यत्र वाक्ये द्वौ धातू स्तः (एकम् कृदन्तरूपेण, अपरं तिङन्तरूपेण), तत्र एकस्यैव शब्दस्य द्वयोः अपि सन्दर्भे भिन्नकारकत्वं सम्भवति ।
- माता पुत्रम् आहूय मोदकं ददाति
- माता पुत्रम् आह्वयति । पुत्रशब्दस्य ह्वे-धातुनिरूपितं कर्मकारकत्वम् ।
- माता पुत्राय मोदकं ददाति । पुत्रशब्दस्य दा-धातुनिरूपितं सम्प्रदानकारकम् ।
- एतयोः द्वयोः वाक्ययोः एकत्रीकरणं यदा क्रियते तदा एकस्य कारकस्य प्रत्यक्षरूपेण प्रयोगः सम्भवति, अपरस्य कारकस्य तु अध्याहारः करणीयः । यथा — माता पुत्रम् आहूय मोदकं ददाति — इत्यत्र पुत्रशब्दस्य कर्मत्वेन उपादानम् / शाब्दः अन्वयः । पुत्रशब्दस्य सम्प्रदानत्वेन तु अध्याहारः / आर्थः अन्वयः । मात्रा पुत्रम् आहूय पुत्राय मोदकं ददाति इत्याशयः ।
- माता आहूय पुत्राय मोदकं ददाति — इत्यत्र पुत्रशब्दस्य सम्प्रदानत्वेन उपादानम् / शाब्दः अन्वयः । पुत्रशब्दस्य कर्मत्वेन तु अध्याहारः / आर्थः अन्वयः । मात्रा पुत्रम् आहूय पुत्राय मोदकं ददाति इत्याशयः ।
- उभयथा वाक्यप्रयोगः साधु । द्वयोः युगपत् उपादानं क्रियते चेदपि न दोषाय (यथा, “माता पुत्रम् आहूय पुत्राय मोदकं ददाति” इति) परन्तु तादृशाः प्रयोगाः न श्रूयन्ते ।
अन्यानि एतादृशानि उदाहरणानि -
- सः गृहं निर्मितवान् ; सः गृहे वसति — सः गृहं निर्माय वसति । अत्र निर्+मा-धातोः कर्मपदस्य (गृहम् इत्यस्य) शाब्दः अन्वयः, वस्-धातोः अधिकरणपदस्य (गृहे इत्यस्य) आर्थः अन्वयः ।
- सः निर्माय गृहे वसति । इत्यपि साधुप्रयोगः एव । अत्र वस्-धातोः अधिकरणपदस्य (गृहे इत्यस्य) शाब्दः अन्वयः, निर्+मा-धातोः कर्मपदस्य (गृहम् इत्यस्य) आर्थः अन्वयः ।
- ओदनं पचति; ओदनः भुज्यते — ओदनं पक्त्वा भुज्यते । अत्र पच्-धातोः कर्मपदस्य शाब्दः अन्वयः, भुज्-धातोः कर्मपदस्य (ओदनः इत्यस्य) आर्थः अन्वयः ।
- पक्त्वा ओदनः भुज्यते । इत्यपि साधुप्रयोगः एव । अत्र भुज्-धातोः कर्मपदस्य (ओदनः इत्यस्य) शाब्दः अन्वयः, पच्-धातोः कर्मपदस्य (ओदनम् इत्यस्य) आर्थः अन्वयः ।
कारक-प्राधान्यं - द्वाभ्याम् क्रियाभ्याम् अन्वये
परन्तु — “एकस्मिन् द्रव्ये उभय-शक्ति-प्रसङ्गे प्राधान्येनैव व्यपदेशः” (मुख्यव्यवहारः) — इति केषाञ्चन वैयाकरणानां मतम् । वाक्ये विद्यमानायाः प्रधानक्रियायाः एव कारकम् शाब्दरूपेण प्रयोक्तव्यम्, अप्रधानक्रियायाः कारकस्य केवलम् अध्याहारः करणीयः — इति अस्य आशयः । भर्तृहरिणा वाक्यपदीये अयं पक्षः उपस्थापितः अस्ति । अस्मिन् पक्षे “ओदनं पक्त्वा भुज्यते” इति असाधु प्रयोगः, “पक्त्वा ओदनः भुज्यते” इत्येव साधुप्रयोगः ।
भट्टोजिदीक्षितः प्रौढमनोरमायां तु भाष्यानुरोधेन “उभयथा वाक्यप्रयोगः साधु” इत्येव प्रतिपादयति । कैयटेन अपि “क्षुधं प्रतिहन्तुं शक्यम्” इति प्रयोगः कृतः अस्ति । अस्मिन् प्रयोगे तेन अप्रधान-क्रियायाः कर्मपदस्य शाब्दः अन्वय क्रियते । एतादृशान् भिन्नान् प्रयोगान् दृष्ट्वा एव दीक्षितेन उभयथा प्रयोगसाधुत्वम् एव निर्णयरूपेण स्वीकृतम् अस्ति ।
“हरिः पूजयितुं शक्यते” इत्यत्र शक्-धातोः कर्मणः शाब्दः अन्वयः । “हरिं पूजयितुम् शक्यते” इत्यत्र पूज्-धातोः कर्मणः शाब्दः अन्वयः । उभयथा साधु एव। अतएव “ग्रन्थं पठितुं शक्यते”, “ग्रन्थः पठितुं शक्यते” आदयः प्रयोगाः अपि साधु एव ज्ञेयाः ।