सह इति अव्ययसंज्ञकः शब्दः । “१.४.५७ चादयोऽसत्त्वे” इत्यत्र निर्दिष्टे चादिगणे अस्य समावेशः भवति, अतः तस्य अव्ययसंज्ञा भवति । अस्य योगे “२.३.१९ सहयुक्तेऽप्रधाने” इत्यनेन तृतीया इष्यते । यथा — पुत्रेण सह पिता गच्छति ।
सह इति शब्दः “१.४.७४ साक्षात्प्रभृतीनि च” इत्यत्र निर्दिष्टे साक्षात्प्रभृतिगणे अपि स्वीक्रियते । अतः “कृ” इति धातोः योगे अस्य गतिसंज्ञा भवति । सहकरोति इति उदाहरणम् ।
सहोपपदे कृतः
सह इति शब्दः कुत्रचित् उपपदरूपेण स्वीकृत्य तस्य उपस्थितौ भिन्नाः कृत्प्रत्ययाः अपि भवन्ति ।
- सह करोति (इति शीलम् अस्य) सः सहकारी । सह + कृ + णिनि ।
- सह चरति इति सहचरः । सह + चर् + अच् ।
- सह अजायत इति सहजः = सह + जन् + ड ।
- सह वसनम् इति सहवासः । सह + वस् + घञ् ।
सहायकार्थः
आधुनिककाले विद्यमानाः “सहप्राध्यापकः”, “सहनिर्देशकः” इत्येते शब्दाः प्राचीनैः नैव प्रयुक्ताः, अतः तेषाम् विग्रहनिर्णये कश्चन क्लेशः जायते । अतः तत्र सह शब्दस्य सहायकः इति अर्थं स्वीकृत्य समासविग्रहः करणीयः । यथा, सहप्राध्यापकः = सहायकः प्राध्यापकः इति ।
अनुचितविग्रहाः
तुल्ययोगे बहुव्रीहौ
“तुल्ययोगः (समानकाले कृता क्रिया)” अस्मिन् अर्थे प्रयुक्तस्य सह शब्दस्य तृतीयान्तेन सह “२.२.२८ तेन सहेति तुल्ययोगे” इति सूत्रेण बहुव्रीहिसमासः भवति । पुत्रेण सह आगतः = सहपुत्रः पिता ।
परन्तु अस्मिन् सन्दर्भे “सहप्राध्यापकः” इति शब्दः न युज्यते, यतः तत्र “प्राध्यापकेन सह समानकाले यः क्रियां करोति सः” इति अर्थः भवेत् ।
विद्यमानार्थः
“२.२.२८ तेन सहेति तुल्ययोगे” इत्यत्र प्रायिकं तुल्ययोगे इति विशेषणम्; अन्यत्र अपि समासो दृश्यते — इति काशिकायां निर्देशः वर्तते । इत्युक्ते, कुत्रचित् “सह” इति शब्दस्य “विद्यमानः” इति भिन्नम् अर्थं स्वीकृत्य अपि समासः सम्भवति, यथा — कर्म विद्यमानं यस्य सः = सकर्मकः ।
परन्तु एतादृशम् “सहप्राध्यापकः” इत्यस्य कृते न सम्भवति, यतः तत्र “विद्यमानः प्राध्यापकः यस्य सः” इति विग्रहः भवेत् ।
समानार्थे
“६.३.८४ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु” इति सूत्रे “समानस्य” इति योगविभागं कृत्वा “पक्षेण समानः” इति अर्थे समान-शब्दस्य स-आदेशं कृत्वा “सपक्षः” इति शब्दः सिद्ध्यति ।
परन्तु तथैव “प्राध्यापकेन समानः” इति अर्थे “सहप्राध्यापकः” इति शब्दः नैव सिद्ध्यति, यतः तत्र “समान” इत्यस्य “स” इति आदेशे कृते “सप्राध्यापकः” इति शब्दः सिद्ध्येत्, न हि “सहप्राध्यापकः” इति ।
सादेशः
भिन्नेषु समासेषु, तद्धितप्रत्ययेषु परेषु, कृदन्तप्रत्ययेषु परेषु सह-शब्दस्य, समान-शब्दस्य च “स” इति आदेशः भवति । एते विषयाः ६.३.७८ इत्यतः ६.३.८९ इत्येतेषु सूत्रेषु निर्दिष्टाः सन्ति ।
चक्रेण युगपत् = सचक्रम् । “२.१.६ अव्ययं विभक्तिसमीप…” इति सूत्रेण अव्ययीभावसमासः । “६.३.८१ अव्ययीभावे चाकाले” इति सह-शब्दस्य स-आदेशः ।
तृणम् अपि अपरित्यज्य = सतृणम् । “२.१.६ अव्ययं विभक्तिसमीप…” इति सूत्रेण साकल्यार्थे अव्ययीभावसमासः । “६.३.८१ अव्ययीभावे चाकाले” इति सह-शब्दस्य स-आदेशः ।
क्षत्रैः अनुरूपम् = सक्षत्रम् । “२.१.६ अव्ययं विभक्तिसमीप…” इति सूत्रेण सम्पत्यर्थे (अनुरूपार्थे) अव्ययीभावसमासः । “६.३.८१ अव्ययीभावे चाकाले” इति सह-शब्दस्य स-आदेशः ।
पुत्रेण सह वर्तते = सपुत्रः । “२.२.२८ तेन सहेति तुल्ययोगे” इति युगपत्कालिकक्रियायोगे बहुव्रीहिसमासः । “६.३.८२ वोपसर्जनस्य” इति सूत्रेण सह-शब्दस्य विकल्पेन स-आदेशः । सहपुत्रः, सपुत्रः इति उभयथा साधु ।
विद्यमानं कर्म यस्य सः = सकर्मकः । २.२.२८ तेन सहेति तुल्ययोगे इति सूत्रे तुल्ययोगस्य प्रायिकत्वात् तुल्ययोग-अभावे अपि बहुव्रीहिसमासः । ६.३.७८ सहस्य सः संज्ञायाम् इति, अथ वा ६.३.८२ वोपसर्जनस्य इति सह-इत्यस्य स-आदेशः ।
समानम् उदरं यस्य सः = सोदरः । २.२.२८ तेन सहेति तुल्ययोगे इति सूत्रे तुल्ययोगस्य प्रायिकत्वात् तुल्ययोग-अभावे अपि बहुव्रीहिसमासः। ६.३.८२ वोपसर्जनस्य इति सह-इत्यस्य स-आदेशः । सोदरः, सहोदरः इति उभयथा साधु ।
सन्तोषेण सह = ससन्तोषः । २.२.२८ तेन सहेति तुल्ययोगे इति युगपत्कालिकक्रियायोगे बहुव्रीहिसमासः । ६.३.८२ वोपसर्जनस्य इति सूत्रेण सह-शब्दस्य स-आदेशः । अस्य द्वितीयैकवचनस्य रूपं क्रियाविशेषणरूपेण अपि प्रयुज्यते - यथा, ससन्तोषं गच्छति ।
समानः पक्षः यस्य सः = सपक्षः । २.२.२४ अनेकमन्यपदार्थे इति बहुव्रीहिसमासः । ६.३.८४ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु इत्यत्र समानस्य इति योगविभागः, तेन समानशब्दस्य स-आदेशः ।
समानः वर्णः यस्य सः = सवर्णः । २.२.२४ अनेकमन्यपदार्थे इति बहुव्रीहिसमासः । ६.३.८५ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु इत्यनेन समानशब्दस्य स-आदेशः ।
समानः ब्रह्मचारी = सब्रह्मचारी । २.१.५७ विशेषणं विशेष्येण बहुलम् इति कर्मधारयसमासः । ६.३.८६ चरणे ब्रह्मचारिणि इति ब्रह्मचारी-शब्दे परे समानशब्दस्य स-आदेशः ।
समाने तीर्थे वासी = सतीर्थ्यः । ४.४.१०७ समानतीर्थे वासी इति समानतीर्थ-शब्दात् यत्-प्रत्ययः । ततः ६.३.८७ तीर्थे ये इत्यनेन यत्-प्रत्ययान्त-तीर्थशब्दे परे समानशब्दस्य स-आदेशः ।
समानोदरे शयितः = सोदर्यः । ४.४.१०८ समानोदरे शयित ओ चोदात्तः इति समानोदर-शब्दात् यत्-प्रत्ययः । ततः ६.३.८८ विभाषोदरे इत्यनेन यत्-प्रत्ययान्त-उदरशब्दे परे समानशब्दस्य विकल्पेन स-आदेशः । सोदर्यः, समानोदर्यः ।
समानः दृश्यते = सदृशः । ३.२.६० त्यदादिषु दृशोऽनालोचने कञ्च इत्यत्र समानान्ययोश्चेति वक्तव्यम् इति वार्त्तिकेन ‘समान’ इति उपपदस्य उपस्थितौ दृश्-धातोः कञ्-प्रत्ययः । ६.३.८९ दृग्दृशवतुषु इत्यनेन समान-शब्दस्य स-आदेशः।
युल्ययोगे बहुव्रीहौ
“२.२.२८ तेन सहेति तुल्ययोगे” इति सूत्रेण युगपत्कालिकक्रियायोगे “सह” इति पूर्वपदस्य उपस्थितौ बहुव्रीहिसमासः भवति । यथा, पुत्रेण सह पिता = सपुत्रः पिता ।
प्रयोगः
सह-पूर्वपदबहुव्रीहिसमासे “सह” शब्देन यः अर्थः ध्वन्यते, सः एव अर्थः कैश्चन विशिष्टैः प्रत्ययैः सह अपि निर्देष्टुम् शक्यः । एतादृशं क्रियते चेत् तत्र पुनः तस्य प्रत्ययान्तशब्दस्य सहपूर्वपदबहुव्रीहिसमासः नैव करणीयः ।
एवमेव —
सहपूर्वपदबहुव्रीहिसमासेन प्रयोगः — अलङ्कारैः सह वर्तते = सालङ्कारा कन्या ।
क्त-प्रत्ययेन सह प्रयोगः — अलङ्कृता कन्या ।
सालङ्कृता कन्या / सालङ्कृतः रथः इति प्रयोगः न करणीयः । एतौ प्रयोगौ अपि साधु, परन्तु एतयोः अर्थः भिन्नः — “अलङ्कृतेन (जनेन) सह वर्तते” — इति ।
एवमेव, रामः आनन्देन गतः / रामः सानन्दं गतः — इति उचितौ प्रयोगौ । सानन्देन इति प्रयोगः न करणीयः ।
वस्तुतस् तु अत्र द्वयोर् मध्ये सूक्ष्मः शाब्दबोधभेदः विद्यते । आनन्देन इति पदं व्यापारे अन्वेति (यानचालनादिक्रिया आनन्ददायिनी इत्याशयः), सानन्दम् इति (अव्ययीभावसमासेन निर्मितं) पदं तु फले अन्वेति (उत्तरदेशसंयोगः आनन्ददायी इति) ।
तथैव, रामः उद्वेगेन गतः / रामः सोद्वेगं गतः — इति प्रयोगौ अपि ज्ञेयौ ।