“५.२.९४ तदस्यास्त्यस्मिन्निति” मतुप् इति सूत्रेण “तद् अस्य अस्ति / तद् अस्मिन् अस्ति” इत्येतयोः अर्थयोः प्रातिपदिकेभ्यः “मतुप्” इति प्रत्ययः भवति । यथा, शक्तिः अस्य अस्ति सः शक्तिमान् पुरुषः ।
कुत्रचित् मकारस्य वकारादेशः अपि भवति । यथा, लक्ष्मीः अस्य अस्ति सः लक्ष्मीवान् पुरुषः ।
स्त्रीत्वे विवक्षिते मतुप्-प्रत्ययान्तशब्दात् “ङीप्” इति स्त्रीप्रत्ययः विधीयते । शक्तिः अस्याः अस्ति सा शक्तिमती स्त्री ।
मतुप्-प्रत्ययः केवलम् विशिष्टेषु षट्सु सन्दर्भेषु एव भवति, इति वार्त्तिककारः —
भूम-निन्दा-प्रशंसासु
नित्य-योगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां
भवन्ति मतुबादयः ॥
- भूमा (विपुलम्)
- गावः अस्य सन्ति सः गोमान्
- निन्दा (शरीरवैचित्र्यम्)
- कुष्ठम् अस्य अस्ति सः कुष्ठवान्
- प्रशंसा
- रूपम् अस्य अस्ति सः रूपवान्
- नित्ययोगः
- गन्धः अस्य अस्ति इति गन्धवान्
- अतिशायनम्
- अतिशयेन उदरम् अस्य अस्ति सः उदरवान्
- संसर्गः
- दण्डः अस्य अस्ति सः दण्डवान्
वकारादेशः
येषाम् अन्तिमः वर्णः “अ, आ, म्, वर्गप्रथमः, वर्गद्वितीयः, वर्गतृतीयः, वर्गचतुर्थः” इति अस्ति —
- रूप → रूपवान् । विद्या → विद्यावान् । किम् → किंवान् । विद्युत् → विद्युत्वान् (अत्र जश्त्वं न भवति) ।
येषाम् उपधावर्णः “अ, आ, म्” इति अस्ति —
- यशस् → यशस्वान् । भास् → भास्वान् । लक्ष्मी → लक्ष्मीवान् ।
अतएव, “चन्द्रः अस्याः अस्ति” इत्यस्मिन् अर्थे “चन्द्रवती” इत्येव शब्दः प्रयोक्तव्यः, न हि चन्द्रमती इति शब्दः ।
विशिष्टेषु संज्ञाशब्देषु मकारस्य वकारादेशः कृतः अस्ति —
- मुनीवती, ऋषीवती, अमरावती, शरावती आदयः ।
यवादिगणे ये शब्दाः विद्यन्ते, तेषाम् विषये अयम् वकारादेशः निषिध्यते । ८.२.९ मादुपधायाश्च मतोर्वोऽयवादिभ्यः इति सूत्रम् । यथा,
- यव → यवमान् । भूमि → भूमिमान् । हरित् → हरित्मान् ।