Source: TW
व्याकरणशास्त्रे द्वित्वम्
[[२२६]]
द्वित्वम् = द्विर्वचनम् = doubling of an entity
धातुरूपनिर्माणसमये
धातोः द्वित्वं भवति
शब्दनिर्माणसमये
वर्णस्य द्वित्वं भवति
शब्दप्रयोगसमये
शब्दस्य द्वित्वं भवति
दा + लट् → ददाति
गम् + लिट् → जगाम
कृ + लुङ् → अचीकरत्
पठ् + सन् + लट् → पिपठिषति
भू + यङ् + लट् → बोभूयते
कृष्ण → कृष्ष्ण
ब्रह्मा → ब्रह्म्मा
सर्व → सर्व्व
रामः पचति पचति
ध्यायं ध्यायं परं ब्रह्म
ग्रामो ग्रामः सिद्धवनम्
पुरुषः पुरुषो गच्छति
शब्दप्रयोगे द्वित्वम्
शब्दप्रयोगविशिष्टं द्वित्वम् अष्टाध्याय्यां ८.१.१ सर्वस्य द्वे इत्यतः ८.१.१५ द्वन्द्वं रहस्य… इति सूत्रेषु पाठ्यते ।
८.१.४ नित्यवीप्सयोः
नित्यम् (continuity) तथा च वीप्सा (multiplicity) इत्येतयोः अर्थे शब्दस्य द्वित्वं भवति ।
नित्यं पठति = पठति पठति ।
नित्यं पचति = पचति पचति ।
नित्यं स्मरति ततः वदति = स्मृत्वा स्मृत्वा वदति ।
प्रत्येकं ग्रामः रमणीयः = ग्रामः ग्रामः रमणीयः ।
प्रत्येकं छात्रः पठति = छात्रः छात्रः पठति ।
८.१.१२ प्रकारे गुणवचनस्य
सादृश्यम् (similar, but less than original) अस्मिन् अर्थे शब्दस्य द्वित्वं भवति, तथा द्वयोः शब्दयोः कर्मधारयसमाससदृशं कार्यं भवति (इत्युक्ते, समासः, समासान्तप्रत्ययः, पुंवद्भावः भवति) ।
ईषद् पटुः = पटुः पटुः → पटुपटुः ।
ईषद् पट्वी = पट्वी पट्वी → पटुपट्वी ।
ईषद् नवम् = नवम् नवम् → नवनव ।
ईषद् दीर्घा = दीर्घा दीर्घा = दीर्घदीर्घा ।
क्रियायाः / पदार्थस्य द्वित्वार्थम् इदं सूत्रम् ।
गुणस्य द्वित्वार्थम् इदं सूत्रम् ।
साहित्ये द्वित्वस्य उदाहरणानि
मन्दं मन्दं नुदति पवनः — मेघदूते १.९
खिन्नः खिन्नः शिखरिषु — मेघदूते १.१३
क्षीणः क्षीणः परिलघु — मेघदूते १.१३
नवं नवं प्रीतिरहो करोति — शिशु. ३.३१
भीतभीत इव शीतमयूखः — किरात. ९.२६
तर्हि एतेषु सर्वेषु उदाहरणेषु द्वित्वं कथम् — इति प्रश्नः ।
नित्यता क्रियायाः अविच्छेदः — इति कैयटः । अत्र क्रियायाः अविच्छेदः नास्ति, अतः अत्र नित्यत्वात् द्वित्वं न सम्भवति । एवमेव, पृथक्सङ्ख्यायुक्तान् इतरेतरयोगप्राप्तान् सर्वान् अर्थान् क्रियया गुणेन वा व्याप्नुवन् यदा वाक्यं वक्ति तदा सः वक्तृस्थः इच्छाविशेषो द्विर्वचनेन द्योत्यते; सैव वीप्सा — इति कैयटः । अत्र पृथक्सङ्ख्यायुक्तः इतरेतरयोगः एव नास्ति; अतः अत्र वीप्सायाम् अपि द्विर्वचनं न सम्भवति । इत्युक्ते, अत्र ८.१.४ नित्यवीप्सयोः इत्यस्य प्रयोगः न सम्भवति ।
८.१.१२ प्रकारे गुणवचनस्य इत्यस्य प्रयोगे तु गुणवाचकशब्दः आवश्यकः, कर्मधारयसमासवत् च रूपं भवति; अतः तस्य प्रयोगः अपि अत्र न सम्भवति !
तत्त्वबोधिनीकारस्य मतम् …
८.१.१२ प्रकारे गुणवचनस्य इत्यत्र तत्त्वबोधिनी
दुर्घटवृत्तिकारस्य मतम् …
८.१.१२ प्रकारे गुणवचनस्य
इत्यत्र दुर्घटवृत्तिः
“नवं नवं प्रीतिरहो करोति” इत्यस्य व्याख्याने मल्लिनाथेन अपि “अकारप्रश्लेषात् द्वित्वम्” इत्येव पक्षः उपस्थापितः अस्ति । “अहोशब्दः पुराणस्यापि नूतनत्वम् इति आश्चर्ये” इति सः तत्र स्पष्टीकरोति ।