आक्षेपः
“किं पश्यति?” इति परम् उद्दिश्य वचनम् असाधु।
“किम् पश्यसि” इत्य् एव वाच्यम्।
इति वादं गृह्णीयाम।
सूत्रे ऽस्थानित्वं, विवक्षा च
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥१।४।१०५॥
युष्मद्य् उपपदे सति, स्थानिन्य् अपि मध्यमः, अस्थानिन्य् अपि। अस्थानि नाम यद् वाक्यय् उच्चारिते न दृश्यते। अस्थान्य् उपपदम् अस्ति न वेति कथं ज्ञायते? विवक्षातः। यदि न विवक्षितं युष्मत्-पदम्, तर्हि तस्य स्थानित्वास्थानित्व-विचार एव व्यर्थः।
शेषे प्रथमः
भवद्-उपपदे, राम-सीताद्य्-उपपदे तु “शेषे प्रथमः” इति युज्यते - पुनः स्थानिन्य् अपि, अस्थानिन्य् अपि। “शेषे उपपदे समानाधिकरणे स्थानिनि अपि प्रथमः” इति खलु सानुवृत्तिसूत्रम्।
प्रयोगालोकनम्
ब्रह्म-पुराणे, विष्णु-पुराणे च -
उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कया ॥ ११ ॥
ययातिशापाद् वंशो ऽयम् अराज्यार्हो ऽपि साम्प्रतम् ।
मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ १२ ॥
इत्य् उक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह ।
लक्ष्मीनारायणसंहितायाम् -
इति सञ्चिन्त्य बहुधा सूर्यं प्राह मुहुस्तदा ॥४ ॥
देव मे जायते नित्यं विचारस्तु पितुर्ग्रहम् ॥
गन्तुं मीलयितुं सर्वान् स्वसॄर्भातॄन् सखीजनान् ॥ ५ ॥
आज्ञापयतु मां नाथ यामि देवाय रोचते ॥
सूर्यः प्राह न वै देवि कालोऽयं गमनाय न ॥६ ॥
भागवते -
युवां …
तेपाथे परमं तपः॥
…मत्तः कामान् अभीप्सन्तौ
मद्-आराधनम् ईहतुः॥
अत्र द्वितीयश्लोके व्याख्याता वीरराघवः साधु वक्ति - “भवच्छब्दसामानाधिकरण्याभिप्रायकः प्रथमपुरुषप्रयोगः”।
साधारण-व्यवहारः
इदं साधारण-व्यवहारेणापि ज्ञायते-
नाटकेषु यथा कश्चन राजानं सम्बोध्य - “आज्ञापयतु देवः” इति वदति।
बहुषु वर्तमानं रामं दृष्ट्वा कश्चन वदति -
“रामो गच्छतु” (न तु भीमः सोमो वेत्य् अर्थः)।
रामस् तद् अवगत्य गच्छति।
न पुनः “भवता युष्मच्छब्दो न प्रयुक्त” इति वदन् तत्रैव तिष्ठति।
एवं, “गच्छतु” इति वा वदेत्।
अनेन “रामः” इति वा “भवान्” इति वा शब्दो ऽध्याहार्यो भवति।
भाषान्तरेषु
हिन्द्याम् - (आप) जाएँ।
Castellano - (usted) bebe cafe? vs (tu) bebes cafe?