कारकाणि विवक्षया भवन्ति !
यत्र अन्यकारकस्य प्रयोगेण अपि लोके अर्थज्ञानं सरलरूपेण भवति, तत्रैव अन्यकारकस्य विवक्षा भवति । एतादृशी विवक्षा लोके प्रचलितां भाषाम्, शिष्टप्रयोगान् च दृष्ट्वा एव क्रियते । कारकस्य अविवक्षायाः अन्यानि कानिचन उदाहरणानि —
- रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत (इति रामायणे) ।
- अत्र कर्मणः अविवक्षायां २.३.५० षष्ठी शेषे इति षष्ठी ।
- भार्या बिभ्यति तस्मिन् काये (इति मोहमुद्गरे) ।
- अत्र अपादानस्य अविवक्षायां अधिकरणविवक्षायां च २.३.३६ सप्तम्यधिकरणे च इति सप्तमी ।
- कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे (इति रामायणे) ।
- अत्रापि अपादानस्य, अधिकरणस्य च अविवक्षायां २.३.५० षष्ठी शेषे इति षष्ठी ।
कस्य (…) संयुगे इति । न चैवं संयुगस्य एवापादान-सञ्ज्ञापत्तिः, परया अधिकरण-संज्ञया बाधात् । अधिकरणत्व-अविवक्षायां त्विष्टापत्तिः — इति “१.४.२५ भीत्रार्थानां भयहेतुः” इत्यत्र प्रौढमनोरमा ।