Source: TW
इव शब्देन सह समासः
२८५
इवेन समासः विभक्त्यलोपश्च — २.४.७१ सुपो धातुप्रातिपदिकयोः इत्यत्र सिद्धान्तकौमुद्यां वार्त्तिकम् ।
“इवेन समासः विभक्त्यलोपश्च, पूर्वपदप्रकृतिस्वरत्वं च”
— २.१.४ सह सुपा
इत्यत्र महाभाष्यम् ।
इव इति शब्देन सह यदा समासः भवति, तदा पूर्वपदस्य विभक्तेः लोपः न भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —
जीमूतस्येव भवति प्रतीकं (ऋग्वेदे ६.७५.१)
अत्र “जीमूतस्य + इव” इति पदद्वयं न, अपितु “जीमूतस्येव” इति एकमेव पदम् । अत्र समस्तपदे कृते अपि “जीमूतस्य” इत्यत्र विभक्तिलोपः न भवति ।
+++(पदपाठे जी॒मूत॑स्यऽइव इत्य् अभिन्नम् इव निर्विरामं दत्तम्।)+++
वागर्थाविव सम्पृक्तौ (रघुवंशे १.१) अत्र “वागर्थौ + इव” इति द्वे भिन्ने पदे न, अपितु “वागर्थाविव” इति एकमेव पदम् । अत्रापि “वागर्थौ” इत्यत्र विभक्तिलोपः न भवति ।
वस्तुतः एतेषु उदाहरणेषु यदि समासः न स्वीक्रियते (केवलं द्वयोः पदयोः सन्धिः भवति इति स्वीक्रियते)
तर्हि कः दोषः भवेत् इति न कुत्रचित् स्पष्टीकृतम् ।
तथापि, व्याख्यानबलात् अत्र समासः स्वीक्रियते ।+++(5)+++
इवेन समासः विभक्त्यलोपश्च
इति वार्त्तिकेन विहितः समासः नित्यसमासः
इति वागर्थाविव इत्यस्य व्याख्याने रघुवंशे १.१ इत्यत्र मल्लिनाथः स्पष्टीकरोति —
वागर्थाविव इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम् इति नित्यसमासविभक्त्यलोपौ । नित्यसमासत्वात् अत्र अस्वपदविग्रहः । अतः “वागर्थौ इव” इति विग्रहः न करणीयः इत्याशयः । परन्तु, तत्रैव तृतीये श्लोके “उद्बाहुरिव वामनः” इत्यत्र “वामनः इव” इति पदद्वयम् कालिदासेन स्थापितम् । यदि इवेन सह नित्यसमासः स्यात्, तर्हि “वामनः इव” इति स्वपदविग्रहः न सम्भवति । किञ्च, अस्मिन् विषये मल्लिनाथः किमपि न स्पष्टी करोति । अतः, “इवेन सह नित्यसमासः” इति मल्लिनाथस्य नित्यसमासविषयकं मतं प्रामादिकम् एव ।
क्वाचित्कता लोके वेदे च
इवेन समासः विभक्त्यलोपश्च इति वार्त्तिकम् केवलं वैदिकप्रयोगार्थम् — इति केचन वदन्ति । परन्तु “वागर्थाविव” इत्यत्र मल्लिनाथेन अस्य समासस्य स्वीकारः कृतः, अतः तद् मतम् अपि चिन्त्यम् । नो चेत्, मल्लिनाथस्य समासविषयकं विधानं प्रामादिकम् ।
इवेन समासः विभक्त्यलोपश्च इति वार्त्तिकेन विहितः समासः वेदेषु नित्यसमासः, लोके तु अनित्यसमासः — इति अपरं मतम् । परन्तु, यजुर्वेदे “जीमूतस्य इव” इति व्यस्तप्रयोगः एव दृश्यते । अतः एतत् मतम् अपि अपास्तम् ।+++(4)+++
२.४.७१ सुपो धातुप्रातिपदिकयोः इत्यत्र प्रौढमनोरमा — इवेनेति। अयमपि समासः पूर्ववत् क्वाचित्क एव। तेन ‘जीमूतस्येव’ इत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः, ‘उद्बाहुरिव वामनः’ इत्यादौ व्यस्तप्रयोगोऽपि सङ्गच्छते ।
यत्र इव इति शब्देन सादृश्यम् उच्यते,
तत्र उपमान-उपमेययोः समाना एव विभक्तिः भवति ।
अयं विषयः भाषापाकः-प्रथमः इत्यत्र द्वादशे वर्गे (पुस्तकस्य ३७ तमे अध्याये) चर्चितः अस्ति । PDF Video
मातेव
हरीतकीं भुङ्क्ष्व राजन्
मातेव हितकारिणीम्
इत्यत्र तु मातरमिवेति भवितव्यम् — २.४.७१ सुपो धातुप्रातिपदिकयोः इत्यत्र बालमनोरमा ।
हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणीम्
इत्यत्र मातेव इति प्रथमा अनुपपन्ना ।
मातरमिव इति तु युक्तम् । उपमानोपमेययोः समानविभक्तिकत्वनियमात् — इति शब्दापशब्दविवेके चारुदेवशास्त्रिणः ।