Source: TW
“कतिपय” इति शब्दः [[२२३]]
कतिपय (some, several) इति शब्दः केवलम् जस्-प्रत्यये परे १.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इति सूत्रेण विकल्पेन सर्वनामसंज्ञकः भवति, अतः अस्य कतिपयाः, कतिपये इति द्वे रूपे भवतः ।
२.१.६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः इति सूत्रेण जातिवाचकशब्देन सह “कतिपय” इति शब्दस्य समासः सम्भवति । प्रक्रियायाम् जातिवाचकशब्दस्य १.२.४३ प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति, अतः २.२.३० उपसर्जनं पूर्वम् इत्यनेन समस्तपदे तस्य पूर्वनिपातः क्रियते ।
कतिपयम् उदश्वित् (some buttermilk) = उदश्वित्कतिपयम् ।
कतिपय इति शब्दः समासे उत्तरपदरूपेणैव विधीयते इत्याशयः ।
कतिपय इति शब्दः विशेषणत्वेन समासं विना अपि प्रयुक्तः दृश्यते । यथा —
वर्णैः कतिपयैः ग्रथितस्य स्वरैः इव — शिशुपालवधे ।
परिष्कुर्वन्त्यर्थान् सहृदयधुरिणः कतिपये — रसगङ्गाधरे ।
तथास्य कतिपये संवत्सराश्चन्द्रदीपतपोवने तपस्तप्यनमानस्य — उत्तररामचरिते ।
कतिपय इति शब्दः बहुषु स्थलेषु समासे पूर्वपदरूपेण अपि प्रयुक्तः दृश्यते !
सम्पत्स्यन्ते कतिपयदिनस्थायिहंसाः दशार्णाः — मेघदूते २५
कतिपयसुरस्वाम्ये पुंसां क एष मदनज्वरः — वैराग्यशतके २३
कतिपयकुसुमोद्गमः कदम्बः — उत्तररामचरिते ३.२०
अतः समासे कतिपयशब्दस्य पूर्वनिपातः अपि सम्भवति इति सिद्धम् ।
तत्कथमिति चेत् —
पोटायुवतिस्तोककतिपय… इत्यादिसूत्रेण समासे कतिपयशब्दस्य उत्तरपदत्वविधानात्
दिनकतिपय इति वक्तव्ये
प्रायिकत्वात् न उक्तम्;
कतिपयसुरस्वाम्ये इति हरिवचनाच्च — मेघदूतस्य विद्युल्लता टीका ।
कतिपयदिनम् इति राजदन्तादित्वात् साधु इत्याहुः — मेघदूतस्य सुबोधटीका ।
अद्रव्यवाचित्वे कतिपयशब्दात् वा करणे पञ्चमी । कतिपयेन मुक्तः, कतिपयात् वा मुक्तः । समासे तत्र पञ्चम्याः अलुक् । द्रव्यपरत्वे तु कतिपयेन विषेण मुक्तः ।
वाचस्पत्यम्
अत्र वाचस्पत्यकारः द्रव्यभिन्नस्थलेषु पञ्चमीसमासे पूर्वनिपातम् उक्त्वा पञ्चम्याः अलुकं वर्णयति; द्रव्यविषये तु समासः नैव भवति इति स्पष्टीकरोति । परन्तु “कतिपयकुसुमोद्गमः” इत्यत्र तु द्रव्यपरकत्वे अपि समासः । अतः इदं मतम् सार्वत्रिकं न इति भाति ।