अभूततद्भावः = पूर्वम् अविद्यमानस्य विकारस्य पदार्थे आरोपणम् । यथा — मृत्तिकया निर्मिते घटे चित्रणेन शुक्लत्वस्य आरोपणम् । घटे पूर्वं शुक्लत्वं नासीत् परन्तु इदानीं शुक्लत्वं जातम् — इति अर्थः । अस्यैव अर्थस्य निर्देशार्थम् “सम्पद्यते” इति क्रियापदं प्रयुज्यते । अशुक्लः शुक्लः सम्पद्यते — इति वाक्यप्रयोगः ।
अभूततद्भावस्य निर्देशार्थम् कृ/भू/अस् - एतेषां धातूनां योगे विकारवाचिशब्दात् (इत्युक्ते, “शुक्ल” इत्येतादृशात् शब्दात्) ५.४.५० अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः इति सूत्रेण च्वि-प्रत्ययः भवति । प्रक्रियायां च्वि-प्रत्ययस्य सम्पूर्णः लोपः भवति, ततश्च “शुक्ल”शब्दस्य अन्तिम-अकारस्य “७.४.३२ अस्य च्वौ” इति ईकारादेशः भवति । शुक्ल + च्वि → शुक्ल + ० → शुक्ली ।
च्वि-प्रत्ययः केवलम् कृ/भू/अस्-धातोः उपस्थितौ एव विधीयते । यथा — अशुक्लः घटः शुक्लः सम्पद्यते = घटः शुक्ली भवति ।
देवदत्तः अशुक्लं घटं शुक्लं सम्पादयति = देवदत्तः घटं शुक्ली करोति । अशुक्लः घटः शुक्लः सम्पद्येत = घटः शुक्ली स्यात् ।
एवमेव — स्पष्टीकृत्य, दूरीभवति, उष्णीभूतम्, — आदयः प्रयोगाः ज्ञेयाः ।
केवलं “कृ/भू/अस्” धातोः रूपस्य उपस्थितौ एव च्वि-प्रत्ययः विधीयते । अन्येषाम् धातुनाम् उपस्थितौ न । अतः स्पष्टी भासते / स्पष्टी वर्तते इत्यादयः असाधुप्रयोगाः ।
च्वि-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः सन्ति । अतः सर्वत्र शुक्ली इत्येव वक्तव्यम् । शुक्लीं करोति इति असाधु ।
च्वि-प्रत्ययान्तशब्दाः पदसंज्ञकाः सन्ति । अतः “शुक्ली करोति” इत्यत्र पदद्वयम् । “शुक्लीकृत्य” इत्यत्र तु गतिसमासः, अतः एकमेव पदम् ।