दृह् (वृद्धौ, भ्वादिः) इति धातोः क्त-प्रत्यये कृते “दृढ” इति शब्दः सिद्ध्यति । कठिनम् / firm इति अस्य अर्थः । अस्मात् शब्दात् सिद्धाः केचन तद्धितान्तशब्दाः अत्र परिगण्यन्ते —
दृढीकरोति
“अदृढं दृढं करोति” इत्यस्मिन् अर्थे “दृढ” शब्दात् ५.४.५० अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः इति सूत्रेण च्वि-प्रत्यये कृते “दृढी” इति शब्दः सिद्ध्यति । अदृढं दृढं करोति इति दृढीकरोति । अत्र प्रक्रियायाम् च्वि-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, ततः दृढ-शब्दस्य अन्तिम-अकारस्य “७.४.३२ अस्य च्वौ” इति इकारादेशः भवति —
- दृढ + च्वि + करोति → दृढ + करोति → दृढी + करोति → दृढीकरोति । अत्र “दृढी” तथा “करोति” इति पदद्वयम् अस्ति इति स्मर्तव्यम् ।
दृढत्वम् / दृढता
“दृढस्य भावः” अस्मिन् अर्थे ५.१.११९ तस्य भावस्त्वतलौ इत्यनेन त्व/तल्-प्रत्ययौ भवतः । दृढस्य भावः दृढत्वम्, दृढता वा ।
दार्ढ्यम्
“दृढस्य भावः” अस्मिन् अर्थे ५.१.१२३ वर्णदृढादिभ्यः ष्यञ् च इति सूत्रेण दृढ-शब्दात् ष्यञ्-प्रत्ययः भवति, येन दार्ढ्यम् इति शब्दः सिद्ध्यति । दृढस्य भावः दार्ढ्यम् ।
द्रढिमा
“दृढस्य भावः” अस्मिन् अर्थे ५.१.१२३ वर्णदृढादिभ्यः ष्यञ् च इति सूत्रे “च” इति ग्रहणात दृढ-शब्दात् भावे “इमनिच्” इति अपि प्रत्ययः भवति । (५.१.१२२ पृथ्व्यादिभ्यः इमनिज्वा इत्यस्मात् इमनिच् इति अनुवर्तते ।)
- इमनिच्-प्रत्यये परे प्रक्रियायाम् ६.४.१६१ र ऋतो हलादेर्लघोः इति सूत्रेण ऋकारस्य रेफादेशः भवति — दृढ + इमनिच् → दृढ + इमन् → द्रढ + इमन् → द्रढ् + इमन् → द्रढिमन् ।
- अत्र द्रढिमन् इति प्रातिपदिकम् । अयम् नकारान्तपुंलिङ्गशब्दः अस्ति । तस्य प्रथमैकवचनम् “द्रढिमा” । दृढस्य भावः द्रढिमा । अत्र दृढिमा इति शब्दः असाधु । रेफादेशः नित्यं भवति, न हि विकल्पेन ।
५.१.१२३ वर्णदृढादिभ्यः ष्यञ् च इति सूत्रे विद्यमानेन “वर्ण” इत्यनेन वर्णवाचिशब्देभ्यः अपि इमनिच्-प्रत्ययः विधीयते । अतएव श्वेतिमा, रक्तिमा, हरितिमा, पीतिमा - इत्यादयः शब्दाः सिद्ध्यन्ति । पक्षे ष्यञ्/त्व/तल्-प्रत्ययाः अपि अवश्यं भवन्ति, यैः “श्वैत्यम् / श्वेतत्वम् / श्वेतता” इति रूपाणि अपि सिद्ध्यन्ति ।
दृढतर / द्रढीयान्
“एतौ द्वौ दृढौ, एतयोः अयम् अतिशयेन दृढः” अस्मिन् अर्थे दृढ-शब्दात् ५.३.५७ द्विवचनविभज्योपपदे तरबीयसुनौ इत्यनेन सूत्रेण तरप् तथा ईयसुन् प्रत्ययौ भवतः । दृढ + तर → दृढतर । ईयसुन्-प्रत्यये परे तु प्रक्रियायाम् ६.४.१६१ र ऋतो हलादेर्लघोः इति सूत्रेण ऋकारस्य रेफादेशः भवति — दृढ + ईयसुन् → दृढ + ईयस् → द्रढ + ईयस् → द्रढ् + ईयस् → द्रढीयस् । अस्य प्रथमैकवचनम् द्रढीयान् इति । अतः दृढीयान् इतिु शब्दः असाधु । रेफादेशः नित्यं भवति, न हि विकल्पेन ।
दृढतम / द्रढिष्ठ
“एते सर्वे दृढाः, एतेषु अयम् अतिशयेन दृढः” अस्मिन् अर्थे दृढ-शब्दात् ५.३.५५ अतिशायने तमबिष्ठनौ इत्यनेन तमप् तथा इष्ठन् प्रत्ययौ भवतः । दृढ + तम → दृढतम । इष्ठन्-प्रत्यये परे तु प्रक्रियायाम् ६.४.१६१ र ऋतो हलादेर्लघोः इति सूत्रेण ऋकारस्य रेफादेशः भवति — दृढ + इष्ठन् → दृढ + इष्ठ → द्रढ + इष्ठ → द्रढ् + इष्ठ → द्रढिष्ठ । अस्य प्रथमैकवचनम् द्रढिष्ठः इति । दृढिष्ठः इति शब्दः असाधु । रेफादेशः नित्यं भवति, न हि विकल्पेन ।
ऋकारस्य रेफः
६.४.१६१ र ऋतो हलादेर्लघोः — यः शब्दः हलादिः अस्ति, यस्मिन् विद्यमानः ऋकारः लघुसंज्ञकः अस्ति, तादृशस्य शब्दस्य ऋकारस्य इष्ठन्/इमनिच्/ईयसुन् एतेषु त्रिषु प्रत्ययेषु परेषु रेफादेशः भवति । णिच्-प्रत्यये परे अपि इष्ठवद्भावेन रेफादेशः अवश्यं भवति ।
दृढ इति शब्दः हलादिः अस्ति, अस्मिन् शब्दे विद्यमानः ऋकारः लघुसंज्ञकः अस्ति, अतः अस्य शब्दस्य ऋकारस्य एतेषु त्रिषु प्रत्ययेषु परेषु रेफादेशे कृते द्रढिष्ठ,द्रढिमा, द्रढीयान्, द्रढयति — इति रूपाणि सिद्ध्यन्ति ।
- ऋजु इति शब्दः हलादिः नास्ति, अतः अस्य विषये इदं सूत्रं न प्रवर्तते । ऋजु + इष्ठन् → ऋजिष्ठ ।
- कृष्ण इति शब्दे लघुसंज्ञकः ऋकारः नास्ति, अतः अस्य विषये अपि इदं सूत्रं न प्रवर्तते । कृष्ण + इमनिच् → कृष्णिमन् ।
वस्तुतस्तु, ६.४.१६१ र ऋतो हलादेर्लघोः इत्यत्र “पृथुमृदुभृशकृशदृढ-परिवृढानामेव रत्वम्” इति वार्त्तिकं विद्यते । अस्मिन् सन्दर्भे काशिकायाम् उच्यते —
परिगणनमत्र कर्तव्यम्। पृथुं मृदुं भृशं च एव कृशं च दृढम् एव च। परिपूर्वं वृढं च एव षडेतान् रविधौ स्मरेत्। ततः इह न भवति, कृतमाचष्टे कृतयति। मातरमाचष्टे मातयति। भ्रातयति ।
एतेषां षण्णाम् शब्दानां विषये एव रत्वं भवति इति आशयः ।
द्रढयति
( सनादिप्रत्ययान्तधातोः निर्मितं तिङन्तम्) — दृढं करोति इत्यस्मिन् अर्थे दृढ-शब्दात् “तत्करोति तदाचष्टे” इति गणसूत्रेण णिच् इति सनादिप्रत्ययः विधीयते । णिच्-प्रत्यये परे “णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम्” इति वार्त्तिकेन, उत “प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च” इति गणसूत्रेण इष्ठन्-प्रत्ययसदृशी प्रक्रिया भवति (इष्ठवद्भावः भवति इत्याशयः) । इत्युक्ते, “दृढ + णिच्” इत्यत्र ६.४.१६१ र “ऋतो हलादेर्लघोः” इति सूत्रेण ऋकारस्य रेफादेशः भवति, ततः “६.४.१५५ टेः” इति टिलोपः अपि भवति —
दृढ + णिच् → दृढ + इ → द्रढ + इ → द्रढ् + इ → द्रढि । ३.१.३२ सनाद्यन्ता धातवः इति धातुसंज्ञा । अग्रे लटि शबादिषु कृतेषु द्रढयति इति प्रथमपुरुषैकवचने रूपम् । दृढयति इति असाधुः । रेफादेशः नित्यं भवति, न हि विकल्पेन ।