सामान्यरूपेण एकस्य उत द्वयोः निर्देशः करणीयः चेत् बहुवचनं नैव प्रयोक्तव्यम् । यथा, द्वयोः फलयोः पतनस्य निर्देशः “फले पततः” इत्येव भवति, न हि “फलानि पतन्ति” इति । एवमेव, “युवां गच्छथः” इत्यस्य स्थाने “यूयं गच्छथ” इति प्रयोगः नैव करणीयः ।
परन्तु अस्मद्-शब्दस्य विषये एकस्य द्वयोः वा निर्देशार्थं यथा एकवचनस्य / द्विवचनस्य प्रयोगः साधु तथैव बहुवचनस्य प्रयोगः अपि साधु एव । १.२.५९ अस्मदो द्वयोश्च इति अत्र सूत्रम् ।
“अहम् गच्छामि” इत्यस्मिन् अर्थे “वयं गच्छामः” इति अपि वक्तुं शक्यते ।
“आवां पुनर्मिलाव” इत्यस्मिन् अर्थे “वयं पुनर्मिलाम” इति अपि वक्तुं शक्यते ।
क्वचिदात्मनि बहुमानेनापि बहुवचनं प्रयुज्यते यथोक्तं षड्गुरुशिष्येण वेदार्थदीपिकायाम्
व्याम्ययार्थबहुत्वेन
बहुमानेन चात्मनः ।
व्याख्यात्रात्मन्यथारोप्य
बहुत्वं तु प्रयुज्यते ॥
यथाहि निधिमासाद्य
प्रयुजानस्तु दृश्यते ।
एते वयं समृद्धार्था
देवोऽस्मासु प्रसीदति ॥इति ।
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः (वैराग्य०, इलो० ५३) इति राजानं प्रति यतेरुक्तिर्बहुमानगर्भितेति युज्यते बहुवचनम् ।
सविशेषणस्य प्रतिषेधः
परन्तु “सविशेषणस्य प्रतिषेधः” इति वार्त्तिकेन विशेषणस्य उपस्थितौ एतत् नानुमन्यते । अतः “पटुः अहं गच्छामि” इत्यस्य स्थाने “पटवः वयं गच्छामः” इति प्रयोगः अनुचितः ।