्रमश्चतुर्दलपद्मे ॥

तयोश्चतुष्पत्त्रं यथा—

‘सासवा त्वा सुमनसा सा नता पीवरोरसा ।
सारधामैति सहसा साहसर्ध सुवाससा ॥ २९० ॥’

कर्णिकातो नयेदूर्ध्वं पत्राकाराक्षरावलीम् ।
प्रवेशयेत्कर्णिकायां पद्ममेतच्चतुर्दलम् ॥ २९१ ॥

“सासवेत्यादि” । सासवा आस्वादितमदिरा । पीवरेण स्तनाढ्येनोरसा नता सारधामा उत्कृष्टकान्तिः सहसा सहास्या अकस्माद्वा श्रृङ्गारोद्दीपनस्वभावेन मार्गशीर्षेण हेतुना शोभनेन वाससा च लक्षिता हे साहसर्ध सर्वनिशीथाभिसरण साहसरसिक, त्वामेति उपगच्छतीति ॥ न्यासमाह—“कर्णिकेति” । सुबोधमेतदिति ॥

षोडशपत्त्रं यथा—

‘नमस्ते महिमप्रेम नमस्यामतिमद्दम ।
क्षामसोम नमत्काम धामभीम समक्षम ॥ २९२ ॥’

गोमूत्रिकाक्रमेण स्युर्वर्णाः सर्वे समाः समाः ।
मध्ये मवर्णविन्यासात्पद्मोऽयं षोडशच्छदः ॥ २९३ ॥

षोडशपत्त्रमाह—“नमस्त इत्यादि” । महिमनि प्रेमा यस्य तत् । “नमस्य” अमतिमतो दाम्यतीति अमतिमद्दम । क्षामः कलामात्रेण चूडासङ्गतः सोमो यस्य । नमन् भग्नः कामो यस्मात् । धाम्ना तेजसा भीम भयानक । समा सकलव्युत्थानहेतुसाधारणी क्षमा यस्य । यस्यैतानि सम्बोधनविशेषणानि ते तुभ्यं नमस्कुरुते कश्चिदिति ॥ न्यासमाह—“गोमूत्रिकेति” । वर्णा मकारव्यतिरिक्ताः समाः मकारसहिताः । समाः समा इति वीप्सा प्रतिवर्णं मकारसाहित्यबोधनार्था ॥

अष्टपत्त्रमेव कविनामाङ्कं यथा—

‘रातावद्याधिराज्या विसरररसविव्द्याजवाक्क्ष्मापकारा राका पक्ष्माभशेषा नयनननयनस्वा [सा] खया स्तव्यमारा ।
रामा व्यस्तस्थिरत्वा तुहिनननहितुः श्रीः करक्षारधारा राधा रक्षास्तु मह्यं शिवमममवशिव्यालविद्यावतारा ॥ २९४ ॥’

निविष्टाष्टदलन्यासमिदं पादार्धभक्तिभिः ।
अस्पृष्टकर्णिकं कोणैः कविनामाङ्कमम्बुजम् ॥ २९५ ॥

तत्राङ्कः—‘राजशेखरकमल’ । एतेन चक्रमपि व्याख्यातम् ॥

अष्टपत्त्रमेव कविनामाङ्कमाह—“रातावद्येति” । ‘गीर्वाणसुभटः कश्चिद्युयुत्सुर्दैत्यसेनया । तत्कालकृतसान्निध्यां मायादेवीमपूजयत् ॥’ तथाहि—व्याजो माया सैव वाग्रूपा व्याजशब्दोपपदं वागभिधानं यस्याः सा मह्यं रक्षास्त्विति सम्बन्धः । रातं दत्तमवद्यं दोषबहुलमाधिराज्यम्, अवद्या आधयो यत्र तादृशं वा राज्यं यया । विशिष्टं सरणं विसरस्तं राति प्रयच्छति यो रसोऽर्थाद्वीरस्तं वेत्ति विन्दति वा । या क्ष्मायां पृथिव्यामपकारः पुत्रकलत्रादिरूपो यस्याः सकाशादिति गमकत्वाद्वहुव्रीहिः । राका पूर्णिमा, द्वादशवर्षदेशीयकन्यारूपा वा । पक्ष्माभः शरीरसंलग्नः शेषः सर्पः । यस्या नयनं नीतिस्तान्नयतीति यन्नयनं दृष्टिः । ज्ञानमिति यावत् । तदेव स्वमात्मा यस्याः । खे व्योम्नि यातीति खया । स्तव्यो मारो मारणं कामो वा यस्याः । सा रामा रमणीया स्त्रीरूपा वा । व्यस्तं विनाशितं स्थिरत्वं यया । तुहिनं नयति प्रापयतीति नयतेर्डप्रत्यये तुहिननश्चन्द्रस्तस्य नहितुर्जटाजूटे बन्धयितुः परमेश्वरस्य श्रीः शक्तिरूपा । नह्यति बध्नातीति नहेर्विचि नहं स्तुतिमासादयतीति । ‘सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः’ इति क्विपि तृजन्तस्य रूपम् । कं सुखं राति ददातीति करस्तस्य क्षारभूता दस्यवस्तेषां खङ्गादिधारेव धारा छेत्त्री । राधेति देव्याः पौराणिकं नाम । ममेत्यव्ययं भावप्रधानम् । शिवे मनत्वं मान्ति परिच्छिन्दन्ति ये वशिनो योगिनस्तेषामपि व्यालविद्यां क्षुद्रविद्यामवतारयति या सा तथा ॥ न्यासमाह—“निविष्टेति” । अष्टभिः पादार्धैरष्टदलविरचना । यद्वर्णाष्टकं नाम्नो-त्तिष्ठति तदाह—‘राजशेखरकमल’ । कविकाव्यनामलाभादंविभक्तिकत्वमप्यदोषः । “एतेनेति” । नामाङ्कपद्मकथनेन चक्रमपि नामाङ्कमवसेयम् ॥

चक्रं यथा—

‘स त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे- रेकौघैः समकालमभ्रमुदयी रोपैस्तदातस्तरे ॥ २९६ ॥’

पुरः पुरो लिखेत्पादानत्र त्रीन्षडरीकृतान् ।
तुर्यं तु भ्रमयेन्नेमौ नामाङ्कश्चक्रसंविधिः ॥ २९७ ॥

अत्राङ्कः—‘माघकाव्यमिदं शिशुपालवधःऽ ॥

“स त्वमित्यादि” । हरेर्नादं सिंहनादं रोपैर्बाणैराजिरभसात्सङ्ग्रामहर्षादुद्धरतरश्रीवत्सभूमिरुन्नतहृदयः स त्वमालम्ब्य मानेन तद्विशिष्टमिति विशेषणम् । प्राप्तपापविनाशो मुदा हर्षेण अपगतभीः शत्रुर्हरिणव्याधोऽभ्रमाकाशं पिदधे तदा तस्मिन्काले सिंहनादमुक्त्वेति सम्बन्धः ॥ न्यासमाह—“पुर इति” । पुरः पुरो लिखित्वान्यानग्रे लिखेद्यथा षडराः सम्पद्यन्ते ॥

एवं चतुरङ्कमपि यथा—

‘शुद्धं बद्धसुरास्थिसारविषम त्वं रुग्जयातिस्थिर भ्रष्टोद्धर्मरजःपदं गवि गवाक्षीणेन चञ्चद्भुवा ।
तथ्यं चिन्तितगुप्तिरस्तविधिदिग्भेदं न चक्रं शुचाचारोऽप्रांशुरदभ्रमुग्र तनु मे रम्यो भवानीरुचा ॥ २९८ ॥’

अत्राङ्कः—‘शुभ्रतरवाचा बद्धचितिचक्रं राजगुरुणेदं सादरमवादिऽ ॥

यथा वा—“शुद्धमित्यादि” । चक्रं मे मम गवि वाचि शुद्धमकलुषम्, धर्मादुत्कान्तमुद्धर्ममीदृशं यद्रजो राजसभावस्तस्य पदं स्थानं तद्भ्रष्टं विनष्टं यस्मात् । अस्ता विधिदिग्दैवपारतन्त्र्यं यत्र तथाविधं, शुचा शोकेन च न वक्रीकृतमनपहतमदभ्रमुपचितं यद्भद्रं कल्याणं तत्तनु विस्तारयेति प्रार्थना । बद्धैरलङ्कारीकृतैः सुराणां ब्रह्मादीनां सारं शिरस्तदस्थिभिर्बद्धमुण्डमालाभिर्भयानक । रुजां रोगाणां जयेनाति-स्थिर । अक्षीणेनोपचितेन चञ्चद्भुवा साह्लादेन गवा वृषेण लक्षित । तथ्यमिति क्रियाविशेषणम् । चिन्तिता गुप्तिर्भूतानां रक्षा येन । चारो रमणीयः । उग्रो महादेवः । त्वमप्रांशुः सर्वस्मादुच्चैःपदे स्थितः । भवानीरुचा वामार्धस्थितपार्वतीकान्त्या रम्यस्तन्विति सम्बन्धः ॥ अत्र पूर्ववदेव न्यासः । अङ्कास्तु चत्वार इति विशेषः ॥

गतिचित्रेषु गतप्रत्यागतं यथा—

‘वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधावरितारिका ॥ २९९ ॥’

अत्रायुक्पादयोर्गतिः, युक्पादयोः प्रत्यागतिः ॥

इदानीं गतिचित्रप्रस्तावः—“वारणेत्यादि” । वारणा एव अगाः पर्वतास्तैर्गभीरा दुरवगाहा । सारा श्रेष्ठा । भियं येन यान्ति तादृशानां गणानामारवो यत्र । सारो वा भीगगणारवो यत्र । कारितः कृतोऽरीणां वधो यया । स्वार्थे णिच् । आसेधः परैः प्रतिषेधस्तेन हीना । वरिताः सुभटैर्युद्धार्थमाहूता अरयो यस्यां सा तथा । ‘वर ईप्सायाम्’ इति धातोः क्तप्रत्यये वरितेति रूपसिद्धिः । अत्रायुक्पादयोः प्रथमतृतीययोरानुलोम्येन वर्णावलीं गृहीत्वा तत्प्रतिलोमरूपौ युक्पादौ द्वितीयचतुर्थौ गृह्येते । पठितेर्वर्णाद्वर्णान्तरसञ्चारो गतिस्तन्नियमनेन चित्रं गतिचित्रं स चात्र यथोक्तरूप एव ॥

तदक्षरगतं यथा—

‘निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
चारुणा रमते जन्ये को भीतो रसिताशिनि ॥ ३०० ॥’

अत्र गतप्रत्यागताभ्यां स एव श्लोकः ॥

हे अमरणा मरणरहिताः, निशितखङ्गरतो भयशून्यश्च रुचा तेजसा न्येजते न कम्पते । यो हि भीतः स कथं शब्दायमानाशनशीलरक्षःपिशाचादिसङ्कुले जन्ये सङ्ग्रामे चारुणा करितुरगादिना रमते । न कथञ्चिदित्यर्थः । अत्र सन्दर्भसमाप्तिपर्यन्तं या वर्णमाला गृहीता सैव समाप्तेरारभ्य प्रत्यागत्या यावदारम्भं समाप्यत इति पूर्वं त्वर्धेनैवमिति ॥

श्लोकान्तरं यथा—

‘वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ ३०१ ॥’

अत्र प्रातिलोम्येनापरः श्लोको भवति । यथा—

‘निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥ ३०२ ॥’

“वाहनेति” । ततोऽनन्तरं वाहना सेनाऽनमा नतिशून्याजनि जाता । साराजावुत्कृष्टसङ्ग्रामे मानासे परमानक्षेपके मत्ताः सारगाः सोत्कर्षगतिशालिनो राजेभा राजदन्तिनो यत्र । भारिणः स्वामिनार्पितसमरभराः अत एव यथोचितचेष्टावन्तस्तेषां जनानां ध्वनिः सिंहनादो यत्रेति क्रियाविशेषणमित्यनुलोमश्लोकार्थः । निध्वनन्तः स्तनन्तो जवेन वेगेन हारिण इभा यत्र । ततो विस्तीर्णो मानवजारासः सैनिककृत आरावः कोलाहलो यत्र । मानिजनानां साहङ्काराणां वीराणामाहवो द्वन्द्वयुद्धं यत्र । ईदृशी सेना रागरसात्परलक्ष्मीहरणरसेन तमो भेजे क्रोधमवापेति प्रतिलोमश्लोकार्थः ॥

भाषान्तरगतं यथा—

‘इह रे बहला लासे बाला राहुमलीमसा ।
सालका रसलीला सा तुङ्गालालि कलारत ॥ ३०३ ॥’

अत्र प्रातिलोम्येनापरः प्राकृतश्लोको भवति । यथा—

‘तरला कलिला गातुं सालाली सरकालसा ।
सामली महुरालावा सेलाला हव रेहइ ॥ ३०४ ॥’

“इह रे इत्यादि” । लासे नृत्ये बहला असङ्कुचिता राहुमलीमसा श्यामा सालका भ्रूकर्णादिपरभागार्पकचूर्णकुन्तलवती रसाच्छृङ्गाराल्लीला यस्याः सा, तथा तुङ्गा उच्चव्यवहारा एवंविधा सा बाला हे चतुःषष्टिकलारत, अलालि लालिता त्वयेति संस्कृतश्लोकार्थः । कला गीतवाद्यनृत्यानां सङ्करीकरणसहिता पटीयसी गातुं तरला त्वरिता सालाली नानावृक्षपङ्क्तिस्तदीयेन सरकेण मधुना अलसा । श्यामा मधुरालापा सेला उत्तमा नारी । ‘सेला स्यादुत्तमा नारी’ इति देशीकोशे । सह इरया मदिरया वर्तन्ते सेला वा । रलयोरेकत्वस्मरणादिति केचित्, तच्चिन्त्यम् । अला भूषयित्री । हव धवेति सम्बोधनम् । रेहइ राजते । प्राकृतश्लोकार्थः । एवं भाषान्तराणामपि गतप्रत्यागती बोद्धव्ये ॥

तदर्थानुगतं यथा—

‘विदिते दिवि केऽनीके तं यान्तं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति न ॥ ३०५ ॥’

अत्र प्रातिलोम्येन स एव पदार्थः ॥

“विदित इत्यादि” । विदिते स्वर्वासिनामपि प्रसिद्धे निजिताः परेषामाजयो युद्धानि येन तादृश्यनीके समरे प्राप्तं गवि पराह्वानरूपायां वाचि विगदं हृदयज्वररहितं के नाम भटा योद्धारः । न केऽपि सन्तीत्यर्थः । तं कम् । यो योद्धा सन्कथमपि नतिं नम्रतां नैति न याति । अत्र तदर्थक एव प्रतिलोमश्लोकः । स यथा—‘नतिमेति न योद्धा यो रोद्धारो विगदं गवि । निजिताजिनितं यातङ्केनीके विदिते दिविऽ ॥

तुरङ्गपदं यथा—

‘बाला सुकालबाला का कान्तिलालकलालिता ।
सस्वा सुतवती सारा दर्पिका व्रतगर्धित ॥ ३०६ ॥’

क्रमात्पादचतुष्केऽस्य पङ्क्तिशः परिलेखिते ।
तुरङ्गपदयातेन श्लोकोऽन्य उपजायते ॥ ३०७ ॥

यथा—

‘बाला ललिततीव्रस्वा सुकला रागतर्पिका ।
सुदन्तिका वर्धितावासा काला तललासका ॥ ३०८ ॥’

“बालेत्यादि” । बाला षोडशवर्षदेशीया शोभनकृष्णकेशी कान्तिप्रदचूर्णकुन्तलशोभिता सस्वा आत्मसम्पद्युक्ता सुतवती पुत्रयुक्ता उत्कृष्टाभिमानात्मकशृङ्गारवती अभिलषितस्वविवाहादिव्रताकाङ्क्षा अतस्तं भजस्वेति । हृदये इति शेषः ॥ न्यासमाह—“क्रमादिति” । ललितो मनोज्ञस्तीव्रः प्रवीणः स्व आत्मा यस्याः । रागेण प्रेम्णा तर्पयति या । शोभनदन्तयुक्ता । वर्धितावासा सम्पूर्णीकृतसकलस्थाना । कालो भृषाव्याहारस्तेन सह वर्तते या । तले लासका नर्तका यस्याः सा तथाभूता । अधःकृतसकलनर्तकलोकेत्यर्थः । एवम्भूता सा बाला त्वयोपभुक्तेति वाक्यार्थः ॥

आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तदिदं सर्वतोभद्रं सर्वतो भ्रमणं यदि ॥ ११० ॥

तयोरर्धभ्रमं यथा—

‘ससत्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वमकर्षति ॥ ३०९ ॥’

“ससत्वेति” । सदराः सभयाः । त्वराधिकानां कसन्नितस्ततः सञ्चरन्नादो यत्र । अत एव वीरान्प्रति रमकत्वमकर्षति ॥

सर्वतोभद्रं यथा—

‘देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरेऽकाका निस्वभव्यव्यभस्वनि ॥ ३१० ॥’

‘कनी दीप्तौ’ । देवानाकनितुं शीलं यस्य । कावाद ईषद्वादो यत्र । कस्य मस्तकस्य सन्ना सङ्गता आदा ग्रहणं यत्रेति वा । वाहिका पर्यायवहनम् । ‘पर्यायार्हणोत्पत्तिषु’ इति ण्वुच् । सैव स्वं वित्तभूता येषामेवंविधा ये स्वका आत्मपक्षीयास्तानाजिहीते इति विच् । कं मदजलमाकिरति इति काकारस्तादृश इभभरो हास्तिकं यत्र । हेऽकाकाः सात्त्विका इति सम्बोधनम् । काकाः सङ्ग्रामलोलुभा वा । क्वचित्कर्तर्यपि घञू । निःस्वा निरात्मानो भव्या आधेयगुणास्तानपि व्ययन्ति स्वबलेनोपबृंहयन्ति ये ते निस्वभव्यव्यास्तेषां भस्वनि भर्त्सनशीले । ‘भस भर्त्सने’ इत्यतः क्वनिप् ॥

बन्धचित्रेषु द्विचतुष्कचक्रबन्धो यथा—

‘जयदेव नरेन्द्रादे लम्बोदर विनायक ।
जगदेधन चन्द्राभालङ्घिदन्तविभायते ॥ ३११ ॥’

‘इह शिखरसन्धिमालां बिभृयादर्धं समाश्रितैर्वर्णैः ।
द्विचतुष्कचक्रबन्धे नेमिविधौ चापरं भ्रमयेत् ॥ ३१२ ॥

“जयद इत्यादि” । नता इन्द्रादयो यस्मै स तथा । जगतामेधन वर्धन । चन्द्राभालङ्घिनी चन्द्रकान्तिविजयिनी दन्तप्रभाणामायतिर्यस्य स तथा ॥ न्यासमाह—“इहेति” । शिखरमालां सन्धिमालां च पूर्वार्धवर्णैः क्रमेण बिभृयात्पूरयेत् । नेमिविधौ चापरमुत्तरार्धं भ्रमयेत् ॥

द्विश्रृङ्गाटकबन्धो यथा—

‘करासञ्ज वशेशं खगौरव स्य कलारसम् ।
सन्धाय वलयां शङ्कामगौरीं मे वनात्मक ॥ ३१३ ॥’

‘श्रृङ्गाद्ग्रन्थिं पुनः श्रृङ्गं ग्रन्थिं श्रृङ्गं व्रजेदिति ।
द्विश्रृङ्गाटकबन्धेऽस्मिन्नेमिः शेषाक्षरैर्भवेत् ॥ ३१४ ॥

अत्राङ्कः—‘राजशेखरस्यऽ ॥

द्वे शृङ्गाटके मिथो वैपरीत्येन यत्र शिखरं द्विशृङ्गाटकम् । करैः किरणैरासञ्जयतीति करासञ्जः । खे व्योम्नि गौरवं यस्य स तथा । वनात्मक जलस्वरूप । चन्द्रकलासु रसमनुरागं सन्धाय कृत्वा अन्तःस्वच्छतया दृश्यनभोभागनेमिमद्वलयाकारोल्लेखिनीं मे ममागौरीं श्यामां शङ्कामपनय । स्य इति क्रियापदम् । पूर्णो भवेति यावत् । वशेशमायत्तशङ्करमिति क्रियाविशेषणम् ॥ न्यासमाह—“श्रृङ्गादिति । शेषाक्षरैरिति” । आद्यात्ककारादारभ्य यावत्समाप्ति शेषाण्यक्षराणि तैर्नेमिरिति न्यासः । अत्र ग्रन्थिवर्णैरेव ‘राजशेखरस्य’ इति नामाङ्कवर्णावली लभ्यते ॥

विविडितबन्धो यथा—

‘सा सती जयतादत्र सरन्ती यमितात्रसा ।
सारं परं स च जयी शमितास्यन्दनेनसा ॥ ३१५ ॥’

‘शिखरादन्यतरस्मात्प्रतिपर्व भ्रमति रेखयाद्यर्धम् ।
नेमौ तदितरमर्धे विविडितचक्राभिधे बन्धे ॥ ३१६ ॥

विविडितबन्धस्तु पञ्चशृङ्गचक्रम् । तद्देवताम्नाये दर्शितम् । ‘कर्पूरकुन्दगौरीं तनुमतनुं कार्मुकभ्रूकाम् । वरदानसुन्दरकरां विविडितचक्रस्थितां वन्दे ॥’ “सेति” । प्रसिद्धानुभावा सती गौरी सरन्ती निरर्गलप्रसरा न त्रस्यतीत्यत्रसा । अस्यन्दनेन स्थिरेण एनसा कल्मषेण शमिता विक्लवीभूता । रहितेति यावत् । ‘शम वैक्लव्येऽ । अत्र जगति परं सारं यं भगवन्तमिता सङ्गता । स च जयी महेश्वरो जयतादिति ॥ न्यासमाह—“शिखरादिति” । ‘अन्यतमाद्वा’ इति पाठः । ‘अन्यतमस्मात्’ इति पाठे तु सर्वनामत्वं चिन्त्यम् । केचित्तु ‘किंयत्तदेकान्येभ्यः’ इति पठित्वा डतम-द्वारिकां सर्वनामतामाहुः । गणे चान्यतरशब्दं न पठन्ति । अव्युत्पत्तिमात्रं चेदम् । अनिर्धारितैकाभिधायकस्त्वन्यतमशब्दः ॥

शरयन्त्रबन्धो यथा—

‘नमस्ते जगतां गात्र सदानवकुलक्षय ।
समस्तेऽज सतां नात्र मुदामवन लक्षय ॥ ३१७ ॥’

‘चतुर्ष्वपि च पादेषु पङ्क्तिशो लिखितेष्विह ।
आदेरादेस्तु रङ्गस्य पादैः पादः समाप्यते ॥ ३१८ ॥

“नमस्त इत्यादि” । जगतां नामरूपप्रपञ्चस्य गात्रभूत दानवकुलक्षयेण सहित मुदां हर्षाणां रक्षक अज विष्णो, अत्र जगति सतां मध्ये न कोऽपि ते तव समः । ततो लक्षय दृक्पातेनानुगृहाण । मामिति शेषः ॥ न्यासमाह—“चतुर्ष्वपीति” । शेषं सुबोधम् ॥

व्योमबन्धो यथा—

‘कमलावलिहारिविकासविशेषवहं जनकाङ्क न नगामिकरं दिवि सारमनारमणं जरतां न ।
तमसां बलहानिविलासवशेन वरं जनकान्त न नमामि चिरं सवितारमनादिमहं जगतां न ॥ ३१९ ॥’

अष्टादशशिखरचरीं गोमूत्रिकया चतुष्पदीं पश्येत् ।
यत्राद्यन्तैर्दृष्टां स ज्ञेयो व्योमबन्ध इति ॥ १११ ॥

कमलावलिषु पद्मखण्डेषु प्रशस्तेषु हारी मनोज्ञो यो विकास[विशेष]स्तस्य वोढारं जनैर्लोकैः स्तुत्यं तदीयं कं शिरस्तत्राङ्क चिह्नभूत, न नगामिकरं, किन्तु विसृत्वरकिरणमेव दिवि वैमानिकपथे सारभूतं जरतां परिणतानामनारमणं न, किन्तु प्रीतिकरमेव । तमसां बलहानौ यो विलासवशः सन्ततो व्यापारस्तेन वरमुत्कृष्टं, जनकान्त लोकहृदयङ्गम, जगतामनादिं न, किन्त्वादिमेव । एवंविधं भगवन्तं सवितारमहं न नमामि किन्तु नमाम्येव ॥ न्यासमाह—“अष्टादशेति । आद्यन्तैर्दृष्टामिति” । पादाद्यन्तवर्णयोरैक्यादिति बोध्यम् ॥

मुरजबन्धो यथा—

‘सा सेना गमनारम्भे रसेनासीदनारता ।
तारनादजना मत्तधीरनागमनामया ॥ ३२० ॥’

अत्र पादचतुष्केऽपि क्रमशः परिलेखिते ।
श्लोकपादक्रमेण स्याद्रेखासु सुरजत्रयी ॥ ११२ ॥

अनारता अविच्छिन्नप्रहरणव्यापारा आसीत् । मत्तधीरनागमिति क्रियाविशेषणम् । रसेन वीरेण । महाप्राणशब्दजना ॥ अत्र न्यासमाह—“अत्र पादेति” । अत्र पुटचतुष्ककल्पनया मुरजत्रयोन्मेषः ॥

एकाक्षरमुरजबन्धो यथा—

‘सुरानन त्वां न न हाननष्टये पुनः स्तुवेऽनर्घघनप्लवाननम् ।
मनस्यनूनव्यसनप्रधूननं सकाननस्थाननदीननर्दनम् ॥ ३२१ ॥’

श्लोकस्यैतस्य पादेषु लिखितेषु चतुर्ष्वपि ।
त्रिमृदङ्गकरीह स्याच्चतुरेकाक्षरावली ॥ ११३ ॥

सुराणां देवानामाननं मुखं तद्भूत वह्ने । हाननष्टये हानिनाशाय त्वां न न स्तुवे, किन्तु स्तौम्येव । पुनरिति देवतान्तरव्यावृत्तौ स्तुत्यावृत्तौ वा । अनर्घ्ये घनौघप्राणने यस्मात् । ‘अन प्राणने’ इति धात्वनुसारात् । प्रणतानां मनसि यदनूनमनादिभवपरम्परानुपाति व्यसनं तस्य प्रधूननं प्रतिक्षेपकम् । सकाननेषु वनगहनेषु स्थानेषु नदीनस्य पयोराशेरिव नर्दनं कोलाहलो यस्येति ॥ न्यासमाह—“श्लोकस्यैतस्येति” । प्रथमपादस्थादक्षरादारभ्य चतुर्थपादस्थमक्षरं यावदेकजातीयाक्षरचतुष्कावलीं गृहीत्वा परावृत्य तज्जातीयानामेव चतुष्टयी गृह्यते । तेनैकमुरजोन्मुद्रणमपरत्राप्यनेनैव प्रकारेणात्रोदाहरणे एकाक्षरमुरजत्रयी भवतीति न्यासार्थः ॥

मुरजप्रस्तारो यथा—

‘तालसारप्रभा राका तारकापतिदंशिता ।
मारधाम रमाधीता वलयामास सागरम् ॥ ३२२ ॥’

क्रमेणैवास्य पादेषु प्रसृतेषु चतुर्ष्वपि ।
तुर्यान्मुरजमार्गेण श्लोकोऽयमुपजायते ॥ ११४ ॥

‘वरकारप्रदं धीरं तारधामाऽसमासिका ।
सा लतामालयाऽमाऽप ताराभाऽतिरसागता ॥ ३२३ ॥’

तालतरोर्यत्सारं खाद्यभागस्तत्प्रभेवावदाता प्रभा यस्याः । राका पूर्णिमा । तारकापतिना चन्द्रेण दंशिता कवलिता । मारस्य कामस्य धाम स्थानं यत्र । रमया लक्ष्म्या अधीताभ्यस्ता । सलक्ष्मीकेत्यर्थः । वलयामास चालितवती, बलवन्तं वा चकार । ‘विन्मतोर्लुक्’ इत्यनुशासनात् ॥—“क्रमेणैवेति” । तुर्याच्च पादप्रथमाक्षरादुपक्रमे येन येन मार्गेण मुरजाकृतिर्लभ्यते तेनायमपरः श्लोको भवति ॥ वरस्य ईप्सितस्य वस्तुनः कारः कारणं तत्प्रदं तारं दीप्तं धाम कान्तिर्यस्याः । असमा अनन्यसाधारणी आसिका स्थितिर्यस्याः सा नायिका लतामालया सङ्केतलतामण्डपेन अमा सार्धं आप प्राप्तवती । तारा रोहिणीप्रभृतिस्तदात्मा, तारैर्निर्मलमौक्तिकैर्वा भाति या । अतिशयितेन रसेन पूर्णा उपगता सङ्गता । प्रकृतोदाहरणेऽष्टाक्षरप्रस्तावान्तःपाती यः प्रकारस्तदन्तःपाती मुरजाक्षरैर्लभ्यते ॥

उदाहरणमात्रं चैतत्, तेन गतिविचित्रादिगोमूत्रिकादयोऽन्येऽपि चित्रप्रकारा भवन्ति ।

गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव ।
गोमूत्रिकेति तत्प्राहुर्दुष्करं चित्रवेदिनः ॥ ११५ ॥

तेषु पादगोमूत्रिका यथा—

‘काङ्क्षन्पुलोमतनयास्तनपीडितानि वक्षःस्थलोत्थितरयाञ्चनपीडितानि ।
पायादपायभयतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचां प्रसारी ॥ ३२४ ॥’

सेयमयुग्मतः पादगोमूत्रिका ॥

ननु यावदुदाहृतमेव किं गत्यादि चित्रं, तथा सति किं गोमूत्रिकादीनां पृथग्भागविभागव्याघातः स्यादित्यत आह—“उदाहरणमात्रं चैतदिति” । गतिः पठितिसञ्चारो वर्णानामुच्चावचं वोर्घ्वाधःपर्यायेण प्रवृत्ता । मायां संसारबन्धमपास्य दुःखभयात्पायादिति सम्बन्धः ॥ न्यासो यथा—अयुग्मतः प्रथमात्तृतीया-च्चोपक्रम्य द्वितीयचतुर्थपादसन्दंशेन गोमूत्रिकया प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च परस्परमुन्मेषणमितीयमयुक्पादगोमूत्रिका ॥

युग्मतो यथा—

‘देवः शशाङ्कशकलाभरणः पिनाकी देयः शमैकविकलेभरणः सनागः ।
चित्ते महासुरजनेन शुभं विधत्तां चित्तं महासुरजनानतभङ्गधन्वा ॥ ३२५ ॥’

महासुरजनेन ब्रह्मादिना चित्ते देयो धारणीयः । शमेनैकेन विकलीकृत इभरणो गजानामुरुयुद्धं येन । शुभं कल्मषरहितं चित्तं विधत्ताम्, अविशेषेण संसारिणामेव । अत्र पूर्ववत्समपदमुपक्रम्य विषमपादसन्दंशेन समाप्तिरिति विशेषस्तेनेयं युक्पादगोमूत्रिका ॥

अर्धश्लोकगोमूत्रिका यथा—

‘चूडाप्रोतेन्दुभागद्युतिदलिततमस्कन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा ।
क्रीडाधूतेशभामा द्युसदनतनिमच्छेदनी च भ्रुवा नो देहे देवी दुरीरन्दममरतनता नन्दिनोमान्यधामा ॥ ३२६ ॥’

इन्दोर्भागः खण्डं । शं कल्याणं । अमरजनता देवसमूहः । नास्त्यन्यद्धाम स्थानं यस्य सोऽनन्यधामा । स्वात्माराम इत्यर्थः । न परं देवो देवी च । भ्रुवा भ्रूक्षेपेण दुरीरन्दूरमपनयन् नोऽस्माकं देहे दमं देयादिति सम्बन्धः । धूतेशभामा प्रणयेनापहृतपरमेश्वरप्रणयरोषा । ‘भाम क्रोधे’ इति धात्वनुसारात् । द्युसदना देवाः । अरतमविश्रान्तं नन्दिना नता उमा गौरी । अपूर्वं धाम तेजो यस्याः ॥

श्लोकगोमूत्रिकायां प्रथमश्लोको यथा—

‘पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्या रुद्धाङ्गभागः पुरदनुजदवस्त्यानसंविन्निदानम् ।
कन्दर्पः क्षोदपक्षः सरससुरवधूमण्डलीगीतगर्वो दैत्याधीशान्धकेनानतचरणनखः शङ्करो भव्यभाव्यः ॥ ३२७ ॥’

द्वितीयो यथा—

देयान्नश्चण्डधामा सलिलहरकरो रूढकन्दारविन्दो देहे रुग्भङ्गरागः सुरमनुजदमं त्यागसम्पन्निधानम् ।
भन्दं दिक्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो- ऽदैत्यैधी बन्धहानावततरसनयः शम्परो दिव्यसेव्यः ॥ ३२८ ॥’

पुराख्यदानवस्य दवो दावाग्निः स्त्यानायाः घनायाः संविदो निदानम् । दैत्याधीशेनान्धकेनानतचरणः । भव्यानामुत्तमानां भाव्यो ध्येयः । रूढकन्दान्यरविन्दानि यस्मात् । प्रणतानां रुगनुरागो यस्य । सुराणां मनुजानां च दमं दमतीति वा । त्यागसम्पदो निधानमाश्रयः । दिशां क्षोभदायिका श्रीर्यस्य । सदे उपवने सदरा सभया या वधूस्तदीयानां खण्डनागिरां निर्भर्त्सनवचसामविषयः । अदैत्यैधी न दैत्यवर्धनः । संसारबन्धविच्छित्तये विस्तीर्णरयो नयो यस्य । शं सुखं पिपर्ति पूरयतीति शम्परो दिव्यः सेव्यश्चेति । एवंविधश्चण्डधामा रविर्नोऽस्माकं देहे भन्दं कल्याणं देयादित्यर्थः ॥

विपरीतगोमूत्रिकायां प्रथमश्लोको यथा—

‘विनायकं दानसुगन्धिवक्त्रं स्मिताननं मन्दचरं कथासु ।
नमामि विघ्नावलिहारिसारं सतीसुतं शङ्करवल्लभं च ॥ ३२९ ॥’

विपरीतश्लोको यथा—

‘चलल्लतारब्धशमं सुभासं संसारहारं बहुविप्रमान्यम् ।
सुधाकरं चन्द्रमसं नतोऽस्मि सवर्णगर्भं नवकम्बुनाढ्यम् ॥ ३३० ॥’

मन्दचरं मन्दालसगमनम् । कथासु भक्तदेवानां वार्तासु महाशयतया स्मेराननम् । विघ्नपरम्पराहारिणां च सारमुत्कृष्टम् । चलन्तीनां लतानामारब्धं सान्त्वनं येन । बहुविप्रमान्यं द्विजराजशेखरत्वात् । समानवर्णमध्यगम् । नवेन कम्बुनाढ्यमुपचितम् । आद्यश्लोकस्याधस्ताद्विपरीतो द्वितीयश्लोको लेख्यः । ततः क्रमगोमूत्रिकया परस्परोल्लेखः ॥

भिन्नच्छन्दोगोमूत्रिकायां प्रथमश्लोको यथा—

‘नमत चन्द्रकलामयमण्डनं नगसुताभुजसङ्गतकन्धरम् ।
हरमभाग्यरदं स्तवसादरं समितिरावणशासनविक्रमम् ॥ ३३१ ॥’

द्वितीयश्लोको यथा—

‘कामदं चण्डकम्रं मदामर्दिनो नागदन्ताज्यजय्यं गदाकर्बुरम् ।
धीरशोभाभरव्यस्तकंसासुरं नौमि नारायणस्यासमं विभ्रमम् ॥ ३३२ ॥’

अभाग्यस्य रदं विलेखकम् । नाशकमिति यावत् । समितौ सङ्ग्रामे रावणस्य कैलासोद्धरणभग्नशक्तिकताशासनविक्रमावाज्ञापौरुषे येन तम् । वाञ्छितप्रदम् । चण्डमुग्रं कम्रं कमनीयं च । परेषां दर्पमर्दनशीलस्य नागस्य कालियाख्यस्य दंष्ट्राभिः, कुवलयापीडाख्यस्य हस्तिनो वा विषाणाभ्यां या आजिः सङ्ग्रामः तत्राजय्यं जेतुमशक्यम् । गदया नानारत्नखचितया कर्बुरम् । चित्रमिति यावत् ॥

संस्कृतप्राकृतगोमूत्रिकायां संस्कृतश्लोको यथा—

‘स्कन्दो रुन्दर्द्धिमिष्टां वितरतु सरलो दारितारातिवर्गे सस्पन्दो मन्दसज्जो भवभयकलने सङ्गरे केलिकारी ।
सन्दोहोल्लाघलासी जन इह बलिहा चण्डताभूरखर्वो देवौजोराजदेहे महिमनि निरतो विक्रमाडम्बरेण ॥ ३३३ ॥’

स्कन्दः कार्तिकेयः । रुन्दां विपुलाम् । दारिते शत्रुसमूहे सस्पन्दः स्फुरद्रूपो मन्दः स्वस्थचित्तः भवभयस्य संसारत्रासस्य कलने क्षेपणे इहजने मर्त्यलोके सन्दोहेन य उल्लाघः सामर्थ्यं नीरोगत्वात्तेन लसनशीलः । बलिनां हन्ता । चण्डतायास्तैक्ष्ण्यस्य भूराश्रयः । अखर्वः सर्वेषामुपरि वर्तमानः । देवौजसां राज्ञां खण्डयित्री ईहा चेष्टा यत्र तादृशे महिम्नि निरतः ॥

प्राकृतश्लोको यथा—

‘चन्दो कन्दप्पमित्तं विहरणसहलो हारितारापबन्धो सच्छन्दो वन्दणिज्जो कुवलयदलनो सङ्करे मेलिकारी ।
कन्दोदोल्लासलासी जअइ सिवसिहामण्डनीभूदखण्डो देन्ताजोण्हाजलोहो विहिअणिअरई विब्भमाणं बलेण ३३४’

[चन्द्रः कन्दर्पमित्त्रं विहरणसफलो हारिताराप्रबन्धः स्वच्छन्दो वन्दनीयः कुवलयदलनः शङ्करे मेलिकारी ।
कन्दोदोल्लासलासी जयति शिवशिखामण्डनीभूतखण्डो दत्तज्योत्स्नाजलौघो विहितनिजरतिर्विभ्रमाणां बलेन ॥]

विहरणे सञ्चरणे सफलः । उद्भूतः शुभाशुभसूचकत्वात् । मेलिकारी सङ्गमकारी, चूडामणित्वात् । ऐक्यकारी वा, तन्मूर्तित्वात् । कन्दोदं कुमुदमिहाभिमतं तद्विकासेन लसनशीलः । ज्योत्स्नाजलौघान्ददत् । विभ्रमाणां बलेन विहिता निजे आत्मनि रतिर्येन स तथा ॥

समसंस्कृतेन पादगोमूत्रिका यथा—

‘बाला विलासावलिहारिहासा लोलामला भावसहा सहावा ।
देहं हरन्ती सहसा सुरामा गेहं चरन्ती सहसाभिरामा ॥ ३३५ ॥’

विलासावलिषु हारी हासो विकासो यस्याः । लोला चला । अमला निर्मला । भावाननेकविधान्या सहते सा भावसहा । हावः क्रीडाविशेषः ॥

अर्धगोमूत्रिकाप्रस्तारो यथा—

‘नमो दिवसपूराय सुतामरसभासिने ।
नतभव्यारिदाराय सुसारलयभाविने ॥ ३३६ ॥’

दिवसान्पूरयतीति दिवसपूरः तस्मै । सुष्ठु तामरसेषु भासनशीलाय । नता भव्या यस्मै । अरीन्दारयतीत्यरिदारः । ततः कर्मधारयः । नतानां भव्यानामरिदार इति वा, नता भव्या अरिदारा यस्मिन्निति वा । सुष्ठु सारो लयस्तत्र लयनं तं भावयति यस्तस्मै ॥

अत्र गोमूत्रिकाश्लोकोऽयमुत्तिष्ठति ।

‘नतदिव्यासदाराय सुसामलसभासिने ।
नमो भवारिपूराय सुताररयभाविने ॥ ३३७ ॥’

नता दिव्या देवा यस्मै । असदविद्यमानमरि चक्रं यस्य । ततः कर्मधारयः । शोभनानां साम्नां लसनेन भासनशीलाय । भानि नक्षत्राण्यावरितुं शीलं यस्येति भवारि आकाशं पूरयति व्याप्नोति एवम्भूताय । सुष्ठु तार उच्छ्रितो यो रयो वेगो गमनं तेन भाविने ॥

गोमूत्रिकाधेनुर्यथा—

‘मम स्फुरतु चिद्गतः सततचिन्त्यरक्षामतिः समस्तरविचित्रितस्तुतरुचिः स्मरक्षेमकृत् ।
समर्द्धिरतचिन्तितः कृतविचित्ररत्यामयो नमस्करणचिह्नितस्मितरुचिर्हरः सामरः ॥ ३३८ ॥’

चतुर्णामपि पादानां क्रमेण व्युत्क्रमेण च ।
इयं गोमूत्रिकाधेनुर्वैपरीत्यवशेन च ॥ ११६ ॥

“मम स्फुरत्विति” । मम चिद्गतो मदीयां संविदमारूढः सामरः सदेवो हरः स्फुरतु । सततं चिन्तनीये रक्षामती वा यस्य । समस्तैर्द्वादशभिरपि रविभिरादित्यैश्चित्रिता आलेख्यीकृता स्तुता प्रशस्ता रुचिः कान्तिर्यस्य । स्मरस्य क्षेमं कुशलं कृन्तति छिनत्तीति स्मरक्षेमकृत् । समशब्दः सर्वपर्यायो गणे पठ्यते । सर्वासु अणिमाद्यृद्धिषु रतैश्चिन्तितः प्रसभं ध्यातः । पतिवियोगाद्विचित्राया रतेरामयाः कृता येन । नमस्कारेण चिह्निता प्रणामपृच्छाभाविनी प्रसादजन्मा स्मितप्रभा यस्य स तथा ॥ अस्या न्यासमाह—“चतुर्णामिति” । क्रमेण पादानां नैरन्तर्येण प्रथमद्वितीयाभ्यां द्वितीयतृतीयाभ्यां प्रथमचतुर्थाभ्यां द्वितीयचतुर्थाभ्यामिति व्युत्क्रमभेदास्त्रयो वैपरीत्यवशेन चतुर्थादितः प्रथमं यावद्योजनेनात्रापि क्रमव्युत्क्रमाभ्यां षट् प्रकाराः । तेऽमी द्वादश भेदाः शुद्धाः । एषां व्यतिकरजन्मानः पुनरन्ये चतुर्विंशतिर्भवन्ति । तद्यथा—प्रथमतृतीयाभ्यां च प्रथमद्वितीयाभ्यां च प्रथमचतुर्थाभ्यां च द्वितीयतृतीयाभ्यां च प्रथमचतुर्थाभ्यां च तृतीयचतुर्थाभ्यां च प्रथमतृतीयाभ्यां चेति द्रष्टव्यम् । तदेवमेक एव गोमूत्रिकाश्लोको यथोक्तरीत्या षटूत्रिंशद्गोमूत्रिकातर्णकान्प्रसूत इतीयं गोमूत्रिकाधेनुः ॥

शतधेनुर्यथा—

‘वन्द्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्र्यधिदेवता देवैः स्तुत्या किन्नरगेया भक्त्या वरचरितमहिषमथनी जगत्त्रयनायिका ।
सिद्धैर्ध्येया केसरियाना काम्या रणचतुररसिकहृदया त्रिलोचनवल्लभा धीरैः पूज्या दर्पणपाणिर्नूनं गुणनिलयलटभललिता सतीषु धुरन्धरा ॥’

यतिविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा ।
छन्दोभेदाच्छतमियं प्रसूते श्लोकतर्णकान् ॥ ११७ ॥

“वन्द्येति” । वरेण देवताप्रसादेन चरितो निरर्गलप्रसरो गुणानामाश्रयो लटभं मनोज्ञं च ललितं विलासो यस्याः सा तथा । “यतिविच्छेदिनीति” । अत्र करणम्—‘प्रतिलोमं विनिक्षेप्यमनुलोममधः क्षिपेत् । स्थितेनागन्तुकं हन्यादीप्सितेन विभाजयेत् ॥’ स्थितं प्रतिलोममागन्तुकं क्रमविन्यस्तमीप्सितं हि प्रतिलोमस्य क्रमेण फलं गुणकारस्तथैवानुलोमं भागहारः । अनेन क्रमेणैकैकयतियोजने सप्त श्लोकाः । यतिद्विकयोजने चैकविंशतिः । यतित्रिकयोजने च पञ्चत्रिंशत् । यतिचतुष्कयोजनेऽपि तावन्त एव । यतिपञ्चकयोजने पुनरेकविंशतिः । षड्यतियोजने सप्त । सप्तयतियोजने त्वेकः । सर्वमेलनेन च सप्तविंशत्यधिकं शतम् । अत्र च क्रियाहीनत्वेन कारकविहीनत्वेन च पदावयववत्तया पदावयवमात्रत्वेन च निरर्थकान् षड्विंशतिमपास्य श्लोकधेनुरेकैव वृत्तभेदेन शतं श्लोकतर्णकान्प्रसूते । तथाहि । प्रथमद्वितीयचतुर्थीभिर्यतिभिरत्युक्ता जातिः । तृतीयपञ्चमीभ्यां सुप्रतिष्ठा । षष्ठ्या गायत्री । सप्तम्या चोष्णिगिति । एकगणनायां वृत्तभेदः । एवं द्विकादिगणनेऽपि गवेषणीयम् ॥

सहस्रधेनुर्यथा—

‘नखमुखपाणिकण्ठचिकुरैर्गतिभिः सहसा स्मितेन ललितेषु दृशा मणिशशिपद्मकम्बुचमराः करिणः सुतनोः सुधा च हसिता हरिणाः ।
फणिगणसिद्धसाध्यदयिता न समाः सकलास्त्वया च खभुवच्छलिताः तव बलदर्परूपविजिता नितरां विबुधाश्चिराय चतुरैश्चरितैः ३४०’

पदविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा ।
छन्दोभेदाद्दशशतं प्रसूते श्लोकतर्णकान् ॥ ११८ ॥

“नखेति” । हे ललिते गौरि, तव शोभनया दृशा सुतनोः शोभनस्य शरीरस्य । साध्या देवविशेषाः खभुवो ग्रहताराद्याः ( राप्यत इति राप्यम् । ‘आसुवपिरपित्रपिचमश्च’ इति रापतिभाषितमित्यर्थः ।) दर्येति पाठेन वा योजनीयम् । “पदविच्छेदिनीति” । पदान्यत्र प्रतिपादं सुधाकलशाभिधाने छन्दसि षड् विभज्यन्ते । यद्यपि द्वितीयतृतीयपादयोश्चकाराभ्यां नकारेण चतुर्थपादे तवेति पदाधिक्यं तथाप्याद्यपदार्थानुरोधेन समुच्चीयमाननिषिध्यमानार्थानुरञ्जकत्वेन सम्बोध्यमानार्थानुयायितया चकारनकारयोस्तवेति च तत्पादावयवरूपा एवेति तदसत्कल्पमेव । तथा च षड्भ्यः पदत्रय उपादीयमाने सप्तदशाक्षरायां जातौ यथासङ्ख्यानुरोधेनाद्येऽर्धे प्रस्ताररचनाक्रमेण दश विकल्पाः, तृतीयचतुर्थयोश्च पादयोस्तावन्तस्तावन्त एवेति दशभिराहतैर्दशभिः शतम् । शतेन चाहतैर्दशभिः सहस्रं तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं सहस्रधेनुः ॥

अयुतधेनुर्यथा—

‘क्रिये जयसि जृम्भसे सृजसि जायसे त्रायसे स्तुषे मृषसि मृष्यसे हृषसि पीयसे प्रीयसे ।
स्तुषे मृषसि होडसे कुटसि गल्भसे क्लीबसे ह्नुषे हरसि रज्यसे रजसि राजसे भ्राजसे ॥ ३४१ ॥’

एषा तु पदविच्छेदिन्येव धेनुः क्रियापदैः ।
सम्बोधनाग्रगैर्दृष्टास्माभिः श्लोकायुतप्रसूः ॥ ११९ ॥

“क्रिये इति” । हे क्रिये कर्मन् । ‘मिष स्पर्धायाम्’, ‘पीङ् पाने’, ‘मृड सुखने’ तुदादौ, ‘होडृ अनादरे’, ‘कुड संहारे’, रज्यसे आसजसि । रजसि मत्सरयसि । राजसे शोभसे । भ्राजसे जाज्वल्यसे । “एषेति” । इह पृथ्वीनामनि छन्दसि षड्भ्यः सम्बोधनानुगे पदचतुष्टये उपादीयमाने एकादशाक्षरायां जातौ प्रस्ताराल्पत्वेन यदि वा छन्दोभेदस्य शब्देनाप्रतिपादितत्वात् तद्भेदोऽप्युदाहरणीय इति तस्यामेव रथोद्धताभिधाने छन्दसि दशसु विकल्पेषु प्रतिपादं भवत्सु दशभिः शतं शतेन सहस्रं सहस्रेण च दशसहस्राणि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयमयुतधेनुः ॥

लक्षधेनुर्यथा—

‘दुर्गे भद्रेप्सुभद्रेऽदिति सुरभिदिते सैंहिके गौरि पद्मे नित्ये हृद्ये वरेण्ये कलिकमलिकले कालिके चण्डि चण्डे ।
धन्ये पुण्ये शरण्ये शचि शबरि शिवे भैरवे राज्ञि सन्ध्ये छाये माये मनोज्ञेऽवनि जननि जये मङ्गले धेहि शं नः ॥ ३४२ ॥’

सम्बोधनैरियं धेनुः क्लृप्ता सैकक्रियापदैः ।
लक्षत्रयं सहस्राणि षष्टि श्लोकान्प्रसूयते ॥ १२० ॥

एषान्त्यपदभेदेन सम्भ्रमादिद्विरुक्तिभिः ।
यावद्वोधं पुनः सूते प्रयतश्लोकतर्णकान् ॥ १२१ ॥

“दुर्गे इति । सम्बोधनैरिति” । अत्र हि स्रग्धराभिधाने छन्दसि पादत्रयपदानुरोधेनान्त्यपादद्वयेनैकैकमेव पदं तुर्यपादे परिकल्प्यमिति सर्वत्र नवसु पदेषु स्थितेषु पदचतुष्टये पदपञ्चके चोपादीयमाने प्रथमे आपातलिकायां पञ्चविंशतौ द्वितीये एकया प्राच्यवृत्त्या सह वैतालीयके यदि वा पञ्चभिः प्राच्यवृत्तिभिः सममौपच्छन्दसिके चतुर्विंशतौ तृतीयवैतालीय एव चतुर्विंशतौ चतुर्थे च पादे प्राच्यवृत्तिद्वये सममापातलिकायां षोडशभिरेकया प्राच्यवृत्त्या वैतालीयप्राच्यवृत्त्या सह वैतालीयैः षङ्भिस्तथैवौपच्छन्दसिके द्वाभ्यामिति चतुर्विंशतौ विकल्पेषु प्रभवत्सु पञ्चविंशत्याहतेषु चतुर्विंशतौ शतानि षट् । षङ्भिश्च शतैराहतेषु पञ्चविंशतौ सहस्राणि पञ्चदश । तैराहतेषु चतुर्विंशतौ लक्षाणि त्रीणि सहस्राणि च षष्टिः तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं लक्षधेनुः । “एषेति” । तथा ह्यत्र पादत्रये नवसु तुर्यपादे च दशसु । त्रये पदचतुष्के पदपञ्चके चोपादीयमाने प्रथम औपच्छन्दसिक एकस्य पदस्य द्विरुक्त्या विंशतौ यदि वा आपातलिकायां दश । वैतालीये पञ्चदशसु औपच्छन्दसिके उदीच्यवृत्तिद्वयेन यद् वैतालीये चतसृभिरुदीच्यवृत्तिभिः सममेकोनविंशतिरिति च पञ्चविंशतौ तृतीयस्मिन्नौपच्छन्दसिके पञ्चभिः प्राच्यवृत्तिभिः सममेकादश । वेतालीये तथैव चतुर्दश औपच्छन्दसिके तिसृभिः प्राच्यवृत्तिभिः सह षडिति विंशतौ तृतीयास्मिन्नौपच्छन्दसिके तिसृभिरुदीच्यवृत्तिभिः समं पञ्चविंशतौ चतुर्थे त्वापातलिकायामेक एव । द्विरुक्त्यादिना षोडशभिः प्राच्यवृत्तिभिः सममशीतौ विकल्पेषु प्रभवत्सु विंशत्याहतपञ्चविंशतौ पञ्चविंशत्या द्वाविंशतौ पञ्चशताधिकानि द्वादशसहस्राणि तैरप्याहतेषु अशीतौ दशलक्षाणि तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं प्रयुतधेनुः ॥

कोटिधेनुर्यथा—

‘स्थूलं दत्से सूक्ष्मं धत्से भुवि भवसि रभसि रमसे रमे दिवि मोदसे छिन्त्से बाढं भिन्त्से गाढं रुषिमिषसि धनुषि मनुषे जये पुरि जृम्भसे ।
स्वल्पं शेषे कल्पं प्रेषेऽचिति चरसि यशसि यतसे चले युधि गल्भसे ब्रूषे वामं श्रूषे कामं हृदि विशसि वचसि सचसे रुचे दृशि दीप्यसे ॥’

सम्बोधनैर्द्वितीयान्तैः सप्तम्यन्तैः क्रियापदैः ।
श्लोककोटिरियं तिस्रः सार्धा धेनुः प्रसूयते ॥ १२२ ॥

यदा तु सम्भ्रमादिभ्यो भवन्त्यस्या द्विरुक्तयः ।
स्थूलादिना तदा चैषा दशकोटीः प्रसूयते ॥ १२३ ॥

“स्थूलमिति” । प्रेष इति इष गतावित्यस्य, चिति चैतन्ये, गृधु गार्घ्ये । सचसे वचसे रमे जये चले रुचे इति देव्याः सम्बोधनपदानि । “सम्बोधनैरिति” । अत्र भुञ्जङ्गविजृम्भिते छन्दसि एकादशभ्यः पदेभ्यः पञ्चसु षट्सु च पदेषु उपादीयमानेषु जगतीजातौ प्रसिद्धाक्षरोज्ज्वला जलधरमाला नवमालिनी छन्दःसु सप्ततौ । द्वितीये पूर्वेषु चन्द्रवर्त्मद्रुतविलम्बितमणिमालाप्रभवत्सु च शते तृतीयेऽस्मिन् प्रथमपादच्छन्दस्येव पञ्चाशति चतुर्थपादे द्वितीयपादच्छन्दस्येव शतेषु विकल्पेषु प्रभव्रत्सु सप्तत्याहतेषु शतेषु सप्ततिसहस्राणि शतैराहतायां सप्ततिलक्षाणि, सप्ततिसहस्रैंराहतेषु पञ्चाशल्लक्षाणि त्रीणि सहस्राणि च पञ्चशतैराहते शते कोट्यस्तिस्रः सार्धास्तर्णकाः श्लोकाः सम्पद्यन्त इतीयं कोटिधेनुः । “यदा त्विति” । तथाहि पदत्रये पदचतुष्के पदपञ्चके चोपादीयमाने पूर्वस्यामेव जातौ प्रथमद्वितीयचतुर्थेषु पादेषु प्रत्येकं जलधरमालाप्रभाच्छन्दसोरेकस्य द्वयोर्द्विरुक्त्या शते तृतीयस्मिंश्च पूर्वस्यां मणिमालोज्ज्वलानवमालिनीतामरसेषु छन्दःसु तथैव शते विकल्पेषु प्रभवत्सु शतेनाहते शते दश सहस्राणि तैश्चाहते शते दश लक्षाणि तैरप्याहते शते कोट्यस्तर्णकाः श्लोकाः सम्पद्यन्त इतीयमेव दशकोटिधेनुः ॥

कामधेनुर्यथा—

‘या गीः शीः श्रीर्धी स्त्री ह्रीर्भीर्जूर्मूस्तूः सूः स्त्रूर्धूः पूर्भूः ।
स्त्रुक् स्रग्युग्भुग्रुक् शुक् तृट् द्विट् युत् क्रुत् चिद्विन्मुग्दिग्द्यूः ॥ ३४४ ॥’

ऋक् दृक् वामा मृत्कृद्भामा मुत्क्षुत्कामा द्वार्द्यौर्गौः

सामायामा वेघावेघानाघातेत्वं येनौः

यानं यातीति या, काचिच्च या । गिरणं गिरतीति वाकू च गीः । शरणं शीः श्रृणातीति शीः । श्रयतीति शोभा लक्ष्मीश्च श्रीः । ध्यानं ध्यायतीति बुद्धिर्धीः । स्त्र्येव स्तृणाति मन्त्राक्षरं स्त्री । ह्रीच्छतीति माया लज्जा च ह्रीः । बिभेतीति भयकामो भयं च भीः । ज्वरो गतिर्जरा च जूः । मूर्च्छा मोहसमुच्छ्राययोर्बन्धनं च मूः । त्वरा हिंसा त्वरते च तूः । सूयते सवनं सुष्ठु उश्च सूः । अग्रे भागे भारं धुरं वहतीति धूः । पूरी पालनं पूरणं च पूः । भूमिर्भवनं लोकश्च भूः । यज्ञपात्रं स्रवतीति स्रवणं स्रुक् । पुष्पमाला पङि्क्तश्च सृज्यत इति स्रक् । योगः समाधिः समश्च युक् । भोजनं पालनं कौटिल्यं च भुक् रोगो दीप्तिर्भङ्गश्च रुक् । शोकः शुचित्वं दीप्तिश्च शुक् । अभिलाषः पिपासा । हिंसा च तृट् । द्वेषः शत्रुबलमभिलाषश्च द्विट् । शुद्धं मिश्रणममिश्रणं च युत् । क्रोधः क्रुध्यतीति रुद्रशक्तिश्च क्रुत् । चेतना चिनोति चयनं च चित् । ज्ञानं सत्ता विभवलाभश्च वित् । मोक्षो मोहो मुञ्चतीति मुक् । आशा अतिसर्ग उपदेशश्च दिक् । क्रीडा विजिगीषा व्यवहारश्च द्यूः । श्रुतिवाक्यं विवेचनं च हिंसा च ऋक् । दृष्टिर्ज्ञानं पश्यतीति दृक् । गतिर्गन्धनं विकल्पश्च वा । लक्ष्मीर्मानं शब्दावयवश्च मा । मृत्तिका मरणं मुद्नातीति मृत् । कृन्तति करोति करणं च कृत् । दीप्तिर्भानं भातीति भा । शब्दः शब्दावयवश्च प्रतिषेधश्च मा । हर्षो मोद आमोदश्च मुत् । बुभुक्षा क्षुत्क्षोदश्च क्षुत् । प्रश्नः सुखं काननं च का । अमतीत्यमा पीडार्थेऽलक्ष्मीशब्दावयक्श्च अमा । द्वारं द्वाःस्थ उपायश्च द्वाः । स्वर्ग आकाशो देवनं च द्यौः । वाग्भूमिर्धेनुश्च गौः । सह एन अकारेण विष्णुना वर्तत इति सा लक्ष्मीः । मा मानं । तदो रूपं च सा । प्रतिदानं शब्दावयवश्च सर्वनाम च सा । इष्टा अयत इति शब्दावयवश्च या । चन्द्रकला महदर्थश्च मा । लक्ष्मीसम्बोधनं चतुर्थ्यन्तं षष्ठ्यन्तं च मे । धारणं पोषणं शब्दावयवश्च वे । धात्री पोषयित्री शब्दावयवश्च धा । शब्दावयवोऽस्मदर्थो लक्ष्मीसम्बोधनं च मे । प्रतिषेधः पुरुषवाची शब्दावयवश्च ना । मिमीते मातेति शब्दावयवश्च मा । तदर्थो युष्मदर्थश्च लक्ष्मीसम्बोधनं च ते । युष्मदर्थो भावप्रत्ययः शब्दावयवश्च त्वम् । शब्दावयवास्मदर्थौ च मे । जलयानं न विद्यते और्द्विवचनं यस्यां सा अद्वितीयेत्यर्थः शब्दावयवश्च नौः ।

पदग्राहाद्यथाकामं कामधेनुरियं तु नः ।
परार्धानां परार्धानि प्रसूते श्लोकतर्णकान् ॥ १२४ ॥

एकाक्षरादिच्छन्दोभिर्गतिबन्धादिभेदतः ।
उक्तानुक्तानि चित्राणि सर्वाण्येषा प्रसूयते ॥ १२५ ॥

सकृदुच्चारणे चास्या गच्छत्येका विनाडिका ।
तत्षष्ट्या नाडिका ताभिः षष्ट्याहोरात्रमृच्छति ॥ १२६ ॥

प्रणवादिनमोन्तानि पदान्यस्या जपन्ति ये ।
सर्वभाषासु वाक्तेषामविच्छिन्ना प्रवर्तते ॥ १२७ ॥

सिद्धैर्मन्त्रपदैः सेयं शास्त्राण्यालोच्य निर्मिता ।
जपतां जुह्वतां देवी सर्वान्कामान्प्रयच्छति ॥ १२८ ॥

स्थितेनागन्तुकं इत्यादीप्सितेन विभाजयेत् ।
तद्भेदास्ते भवन्त्येवमन्येष्वपि हि योजयेत् ॥ १२९ ॥

दुष्करत्वात्कठोरत्वाद्दुर्बोधत्वाद्विनावधेः ।
दिङ्मात्रं दर्शितं चित्रे शेषमूह्यं महात्मभिः ॥ १३० ॥

“या गीरिति । पदग्रहादिति” । तथाहि पञ्चदशभ्यः पदेभ्यः क्रमव्युत्क्रमाभ्यां नवादिपदयोगेऽङ्गीक्रियमाणे बृहतीजातेरारभ्य प्रतिजातिपादे ये विकल्पास्तैरुत्तरोत्तरमाहन्यमानैः, यदि वा समस्तेऽपि श्लोके षष्टिपदेभ्यश्चतुर्विंशत्यष्टाविंशत्यादिपदयोजनायां गायत्रीजातेरारभ्य प्रन्तिजातिपादे ये विकल्पास्तैः परार्धेभ्यः परार्धानि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयं परार्धपरार्धधेनुः । “एकाक्षरेति” । अर्थत्रयप्रतिपादकत्वेन प्रतिपादं पदत्रये परिकल्प्यमानेऽनेकविधच्छन्दोभिरुक्तानि चतुर्व्यञ्जनादीन्यनुक्तानि खङ्गप्रभृतीनि सर्वचित्राण्येषैव यथाकामं प्रसूयत इत्यर्थः ॥

उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्बुधाः ।
द्वयोर्वक्रोस्तदिच्छन्ति बहूनामपि सङ्गमे ॥ १३१ ॥

ऋजूक्तिरथ वक्रोक्तिर्वैयात्योक्तिस्तथैव च ।
गूढं प्रश्नोत्तरोक्ती च चित्रोक्तिश्चेति तद्भिदा ॥ १३२ ॥

तासु ऋजूक्तिर्द्विधा । ग्राम्योपनागरिका च । ग्राम्या यथा—

‘जन्तीमणुरुन्धुं रुचु कुहुतुण्डउष्ण उको विहंसण होमि ।
महोमि भारुञ्चुले मेल्लासतो विकिणकु उवाणउ उज्जु अक्खु कहहि ३४५

‘वाणउ उज्जु माइगहिल्ल उअण्णवि कोमह्लण उ वारिज्जन्तु ण्णट्ठाइ ।
करइ वलिवं उउ च वक्कस मच्छलु अहिमुहं हि तरुणिहिं अअच्छासइ दुक्कम् ॥ ३४६ ॥’

सेयमुभयतोऽपि ऋजुनैव मार्गेणोक्तिप्रत्युक्त्योः समा प्रवृत्तिरितीयमृजूक्तिर्नाम वाकोवाक्यम् ॥

सैवोपनागरिका यथा—

‘बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥ ३४७ ॥’

सेयमेकतः काक्वा कुटिलेऽतिविषमेयमृजूक्तिर्नाम वाकोवाक्यम् ॥

वक्रोक्तिर्द्विधा । निर्व्यूढा अनिर्व्यूढा च । तयोर्निर्व्यूढा यथा—

‘किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् ।
जानामि सत्यमनुमानत एव स त्व- मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ ३४८ ॥’

सेयमावाक्यपरिसमाप्तेर्निर्वाहान्निर्व्यूढेति वक्रोक्तिर्वाकोवाक्यम् ॥

अनिर्व्यूढा यथा—

‘केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते कान्ताप्यत्रैव कामिन्ननु भवति मया पृष्टमेतावदेव ।
नाहं द्वन्द्वं करोमि व्यपनय शिरसस्तूर्णमेनामिदानी- मेवं प्रोक्तो भवान्या प्रतिवचनजडः पातु वो मन्मथारिः ॥ ३४९ ॥’

सेयमनिर्वाहादनिर्व्यूढेति वक्रोक्तिर्नाम वाकोवाक्यम् । ते इमे उभे अपि श्लेषवक्रोक्तिर्नाम वाकोवाक्यम् ॥

वैयात्योक्तिर्द्विधा । स्वाभाविकी नैमित्तिकी चेति । तयोः स्वाभाविकी यथा—

‘नादेयं किमिदं जलं घटगतं नादेयमेवोच्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाभवन् ।
किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे ॥ ३५० ॥’

अत्र स्वैरिण्याः सहजाद्वैयात्यात्स्वाभाविकीयं वैयात्योक्तिर्नाम वाकोवाक्यम् ॥

नैमित्तिकी यथा—

‘कुशलं राधे, सुखितोऽसि कंस कंसः क्व नु सा राधा ।
इति पारीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥ ३५१ ॥’

अत्र गोत्रस्खलिते विपक्षनाम्नैव वैयात्येनोत्तरं दत्तमिति नैमित्तिकीयं वैयात्योक्तिर्वाकोवाक्यम् ॥

गूढोक्तिर्द्विधा । मुख्या गौणी च । तयोर्मुख्या यथा—

‘केशव यमुनातीरे व्याहृतवानुषसि हंसिकां कोऽद्य ।
कान्ताविरहभयातुरहृदयः प्रायः प्रियेऽहं सः ॥ ३५२ ॥’

अत्र प्रिये हंस इत्यत्रावर्णलोपे प्रिये अहं स इत्यर्थस्य मुख्ययैव वृत्त्या गूढत्वादियं मुख्या गूढोक्तिर्नाम वाकोवाक्यम् ॥

गौणी यथा—

‘निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ३५३ ॥’

ताविमौ पूर्वोत्तरार्धयोरन्योन्योक्त्या गूढकामलेखावितीयं गौणी गूढोक्तिर्नाम वाकोवाक्यम् ॥

प्रश्नोत्तरोक्तिर्द्विधा । अविधीयमानहृद्या प्रतीयमानहृद्या च । तयोराद्या यथा—

‘क्क प्रस्थितासि करभोरु घने निशीथे प्राणेश्वरो वसति यत्र मनःप्रियो मे ।
एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ३५४ ॥’

सेयं हृद्गतप्रष्टव्यस्यैव स्पष्टमभिधायैवाभिधानादभिधीयमानहृद्या नाम प्रश्नोक्तिर्वाकोवाक्यम् ॥

द्वितीया यथा—

‘कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप ।
तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ ३५५ ॥’

सेयं शब्दविद्यावैशारद्यस्य हृद्यस्य प्रतीयमानत्वात्प्रतीयमानहृद्यप्रश्नोत्तरोक्तिर्वाकोवाक्यम् ॥

चित्रोक्तिर्द्विधा । चित्रा विचित्रा च । तयोश्चित्रा यथा—

‘लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसङ्गमे देव प्रेष्यजनस्तदेष भवतो भर्तव्यतां वाञ्छति ।
नन्वेतन्मरणेन किं नु मरणं कायान्मनोविच्युति- र्दीर्घं जीव मनस्तवाङ्घ्रिकमले कायोऽत्र नस्तिष्ठति ॥ ३५६ ॥’

तदिदं स्वकल्पितोक्तिप्रत्युक्तिभ्यां जीवतोऽपि जन्मान्तरावाप्तिसाधनेनाश्चर्यहेतुरिति चित्रा नाम चित्रोक्तिप्रत्युक्तिर्वाकोवाक्यम् ॥

द्वितीया यथा—

‘कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं क्वास्ति मे ।
पश्यामीत्यभिधाय सान्द्रपुलको मृद्नन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्द्यूते हसन्वो हरः ॥ ३५७ ॥’

अत्रोक्तिप्रत्युक्त्योरनन्तरं स्तनमर्दनवैचित्र्यादिना परिसमाप्तेर्विचित्रसञ्ज्ञमिदं वाकोवाक्यम् ॥

प्रहेलिका सकृत्प्रश्नः सापि षोढा च्युताक्षरा ।
दत्ताक्षरोभयं मुष्टिर्बिन्दुमत्यर्थवत्यपि ॥ १३३ ॥

क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगा प्रहेलिका ॥ १३४ ॥

तासु च्युताक्षरा यथा—

‘पयोधरभराक्रान्ता सन्नमन्ती पदे पदे ।
पदमेकं न का याति यदि हारेण वर्जिता ॥ ३५८ ॥’

अत्र विहङ्गिका काहारेण वर्जिता न यातीति वक्तव्ये हारेण वर्जितेत्युक्तम् । अतः का इत्यक्षरस्य च्युतत्वाच्च्युताक्षरेयम् ॥

दत्ताक्षरा यथा—

‘कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः ।
मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ॥ ३५९ ॥’

अत्र शबर इति शम्बर इत्यनुस्वाराक्षरस्य दत्तत्वाद्दत्ताक्षरेयम् ॥

च्युतदत्ताक्षरा यथा—

‘विदग्धः सरसो रागी नितम्बोपरि संस्थितः ।
तन्वङ्ग्यालिङ्गितः कण्ठे कलं कूजति को विटः ॥ ३६० ॥’

अत्र विट इत्यस्मिन्पदे विकारे च्युते घकारे दत्ते घटः कूजतीति द्वितीयोऽर्थो भवतीति सेयं च्युतदत्ताक्षरा ॥

अक्षरमुष्टिका यथा—

‘अतिः अतिः अन्मअलं प्रीद्य रद्य जद्य फद्य ।
मेला मेला मेलं मेलं फस फस फस फस ॥ ३६१ ॥’

सेयमक्षराणां मुष्टिरित्यक्षरमुष्टिका । अत्र पादशश्चतुःपङ्क्तिलिखितचतुर्भिर्मुरजबन्धैः श्लोक उत्तिष्ठति । तद्यथा—

‘अद्य मे सफला प्रीतिरद्य मे सफला रतिः ।
अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ ३६२ ॥’

बिन्दुमती यथा—

‘तवाववादः प्रत्यब्धि पताका प्रतिसङ्गरम् ।
फलं प्रत्यद्भुतोपायं यशांसि नतु न क्वचित् ॥ ३६३ ॥’

इत्यनेन श्लोकेनोक्तार्थस्य यथास्थितस्वरानुस्वारविसर्जनीयसंयोगस्य श्लोकोत्तरस्य बिन्दुभिरेव सूचनाक्रम इति बिन्दुमती । तद्यथा—

‘ु॰ाु॰ााा ंुे ंुे ॰ः ।
ा॰े ा॰े ििः ॰॰॰ ॰॰ ी॰ः ॥’

निर्भेदः ।

‘उदधावुदधावाज्ञा संयुगे संयुगे जयः ।
साहसे साहसे सिद्धिः सर्वत्र तव कीर्तयः ॥ ३६४ ॥

अर्थप्रहेलिका यथा—

‘उत्तप्तकाञ्चनाभासं सन्दष्टदशनच्छदम् ।
सरसं चुम्ब्यते हृष्टैर्वृद्धैरपि किमुज्ज्वलम् ॥ ३६५ ॥’

सेयमपि सूचितस्यैव पक्वाम्रफलमित्यस्य व्द्यर्थपदप्रयोगेणावगतेरर्थप्रहेलिका ॥

क्रियाकारकसम्बन्धे पदाभिप्रायवस्तुभिः ।
गोपितैः षड्विधं प्राहुर्गूढं गूढार्थवेदिनः ॥ १३५ ॥

तेषु क्रियागुप्तं यथा—

‘स्तनजघनभराभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः ।
कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥ ३६६ ॥’

अत्र जघनभराभिराममन्दं मदिरेक्षणाया गमनमवलोकयन्तो हे युवानः, कथमिव यूयं मदनशरज्वरजर्जरा न स्थेति क्रियापदस्य स्तनशब्देन जघनसान्निध्याद्गोपितेन क्रियागूढमिदम् ॥

कारकगुप्तं यथा—

‘पिबतस्ते शरावेण वारि कह्लारशीतलम् ।
केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ ॥ ३६७ ॥’

अत्र शराविति कर्मकारकस्य गूढत्वात्कारकगूढमिदम् ॥

सम्बन्न्धगूढं यथा—

‘न मयागोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि ।
अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥ ३६८ ॥’

अत्र न मे आगोरसाभिज्ञं चेत इति सम्बन्धिपदस्य मयेति तृतीयाभ्रान्त्या गोपितत्वादिदं सम्बन्धगूढम् ॥

पादगूढं यथा—

‘द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।
हैमीषु माला शुशुभे’ (विद्युतामिव संहतिः) ॥ ३६९ ॥’

अत्र पूर्वार्धस्थितैर्द्वितीयप्रथमसप्तमपञ्चमैकादशनवमत्रयोदशषोडशाक्षरैश्चतुर्थपादो गूढ उत्थाप्यः । यथा—‘विद्युतामिव संहतिः’ इति । इदं पादगूढम् ॥

अभिप्रायगूढं यथा—

‘जइ देअरेण भणिआ खग्गं घेत्तूण राउलं वच्च ।
ता किं सेवअवहुए हसिऊण वलोइअं सअणम् ॥ ३७० ॥’

[यदि देवरेण भणिता खङ्गे गृहीत्वा राजकुलं व्रज ।
तत्किं सेवकवध्वा हसित्वावलोकितं शयनम् ॥]

अत्र निरीक्षितमनेनात्र पुरुषायितलक्ष्म पादलाक्षादिकं, तेन नियुङ्क्ते मां न कर्मणीत्यभिप्रायेण वध्वाः शयनावलोकनमित्यभिप्रायगूढम् ॥

वस्तुगूढं यथा—

‘पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ ३७१ ॥’

अत्र दास्यसीति दासीलक्षणस्य वस्तुनो गूढत्वादिदं वस्तुगूढम् ॥

यस्तु पर्यनुयोगस्य निर्भेदः क्रियते पदैः ।
विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः ॥ १३६ ॥

अन्तःप्रश्नबहिःप्रश्नबहिरन्तःसमाह्वयैः ।
जातिपृष्टोत्तराभिख्यैः प्रश्नैस्तदपि षड्विधम् ॥ १३७ ॥

तेष्वन्तःप्रश्नं यथा—

‘काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् ।
कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥ ३७२ ॥’

अत्र ‘कदर्थयसि’ इति पदं कथमुक्तं रेफयकारयुक्तं दर्थयसीति, अतो वाक्यान्तरे प्रश्नोत्तरस्योक्तत्वादन्तःप्रश्नमिदम् ॥

बहिःप्रश्नं यथा—

‘भद्र माणवकाख्याहि कीदृशः खलु ते पिता ।
वेलान्दोलितकल्लोलः कीदृशश्च महोदधिः ॥ ३७३ ॥’

अत्र ‘मज्जन्मकरः’ इत्यस्योत्तरस्य प्रश्नाद्बहिरुक्तत्वाद्बहिःप्रश्नमिदम् ॥

बहिरन्तःप्रश्नं यथा—

‘सुभद्रां क उपायंस्त प्रश्नेऽमुष्मिन्य उत्तरः ।
स कीदृक्कपिमाचष्टे व्योम्नि पूर्णस्थितिः कुतः ॥ ३७४ ॥’

अत्र ‘वायुतः’ इत्युत्तरेण प्रश्नाद्बहिरुक्तेन वायुतो नरो वानरो भवति, सुभद्रोपयन्ताप्युच्यते । तेनैतद्बहिरन्तःप्रश्नं भवति ॥

जातिप्रश्नं यथा—

‘कीदृशा भूमिभागेन राजा स्नातोऽनुमीयते ।
प्राङ्गणं कुरुतेत्युक्ताः किमाहुस्तदनिच्छवः ॥ ३७५ ॥

ऽहैमवार करञ्जिना’ ‘नाजिरं करवामहै’ इत्युत्तराभ्यां गतप्रत्यागताभ्यां प्रश्नोत्तरजातिरभिधीयते । तेन जातिप्रश्नमिदम् ॥

पृष्टप्रश्नं यथा—

‘को सो जोअणवाओ को दण्डाणं दुवे सहस्साइं ।
का काली का मधुरा किं शुकपृथुकाननच्छायम् ॥ ३७६ ॥’

अत्र य एव प्रश्नाः कः स योजनपादः कः स यो दण्डानां द्वे सहस्रे इत्यादयः त एव ‘क्रोशो योजनपादः’ ‘कोदण्डानां द्वे सहस्रे’ इत्यादीन्युत्तराणि भवन्ति । एवं ‘का काली का मधुरा किं शुकपृथुकाननच्छायम्’ इत्युत्तरं किमभिहितशेषस्य प्रष्टव्यमिति पृष्टप्रश्नम् ॥

उत्तरप्रश्नं यथा—

‘किं वसन्तसमये वनभक्षः पृष्टवान्स पृथुलोमविलेखः ।
उत्तरं च किमवापतुरेतौ काननादतिमिरादपि काली ॥ ३७७ ॥’

अत्र प्रश्नस्य हे काननाद हे तिमिराद पिकालीत्येतदेवोत्तरं भवतीत्युत्तरप्रश्नमिदम् ॥

यद्विधौ च निषेधे च व्युत्पत्तेरेव कारणम् ।
तदध्येयं विदुस्तेन लोकयात्रा प्रवर्तते ॥ १३८ ॥

काव्यं शास्त्रेतिहासौ च काव्यशास्त्रं तथैव च ।
काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम् ॥ १३९ ॥

तेषु काव्यं यथा—

‘यदि स्मरामि तां तन्वीं जीविताशा कुतो मम ।
अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥ ३७८ ॥’

तदिदमुक्तिप्राधान्यात्काव्यमित्युच्यते ॥

शास्त्रं यथा—

‘स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितचारुनिगूढगुल्फौ ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या- स्तामुद्वहेद्यदि भुवोऽधिपतित्वमिच्छेत् ॥ ३७९ ॥’

अत्र स्निग्धत्वादेः शब्दस्य प्राधान्यमिति शासनाच्छास्त्रमिदम् ॥

इतिहासो यथा—

‘हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत ।
भयाभ्द्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥ ३८० ॥’

सोऽयमतीतार्थप्राधान्यादितिहासः ॥

काव्यशास्त्रं यथा—

‘नान्दीपदानि रतनाटकविघ्नशान्ता- वाज्ञाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधुताग्रपाणि सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥ ३८१ ॥’

अत्र काव्येन शास्त्रमभिहितमितीदं काव्यशास्त्रम् ॥

काव्येतिहासो यथा—

‘स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रयदाश्रयः श्रियाम् ।
अकारि तस्मै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ३८२’

अत्र प्रागुक्तस्यैवेतिहासार्थस्य काव्येनाभिधानात्काव्येतिहासोऽयम् ॥

शास्त्रेतिहासो यथा—

‘धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ ३८३ ॥’

अत्र धर्मार्थकाममोक्षाणामितिहासनिवेशितत्वादयं शास्त्रेतिहासः ॥

श्रव्यं तत्काव्यमाहुर्यन्नेक्ष्यते नाभिधीयते ।
श्रोत्रयोरेव सुखदं भवेत्तदपि षड्विधम् ॥ १४० ॥

आशीर्नान्दी नमस्कारो वस्तुनिर्देश इत्यपि ।
आक्षिप्तिका ध्रुवा चेति शेषो ध्येयं भविष्यति ॥ १४१ ॥

तत्राशीर्यथा—

‘भूयाद्वः श्रेयसे देवः पार्वतीदयितो हरः ।
पातु वः परमं ज्योतिरवाङ्मनसगोचरः ॥ ३८४ ॥’

अत्राशंसायां लिङ् लोट् च । तदिदं वाक्यद्वयमाशीः ॥

नान्दी यथा—

‘भद्दं भोदु सरस्सईअ कइणो णन्दन्तु वासाइणो अण्णाणं पि परं पअट्ठदु वरा वाणी छइल्लप्पिआ ।
वच्छोभी तह माअही फुरदु णो सा किं अ पञ्चालिआ रीदीयो विलिहन्तु कव्वकुसला जोण्हं चओरा विअ ३८५

[भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः, अन्येषामपि परं प्रवर्ततां वरा वाणीविदग्धप्रिया ।
वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥]

सेयं रङ्गमङ्गलान्तं स्वस्त्ययनं नान्दी ॥

नमस्कृतिर्यथा—

‘जयति ब्रह्मभूः शम्भुर्वन्देमहि महेश्वरम् ।
इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ॥ ३८६ ॥’

सेयं स्तुतिर्नमस्क्रिया च नमस्कृतिरेव भवति ॥

वस्तुनिर्देशो यथा—

‘अस्त्युद्दामजटाभारभ्रान्तगङ्गाम्बुशेखरः ।
आदिदेवो हरो नाम सृष्टिसंहारकारणम् ॥ ३८७ ॥’

सोऽयं कथाशरीरव्यापिनो वस्तुनो नायकस्य निर्देशो वस्तुनिर्देशः ॥

आक्षिप्तिका यथा—

‘पअपीडिअमहिसासुरदेहेहिं भुअणभअलुआवससिलेहिं ।
सुरसुहदेत्तवलिअधवलच्छिहिं जअइ सहासं वअणु महलच्छिहिं ३८८

[पदपीडितमहिषासुरदेहैर्भुवनभयलावकशशिलेखैः ।
सुरसुखदातृवलितधवलाक्षैर्जयति सहासं वदनं महालक्ष्म्याः ॥]

सेयमभिधित्सितरागविशेषप्रयोगमात्रफलं वचनमाक्षिप्तिका ॥

ध्रुवा यथा—

‘म अवहणिमित्तणिग्गअमइन्दसुण्णं गुहं णिएऊण ।
लद्धावसरो गहिउण मोत्तिआइं गओ वाहो ॥ ३८९ ॥’

[मृगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य ।
लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याधः ॥]

सेयं पात्रप्रवेशरसानुसन्धानादिप्रयोजना ध्रुवा ॥

यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः ।
नर्तकैरभिधीयेत प्रेक्षणाक्ष्वेडिकादि तत् ॥ १४२ ॥

तल्लास्यं ताण्डवं चैव छलिकं सम्पया सह ।
हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते ॥ १४३ ॥

तेषु लास्यं यथा—

‘उच्चिउ वालीयिअ पन्थहिं जन्तउ ।
पेक्खमि हत्थं होइ जइ लोअणवन्तउ ॥ ३९० ॥’

[उच्चा पालिः प्रियः पथा याति ।
प्रेक्षे हस्तं भवति यदि लोचनवान् ॥]

तदिदं शृङ्गाररसप्रधानत्वाल्लास्यम् ॥

ताण्डवं यथा—

‘सुअवहवइअरणिसुणिअ दारुणुरोसविसट्ठपहाररुहिरारुणु ।
जलिउ जाणइ णरु रिउसन्तावणु अणलसरिच्छ जइ होइ महारणु ३९१’

[सुतवधव्यतिकरं निशम्य दारुणरोषविसृष्टप्रहाररुधिरारुणः ।
ज्वलितो जायते नरो रिपुसन्तापनोऽनलसदृशो यदि भवति महारणः ॥]

इदं वीररसप्रधानत्वात्ताण्डवम् ॥

छलिकं यथा—

‘णिसुणिउ पच्छा त्तुरअरउ भुण्डि हिंसि हसन्ति ।
णिअकन्तं डाढजुअलेहिं पुणु पुणु ण अ बलन्ति ॥ ३९२ ॥’

[निशम्य पश्चात्तुरगरवं शूकरी हिंसार्थं हसति ।
निजकान्तं दंष्ट्रायुगलेन पुनः पुनर्न च दशति ॥]

इदं तु शृङ्गारवीररसप्रधानत्वाच्छलिकम् ॥

सम्पा यथा—

‘वीहेसि हरिमुहि अवि होहि मं गले लेहि सइ ।
कन्दइ रिट्टासुरमारिउ कण्ठवलिउ ण पइ ॥ ३९३ ॥’

[विभेषि हरिमुखि अपि भव मां च गले गृहाण सदा ।
क्रन्दति रिष्टासुरमारितः कण्ठवलितो न पतिः ॥]

तदिदं छलिकमेव किन्नरविषयं सम्पा ॥

हल्लीसकं यथा—

‘चन्दणधूसरअं आहुलिअलोअणअं हासपरम्मुहअं णीसासकिलालिअम् ।
दुम्मणदुम्मणअं सङ्कामिअमण्डणअं माणिणिआणणअं किन्तुह्मकरट्ठिअअम्

[चन्दनधूसरमाकुलितलोचनं हासपराङ्मुखं निश्वासिक्लेशितम् ।
दुर्मनसां दुर्मनस्कं सङ्क्रामितमण्डनं मानिन्याननं किं तव करस्थितम् ॥]

मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् ।
तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा ॥ १५६ ॥

हल्लीसकमिदम् ॥

रासो यथा—

‘अइ दुम्मणआ अज्ज किणो पुच्छामि तुमम् ।
जेण जिविज्जइ जेण विलासो पलिहिज्जइ कीस जणो ३९५

[अयि दुर्मनस्क अद्य किं नो पृच्छामि त्वाम् ।
येन जीव्यते येन विलासः परिह्रियते किमिति जनः ॥]

तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तं रास एवेत्युच्यते ॥

अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी ।
षट् चित्राभिनयास्तद्वदभिनेयं वचो विदुः ॥ १५७ ॥

तेष्वाङ्गिकाभिनयवद्यथा—

‘दोर्दण्डाः क्व धृताङ्गदाः क्व नु शिरानद्धौ भुजौ द्वाविमौ वक्राणि क्व नु कान्तिमन्ति बलिमत्क्वेदं ममैकं मुखम् ।
वाचस्ताः क्व जितार्णवध्वनिघनाः क्वायं वचःसंयमो हेलाकम्पितभूधरः क्व चरणन्यासः क्व मन्दा गतिः ३९६’

अत्राङ्गिकाभिनयानां प्रतिपादितत्वादिदमाङ्गिकाभिनयम् ॥

वाचिकाभिनयवद्यथा—

‘दुर्वारां मदनशरव्यथां वहन्त्या तन्वङ्ग्या यदभिहितं पुरः सखीनाम् ।
तद्भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ ३९७ ॥’

अत्र वाचिकाभिनयप्रतिपादनादिदं वाचिकाभिनयम् ॥

सात्त्विकाभिनयवद्यथा—

‘वारंवारं तिरयति दृशोरुद्गमं बाष्पपूर- स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम् ।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ ३९८ ॥’

अत्र बाष्पजाड्यस्तम्भस्वेदकम्पानां प्रतिपादितत्वादिदं सात्त्विकाभिनयम् ॥

आहार्याभिनयवद्यथा—

‘चूडाचुम्बितकङ्कपत्त्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौखीम् ।
मौर्व्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवलये दण्डोऽपरः पैप्पलः ॥ ३९९ ॥’

अत्राहार्याभिनयानां प्रतिपादितत्वादिदमाहार्याभिनयम् ॥

सामान्याभिनयवद्यथा—

‘राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया- त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ४००’>

अत्र चतुर्णामभिनयानां प्रयोगादिदं सामान्याभिनयम् ॥

चित्राभिनयवद्यथा—

‘व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः ।
कथमिह न वयस्यस्तत्किमेतत्किमन्य- त्प्रभवति हि महिम्ना स्वेन योगेश्वरीयम् ॥ ४०१ ॥’

अत्र हस्ताध्यायपदाध्याययोः कथितत्वाच्चित्राभियम्मिदम् ॥

चतस्रो विंशतिश्चैताः शब्दालङ्कारजातयः ।
शब्दसन्दर्भमात्रेण हृदयं हर्तुमीशते ॥ १५८ ॥

इति श्रीराजाधिराजभोजदेवेनविरचिते सरस्वतीकण्ठाभरणनाम्नि अलङ्कारशास्त्रेऽलङ्कारनिरूपणं नाम द्वितीयः परिच्छेदः ।