कौरव्य पाण्ड्य

Source: TW

‘कौरव्य’, “पाण्ड्य” इति शब्दौ
[[२३३]]

कुरवः

कुरु इति शब्दात् “तस्य अपत्यम्” अस्मिन् अर्थे ४.१.१७२ कुरुनादिभ्यो ण्यः इति सूत्रेण ण्य इति प्रत्यये कृते कौरव्य इति शब्दः सिद्ध्यति । कुरु + ण्य → कौरव्य ।

पाण्डु इति शब्दात् तस्य अपत्यम् अस्मिन् अर्थे पाण्डोर्ड्यण् इति वार्त्तिकेन ड्यण् इति प्रत्यये कृते पाण्ड्य इति शब्दः सिद्ध्यति । पाण्डु + ड्यण् → पाण्ड्य ।+++(5)+++

ण्य, ड्यण् इत्येतयोः प्रत्यययोः तद्राज इति संज्ञा दीयते ।

तद्-राज-प्रत्ययान्त-शब्दस्य यदा बहुवचने प्रयोगः भवति;
तदा तत्र २.४.६२ “तद्राजस्य बहुषु तेनैवास्त्रियाम्” इति सूत्रेण तद्राजप्रत्ययस्य लोपः भवति; अतः बहुवचनस्य रूपम् मूलशब्दसदृशम् एव भवति !+++(5)+++

कौरव्यः कौरव्यौ कुरवः
कौरव्यम् कौरव्यौ कुरून्
कौरव्येण कौरव्याभ्याम् कुरुभिः । …

कुरवः गच्छन्ति इति साधुवाक्यम् ।+++(5)+++
कौरव्याः गच्छन्ति इति असाधु ।+++(5)+++

पाण्ड्यः पाण्ड्यौ पाण्डवः
पाण्ड्यम् पाण्ड्यौ पाण्डून्
पाण्ड्येन पाण्ड्याभ्याम् पाण्डुभिः । …

पाण्डवः गच्छन्ति इति साधु ।
पाण्ड्याः गच्छन्ति इति असाधु ।

9

‘कौरव्य’, “पाण्ड्य” इति शब्दौ

सिद्धान्तकौमुदी, बालमनोरमासहिता

कौरव्याः पशवः इति प्रयोगः वेणीसंहारे विद्यते ।
रघोः पाण्ड्याः इति प्रयोगः रघुवंशे कृतः अस्ति ।
एतादृशानां प्रयोगाणां साधुत्वं
“स्थितस्य गतिः चिन्तनीया” इति नियमेन कथञ्चित् वक्तव्यम् ।
तदर्थम् कौरव्ये साधुः / पाण्ड्ये साधुः इति वृत्त्या
एताभ्यां शब्दाभ्याम् ४.४.९८ तत्र साधुः इति सूत्रेण “यत्” इति प्रत्ययः विधीयते;
येन कौरव्य / पाण्ड्य + यत् → कौरव्य / पाण्ड्य” इति शब्दौ सिद्ध्यतः ।
एतौ तद्राजप्रत्ययान्तौ शब्दौ न, अतः अनयोः बहुवचनम् अवश्यम् “कौरव्याः / पाण्ड्याः” इति भवति ।

दुर्घटवृत्तिः ४.१.१५१ कुर्वादिभ्यो णः इति सूत्रेण कुरु इति शब्दात् कश्चन भिन्नः ण्य-प्रत्ययः अपि विधीयते । सः तद्राजसंज्ञकः नास्ति; अतः तस्य बहुवचने लोपः न भवति । अतएव तत्र काशिकाकारः — कुरुनादिभ्यो ण्यः ४.१.१७२ इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति; स तु क्षत्रियात् तद्राजसंज्ञकः । तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयते एव; कौरव्याः” इति स्पष्टीकरोति ।