खरि सः
विसर्गात् अनन्तरम् यत्र खर्-वर्णः (कर्कशव्यञ्जनम्) विद्यते, तत्र “८.३.३५ विसर्जनीयस्य सः” इति सूत्रेण विसर्गस्य सकारादेशः भवति । यथा — रामः तिष्ठति → रामस्तिष्ठति ।
शरि विकल्पः
परन्तु, तत् कर्कशव्यञ्जनम् यदि शर्-वर्णः (श् / ष् / स् एतेषु कश्चन एकः वर्णः) अस्ति, तर्हि ८.३.३६ वा शरि इत्यनेन सः सकारादेशः विकल्प्यते । यथा — रामः सहते → रामःसहते, रामस्सहते ।
खर्परे शरि लोपो वा
किञ्च, यदि तस्मात् शर्-वर्णात् अनन्तरम् अव्यवहितरूपेण खर्-वर्णः (कर्कशव्यञ्जनम्) विद्यते, तर्हि तस्मिन्नेव सूत्रे पाठितेन “खर्परे शरि विसर्गलोपो वक्तव्यः” इति वार्त्तिकेन विसर्गस्य विकल्पेन लोपः अपि भवति ।
यथा — दुः + स्थितिः → दुस्थितिः, दुस्स्थितिः, दुःस्थितिः ।
अनेन प्रकारेण, यत्र “विसर्गः + स्/श्/ष् + कर्कशव्यञ्जनम्” इति स्थितिः विद्यते, तत्र आहत्य त्रीणि रूपाणि सिद्ध्यन्ति —
- विसर्गस्य लोपे एकम्,
- विसर्गस्य सकारादेशे द्वितीयम्,
- विसर्गस्य प्रकृतिभावे तृतीयम् ।
विसर्गलोपस्य कानिचन उदाहरणानि —
- मनः + स्थितिः → मनस्थितिः, मनस्स्थितिः, मनःस्थितिः ।
- निः + स्पृहः → निस्पृहः, निस्स्पृहः, निःस्पृहः।
- दुः + स्पर्शः → दुस्पर्शः, दुस्स्पर्शः, दुःस्पर्शः ।
- वयः + स्तरः → वयस्तरः, वयस्स्तरः, वयःस्तरः ।
- वक्षः + स्थलम् → वक्षस्थलम्, वक्षस्स्थलम्, वक्षःस्थलम् ।
- अप्सरः + स्त्रियः → अप्सरस्त्रियः, अप्सरस्स्त्रियः, अप्सरःस्त्रियः ।
- मनः + स्थैर्यम् → मनस्थैर्यम्, मनस्स्थैर्यम्, मनःस्थैर्यम् ।
- मनः + स्तुतिः → मनस्तुतिः, मनस्स्तुतिः, मनःस्तुतिः ।
खर्परे शरि विसर्गलोपो वक्तव्यः इति वार्त्तिकेन विसर्गस्य विकल्पेन लोपः तदा एव भवति यदा विसर्गात् अनन्तरम् शर्-वर्णः, तस्मात् अनन्तरम् च खर्-वर्णः विद्यते । तादृशं नास्ति चेत् विसर्गलोपः न सम्भवति ।
यथा, “दुः + स्वप्नम्” इत्यत्र सकारात् अनन्तरम् विद्यमानः वकारः खर्-वर्णः नास्ति, अतः अत्र अस्य वार्त्तिकस्य प्रसक्तिः नैव विद्यते । अतः केवलं “८.३.३६ वा शरि” इत्यनेन पाक्षिके सकारादेशे कृते “दुस्स्वप्नम्” , “दुःस्वप्नम्” इति रूपद्वयमेव सिद्ध्यति । एवमेव अन्यानि अपि कानिचन प्रत्युदाहरणानि —
- दुः + स्वप्नः → दुःस्वप्नः, दुस्स्वप्नः । दुस्वप्नः इति अनुचितम् । अत्र वकारः खर्-वर्णः नास्ति ।
- पुनः + श्लाघनम् → पुनःश्लाघनम्, पुनश्श्लाघनम् । पुनश्लाघनम् इति अनुचितम् । अत्र लकारः खर्-वर्णः नास्ति ।
- हविः + श्रेष्ठः → हविःश्रेष्ठः, हविश्श्रेष्ठः । हविश्रेष्ठः इति अनुचितम् । अत्र रेफः खर्-वर्णः नास्ति ।
- शिरः + स्नानम् → शिरःस्नानम्, शिरस्स्नानम् । शिरस्नानम् इति अनुचितम् । अत्र नकारः खर्-वर्णः नास्ति ।
- पयः + स्यन्दः → पयःस्यन्दः, पयस्स्यन्दः । पयस्यन्दः इति अनुचितम् । अत्र यकारः खर्-वर्णः नास्ति ।
- पुनः + स्मरणम् → पुनःस्मरणम्, पुनस्स्मरणम् । पुनस्मरणम् इति अनुचितम् । अत्र मकारः खर्-वर्णः नास्ति ।
रेफस्य उत्वम्
ह्रस्व-अकारात् परस्य पदान्तसकारस्य “८.२.६६ ससजुषो रुः” इत्यनेन रुत्वे कृते तस्मात् अनन्तरं यदि मृदुव्यञ्जनं विद्यते, तर्हि
रुँ इत्यस्य आदौ “६.१.११४ हशि च” इत्यनेन उकारादेशः भवति,
ततः अकार-उकारयोः “६.१.८७ आद्गुणः” इत्यनेन ओकारादेशः अपि विधीयते । यथा —
- मनस् + रथः → मनरुँ रथः → मनउ रथः → मनोरथः ।
- एवमेव, “मनस् + हारिणी → मनोहारिणी”,
- “मनस् + रञ्जनम् → मनोरञ्जनम्” इत्यत्रापि ।
परन्तु, यदि रुँ-इत्यस्मात् अनन्तरम् मृदुव्यञ्जनं नास्ति, तर्हि रुँ-इत्यस्य उकारादेशः न भवति (अपितु विसर्गादेशः भवति) । अतः तत्र गुणैकादेशे कृते ओकारः अपि न सम्भवति । एतादृशेषु स्थलेषु ओकारस्य उच्चारणं दोषाय एव । यथा —
- वयस् + प्रमाणम् → वयःप्रमाणम् । वयोप्रमाणम् इति अनुचितम् । पकारः मृदृव्यञ्जनं न ।
- मनस् + स्थितिः → मनःस्थितिः / मनस्स्थितिः / मनस्थितिः । मनोस्थितिः इति अनुचितम् । सकारः मृदुव्यञ्जनं न ।
- अयस् + पट्टिका → अयःपट्टिका । अयोपट्टिका इति अनुचितम् । पकारः मृदृव्यञ्जनं न ।
- नमस् + सर्वेभ्यः → नमःसर्वेभ्यः / नमस्सर्वेभ्यः । नमो सर्वेभ्यः इति अनुचितम् । सकारः मृदुव्यञ्जनं न ।
- मनस् + कामना → मनःकामना । मनोकामना इति अनुचितम् । ककारः मृदुव्यञ्जनं न ।
रेफलोपे इवर्णस्य / उवर्णस्य दीर्घः
इवर्णात् / उवर्णात् अनन्तरम् विद्यमानस्य रेफस्य अव्यवहिते रेफे परे आदौ ८.३.१४ रो रि इत्यनेन लोपः भवति, ततः (लुप्त)रेफात् पूर्वम् विद्यमानस्य इकारस्य / उकारस्य च दीर्घः भवति । यथा —
- निर्गतः रसः यस्मात् सः = निर् + रस = नि + रस → नीरस ।
- निर्गतः रोगः यस्मात् सः = निर् + रोगः = नि + रोग → नीरोग ।
नीरोगी इति पदम् प्रान्तीयभाषासु प्राचुर्येण प्रयुज्यते, परन्तु संस्कृते तस्य प्रयोगः न भवति । कथञ्चित् वृत्तिद्वयेन अस्य साधुत्वं वक्तुं शक्यम् (निर्गतः रोगः नीरोगः, नित्यं नीरोगः अस्य अस्ति सः नीरोगी इति) परन्तु तादृशाः प्रयोगाः न सन्ति ।