उद्देश्य-विधेय-भावे

लिङ्गवचनादिभेदः

उद्देश्यविधेयभावे लिङ्गस्य / वचनस्य समानता एव भवेत् इति न आवश्यकम् । उद्देश्यस्य लिङ्गवचनादिकं, विधेयस्य च लिङ्गवचनादिकं भिन्नम् अपि भवितुम् अर्हति । यथा —

  • एषः बालकः मम मित्रम् । अत्र “बालकः” इति उद्देश्यं पुंलिङ्गे प्रयुक्तं वर्तते । “मित्रम्” इति विधेयं तु नपुंसकलिङ्गे प्रयुक्तम् अस्ति ।
  • गणेशस्य वाहनं मूषकः । अत्र “वाहनम्” इति उद्देश्यं नपुंसकलिङ्गे वर्तते, “मूषकः” इति विधेयं तु पुंलिङ्गे अस्ति ।
  • सुवर्णं कुण्डले भवतः । अत्र “सुवर्णं” इति उद्देश्यं नपुंसकलिङ्गे एकवचने, “कुण्डले” इति विधेयं नपुंसकलिङ्गे द्विवचने विद्यते ।
  • अत्र वेदाः प्रमाणम् । अत्र “वेदाः” इति उद्देश्यं पुंलिङ्गे, बहुवचने अस्ति, “प्रमाणम्” इति विधेयं नपुंसकलिङ्गे, एकवचने विद्यते ।

प्राधान्यम्

यत्र उद्देश्यस्य वचनम्, विधेयस्य च वचनम् भिन्नम्, तत्र वाक्ये क्रियापदस्य अन्वयः केन सह भवति ? इत्युक्ते, तत्र उद्देश्यस्य प्राधान्यम् उत विधेयस्य प्राधान्यम् ?

  • मूल्यं सहस्रं रुप्यकाणि अस्ति — इति साधु, उत मूल्यं सहस्रं रुप्यकाणि सन्ति — इति साधु ?
  • मीनानां निवासः आपः अस्ति — इति साधु, उत मीनानां निवासः आपः सन्ति — इति साधु ?
  • वेदाः प्रमाणम् अस्ति — इति साधु, उत वेदाः प्रमाणं सन्ति — इति साधु ?
  • चैत्रवैशाखौ वसन्तऋतुः अस्ति — इति साधु उत चैत्रवैशाखौ वसन्तऋतुः स्तः — इति साधु ?
  • त्रीणि साधनानि संयमः उच्यते — इति साधु उत त्रीणि साधनानि संयमः उच्यन्ते — इति साधु ?

वाक्येषु सामान्यतः द्विप्रकारकः उद्देश्यविधेयभावः दृश्यते।

प्रकृतिविकृतिभावसहितः

यत्र एकस्य पदार्थस्य अपरस्मिन् पदार्थे परिवर्तनं भवति (तत्सम्बन्धि विधानं कृतम् अस्ति इत्याशयः), तत्र प्रकृतिविकृतिभावसहितः उद्देश्यविधेयभावः अस्ति इति उच्यते ।

  • यथा — पामरः पण्डितः भवति । घटः शुक्ली भवति । निर्धनं धनिकं करोति ।
  • एतादृशेषु उदाहरणेषु प्रायेण कृ / भू / अस् धातोः एव प्रयोगः कृतः दृश्यते । च्वि-प्रत्ययं विना, च्वि-प्रत्ययेन सह च वाक्यप्रयोगः सम्भवति ।

च्वि-प्रत्ययस्य अनुपस्थितौ विधेयस्य प्राधान्यम् वर्तते, अतः तस्य क्रियया सह अन्वयः भवति । यथा, “सुवर्णं कुण्डले भवतः” इत्यत्र “कुण्डले भवतः” इति मुख्यं वाक्यम्, अतएव क्रियापदं द्विवचने विद्यते । “कुण्डले” इति अत्र विधेयम्, तस्य क्रियया सह अन्वयः — इत्याशयः ।

च्वि-प्रत्ययस्य उपस्थितौ तु उद्देश्यस्य प्राधान्यं वर्तते , अतः तस्य क्रियया सह अन्वयः भवति । यथा, घटाः शुक्ली भवन्ति इत्यत्र “घटाः भवन्ति” इति मुख्यं वाक्यम्, अतएव क्रियापदं बहुवचने विद्यते । “घटाः” इति उद्देश्यम्, तस्य क्रियया सह अन्वयः — इत्याशयः ।

“प्रकृतिविकृतिभावसहितस्य उद्देश्यविधेयभावस्य स्थले कस्य प्राधान्यम्” इत्यस्मिन् विषये वाग्व्यवहारादर्शे —

एतच्च दृढतरं प्रतिभाति यत्र विधेयं विकृतिवाचकं कृभ्वस्तीनां च प्रयोगः, च्वेश्चाप्रयोगस्तत्र विधेयस्यैव प्राधान्यविवक्षया कर्तृत्वकर्मत्वे व्यवस्थिते । अत्र सुवर्णपिण्डः खदिराङ्गारसवणे कुण्डले भवत इति भाष्यमेव लिङ्गम् । तत्र नागेशोक्तिरप्यस्मदुक्तस्योपस्तम्भिका-खदिराङ्गारसवणे कुण्डले भवत इति प्रयोगादच्च्यन्ते विकृतेः कर्तृत्वं बोध्यमिति ।

प्रकृतिविकृतिभावरहितः

यत्र पदार्थस्य परिवर्तनं न भवति अपितु केवलं विधानम् एव कृतं दृश्यते तत्र प्रकृतिविकृतिभावरहितः उद्देश्यविधेयभावः अस्ति इति उच्यते ।

  • यथा — मूल्यम् सहस्रं रुप्यकाणि । समयः दशवादनम् । गणेशस्य वाहनं मूषकः । अयं वृक्षः उन्नतः । मम मित्रम् बलवान् ।

यत्र प्रकृतिविकृतिभावरहितः उद्देश्यविधेयभावः वर्तते, तत्र “पात्र”, “प्रमाण”, “भाजन”, “स्थान”, “आस्पद” —‌ एतेषु किञ्चित् विधेयम् अस्ति चेत् उद्देश्यस्यैव प्राधान्यं वर्तते ! यथा, “वेदाः प्रमाणम् सन्ति” इत्येव वक्तव्यम्, न हि “वेदाः प्रमाणम् अस्ति” इति ।

“प्रकृतिविकृतिभावरहितस्य उद्देश्यविधेयभावस्य स्थले कस्य प्राधान्यम्” इत्यस्मिन् विषये वाग्व्यवहारादर्शे -

तथापीदं व्यवसितं भाति पात्रप्रमाणभाजनस्थानास्पदादिषु विधेयेषूद्देश्यस्यैव कर्तृतेति । तेन वेदाः प्रमाणं सन्तीत्येव साधु, न तु वेदाः प्रमाणमस्तीति । एवं पात्रादिष्वपि बोध्यम् ।

यत्र विधेयस्य निर्देशः “इति” अनेन शब्देन भवति, तत्र तु विधेयस्यैव प्राधान्यं भवेत् इति केषाञ्चन वैयाकरणानां पक्षः । तादृशाः प्रयोगाः प्राचुर्येण सन्ति इति तु सत्यम्, परन्तु तादृशम् विधानम् निश्चयेन नैव कर्तुं शक्यते, यतः तत्रापि कुत्रचित् उद्देश्यस्य प्राधान्यं सम्भवति ! यथा —

  • कालादिकृता वस्तुधर्मा वयःप्रभृतयः अवस्था इति उच्यते — इति काशिकायाम् । अत्र “अवस्था” इति विधेयस्य प्राधान्यम् ।
  • सर्वभूमिषु सर्वविषयेषु सर्वथा एव अविदितव्यभिचाराः सार्वभौमाः महाव्रतम् इति उच्यन्ते — इति योगभाष्ये । अत्र “सार्वभौमाः” इति उद्देश्यस्य प्राधान्यम् ।
  • एकविषयकाणि त्रीणि साधनानि संयमः इति उच्यते — इति योगभाष्ये । अत्र “संयमः” इति विधेयस्य प्राधान्यम् ।
  • लम्बाम्बराः कल्पतरवः एव वैजयन्ती इति सम्भाव्यते — इति कुमारसम्भवव्याख्याने मल्लिनाथः । अत्र “वैयजन्ती” इति विधेयस्य प्राधान्यम् ।

विधेयस्येतिना परिच्छेदे तस्यैव कर्तृत्वकर्मत्वे व्यवस्थिते इत्यपि न शक्य मुक्तसंशयं वक्तुम् । कालादिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यत इति ककुदस्यावस्थायां लोप इति सूत्रे काशिकायां विधेयस्य कर्मत्वमस्तीति नापहनूयते। योगभाष्ये तूभयथा दृश्यते । तद्यथा-सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते (२।३१)। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यत इति च तत्रैव (३४)। तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति संभाव्यत इति कुमारे (६।४१ ) मल्लिनाथः ।

“प्रकृतिविकृतिभावरहितस्य उद्देश्यविधेयभावस्य स्थले कस्य प्राधान्यम्” इत्यस्मिन् विषये वाग्व्यवहारादर्शे ।

अन्येषु स्थलेषु प्रकृतिविकृतिभावरहितस्य उद्देश्यविधेयभावस्य विषये उभयथा उदाहरणानि दृश्यन्ते !

  • उद्देश्यस्य प्राधान्यम् — क्रियापदं उद्देश्यम् अनुसरति इत्याशयः ।
    • भारः अस्ति पञ्च तुलाः । अत्र “भारः” इति उद्देश्यस्य “अस्ति” इत्यनेन सह अन्वयः ।
    • भोगमोक्षौ फले स्मृतौ । अत्र “भोगमोक्षौ” इति उद्देश्यस्य “स्मृतौ” इत्यनेन सह अन्वयः ।
  • विधेयस्य प्राधान्यम् — क्रियापदं विधेयम् अनुसरति इत्याशयः ।
    • द्वौ द्वौ माघादिमासौ स्याद् ऋतुः । “ऋतुः” इति विधेयस्य “स्याद्” इत्यनेन अन्वयः ।
    • पञ्चैते, शास्त्रे, +++(सम्भूय)+++ ऽधिकरणं स्मृतम् । “अधिकरणम्” इति विधेयस्य “स्मृतम्” इत्यनेन अन्वयः ।

सारः

अत्र संक्षेपः —

  • प्रकृतिविकृतिभावसहितस्य उद्देश्यविधेयभावस्य सन्दर्भे —
    • च्वि-प्रत्ययं विना — विधेयस्य प्राधान्यम् । सुवर्णं कुण्डले भवतः ।
    • च्वि-प्रत्ययस्य उपस्थितौ —‌ उद्देश्यस्य प्राधान्यम् । घटाः शुक्ली भवन्ति ।
  • प्रकृतिविकृतिभावरहितस्य उद्देश्यविधेयभावस्य सन्दर्भे —
    • पात्रप्रमाणादिषु किञ्चन विधेयम् अस्ति चेत् — उद्देश्यस्य एव प्राधान्यम् । वेदाः एव प्रमाणम् ।
    • “इति” शब्देन विधेयस्य निर्देशे कृते यद्यपि विधेयस्य प्राधान्यं भवेत् इति मुख्यः पक्षः, तथापि उभयथा उदाहरणानि । सार्वभौमाः महाव्रतम् इति उच्यन्ते । त्रीणि साधनानि संयमः उच्यते ।
    • अन्यत्र अपि उभयथा उदाहरणानि दृश्यन्ते । भोगमोक्षौ फले स्मृतौ । पञ्चैते शास्त्राधिकरणं स्मृतम् ।

क्रमः

क्रियापदसाहचर्ये

संस्कृताध्ययनेन पामरः पण्डितः भवति — इत्यत्र पामरः इति उद्देश्यम्, पण्डितः इति विधेयम् ।
संस्कृताध्ययनेन पामरः भवति पण्डितः — इत्यत्रापि पामरः इति उद्देश्यम्, पण्डितः इति विधेयम् ।
अत्र यद्यपि “भवति” इति क्रियादस्य साहचर्यम् “पामरः” इत्यनेन सह वर्तते, तथापि अत्र विधानं तु पण्डितत्वस्यैव कृतम् अस्ति, अतः अत्रापि “पण्डितः” इत्येव विधेयम् ।
क्रियापदस्य साहचर्यं केन सह वर्तते सः भिन्नः विषयः ; विधेयम् किम् सः भिन्नः विषयः — इति अत्र ज्ञेयम् । उद्देश्यविधेयभावस्थले “क्रियापदसाहचर्ययुक्तस्य पदस्यैव विधेयता” इति नियमः नास्ति इत्याशयः ।

उद्देश्यम् आदौ सन्देहे

परन्तु, उद्देश्यविधेयभावस्य स्थले कश्चन अन्य नियमः अवश्यं शिष्टैः उच्यते —

अनुवाद्यमनुक्त्वैव
न विधेयम् उदीरयेत् ।
न ह्यलब्धास्पदं किञ्चित्
कुत्रचित् प्रतितिष्ठति ॥

वाक्ये अनुवाद्यम् (उद्देश्यम्) आदौ वक्तव्यम्, ततः एव विधेयम् वक्तव्यम्— इति अस्य वचनस्य आशयः ।

अनुवाद्यमनुक्त्वैव इति कारिकायाः मुख्यः उपयोगः तादृशेषु स्थलेषु भवति यत्र “किम् उद्देश्यम्, किं वा विधेयम्” इत्यस्मिन् विषये सन्देहः जायते । यथा, “निर्धनः धनिकः भवति” इति वाक्यं सन्दर्भम् अनुसृत्य “निर्धनस्य धनिके परिवर्तनम्” तथा च “धनिकस्य निर्धने परिवर्तनम्” इति उभयथा प्रयोक्तुं शक्यते । एतादृशेषु स्थलेषु “किम् उद्देश्यम्, किं विधेयम्” इत्यस्य अवगमनं किञ्चित् क्लेशाय । तत्र अर्थस्य सरलतया बोधं कर्तुम् “आदौ उद्देश्यम् ततः विधेयम्” इति नियमः प्रयुज्यते । अतः “निर्धनः धनिकः भवति” इत्यत्र “निर्धनः” इति उद्देश्यम्, “धनिकः” इति विधेयम्, “निर्धनस्य धनिके परिवर्तनम्” इति च अर्थसङ्गतिः ।

असन्देहे

परन्तु, अनुवाद्यमनुक्त्वैव.. इति वचनम् सर्वथैव नैव आवश्यकम् ।
यत्र सन्दर्भस्य अनुषङ्गेन,
अर्थस्य सूक्ष्मचिन्तनं वा कृत्वा उद्देश्यविधेययोः सरलरूपेण निर्णयः सम्भवति,
तत्र उद्देश्यात् पूर्वम् अपि विधेयं भवितुम् अर्हति ।
यथा, “संस्कृताध्ययनात् पण्डितः पामरः भवति” इत्यस्य वाक्यस्य विषये अनुवाद्यमनुक्त्वैव इति वचनम् अनुसृत्य अर्थबोधः तु “आदौ पण्डितः आसीत्, संस्कृताध्ययास्य अनन्तरं सः पामरः जातः” इति भवति !
अयम् अर्थः नोचितः इति सामान्यज्ञानमेव ! इत्युक्ते,
अत्र सन्दर्भवशादेव उचितस्य अर्थस्य बोधः अवश्यं भवति,
येन पण्डितः इत्येव विधेयम्,
पामरः इत्येव उद्देश्यम् — इति स्पष्टी भवति ।
अतः सर्वदा उद्देश्य-विधेयस्य निर्णयार्थम् अनुवाद्यमनुक्त्वैव.. इत्येव वचनम् प्रयोक्तव्यम् इति न नियमः ।

प्राचीनैः अपि एतादृशानि वाक्यानि प्रयुक्तानि सन्ति । यथा, “सम्राट् यदीय-दयया प्रभवेत् दरिद्रः” इति पङ्क्तिः चन्द्रशेखरसरस्वतीविरचितायां शङ्कराचार्यस्तुतौ वर्तते । अत्र यद्यपि “सम्राट्” इति शब्दः “दरिद्रः” इत्यस्मात् प्राक् विद्यते, तथापि अत्र अर्थस्य (सन्दर्भस्य) अनुषङ्गेन “सम्राट्” इति विधेयम्, “दरिद्रः” इति उद्देश्यम् - इति स्पष्टमेव ।