समानपदे
८.४.१ रषाभ्यां नो णः समानपदे, ८.४.२ अट्कुप्वाङ्नुम्व्यवायेऽपि, ऋवर्णान्नस्य णत्वं वाच्यम् (वार्त्तिकम्) — पदे विद्यमानेन रेफेण / षकारेण / ऋवर्णेन तस्मिन्नेव पदे अव्यवहितरूपेण, अट्/कु/पु/आङ्/नुम्-इत्येतेषां व्यवधानात् अनन्तरं वा विद्यमानस्य नकारस्य णकारादेशः भवति । यथा — चतुर्णाम्, पुष्णाति, रामेण, पुष्पाणि, पितॄणाम् ।
संज्ञायां समासे
८.४.३ पूर्वपदात् संज्ञायामगः — संज्ञावाचकशब्देषु पूर्वपदे विद्यमानेन रेफेण / षकारेण उत्तरपदे विद्यमानस्य नकारस्य णत्वं भवितुम् अर्हति । यथा — शूर्पणखा (शूर्पाः इव नखाः यस्याः), रामायणम् ।
वा *+पाने
८.४.१० वा भावकरणयोः — भावार्थे, करणार्थे च प्रयुक्तः यः “पान”शब्दः, तस्य नकारस्य पूर्वपदे विद्यमानस्य रेफस्य / षकारस्य उपस्थितौ विकल्पेन णत्वं भवति । क्षीरपाणम्, क्षीरपानम् । क्षीरपाणः कंसः, क्षीरपानः कंसः ।
वा प्रातिपदिकान्तनुम्विभक्तिषु
८.४.११ प्रातिपदिकान्तनुम्विभक्तिषु च — पूर्वपदे विद्यमानेन रेफेण / षकारेण प्रातिपदिकान्ते विद्यमानस्य नकारस्य, नुमागमस्य नकारस्य, तथा च विभक्तिप्रत्ययस्य नकारस्य विकल्पेन णत्वं सम्भवति । यथा, माषवापिणौ/माषवापिनौ । व्रीहिवापाणि/व्रीहिवापानि । माषवापेण, माषवापेन ।
उपसर्गादसमासेऽपि
८.४.१४ उपसर्गादसमासेऽपि णोपदेशस्य — णोपदेशधातोः आदिस्थस्य नकारस्य रेफयुक्त-उपसर्गस्य उपस्थितौ णत्वं भवति । प्रणमति । प्रणीतः ।
त्रिनाशः
एतेभ्यः कोऽपि नियमः (अन्यः वा कश्चन नियमः) “त्रिनाश” शब्दस्य विषये न प्रवर्तते । अतः अस्मिन् शब्दे विद्यमानस्य नकारस्य णत्वं न भवति ।