Source: TW
“अनुकम्पा” इत्यस्मिन् अर्थे प्रत्ययविधानम्
[[२२२]]
अनुकम्पा = Compassion / Sympathy / pity
अनुकम्पां प्राप्तः देवदत्तः (Devadatta who has recieved sympathy) अस्य अर्थस्य निर्देशार्थम् “देवदत्त” इति शब्दात् चत्वारः तद्धितप्रत्ययाः भवितुम् अर्हन्ति —
५.३.७६ अनुकम्पायाम् क
५.३.७८ बह्वचो मनुष्यनाम्नष्ठज्वा ठच् (= इक)
५.३.७९ घनिलचौ च घन् (= इय) , इलच् (= इल)
५.३.८३ ठाजादावूर्ध्वं द्वितीयादचः — अनुकम्पायाम् गम्यमानायाम् यत्र ठच्, घन्, इलच् प्रत्ययाः विधीयन्ते, तत्र प्रक्रियायाम् प्रकृतौ विद्यमानात् द्वितीयात् अच्-वर्णात् अनन्तरं विद्यमानस्य शब्दखण्डस्य लोपः भवति ।+++(5)+++
अनुकम्पितः देवदत्तः =
देवदत्त + ठच् → देव + इक → देविक ।
देवदत्त + इय → देव + इय → देविय ।
देवदत्त + इल → देव + इल → देविल ।
देवदत्त + क → देवदत्तक ।
“देवदत्त”वाचकानि अन्यानि पदानि
५.३.८३ ठाजादावूर्ध्वं द्वितीयादचः इति सूत्रे कानिचन वार्त्तिकानि अपि पाठ्यन्ते — अनजादौ विभाषा लोपः वक्तव्यः — पूर्वं निर्दिष्टं लोपकार्यम् “क” प्रत्यये परे विकल्पेन भवति ।
अनुकम्पितः देवदत्तः = देवदत्त + क → देव + क → देवक । पक्षे देवदत्तक इत्यपि भवति ।
लोपं पूर्वपदस्य च — पूर्वं निर्दिष्टं लोपकार्यम् उत्तरपदस्य अपेक्षया पूर्वपदस्य विषये अपि भवति !
अनुकम्पितः देवदत्तः =
देवदत्त + ठच् → दत्त + इक → दत्तिक ।
देवदत्त + इय → दत्त + इय → दत्तिय ।
देवदत्त + इल → दत्त + इल → दत्तिल ।
देवदत्त + क → दत्त + क → दत्तक ।
विनापि प्रत्ययेन पूर्वोत्तरयोः विभाषा लोपः — प्रत्ययः नास्ति चेदपि पूर्वपदस्य, उत्तरपदस्य लोपः अवश्यं सम्भवति !
देवदत्तः = देवः ।
देवदत्तः = दत्तः ।
“देवदत्त”वाचकानि द्वादश पदानि
प्रत्ययः पूर्वपदस्य लोपः उत्तरपदस्य लोपः लोपस्य अभावः
क दत्तकः देवकः देवदत्तकः
ठच् (इक) दत्तिकः देविकः -
घन् (इय) दत्तियः देवियः -
इलच् (इल) दत्तिलः देविलः -
- दत्तः देवः देवदत्तः
सिद्धान्तकौमुदी