Source: TW
“त्याजयति” इति प्रयोगः
२६६
त्याजयति इत्यस्य द्विकर्मकप्रयोगस्य उदाहरणद्वयम् —
त्याजितैः फलमुत्खातैः भग्नैश्च बहुधा नृपैः — इति रघुवंशे ४.३३ ।
त्यजेः ण्यन्तात् द्विकर्मकात् अप्रधाने कर्मणि क्तः — इति मल्लिनाथः ।
अत्र नृपाः फलं त्यक्तवन्तः इति शुद्धः प्रयोगः ।
रघुः नृपान् फलम् त्याजितवान् इति ण्यन्तः प्रयोगः ।
अस्मिन् प्रयोगे द्वे कर्मपदे ।
फलम् इति प्रधानं कर्म,
नृपान् इति गौणं कर्म (यतः सः प्रयोज्यकर्ता अस्ति) ।
अस्यां स्थितौ कर्मणि प्रयोगे प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः इति नियमेन प्रयोज्यकर्तुः प्रथमा भवति (दृश्यताम् — भाषापाकः २, पाठः १५०, षोडशः वर्ग — Video, PDF) ।
रघुणा नृपाः फलं त्याजिताः ।
तत्र तृतीयाविभक्तेः रूपम् — नृपैः फलं त्याजितैः ।
धूपोष्मणा त्याजितमार्द्रभावम् केशान्तम् — इति कुमारसम्भवे ७.१४ ।
पचादिषु पाठात् द्विकर्मकत्वम् ।
त्यजेः ण्यन्तात् अप्रधाने कर्मणि क्तः — इति मल्लिनाथः ।
अत्र केशान्तः आर्द्रभावं त्यक्तवान् इति शुद्धः प्रयोगः ।
प्रसाधिका केशान्तम् आर्द्रभावं त्याजितवती इति ण्यन्तः प्रयोगः ।
अस्मिन् प्रयोगे द्वे कर्मपदे ।
आर्द्रभावम् इति प्रधानं कर्म ।
केशान्तम् इति गौणं कर्म (यतः सः प्रयोज्यकर्ता अस्ति) ।
अस्यां स्थितौ कर्मणि प्रयोगे
प्रयोज्यकर्मण्य् अन्येषां ण्यन्तानां लादयो मताः
इति नियमेन
प्रयोज्यकर्तुः प्रथमा भवति ।
प्रसाधिकया केशान्तः आर्द्रभावं त्याजितः इति साधुप्रयोगः ।
तत्र द्वितीयाविभक्तेः रूपम् - केशान्तम् आर्द्रभावं त्याजितम् ।