तस् तात्

सर्वनाम्नां पञ्चम्यास् तसिल्

तसिल् प्रत्ययः — ५.३.७ पञ्चम्यास्तसिल् इति सूत्रेण सर्वनामसंज्ञकेभ्यः पञ्चम्यर्थे तसिल्-प्रत्ययः भवति । यथा — सर्वेभ्यः = सर्वतः, विश्वेभ्यः = विश्वतः । एवमेव — उभयतः, एकतः, बहुतः ततः, यतः, अतः, इतः, कुतः ।

अपादाने तसिः

तसि प्रत्ययः — ५.४.४५ अपादाने चाहीयरुहोः इति सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः अपादाने अर्थे तसि-प्रत्ययः भवति । यथा — गृहात् = गृहतः, शालायाः = शालातः । नद्याः = नदीतः । एवमेव, वृक्षतः, साधुतः, देवालयतः — आदयः ।

सार्वविभक्तिकः तसिः

कौमुद्याम् उच्यते —

आद्यादिभ्य उपसंख्यानम् (वार्तिकम्) ।
आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः ।

अपादानभिन्ने अर्थे तसि-प्रत्ययविधानार्थम् इदं वार्त्तिकम् । यथा, आदौ = आदितः । मध्ये = मध्यतः । अस्मिन्नेव सन्दर्भे बालमनोरमाकारः वदति — अयम् सार्वविभक्तिकः तसिः । सर्वासाम् अपि विभक्तीनाम् अर्थे अस्य प्रयोगः सम्भवति — इति आशयः । अतएव वामे = वामतः । पृष्ठे = पृष्ठतः — आदयः शब्दाः सिद्ध्यन्ति ।

उपरिष्टात्

“उपरि”, तथा “उपरिष्टात्” इति द्वौ शब्दौ “५.३.३१ उपर्युपरिष्टात्” इति सूत्रेण प्रथमा /पञ्चमी /सप्तमी-विभक्तीनाम् अर्थे निपात्येते । अतः उपरि = उपरिष्टात् = उर्ध्वायाः दिशः / उर्ध्वायाम् दिशि / ऊर्ध्वः देशः / उर्ध्वात् देशात् / उर्ध्वे देशे । एतौ शब्दौ स्वयमेव पञ्चम्याः निर्देशं कुरुतः अतः एताभ्याम् पुनः पञ्चम्यर्थे “तसि” इति प्रत्ययः नैव प्रयोक्तव्यः । इत्युक्ते, “उपरितः”, “उपरिष्टात्तः” एतौ शब्दौ असाधु स्तः ।

अस्ताति

पूर्व, अधर, अवर, पर - एतेभ्यः चतुर्भ्यः दिशावाचकेभ्यः / स्थानवाचकाभ्याम् / कालवाचकेभ्यः शब्देभ्यः सप्तम्यर्थे, पञ्चम्यर्थे, प्रथमार्थे वा “५.३.२७ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः” इति सूत्रेण अस्ताति-प्रत्ययः भवति । प्रक्रियायाम् “५.३.४० अस्ताति च”, तथा च “५.३.४१ विभाषावरस्य” इत्येताभ्यां सूत्राभ्याम् प्रकृत्याः आदेशः अपि विधीयते ।

  • पूर्व + अस्ताति → पुर् + अस्तात् → पुरस्तात् ।
  • अधर + अस्ताति → अध् + अस्ताति → अधस्तात् ।
  • पर + अस्ताति‌ → पर् + अस्तात् → परस्तात् ।
  • अवर + अस्ताति → अव् / अवर + अस्तात् → अवस्तात् / अवरस्तात् ।

अतसुच्

दक्षिण, उत्तर — एताभ्यां दिशावाचकाभ्याम् / स्थानवाचकाभ्याम् / कालवाचकाभ्याम् शब्दाभ्याम् अस्ताति-प्रत्ययस्य अपवादरूपेण ५.३.२८ दक्षिणोत्तराभ्यामतसुच् इति सूत्रेण अतसुच्-प्रत्ययः भवति ।

  • दक्षिण + अतसुच् → दक्षिणतः ।
  • उत्तर + अतसुच् → उत्तरतः ।

पुरः

पुरः — ५.३.३९ पूर्वाधरावराणामसि पुरधवश्चैषाम् इति सूत्रेण “पूर्व”शब्दात् “असि”प्रत्यये कृते सिद्ध्यति ।

पूर्व + असि → पुर् + अस् → पुरः ।

पुरतः

पुरतः इति शब्दस्य अपि शिष्टप्रयोगाः बहवः सन्ति —

  • इयं च तेऽन्या पुरतः विडम्बना — कुमारसम्भवे ।
  • पश्यामि तामित इतः पुरतश्च पश्चात् — मालतीमाधवे ।
  • स्यात् पुरः पुरतः अग्रतः — अमरकोशे ।
  • पुरतः प्रथमे चाग्रे — विश्वकोशे ।
  • अलभन्त क्षणात्तेषां पुरतः परिपन्थिनः — यादवाभ्युदये । …

परन्तु, पुरतः इति शब्दस्य साधुत्वज्ञापनं तु क्लेशाय । तसि-प्रत्यये कृते “पुर्” इति आदेशः न भवति, अतः तत्र “पूर्वतः” इति शब्दः भवेत्, न हि पुरतः ।

पुर्-आदेशः तु असि/अस्ताति-प्रत्यययोः परयोः भवति, तत्र “तसि”प्रत्ययः न विधीयते ।

प्रामादिकम् एव, इति बहवः ! — ५.३.४० अस्ताति च इत्यत्र तत्त्वबोधिन्याम् अयं पक्षः उपस्थापितः अस्ति ।

अतसुच्-प्रत्ययेन

अतसुच्-प्रत्ययेन साधुत्वम् — केचित्तु दक्षिणोत्तराभ्यां तसुच्-विधिना एव इष्टसिद्धौ अतसुच् इति अकारोच्चारणम् अन्यतः अपि विधानम्, तेन पुरतः इति सिद्ध्यति — इति ५.३.४० अस्ताति च इत्यत्र तत्त्वबोधिनी ।

पुर् (अग्रगमने, तौदादिकः) + क्विप् (३.२.७६ अन्येभ्योऽपि दृश्यते) → पुर् । पुर् + अतसुच् → पुरतः ।

पुर् (अग्रगमने, तौदादिकः) + अच् (सर्वधातुभ्यः अज्विधिः) → पुर । पुर + अतसुच् → पुरतः ।

निपातनात्

निपातनात् साधुत्वम् — पुरतः प्रथमे चाग्रे इति विश्वकोशः । स्यात् पुरः पुरतोऽग्रतः इति अमरकोशः । अनेन प्रकारेण कोशेषु अस्य प्रदर्शनात्, शिष्टप्रयोगात् च निपातनात् अस्य साधुत्वं स्वीक्रियते ।

तसि

सार्वविभक्तिक-तसि-प्रत्ययेन साधुत्वम् — पुर् (अग्रगमने, तौदादिकः) + क (३.१.१३५ इगुपधज्ञाप्रीकिरः कः) → पुर । पुर + तसि (५.४.४५ अपादाने चाहीयरुहोः) → पुरतः । “अयं प्रकारः सर्वोत्तमः” — इति रसगङ्गाधरटीकाकारः ।