कु कत्

कु

२.२.१८ कुगतिप्रादयः इति सूत्रेण “कुत्सितः” इत्यस्मिन् अर्थे “कु” इति अव्ययसंज्ञकपूर्वपदेन तत्पुरुषसमासः भवितुम् अर्हति ।

यथा — कुत्सितः (पापी) पुरुषः = कुपुरुषः । कुत्सितः जनः = कुजनः । कुत्सितः मार्गः = कुमार्गः । कुत्सितः देशः = कुदेशः । कुत्सिता दृष्टिः = कुदृष्टिः । कुत्सितः पुत्रः = कुपुत्रः । कुत्सितः ग्रामः = कुग्रामः ।

कदादेशः तत्पुरुषे

अचि

कु इत्यस्मात् अनन्तरम् यदि अजादि उत्तरपदम् विद्यते, तर्हि “६.३.१०१ कोः कत्” तत्पुरुषेऽचि इति सूत्रेण “कु” शब्दस्य “कद्” आदेशः भवति । यथा —‌ कुत्सितम् अन्नम् = कद् + अन्नम् → कदन्नम् । कुत्सितः अश्वः = कदश्वः । कुत्सितः अंशः = कदंशः । कुत्सितः आहारः = कदाहारः । कुत्सिता अम्बा = कदम्बा । कुत्सितः उद्देशः = कदुद्देशः । कुत्सिता ऊर्मिः = कदूर्मिः । कुत्सितः अर्थः = कदर्थः ।

विशिष्टादेशाः

कु इत्यस्मात् अनन्तरम् कानिचन विशिष्टानि उत्तरपदानि विद्यन्ते चेदपि “कु” शब्दस्य “कद्” आदेशः भवति —‌

  • त्रौ च (६.३.१०१ इत्यत्र वार्त्तिकम्) — कुत्सितः त्रयः = कत्त्रयः ।
  • ६.३.१०२ रथवदयोश्च — कुत्सितः रथः कद्रथः । कुत्सितः वदः (वक्ता) = कद्वदः ।
  • ६.३.१०३ तृणे च जातौ — “तृण”शब्दे उत्तरपदे, जातेः निर्देशार्थम् “कु” इत्यस्य “कद्” आदेशः भवति । कत्तृणा नाम जातिः । अन्यत्र तु कुतृणम् इत्येव । कुत्सितम् तृणम् कुतृणम् ।

का पथ्यक्षयोः

कु इत्यस्मात् अनन्तरम् यदि “पथिन्” उत “अक्ष” इति शब्दः विद्यते, तर्हि “६.३.१०४ का पथ्यक्षयोः” इति सूत्रेण “कु” इत्यस्य “का” इति आदेशः भवति । कुत्सितः पन्थाः = कु + पथिन् → कापथः ।

प्रक्रियायाम् “६.४.१४४ नस्तद्धिते” इति टिलोपः, ततः “५.४.७४ ऋक्पूरब्धूःपथामानक्षे” इत्यनेन ‘अ’प्रत्ययः — का + पथ् + अ → कापथ । एवमेव, कुत्सितः अक्षः (इन्द्रियम्) = काक्षः ।

कु इत्यस्मात् अनन्तरम् यदि “पुरुष” इति उत्तरपदं विद्यते, तर्हि “६.३.१०६ विभाषा पुरुषे” इत्यनेन विकल्पेन कु-इत्यस्य का-आदेशः भवति । कुत्सितः पुरुषः कुपुरुषः, कापुरुषः वा । अस्मिन् अर्थ कःपुरुषः इति प्रयोगः तु असाधु ।

बहुव्रीहौ

एते सर्वेऽपि आदेशाः तत्पुरुषसमासस्य विषये एव । बहुव्रीहिसमासस्य विषये एतेषां न प्रसक्तिः । यथा, “कुत्सितः उष्ट्रः अस्य सः” इत्यत्र २.२.२४ अनेकमन्यपदार्थे इत्यत्र विद्यमानेन प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः इति वार्त्तिकेन “कु” इत्यस्य “उष्ट्र” इत्यनेन बहुव्रीहिसमासे कृते “कूष्ट्र” इत्येव शब्दः सिद्ध्यति ।

का पथ्यक्षयोः

“६.३.१०४ का पथ्यक्षयोः” इत्यत्र अक्षिशब्देन बहुव्रीहिर्वा — इति सिद्धान्तकौमुदी । “अक्षिन्” इत्यस्य विषये तु बहुव्रीहिसमासे अपि “का” आदेशः सम्भवति इत्याशयः । यथा, कुत्सिते अक्षिणी यस्य सः = कु + अक्षिन् → काक्षः । प्रक्रियायाम् ६.४.१४४ नस्तद्धिते इति टिलोपः, ततः ५.४.११३ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् इति षच्-प्रत्ययः ।

ईषदर्थे

२.२.१८ कुगतिप्रादयः इत्यत्र प्रायिकं हि इदं वचनम् — इति काशिका ।

केषुचन अन्येषु अपि अर्थेषु “कु” इत्यस्य तत्पुरुषसमासे प्रयोगः भवति इति आशयः । यथा “ईषत्” इत्यस्मिन् अर्थे अपि “कु” इति पूर्वदम् प्रयुक्तं दृश्यते ।

कादेशः

“ईषद्” इत्यस्मिन् अर्थे यत्र “कु” इति शब्दः प्रयुज्यते, तत्र (तत्पुरुषसमासे) सर्वेषु अपि उत्तरपदेषु “कु” इत्यस्य “६.३.१०५ ईषदर्थे” इत्यनेन “का” इति आदेशः भवति । यथा, ईषद् मधुरम् = कामधुरम् । ईषद् लवणम् = कालवणम् । ईषद् आम्लम् = काम्लम् । ईषद् पुरुषः = कापुरुषः । पूर्वम् कुत्सित-शब्दस्य कु-आदेशस्य विषये उक्तः कद्-आदेशः “ईषद्” इत्यस्मिन् सन्दर्भे नैव प्रवर्तते ।

कवं चोष्णे

यदि “उष्ण” इति शब्दः उत्तरपदरूपेण विद्यते, तर्हि “ईषद्” इत्यस्मिन् अर्थे प्रयुक्तस्य “कु” शब्दस्य “६.३.१०७ कवं चोष्णे” इत्यनेन विकल्पेन “कव” आदेशः भवति । पक्षे “का”, “कद्” एतौ आदेशौ अपि भवतः । ईषदुष्णम् = कोष्णम्, कवोष्णम्, कदुष्णम् ।

सङ्क्षेपः

कुत्सितम् इत्यस्मिन् अर्थे तत्पुरुषसमासे कु-शब्दस्य भिन्नाः आदेशाः —

  • अजादौ उत्तरपदे “कद्” आदेशः — कदन्नम्, कदश्वः ।

  • विशिष्टेषु उत्तरपदेषु “कद्” आदेशः — कत्त्रयः, कद्रथः, कद्वदः, कतृणा जातिः ।

  • विशिष्टयोः उत्तरपदयोः “का” आदेशः — कापथः, काक्षः ।

    • बहुव्रीहिसमासे अक्षिन् इति उत्तरपदे अपि का-आदेशः —काक्षः ।
    • “पुरुष” इति उत्तरपदे विकल्पेन “का” आदेशः — कापुरुषः, कुपुरुषः ।
  • ईषद् इत्यस्मिन् अर्थे तत्पुरुषसमासे सर्वत्र “कु” इत्यस्य “का” इति आदेशः भवति ।

    • कामधुरम् । कालवणम् । काम्लम् । कोष्णम् । कापुरुषः ।
    • “उष्णम्” इति उत्तरपदे “कद्”, “का”, “कव” एते आदेशाः - कदुष्णम्, कोष्णम्, कवोष्णम् ।

किम्

“२.१.६४ किं क्षेपे” इति सूत्रेण “क्षेपः” (निन्दा / कुत्सा) इत्यस्य निर्देशार्थम् “किम्” इति पूर्वपदेन सह समासः भवति ।

किम् इत्येतत् क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति‌ —‌इति काशिका ।

  • कुत्सितः / निन्दितः राजा = किम् + राजन् → किंराजा । अत्र ५.४.९१ राजाहस्सखिभ्यष्टच् इति टच्-प्रत्यये प्राप्ते “५.४.७० किमः क्षेपे” इति सः निषिध्यते ।
  • कुत्सितः सखा = किम् + सखि‌ → किंसखा ।
    • “७.१.९३ अनङ् सौ” इत्यनेन अनङ्-आदेशे कृते रूपसिद्धिः ।
    • अत्र ५.४.९१ राजाहस्सखिभ्यष्टच् इति टच्-प्रत्यये प्राप्ते “५.४.७० किमः क्षेपे” इति सः निषिध्यते ।
  • कुत्सितः गौः = किम् + गो → किंगौः ।