अन्त

“अन्तर्” इति अव्ययम्

अन्तर् इति रेफान्तम् अव्ययम् ।
खर्-वर्णे परे, अवसाने वा परे रेफस्य
८.३.१५ खरवसानयोर्विसर्जनीयः इत्यनेन
विसर्गादेशे कृते “अन्तः” इति शब्दः सिद्ध्यति ।

अन्तर्भागे

“मध्ये / अन्तर्भागे” इत्यस्मिन् अर्थे (अधिकरणे) अयं शब्दः उपयुज्यते ।
यथा — साधुः वनस्य अन्तः (मध्ये) तपति । छात्राः प्रकोष्ठस्य अन्तः (अन्तर्भागे) सन्ति ।
अयं शब्दः २.१.४० सप्तमी शौण्डैः इत्यत्र निर्दिष्टे शौण्डादिगणे पाठितः अस्ति ।
अतः अस्य शब्दस्य प्रयोगेण सप्तमीतत्पुरुषसमासः सिद्ध्यति । यथा, वने अन्तः = वनान्तः ।

सप्तम्यर्थे

सम्बन्धविवक्षायाम् २.२.८ षष्ठी
इत्यनेन षष्ठीतत्पुरुषसमासः अपि सिद्ध्यति ।
यथा, वनस्य अन्तः = वनान्तः (inside the forest) ।

“अन्तर् गृहम्” इत्यस्य समस्त-पदस्य द्वाभ्यां प्रकाराभ्याम् विग्रहः सम्भवति —
“गृहे” इत्यस्मिन् अर्थे
२.१.६‌ अव्ययं विभक्तिसमीप… इत्यनेन सूत्रेण विभक्यर्थे अव्ययीभावसमासः सम्भवति ।
गृहे इत्येव अन्तर्गृहम् ।
अत्र “अन्तर्” इति अव्ययम् पूर्वपदरूपेण स्वीकृतम् ।
अधिकरणवाची अन्तर्-शब्दः अयम् ।
अधिकरणे अर्थे प्रयुक्तः इत्याशयः ।

अभ्यन्तरस्थम्

“अन्तः (= अभ्यन्तरस्थं / मध्ये स्थितं) गृहम्”
इत्यस्मिन् अर्थे २.१.५७ विशेषणं विशेष्यण बहुलम् इत्यनेन कर्मधारयसमासः ।
अत्र तद्वत्ववाची अन्तर्-शब्दः इत्याशयः ।
अन्तः (मध्ये स्थितं) गृहम् = अन्तर्गृहम् (inner chamber of the house) ।
एवमेव, अन्तःपुरम्, अन्तःकरणम्, अन्तःकलहः, अन्ताराष्ट्रीयः — इति शब्दाः अपि सिद्ध्यति ।

उपसर्गसंज्ञा

“अन्तर्” इति अव्ययस्य उपसर्गसंज्ञा
अन्तर् इति अव्ययस्य
“अन्तःशब्दस्य अङ्कि-विधि-णत्वेषु उपसर्गसंज्ञा वक्तव्या” इति वार्त्तिकेन विशिष्टेषु सन्दर्भेषु उपसर्गसंज्ञा भवति ।
अस्मिन् सन्दर्भे ३.३.१०६ आतश्चोपसर्गे इत्यत्र
श्रद्-अन्तरोः उपसर्गवद् वृत्तिः इति वार्त्तिकं कौमुद्यां दीयते ।

अन्तर् + धा + अङ् → अन्तर्धा । ३.३.१०६ आतश्चोपसर्गे इति सूत्रेण अङ्-प्रत्ययः ।
अन्तर् + धा + कि → अन्तर्धि । ३.३.९२ उपसर्गे घोः किः इति सूत्रेण कि-प्रत्ययः ।
अन्तर् + नयति → अन्तर्णयति । ८.४.१४ उपसर्गादसमासेऽपि णोपदेशस्य इति णत्वम् ।

गति-संज्ञा

अन्तर् इति अव्ययस्य १.४.६५ अन्तरपरिग्रहे
इति सूत्रेण गतिसंज्ञा अपि भवति,
अतः च तस्य धातुभ्यः प्राक् प्रयोगः सम्भवति —
यथा, अन्तर्भवति, अन्तर्धानम् आदयः ।

अत्र अङ्/कि/णत्वविधिः नास्ति अतः अत्र उपसर्गसंज्ञा नैव क्रियते, परन्तु गतिसंज्ञा अवश्यं क्रियते ।
गतिसंज्ञायां सत्याम् २.२.१८‌ कुगतिप्रादयः इति उपपदसमासः अपि सम्भवति, अतः ७.१.३७ समासेऽनञ्पूर्वे क्त्वो ल्यप् इति क्त्वा-प्रत्ययस्य ल्यबादेशे कृते “अन्तर्हत्य”, “अन्तर्भूय” इति शब्दाः अपि सिद्ध्यन्ति ।

“अन्त” इति अकारान्तः शब्दः

अन्त इति कश्चन अकारान्तपुंलिङ्गः / अकारान्तनपुंसकलिङ्गः शब्दः । अस्य पुंलिङ्गे प्रथमैकवचनम् अपि “अन्तः” इत्येव । मरणम्, नाशः, अत्ययः, सीमा, चरमम्, अन्त्यम् इत्येतेषु अर्थेषु अस्य प्रयोगः भवति । वनस्य अन्तः वनान्तः (end of forest), दिनस्य अन्तः दिनान्तः, युगस्य अन्तः युगान्तः, इति उदाहरणानि । अन्तं स्वरूपे नाशे ना, न स्त्री शेषेऽन्तिके त्रिषु — इति मेदिनीकोशः । स्वरूपे, यथा — मृदुलतान्तलतान्तमलोकयत्‌ स सुरभि सुरभिं सुमनोभरैः— इति वसन्तसमयवर्णनसमये शिशुपालवधे माघः । नाशे, यथा — वैरस्यान्तं गमिष्यामि हत्वा वा दुःखभागहम् — इति रामायणे युद्धकाण्डे । अन्तिके (समीपे), यथा — सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् — महाभारते शान्तिपर्वणि । अन्त इति शब्दः अवयवार्थे अपि प्रयुज्यते इति हैमः । यथा, अनेकान्ताः अनुबन्धाः इति काचित् व्याकरणपरिभाषा । “मध्यः / अन्तर्भागः” अस्मिन् अर्थे “अन्त” इति अकारान्तः शब्दः नैव साधु । “वनस्य मध्ये आगच्छ” इत्यस्मिन् अर्थे वनस्य अन्ते आगच्छ इति न प्रयोक्तव्यम्, अपि तु “अन्तर्” इति अव्ययम् उपयुज्य वनस्य अन्तः आगच्छ इति वक्तव्यम् ।