Source: TW
तरप्-तमप्-प्रत्ययौ
२७४
५.३.५५ अतिशायने तमबिष्ठनौ — बहुषु एकः अतिशयेन प्रकृष्टः अस्मिन् अर्थे सुबन्तेभ्यः तमप्, इष्ठन् इति तद्धितप्रत्ययौ भवतः । यथा, एते सर्वे लघवः, अयम् एतेषु अतिशयेन लघुः = अयं लघुतमः, अयम् लघिष्ठः ।
५.३.५६ तिङश्च — “प्रकर्षेण” अस्मिन् अर्थे तिङन्तात् तमप्-प्रत्ययः भवति । सर्वे इमे पचन्ति, रामः एषाम् अतिशयेन पचति = रामः पचतितमाम् । एवमेव - संस्कृतं विजयतेतमाम् ।
५.२.५७ द्विवचनविभज्योपपदे तरबीयसुनौ — द्वयोः एकः अतिशयेन प्रकृष्टः अस्मिन् अर्थे सुबन्तेभ्यः तरप्, ईयसुन् इति तद्धितप्रत्ययौ; तथा च तिङन्तात् तरप् इति तद्धितप्रत्ययः भवति । यथा —
एतौ द्वौ लघू, अयम् एतयोः अतिशयेन लघुः = अयं लघुतरः, अयं लघीयान् ।
इमौ पचतः, रामः अनयोः अतिशयेन पचति = रामः पचतितराम् । एवमेव - संस्कृतं लसतितराम् ।
५.३.५८ अजादी गुणवचनादेव — ईयसुन्, इष्ठन् इति द्वौ प्रत्ययौ केवलं गुणवाचकशब्देभ्यः एव भवतः ।
अतः पाचकशब्दस्य विषये ईयसुन्, ईष्ठन् प्रत्ययौ न भवतः ।
तरप्-तमप्-प्रत्ययौ तु अवश्यं सम्भवतः — पाचकतरः, पाचकतमः ।