विशेष्यं विना विशेषणमात्रस्य प्रयोगः न हि दोषाय ।
“विशेषणमात्रप्रयोगः विशेष्यप्रतिपत्तौ (५.१.१०) ।” विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः।
यथा, “निधानगर्भामिव सागराम्बराम् (रघुवंशे ३.९)” अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । एतेन “क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः”, “गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः" इत्यादयः प्रयोगा व्याख्याताः — इति वामनः काव्यालङ्कारसूत्रे । अत्र प्रथमे उदाहरणे “उदर्चिः” इति विशेषणस्य बलात् “अग्निः” इति विशेष्यस्य प्रतीतिः । एवमेव द्वितीये उदाहरणे “तडित्वान्” इति विशेषणेन “मेघः” इत्यस्य निर्देशः भवति । यत्र अनन्यसाधारणविशेषणमहिम्ना विशेष्यस्य प्रयोगम् अन्तरेण प्रतिपत्तिः भवति, तत्र विशेषणमात्रप्रयोगः अपि युज्यते इति आशयः ।
एवमेव — “सुन्दरीं पश्य”, “अध्यापकः बुद्धिमन्तम् अवदत्”, “स्वच्छम् आनय, न तु मलीनम्”, “अहं सुन्दरमेव इच्छामि, न तु असुन्दरम्”, “जनाः नूतनम् एव इच्छन्ति”, “स्वादूनि देहि” आदयः लौकिकप्रयोगाः ।