भावस्य निर्देशार्थम् “त्व”,“तल्” (ता), “ष्यञ्” इति भिन्नाः तद्धितप्रत्ययाः प्रयुज्यन्ते । यथा, मधुरस्य भावः = मधुरत्वम्, मधुरता, माधुर्यम् । एवमेव, अनुकूलस्य भावः = अनुकूलत्वम्, अनुकूलता उत आनुकूल्यम् ।
एतेषाम् शब्दानाम् नञ्-समासः यदा क्रियते, तदा “६.३.७३ नलोपो नञः” इति सूत्रेण आदौ नकारस्य लोपः भवति ततः “६.३.७४ तस्मान्नुडचि” इत्यनेन शब्दादौ विद्यमानात् अकारात् / आकारात् पूर्वं नुडागमः क्रियते ।
- न आनुकूल्यम् → न् अ आनुकूल्यम् → ० अ आनुकूल्यम् → अ न् आनुकूल्यम् → अनानुकूल्यम् ।
- “अननुकूल्यम्” इति अनुचितम् । मूलशब्दः आकारादिः अस्ति इति स्मर्तव्यम् ।
- एवमेव — न अनुकूलता = अननुकूलता । न अनुकूलत्वम् = अननुकूलत्वम् ।
- “अनानुकूलता, अनानुकूलत्वम्” इति अनुचितम् । मूलशब्दः अकारादिः अस्ति इति स्मर्तव्यम् ।
एक एव भाववाचकः
एकस्मिन् समये केवलम् एकः एव भावनिर्देशकप्रत्ययः प्रयोक्तव्यः । अतः आनुकूल्यत्वम् / आनुकूल्यता / अनुकूलत्वता इति असाधु ।