निर्धारणे षष्ठी, सप्तमी
Source: TW
२८३
निर्धारणम् = समुदायात् एकस्य (जातेः / गुणस्य / क्रियायाः / संज्ञायाः आधारेण) पृथक्करणम् ।
एतादृशेषु स्थलेषु समुदायवाचकशब्दस्य नित्यं षष्ठीविभक्तिः उत सप्तमीविभक्तिः भवति — इति २.३.४१ यतश्च निर्धारणम्
इति सूत्रस्य आशयः ।+++(5)+++
जातिगुणक्रियासंज्ञाभिः समुदायात् एकस्य पृथक् करणम् निर्धारणम् यतः ततः षष्ठीसप्तम्यौ स्तः — इति कौमुदी ।
यथा — नृणां नृषु वा द्विजः श्रेष्ठः । गोषु कपिला सम्पन्नक्षीरतमा । गच्छतां गच्छत्सु वा धावन् शीघ्रतमः । महर्षीणां महर्षिषु वा भृगुः श्रेष्ठः ।
२.२.८ षष्ठी
इति सूत्रेण षष्ठ्यन्तस्य पदस्य समर्थेन सुबन्तेन सह सामान्यरूपेण षष्ठीतत्पुरुषसमासः भवितुम् अर्हति ।
परन्तु, यदि षष्ठ्यन्तं पदं निर्धारणे उपयुज्यते,
तर्हि २.२.१० न निर्धारणे
इति सूत्रेण षष्ठीसमासः निषिध्यते ।
अतः नृणां द्विजः इत्यत्र समासः न भवति ।
निर्धारणे या षष्ठी सा न समस्यते — इति कौमुदी । +++(4)+++
२.१.४० सप्तमी शौण्डैः
इति सूत्रेण सप्तम्यन्तं पदं केवलं शौण्डादिगणे विद्यमानेन पदेन सह एव समस्यते ।
शौण्डादिगणे केवलं उपदशाः एव शब्दाः सन्ति ।
तत्र द्विजशब्दः न विद्यते, अतः नृषु द्विजः इत्यत्र सप्तमीतत्पुरुषसमासः अपि न सम्भवति ।
पुरुषोत्तमः
तर्हि पुरुषाणाम् उत्तमः / पुरुषेषु उत्तमः = पुरुषोत्तमः अत्र समासः कथम् ? — इति प्रश्नः ।
पुरुषोत्तमः इति षष्ठीतत्पुरुषः, परन्तु “पुरुषाणाम्” परन्तु इयं निर्धारणषष्ठी न ।
१ पुरुषोत्तमः इति षष्ठीतत्पुरुषः, अत्र “पुरुषाणाम्” इति निर्धारणषष्ठी एव ।
२ पुरुषोत्तमः इति सप्तमीतत्पुरुषः, परन्तु अत्र सप्तमी शौण्डैः इति सूत्रं न प्रवर्तते ।
३ पुरुषोत्तमः इति सप्तमीतत्पुरुषः, अत्र सप्तमी शौण्डैः इत्येव सूत्रम् ।
४ पुरुषोत्तमः इति षष्ठीतत्पुरुषः अपि नास्ति, सप्तमीतत्पुरुषः अपि नास्ति ।
५
यत्र “समूहः, तस्य अवयवः, पृथक्करणस्य हेतुः” इति त्रयः घटकाः सन्ति, तत्रैव निर्धारणषष्ठी स्वीकर्तव्या, न हि अन्येषु स्थलेषु — इति ५.३.५७ द्विवचनविभज्योपपदे तरबीयसुनौ इत्यस्मिन् सूत्रे कैयटः स्पष्टीकरोति ।
यथा, “नृणां द्विजः श्रेष्ठः” इत्यत्र समूहः = नृणाम् । अवयवः = द्विजः । हेतुः = श्रेष्ठत्वज्ञापनम् । अतः अत्र निर्धारणषष्ठी स्वीक्रियते ।
परन्तु “पुरुषेषु उत्तमः” इत्यत्र केवलं समूहः, अवयवः च विद्यते; न हि हेतुः । अतः अत्र निर्धारणषष्ठी एव न । अत्र शेषषष्ठी एव स्वीकर्तव्या । तथा क्रियते चेत् षष्ठीसमासनिर्माणे न कश्चन दोषः ।
यस्मात् निर्धार्यते, यश्चैकदेशो निर्धार्यते; यश्च निर्धारणहेतुः - एतत्त्रितयसन्निधाने निर्धारणं भवति इति तत्रैव षष्ठीसमासप्रतिषेधः ।
इह तु नागानामुत्तमो इति त्रयनिधानसन्निधानाभावात् सम्बन्धसामान्ये षष्ठी इति समासो भवत्येव — ५.३.५७ द्विवचनविभज्योपपदे तरबीयसुनौ इत्यत्र कैयटः ।
विष्णुसहस्रनाम्नः शाङ्करभाष्यम्
पुरुषाणाम् उत्तमः पुरुषोत्तमः इत्यत्र निर्धारणषष्ठीं स्वीकृत्य अपि समासः अवश्यं सम्भवति । यत्र निर्धारणस्य प्रयोगे जात्यादिकं विहाय अन्यः शब्दः अपि अन्वेति, तत्रैव समासनिषेधः भवति । यथा, “मनुष्याणां क्षत्रियः शूरतमः” इत्यत्र शूरतमः इतो शब्दस्य क्षत्रियः इत्यनेन अन्वयः, अतः अत्र षष्ठीसमासः न सम्भवति । परन्तु “पुरुषाणाम् उत्तमः” इत्यत्र तृतीयं पदं न वर्तते, अतः अत्र समासे न कश्चन दोषः ।
अथवा, “यस्मात् क्षरमतीतोऽहम्…” इति वचनसामर्थ्यात् अत्र “पुरुषात् उत्तमः पुरुषोत्तमः” इति पञ्चमीसमासः अपि स्वीकर्तुं शक्यते ।
२.१.४४ संज्ञायाम् — संज्ञायां विषये सप्तम्यन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति — इति काशिका ।
अतः “पुरुषोत्तम” इति संज्ञां स्वीकृत्य “पुरुषेषु उत्तमः = पुरुषोत्तमः” इति समासः शक्यः — इति केचन ।
परन्तु, तत्रैव अग्रे काशिकाकारः वदति — तेन नित्यसमास एव अयम्, न हि वाक्येन संज्ञा गम्यते ।
२.१.४४ संज्ञायाम् सूत्रेण यदा समासः क्रियते तदा अस्वपदविग्रहः एव भवति — इति काशिकाकारस्य आशयः । परन्तु पुरुषोत्तमः इत्यस्य विग्रहः “पुरुषेषु उत्तमः” इति स्वपदाभ्यां सह एव । अतः अत्र २.१.४४ संज्ञायाम् इति सूत्रेण सप्तमीतत्पुरुषसमासः न सम्भवति ।
२.२.१० न निर्धारणे इत्यत्र तत्त्वबोधिनी — अथ कथं पुरुषोत्तमः इति ? … अन्ये तु — पुरुषेषु उत्तमः इति निर्धारणसप्तम्याः संज्ञायां समासः । तन्मन्दम् । संज्ञायाम् इति समासस्य नित्यत्वेन स्वपदविग्रह-असङ्गतिप्रसङ्गात् । तस्मात् कैयटोक्तसमाधानम् एव समीचीनम् इति नव्याः ।
२.१.४० सप्तमी शौण्डैः — सप्तम्यन्तं शौण्डाऽदिभिः सह समस्यते, तत्पुरुषाश्च समासो भवति — इति काशिका । परन्तु, शौण्डादिगणे अविद्यमानाः अपि अनेके शब्दाः सप्तमीतत्पुरुषसमासे प्रयुक्ताः दृश्यन्ते । यथा, तपःस्वाध्यायनिरतः = तपःस्वाध्यायेषु निरतः । यथाकालोक्तम् = यथाकाले उक्तम् । जलपथः = जले पथः । अतः एतेषु स्थलेषु सप्तमीसमासविधानार्थम् २.१.४० सप्तमी शौण्डैः इत्यस्य योगविभागं कृत्वा, “सप्तमी” इति पृथक् सूत्रं निर्माय “सप्तम्यन्तं समर्थेन सुबन्तेन सह समस्यते” इति तस्य अर्थः क्रियते । एतादृशेन योगविभागेन “पुरुषेषु उत्तमः पुरुषोत्तमः” इति सिद्ध्यति — इति केचन ।
पुरुषश्च असौ उत्तमश्च पुरुषोत्तमः इति कर्मधारयसमासः इति केचन । कर्मधारयसमासे वस्तुतः विशेषणम् पूर्वपदरूपेण प्रयुज्यते, अतः “उत्तमपुरुषः” इति समस्तपदं भवेत् । परन्तु अत्र उत्तमशब्दस्य परनिपातः इष्यते । तदर्थम् २.२.३१ राजदन्तादिषु परम् इत्यत्र निर्दिष्टे राजदन्तादिगणे ‘उत्तम’शब्दस्य समावेशं कृत्वा तस्य परनिपातः साधनीयः इति युक्तिः ।
केचित्तु “उत्तमः पुरुषस्त्वन्यः इति गीतावाक्यात् कर्मधारय एव ; उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात” इत्याहुः — इति २.२.१० न निर्धारणे इत्यत्र बालमनोरमा ।