सामर्थ्यम्

समासवृत्तिः

समसनम् = समासः । द्वयोः बहूनां वा पदानां एकीभवनेन नूतने अर्थे नूतनं पदं यत्र सिद्ध्यति तत्र समासः अस्ति इति उच्यते । यथा — सीतायाः पतिः सीतापतिः — इत्यत्र “सीतायाः”, तथा “पतिः” इति द्वयोः पदयोः एकत्रीकरणेन “सीतापतिः” इति नूतनं पदं पृथक् अर्थे सिद्ध्यति । अतः अयं समासः ।

सामर्थ्यम्

समासः केवलं परस्परान्वितयोः पदयोः मध्ये एव भवति । आकाङ्क्षादिवशात् विद्यमानः परस्परसम्बन्धः एव “सामर्थ्यम्” नाम्ना ज्ञायते । अतः समासनिर्माणार्थम् सामर्थ्यम् आवश्यकम् ।

सीतायाः पतिः गच्छति → अत्र “सीतायाः” तथा “पतिः” एतयोः मध्ये परस्परसम्बन्धः / सामर्थ्यं विद्यते अतः अत्र समासः भवति — सीतापतिः गच्छति ।

देवरः सीतायाः, पतिः ऊर्मिलायाः → अत्र सीतायाः इत्यस्य “देवरः” इत्यनेन एव अन्वयः, न हि “पतिः” इत्यनेन सह, अतः अत्र सामर्थ्यस्य अभावात् समासः न सम्भवति, इत्युक्ते अत्र देवरः सीतापतिः ऊर्मिलायाः इति प्रयोगः न करणीयः ।

जानक्याः सीतायाः पतिः गच्छति → अत्र सीतायाः इत्यस्य “जानक्याः” इत्यनेन अन्वयः, ततश्च “जानक्याः सीतायाः” इति सर्वस्य “पतिः” इत्यनेन अन्वयः । इत्युक्ते, “पतिः” इत्यस्य केवलम् “सीतायाः” इत्यनेन सह सम्पूर्णः अन्वयः नास्ति । अतः अत्रापि सामर्थ्यस्य अभावात् एकदेशेन सह (अवयवेन सह) समासः न सम्भवति, इत्युक्ते अत्र जानक्याः सीतापतिः गच्छति इति न प्रयोक्तव्यम् ।

असमर्थसमासः

यद्यपि समासविध्यर्थं सामर्थ्यम् आवश्यकम्, तथापि कुत्रचित् सामर्थ्यं विना समासः कृतः दृश्यते । एतादृशः समासः असमर्थसमासः नाम्ना ज्ञायते । येन पदेन सह अन्वयः नास्ति, तेन सह अपि समासः भवति इत्याशयः । अयं समासः पृथक् भेदरूपेण न परिगण्यते, अपितु प्रयुक्तानाम् विशिष्टशब्दानाम् साधुत्वज्ञापनम् एव अस्य प्रयोजनम् ।

अस्य त्रीणि उदाहरणानि “१.१.४३ सुडनपुंसकस्य” इत्यत्र भाष्यकारेण दत्तानि सन्ति । तत्र भाष्यकारः ब्रूते —‌

असमर्थसमासश्चायं द्रष्टव्यः … असूर्यंपश्यानि मुखानि । अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मण इति ।

  • “३.२.३६ असूर्यललाटयोर्दृशितपोः” इति सूत्रेण “असूर्य” इति उपपदस्य उपस्थितौ “दृश्” धातोः “खश्” इति कृत्प्रत्ययः भवति, येन असूर्यम्पश्यः इति शब्दः सिद्ध्यति ।
    • अत्र “असूर्य” इति असमर्थसमासः, यतः “नञ्” इत्यस्य अन्वयः “पश्यति” इत्यनेन सह विद्यते, न हि “सूर्यः” इत्यनेन । अतएव — असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः‌ — इति सिद्धान्तकौमुदी ।
  • अपुनः गेयः सः अपुनर्गेयः श्लोकः । अत्र “नञ्” इत्यस्य अन्वयः “गेयः” इत्यनेन सह वर्तते, तथापि समासः “पुनः” इत्यनेन सह कृतः अस्ति ।
  • अश्राद्धं भुङ्क्ते इति शीलमस्य सः अश्राद्भभोजी ब्राह्मणः । ३.२.७८‌ सुप्यजातौ णिनिस्ताच्छील्ये इति णिनिप्रत्ययः । अत्रापि नञ्” इत्यस्य अन्वयः “भुङ्क्ते” इत्यनेन सह वर्तते, तथापि समासः “श्राद्ध” इत्यनेन सह कृतः अस्ति ।

एकदेशान्वयः

सविशेषणानां वृत्तिर् न,
वृत्तस्य वा विशेषणयोगो न
— २.१.१ समर्थः पदविधिः इत्यत्र भाष्यकारः ।

विशेषणेन सह विद्यमानः शब्दः समासे भागं न गृह्णाति इति आशयः । यथा —

“सीतायाः पतिः गच्छति” इत्यत्र “सीतायाः पतिः = सीतापतिः” इति समासः अवश्यं भवति । परन्तु “जानक्याः सीतायाः पतिः गच्छति” इत्यस्मिन् वाक्ये “सीतायाः” इति शब्दस्य “जानक्याः” इति विशेषणेन सह एव प्रधानः सम्बन्धः वर्तते । ततः, “जानक्याः सीतायाः” इत्यस्य पदसमुदायस्य “पतिः” इत्यनेन सम्बन्धः वर्तते । इत्युक्ते, केवलम् “सीतायाः” इत्यस्य एकदेशस्य (अवयवस्य) “पतिः” इत्यनेन सम्पूर्णः अन्वयः नास्ति । अतः अत्र समासः न सम्भवति, इत्युक्ते अत्र “जानक्याः सीतापतिः गच्छति” इति न प्रयोक्तव्यम् ।

एवमेव, “राज्ञः मातङ्गः” इत्यत्र “राजमातङ्गः” इति समासः सम्भवति, परन्तु “ऋद्धस्य राज्ञः मातङ्गः” इत्यत्र विशेषणस्य उपस्थितौ समासः न क्रियते, अतः ऋद्धस्य राजमातङ्गः इति न सिद्ध्यति ।

यत्र कस्यचन शब्दस्य पदसमुदायेन सह सम्बन्धः विद्यते तत्र सः शब्दः तस्य पदयुगलस्य एकेन एव शब्देन (एकदेशेन) नैव समस्यते — इति आशयः ।

नित्यसापेक्षेष्व् अपवादः

नित्यसापेक्षः शब्दः = सः शब्दः यस्य उच्चारणात् “कस्य” इति जिज्ञासा भवति । यथा - गुरुः, शिष्यः, पतिः, पत्नी, भक्तः, स्वामी… । नित्यसापेक्षः शब्दः सर्वदा अन्यपदम् अवश्यम् एव अपेक्षते — इत्याशयः ।

तत्पुरुषसमासे उत्तरपदम् तु नित्यसापेक्षम् एव विद्यते । अतएव पूर्वपदेन सह तस्य अन्वयः सम्भवति । यथा, सीतायाः पतिः = सीतापतिः । राज्ञः पुरुषः = राज्ञपुरुषः ।

कुत्रचित् तु, पूर्वपदम् अपि नित्यसापेक्षं भवति । यथा — “गुरोः कुलम् = गुरुकुलम्” इत्यत्र उत्तरपदम् (कुलम्) इति तु नित्यसापेक्षम् अस्ति एव, परन्तु पूर्वपदम् (गुरुः) इति अपि नित्यसापेक्षम् अस्ति । अतः अत्र “देवदत्तस्य गुरोः कुलम्” इति सम्पूर्णम् वाक्यम् । इत्युक्ते, अत्र “कुलम्” इति शब्दः वस्तुतः “देवदत्तस्य गुरोः” इति पदसमुदायेन सह अन्वेति । अतः वस्तुतः अत्र अपि “गुरोः” तथा “कुलम्” एतयोर्मध्ये समासः न भवेत् ।

भर्तृहरिणा वाक्यपदीये कश्चन सिद्धान्तः प्रोक्तः अस्ति —

सम्बन्धिशब्दः सापेक्षः
नित्यं सर्वः समस्यते

इति ।

विग्रहवाक्येन यादृशस्य अर्थस्य बोधः, तादृशः एव अर्थ यदि समस्तपदेन प्राप्यते, तर्हि नित्यसापेक्षस्थलेषु अपि एकदेशान्वयः अङ्गीक्रियते — इति अस्य अर्थः ।

अतएव, “देवदत्तस्य गुरोः कुलम्” इत्यत्र “कुलम्” इति शब्दस्य यद्यपि “देवदत्तस्य गुरोः” इत्यनेन सह अन्वयः, तथापि, तस्य एकदेशेन, इत्युक्ते “गुरोः” इति एकेनैव शब्देन सह “कुलम्” शब्दस्य समासे कृते अपि अर्थभेदः न जायते, अतः तादृशः समासः अवश्यं सम्भवति, येन “देवदत्तस्य गुरुकुलम्” इति प्रयोगः सिद्ध्यति ।

पूर्वपदं नित्यसापेक्षम् अस्ति चेदपि तेन सह (इत्युक्ते, पदसमूहस्य एकदेशेन सह) उत्तरपदस्य समासः (अर्थभेदे असति) अवश्यं सम्भवति — इत्याशयः ।

एवमेव —

  • देवदत्तस्य गुरोः पुत्रः = देवदत्तस्य गुरुपुत्रः ।
  • देवदत्तस्य दासस्य भार्या = देवदत्तस्य दासभार्या ।
  • देवदत्तस्य पितुः कुलम् = देवदत्तस्य पितृकुलम् ।
  • पत्रिकायाः पठनस्य अनन्तरम् = पत्रिकायाः पठनानन्तरम् ।
  • भवतः आगमनस्य अनन्तरम् = भवतः आगमनानन्तरम् ।

सापेक्षोऽपि समस्यत इत्येका।
प्रधानपदार्थस्यैव कुलादेर् गुर्वादिनेव देवदत्तादिनाऽपि सम्बन्धः।
स च गुरुणा सह उत्पत्तिगर्भः।
देवदत्तेन सह तु तदीयगुरूत्पाद्यत्वरूपो गुरुघटित इति द्वितीया विधा।
उक्तं च हरिणा—

सम्बन्धिशब्दः सापेक्षो
नित्यं सर्वः समस्यते।
वाक्यवत् सा व्यपेक्षा हि
वृत्तावपि न हीयते॥

इति॥

समुदायेन सम्बन्धो
येषां गुरुकुलादिना।
संस्पृश्यावयवांस्ते तु
युज्यन्ते तद्वता सह॥

१.१.२४ ष्णान्ता षट् इत्यत्र प्रौढमनोरमा