चरित्र

चरित्र-चारित्र-चारित्र्यादयः शब्दाः

चरित्रम्

चरित्रम् = व्यवहारः, आचरणम्, शीलम्, स्वभावः ।

मया निगाद्यं जगपतीनां गोत्रं चरित्रं च विचित्रमेषाम्
—‌ नैषधीयचरितम् ।

स्वप्रसूतिं चरित्रं च
कुलमात्मानमेव च
— मनुस्मृतिः ।

एतद्देशप्रसूतस्य
सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन्
पृथिव्यां सर्वमानवाः
— मनुस्मृतिः ।

चारित्रम्

चारित्रम् = चरित्रम् इत्येव । चरित्र + स्वार्थे अण् । अथवा चरँ (गतौ) + इत्रन् इति उणादिप्रत्ययः । एतादृशम् एकस्यैव शब्दस्य भिन्नाः व्युत्पत्तयः कुत्रचित् सम्भवन्ति । तत्र वैयाकरणानाम् मतान्तराणि इति एकम् कारणम्, तथा च भिन्नेषु प्रदेशेषु वर्तमानानाम् उदात्त-अनुदात्तादि- उच्चारणप्रभेदानां निर्देशः इति अपरं कारणम् ।

चारित्रेण च को युक्तः,
सर्वभूतेषु को हितः ? —‌ रामायणम् ।

चारित्रं येन मे लोके
दूषितं दूषितात्मना
— हरिवंशः ।

कुलाक्रोशकरं लोके
धिक् ते चारित्रमीदृशम्
— रामायणम् ।

चारित्र्यम्

चारित्र्यम् = चरित्रम् इत्येव । चरित्र + स्वार्थे ष्यञ् । सद्व्यवहारादिषु अर्थेषु अस्य प्रयोगः भवति ।

चारित्र्येण विहीन आढ्योऽपि च दुर्गतो भवति — मृच्छकटिकम् ।

चरितम्

चरितम् इति शब्दः भिन्नेषु अर्थेषु प्रयुज्यते । तत्र “चरित्रम्” इति एकः अर्थः, “आचरणम् / स्वभावः” इति अपरः अर्थः ।

चरित्रार्थे —

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् — रामरक्षा विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ‌— शाकुन्तलम्

स्वभावार्थे —

उदारचरितानां तु वसुधैव कुटुम्बकम् ‌— हितोपदेशः