Source: TW
प्रणम्य शब्दस्य योगे चतुर्थी
प्र + नम् इति धातुः सकर्मकः । यम् उद्दिश्य प्रणामः क्रियते तस्य कर्मपदम् । अतः भक्तः देवं प्रणमति इति साधु प्रयोगः । एवमेव, प्रणम्य इति शब्दस्य योगे अपि कर्मपदस्य द्वितीया । प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् … ।
परन्तु, प्र + नम् इत्यस्य योगे कुत्रचित् कर्मपदस्य चतुर्थी विभक्तिः अपि दृश्यते । यथा, देवाय प्रणमति । कालिदासेन अपि कुमारसम्भवे एतादृशः प्रयोगः कृतः अस्ति —
कुमारसम्भवम्, ६.८१
दुर्घटवृत्तौ २.३.१६ नमःस्वस्तिस्वाहा… इत्यत्र
(१) क्रियाग्रहणं कर्तव्यम् — शिवाय शितिकण्ठाय प्रणम्य इत्यत्र आदौ अनुकूलयितुम् इति तुमन्तं पदम् वाक्ये अध्याह्रियते । अनुकूलयितुम् प्रणम्य इत्याशयः । ततः अनुकूलयितुम् इत्यस्य कर्मपदरूपेण “शिव” शब्दः स्वीक्रियते । तत्र २.३.२ कर्मणि द्वितीया इत्यनेन द्वितीयायां प्राप्तायाम्, तदपवादत्वेन २.३.१४ क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति सूत्रेण चतुर्थी भवति । अतः “शिवाय प्रणम्य” इति साधुवाक्यं सिद्ध्यति । एवमेव, देवाय प्रणमति = देवम् अनुकूलयितुम् प्रणमति इति अर्थः ।
यत्र काचित् क्रियार्था क्रिया वर्तते परन्तु तस्याः निर्देशार्थम् तुमुन्-प्रत्ययान्तशब्दः प्रयुक्तः नास्ति; तत्र अनुपस्थितस्य तुमुन्-प्रत्ययान्तशब्दस्य कर्मपदस्य वाक्ये चतुर्थी विभक्तिः भवति — इति आशयः ।
क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि — इति सिद्धान्तकौमुदी ।
(२) प्रणम्य इति निपातः नमःपर्यायः । प्रणम्य इति शब्दः नमः इत्यस्य पर्यायरूपेण स्वीकृत्य २.३.१६ नमः स्वस्तिस्वाहा… इत्यनेन चतुर्थी भवति इत्याशयः । शिवाय प्रणम्य = शिवाय नमः । परन्तु इयं युक्तिः केनापि अन्येन न पुरस्कृता ।